भारतकोश
संग्रह पर लौटें

खण्डनखण्डखाद्यम् (महाकवि श्रीहर्ष - अद्वैत न्याय-खण्डन एवं तत्त्व-निर्णय सटीक)

Khandanakhandakhadya of Mahakavi Sriharsha with Commentary

महाकवि श्रीहर्ष द्वारा

DevanagariHindipublished610 पृष्ठ

परिच्छेद ] सर्वखण्डन-प्रकार का उपदेश ५७६ ध्यात् । तत्र खण्डनवादिनः प्रस्तुता प्रतिक्रिया न स्फुरेत् , तदाऽपरेण प्रयुज्यमाने वाक्ये बहुपदात्मके कस्यचित्पदस्यार्थं खण्डनान्तरमवतारणीयम् । एवं तत्रापि परेण प्रज्ञाशोषणे पुनस्तथैव शाखान्तरेषु सङ्क्रमणीयमिति प्रकारेण खण्डनमये चक्रे सम्यगवधेयम् । न च शाखान्तरसङ्क्रान्तावर्थान्तरं पतेत्; अप्रकृतत्वाभावात् । न चैकनि- र्णयारम्भे अन्यसङ्क्रान्तावनौचित्यं स्यात्; 'शब्दोऽनित्यः कृतकत्वादि'त्यादौ परेणोक्ते कृतकत्वादौ विप्रतिपत्तव्यत्वापत्तेरन्यतरासिद्ध्याद्युच्छेदापातात् । येन हि तन्निर्वाह्यते, तदनिर्वचनीयतयाऽपि निर्वाह्याऽनिर्वचनीयतैवेति । तस्मात्— 'तत्तुल्योहस्तदीयं च योजनं विषयान्तरे । शृङ्खला तस्य शेषे च त्रिधा भ्रमति मत्क्रिया ॥' प्रयुक्त बहुपदात्मक वाक्य में किसी पद के अर्थ का खण्डन करने के लिए खण्डनान्तर का अवतरण करना चाहिए । इसी प्रकार यदि वहां भी वादी प्रज्ञा का शोषण ( निष्प्रभ ) कर दे, तो पुनः उक्त प्रकार से अन्य शाखा का अवलम्बन करना चाहिए । अन्य शाखा के अवलम्बन से अर्थान्तर भी नहीं होगा; कारण वह ( अन्य शाखा ) भी प्रस्तुत ही है और 'अप्रस्तुत अन्य अर्थ का अवलम्बन' ही 'अर्थान्तर' होता है । इसी प्रकार एक पदार्थ के निर्णय के आरम्भ में अन्य पदार्थ के संक्रमण से होनेवाला अनौचित्य भी यहां नहीं होगा; कारण अनौचित्य भी अप्रस्तुत अन्य के अवलम्बन में ही होता है । अन्यथा यदि प्रस्तुत विषय में भी अर्थान्तर या अनौचित्य हो, तो शब्द में कृतकत्व से अनित्यत्व-साधन के प्रस्ताव में अर्थान्तर के भय से कृतकत्व में भी विप्रतिपत्ति ( जिज्ञासा ) नहीं होगी । साथ ही अन्यतरासिद्धि-स्थल का भी उच्छेद हो जायगा । कारण अन्यतर के प्रति ' हेतु के असिद्धिस्थल में यदि हेतु की सिद्धि करें तो अर्थान्तर या अनौचित्य हो जायगा । फलतः साध्य के साधन के प्रस्ताव में हेतु का साधन कोई नहीं करेगा । किन्तु वस्तुतः हेतु का निरूपण प्रस्तुत ही है; कारण जिस हेतु से जो निरूपित होता है, उस हेतु के अनिर्वचनीयत्व से साध्य का अनिर्व- चनीय सिद्ध होता है । तस्मात् मदुक्त्युक्ति के तुल्य अन्य युक्तियों की ऊहा, अन्यत्र उक्त मदुक्त युक्तियों का अन्यत्र योजन तथा उन युक्तियों का खण्डन होने पर शृङ्खला-शाखान्तरारोहण—इस प्रकार वाद में मेरी खण्डन-प्रक्रिया तीन प्रकार से चक्कर काटती रहती है ।

