कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
इस कार्यालय द्वारा "काशीसंस्कृतसीरिज" के अलावा और भी ३ सीरिज यथा "चौखम्बा संस्कृत सीरिज" "बनारससंस्कृतसीरिज" "हरिदाससंस्कृतसीरिज" ग्रन्थ-मालायें निकलती हैं तथा इन ४ सीरिजों के पश्चात् और भी विविध शास्त्र की पुस्तकें प्रकाशित की गई है तथा अन्य सब स्थानों के छपे हुए संस्कृत तथा भाषा-भाष्य के ग्रन्थ विक्रयार्थ प्रस्तुत रहते हैं, सूचीपत्र पृथक् मंगवाकर देखें, इसके अलावा हमारे यहां सर्व प्रकार की संस्कृत, हिन्दी, अङ्ग्रेजी की सुन्दर छपाई होती है, परिक्षा प्रार्थनीय है ।
पत्रादि प्रेषणस्थानम्—
जयकृष्णदास-हरिदास गुप्तः—
"चौखम्बा संस्कृतसीरिज़" आफिस, विद्याविलास प्रेस,
गोपालमन्दिर के उत्तर फाटक, बनारस सिटी ।
श्रीश्रीहरिः शरणम् ।
द्वितीयसंस्करणोपसंहारः ।
विज्ञापयाम्येतद् विशेषशास्त्ररसज्ञमहोदयान्, यद् बहुवर्षेभ्यः पूर्व- मुम्बईस्थनिर्णयसागरयन्त्रालयाध्यक्षेण स्वीययन्त्रालये कामशास्त्रे शेष- स्यार्षग्रन्थस्य वात्स्यायनसूत्रस्य पुस्तकं कामतन्त्ररहस्यमधिजिगमि- षूणामतिभूमिं गताभिस्तद्ग्रन्थदर्शनोत्कण्ठाभिर्विलम्बमसहमानेनेव व्यु- त्क्रान्तप्रक्षिप्तपरिष्कृतताऽऽदिदोषदूषितमप्रदर्शितसूत्रसंख्याविभागं ता- दृशैव षष्ठाधिकरणान्तमुपलब्धया यशोधरकृतया जयमङ्गलाख्यया टी- कया सह मुद्रयित्वाऽनीयत प्रकाशम् ,
परं तु निर्द्दिष्टदोषैरेतद्ग्रन्थपर्यालोचने पानकरसास्वादे सिकतारे- णुभिरिवारुन्तुदतां सहृदयधुरीणानामवगम्य; यथाशक्तेनां प्रतिचिकी- र्षुणा चौखम्भासंस्कृतसीरीजाध्यक्षेण मदीयजनकेन बाबूहरिदासगुप्तेन शोधकस्य प्राचीनं प्रायः शुद्धं सटीकं कामसूत्रपुस्तकमेकं, द्वितीयं च विविधग्रन्थसंग्रहरसिककाशीस्थबाबूश्रीयुक्तगोबिन्ददासमहोदयस्य स- टीकं शुद्धं तत्पुस्तकमवलम्बय्य; सूत्राणामङ्काँश्च यथास्थानं समावेशय्य; सुमुद्रणाय पुनरेतच्छोधनं प्रारम्भिंतम् ,
टीकाशून्यं च सप्तममौपनिषदिकमधिकरणं बहुयत्नैरासादितेन तट्टीकाऽवशिष्टांशेन संयोज्य प्राचीकटं, तथाऽपि ग्रन्थमात्रमुद्रणमे- वावसितमियत्समयावधि, विशिष्टा भूमिकाऽऽदयः परिशिष्टाश्चान्येऽधि- ग्रन्थपर्यालोचनवेलमुपकारकाः विशेषसूच्यादयो विषया नूनमवश्य- सन्धेयं परिशिष्टत्वेन समाविवेशयिषितव्यं सन्धाय; सन्धाप्य; च ना- तिचिरायैव प्रकाशयिष्यन्ते; तावच्चिररात्रायोत्पन्नचरीदमीया बलवती दिदृक्षा दर्शकैः फलवती विधेया, मानुष्यकनान्तरीयकानवधानजनिता- शुद्धयश्चात्रत्यानिजतिशिक्षागुणगरिम्णो मर्षणीया इति ।
चौखम्भासंस्कृतसीरीजाध्यक्षौ—
हरिदासगुप्तजयकृष्णदासगुप्तौ—
१ अधिकरणे
श्रीकृष्णाय नमः ।
कामसूत्रविषयानुक्रमः—
अत्राधिकरणानि ७
| पृ० | पृ० | |
|---|---|---|
| १ साधारणम् | १ | ६२ |
| २ साम्प्रयोगिकम् | ६३ | १६१ |
| ३ कन्यासम्प्रयुक्तकम् | १६२ | १९९ |
| ४ भार्याऽधिकारिकम् | २०० | २२० |
| ५ पारदारिकम् | २२१ | २७१ |
| ६ वैशिकम् | २७२ | ३२८ |
| ७ औपनिषदिकम् | ३२९ | ३४६ |
१ अधिकरणे
| पृ० | पृ० | ||
|---|---|---|---|
| १ अध्याये | |||
| १ शास्त्रसङ्ग्रहः प्रकरणम् | १ | ९ | |
| २ अध्याये | |||
| २ त्रिवर्गप्रतिपत्तिः ” | १० | २५ | |
| ३ अध्याये | |||
| ३ विद्यासमुद्देशः ” | २६ | ३८ | |
| ४ अध्याये | |||
| ४ नागरिकवृत्तम् ” | ३८ | ५२ | |
| ५ अध्याये | |||
| ५ नायकसहायदूत-कर्मविमर्शः ” | ५२ | ६२ |
२ अधिकरणे
१ अध्याये
६ प्रमाणकालभावर-
३ अधिकरणे
२ कामसूत्रस्य
पृ० पृ०
२ अध्याये ८ उपगूहनविचारः प्रकरणम् ८२ ९०
३ अध्याये ९ चुम्बनविकल्पाः ,, ९० १००
४ अध्याये १० नखच्छेद्यम् ,, १०० १०७
५ अध्याये ११ दशनच्छेद्यम् ,, १०७ ११० १२ देश्योपचाराः ,, ११० ११५
६ अध्याये १३ संवेशनम् ,, ११६ १२१ १४ चित्ररतम् ,, १२१ १२५
७ अध्याये १५ प्रहणनम् ,, १२६ १२८ १६ सीत्कृतम् ,, १२८ १३३
