किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
८ किरातार्जुनीयम् [प्रथमः
व्याकरणम्—विधातुं = वि + धा + तुमुन् । आदेद = आ + दा + लिट् । इच्छतः = इष् + शतृ ॥३॥
वाच्यान्तरम्— भृभृतोऽनुज्ञामधिगम्य तेन सौष्ठवौदार्यविशेषशालिनी विनिश्चितार्था इति, वाक् आददे ॥३॥
कोषः— 'रिपौ वैरिसपत्लारिद्विषद्वेषणदुर्हृदः। द्विद्विपक्षाहितामित्रदस्युशात्रवशत्रवः' इत्यमरः। विविक्तविजनच्छन्ननिःशलाकास्तया रहः इत्यमरः। 'भूभृद्भूमिधरे नृपे' इत्यमरः॥३॥
सारार्थः— कथं दुर्योधनो राज्यं करोति, कथं च पराजितो भविष्यतीत्येतत्सर्ववृत्तान्तज्ञानायाज्ञापितो वनेचरस्तत्र गत्वा सर्वमवगम्य, तत आगत्य युधिष्ठिरं प्रति शब्दार्थचमत्कारलसितं वचनं समुवाच ॥३॥
भाषार्थः—शत्रुओं का नाश करने के लिए उपाय करने की इच्छा रखनेवाले महाराज युधिष्ठिर की गुप्त रीति से आज्ञा पाकर वनेचर वहाँ सब कुछ समझकर शब्द और अर्थ के गुणों से पूर्ण वाक्य युधिष्ठिर से बोला ॥३॥
प्रथमं यावदप्रियनिवेदकमात्मानं प्रत्यक्षोभं याचते—
क्रियासु युक्तैर्नृप ! चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः । अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥४॥
क्रियास्त्विति । हे नृपः। क्रियासु कृत्यवस्तुषु युक्तैर्नियुक्तैरनुजीविभिर्भृत्यैः। चारादिभिरित्यर्थः। चरन्तीति क्षराः। पचाद्यच् । त एव चाराः चरेः पचाद्यजन्तात्प्रज्ञादित्वाद्णप्रत्ययः। त एव चक्षुर्येषां ते चारचक्षुषः। 'स्वपरमण्डले कार्याकार्यावलोकने चाराश्चाक्षूंषि क्षितिपतीनाम्' इति नीतिवाक्यामृते । प्रभवो निग्रहानुग्रहसमर्थाः स्वामिनो न वञ्चनीया न प्रतारणीयाः। सत्यमेव वक्तव्या इत्यर्थः। चारापचारे चक्षुरपचारिवद्राज्ञां पदे पदे निपात इति भावः अतोऽप्रतार्थत्वाद्धेतोः। असाध्वप्रियं साधु प्रियं वा मदुक्तमिति शेषः। क्षन्तुं सोढुमर्हसि । कुतः हितं पथ्यं मनोहारि प्रियं च वचो दुर्लभम् । अतो मद्वचोऽपि क्षन्तव्यमित्यर्थः॥५॥
अन्वयः- हे नृप !, क्रियासु, युक्तैः, अनुजीविभिः, चारचक्षुषः, प्रभवः, न, वञ्चनीयाः। अतः, असाधु, वा, साधु, क्षन्तुम्, अर्हसि । हितं, मनोहारिच, च, वचः, दुर्लभम् (भवति) ॥४॥
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ९
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ९
सुधा-हे नृप ! नरेश !, युधिष्ठिर !, क्रियासु = कर्तव्यविषयेषु, युक्तैः=नियुक्तैः, संयोजितैरिति शेषः। अनुजीविभिः = अनुचरैः, भृत्यैरित्यर्थः। चारचक्षुषः = गूढचरदृशः, चारनयना इति शेषः। प्रभवः = स्वामिनः न, वञ्चनीयाः = प्रतारणीयाः न हि मिथ्यावाक्यैस्तत्कालश्रवणप्रियैर्वञ्चनीया इत्यर्थः। अतः = अस्मात्कारणात् (यदि मन्निवेद्यमानं वचः) असाधु = असम्यक्, अप्रियमित्यर्थः। वा साधु = सम्यक्, प्रियं श्रवणहारीति यावत् (भवेत् तत् त्वम् सेवकोक्तकोमलोक्तिश्रवण योग्योऽपि, ममाप्रियमपि तत्रत्यं सत्यमुदन्तं निगद्यमानं, तत्) क्षन्तुम् = सोढुम्, अर्हसि = योग्योऽसि । (अहो.