किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
२८ किरातार्जुनीयम् [प्रथमः
अथोपायप्रयोगस्य फलवत्तां दर्शयति-
अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाः।
फलन्त्युपायाः परिबृंहितायतीरुपेत्य सङ्घर्षमिवार्थसम्पदः ॥१९॥
अनारतमिति। तेन राज्ञा पदेषूपादेयवस्तुषु। 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिप्रवस्तुषु' इत्यमरः। सम्यग् सङ्कीर्णमध्यस्तं च विभज्य विविच्य। विनियोग एव सत्क्रियाऽनुग्रहः। सत्कार इति यावत्। येषां ते लम्भिताः स्थानेषु सम्यक्प्रयुक्ता इत्यर्थः। उपाया सामादयः सङ्घर्षं परस्परस्पर्धामुपेत्येवेत्युत्प्रेक्षा। परिबृंहितायतीः प्रचितोत्तरकालाः। स्थिरा इत्यर्थः। अर्थसम्पदोऽनारतमजस्रं फलन्ति। प्रसुवत इत्यर्थः॥१९॥
अन्वयः- तेषु पदेषु सम्यग् विभज्य लम्भिताः, विनियोगसत्क्रियाः उपायाः, सङ्घर्षम्, उपेत्य इव परिबृंहितायतीः, अर्थसम्पदः, अनारतम् फलन्ति ॥१९॥
सुधा- तेन = राजा दुर्योधनेन, पदेषु = उपादेयवस्तुषु, सम्यक् = यथोचितम्, विभज्य = विभागं कृत्वा, लम्भिताः = यथास्थानं, प्रयुक्ताः, विनियोगसत्क्रियाः= धनदानरूपसत्कारवन्तः, उपायः = सामादयः, सङ्घर्षम् = अन्योन्यस्पर्धाम्, उपेत्य= प्राप्य इव, परिबृंहितायतीः = प्रचितोत्तरकालाः, अर्थसम्पदः = धनसम्पत्तीः, अनारतं सततं, फलन्ति = साधयन्ति इत्यर्थः॥१९॥
समासः- विनियोग एव सत्क्रियां येषां ते विनियोगसत्क्रियाः। अर्थाः एव सम्पदः अर्थसम्पदः। परिवृहित आयतिर्यासां ताः परिबृहितायतयः, ताः॥१९॥
व्याकरणम्- लम्भिताः = लभि + क्तः। विभज्य = वि+भज् क्त्वा = ल्यप्। फलन्ति = फल्+लट् ॥१९॥
वाच्यान्तरम्- विनियोगसत्क्रियैरुपायैरर्थसम्पदः फल्यन्ते ॥१९॥
कोषः- 'सततानारताश्रान्तताविरतानिशम्' इत्यमरः। 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः॥१९॥
सारार्थः- दुर्योधनविहिताः सामदानदण्डभेदाः अभ्युदयपरिणामा भवन्तः परस्परस्पर्धा कुर्वन्त इव सकलश्रियः फलन्ति। न कुत्रापि ते विफला भवन्ति ॥१९॥
भाषार्थः- वह दुर्योधन हर एक विभागों में जो साम, दान, दण्ड, भेद उपाय करता है, ये एक दूसरे से स्पर्धा रखते हुए के समान भविष्य में उन्नतिशील
सर्ग: ] \qquad घण्टापथ-सुधाव्याख्याद्वयोपेतम्। \qquad २९
सर्ग: ] \qquad घण्टापथ-सुधाव्याख्याद्वयोपेतम्। \qquad २९
होकर नाना प्रकार की दौलतें पैदा करते हैं, अर्थात् किसी काम में उसकी कुछ भी हानि नहीं होती है।
अर्थसम्पदमेवाह—
अनेकराजन्यस्थाश्वसङ्कुलं तदीयमास्थाननिकेतनाजिरम् ।
नयत्ययुग्मच्छदगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥ १६ ॥
अनेकेति । अयुग्मच्छदस्य सप्तपर्णपुष्पस्य गन्ध इव गन्धो यस्यासावयुग्मच्छदगन्धिः। 'सप्तम्युपमान' इत्यादिना बहुव्रीहिरुत्तरपदलोपश्च । 'उपमानाच्च' इति समासान्त इकारः। नृपाणामुपायनान्युपहारभूता ये दन्तिनस्तेषां मदः। 'उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः। राज्ञामपत्यानि पुमांसो राजन्याः क्षत्रियाः। 'राजश्वशुराद्यत्' इति यत्प्रत्ययः। राज्ञोऽपत्ये जातिग्रहणादन् । रथाश्चाश्वाश्च रथाश्वम् । सेनाङ्गत्वादेकवद्भावः। अनेकेषां राजन्यानां रथाश्वेन सङ्कुलं व्याप्तं तदीयमास्थाननिकेतनाजिरं सभामण्डपाङ्गनं भृशमत्यर्थमार्द्रतां पङ्किलत्वं नयति । एतेन महासमृद्धिरस्योक्ता । अत एवोदात्तालङ्कारः। तथा चालङ्कारसूत्रम्— ‘समृद्धिमद्वस्तुवर्णनमुदात्तः’ इति ॥१६॥
अन्वयः— अयुग्मच्छदगन्धिः नृपोपायनदन्तिनां, मदः, अनेकराजन्यस्थाश्वसङ्कुलं, तदीयम्, आस्थाननिकेतनाजिरं, भृशम्, आर्द्रतां, नयति ॥१६॥
सुधा— अयुग्मच्छदगन्धिः = सप्तपर्णपुष्पसुगन्धिः, नृपोपायनदन्तिनाम् = करदभूपोपहारीकृतहस्तिनाम्, मदः = दानवारि, गण्डस्थलनिःसृतजलविशेषः (कर्त्ता)। अनेकराजन्यस्थाश्वसङ्कुलम् = नानानरपतिवृन्दरथघोटकसङ्कीर्णम्, तदीयम्=दुर्योधनीयम्, आस्थाननिकेतनाजिरम् = सभामण्डपाङ्गनम्, भृशम् = अत्यर्थम्, आर्द्रत्ताम् = पङ्किलत्वम्, नयति = प्रापयति ॥१६॥
समासः— राज्ञां समूहो राजन्यो वा राज्ञामपत्यानि पुमांसो राजन्याः क्षत्रियाः। अनेके राजन्या इत्यनेकराजन्याः रथाश्चाश्वाश्चेति रथाश्वं, तेषामनेकराजन्यानां यद् रथाश्वं, तद् अनेकराजन्यस्थाश्वं तेनानेकराजन्यस्थाश्वेन सङ्कुलमिति अनेकराजन्यस्थाश्वसङ्कुलम्। आस्थानस्य निकेतनमास्थाननिकेतनम्, तस्य आस्थाननिकेतनस्याजिरमिति आस्थाननिकेतनाजिरम्। अयुग्मानि (विषमाणि), सप्त च्छदाः (पत्राणि) यस्य सः, अयुग्मच्छदः। अयुग्मच्छदस्य गन्ध इव गन्धो यस्य सः युग्मच्छदगन्धिः। उपायनानि दन्तिनः इत्युपायनदन्तिनः नृपाणां ये उपायन दन्तिनः ते नृपोपायनदन्तिनः, तेषां नृपोपायनदन्तिनाम् ॥१६॥
व्याकरणम्— नयति = नी + लट् ॥१६॥
३० | किरातार्जुनीयम् | [प्रथमः
वाच्यान्तरम्—अयुग्मच्छदगन्धिता, नृपोपायनदन्तिनां मदेन, अनेकराजन्य-रथाश्वसङ्कुलम्, तदीयम्, आस्थाननिकेतनाजिरम्, भृशम्, आर्द्रताम्, नीयते ॥१६॥
कोषः—‘सप्तपर्णो विशालत्वक् शारदो विषमच्छदः’ इत्यमरः। उपायनमुपग्राह्यमुपहारस्तथोपदा’ इत्यमरः। ‘अङ्गनं चत्वराजिरे’ इत्यमरः। ‘घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः’ इत्यमरः। ‘मण्डः कटो मदो दानम्’ इत्यमरः॥१६॥
सारार्थः—करदभूपैरुपहारीभूतानां मत्तमातङ्गानां मदजलैस्तत्रागतानामानृपरथघोटकसङ्कीर्णं दुर्योधनस्य सभामण्डपाङ्गनं पङ्किलत्वं पिच्छिलत्वं च विधीयते ॥१६॥
भाषार्थः—सप्तपर्ण (छतिवन) के फूल के समान गन्धवाले, राजाओं के नजराने में आये हाथियों का मदजल अगणित राजाओं के रथ और घोड़ो से भरे हुए, उस दुर्योधन के सभामण्डप के आँगन को गीला (कीचड़ युक्त) बनाता है।
सम्प्रति जनक्षेमकरत्वमाह—
सुखेन लभ्या दधतः कृषीवलैरकृष्टपच्या इव सस्यसम्पदः।
वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन् कुरवश्चकासति ॥१७॥