५८० सानुवाद खण्डनखण्डखाद्य [ चतुर्थ उपसंहारः ग्रन्थग्रन्थिरिह क्वचित्क्वचिदपि न्यासि प्रयत्नान्मया, प्राज्ञम्मन्यमना हठेन पठिती माऽस्मिन् खलः खेलतु । श्रद्धाराद्धगुरुश्लथीकृतदृढग्रन्थिः समासाद्यत्, त्वेतत्तर्करसोर्मिमज्जनसुखेष्वासञ्जनं सज्जनः ॥ ताम्बूलद्वयमासनं च लभते यः कान्यकुब्जेश्वरात् यः साक्षात्कुरुते समाधिषु परब्रह्मप्रमोदार्णवम् ॥ उपसंहार इस ग्रन्थ में कहीं-कहीं यत्नपूर्वक रचना का काठिन्य हमने इसी प्रयोजन से किया है कि जो प्राज्ञम्मन्य हैं, वस्तुतः प्राज्ञ नहीं हैं तथा हठ से पढ़नेवाले हैं, वे खल- जन इस ग्रन्थ में क्रीड़ा न करें । किन्तु श्रद्धा से आराधित गुरुओं द्वारा जिन्होंने ग्रन्थ-काठिन्य विघटित कर दिया, ऐसे सज्जन विद्वान् ही मदुक्त तर्क की रस-ऊर्मी में मज्जन-सुख से प्रेम का लाभ करें । कान्यकुब्ज देश के महाराज से जिन्हें दो बीड़े पान तथा उच्च आसन प्राप्त होता है, जो समाधि में आनन्द ब्रह्म का साक्षात्कार करते हैं तथा जिनका काव्य मधु- १. शंका हो कि समाधि द्वारा ब्रह्मसाक्षात्कार होने पर तो उस व्यक्ति सारा कर्तव्य ही समाप्त हो जाता है । फिर वह ग्रन्थ-रचना कैसे करेगा ? तो यह ठीक नहीं । समाधि में ब्रह्म का साक्षात्कार करनेवाला भले ही उस समय ग्रन्थ न रच पाये, किन्तु बाद में तो रच ही सकता है । ब्रह्मसाक्षात्कारी कुछ करता ही नहीं, ऐसा भी नहीं कह सकते । कारण जीवन्मुक्त लोग देवता और गुरु का आराधन करते पाये ही जाते हैं । आहार्य भेदज्ञान करके वे जैसा उन कामों को करते हैं, वैसे ही ग्रन्थ-रचना भी करें, तो कोई बाधा नहीं है । इसी तरह यह भी नहीं कहा जा सकता कि ब्रह्मसाक्षात्कार या अद्वैत-भावना के कारण श्रवण, मनन-निदिध्यासन आदि का चतुर्थाश्रमी (संन्यासी) को ही अधिकार है; श्रीहर्ष जैसे गृहस्थ यह नहीं कर सकते । कारण श्रवणादि के बिना गुरु और देवता के प्रसाद से भी मानव को अद्वैत-भावना हो सकती है । इसीलिए 'नायमात्मा प्रवचनेन लभ्यः...’, ‘शृण्वन्तोऽपि बहवो यन्न विदुः’ इत्यादि श्रुतियाँ स्वरसतः संगत होती हैं । 'ईश्वरानुग्रहादेव पुंसामद्वैत- वासना' आदि वचन भी स्पष्ट यही कहते हैं । चतुर्थाश्रम का साफल्य तो विशेष रूप से निवृत्ति- प्रियों के लिए ही हो सकता है । अतः उसका भी वैफल्य नहीं होगा ।

परिच्छेद ] उपसंहार ५८१ यत्काव्यं मधुवर्षि धर्षितपरास्तर्केषु यस्योक्तयः श्रीश्रीहर्षकवेः कृतिः कृतिमुदे तस्याऽभ्युदीयादियम् ॥ इति कवितार्किकचक्रवर्त्ति-श्रीश्रीहर्षकृते खण्डनखण्डखाद्ये सङ्कीर्णः तृतीयः परिच्छेदः । वर्षी है तथा तर्कों में जिनकी युक्तियाँ प्रतिवादियों को परास्त कर देती हैं उन श्री श्रीहर्ष कवि का यह ग्रन्थ पण्डितों के आनन्द के लिए प्रकट हुआ है । 'गौरीशङ्कर'-श्रेष्ठिनाऽत्र 'खुरजा'रत्नेन काश्यां मुदा 'जोखीराम'पितामहस्य मटरूमल्ल'स्य तातस्य च । नामालङ्कृतनामसंस्कृतमहाविद्यालयः स्थापितः तत्सेवाधिकृतः तदेककरणः 'चण्डीप्रसादो' द्विजः ॥ १ ॥ क्वाहं कुत्र च खण्डनस्य सुदृढग्रन्थिप्रमोकेच्छया, प्रारम्भो विकटश्रमश्च जननीभाषानुवादस्य मे । यद्यप्येवमथापि पूर्णकृपया श्रीशस्य सङ्ख्यावतां कारुण्यैकधियां विधाय करयोस्खोऽर्प्यते सादरम् ॥ २ ॥ स्वर्गीय श्रीचण्डीप्रसाद सुकुल-रचित खण्डनखण्डखाद्य का भाषानुवाद समाप्त ।