सत्यमपि प्रियमेव प्रयोक्तव्यम्, तदा त्वं कथमप्रियं सत्यं वक्तुमुद्यतोऽसीति चेत्तदाह) हितं = परिणामकल्याणकरम्, (तथा) मनोहारि = सद्यः प्रियम्, वचः = वचनम्, दुर्लभम् = दुष्प्रयोज्यम्, अर्थादुक्तमिथोविरुद्धगुणद्वयवद्वचनप्रयोगे प्रवीणा अपि मनीषिणो विचारणपरायणा भवन्ति, अस्मादृशमाजन्मवनवृत्तीनां कथैव का, नियतमप्रियमेव मद्वचो भविष्यतीति पूर्वं मपराधक्षमापनं सर्वथा समुचितमिति भृत्यस्योचितः परमः शिष्टाचार इति ॥४॥
समासः-चरन्तीति चराः, चरा एव चारा एव चक्षूंषि येषां ते चारचक्षुषः। मनो हरतीति मनोहारि । दुःखेन लभ्यते यत्तत् दुर्लभम् ॥४॥
व्याकरणम्- वञ्चनीयाः = वञ्च् + अनीयर । क्षन्तुम् = क्षम् + तुमुन् अर्हसि = अर्ह + लट् ॥४॥
वाच्यान्तरम्- क्रियासु युक्ता अनजीवितः चारचक्षुष प्रभून् न वञ्चयेयुः। अतः असाधु वा साधु वचनम् त्वया अर्ह्यते। हितेन मनोहारिणा वचसा दुर्लभेन भूयते ॥
कोषः-'राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः। चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः, इत्यमरः। 'अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः' इत्यमरः। 'सेवकार्य्यनुजीविनः' इत्यमरः॥४॥
सारार्थः-कार्यमात्रे नियुक्तैः सेवकैः सर्वथा प्रभवे सत्यमेव वचो निवेद्यम् । सत्यवचनप्रयोगशीलैरेव भृत्यैः स्वामिनो नयनवन्तो भवन्ति । असत्यभाषणैर्भृत्यैः प्रमादिनो नृपाः अन्धा एव । तथा अन्धः कूपे पतति, तथाऽप्ययथार्थभाषणशीलैश्चरैः सेवितो भूतः शत्रुप्रपञ्चकूपे पतति । अतो न कदापि मिथ्यावचनं निवेदनीयंसेवकैः।
२ किरात प्र. सर्ग
१० | किरातार्जुनीयम् | [प्रथमः
तथा चाप्रियमपि सत्यं भृत्यमुखोक्तं श्रोतव्यं स्वामिभिः। विनाऽनृतयोगेन सर्वं सर्वथा प्रियं न भवति । केवलं यथार्थस्थितिवर्णनात्मकं स्वाभाविकं वाक्यजालं न हि सर्वथा प्रियं भवतीति । केवलप्रियवचनश्रवणादरो न विधेयो राज्यशासकैः। यदि पुरुषं सत्यं श्रुत्वा भृत्योपरि स्वामी कुप्येतदा भयात्सङ्कोचाच्च भृत्यः कथं पुनः सत्यं कथयिष्यति । सत्याभावे कथं नरपतिः स्वापत्तिदूरीकरणार्थं यत्नं करिष्यति । तथा सति राज्यनाश एवं फलम्, तस्मात् भृत्येन सत्यं निवेदनीयम्, स्वामिनाऽपि सादरं सत्यं परुषमपि श्रोतव्यमिति भावः॥४॥
भाषार्थः- किसी काम का भार शिर पर लेकर नौकर को चाहिए कि मालिक को न ठगे, इसलिए मै आप को सच बताता हूँ । पर केवल सत्य बात मीठी नहीं होती, सो अगर मेरी बात कड़वी भी हो तो आप कृपा कर उसको क्षमा कर सकते हैं । क्योंकि जो बात भली और मीठी हो, ऐसी बात दुर्लभ हैं, उसमें भी मेरे जैसे भिल्ल-बनैले आदमी के लिए तो बिलकुल असम्भव ही है ॥४॥
तर्हि तूष्णींभाव एव वरमित्याशङ्क्याह-