८ अध्याये १७ पुरुषायितं ,, १३३ १३७ १८ पुरुषोपसृप्तम् ,, १३७ १४१ १९ औपरिष्टकम् ,, १४१ १५१
९ अध्याये २० रतारम्भावसानिकम् ,, १५१ १५५
१० अध्याये २१ रतविशेषाः ,, १५५ १५७ २२ प्रणयकलहः ,, १५८ १६१
३ अधिकरणे
१ अध्याये २३ वरणविधानम् प्रकरणम् १६२ १६७
| ४ अधिकरणे | | |
विषयानुक्रमः । ३
| पृ० | पृ० | |
|---|---|---|
| २ अध्याये | ||
| २५ कन्याविस्रम्भणम् प्रकरणम् | १६९ | १७६ |
| ३ अध्याये | ||
| २६ बालोपक्रमः ” | १७६ | १८२ |
| २७ इङ्गिताकारसूचनम् ” | १८२ | १८४ |
| ४ अध्याये | ||
| २८ एकपुरुषाभियोगः ” | १८६ | १८९ |
| २९ प्रयोज्योपावर्त्तनम् ” | १८९ | १९२ |
| ३० अभियोगप्रयोज्य-कन्याप्रतिपत्तिः ” | १९२ | १९४ |
| ५ अध्याये | ||
| ३१ विवाहयोगः ” | १९४ | १९९ |
| ### ४ अधिकरणे | ||
| १ प्रथमाध्याये | ||
| ३२ एकचारिणी वृत्तम् प्रकरणम् | २०० | २०६ |
| ३३ प्रवासचर्या ” | २०६ | २०८ |
| २ अध्याये | ||
| ३४ सपत्नीषु ज्येष्ठावृत्तम् ” | २०९ | २११ |
| ३५ सपत्नीषु कनिष्ठावृत्तम् ” | २११ | २१३ |
| ३६ पुनर्भूवृत्तम् ” | २१३ | २१५ |
| ३७ दुर्भगावृत्तम् ” | २१६ | २१७ |
| ३८ आन्तःपुरिकवृत्तम् ” | २१७ | २१९ |
| ३९ बह्वीषु प्रतिपत्तिः ” | २१९ | २२० |
| ### ५ अधिकरणे | ||
| १ अध्याये | ||
| ४० स्त्रीपुरुषशीलावस्थापनम् प्रकरणम् | २२१ | २२३ |
६ अधिकरणे
४ कामसूत्रस्य
| पृ० | पृ० | |
|---|---|---|
| ४२ स्त्रीषु सिद्धाः पुरुषाः प्रकरणम् | २२७ | २२८ |
| ४३ अयत्नसाध्या- | ||
| योषितः ,, | २२८ | २३० |
| २ अध्याये | ||
| ४४ परिचयकारणम् | ||
| अभियोगाः ,, | २३१ | २३७ |
| ३ अध्याये | ||
| ४६ भावपरीक्षा ,, | २३७ | २४२ |
| ४ अध्याये | ||
| ४७ दूतीकर्म ,, | २४३ | २५४ |
| ५ अध्याये | ||
| ४८ ईश्वरकामितम् ,, | २५५ | २६२ |
| ६ अध्याये | ||
| ४९ आन्तःपुरिकावृत्तं- | ||
| दाररक्षिकम् ,, | २६२ | २६९ |
| २६९ | २७१ |
६ अधिकरणे
| पृ० | पृ० | |
|---|---|---|
| १ अध्याये | ||
| ५० सहायगम्यागम्यगम- | ||
| नकारणचिन्ता प्रकरणम् | २७२ | २७८ |
| ५१ गम्योपावर्त्तनम् ,, | २७८ | २८१ |
| २ अध्याये | ||
| ५२ कान्ताऽनुवृत्तम् ,, | २८१ | २९१ |
| ३ अध्याये | ||
| ५३ अर्थागमोपायाः ,, | २९१ | २९५ |
| ५४ विरक्तप्रतिपत्तिः ,, | २९५ | २९७ |
| ५५ निष्कासनक्रमः ,, | २९७ | ३०० |
| ४ अध्याये | ||
| ५६ विशीर्णप्रति- |
७ अधिकरणे
विषयानुक्रमः ।
| पृ० | पृ० | |
|---|---|---|
| ५ अध्याये | ||
| ५७ लाभाविशेषाः प्रकरणम् | ३०८ | ३१६ |
| ६ अध्याये | ||
| ५८ अर्थानर्थानुबन्धसंशयवि-चारा वेश्याविशेषाः,, | ३१६ | ३२८ |
७ अधिकरणे
| पृ० | पृ० | |
|---|---|---|
| १ अध्याये | ||
| ५९ सुभगङ्करणं प्रकरणम् | ३२९ | ३३३ |
| ६० वशीकरणम् ,, | ३३३ | ३३५ |
| ६१ वृष्ययोगाः ,, | ३३५ | ३३८ |
| २ अध्याये | ||
| ६२ नष्टरागप्रत्यानयनम्,, | ३३८ | ३४२ |
| ६३ वृद्धियोगाः ,, | ३४२ | ३४३ |
| ६४ चित्रयोगाः ,, | ३४३ | ३४५ |
| शास्त्रोपसंहारः | ३४५ | ३४६ |
कामशास्त्रसमाप्तिः ।
अत्र शास्त्रे-
अधिकरणानि ७
अध्यायाः ३६
प्रकरणानि ६४
सूत्राणि १६६४
श्लोकाः—१२५०
श्रीवात्स्यायनमुनिप्रणीतं-
कामसूत्रम् ।
यशोधरकृतया जयमङ्गलाख्यया व्याख्यया समेतम् ।
साधारणनामके प्रथमेऽधिकरणे
प्रथमोऽध्यायः।
नमो धर्मार्थकामेभ्यस्तत्कामेभ्यो नमो नमः।
त्रिवर्गमोक्षकामेभ्योऽकामेभ्यस्त्वमितं नमः॥
वात्स्यायनीयं किल कामसूत्रं व्याख्यायि तत् कैश्चिदिहान्यथैव।
तस्माद्विधास्ये जयमङ्गलाऽऽख्यां टीकामिमां सर्वविदं प्रणम्य॥
इह चत्वारो वर्णा (१)ब्राह्मणादयः, चत्वारश्चाश्रमा ब्रह्मचारी, गृहस्थो, (२)वैखानसो, भिक्षुरिति, तत्र ब्राह्मणादीनां गृहस्थानां मोक्षस्यान(३)भिमतत्वात् (४)त्रिवर्गः पुरुषार्थः, तत्रापि धर्मार्थयोर्हेतुत्वात्काम एव फलभूतः प्रकृष्टः पुरुषार्थ इति कामवादिनः, स चोपायं विना न भवतीति तदुपायमाचिख्यासुराचार्य(५)मल्लनागः पूर्वाचार्यमतानुसारेण शास्त्रमिदं प्रणीतवान् ।