सुखेनेति—चिराय तस्मिन्दुर्योधने क्षेमं वितन्वति क्षेमकरे सति। देवः पर्जन्य एव माता येषां ते देवमातृका वृष्ट्यम्बुजीविनो देशाः। ते न भवन्तीत्यदेवमातृकाः। नदीमातृकाः इत्यर्थः। ‘देशो नद्यम्बुवृष्ट्यम्बुसम्पन्नव्रीहिपालितः। स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥’ इत्यमरः इतेनास्य कुल्यादिपूर्णप्रवर्तकत्वमुक्तम्। कुरूणां निवासाः कुरवो जनपदविशेषाः। कृष्टेन पच्यन्त इति कृष्टापच्याः। राजसूय’ इत्यादिना कर्मकर्तारि क्यप्प्रत्ययान्तो निपातः। तद्विपरीताः। अकृष्टपच्या इव। कृषियेषामस्तीति तैः कृषीवलैः। कर्षकैरित्यर्थः। ‘रजःकृषि’ आदिना वलच् प्रत्ययः। ‘वले’ इति दीर्घः। सुखेनावक्लेशेन लभ्य लब्धुं शक्याः सस्यसम्पदो दधतो धारयन्तः। ‘नाभ्यस्ताच्छतुः’ इति नुमागमप्रतिषेधः। चकासति सर्वोत्कर्षेण वर्तन्ते इत्यर्थः। ‘अदभ्यस्तात्’ इति झेरदादेशः ‘जक्षित्यादयः षट्’ इत्यभ्यस्तसंज्ञा। सम्पन्नजनपदत्वादसन्तापकरत्वाच्च दुःसाध्योऽयमिति भावः॥१७॥
अन्वयः—चिराय, तस्मिन्, क्षेमं, वितन्वति, अदेवमातृका, कुरवः, अकृष्टपच्याः, इव, कृषीवलैः, सुखेन, लभ्याः, सस्यसम्पदः दधतः, चकासति ॥१७॥
सुधा—चिराय = चिरकालम्, तस्मिन् = दुर्योधने, क्षेमं = कुशलम्, प्रजास्वित्यर्थः। वितन्वति = कुर्वति सति, प्रजानां सुखार्थं यत्र तत्र क्षेत्रसमीपे
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ३१
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ३१
कूपप्रणालिका प्रभृतिजलवहविधिं, विधातरि दुर्योधने इत्यर्थः। येन वृष्ट्यभावेऽपि समये प्रजाजनो दुर्भिक्षक्षोभाकुलो न भवत्विति धियेति तत्त्वम्। अदेवमातृकाः = नदी मातृकाः, देवमातृकास्ते देशा येषु वृष्ट्या अन्नानि जायन्ते, तन्निन्नास्तु नदीमातृकाः प्रोच्यतेः, कुरवः = कुरूणां निवासा देशविशेषाः, अकृष्टपच्याः = अकर्षणसिद्धाः इव, यथा हलादिभिः कर्षं विनैव सस्यजनयितारस्तथैवेति भावः, कृषीवलैः = कर्षकैः कृषिकर्मकरैरित्यर्थः। सुखेन = अप्रचुरप्रयासेन, अल्पायासेनेत्यर्थः। लभ्याः = प्राप्याः, सस्यसम्पदः = सस्यराजीः, दधतः = धारयन्त इति भावः। चकासति = शोभन्ते, विराजन्ते, इति ॥१७॥
समासः- देव एव माता येषां ते देवमातृकाः, न देवमातृका इति अदेवमातृकाः। कृषिरस्ति येषां ते कृषीवलास्तैः कृषीवलैः। 'रजःकृषि-' इत्यनेन वलच्-प्रत्ययः। कृष्टेन पच्यते इति कृष्टपच्याः, न कृष्टपच्याः इत्यकृष्टपच्याः। सस्यस्य सम्पदः सत्यसम्पदः। ॥१७॥
व्याकरणम्- लभ्याः = लभ् + यत्। दधतः = धा शत्। वितन्वति = वि + तनु + लट् + शतृ। अकृष्टपच्याः॥ अकृष्ट + पच् + क्यप्। चकासति = चकास् + झि + लट् ॥१७॥
वाच्यान्तरम्- चिराय तस्मिन् क्षेमं वितन्वति (सति) अदेवमातृकैः कुरुभिः अकृष्टपच्या इव कृषीवलैः सुखेन लभ्याः दधद्भिः चकास्यते ॥१७॥
कोषः- 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः इत्यमरः। 'देशो नदाम्बुवृष्ट्यम्बुसम्पन्नव्रीहिपालितः। स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥' इत्यमरः। 'भावुकं भाविकं भव्यं कुशलं क्षेममस्त्रियाम्., इत्यमरः। 'क्षेत्राजीवः कर्षकश्च कृषकश्च कृषीवलः' इत्यमरः। 'वृक्षादीनां फलं सस्यम्' इत्यमरः॥१७॥
सारार्थः- प्रजापालनाय दुर्योधनः सस्यवृद्ध्यर्थं यत्र तत्र नदीप्रवाहतः प्रणालिकाप्रभृतिजलवहमार्गं विधाय स्वराज्याद् दुर्भिक्षं दूरीकृत्य तथा करोति, यन्न तत्रजाः विना प्रयासेन स्वेनैव जातानीव सस्यानि । लेभिरे ॥१७॥
भाषार्थः- बहुत दिनों में प्रजाओं के हित के लिए उपाय करते रहते दुर्योधन के आधिपत्य से नदीमातृका कुरुदेशवाले बिना जोते (बिना प्रयास के ही) उपजे हुए के समान अनाजवाले किसानों से सम्पन्न जायदाद को धारण करते हुए सुशोभित हैं ॥१७॥
३२ किरातार्जुनीयम् [प्रथमः
नन्वेवं जनपदानुवर्तिनः कथमर्थलाभ इत्यत आह— उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया । स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी ॥१८॥
उदारेति— उदारकीर्तेर्महायशसः। ‘उदारो दातृमहतोः’ इत्यमरः। दयावतः परदुःखप्रहाणेच्छोः। अतः एव प्रशान्तबाधं प्रशमितोपद्रवं यथा स्यात्तथेति क्रियाविशेषणम् उदयविशेषणं वा। ‘वा दान्तशान्त—’ इत्यादिना शमिधातोर्ण्यन्तान्निष्ठाान्तो निपातः। अभिरक्षया सर्वतस्त्राणेनोदयं वृद्धि दिशत सम्पादयतो वसूपमानस्य कुबेरोपमस्य। ‘वसुर्मुखाग्निधनाधिपेषु’ इति विश्वः। अस्य दुर्योधनस्य गुणैर्दमादाक्षिण्यादिभिरुपस्नुता द्राविता मेदिनी वसूनि धनानि। ‘वसु तोये घने मणौ’ इति वैजयन्ती। स्वयं प्रदुग्धे। अक्लेशेन दुग्धत इत्यर्थः दुहेः कर्मकर्तरि लट्। ‘न दुहस्नुन्मां यक्चिणौ’ इति यक्प्रतिषेधः। यथा केनचिद्दिग्धेन नवप्रसूता रक्षिता च गौः स्वयं प्रदुग्धे तद्वदिति भावः। अलङ्कारस्तु—‘विशेषणमात्रसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः’ इति सर्वस्वकारः। अत्र प्रतीयमानया गवा सह भ्रुकृतालङ्कया मेदिन्या भेदेऽभेदलक्षणातिशयोक्तिवशाद्दोह्यत्वेनोक्तिरिति संक्षेपः॥१८॥
अन्वयाः— उदारकीर्ते, दयावतः अभिरक्षयाः प्रशान्तबाधम्, उदयं दिशतः वसूपमानस्य, अस्य, गुणैः, उपस्नुता, मेदिनी, स्वयं वसूनि, प्रदुग्धे ॥१८॥
सुधा— उदारकीर्तेः=विततयशसः दयावतः = करुणाऽन्वितस्य, अन्यजनक्लेशामहिष्णोरित्यर्थः। अभिरक्षया = सर्वथा रक्षणेन, प्रशान्तवाधम् = निरुपद्रवम्, उदयम् = अभ्युदयम्, उन्नतिमित्यर्थः। दिशतः = सम्पादयतः, विधातुरित्यर्थः वसूपमानस्य = कुबेरोपमस्य, अस्य = दुर्योधनस्य, गुणैः = औदार्यगाम्भीर्यशौर्यादिभिः, उपस्नुता = द्राविता, मेदिनी = वसुन्धरा, पृथ्बीति वा, स्वयम् = आत्मनैव, अप्रेरितैवेत्यर्थः। वसूनि = धनानि, प्रदुग्धे = सुखेन दुह्यते इत्यर्थः, यथा केनचिच्चतुरेण प्रसूता गौर्नवतृणग्रासादिभिः पोषिता सती दोहकं विलोक्य स्वयं हम्भारवं कृत्वा उपस्नुना भवति, तथैव दुर्योधनस्यालौकिकैर्गुणर्मुदिता मही उर्वरा भूत्वा स्वयं धनानि जनयतीत्यर्थः॥१८॥
समासः— उदरा कीर्तिर्यस्य स उदारकीर्तिस्तस्योदारकीर्तेः। दयाऽस्यास्तीति दयावान्, तस्य दयावतः। अभितो रक्षाऽभिरक्षा, तयाऽभिरक्षया। प्रकर्षण शान्ता बाधा यस्मिन्सः प्रशान्तबाधस्तं प्रशान्तबाधम्। वसुरुपमानं यस्य स वसूपमानः तस्य वसूपमानस्य ॥१८॥