खण्डनखण्डखाद्य की अकाराद्यनुक्रमसहित कारिकाएँ

संख्याकारिकापृष्ठ-संख्या
१.अथान्यः स विशेषश्चेत् तद्धीत्वं कश्चिदिष्यते ।
दत्तः साकारवादाय विष्टरः स्पष्टमेव तत् ॥२१४
२.अथोच्यते य एवार्थो यस्यां संविदि भासते ।
तद्वेद्यः स पृथक् नेति वेद्यावेद्यस्य लक्षणम् ॥४६५
३.अद्वैतागमनासीरे साधु सा धुन्वती परान् ।
सैवमेवार्जयत्यर्थापत्तिपत्तिपरम्परा ॥७६
४.अनौचित्याऽपि तर्केण दुर्बाधैवाद्वयश्रुतिः ।
अनारोपितमूलत्वाद् बलवत्त्वात्तथादृशा ॥६१
५.अन्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः ।
नान्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः ॥१९
६.अन्यथानुपपत्तिश्चेदस्ति वस्तुप्रसाधिका ।
पिनष्टि दृष्टवैषम्यं सैव सर्वबलाधिका ॥४२
७.अन्योन्याभावसंसर्गाभावभेदव्यवस्थितौ ।
सत्यां स्यात्तद्व्यवस्थेति स्वाश्रयं कश्चिकित्सतु ॥१३६
८.अभीष्टसिद्धावपि खण्डनाना-
मखण्डि राज्ञामिव नैवमाज्ञा ।
तत्तानि कस्मान्न यथाभिलाषं
सैद्धान्तिकेऽप्यध्वनि योजयध्वम् ॥८२
९.अभेदं नोल्लिखन्ती धीर्न भेदोल्लेखनक्षमा ।
तथा चाऽऽद्ये प्रमा सा स्यान्नान्त्ये स्वोपेक्ष्यवैशसात् ॥६७
१०.अर्थादुत्स्थास्त्ववो धर्मा नानुमात्वादयो यथा ।
नद्वैत्वमपि तद्वत् स्यादित्यर्थोऽनर्थमाविशेत् ॥२१५

३८३ खण्डनखण्डखाद्य-कारिका संख्या कारिका पृष्ठ-संख्या . ११. अविकल्पकः स्थाणुः पुरुषः श्रुतोऽस्ति यः श्रुतिषु । १ ईश्वरमुमयं परं वन्देऽनुमयाऽपि तमधिगतम् ॥ १२. अविशिष्टास्य वैशिष्ट्ये यदि धीर्विशेत् । ४३५ तद्बुद्धिधारन्तः स्याद्वा मूलाविशिष्टता ॥ १३. असंसर्गाग्रहस् मन्ता शंसत्यबाधिते । ६० अत्यन्तासदसंसंऽहं संसर्गलग्नकम् ॥ १४. आगमेनानुमाने ध्यानात् प्रत्यक्षेण च । २५० त्रेधाऽऽत्मनि' णानां संप्लवः स्वार्थमिष्यते ॥ १५. आद्यधीवेद्यभेदीध्न्यथानुपपन्नता । ५९ स्वज्ञानापेक्षणादन् बाधते नाद्वयश्रुतिम् १६ आपातो ऽदमद्वयवादीनीना- मद्वैतमात्ममर्थतया श्रुतीनाम् । तत् स्वप्रकाशर्थचिदेव भूत्वा ८१ निष्पीडितह ! निर्वहते विचारात् ॥ १७. आशामोदकतृप्ता ये चोपार्जितमोदकाः । २३ रस-वीर्य-विपाकादि ल्यं तेषां प्रसज्यते ॥ १८. ईश्वरानुमहादेषा पुंसामद्वैतवासना । ८१ महाभयकृतत्राणा णिणां यदि जायते ॥ १९. उपपादयितुं स्तैर्मतैरशकनीययोः । २१५ अनिर्वक्तव्यतावाद-पादसेगतिस्तयोः ॥ २०. एकोऽनेकविशेषेऽर्थे विधौ यत्र लक्ष्यते । १६३ तद्विशेषान्तरान्यत्वात् शेषस्तत्रैव धावति ॥ २१. एकं ब्रह्मास्त्रमादाय नान् गणयतः क्वचित् । ६४ आस्ते न धीरवीरस्य श्ङ्गः सङ्गरकेलिषु ॥ २२. एतदेव परामृश्य भर्तृहरिदुदाहृतम् । २४८ लक्षणस्याभिधानं तु केनांशेनोपयुज्यते ॥ २३. कथं सामान्यतो ज्ञाते नैव ज्ञाते विशेषतः । ६४ पह्रोभस्त्वया कर्तुं शक्यः स्यादद्वयश्रुतेः ॥