ननु तद्धेतुत्वादङ्ग्धर्मार्थावेवोपादेयौ, तौ च शास्त्रविहितौ ? सत्यम्,
( १ ) आदिशब्दात् क्षत्रियवैश्यशूद्रा ग्राह्याः । तथा चामरः “वर्णाः स्युर्ब्राह्मणादयः, विप्रक्षत्रियविट्शूद्रा” इति ।
( २ ) वानप्रस्थः । “वैखानसो वानप्रस्थ” इति विश्वः ।
( ३ ) यद्यपि निरतिशयसुखादिरूपे मोक्षे कस्यापि नानभिमतत्वं सम्भवति विशेषतो ब्राह्मणानां, “ब्राह्मणस्य च देहोऽयं क्षुद्रकामाय नेष्यते । कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय चे” त्यादिश्रीभागवतादिप्रामाण्यात्, तथाऽपि प्रकृतशास्त्राधिकारिताऽवच्छेदककोटौ मोक्षानभिमतत्वाभ्युपगमादित्यमुक्तिः ।
( ४ ) “त्रिवर्गो धर्मकामार्थैर्”त्यमरः ।
२ सटीक कामसूत्रे [ १ अधिकरणे,
तद्धेतुत्वेऽप्युपायान्तरापेक्षत्वात्(१)संप्रयोगपराधीनः कामः, सम्प्रयोगश्चोपायमपेक्षते, उपायपरिज्ञानं च कामशास्त्राद्, न धर्मार्थशास्त्राभ्याम् । वक्ष्यति च प्रयोजनवाक्यम्—"संप्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपायमपेक्षते" अधि. १ । अ. २ । प्र. २ । सू. २२ । "सा चोपायप्रतिपत्तिः (२)कामसूत्रादिति" अधि. १ । अ. २ । प्र. २ । सू. २३ । तत्रोपायोऽभिधेयः, तत्प्रकाशनं कामशास्त्रेण क्रियमाणं प्रयोजनम्, अन्यथा कथं प्रतिपत्तिः शास्त्राद् ? अनधीतशास्त्राणां तु तच्छास्त्रोपायपरिज्ञानं स्वतोऽसम्भवात् परोपदेशात्स्यात्, परोपदेशश्चेत्कथं न शास्त्राभ्युपगमः, तथा चेदमुपायपरिज्ञानं तद् घुणाक्षरकल्पं; सम्यक्करणोयवर्जनीयापरिज्ञानात्, ततश्चोपायबाहुल्यात्तैर्नागरिकैरनागरिका नागरिकाः क्रियन्ते, तथा चोक्तम्—
'यदविज्ञातशास्त्रेण कदा चित्साधितं भवेत् ।
न चैतद् बहु मन्तव्यं घुणोत्कीर्णमिवाक्षरम्' ॥ इति ।
यदपि कामशास्त्रविदां केषां चिद् व्यवहाराकौशलम्, तत्तेषामेव दोषो न शास्त्रस्य, प्रतिपत्तिदोषाच्च शास्त्रानर्थक्यं सर्वत्र तुल्यम् , न हि चिकित्साऽऽद्यर्थेषु शास्त्रेषु सर्वे तद्विदः पथ्याहारादिकं सेवन्ते, तस्मात्तदर्थिनो ये भक्तिश्रद्धाऽन्वितास्तेऽपि शास्त्रप्रयोजनहेतवः ।
तत्र देवतानमस्कारपूर्वकं शास्त्रप्रणयनमविघ्नितप्रसरं भवतीत्याह—
धर्मार्थकामेभ्यो नमः ॥ १ ॥
अर्थशब्दस्याजाद्यदन्तत्वेऽपि न पूर्वनिपातः, धर्मस्या(३)भ्यर्हितत्वाद्, वक्ष्यति च—"(४)पूर्वः पूर्वो गरीयान्" अधि. १ । अ. २ । प्र. २ । सू. १४ । इति ॥ १ ॥
( १ ) स्त्रीपुंसयोर्विशेषसामान्यकामहेतुः सम्बन्धविशेषः, स च रताख्याभ्यन्तरसम्भोगसमागमाख्यबाह्यसम्भोगप्रभेदाभ्यां सम्भोगपरपर्यायायतनसम्प्रयोगनामा विशेषकामहेतुः, स्त्रीपुंसान्योन्यसाक्षात्काररूपाङ्गसम्प्रयोगनामा सामान्यकामहेतुश्चेति द्विप्रकारः सम्प्रयोगः ।
( २ ) सूत्रलक्षणं च—"लघूनि सूचिताथानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिण" इत्यभियुक्तोक्तमूह्यम् ।
( ३ ) वासुदेवार्जुनाभ्यां वुन् । ४ । ३ । ९८ । इत्यत्र पूर्वनिपातितवासुदेवपदादभ्यर्हितेतराजाद्यदन्तस्य पूर्वनिपातः, इत्यर्थकत्वा "दजाद्यदन्तम् । २ । २ । ३३ । इतिसूत्रस्येति भावः ।
१ अध्याये ] शास्त्रसङ्ग्रहप्रकरणम् । ३
१ अध्याये ] शास्त्रसङ्ग्रहप्रकरणम् । ३
अन्यदेवतासद्भावेऽपि किमिति तेभ्यो नम इत्याह—
शास्त्रे प्रकृतत्वात् ॥ २ ॥