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ३३
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ३३
व्याकरणम्- दिशतः = दिश् + शतृ । प्रदुग्धे = प्र+दुह + लट् ॥१८॥ वाच्यान्तरम्- उपस्नुतया मेदिन्या स्वयं वसूनि पदुह्यन्ते ॥१८॥ कोषः- 'कृपा दयाऽनुकम्पा स्याद्' इत्यमरः। 'वसुर्मयूखाग्निधनाधिपेषु' इति विश्वः। अत्र धनाधिपः कुबेरः। 'वसु तोये धने मणौ' इति वैजयन्ती ॥१८॥ सारार्थः- यथा काऽपि नवप्रसूता गौर्नवकोमलतृणग्रासादिकानेन पोषिता तं ग्रासदायकं विलोक्य हर्षिता भूत्वा स्वयं दुग्धं क्षरति, तथैव प्रणिपातेन परितः प्रजाः परिपालयता, यत्र तत्र निर्जले जलाशय- जल-प्रणालिकादि-जलप्रवाहेण, कुत्रचिद्रो-गोपद्रवान्विते प्रान्ते वैद्यालयनिर्माणपूर्वकौषधिदानेन, कुत्रचिद् दुर्भिक्षपीडिते जनपदे यत्र तत्रान्नानाथालयान्नादानालयादिरचनेन वशीकृताः प्रजाजना राजकीयधनसं-ञ्चयविधायकजनानुज्ञामन्तरेणैव समये करं दुर्योधनाय ददतीत्यर्थः। भावार्थः- निर्मल यश और दयावाले, सब प्रकार की रक्षा से प्रजाओं की निरुपद्रव उन्नति करते हुए कुबेर के सरीखे धनाढ्य उस दुर्योधन के गुणों से पेन्हाई हुई पृथ्वी स्वयं धनरूप (दुग्ध) देती है ॥१८॥
वीरभटानुकूल्यमाह- महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः । नसंहतास्तस्य नभिन्नवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥ १९॥
महौजस इति- महौजसो महाबलाः। अन्यथा दुर्बलानामनुपकारित्वादिति भावः। मानः कुलशीलाद्यभिमान एवं धनं येषां ते मानधनाः। अन्यथा कदाचिद् बलदर्पाद्विकुर्वीरन्निति भावः, धनार्चिताः धनैरर्चिताः, संस्कृताः। अन्यथा दारिद्र्यदैन्यं जिह्रीयुरिति भावः। संयति सङ्ग्रामे लब्धकीर्तयः। वसुयशस इत्यर्थः। अन्यथा कदाचितन्मुह्येयुरिति भावः। संहता मिथः सङ्गताः स्वार्थनिष्ठा न भवन्तीति नसंहताः। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। भिन्नवृत्तयो मिथो विरोधात्स्वामिकार्यकरा न भवन्तीति नभिन्नवृत्तयः। पूर्ववत्समासः। अन्यथा स्वामिकार्यविघातकतया स्वामिद्रोहिणः स्युरित्युभयत्रापि तात्पर्यार्थः। धनुर्भृतो धानुष्काः। आयुधीयमात्रोपलक्षणमेतत् । प्राधान्याद्धनुर्ग्रहणम्। तस्य दुर्योधनस्यासुभिः प्राणैः प्रियाणि समीहितं कर्तुं वाञ्छन्ति । आनृण्यार्थं प्राणान्दातुमिच्छन्ति । अन्यथा दोषस्मरणादिति भावः। अत्र महौजसादिपदार्थानां प्राणदानकर्तव्यतां प्रति विशेषणतया हेतुत्वाभिधानात्काव्यलिङ्गमलङ्कारः। लक्षणमुक्तम्। तथा साभिप्रायविशेषणत्वात्परिकरालंकार इति द्वयोस्तिलतण्डुलवद्विविक्ततया स्फुरणात्संसृष्टिः ॥१९॥
| ३४ | किरातार्जुनीयम् | [प्रथमः |
|---|
अन्वयः-महौजसः, मानधनाः, धनार्चिताः, संयति, लब्धकीर्त्तयः, धनुर्भृतः, नसंहता, नभिन्नवृत्तयः, (अपि तु) तस्य असुभिः, प्रियाणि, समीहितुम्, वाञ्छन्ति ॥१९॥
सुधा-महौजसः = अतितेजस्विनः, मानधनाः = मनस्विनः, धनार्चिताः = धनसत्कृताः, संयति = युद्धे, समरे, लब्धकीर्तयः = प्राप्तयशसः, वीरभटा इत्यर्थः। धनुर्भृतः = धनुर्धराः, नसंहताः = मिथः स्वार्थसिद्धयै न मिलिताः, अर्थादहमहमिकया सर्वे स्वामिहितकरणतत्परा इत्यर्थः। तथा च, नभिन्नवृत्तयः = पृथग्व्यापाराः, न सन्ति। सर्वे स्वाम्यभिलाषपूरणैकलक्ष्यवन्तः सन्तीत्यर्थः। तथाऽऽह, अपि तु सर्वे वीराः, तस्य = दुर्योधनस्य, असुभिः॥ प्राणैः, अपि, प्रियाणि = शुभानि, समीहितुम् = विधातुम्, वाञ्छन्ति = इच्छन्ति, अभिलषन्तीत्यर्थः॥१९॥
समासः- महत् ओजो येषां ते महौजसः। मान एव धन येषां ते 'मानधनाः धनैः पारितोषिकरूपैरर्चिता धनार्चिताः लब्धा कीर्तिर्यैस्ते लब्धकीर्तयः । धनुर्भृतः धनूंषि बिभ्रंतीति धनुर्भृतः, भिन्ना वृत्तियेषां ते भिन्नवृत्तयः॥१९॥
व्याकरणम्- वाञ्छन्ति=वाञ्छि+लट् । समीहितुम्=सम्+ईह+तुमुन् ॥१९॥
वाच्यान्तरम्- महौजोभिः मानधनैर्धनार्चितैः धनुर्भृद्भिः संयति लब्धकीर्तिभिः नसंहतैः नभिन्नवृत्तिभिः भूयन्ते । किन्तु असुभिरपि प्रियाणि समीहितुं वाञ्छ्यन्ते ॥१९॥
कोषः- 'बृहद्विशालं पृथुलं महत्' इत्यमरः। 'ओजो दीप्तौ बले' इत्यमरः। 'धन्वी धनुष्मान् धानष्को निष्षङ्ग्यस्त्री धनुर्धरः इत्यमरः। 'युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् । अस्त्रियां समरानीकरणाः कलहविग्रहौ । इत्यमरः। 'यशः कीर्तिः समज्ञा च' इत्यमरः। 'आजीवो जीविकावार्त्ता वृत्तिर्वर्त्तनजीवने ।' इत्यमरः 'पुंसि भूम्न्यसवः प्राणाश्चैवं जीवोऽसुधारणम्' इत्यमरः॥१९॥
सारार्थः- अतिबला अहङ्कारिणो लब्धानेकपारितोषिका, युद्धलब्धयशसो वीरा भटा दुर्योधनस्वामिनः कल्याणं प्राणैरपि कुर्वन्तीति ॥१९॥
भावार्थः- बड़े बलवाले, अभिमान ही धन है जिनके ऐसे और मौके पर पारितोषिक आदि द्वारा धनों से सम्मान पाये हुए और संग्राम में यश (जय) पाने वाले योद्धा लोग अपने स्वार्थसाधन के लिये मिले हुए नहीं हैं, वे सबके सब एक ही लक्ष्य पर निर्भर हैं और अपनी जानों से भी उस दुर्योधन का हित करना चाहते हैं ॥१९॥
सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् । ३५
सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् । ३५
सम्प्रति स्वराष्ट्रवत्परराष्ट्रवृत्तान्तमपि वेत्तीत्याह- महीभृतां सच्चरितैश्चरैः क्रियाः स वेद निःशेषमशेषितक्रियः। महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः॥२०॥
महीभृतामिति । अशेषितक्रियः। समापितकृत्यः आफलोदयकर्मेत्यर्थः। स दुर्योधनः। सच्चरितैः शुद्धचरितैः। अवञ्चकैरित्यर्थः। चरन्तीति चरास्तैश्चरैः प्रणिधिभिः। पचाद्यच् । महीभृतां क्रियाः प्रारम्भात्रिःशेषं वेद वेत्ति । 'विदो लटो वा' इति णलादेशः। स्वरहस्यं तु न कश्चिद्वेदेत्याह-महोदयैरिति । धातुरिव तस्य दुर्योधनस्येहितमुद्योगो महोदयैर्महावृद्धिभिः। हितमनुबध्नन्त्यनुरुन्धन्तीति हितानुबन्धिभिः। स्वन्तैरित्यर्थः। फलैः कार्यसिद्धिभिः प्रतीयते ज्ञायते । फलानुमेयास्तस्य प्रारम्भा इत्यर्थः॥२०॥