५८४ खण्डनखण्डखाद्य-कारिक · संख्या कारिकाः पृष्ठ-संख्या २४. गुरुधियमभावस्य स्थाने स्थानेऽुक्तवान् । प्रसिद्ध एव लोकेऽस्मिन् बुद्धबन्धुः प्रभाकरः ॥ ४३५ २५. ग्रन्थग्रन्थिरिह क्वचित्क्वचिदपि न्यासि तन्मया, प्राज्ञंम्मन्यमना हठेन पठिती माऽस्मिन् खेलतु । श्रद्धाराद्धगुरुश्लथीकृतदृढग्रन्थिः सादयत् , त्वेतत्तर्करसोर्मिमज्जनसुखेष्व्ासञ्जनं सञ्जनः ॥ ५८० २६. तत्तुल्योहस्तदीयं च योजनं विषयान्तरे । शृङ्खला तस्य शेषे च त्रिधा ति मंतक्रिया ॥ ५७९ २७. तत्सङ्कत्प्रत्यभिज्ञानं यत्ते स्कारबोधकम् । सहकारि तदेवास्ताम्यातिप्रसङ्गनुत् ॥ ११३ २८. तथाहि मिथिलानाथो मुमुक्षेमः पुरा । आहेदं मिथिलादाहे न मे रूञ्चन दह्यते ॥ १८६ २९. तस्मादस्माभिरप्यस्मिन्नर्थे न ग्लु दुष्पठा । त्वद्गाथैवान्यथाकारमक्षराणि कियन्त्यपि ॥ २७१ ३०. ताम्बूलद्वयमासनं च लभते यः कान्कुब्जेश्वरात् , यः साक्षात्कुरुते समाधिषु परब्रह्मप्रमोदार्णवम् । यत्काव्यं मधुवर्षि धर्षितपरास्त्यु यस्योक्तयः, श्रीश्रीहर्षकवेः कृतिः कृतिमुदे त्स्याभ्युदीयादियम् ॥ ५८० ३१. दोषं व्यक्तिविवेकेऽमुं कविलोकविलोचने । काव्यमीमांसिषु प्राप्तमहि महिमाऽऽदृत ॥ ५७२ ३२. धीधनाः ! बाधनायास्यास्तर प्रज्ञां प्रयच्छथ । क्षेप्तुं चिन्तामणि पाणौधमथौ यदीच्छथ ॥ ८१ ३३. नातत्तन्मन्यसे तावन्न तत्तदपि मंस्यते । सामानाधिकरण्यं हि रूपभेदमपेक्ष्यते ॥ १३२ ३४. नात्यापत्त्य प्रमामात्रान्ने तेऽर्थाः स्वीक्रियोचिताः । तद्विप्यस्तदूरीकारे क्वाश्रयं कश्चिकित्सतु ॥ २१४ ३५. नानात्वमवलम्ब्यापि वदत्यद्वैतवादिनि । असिद्धभेदाद् व्याघातः पतेदापादकात् कुतः ॥ ६५

