भारतकोश
संग्रह पर लौटें

कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)

Kamakalavilasa of Punyanandanatha with Chidvalli Commentary

पुण्यानन्दनाथ द्वारा

DevanagariHindipublished56 पृष्ठ

श्रीमत्पुण्यानन्दाचार्यविरचितः ४१ स्वात्मभेदबन्धन इच्छाशक्तिस्वरूपः, अङ्कुशः स्वरूपभेददल- नोपायात्मकः ज्ञानशक्तिमयः, इक्षुचाप-पुष्पेषुरूपके स्वाभि- न्नाकारावर्जसाधनभूतक्रियाशक्तिस्वरूपे । अयमर्थः इच्छा- ज्ञान-क्रियाशक्तय एव तदाज्ञया पाशादिस्वरूपम् आपन्नाः तदुपासनम् आचरन्ति इत्यर्थः । तथा च ‘ इच्छाशक्तिमयं पाशं ज्ञानमङ्कुशरूपिणम् । क्रियाशक्तिमये बाणधनुषी दधदुज्ज्वलम् ॥ ’ इति ॥ ३६ ॥ ३७ ॥ ३८ ॥ एतदेव दिव्यमिथुनं, दिव्यसिद्धाः – अविशेषभेदभिन्नगुरु- मण्डलस्वरूपम् उपासत इत्याह तन्मिथुनं गुणभेदाद्- आस्ते बिन्दुत्रयात्मके त्र्यश्रे । कामेश्वरिमित्रेश्वरि- प्रमुखद्वन्द्वत्रयात्मना विततम् ॥३९॥ तन्मिथुनं, तत्-सर्वातीतत्वेन सर्वोपनिषत्प्रसिद्धं कामका- मेश्वरीरूपम् । अयमर्थः – परमात्मा हि स्वात्मानमेव स्त्रीपुंस- मयं कृत्वा मिथुनरूपेण विहरते । प्रकाशविमर्शात्मना मिथुनी- 6

४२ कामकलाविलासः भूतः परमशिव एव सकलतन्त्रं समवतारयत्, इति । एवं च तत् मिथुनं कामकामेश्वरीरूपं - मित्रेश्वरी श्रीमदूर्ध्वदीपनाथः, वज्रेश्वरी ज्येष्ठनाथः, भगमालिनी मित्रदेवनाथः, एवमादि- मिथुनत्रयात्मना दिव्य-सिद्ध-मानवौघादिक्रमरूपेण विततं मिथुनत्रयं विसृतमित्यर्थः ॥ ३९ ॥ इतः परम् आवरणदेवतास्वरूपभावौ वर्णयति । वसुकोणनिवासिन्यो यास्ताः संध्यारुणा वशिन्याद्याः । पुर्यष्टकमेवेदं चक्रतनोः संविदात्मनो देव्याः ॥४०॥ वसुकोणनिवासिन्यः - सर्वरोगहराख्यचक्रनिवासशीलाः या वशिन्याद्या अष्ट शक्तयः पूर्णाहंभावानन्ददानसमर्थाः, कथमत्र रोगहरत्वं नाम पूर्णाहंभावप्रदत्वमेव 'अपूर्णमन्यता व्याधिः कार्पण्यैकनिधानभूः । ' इत्युक्तेः । एवं-भूताः ताः संध्यारुणाः अरुणाकारा भासन्ते इत्यर्थः । अत एव इदमष्टकोणचक्रं, संविदात्मनः - संवित् ज्ञानमेव आत्मा स्वरूपं यस्याः सा