अन्वयः-अशेषितक्रियः, सः, सच्चरितैः, चरैः, महीभृताम्, क्रियाः, निःशेषम्, वेद, हितानुबन्धिभिः महोदयैः, धातुः, ईहितम्, इव, तस्य (ईहितम्) फलैः, प्रतीयते ॥२०॥
सुधाः-अशेषितक्रियः = समापितकृत्यः सः = दुर्योधनः, सच्चरितैः = सत्यशीलैः, चरैः = गूढचरैः, महीभृताम् = भूपतीनाम्, क्रियाः = सकलव्यापारान्, निःशेषम् = अवशेषम्, सकलमित्यर्थः, यथा स्यात्तथेति योज्यम् । वेद = जानाति, न ह्येकमपि तादृक् परेषां भूपानां कर्म, यद् दुर्योधनेन न ज्ञायते इति भावः। अर्थात्सर्वं ज्ञायते एव । अथ हितानुबन्धिभिः = सदा कल्याणकरणतत्परैः, महोदयैः = महानुभावैः, अन्यैर्भू पैरित्यर्थः। धातुः = ईश्वरस्य, ईहितम् = चेष्टितम्, एव, तस्य = दुर्योधनस्य, ईहितम् = ईप्सितम्, फलैः = परिणामैः, प्रतीयते = ज्ञायते । यथेश्वरस्य 'केनाशयेन किं कर्म करोती'ति पूर्वं कोऽपि न जानाति । पश्चात्तत्कर्म विलोक्यास्यायं एव इदमादावीश्वरेण कृतमिति जानाति। तथैव दुर्योधनस्यापि चेष्टितं कार्यपरिणामं विलोक्यैव सर्वैर्ज्ञातं भवतीति भावः॥२०॥
समासः-महीं बिभ्रतीति महीभृतस्तेषां महीभृताम्, सत् शुभं चरितं येषां ते सच्चरितास्तैः, न शेषिता अशेषिता, अशेषिता क्रिया येन सः अशेषितक्रियः। महानुदयो येषां ते महोदयास्तैर्महोदयैः। हितमनुबध्नन्तीति हितानुबन्धिन्स्तैर्हितानुबन्धिभिः॥२०॥
व्याकरणम्- वेद = विद् + लट् । प्रतीयते = प्रति + इण् + लट् ॥२०॥
वाच्यान्तरम्- अशेषितक्रियेण येन दुर्योधनेन सच्चरितैश्चरैरन्येषां महीभृतां
| ३६ | किरातार्जुननीयम् | [प्रथमः |
|---|
क्रियाः ज्ञायन्ते (विघ्नन्ते), हितानुबन्धिना महोदयाः धातुरिहितमिव तस्य चेष्टितम्, फलैः प्रतीयन्ति ॥२०॥
कोषः- 'यथार्हवर्णः प्रणिधिरपसर्पश्वरः स्पर्शः। चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ' इत्यमरः। 'स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः' इत्यमरः॥२०॥
**सारार्थः-**सर्वाङ्गसिद्धिशाली दुर्योधनोऽन्येषां कर्त्तव्यं गूढचरैः सर्वं जानाति, दुर्योधनस्य चिकिर्षितं प्राक्कोऽपि न वेत्ति। यदा तत्कृत्यपरिणामः प्रकटीभवति तदैव फलं दृष्ट्वा वृक्षपरिचयवत्तत्कृतं पश्चाज्जानातीति ॥२०॥
**भाषार्थः-**जिस काम को आरम्भ करता है, उसको पूरा करने वाला वह दुर्योधन गूढचरों के द्वारा अन्य राजाओं की कारामात समझता है। लेकिन उसके प्रेमी महानुभाव जन भी, ईश्वर की इच्छा के समान उसकी इच्छा को सिर्फ आखिरी नतीजे से ही समझ पाते हैं।
मित्रबलमाह-
न तेन सज्यं क्वचिदुद्यतं धनु कृतं न वा कोपविजिह्ममाननम्।
गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ॥२१॥
नेति। तेन राज्ञा क्वचित्कुत्रापि। सह ज्यया मौर्व्या सज्यम्। 'मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः। 'तेन सहेति तुल्ययोग' इति बहुव्रीहिः। धनुर्नोद्यतं नोर्ध्वाकृतम्। आननं च कोपविजिह्मं कोपकुटिलं न कृतम्। यस्य कोप एव नोदेति कुतस्तस्य युद्धप्रसक्तिरिति भावः। कथं तर्ह्याज्ञां कारयति राज्ञं इत्यत्राह— गुणेति गुणेषु दयादाक्षिण्यादिष्वनुरागेण प्रेम्णा। माल्यपक्षे सूत्रानुशङ्गेण। यद्वा, सौरभ्य-गुणलोभेन। नराधिपैरस्य शासनमाज्ञा। मालैव माल्यं तदिव। 'चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् इति क्षीरस्वामी। शिरोभिरुह्यते धार्यते। 'वचिस्वपियजादीनां किति इति यकि सम्प्रसारणम्। अत्रोपमा स्फुटैव ॥२१॥
**अन्वयः-**तेन, क्वचित् सज्यं, धनुः, न, उद्यतम्, वाकोपविनिजिह्यम्, आननम्, न कृतम्, गुणानुरागेण, नराधिपैः, अस्य, शासनम्, माल्यमिव, शिरोभिः, उह्यते।
**सुधा-**तेन = राज्ञां दुर्योधनेन क्वचित् = कुत्रापि सज्यम् = सशिक्षिनीकम् आरोपितमौर्वीकमित्यर्थः। धनुः कोदण्डम्, न, उद्यतम् = नोत्तानितम्, वा = तथा च, कोपविजिह्यम् = क्रोधकुटिलम्, अमर्षवैकृत्यम्, आननम् = मुखम्, न कृतम् = न विहितम्। अर्थात्सर्वे भूपतयोऽस्य शासनानुसारेणैव चलन्ति, न हि
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। ३७
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। ३७
केऽपि तत्प्रतिकूलाः सन्त्यत एव दुर्योधनस्य न हि धनुरुत्तानावसरो नहि वा क्रोधकरणावश्यकतेति भावः। तथैवाह- नराधिपैः = नरेन्द्रैः, भूपतिभिः, गुणानुरागेण = दयादाक्षिण्यादिस्नेहेन, अस्य = दुर्योधनस्य, शासनम् = आदेशवचः, माल्यम् = स्रक्, ग्रथितपुष्पसमूहः इव, शिरोभिः = शीर्षैः, उद्यते = धार्यते। तथा च माल्यमपि सूत्रबद्धं सदैव भूपतिभिर्धार्यते इति शेषः॥२१॥
समासः-ज्यया सहितं सज्यम्। कोपेन विजिह्यं कोपविजिह्यम्। गुणेष्वनुरागो गुणानुरागस्तेन गुणानुरागेण। नराणामधिपा नराधिपास्तैर्नराधिपैः॥ २१॥
व्याकरणम्- उद्यते—वह+कर्मणि लट् ॥२१॥
वाच्यान्तरम्- स क्वचित् सज्यं धनुः नोद्यतवान्। वा कोपविजिह्यम् आननं न कृतवान्। नराधिपाः गुणानुरागेण अस्य शासनं माल्यमिव शिरोभिर्वहन्तीति॥
कोषः-‘मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः। धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् इत्यमरः। ‘कोपक्रोधामर्षरोषप्रतिघा रुट् क्रुधौ स्त्रियो’ इत्यमरः। ‘अरालं वृजिनं जिह्ममृमितकुञ्चितं नतम्। आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि’ इत्यमरः ‘वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्’ इत्यमरः। ‘माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकाः’॥२१॥
सारार्थः-दुर्योधन एवं दयादाक्षिण्यादिगुणैः राष्ट्रं पालयति, येन न कोऽपि जनः तद्विरुद्धाचरणशीलोऽस्ति। न कुत्रापि दुर्योधनस्य क्रोधावसरो जातः। अपि तु ‘तत्प्रजापालनपद्धतिदर्शनप्रसन्नाः राजानो माल्यमिव तच्छासनं धारयन्ति’ शिरोभिरिति ॥२१॥
भाषार्थः-दुर्योधन ने कहीं भी रोदा चढ़ाकर धनुष को नहीं उठाया, न तो कभी क्रोधवश मुख ही टेढ़ा किया। आश्रित राजा लोग भी उसके गुणों के अनुराग से उसकी आज्ञा को माला के समान शिर पर धारण करते हैं ॥२१॥
सम्प्रत्यस्य धार्मिकत्वमाह-
स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः।
मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥२२॥