खण्डनखण्डखाद्य-कारिका ३८५ संख्या कारिकाः पृष्ठ-संख्या ३६. पारमार्थिकमद्वैतं प्रविश्य शरणं श्रुतिः । बाधनादुपजीव्येन बिभेति न मनागपि ॥ ८९२ ३७ पूर्वसम्बन्धनियमे हेतुत्वे तुल्य एव नौ । हेतुतत्त्वबहिर्भूत-सत्त्वासत्त्वकथा वृथा ॥ ३८ प्रत्येयव्यस्य वैचित्र्यं प्रत्ययोल्लेखसाधिकम् । धियं निवेश्य लुम्पद्भी भङ्गं साक्ष्येव यच्छति ॥ ४३४ ३९. प्रवृत्तेनाप्यनौचित्यमूलं येन न ल्लूयते । तत्रानौचित्यसाम्राज्यं वैपरीत्यात्तु नात्र तत् ॥ ६१ ४०. प्रश्नस्य यः स्याद्विषयः स वाच्यो वाचा तया चैष भवेन्निरुक्तः । इयं त्वयाऽप्यास्थितमेतयैव गिरा स्वपृच्छाविषयस्य वक्त्रा ॥ ४१ ४१. प्राप्तोपाधिनिगम्यत्वप्रमाणापगमैर्भवेत् । अनवस्थितिमाधातुरचिकित्स्या त्रिदोषता ॥ ७४ ४२. प्राचोत्तरस्य नियमे प्राच एव न तेन किम् । अनाद्यनन्तयोर्नैवं विनिगन्ता प्रवाहयोः ॥ ४४८ ४३. बाधेऽदृष्टेऽन्यसाम्यात् किं दृष्टेऽन्यदपि बाध्यताम् । क्व ममत्वं मुमुक्षूणामनिर्वचनवादिनाम् ॥ १८६ ४४. मानापनोदनविनोदनते गिरीशे भासेव सङ्कुचितयोरुचितं तदिन्दोः । भेत्तुं भवानिशचितं दुरितं भवानि ! नम्रीभवानि घनमङ्घ्रिसरोजयोस्ते ॥ १ ४५. यथाविधं यं विषयं निजस्य प्रश्नस्य निर्वक्ति परो ययोक्त्या । वाच्यस्तथैवोत्तरवादिनाऽपि तथैव वाचा स तथाविधोऽर्थः ॥ ४१६ ४६. रूपान्तरेण निर्दिश्य तच्चेतदभिधीयते । ताद्रूप्येण तथापि स्यात् सैव सव्यभिचारता ॥ १३२

५८६ खण्डनखण्डखाद्य कारिकाः संख्या कारिकाः पृष्ठ-संख्या ४७. वाच्यान्यथोपपत्तिर्वा त्याज्यो वा दृष्टताग्रहः । न ह्येकत्र समावेशश्छायातपवदेतयोः ॥ ४२ ४८. विधिजः प्रत्ययोऽन्योऽयं व्यतिरेकासमर्थनः । नैवं चेदपराद्धं ते किमन्यापोहवादिना ॥ २३९ ४९. व्याघातो यदि शङ्काऽस्ति न चेच्छङ्का ततस्तराम् । व्याघातावधिरशङ्का तर्कः शङ्कावधिः कुतः ॥ २७१ ५०. शब्दार्थनिर्वचनखण्डनया नयन्तः सर्वत्र निर्वचनभावमखर्वगर्वान् । धीरा यथोक्तमपि कीरवदेतदुक्त्वा लोकेषु दिग्विजयकौतुकमातनुध्वम् ॥ २ ५१. समस्तलोकशास्त्रैकमत्यमाश्रित्य नृत्यतोः । का तदस्तु गतिस्तत्तद्बुद्धीव्यवहारयोः ॥ २१५ ५२. सर्वत्र सत्ताऽसत्ता वा नियमेऽन्यानपेक्षया । नियामकाद्धि भावानां क्वाचित्कत्वस्य सम्भवः ॥ २४६ ५३. सुदूरधावनश्रान्ता- बाधबुद्धिपरम्परा । विनिवृत्ताऽद्वयाम्नायैः पाष्णिग्राहैर्विजीयते ॥ ५६ ५४. सोऽपि वा धीविशेषः किं स्वीकार्यस्तद्वियं विना । एवञ्च सोऽपि सोऽपीति नान्तः सोपानधावने ॥ २१५ ५५. हेत्वाद्यभावसार्वज्ञ्ये सर्वं पक्षतयाऽऽस्थिते । किञ्चित्तु त्यजता दत्ता सैव द्वारद्वयश्रुतेः ॥ ५९