'अधिकृतानधिकृतयोरधिकृते प्रतिपत्तिर्बलीयसी'ति न्यायात् । यथा च पुरुषार्थत्वेन कामोऽस्मिञ्शास्त्रेऽधिकृतस्तथा तद्द्वारेण धर्मार्थावपि, एतदुपदिष्टोपायपूर्वकं प्रवर्तमानस्य त्रिवर्गसिद्धेः, तथा च वक्ष्यति—"अन्योन्यानुबद्धं त्रिवर्गं सेवेत(१)", अधि. १ । अ. २ । प्र. २ । सू. १ । तथा, "सवर्णायामनन्यपूर्वायां शास्त्रतोऽधिगतायां धर्मोऽर्थः पुत्राः संबन्धः पक्षवृद्धिरनुपस्कृता रतिश्च" अधि. ३ । अ. १ । प्र० १। सू. १ । इति । तेषां चाधिकारात्तदधिष्ठात्र्योऽपि देवता अधिकृताः, उपचारात्तच्छब्दवाच्याः, अन्यथा धर्मादीनां वक्ष्यमाणलक्षणानामदेवताऽऽत्मकत्वान्नमस्कारो नोपपद्येत, अधिष्ठातृदेवताऽस्तित्वं चागमात्, तथा हि—'पुरूरवाः शक्रदर्शनार्थमितः स्वर्गं गतो मूर्तिमतो धर्मादीन्दृष्ट्वोपगम्य धर्ममेवेतरावेवानादृत्य प्रदक्षिणीचकार, ततोऽसौ ताभ्यां तिरस्कारामर्षिताभ्यामभिशप्तः, ततोऽस्य कामाभिशापादूर्वशीविरहोत्पत्तिरभूत्, तस्यां च कथं चिदुपशान्तायामर्थाभिशापादतिवृद्धलोभश्चातुर्वर्ण्यस्यार्थमशेषमाहृतवान्, ततोऽर्थापहाराद्यज्ञादिक्रियाविरहोद्विग्नैर्ब्राह्मणैर्दर्भपाणिभिर्हतो ननाशे' त्यैतिहासिकाः ॥ २ ॥
तत्समयावबोधकेभ्यश्चाचार्येभ्यः ॥ ३ ॥
तेषां धर्मादीनां समयस्तत्त्वम्, अवबोधयन्तीत्यवबोधकाः, तत्समयावबोधका इति षष्ठीसमासप्रतिषेधस्यानित्यत्वं(२), 'तत्प्रयोजको हेतुश्च' पा. १ । ४ । ५५ । इति निदर्शनाद्, ये तत्समयं प्रतिपादयितुं तच्छास्त्रं प्रणीतवन्तस्तेभ्यो नमः, नान्येभ्यइत्यर्थः ॥ ३ ॥
कुत इत्यत आह—
तत्संबन्धात् ॥ ४ ॥
तेषामिह शास्त्रे सम्बन्धादित्यर्थः । तत्प्रणीतशास्त्रसंक्षेपेण हि शास्त्रस्य प्रणयनात् ॥ ४ ॥
'प्रजापतिर्हि इत्यादिनाऽऽगमविशुद्ध्यर्थं गुरुपूर्वकंमलक्षणं स-
(१) सूत्रैकदेशोऽयम् । "शतायुर्वै पुरुषो विभज्य कालमन्योन्यानुबद्धं परस्परस्यानुपघातकं त्रिवर्गं सेवेत अधि० १ । अ० २ । प्र० २ । सू० १ इत्यस्य ।
(२) चिन्त्यमेतद्, वस्तुतस्तु शास्त्रानित्यत्वकल्पनाऽपेक्षयेदृशस्थले शेषषष्ठीसमासो-
४ | सटीक कामसूत्र | [ १ अधिकरण,
सम्बन्धमाह—
प्रजापतिर्हि प्रजाः सृष्ट्वा तासां स्थितिनिबन्धनं त्रिवर्गस्य साधनमध्यायानां शतसहस्रेणाग्रे प्रोवाच ॥ ५ ॥
प्रजापतिर्हीति । हिशब्दो यस्मादित्यर्थे । अविपरीतोऽयमागमो गुरुपरम्परयाऽन्वाख्यायते यतः स्थितिनिबन्धनमिति । प्रजानां तिस्रोऽवस्थाः सर्गस्थितिप्रलयलक्षणाः, तत्र सर्गादूर्ध्वं प्रबन्धेनावस्थानं स्थितिः, सा हि द्विविधा, शुभा, चाशुभा च, त्रिवर्गोऽपि द्विविधः, उपादेयोऽनुपादेयश्च, तत्र पूर्वो धर्मोऽर्थः काम इति, द्वितीयोऽप्यधर्मोऽनर्थो द्वेष इति, तत्र धर्मादमुत्र शुभा गतिः, अधर्मादशुभा, अर्थादिहैव शरीरपरिभोगो धर्मप्रवर्तनं च, अनर्थात्क्लिष्टजीवनम् अधर्मप्रवर्तनं च, कामात्सुखं, प्रजोत्पत्तिश्च, द्वेषान्नोभयं तस्य च निःसुखस्याप्रजस्य तृणस्येव स्थितिः, इत्येवं स्थितेस्त्रिवर्गो निबन्धनम् , तस्योपेयानुपेयस्य प्राप्तिपरिहारौ नोपायं विनेति तदुपायशासनत्वाच्छास्त्रमप्युपचारात्स्थितिनिबन्धनम् । शतसहस्रेणेति । लक्षेण । अग्रे प्रोवाचेति । तदानीं शास्त्रान्तराभावादिदमेवाग्रथमिति । श्रुतिरपि सर्वजनविषयेति तामेव हृदि स्थितामनुसंचिन्त्य साधारणभूतं स्मार्तशास्त्रं प्रकर्षेणोवाच ॥ ५ ॥
तस्यैकदेशं स्वायंभुवो मनुर्धर्माधिकारिकं पृथक्चकार ॥ ६ ॥
तस्येति । प्रजापतिप्रोक्तस्यैकदेशास्त्रयः, तत्र यत्र धर्मोऽधिकृतस्तन्मनुः पृथक्चकार यत्रार्थस्तं बृहस्पतिः, यत्र कामस्तन्नन्दीति, “स्वायंभुव” इति वैवस्वत(१)निवृत्त्यर्थम् । धर्माधिकारिकमिति । धर्मप्रस्तावो यत्रास्ति तद् धर्मशास्त्रमित्यर्थः ॥ ६ ॥
बृहस्पतिरर्थाधिकारिकम् ॥ ७ ॥
अर्थाधिकारिकमिति । अर्थशास्त्रं चकारेत्यर्थः । द्वयोरप्यनयोरप्रस्तुतत्वान्नाध्यायसंख्या दर्शिता ॥ ७ ॥
महादेवानुचरश्च नन्दी सहस्रेणाध्यायानां पृथक्कामसूत्रं प्रोवाच ॥८॥
महादेवेति । महादेवस्य पश्चाच्चरति यः, नान्योऽयं नन्दिनामा कश्चित्, तथा हि श्रूयते—“दिव्यं वर्षसहस्रमुमया सह सुरतसुखमनुभवति महादेवे वासगृहद्वारगतो नन्दी कामसूत्रं प्रोवाचे” ति । अत्राध्यायसंख्यानमुक्तं शास्त्रस्य प्रस्तुतत्वात् ॥ ८ ॥
(१) तथा च वर्तमानवैवस्वतमन्वन्तराव्यवहितपूर्ववर्तिमन्वन्तरे मानवशास्त्रप्रकाशः ...