स इति। इद्धशासनोऽप्रतिहताज्ञः स दुर्योधनो नवयौवनोद्धतं प्रगल्भम्। धुरन्धरमित्यर्थः। दुःखेन शास्यत इति दुःशासनस्तम्। ‘भाषायां शासिबुधि-’ इत्यादिना खलर्थे युच्प्रत्ययः। यौवराज्ये युवराजकर्मणि। 'ब्राह्मणादित्वात्ष्यञ्।'
३८ किरातार्जुनीयम् [प्रथमः
निधाय । नियुज्येत्यर्थः। पुरोधसा पुरोहितेनानुमतोऽनुज्ञातः। तस्मिन्याजके सतीत्यर्थः। तदुल्लङ्घने दोषस्मरणादिति भावः। 'निष्ठा' इति भूतार्थे क्तः। न तु 'मतिबुद्धि' इत्यादिना वर्तमानार्थे । अन्यथा 'पुरोधसा इत्यत्र' क्तस्य च वर्तमाने' इति षष्ठी स्यात् । अखिन्नोऽनलसो मखेषु क्रतुषु हव्येन हविषा । हिरण्यं रेतो यस्य तं हिरण्यरेतसमनलं धिनोति प्रीणयति । धिन्वेः प्रीणनार्थाद् 'धिन्विकृण्व्योर च' इत्युप्रत्ययः। अकारश्चान्तादेशः॥२२॥
अन्वयः- इद्धशासनः, सः, यौवराज्ये, नवयौवनोद्धतम्, दुःशासनम्, निधाय, मखेषु, अखिन्नः, पुरोधसा, अनुमतः, (सन्) हव्येन, हिरण्यरेतसम्, धिनोति ॥२२॥
सुधा- इद्धशासनः = उग्राज्ञाकरः, सः दुर्योधन, यौवराज्ये = युवराजाधिकारे, नवयौवनोद्धतम् = अभिनवतारुणप्रगल्भम्, दुःशासनम्=एतन्नामानम्, निधाय=निवेश्य, मखेषु = यज्ञेषु, अखिन्नः=प्रसन्नः, अव्यग्र इत्यर्थः। यज्ञकर्मणि व्यग्रचित्तस्य न हि तत्फलाप्तिर्भवतीत्यत उचितमेवैतत् । पुरोधसा = पुरोहितेन । अनुमतः = अनुज्ञातः। यथा यथाऽऽदिशति पुरोहितस्तथा तथा, न हि तत्पृथक्किमपि;, पृथक्कर्म करणेन पुरोधसोऽपमानेन यज्ञफलप्राप्तिर्नैति । हव्येन = हविषा, घृत-यव-तिल प्रभृतिनेति भावः। हिरण्यरेतसम् = अग्निम्, धिनोति = जुहोति । न केवलमैहिकं लोकरञ्जनं क्रियते, अपि तु पारलौकिकोऽपि धर्मोऽनुष्ठीयते तेन, तद्वशतोऽपि प्रजाकल्याणमेव भवति । 'धर्मवतो । राज्ञो राज्ये न हि जनाः क्लेशभागिनो भवन्तीति ॥
समासः- युवा राजा युवराजस्तस्य कर्म यौवराज्यम्, तस्मिन् यौवराज्ये। नवं यौवनं नवयौवनम्, नवयौवनेन उद्धतो नवयौवनोद्धतस्तं नवयौवनोद्धतम् । इद्धं शासनं यस्य स इद्धशासनस्तमिद्धशासनम् । न खिन्नः, अखिन्नः। हिरण्यं सुवर्णं रेतो यस्य स हिरण्यरेतास्तं हिरण्यरेतसम् ॥२२॥
व्याकरणम्- निधाय = नि + धा क्त्वा+ल्यप् । धिनोति = धिवि + लट् + वस्योत्वं उप्रत्ययश्च ॥२२॥
वाच्यान्तरम्- तेन इद्धशासनेन यौवराज्ये नवयौवनोद्धतं दुःशासनं निधाय मखेषु अखिन्नेन पुरोधसाऽनुमतेन हव्येन हिरण्यरेताः धिन्व्यते ॥२२॥
कोषः- 'जनको युवराजस्तु कुमारो भर्तृदारकः' इत्यमरः। 'यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः' इत्यमरः। 'पुरोधास्तु पुरोहितः' इत्यमरः। 'हिरण्यरेत हुतभुग्दहनो हव्यवाहनः' इत्यमरः॥२२॥
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ३९
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ३९
सारार्थः—उग्रशासनो दुर्योधनो महाराजः राज्यकार्ये स्वकनिष्ठभ्रातरं दुःशासननामानं नियुज्य स्वयं निश्चिन्तो भूत्वा पुरोहितादेशानुसारं यज्ञं च करोति ॥२१॥
भाषार्थः— कठोर शासन करने वाला दुर्योधन अपने छोटे भाई दुःशासन को युवराज बनाकर स्वयं यज्ञ में निश्चित रूप से पुरोहित के आज्ञानुसार हव्य से अग्नि को सन्तुष्ट करता है ॥२२॥
न चैतावता निरुद्योगैर्भाव्यमित्याशङ्कयाशां दर्शयति—
प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः । स चिन्तयत्येव भियस्त्वदेष्यतीरहो दुरन्ता बलवद्विरोधिता ॥२३॥
प्रलीनेति । स दुर्योधनः। प्रलीनभूपालम् । निःसपत्नमित्यर्थः। स्थिरायति । चिरस्थायीत्यर्थः। भुवो मण्डलमावारिधिभ्य आवारिधि । आङ्मर्यादाऽभिविध्योः इत्यव्ययीभावः। प्रशासदाज्ञापयन्नपि । 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञा । 'नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः। त्वत् त्कत एष्यतीरगमिख्यतीः। धातूनामनेकार्थत्वादुक्तार्थसिद्धिः अथवाऽऽङ्पूर्वः पाठः। 'एत्येधत्यूठ्सु' इति वृद्धिः। 'लटः सद्वा' इति शतृप्रत्ययः। 'उगितश्च' इति ङीप् । 'आच्छीनद्योर्नुम्' इति विकल्पान्नुमभावः। भियो भयहेतून् । विपद इत्यर्थः। चिन्तयत्यालोचयत्येव । स एवाह- अहो बलवद्विरोधिता दुरन्ता दुष्टावसाना । सार्वभौमस्यापि प्रबलैः सह वैरायमाणत्वमनर्थपर्यवसाय्येवेति तात्पर्यम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥२३॥
अन्वयः—सः प्रलीनभूपालं, स्थिरायति, आवारिधि, भुवः, मण्डलम्, प्रशासत् अपि, त्वदेष्यतीः भियः, चिन्तयति, एव । अहो, बलवद्विरोधिता, दुरन्ता (भवति)॥
सुधा—सः=दुर्योधनः, प्रलीनभूपालम् = अप्रतिमभूपम्, अकण्टकम्, स्थिरायति = चिरस्थायि सदावर्त्तमानम्, आवारिधि = आसमुद्रम्, भुवः = पृथिव्याः, मण्डलम् = वलयम, प्रशासत् = आज्ञापयन्, अपि, त्वदेष्यतीः = त्वदागमिष्यतीः, भियः= विपदः, चिन्तयपि = आलोचयति, एव । कुत इत्याह— अहो इति सखेदोच्छ्वासे बलवद्विरोधिता=महाजनवैरिता, दुरन्ता = दुरवसाना, दुःखपरिणामा, भवतीति शेषः॥२३॥
समासः— प्रलीना भूपाला यस्मिन् तत् प्रलीनभूपालम्। स्थिरा आयतिरुत्तरकालो यस्त तत् स्थिरायति । आ वारिधिभ्य इति आवारिधि । बलमस्यास्तीति बलवान्, बलवद्भिः विरोधिता बलवद्विरोधिता ॥२३॥
४० किरातार्जुनीयम् [प्रथमः
व्याकरणम्- प्रशासत् = प्र+शास्+लट्+शतृ । चिन्तयति = चिन्ति + लट् । एष्यतीः = इण्+शतृ+ङीष् ॥२३॥
**वाच्यान्तरम्-**तेन दुर्योधनेन प्रलीनभूपालं स्थिरयति, आवारिति भुवो मण्डलं प्रशासत, त्वदेष्यत्यो भियश्चिन्त्यन्ते एव । अहो बलवद्विरोधितया दुरन्तया भूयते ॥
कोषः-'उत्तरः काल आयतिः' इत्यमरः। 'उदधिर्वारिधिः सिन्धुः सागरश्च सरित्पतिः' इति कोषः। मण्डलं वलयं समम्' इति कोष 'भीतिर्भीः साध्वसं भयम्' इत्यमरः॥२३॥
**सारार्थः-**निष्कण्टकमासमुद्रं भूमण्डलमात्मायत्तं कृत्वाऽपि त्वत्तो विभेत्येव। यतो महद्विर्विरोधो नियतं कदापि समूलनाशायैव भवति । पद्यमिदं विशङ्कमानो भवतः पराभवमि'त्याद्यस्यानुच्छायेवास्ति ॥२३॥
भाषार्थः- दुर्योधन के प्रताप के उदय होने से लुप्त हो गये हैं राजा लोग जहाँ और आगे के भी समय में किसी से टलने की शङ्का नहीं है जिनको, ऐसे समुद्र पर्यन्त भूमण्डल का शासन करता हुआ भी वह आप से आनेवाले डर को सोचता ही है क्योंकि अपने से बलिष्ठ के साथ विरोध करना कभी न कभी दुःख ही के लिये होता है ॥२३॥