स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः।
सदाऽनुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः ॥५॥
स इति । सः सखामात्यादिरधिपं स्वामिनः साधु हितं न शास्ति नोपदिशति। 'ब्रुविशासि' इत्यादिना शासेर्दुहादिपाठाद् द्विकर्मकत्वम् । स हितानुपदेष्टा कुत्सितः सखा किंसखा । दुर्मन्त्रीत्यर्थः। 'किमः क्षेपे' इति समासान्तप्रतिषेधः। तथा यः प्रभुर्निग्रहानुग्रहममर्थः स्वामी हितादाप्तजनाद्धितोपदेष्टुः सकाशात् । 'आख्यातोपयोगे' इत्यपादानात्पञ्चमी । संशृणुते न शृणोति हितमिति शेषः। 'समो गम्यूच्छि' इत्यादिना सम्पूर्वाच्छृणोतेरकर्मकादात्मनेपदम्, अकर्मकत्वम् वैवक्षिकम् । स हितमश्रोता प्रभुः किंप्रभु कुत्सितस्वामी पूर्ववत्समासः। सर्वथा सचिवेन वक्तव्यं श्रोतव्यं स्वामिना। एवं च राजमन्त्रिणोरैकमत्यं स्यादित्यर्थः। ऐकमत्यस्य फलमाह— सदेति । हि यस्मान्नृपेषु अमा सह भवा अमात्यास्तेषु । 'अव्ययात्त्यप्' अनुकूलेषु परस्परानुरक्तेषु सत्सु सर्वसम्पदः सदा रतिमनुरागं कुर्वते 'कुर्वन्ति । न जातु जहती त्यर्थः। अतो मया वक्तव्यं त्वया च श्रोतव्यमिति भावः। अत्रैवं राजमन्त्रिणोर्हितानुपदेशतदश्रवणनिन्दा-
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ११
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ११
सामर्थ्यसिद्धैरेकत्यमलक्षणकारस्य निर्दिष्टस्य सर्वसम्पत्सिद्धि रूपकार्येण कारणसमर्थन- रूपोऽर्थन्तरन्यासोऽलङ्कारः। तदुक्तम्—'सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः' इति ॥५॥
अन्वयः – य अधिपं, साधु, नः शास्ति, स, किं, सखा? वा किंसखा, यः हितात्, न, संशृणुते, स, किं, प्रभुः? वा किंप्रभुः हि, सदा अनुकूलेषु, नृपेषु अमात्येषु, च, सर्वसम्पदः, रतिं, कुर्वते ॥५॥
**सुधा-**साधु = सम्यक् परिणामहितकरं वचनमित्यर्थः। न = नहि, शास्ति = उपदिशति, स = असम्यगुपदेष्टाजनः, कि सखा?=किं विचारतः ? नासौ सखेत्यर्थः वा किंसखा =कुत्सितामात्यः, तदुपदेशेन प्रभुः पतत्येव राज्यादित्यर्थः। (तथा च) यः = कश्चित्, प्रभुः हितात् = हितोपदेशात्, येनोपदेशेन न कदापि पराभवं प्राप्नु यात्तादृशोपदेशदातुरित्यर्थः। जनद्वाऽमात्यादेरिति शेषः। न संशृणुते = नोपदेश शृणोति, हितवाक्यस्य प्रायः कुटत्वादुपेक्षां करोति, सः = हितवचनश्रवणविमुखः किं प्रभुः? = न प्रभुरित्यर्थः। वा किंप्रभुः कुत्सितप्रभुः, अविवेकवान् स इत्यर्थः। अत एव मया भवता चोक्तनीती पालनीये, अन्यथा शिष्टाचारविच्छेदापत्तिः सं गच्छेत । अहो तादृशनियमपालने न केवलं शिष्टाचाररक्षणं फलमपि तु महॉल्लाभो विभवस्थैर्याभिलाषिणा भवतीत्याह— हि = यस्मात् कारणात्, सदा = सर्वदा सततमित्यर्थः। अनुकूलेषु = अविरुद्धेषु, अन्योन्यानुरक्तेषु, नृपेषु = स्वामिषु, अमात्येषु = मन्त्रिषु, च = अपि मन्त्रिणोऽप्रियमपि वचनं श्रुत्वा भूपो भेषजमिव गृह्णीयात् एकदाचित्कुष्येत् । एवं स्वामिनोऽप्यप्रियमपि वाक्यं निशम्यऽमात्योपि न क्रोधं कुर्यादिति भावः। तथा सति, सर्वसम्पदः = सकलसम्पत्तयः, रतिं = अनुरागम् तदा स्थित्यभिलाषमित्यर्थः। कुर्वते = कुर्वन्ति । मिथोऽनुरागरज्जुकन्द्रेषु नृपामात्येषु न कदाऽपि राज्यलक्ष्मीर्मुञ्चतीत्यर्थः॥५॥
समासः- सर्वाः सम्पदः सर्वसम्पदः॥५॥