१ अध्याय ] शास्त्रसङ्ग्रहप्रकरणम् । ५
तदेव तु पञ्चभिरध्यायशतैरौद्दालकिः श्वेतकेतुः संचिक्षेप ॥ ९ ॥
तदेव त्विति । नन्दिप्रोक्तं, तस्यैकदेशम् । तुशब्दो विशेषणार्थः । औद्दालकिरित्युद्दालकस्यापत्यं यः श्वेतकेतुः, तथा हि, परदाराभिगमनं लोके प्रागासीद्, यथोच्यते—
'पकान्नमिव राजेन्द्र ! सर्वसाधारणाः स्त्रियः । तस्मात्तासु न कुप्येत न रज्येत रमेत च' ॥ इति ।
इयमौद्दालकिना व्यवस्था निवर्तिता, तथा चोक्तम्—
'मद्यपानान्निवृत्तिश्च ब्राह्मणानां गुरोः सुतात् । परस्त्रीभ्यश्च लोकानामृषेरौद्दालकेरपि ॥ ततः पितुरनुज्ञानाद्गम्यागम्यव्यवस्थया । श्वेतकेतुस्तपोनिष्ठः सुखं शास्त्रं निबद्धवान्' ॥ इति ॥ ९ ॥
तदेव तु पुनरध्यर्धेनाध्यायशतेन साधारणसांप्रयोगिककन्या- संप्रयुक्तकभार्याऽधिकारिकपारदारिकवैशिकोपनिषदिकैः सप्तभिर- धिकरणैर्बाभ्रव्यः पाञ्चालः संचिक्षेप ॥ १० ॥
तदेव त्विति । यदेवौद्दालकिना संक्षिप्तम् ; पुनरर्थतो ग्रन्थतश्च सं- चिक्षेप, पूर्वत्र परदाराभिगमनं सामान्येन प्रतिषिद्धम् , इह तु विशेषेणे- त्येवं पारदारिकमत्रोक्तम् , अध्यर्धेन पञ्चाशदधिकेनाध्यायशतेन, तत्रो- त्तरेषामधिकरणानामस्य साधारणत्वात्साधारणम् , संप्रयोगः प्रयोजन- मस्येति सांप्रयोगिकम् , कन्यायाः संप्रयुक्तं संप्रयोगो यस्मिन्निति क- न्यासंप्रयुक्तकम् , भार्याऽधिकारिणी यस्मिन्नस्तीति भार्याऽधिकारि- कम् , तथा पारदारिकम् , वेशो वेश्यावृत्तं तत्प्रयोजनमस्येति वैशि- कम् , तथौपनिषदिकम् , उपनिषद्रहस्यं साधारणाद्युपादानं शास्त्रशरी- रख्यापनार्थम् , एतावन्तोऽर्थाः शास्त्र इति । आचार्योऽपि तथैव स्वशा- स्रमतः संचिक्षेप । सप्तभिरिति नियमार्थम् । अधिक्रियन्ते प्रकरणार्था- येष्वित्यधिकरणानि, बाभ्रव्यो बभ्रोरपत्यं यः पाञ्चालः । 'मधुबभ्वोः—, । ४ । १ । १०६ इति यञ् ॥ १० ॥
तस्य षष्ठं वैशिकमधिकरणं पाटलिपुत्रिकाणां गणिकानां नि- योगाद्दत्तकः पृथक्चकार ॥ ११ ॥
तस्येति । बाभ्रव्यसंक्षिप्तस्य । षष्ठमितीयमेवानुपूर्वी नान्येति प्र- दर्शनार्थम् अन्यथा पाठादेव संख्या लब्धा, तां चानुपूर्वी वर्णयिष्या-
(१) मध्वबभ्रोर्ब्राह्मणकौशिकयोः । ४ । १ । १०६ ।
६ सटीक कामसूत्र [ १ अधिकरण,
मः। पाटलिपुत्रिकाणामिति। मगधेषु पाटलिपुत्रं माम नगरं, तत्र भवा इति। 'रोपधेतोः प्राचाम्' । ४ । २ । १०६ । इति वुञ् । नियोगादिति। अन्यतमो माथुरो ब्राह्मणः पाटलिपुत्रे वसतिं चकार, तस्योत्तरे वयसि पुत्रो जातः, तस्य जातमात्रस्य माता मृता, पिताऽपि तत्रान्यस्यै तं पुत्रत्वेन दत्त्वा कालेन लोकान्तरं गतः, ब्राह्मण्यपि ममायं दत्तः पुत्र इत्यनुगतार्थमेव नाम चक्रे स च तया संवर्धितोऽचिरेणैव कालेन सर्वा विद्याः कलाश्चाधीतवान् व्याख्यानशीलत्वादत्तकाचार्य इति प्रतीतिमुपागतः, एकदा च तस्य चेतस्येवमभवत्, लोकयात्रा परा ज्ञेयाऽस्ति, सा प्रायशो वेश्यासु स्थितेति ततो वेश्याजनं परिचयपूर्वकं प्रत्यहमुपागम्य तथा तामधिविवेद यथा स एवोपदेशस्य ग्रहणायास्य प्रार्थनीयोऽभूत्, ततोऽसौ वीरसेनाप्रमुखेण गणिकाजनेनाभिहितः, "अस्माकं पुरुषरञ्जनमुपदिश्यतामिति" तन्नियोगात्पृथक्चकारेत्ययमाम्नायः। अन्यस्तु शास्त्राभिगमयुक्तां युक्तिमाह- यत्र गर्भयात्रायां दत्तकनामा तत्पदावधूतेन प्रतिशयितेन त्र्यक्षेण शप्तः स्त्री बभूव, पुनश्च कालेन लब्धवरः पुरुषोऽभूत्, तेनोभयरसज्ञेन पृथक्कृतमिति, यदि बाभ्रव्योक्तमेव पृथक्कृतं किम पूर्वं स्वसूत्रेषु दर्शितं येनोभयरसज्ञता कल्प्यते, यदि चायमर्थः शास्त्रकृतोऽप्यभिमतः स्यात्तदानीं 'नियोगादुभयरसज्ञो दत्तकः' इत्येवमसिद्ध्यत् ॥ ११ ॥