ननु गूढाकारेङ्गितस्य तस्य भयं त्वया कथं निर्धारीत्यत्राह- कथाप्रसङ्गेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः। तवाभिधानाद्व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ॥२४॥
कथेति । कथाप्रसङ्गेन गोष्ठीवचनेन जनैः, तत्रत्यैरित्यर्थः॥ अन्यत्र कथाप्रसङ्गेन विषवैद्येन 'कथाप्रसङ्गो वार्तायां विषवैद्येऽपि वाच्यवत् इति विश्वः। एकवचनस्य तन्त्रत्वाज्जनविशेषणम् । उदाहृतादुच्चारितात्तवाभिमानान्नामधेयात्स्मारकारद्धेतोः 'हेतौ' इति पञ्चमी ।' आख्याह्व अभिधानं च नामधेयं च नाम च' इत्यमरः। अन्यत्र तवाभिधानात् । 'नामैकदेशग्रहणे नाममात्रग्रहणम्' इति न्यायात् तश्च वश्च तवौ तार्क्ष्यवासुकी तयोरभिधानं यस्मिन्पदे तस्मात् । यद्वा, कथाप्रसङ्ग इनाश्च ते जनाश्चेत्येकं पदम् । अनुस्मृताखण्डलसूनुविक्रमः स्मृतार्जुनपराक्रमः सन् दुःसहादतिदुःसहान्मन्त्रपदान्मन्त्रशब्दात्स्मारकाद्धेतोः आखण्डलसूनुरिन्द्रानुजः। उपेन्द्रो विष्णुरिति यावत् । 'सूनुः' पुत्रेऽनुजे रवौ' इति विश्वः। तस्य विः पक्षी । गरुड इत्यर्थः। तस्य क्रमः पादविक्षेपः। सोऽनुस्मृतो येन स तथोक्तः। स्मृतगरुडमहिमा । उरग इव, नताननः
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ४१
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ४१
सन्। व्यथते दुःखायते । 'पीडा बाधा व्यथा दुःखम्' इत्यमरः। अत्युत्कटभयदो- षादिविकारा दुर्वारा इति भावः। 'सर्वतो जयमन्विच्छेत्पुत्रा दिच्छेत्पराजयम्' इति न्यायादर्जुनोत्कर्ष कथनं युधिष्ठिरस्य भूषणमेवेति सर्वमवदातम् ।
अन्वयः— कथाप्रसङ्गेन, जनैः उदाहृतात्, तव, अभिधानात्, अनुस्मृताखण्डल सूनुविक्रमः, नताननः, सः (दुर्योधनः) सुदुःसहात्, मन्त्रपदात्, उरगः, इव, व्यथते ।
सुधा— कथाप्रसङ्गेन=वार्ताऽनुक्रमेण, जनैः = लोकैः, (वान्यपक्षे) कथाप्रसङ्गेन जनैः=विषवैद्यप्रवरलोकैः। उदाहृतात् = उच्चारितात्, तव = भवतः, युधिष्ठिरादेरि- त्यर्थः। अभिधानात् = नाम्नः, (वान्यपक्षे) तवाभिधात्=ताक्ष्यर्वासुकिनामकथनात्, अनुस्मृताखण्डलसूनुविक्रमः=स्मृतार्जुनपराक्रमः, (वान्यपक्षे) अनुस्मृता- खण्डलसूनुविक्रमः=स्मृतविष्णुपक्षिपद्वेगः, स्मृतगरुडवेग इत्यर्थः। नताननः नम्रमुखः सः, दुर्योधन इति शेषः। सुदुःसहात् = अतिदुःश्रवात्, मन्त्रपदात् = विषदूरीकरण- वाक्यविशेषात्, उरगः = सर्पः, इव, व्यथते = दुःखायते ॥२४॥
समासः— कथायाः प्रसङ्ग कथाप्रसङ्गस्तेन कथाप्रसङ्गेन । आखण्डलस्य सूनुः, आखण्डलसूनुः आखण्डलसूनोः विक्रमः आखण्डलसूनुविक्रमः, अनुस्मृतः, आखण्डलसूनुविक्रमो येन सः अनुस्मृताखण्डलसूनुविक्रमः। तच्च वश्च तौ, तार्क्ष्यवासुकी, तयोरभिधानमिति तवाभिधानं तस्मात्तवाभिधानात् । नतमाननं यस्य स नतानन्ः। मन्त्रस्य पदं, मन्त्रपदम्, तस्माद् मन्त्रपदात् ॥२४॥
व्याकरणम्— व्यथते = व्यथ = लट् ॥३४॥
वाच्यान्तरम्— कथाप्रसङ्गेन जनैः उदाहृताद्, अनुस्मृताखण्डलसूनुविक्रमेण नताननेन तेन सुदुःसहान्मन्त्रपदाद् उरगेण इव तवाभिधानाद् व्यथ्यते ॥२४॥
कोषः— कथाप्रसङ्गो वार्त्तायां विषवैद्येऽपि वाच्यवत्' इति विश्वः। आख्याहे अभिधानं च नामधेयं च नाम च' इत्यमरः। 'सूनुः पुत्रेऽनुजे रवौ इति विश्वः। 'आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रियाः इत्यमरः। 'विक्रमः पादप्रक्षेपे सामर्थ्येऽपि स कथ्यते' इति । 'आस्यं मुखं तु वदनमाननं वक्त्रमित्यपि' इति कोषः।
सारार्थः— गोष्ठ्यां यदि वार्त्तायाः प्रसङ्गेन केनचिन्मुखाद्भवतश्चर्चा दुर्योधनः शृणोति, तदा साधारण्येन भवतां विशेषादर्जुनस्य पराक्रमं स्मृत्वा यथा विषदूरीकरणमन्त्र- पाठश्रवणाद् विषधरः सर्पो विषं त्यक्त्वा स्वयं हतप्रतिभो भवति, तथा सोऽपि हतदर्पः सन् विषीदति ॥२४॥
४ किरात प्र. सर्ग
| ४२ | किरातार्जुनीयम् | [प्रथमः |
|---|
भाषार्थः- आप लोगों के बारे में बातचीत चलने पर अर्जुन के पराक्रम को याद कर, जैसे मदारी का मन्त्र सुनकर साँप निर्विष हो जाता है, वैसे ही वह भी आप लोगों का नाम सुनकर नीचे मुख कर दुखित होता है ॥२४॥
निगमयति-
तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् ।
परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां गिरः ॥२५॥
तदिति । तत्तस्मात्त्वयि जिह्मं कपटं कर्तुमुद्यते । त्वां जिघांसावित्यर्थः। तत्र तस्मिन्दुर्योधने विधेयं कर्तव्यमुत्तरं प्रतिक्रियाऽऽशु विधीयतां क्रियताम् । ननु कर्तव्यमपि त्वयैव वाच्यतामिति चेत्तत्राह—परेति । परप्रणीतानि परोक्तानि वचांसि चिन्वता गवेषयतां मादृशाम्, वार्ताहराणामित्यर्थः। गिरः प्रवृत्तिसारा वार्तामात्र साराः खलु। 'वार्ता प्रवृत्तिर्वृत्तान्तः, इत्यमरः। वार्तामात्रवादिनो वयम्, न तु कर्त्तव्यार्थोपदेशसमर्थाः, अतस्त्वयैव निर्धार्य कार्यमिति भावः। सामान्येन विशेषसमर्थनादर्थान्तरन्यासः॥२५॥
अन्वयः- तत्, त्वयि, जिह्मं, कर्तुम्, उद्यते, तत्र, विधेयम्, उत्तरम्, आशु, विधीयताम् । परप्रणीतानि, वचांसि, चिन्वतां, मादृशां गिरः, प्रवृत्तिसाराः खलु ॥२५॥
सुधा- तत् = तस्मात्, त्वयि = भवति; भवतोऽर्थे इत्यर्थः। जिह्मं=कपटम्, कर्तुम् = विधातुम्; उद्यते = प्रवृत्ते तत्र = तस्मिन्, दुर्योधने इत्यर्थः। विधेयम् = कर्तव्यम्, उत्तरम् = प्रतीकारः, आशु = शीघ्रम्, विधीयताम् = क्रियताम्—अर्थाद्धर्मयुक्त्या भवन्तं जेतुमक्षमः कपटयुक्त्या जिगीषति । परप्रणीतानि=अन्योदितानि, वचांसि = वाक्यानि, चिन्वताम् = गवेषयतां, मादृशाम् = वनेचराणाम्, गिरः = वाचः प्रवृत्तिसाराः = वृत्तान्तमात्रसाराः, खलु = एव ॥२५॥
समासः- परेः प्रणीतानि इति परप्रणीतानि । प्रवृत्तिरेव सारो यासां ताः प्रवृत्तिसाराः॥२५॥
व्याकरणम्- विधीयताम् = वि+धा+यक् + लोट् । चिन्वताम् = चिञ् + लोट् + शतृ ॥२५॥