श्रीमत्पुण्यानन्दाचार्यविरचितः ४३ ‘ सत्यं ज्ञानमनन्तम् ’ इति श्रुतेः ‘ स्वसंविन्त्रिपुरा देवी……………।’, इत्यागमाच्च, देव्याः ‘ बहु स्यां प्रजायेय ’ इति विहरणस्वभावायाः, श्रीचक्रतनोः – चक्रात्मिकायाः सूक्ष्मपुर्यष्टकशरीरम् इत्यर्थः ॥ ४० ॥ तद्विषयवृत्तयस्ताः सर्वज्ञादिस्वरूपमापन्नाः । अन्तर्दशारनिलया लसन्ति शरदिन्दुसुन्दराकाराः ॥४१॥ तद्विषयवृत्तयः – वसुकोणनिकटवासिन्यः, ताः – वस्त्रा- द्यात्मरूपरक्षणधारित्वेन प्रसिद्धाः, सर्वज्ञादिशक्तिदशकरूपं प्राप्ताः, अन्तर्दशारनिलयाः-सर्वरक्षाकराभिधेयचक्रसमारूढाः निगर्भयोगिन्यः, शरदिन्दुसुन्दराकाराः – स्वप्रकाशधवलाकृ- तयो लसन्ति – प्रकाशन्ते ॥ ४१ ॥

४४ कामकलाविलासः तद्वाह्यपङ्क्तिकोणेषु योगिन्यः सर्वसिद्धिदाः पूर्वाः । देवीधीकर्मेन्द्रिय- विषयमय्यो विशदवेशभूषाढ्याः ॥४२॥ तद्वाह्यपङ्क्तिकोणेषु तस्य सर्वरक्षाकरचक्रस्य बाह्यभूतेषु उपरिस्थितेषु पङ्क्तिकोणेषु सर्वार्थसाधके चक्रे तस्य कोणात्मक- त्वात् स्थिताः, योगिन्यः कुलकौलनामधेयाः, सर्वसिद्धिदाः, पूर्वाः - सर्वसिद्धिप्रमुखा दश शक्तयः, देवीधीकर्मेन्द्रियविषय- मय्यः - देव्यास्त्रिपुरायाः धीकर्मेन्द्रियाणि तेषां विषयास्तन्म- य्यस्तत्स्वरूपाः, विशदवेशभूषाढ्याः - विशदाः शुभ्राकारा वेशाश्च भूषाश्च तैराढ्याः । अयमर्थः - मन्त्रदेवतात्माभेदरूप- सिद्धिदायिन्यः स्वच्छाकृतयः शुभ्राभरणा भान्ते इत्यर्थः ॥ ४२ ॥ भुवनारचक्रभवना देवीमनुकरणविवरणस्फुरणाः । संध्यासवर्णवसनाः संचिन्त्याः संप्रदाययोगिन्यः ॥ ४३ ॥

श्रीमत्पुण्यानन्दाचार्यविरचितः ४५ भुवनारचक्रं सर्वसौभाग्यदायकं चक्रं भवनम् आवास- स्थानं यासां ताः, देवीमनुकरणानि - चतुर्दशकरणानि, ज्ञाने- न्द्रियाणि पञ्च, कर्मेन्द्रियाणि पञ्च, मनोबुद्ध्यहंकारचित्ता- ख्यानि चत्वारि तेषां विवरणं व्याख्यानभूतं स्फुरणं चतुर्द- शाररूपं यासां ताः, देवी तु स्वयमेव चतुर्दशकरणात्मकचतुर्द- शारचक्रदेवतात्मना स्थिता इत्यर्थः । संध्यायाः सवर्णं सदृशं वसनं वस्त्रं यासां ताः, संप्रदाययोगिन्यः आदिशक्तिमयत्वेन सत्संप्रदायवेद्याः सर्वसंक्षोभिणीप्रभृतयः, संचिन्त्याः सम्यक् भावनीयाः ॥ ४३ ॥ अव्यक्तमहदहंकृति- तन्मात्राभीष्टविकृताङ्गनाकाराः । द्विरदच्छदनसरोजे जयन्ति गुप्ततरयोगिनीसंज्ञाः ॥ ४४ ॥ अव्यक्तम् अव्यक्ताख्यं तत्त्वं, महत्तत्त्वम् , अहंकृतिः अहं- कारतत्त्वं, तन्मात्राः पृथिव्यादिभूततन्मात्राः पञ्च, संहत्य तु अष्ट, एतैरभीष्टं स्वीकृतमाकारं स्वरूपं यासां ताः - देव्या- त्मिका इत्यर्थः, । गुप्ततरयोगिनीसंज्ञाः भूतदेव्या अत्यन्तान्त-