तत्प्रसङ्गाच्चारायणः साधारणमधिकरणं पृथक्प्रोवाच ॥१२॥ सुवर्णनाभः सांप्रयोगिकम् ॥ १३ ॥ घोटकमुखः कन्यासंप्रयुक्तकम् ॥ १४ ॥ गोनर्दीयो भार्याऽधिकारिकम् ॥ १५ ॥ गोणिकापुत्रः पारदारिकम् ॥ १६ ॥ कुचुमार औपनिषदिकम् ॥ १७ ॥
दत्तकेन वैशिकं पृथक्कृतमित्येतत्प्रसङ्गाच्चारायणादयोऽपि पृथक्प्रकर्षेणोचुः, प्रकर्षश्च यत्तेषु स्वमतप्रकाशनम्, तच्च स्थानस्थानेषु स्वशास्त्रेषु दर्शयिष्यति ॥ १२-१७ ॥
एवमित्यादिना स्वशास्त्रस्य प्रयोजनमाह-
एवं बहुभिराचार्यैस्तच्छास्त्रं खण्डशः प्रणीतमुत्सन्नकल्पमभूत् ॥१८॥
तच्छास्त्रं बाभ्रव्योक्तम्। खण्डश इति खण्डं खण्डं कृत्वोत्सन्नकल्पमीषदूत्सन्नमिव क्व चिद् दृश्यमानत्वात्। नन्द्यादिप्रणीतमुत्सन्नमेवेत्यर्थोक्तम् ॥ १८ ॥
तस्यायं(१) प्रकरणाधिकरणसमुद्देशः—
१ अध्याय ] शास्त्रसङ्ग्रहप्रकरणम् । ७
तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानामेकदेशत्वाद्, महदिति च बाभ्रवीयस्य दुरध्येयत्वात्, संक्षिप्य सर्वमर्थमल्पेन ग्रन्थेन कामसूत्रमिदं प्रणीतम् ॥ १९ ॥
तत्रेति । शास्त्रप्रस्थापने । शास्त्रावयवानामित्यवयवभूतानाम् , एकदेशार्थत्वान्न कामाङ्गीभूताशेषवस्तुपरिज्ञानम् । बाभ्रवीयस्येति । बाभ्रव्यप्रोक्तस्य सम्पूर्णशास्त्रस्याप्रयोजनमाह—तस्य सम्पूर्णस्यापि महदिति कृत्वा दुःखैनाध्ययनम् । तत्सप्तभिरधिकरणैः सप्त सहस्राणि संक्षिप्य; सर्वमल्पेन ग्रन्थेनेति सम्पूर्णतां स्वध्येयतां च दर्शयति । इदमिति बुद्धिस्थमाह । प्रणीतमिति समाप्तिमाशंसते ॥ १८ ॥
तस्येत्यादिना स्वशास्त्रस्यार्थावयवानाचष्टे—
तस्यायं(१) प्रकरणाधिकरणसमुद्देशः—
शास्त्रसङ्ग्रहः ॥ २० ॥ त्रिवर्गप्रतिपत्तिः ॥ २१ ॥ विद्यासमुद्देशः ॥ २२ ॥ नागरिकवृत्तम् ॥ २३ ॥ नायकसहायदूतीकर्मविमर्शः ॥ २४ ॥
इति साधारणं प्रथममधिकरणम् । प्रकरणानि पञ्च ।
प्रमाणकालभावेभ्यो रतावस्थापनम् ॥ २५ ॥ प्रीतिविशेषाः ॥ २६ ॥ आलिङ्गनविचाराः ॥ २७ ॥ चुम्बनविकल्पाः ॥ २८ ॥ नखरदनजातयः ॥ २९ ॥ दशनच्छेद्यविधयः ॥ ३० ॥ देश्याउपचाराः ॥ ३१ ॥ संवेशनप्रकाराः ॥ ३२ ॥ चित्ररतानि ॥ ३३ ॥ प्रहणनयोगाः ॥ ३४ ॥ तद्युक्ताश्च सीत्कृतोपक्रमाः ॥ ३५ ॥ पुरुषायितम् ॥ ३६ ॥ पुरुषोपसृप्तानि ॥ ३७ ॥ औप-
( १ ) इयता प्रबन्धेन प्रकृतशास्त्रस्य समूलकतां संसूच्य, सम्प्रति तत्प्रतिपाद्यार्थनिरूपयितुकामेनोद्देशलक्षणपरीक्षाविधिभिस्त्रैविधीं शास्त्रप्रवृत्तेरालोच्य, मुनिना क्रमायातमुद्देशमादौ विधायोपक्रम्यते शास्त्रमिदं प्रतिपादयितुम् ।
तदुपक्रमवाक्यं चैतत् “तस्यायमि”त्यादि । सूत्रत्वं त्वस्य न भाति, उद्देशलक्षणपरीक्षाऽन्यतमासम्बन्धित्वाद्, अत एव तत्तत्प्रकरणादिसमाप्तिबोधकवाक्यानामपि न तत्वं, स्पष्टावगत्याद्यर्थमेव निबन्धृणामारम्भावसानेषु तज्जातीयलेखोपलम्भाद्, यथा—“बहिरङ्गान्ते”त्यादिवाक्यानां सूत्रात्मकशास्त्रघटकत्वेऽपि न तत्त्वं; किन्तु तथात्वमेवेति ।
८ सटीक कामसूत्रे [ १ अधिकरणे,
रिष्टिकम् ॥ ३८ ॥ रतारम्भावसानिकम् ॥ ३९ ॥ रतविशेषाः ॥ ४० ॥ प्रणयकलहः ॥ ४१ ॥
इति साम्प्रयोगिकं द्वितीयमधिकरणम् । अध्याया-
दश । प्रकरणानि सप्तदश ।
वरणविधानम् ॥ ४२ ॥ सम्बन्धनिर्णयः ॥ ४३ ॥ कन्या-
विस्रम्भणम् ॥ ४४ ॥ बालाया उपक्रमाः ॥ ४५ ॥ इङ्गिताका-
रसूचनम् ॥ ४६ ॥ एकपुरुषाभियोगः ॥ ४७ ॥ प्रयोद्ध्यस्यो-
पावर्तनम् ॥ ४८ ॥ अभियोगतश्च कन्यायाः प्रतिपत्तिः ॥ ४९ ॥