वाच्यान्तरम्- तत् त्वयि जिह्मं कर्तुम् उद्यते तत्र विधेयम् उत्तरं विधेहि । परप्रणीतानि वचांसि चिन्वतां मादृशां गीर्भिः प्रवृत्तिसाराभिर्भूयते ॥२५॥
कोषः- 'युक्तं विधेयं समयोचितं च परिकीर्तितम्' इति कोषः। 'प्रतिवाक्योत्तरे समे' इत्यमरः। 'गीर्वाग्वाणी सरस्वती' इत्यमरः। वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्याद्', सारो बले स्थिरांशे च' इत्यमरः॥२५॥
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। ४३
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। ४३
सारार्थः- स च दुर्योधनः सदैव भवतश्छिद्रान्वेषी कपटेन जेतुमिच्छति भवन्तमत एव भवान् यथा तस्य पराजयः स्यात्तथा विचारयतु, कथं तस्य पराजयः स्यादिति नाहं वक्तुमर्होऽस्मि—अहं तु परसमाचारमात्रवाहक एव तेन यदत्र समयोचितं कृत्यं तत्वया सत्वरमेव कर्तव्यम् ॥२५॥
भाषार्थः- सो, आप से छल करने के लिए तैयार उस दुर्योधन के प्रति जो ठीक उत्तर हो सो कीजिए। दूसरों के कहे हुए वचन का संग्रह करने वाले मेरे ऐसे आदमी की बात केवल समाचारज्ञापक ही होती है ॥२५॥
इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसन्निवासिनाम् ।
प्रविश्य कृष्णासदनं महीभुजा तदाचचक्षेऽनुजसन्निधौ वचः ॥२६॥
इतीति- वनसन्निवासिनां पत्यौ वनेचराधिप इति गिरमीरयित्वोक्त्वाऽऽत्तसत्क्रिये गृहीतपारितोषिके गते सति। 'तुष्टिदानमेव चाराणां हि वेतनम्। ते हितल्लोभात्स्वामिकार्येष्वतीव त्वरयन्ते' इति नीतिवाक्यामृते। अथ महीभुजा राज्ञा कृष्णासदनं द्रौपदीभवनं प्रविश्यानुजसन्निधौ तद्वनेचरोक्तं वचो वाक्यमाचचक्ष आख्यातम्। अथवा कृष्णेति पदच्छेदः। सदनं प्रविश्यानुजसन्निधौ तद्वचः कृष्णाऽऽचचक्ष आख्यात। चक्षिङो दुहादेर्द्विकर्मकत्वादप्रधाने कर्मणि लिट् ॥२६॥
अन्वयः- अथ, इति, गिरम्, ईरयित्वा, गते, आत्तसत्क्रिये, वनसन्निवासिनां, पत्यौ, (सति) महीभुजा कृष्णासदनं प्रविश्य, अनुजसन्निधौ, तद्, वचः, आचचक्षे ॥२६॥
सुधा- अथ = ततः, इति = पूर्वोक्तं गिरम्, ईरयित्वा = उक्त्वा, निवेद्येत्यर्थः। गते = स्थानं प्रस्थिते, (तथा च) आत्तसत्क्रिये = गृहीतपारितोषिके; वनसन्निवासिनाम् = वनेचराणाम्, पत्यौ = स्वामिनि, सति (तदा) महीभुजा = भूपतिना, युधिष्ठिरेणेति शेषः। कृष्णासदनं = द्रौपदीभवनम्, प्रविश्य = अन्तर्गत्वा, अनुजसन्निधौ = भीमसमक्षे, तत् = वनेचरोक्तम्, वचः आचचक्षे = उक्तम्। वा महीभुजा, सदनम् = भवनम्, प्रविश्य, अनुजसन्निधौ कृष्णा तद् वचः, आचचक्षे=आख्यातेति शेषः॥२६॥
समासः- आत्ता गृहीता सत्क्रिया येन स आत्तसत्क्रियस्तस्मिन् आत्तसत्क्रिये। वने संनिवसन्ति ये, ते, तेषां वनसन्निवासिनाम्। कृष्णाया द्रौपद्याः सदनं कृष्णासदनम्। महीं भुनक्तीति महीभुक् तेन महीभुजा। अनुजस्य सन्निधिः अनुजसन्निधिस्तस्मिन्ननुजसन्निधौ ॥२६॥
४४ किरातार्जुनीयम् [प्रथमः
व्याकरणम्- ईरयित्वा = ईर् + णिच् +क्त्वा । प्रविश्य = प्र+विश+क्त्वा + ल्यप् । आचचक्षे = आङ् + चक्षिङ् + लिट् ॥२६॥
वाच्यान्तरम्- इति ईरयित्वा आत्तसत्क्रिये वनसन्निवासिनां पत्यौ गते महीभुक् कृष्णासदनं प्रविश्य, वा सदनं प्रविश्यानुजसन्निधौ कृष्णं प्रति आचचक्षे॥२६॥
कोषः-'ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती' इत्यमरः। 'आत्तं गृहीतं स्वाधीनीकृतमात्मवशीकृतम्' इति कोषः। 'धवः पतिः, प्रियो भर्ता' इत्यमरः। 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः। 'निशान्तपस्त्य सदनं भवनागारमन्दिरम्' इत्यमरः। 'सन्निधिः सन्त्रिकर्षणम्' इत्यमरः॥२६॥
**सारार्थः-**यदा दुर्योधनस्य सकलं वृत्तान्तं युधिष्ठिराय निवेद्य एतत्कार्यसम्पादन-पारितोषिकञ्च गृहीत्वा वनेचरश्वरः स्वगृहं गतस्तदा युधिष्ठिरोऽपि वनेचरप्रतिपादितं तदेव समाचारजातं भीमसमीपे स्थितां द्रौपदीं कथयितुं जगाम ॥२६॥
भाषार्थः- यह पहले की बात कहने के बाद मालिक के दिये हुवे पुरस्कार लेकर जब वनेचर अपने घर चला गया तब महाराज युधिष्ठिर ने घर के अन्दर जाकर अपने छोटे भाई (भीम) के सामने उस वनेचर की बातें द्रोपदी को बताई ॥२६॥
निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा ।
नृपस्य मन्युव्यवसायदीपिनीरुदाजहार द्रुपदात्मजा गिरः॥२७॥
निशम्येति । अथ द्रुपदात्मजा द्रौपदी द्विषतां सिद्धिवृद्धिरूपां निशम्य ततस्तदनन्तरम् । ततो द्विषद्भ्य आगतास्ततस्त्याः। 'अव्ययात्यप्' इति त्यप् । अपाकृतीः विकारान्विनियन्तुं निरोद्धुमक्षमा सती नृपस्य युधिष्ठरस्य मन्युव्यवसाययोः क्रोधोद्योगयोर्दीपिनीः सबन्धिनीः गिरो वाक्यान्युदाजहार जगादेत्यर्थः॥२७॥
अन्वयः- ततः द्रुपदात्मजा, द्विषतां, सिद्धिं, निशम्य, ततस्त्याः अपाकृतीः, विनियन्तुम्, अक्षमा, (सती) नृपस्य, मन्युव्यवसायदीपिनीः, गिरः, उदाजहार ॥
सुधा-ततः = युधिष्ठिरकथनानन्तरम्, द्रुपदात्मजा = द्रौपदी, द्रुपदपुत्रीति भावः। द्विषताम् = शत्रूणाम्, दुर्योधनप्रभृतीनाम्, सिद्धिम् = तदिष्टसिद्धिम् राज्यलाभरूपामित्यर्थः। निशम्य = श्रुत्व, स्वस्वामिमुखदित्यर्थः। **ततस्त्याः=**ततो आगताः, अपाकृतीः= अपकारान्, विकारान् इत्यर्थः। विनियन्तुम् = निरोद्धुम्
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। ४५
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। ४५
अक्षमा=असमर्था सती, नृपस्य=युधिष्ठिरस्य, मन्युव्यवसायदीपिनीः=क्रोधोद्योगोद्दीपिकाः, गिरः=वाचः उदाजहार=उक्तवती। यथा प्रकृत्या शान्तचित्तस्य युधिष्ठिरस्य हृदये शत्रुप्रतीकारकरणार्थं बुद्धिरुत्तेजिता भवति, तथा जगादेत्यर्थः।
समासः- द्रुपदस्य आत्मजा द्रुपदात्मजा। मन्युश्च व्यवसायश्च मन्युव्यवसायौ तौ दीपयन्तीति मन्युव्यवसायदीपिन्यः, ताः मन्युव्यवसायदीपिनीः। तत आगतास्ततस्त्याः॥२७॥
व्याकरणम्- निशम्य=नि+शम्+क्त्वा+ल्यप्। उदाजहार+उत्। आ+हृ+लिट् ॥२७॥
वाच्यान्तरम्- द्विषतां सिद्धिं निशम्य, ततः ततस्त्या अपाकृतीर्विनयन्तुम् अक्षमया द्रौपद्या नृपस्य मन्युव्यवसायदीपिनीः गिरः उदाजहिरे ॥२७॥