४६ कामकलाविलासः रङ्गभूतत्वात् एतासामनङ्गकुसुमादीनां गुप्ततरेति संज्ञा । द्विरदच्छदनसरोजे सर्वसंक्षोभणाख्याष्टदलपद्मे, जयन्ति सर्वो- त्कर्षेण वर्तन्ते ॥ ४४ ॥ भूतानीन्द्रियदशकं मनश्च देव्या विकारषोडशकम् । कामाकर्षिण्यादि- स्वरूपतः षोडशारमध्यास्ते ॥ ४५ ॥ भूतानि पृथिव्यादीनि, इन्द्रियदशकं, मनश्च, षोडशारं - सर्वाशापरिपूरकनामधेयं चक्रं, कामाकर्पण्यादिस्वरूपतः - कामाकर्पिण्यादिषोडशशक्त्याकारेण, अध्यास्ते अधितिष्ठति । सर्वाशापरिपूरके चक्रे एताः कामाकर्पण्यादिगुप्तयोगिन्यः सर्वात्मिका निवसन्ति इत्यर्थः ॥ ४५ ॥ मुद्रास्त्रिखण्डया सह संविन्मध्यः समुच्छ्रिताः सर्वाः । आदिमहीगृहवासा भासा बालार्ककान्तिभिः सदृशाः॥४६॥

श्रीमत्पुण्यानन्दाचार्यविरचितः ४७ आधारनवकस्था नवचक्रत्वेन परिणतिं याताः । नवनाथशक्तयोऽपि च मुद्राकारेण ताश्चक्रे ॥ ४७ ॥ त्रिखण्डया सह त्रिखण्डाख्यमुद्रया साकं, समुच्छ्रिताः सम्यक् उच्छ्रिताः -- सर्वोत्कर्षेण वर्तमानाः, आदिमहीगृह- वासाः - आदिमचतुरश्रनिलयाः, भासा कान्त्या, बालार्क- कान्तिभिः तरुणारुणरुचिभिः, सदृशाः तुल्याः, संविन्मय्यः चिद्धननिष्ठा इत्यर्थः । एतास्तु मुद्राः चतुरश्रादिबैन्दवान्त- नवचक्राधिष्ठाननायिका इति परमशिवेन प्रपञ्चिताः । एतदेव विवृणोति आधारेत्यादि, आधारनवकं - मूलाधार-स्वाधि- ष्ठान-मणिपूरकानाहत-भ्रूमध्य-विशुद्धि-लम्बिकाज्ञा-बिन्दुरूपं यस्या उपासकरूपिण्याः संबन्धि, येन हेतुना नवचक्रत्वेन बैन्दवात्मना परिणतेन आकारेण, नवनाथशक्तयः नवमुद्रा- कारेण, परिणता जाता इत्यर्थः ॥ ४६ ॥ ४७ ॥ *मोचयन्ति ग्रहादिभ्यः पाशौघान्द्रावयन्ति च । मोचनं द्रावणं यस्मान्मुद्रास्ताः परिकीर्तिताः ॥

४८ कामकालाविलासः अस्यास्त्वगादिसप्तक- माकारश्चैवमष्टकं स्पष्टम् । ब्राह्म्यादिमातृरूपं मध्यमभूबिम्बमेतदध्यास्ते ॥ ४८ ॥ अस्या देव्याः, त्वगादिसप्तकं – त्वगादिसप्तधातवः, आकारः स्वरूपं च, एवं-रूपमष्टकं – ब्राह्म्यादिमातृरूपं – ब्राह्म्याद्यष्टश- क्तिस्वरूपं दधत् , मध्यमचतुरश्रे निवसति इत्यर्थः ॥ ४८ ॥ अणिमादिभूतयोऽस्याः स्वीकृतकमनीयकामिनीरूपाः । विद्यान्तरगुणभावेन फलभूता भूनिकेतनगाः ॥ ४९ ॥ अस्याः परमेश्वर्याः, अणिमाद्यष्टशक्तयः, विद्यान्तराणां हठयोगादीनां स्वीकृतानि कमनीयानि मनोहराणि कामिनी- रूपाणि याभिस्ताः एवं-भूताः । गुणभावेन उपसर्जनीभावेन, भूनिकेतनगाः – सर्वान्तचतुरश्रे तिष्ठन्ति इत्यर्थः ॥ ४९ ॥