खण्डन-खण्ड-खाद्य में उद्धृत वचनों का अनुक्रम

वचनग्रन्थग्रन्थकारपृष्ठ
१. अत्यन्तासत्यपि ह्यर्थेश्लोकवा० (सू० २ का० ६)श्रीकुमारिलं६०, ४२४
२. अधःशब्दनिगद्यं किम्पराशरस्मृतिश्रीपराशर४५४
३. ऋये परप्रयुक्तानाम्श्लोकवा० (सू० ५, का० १४-२५)श्रीकुमारिल२७४
४. अप्रत्यक्षोपलम्भस्यप्रमाणवार्तिकश्रीधर्मकीर्ति३१
५. अयमेव हि भेदो भेदहेतुर्वाप्रमाणवार्तिकाळङ्कारश्रीप्रज्ञाकर गुप्त५३६
६. एकमेवाद्वितीयम्छान्दोग्य-उप० (६।२।१)×४६
७. एकसाध्याविनाभावोश्लोकवा० (बृहट्टीका)श्रीकुमारिल२७४
८. एवं त्रिचतुरजन्मनोंश्लोकवा० (सू०२, का० ६१)"१५.
६. तस्माद्बोधात्मकत्वेनश्लोकवा० (सू०२, का० ५३)"५६८
१०. दुःखजन्मप्रवृत्तिदोष०न्यायसूत्र (१।१।२)श्रीगौतम५६३
११. द्वितीयाद्वै भयं भवतिबृहदा० (१।४।२)×७६
१२. नहि शास्त्राश्रया वादाप्रमाणवार्तिकश्रीधर्मकीर्ति४०७
१३. निश्चितौ हि वादं कुरुतःतात्पर्यटीकाश्रीवाचस्पति३६५
१४. नेह नानाऽस्ति किञ्चनबृहदा० (६।१।२१)×४६
१५. नैषा तर्केण मतिरापनेयाकठोप० (२।६)×८१
१६. परस्परविरोधे हिकुसुमाञ्जलि (३।८)श्रीउदयनाचार्य४४,४२०
१७. प्रमाणवन्त्यदृष्टानितन्त्रवार्तिकं (२।१।५)श्रीकुमारिल४१
१८. प्रमाणमविसंवादिप्रमाणवार्तिक (१।३)श्रीधर्मकीर्ति१६४
१६. प्रत्यक्षावगतेऽपि दहनेतत्त्वोपप्लवसिंहश्रीजयराशिभट्ट२२४
२०. प्रमेया च तुलाप्रामाण्यवन्न्यायसूत्र (२।१।१६)श्रीगौतम३६६
२१. प्राग्दिशो विभक्तिःअष्टाध्यायी (५।३।१)श्रीपाणिनि३००
२२. मन्त्रायुर्वेदप्रामाण्यवच्चन्यायसूत्र (२।१।१२)श्रीगौतम१७५
२३. बुद्ध्या विवेचितानां तुलङ्कावतारसूत्र (सगाथक, १६७)श्रीबुद्धदेव४२
२४. (अत्र ब्रूमो) य एवार्थोप्रकरण-पञ्चिका (३)श्रीशालिकनाथ४६५
२५. यत्रानुकूलतर्को नास्तिकुसुमाञ्जलि (६।७)श्रीउदयन३२७

( २ ) २६. यत्रोभयोः समो दोषः तन्त्रवार्तिक (शून्यवाद) श्रीकुमारिल ३६३,५४४ २७. रिक्तस्य जन्तोर्जातस्य × सौगत ४०७ २८. लक्षणस्याभिधानं तु श्लोकवा० (४।२) श्रीकुमारिल २४८ २६. लब्धरूपं क्वचित्किञ्चित् ब्रह्मसिद्धि (तर्क० २) श्रीमण्डन मिश्र ५३६ ३०. वर्णा (ते) विभक्त्यन्ताः न्यायसूत्र (२।२।५६) श्रीगौतम ३०० ३१. वस्तुनः प्रतियोगिता कुसुमाञ्जलि (३।२) श्रीउदयन ५३६ ३२. विभक्तिश्च अष्टाध्यायी (१।४।१०४) श्रीपाणिनि ३०० ३३. विषवृक्षोऽपि संवर्ध्य सुभाषित × ५७६ ३४. सप्रयोजनमनुयुक्तो न्यायभाष्य श्रीवात्स्यायन ७ ३५. सम्बद्धं वर्तमानं च श्लोकवा० (४।८४) श्रीकुमारिल २३० ३६. समानमित्यनुत्तर० न्यायवार्तिक (२।१।१६) श्रीउद्योतकर ३६७ ३७. सुप्तिङन्तं पदम् अष्टाध्यायी (१।४।१४) श्रीपाणिनि ३०० ३८. स्वल्पमप्यस्य धर्मस्य गीता (२।४४) श्रीवेदव्यास ८१