कोषः- 'योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्देरप्याह्वया हमे' इत्यमरः। 'रिपौ वैरिसपत्नारि द्विषद्वेषणदुर्हृदः' इत्यमरः। मन्युर्दैन्ये क्रतौ क्रुधि' इत्यमरः। 'ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती' इत्यमरः॥२७॥
सारार्थः- स्वपतिमुखेन वनचरोक्तं दुर्योधनवृत्तान्तं श्रुत्वा ततो जातामर्षक्षुभिता द्रौपदी यथा शत्रूणां संहारो भविष्यति तथा क्रोधोद्योगजनकं वाक्यं स्वपते पुरतो जगादेति ॥२७॥
भाषार्थः- अपने शत्रुओं की उन्नति सुनकर, चित्त के क्षोभ को नहीं छिपा सकने वाली द्रौपदी, अपने पति (युधिष्ठिर) के क्रोध और शत्रुनाश के लिये उद्योग कराने वाली बातें बोलने लगी ॥२७॥
भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम्। तथाऽपि वक्तुं व्यवसाययन्ति मां निरस्तनारी समया दुराधयः॥२८॥
भवादृशेष्विति। भवादृशा भवद्विधाः। पण्डिता इत्यर्थः तेषु विषये । 'त्यदादिषु—' इत्यादिना कञ्। 'आ सर्वनाम्न' इत्याकारादेशः। प्रमदाजनोदितं स्त्रीजनोक्तम्। वदेः क्तः 'वचिश्वपि०—' इत्यादिना सम्प्रसारणम्। अनुशासनं, नियोगवचनमधिकक्षेपस्तिरस्कार इव भवति। अतो न युक्तं वक्तुमित्यर्थः। तथाऽपि वक्तुमनुचितत्त्वेऽपि निरस्तनारीसमयास्त्याजितशालीनतारूपस्त्रीसमाचाराः। 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः। दुराधयः संमोहोल्लासहेतुत्वाद् दुष्टाः मनोव्यथाः।
| ४६ | किरातार्जुनीयम् | [प्रथमः |
|---|
'पुंस्याधिर्मानसी व्यथा' इत्यमरः। मां वक्तुं व्यवसाययन्ति प्रेरयन्ति । न किञ्चिद्युक्तं दुःखितानामिति भावः॥२८॥
अन्वयः – (यद्यपि) भवादृशेषु, प्रमदाजनोदितम्, अनुशासनम्, अधिक्षेपः, इव, भवति, तथाऽपि, निरस्तनारी समयाः दुराधयः, मां वक्तुं, व्यवसाययन्ति ॥२८॥
सुधा--(यद्यपि) भवादृशेषु = सर्वज्ञेष्विति भावः। प्रमदाजनोदितम्= स्त्रीजनकथितम्, अनुशासनम् = उपदेशवचनम्, अधिक्षेपः = आक्षेपः, तिरष्कार इति वा, इव = तद्वत्, भवति = स्यात् । तथापि, दुर्वचत्वेऽपि, निरस्तनारीसमया= ध्वस्तस्त्रीशीला, दुराधयः = दुष्टमनोव्यथाः, मां = द्रौपदीम्, वक्तुम् = कथितुम्, व्यवसाययन्ति = प्रेरयन्ति, न त्वहं प्रकृत्या अपितु भवत्कर्तृकद्यूतपरित्यक्तस्त्री-समुचितशालीनतया अगत्या वदामीति भावः॥२८॥
समासः- भवन्त इव दृश्यन्ते इति भवादृशाः, तेषु भवादृशेषु । प्रमदा एव जनः प्रमदाजनस्तेनोदितं प्रमदाजनोदितम् । नार्याः समया इति नारीसमयाः निरस्ता नारीसमया यैस्ते निरस्तनारीसमयाः। दुर्दुष्टा आधयो दुराधयः॥२८॥
व्याकरणम्- भवति=भू+लट् । अनुशासनम्= अनु+शास्+ल्यु + (अन)। वक्तुम् = वच् + तुमुन् । व्यवसाययन्ति = वि+अव+षो+णिच्+लट् ॥२८॥
वाच्यान्तरम्- भवादृशेषु प्रसदाजनोदितेन अनुशासनेन अधिक्षेपेण इव भूयते । तथाऽपि निरस्तनारीसमयैर्दुराधिभिरहं वक्तुं व्यवसाध्यते ॥२८॥
कोषः – 'प्रमदा मानिनां कान्ता ललना च नितम्बिनी' इत्यमरः। 'अधिक्षेपः समाक्षेपो व्यङ्ग्ययुक्तं वचोऽपि वा' इति कोषः समयाः शपथआचारकालसिद्धान्तसंविद' इत्यमरः। 'पुंस्याधिर्मानसी व्यथा' इत्यमरः॥२८॥
सारार्थः- यद्यपि सर्वज्ञेषु भवादृशेषु जनेषु स्त्रीजनकथितं वचो न युक्तं गुरुषु शिष्यानुशासनमिव; तथापि शत्रुतिरस्कारत्यक्तसच्छीलताऽस्मच्चित्तव्यथा मां वक्तुं प्रेरयति । अतो भवद्भिः क्रोधो न कर्त्तव्यः, सकारणं, ममेदृग् वचः प्रवर्त्तते ।
भाषार्थः- आप लोगों जैसे महानुभावों के प्रति स्त्री लोगों को कहीं हुई बातें अपमान के समान है, तो भी (क्या करूँ) मेरे चित्त का दुःख मेरे उचित शील को हटाकर मुझे बोलने के लिए प्रेरणा करता है ॥२८॥
अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता भूपतिभिः स्ववंशजैः ।
त्वयाऽऽत्महस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता ॥२९॥
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ४७
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ४७
अखण्डमिति । आखण्डलतुल्यधामभिरिन्द्रतुल्यप्रभावैः स्ववंशजैः भूपतिभि- र्भरतादिभिश्चिरमखण्डविच्छिन्नं धृता मही । त्वया, मदं च्योततीति मदच्युत् । क्विप् तेन मदस्राविणा मतङ्गजेन स्रगिवात्महस्तेन स्वकरेण, स्वचापनेनेत्यर्थः। अपवर्जिता परहस्ता त्यक्ता । स्वदोषादेवायमनर्थागम इत्यर्थः ॥२९॥
अन्वयः- आखण्डलतुल्यधामभिः, स्ववंशजैः, भूपतिभिः, चिरम्, अखण्डं धृता, मही, मदच्युता, मतङ्गजेन, स्रक्, इव, त्वया, आत्महस्तेन, अपवर्जिता ॥२९॥
सुधा- आखण्डलतुल्यधामभिः=इन्द्रसमतेजोभिः, स्ववंशजैः=निजपूर्वजैः, निजकुलजैरिति वा। भूपतिभिः = भूपैः, भरतादिभिरित्यर्थः। चिरं = दीर्घकालम्, अखण्डम् = सम्पूर्णम्, यथा स्यात्तथेति क्रियाविशेषणम् । धृता = धारिता, निजाधीनीकृतेति भावः। मही = पृथिवी, मदच्युता=दर्पजलस्राविणा, मतङ्गजेन=मातङ्गेन, मत्तेन हस्तिनेति भावः। स्रक् = माल्यम्, इव त्वया = युधिष्ठिरेण, आत्महस्तेन= स्वकरेणः द्यूतविधाविति शेषः। अपवर्जिता=त्यक्ता, स्वप्रमादजनितैवेयमापत्तिर्न, हि दैवकृतेति हेतोरात्मबलं सर्वथा कार्य, न दैवस्याशया स्थातव्यमिति ॥२९॥
समासः- आखण्डेन तुल्यं धाम येषा ते आखण्डलतुल्यधामानः तैः आखण्डलतुल्यधामभिः। स्वस्य वंशः स्ववंशं स्ववंशाज्जायन्ते इति स्ववंशजास्तैः स्ववंशजैः। भुवः पतयो भूपतयस्तैर्भूपतिभिः। आत्मनो हस्त आत्महस्तस्तेनात्महस्तेन। मदं च्योततीति मदच्युत् तेन मदच्युता । मतङ्गाज्जायते इति मतङ्गजस्तेन मतङ्कजेन मतङ्कजेन ॥
व्याकरणम्- धृता =धृ+क्तः। अपवर्जिता=अप+वृज्+क्तः॥२९॥
वाच्यान्तरम्- भूपतिभिर्धृतां महीं मदच्युत् मतङ्गज इव त्वयात्महस्तेन स्रजमिवा पवार्जितवान् ॥२९॥
कोषः- 'आखण्डलः सहस्राक्ष' इत्यमरः। 'वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्' इत्यमरः। 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः इत्यमरः। 'वंशोऽन्ववायः सन्तान' इत्यमरः। 'माल्यं मालास्रजौ इत्यमरः। 'मतङ्कजो गजो नागःकुञ्जरो वारणः करी' इत्यमरः॥२९॥
सारार्थः- इन्द्रसदृशपराक्रमवद्भिः स्ववंशजैर्भूपैश्चिरं मां स्ववशीकृति इथं समुद्रान्त भूमिः, सा तु भवता मदमत्तहस्तिना माल्यमिव उच्छिद्याद्य तेन दूरी कृतेति।