श्रीमत्पुण्यानन्दाचार्यविरचितः ४९ इत उत्तरं गुरुक्रमो गदितः इत्यन्तेन श्लोकपञ्चकेन परम- शिवान्तगुरुमन्त्रं शिष्यानुजिघृक्षया प्रतिपादयितु परमानन्दानुभवः परमगुरुनिर्विशेषबिन्दात्मा । स पुनः क्रमेणाभिन्नः कामेशत्वं ययौ चिद्विमर्शरूपम्॥५०॥ परमः सर्वोत्कृष्टः, आनन्दः परिपूर्णांहंभावरूपोऽनुभवः ज्ञानं यस्य, परमगुरुरित्यादि – परमगुरुरादिनाथः परमशिवः, तस्मात् आदिनाथात् निर्विशेषः अभिन्नो, बिन्दुः पूर्वोक्तका- मकलारूपः स आत्मा स्वरूपं यस्य, ............................................ .......................................................................................... .......................................................................................... आसीनः श्रीपीठे कृतयुगकाले गुरुः शिवो विद्याम् । तस्यै ददौ स्वशक्त्यै कामेश्वर्यै विमर्शरूपिण्यै ॥ ५१ ॥ 4

५० कामकलाविलासः सापीशा मित्रेश- मुख्यान्स्वांशाञ्ज्येष्ठमध्यमालाख्यान् । चित्प्राणविषयरूपां- स्त्रेतादियुगादिकारणत्रिगुरून् ॥ ५२ ॥ ——— बीजत्रितयाधिपतीन् परीक्ष्य विद्यां प्रकाशयामास । एतैरौघत्रितयम् अनुग्रहीतुं गुरुक्रमो गदितः ॥ ५३ ॥ ——— उदितः पुण्यानन्दा- दिति कामकलाङ्गनाविलासोऽयम् । परमशिवभुजङ्गपाशा- कर्षितचित्ताय कल्पते नित्यम् ॥ ५४ ॥ ——— चित्तान्तरङ्गचपल- तृष्णासलिलप्रपञ्चवाराशेः ।

श्रीमत्पुण्यानन्दाचार्यविरचितः ५१ यदनुग्रहेण तीर्ण- स्तस्मै श्रीनाथनाविकाय नमः ॥ ५५ ॥ इति श्रीपुण्यानन्दयतिविरचितः कामकलाविलासः समाप्तः ॥ सद्विद्यानां संश्रये ग्रन्थविद्वद् व्यूहे ह्रासं कालवृत्त्योपयाते । तत्तत्सद्धर्मोद्दिधीर्षैकतान- सत्प्रेक्षौजःशालिना कर्मवृत्त्यै ॥ १ ॥ श्रीमत्कश्मीराधिराजेन मुख्यै- र्धर्मोद्युक्तैर्मन्त्रिभिः स्वैर्विवेच्य । प्रत्यष्ठापि ज्ञानविज्ञानगर्भ- ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः ॥ २ ॥

५२ कामकलाविलासः तत्राजीवं निर्विशद्भिर्मुकुन्द- रामाध्यक्षत्वाश्रितैः सद्भिरेषः । पूर्त्या शुद्ध्य व्याख्याया संस्कृतः स्तात्- पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् ॥ ३ ॥ ॥ तिलकम् ॥ श्रीशिवार्पणमस्तु ॥ शुभमस्तु साधकपाठकश्रोतॄणाम् ॥