विवाहयोगः ॥ ५० ॥
इति कन्या सम्प्रयुक्तकं तृतीयमधिकरणम् । अध्यायाः
पञ्च । प्रकरणानि नव ।
एकचारिणीवृत्तम् ॥ ५१ ॥ प्रवासचर्या ॥ ५२ ॥ सपत्नी-
षु ज्येष्ठावृत्तम् ॥ ५३ ॥ कनिष्ठावृत्तम् ॥ ५४ ॥ पुनर्भूवृत्तम्
॥ ५५ ॥ दुर्भगावृत्तम् ॥ ५६ ॥ आन्तःपुरिकम् ॥ ५७ ॥ पुरुष-
स्य बह्वीषु प्रतिपत्तिः ॥ ५८ ॥
इति भार्याऽधिकारिकं चतुर्थमधिकरणम् । अध्यायौ
द्वौ । प्रकरणान्यष्टौ ।
स्त्रीपुरुषशीलावस्थापनम् ॥ ५९ ॥ व्यावर्तनकारणानि
॥ ६० ॥ स्त्रीषु सिद्धाः पुरुषाः ॥ ६१ ॥ अयत्नसाध्या योषितः
॥ ६२ ॥ परिचयकारणानि ॥ ६३ ॥ अभियोगाः ॥ ६४ ॥
भावपरीक्षा ॥ ६५ ॥ दूतीकर्माणि ॥ ६६ ॥ ईश्वरकामितम्
॥ ६७ ॥ आन्तःपुरिकं दाररक्षितकम् ॥ ६८ ॥
इति पारदारिकं पञ्चममधिकरणम् । अध्यायाः
षट् । प्रकरणानि दश ।
गम्यचिन्ता ॥ ६९ ॥ गमनकारणानि ॥ ७० ॥ उपावर्त-
नविधिः ॥ ७१ ॥ कान्ताऽनुवर्तनम् ॥ ७२ ॥ अर्थागमोपायाः
> इति वैशिकं षष्ठमधिकरणम् । अध्यायाः षट् । प्रकरणानि द्वादश ।
१ अध्याये ] शास्त्रसङ्ग्रहप्रकरणम् । ९
॥ ७३ ॥ विरक्तलिङ्गानि ॥ ७४ ॥ विरक्तप्रतिपत्तिः ॥ ७५ ॥ निष्कासनप्रकाराः ॥ ७६ ॥ विशीर्णप्रतिसन्धानम् ॥ ७७ ॥ लाभाविशेषः ॥ ७८ ॥ अर्थानर्थानुबन्धसंशयविचारः ॥ ७९ ॥ वेश्याविशेषाश्च ॥ ८० ॥
इति वैशिकं षष्ठमधिकरणम् । अध्यायाः षट् । प्रकरणानि द्वादश ।
सुभगङ्करणम् ॥ ८१ ॥ वशीकरणम् ॥ ८२ ॥ वृष्याश्च योगाः ॥ ८३ ॥ नष्टरागप्रत्यानयनम् ॥ ८४ ॥ वृद्धिविधयः ॥ ८५ ॥ चित्राश्च योगाः ॥ ८६ ॥
इत्यौपनिषदिकं सप्तममधिकरणम् । अध्यायौ द्वौ । प्रकरणानि षट् ।
एवं षट्त्रिंशदध्यायाः । चतुःषष्टिः प्रकरणानि । अधिकरणानि सप्त । सपादं श्लोकसहस्रम् । इति शास्त्रसङ्ग्रहः ।
अयमिति वक्ष्यमाणो ग्रन्थः । प्रक्रियन्ते प्रस्तूयन्ते येष्वर्था इति प्रकरणानि तेषामधिकरणानां च समुद्देशः संक्षेपेणाभिधानम् । शास्त्रस्य संग्रहः, त्रिवर्गप्रतिपत्तिः, इत्यादय उक्तार्थाः तत्साहचर्याद् ग्रन्थभागा अपि तत्समाख्याः, यथा— कंस(१) वधं काव्यमिति, शास्त्रं चेदं तन्त्रमावापञ्चेति द्विधा स्थितम्, तत्र तन्त्र्यते जन्यते रतिर्येन तत्तन्त्रमालिङ्गनादि, तदुपदिश्यते येन तदपि तन्त्रं सांप्रयोगिकमधिकरणम्, समन्तादावाप्यन्ते स्त्रियः पुरुषाश्च येन स आवापः समागमोपाय इत्यर्थः, स येनोपदिश्यते तदप्यावापः कन्यासं प्रयुक्तकाद्यधिकरणचतुष्टयम्, तत्र तन्त्रावापानुष्ठानं न साधारणानुष्ठानं विनेति प्राक्साधारणमुच्यते, औपनिषदिकं तु तन्त्रावापाभ्यामसिद्धे व्यापियत इत्यन्ते वक्ष्यति, तदुभयमपि तन्त्रावापान्तर्गतमेव तदङ्गत्वात्, तत्र साधारणे शास्त्रसंग्रहप्रकरणमादावुक्तम्, तत्र शास्त्रस्य संगृह्यमाणत्वात् ॥ २०—८६ ॥
षट्त्रिंशदित्यादिना स्वशास्त्रस्यावयवसमुदायाभ्यां संख्यानमाह— तत्राध्यायसंख्यानं पूर्वशास्त्रेभ्य इदं स्तोकमिति दर्शनार्थम्, प्रकर-
( १ ) षष्ठीतत्पुरुषतात्पर्येणेदम् ।
२ का० सू०
१० सटीक कामसूत्रे [ १ अधिकरणे,
णाधिकरणसंख्यानमन्यनिरपेक्षार्थम्, श्लोकसंख्यानमहीनाधिकत्वज्ञा- पनार्थम् ।
उत्तरग्रन्थसन्धानायाह—
संक्षेपमिममुक्त्वाऽस्य विस्तरोऽतः प्रवक्ष्यते ।
इष्टं हि विदुषां लोके समासव्यासभाषणम् ॥ ८७ ॥
इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे
शास्त्रसंग्रहः प्रथमोऽध्यायः प्रथमं प्रकरणम् ।