**व्याकरणम्-**शास्ति = शास् लट् । संशृणुते = सम् + श्रु + लट् । कुर्वते = कृ+लट् ॥५॥
**वाच्यान्तरम्-**येन अधिपो न साधु शिष्यते, तेन किंसख्य भूयते, येन हितान्ना संश्रूयते, तेन किंप्रभुना भूयते । हि सदानुकूलेषु नृपेष्वमात्येषु सर्वसम्पद्भिः रति क्रियते ॥५॥
१२ किरातार्जुनीयम् [प्रथमः
कोषः- 'वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्' इत्यमरः। 'किं पृच्छायां जुगुप्सने इत्यमरः। 'सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्' इत्यमरः। हि हेताववधारणे' इत्यमरः, 'अथ सम्पदि। सम्पत्तिः श्रीश्च लक्ष्मीश्च' दृत्यमरः॥५॥
सारार्थः- य एवामात्यादेरुपदेशं श्रुत्वा स्वीकरोति स योग्यः स्वामी, य एवं प्रभुं हितवाक्यं वदति स एव योग्योऽमात्यादिः। अत एवान्योन्यानुरागवतो-स्तयोर्भवने गुणबद्धेव राज्यलक्ष्मीर्नान्यतो गन्तुं पदमेकमप्युत्थापयति ॥५॥
भाषार्थः- जो कोई अपने मालिक को हित की बातों का उपदेश नहीं देता, वह क्या मंत्री है? कभी नहीं, या वह खराब नौकर है। ऐसे ही जो मालिक अपने हितचिन्तक मन्त्री आदियों की बात नहीं सुनता, क्या वह मालिक है? कभी नहीं, या वह नीच मालिक है। क्योंकि सदा आपस में मेल रखते हुए राजा और मन्त्रियों में हर एक तरह की सम्पत्तियाँ बनी रहती हैं ॥५॥
सम्प्रति स्वाहङ्कारं परिहरति-
निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः ।
तवानुभावोऽयमवेदि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥ ६॥
निसर्गेति । निसर्गदुर्बोधं स्वभावदुर्ग्रहम् । 'ईषददुः—' इत्यादिना खल्प्रत्ययः। भूपतीनां चरितं क्व । अबोधविक्लवा अज्ञानोपहता जन्तवः। मादृशाः पामरजना इत्यर्थः। क्व नोभयं सङ्घटत इत्यर्थः । तथाऽपि निगूढतत्त्वं संवृतयाथार्थ्यं विद्विषां नयवर्त्म षाड्गुण्यप्रयोगः। 'सन्धिविग्रहयानानि संस्थाप्यासनमेव च । द्वैधीभावश्च विज्ञेयाः षड्गुणा नीतिवेदिनाम् ॥' इत्यादिरूपो यन्मयाऽवेदि । ज्ञातमिति यावत् । विदेः कर्मणि लुङ् । अयम् । इदं वेदनमित्यर्थः। विधेयप्राधान्यात्पुंल्लिङ्गनिर्देशः। तवानुभावः सामर्थ्यम् । अनुगतो भावोऽनुभाव इति घञन्तेन प्रादिसमासः। न तूपसृष्टाद्धन्प्रत्ययः। 'ऋणीभुवोऽनुपसर्गा'द्वित्येधर्तावित्येवधानात् अत एव काशिकायाम्—'कथं प्रभावो राज्ञां प्रकृष्टो भाव इति प्रादिसमासः' इति। दोषपरिहारौ सम्यग्ज्ञात्वैव विज्ञापयामि । न तु वृथा कर्णकठोरं प्रलपामीत्याशयः॥६॥