संक्षेपमिति । अस्येति शास्त्रस्य । विस्तरोऽतः प्रवक्ष्यते संक्षेपा- दूर्ध्वम् । किमर्थमेवं शास्त्रविन्यास इत्यत आह—इष्टं हीति । लोके ये शास्त्रेऽधिकृतास्ते विद्वांसः, तेषां संक्षेपविस्तराभ्यां शास्त्रस्य मनसि धारणमिष्टम्, प्रज्ञातप्रकरणार्थक्रमत्वादसंमोहो यथाऽभिलषितप्रकरणा- र्थप्रत्यवमर्शश्च स्याद् ॥ ८७ ॥
इति शास्त्रसंग्रहः प्रथमं प्रकरणम् ॥ १ ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलायां साधारणे प्रथमेऽधिकरणे शास्त्रसङ्ग्रहः प्रथमोऽध्यायः ॥ १ ॥
द्वितीयोऽध्यायः ।
त्रिवर्गप्रतिपत्तिफलं शास्त्रम्, तस्मिन्नप्रतिपत्तौ विप्रतिपत्तौ वा तदुपायपर्य्येषणमपि युक्तम्, तस्माच्छास्त्रसंग्रहादनन्तरं त्रिवर्गप्रतिप- त्तिरुच्यत इति प्रकरणसम्बन्धः । उद्देशापेक्षया च सम्बन्धित्वे कथमु- द्देश इति चिन्त्यम्, प्रतिपत्तिस्त्रिविधा-अनुष्ठान,मवबोधः, संप्रतिप- त्ति,श्चेति । तत्र प्राधान्यादनुष्ठानमधिकृत्याह—
शतायुर्वे पुरुषो विभज्य कालमन्योन्यानुबद्धं परस्परस्यानु- पघातकं त्रिवर्गं सेवेत ॥ १ ॥
शतायुरिति । शतमायुरस्येति शतायुः, शतशब्दः सामान्यवाच्य- पि वर्षगतसंख्यानमाह, वृत्तौ तथाऽर्थस्य विवक्षितत्वात्, कालवि- भागार्थं वैतदपरिच्छिन्नायुषो विभागसम्भवात् पुरुष इति प्राधा- न्यख्यापनार्थम्, स्त्रीणां तु पुरुषाधीना त्रिवर्गं सेवेत्यस्वातन्त्र्यम् । वि- भज्य वक्ष्यमाणेन न्यायेन । अन्योन्यानुबद्धमिति । धर्मादीनामन्यतमं द्वाभ्यामेकेन वाऽनुबद्धम् । तद्यथा-प्रजार्थिनो धर्मपत्न्याममभिप्रेताया-
२ अध्याये ] त्रिवर्गप्रातपत्तिप्रकरणम् । ११
मृतावभिगमनं धर्मोऽर्थानुबद्धः, अप्रजार्थिनोऽभिप्रेतायां पत्न्यामभिगमनं धर्मः कामानुबद्धः, अपरिणीतस्य सवर्णादनभिप्रेतकन्यालाभोऽर्थो धर्मानुबद्धः, परिणीतस्यासमवर्णादभिप्रेतकन्यालाभोऽर्थः कामानुबद्धः, धर्मपत्न्यामभिप्रेतायामृतौ कामो धर्मानुबद्धः, परिणीतस्य निष्किञ्चनस्याधमवर्णायामर्थवत्यामभिप्रेतायामधिगतायां कामोऽर्थानुबद्धः, इत्येकानुबद्धाः । अपरिणीतस्य सवर्णायामनन्यपूर्वायामभिप्रेतायां यथाविधि संयोगो धर्मोऽर्थकामानुबद्धः, तस्यैवाभिप्रेतसवर्णकन्यालाभोऽर्थो धर्मकामानुबद्धः, तस्यैवार्थरूपवत्यां परस्परोत्कण्ठयोद्वाहितायां कामो धर्मार्थानुबद्धः, इति द्वयनुबद्धाः । परस्परस्यानुपघातकमिति । यत्रानुबन्धो नास्ति तत्रैकमितरयोरनुपघातकम्, एकानुबन्धे चान्यस्यानुपघातकं सेवेत । अत्रोदाहरणं वक्ष्यामः ॥ ४ ॥
वयोद्वारेण कालविभागमाह—
बाल्ये विद्याग्रहणादीनर्थान् ॥ २ ॥
बाल्य इति। वयोविभागस्तन्त्रान्तर उक्तः—
'आ षोडशाद्भवेद् बालो यावत्क्षीरानुवर्त्तकः।
मध्यमः सप्ततिं यावत्परतो वृद्ध उच्यते' ॥ इति।
विद्याग्रहणमादिर्येषामर्थानां तान्सेवेतेति ॥ २ ॥
एवम्—
कामं च यौवने ॥ ३ ॥
कामं यौवने तदोचितत्वात् ॥ ३ ॥
स्थाविरे धर्मं मोक्षं च ॥ ४ ॥
स्थाविरे धर्ममोक्षावननुभूतविषयत्वाद्, मोक्षग्रहणं परमतापेक्षम्, ज्ञानवादिनां चतुर्वर्गः पुरुषार्थः, अस्मिन्नेव काले तैरप्याध्यात्मिकं चिन्त्यमिति ।
ननु त्रिवर्गस्य नियतकालत्वादन्योन्यानुबन्धो नास्ति, ततश्चासेवनप्रसङ्ग इति ? नायं नियमः, अनुबद्धत्वाभावे निरनुबद्धत्वमप्युक्तम्, अथवा यथाकालमहन्यहनि सेवा प्रतिषेधपरस्त्वाद्धर्मादिनियमस्य, यथाकालं तु धर्मादिषु सेव्यमानेषु यद्यदाऽनुषङ्गादितरानुबन्धो नास्ति ततश्च भवतु न दोषाय ॥ ४ ॥
अनित्यत्वादायुषो यथोपपादं वा सेवेत ॥ ५ ॥
अनित्यत्वादिति। वर्षशतादर्वाग्विनाशदर्शनात्। यथोपपादमिति। यद्यदोपपद्यते तत् तदा सेवेत बाल्येऽर्थं धर्ममपि, यौवने कामं धर्मा-