अन्वयः- निसर्गदुर्बोधम्, भूपतीनाम्, चरितम्, क्व । अबोधविक्लवाः, जन्तवः क्व । मया, विद्विषाम्, निगूढतत्त्वम्, नयवर्त्म, यत् अवेदि, (तत्) अयम्, तव, अनुभावः॥६॥
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। १३
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। १३
सुधाः- निसर्गदुर्बोधम् = प्रकृतिदुर्ज्ञेयम्, न केनापि सुबोधमित्यर्थः। तादृशं, भूपतीनाम् = महीपतीनाम् राज्ञामित्यर्थः। चरितम् = कृत्यम्, राज्यशासनरूपमित्यर्थः। क्व = कुत्र, वर्तते। (तथा च) अबोधविकलवाः = दुर्बोधजडाः जन्तवः = शरीरिणः (मादृशवनचरा इत्यर्थः) क्व = कुत्र, वर्त्तन्ते, (अनयोर्महदन्तरमस्ति। अर्थात् राज्ञश्चरित्रं तु तीक्ष्णमतिभिरपि न हि ज्ञातुं शक्यते, तत्कथं मादृशैरबोधोपहतैर्ज्ञायते इति भावः। 'नृपस्य चित्तं कृपणस्य वित्तं देवो न जानाति कुतो मनुष्यः' इति। अथ तादृशत्वेऽपि तस्य) मया = वनेचरेण, विद्विषाम् = भवच्छत्रूणाम्, दुर्योधनादीनां, निगूढतत्त्वं = अतिगुप्तसारम्, नयवर्त्म = राजनीतिपथः यत् = यत्किञ्चित्, अवेदि = ज्ञातम्, तत् = ज्ञानरूपम् (तु) अयम् तव = युधिष्ठिरस्य, अनुभावः = प्रभावः महिमेत्यर्थः। विज्ञस्य महतः संसर्गादज्ञो लघीयानपि महीयान् भवतीति भावः। 'काचः काञ्चनसंसर्गाद्धत्ते मारकती द्युतिम्' इति कश्चत्ता सहवेशनोपवेशान्मयाऽपि किञ्चिज्ज्ञानमाप्तमिति ॥६॥
समासः- निसर्गाद् दुर्बोधम् निसर्गदुर्बोधम्। अबोधेन विक्लवा अबोधविक्लवाः। निश्चयेन गूढं तत्वं यस्य तद् निगूढतत्त्वम्। नयस्य वर्त्म नयवर्त्म अनुगतो भावः अनुभावः। प्रादिसमासः॥६॥
व्याकरणम्- अवेदि = विद् + कर्मणि लुङ् ॥६॥
वाच्यान्तरम्- निसर्गदुर्बोधेन भूपतीनां चरितेन, क्व भूयते, अबोधविकलवैर्जन्तुभिः क्व भूयते। अहं विद्विषां निगूढतत्त्वं नयवर्त्म येनावेदिषम्, तेन तवानुभावेनानेन भूयते ॥६॥
कोशः- 'स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः' इत्यमरः, विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः' इत्यमरः। 'प्राणी तु चेतनो जन्मी जन्तुर्जन्यःशरीरिणः' इत्यमरः। 'अनुभावः प्रभावे च सतां च मतिनिश्चये' इत्यमरः॥६॥
सारार्थः- राज्ञां चरितं सुबुद्धिनाऽपि सम्यग्ज्ञातुं न शक्यते, अतो मादृशेनमन्दमतिना कथं वेत्तुं शक्यते। तथात्वेऽपि मया यत् स्तोकं बहु वा ज्ञातं, तत्केवलं भवतः संसर्गमहिम्नैवेति ॥६॥
भाषार्थः- स्वभावतः नहीं समझने के लायक राजाओं के चरित कहाँ? फिर मेरे सरीखे मन्द समझने वाले आदमी कहाँ ? इन दोनों में बहुत ही अन्तर
| १४ | किरातार्जुनीयम् | [प्रथमः |
|---|
हैं ऐसा होने पर भी मैं आपके विपक्षियों के गूढतत्त्व की राजनीति को समझ सका हूँ, सो केवल आप ही का प्रभाव है ॥६॥
सम्प्रति यद्वक्तव्यं तदाह-
विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः।
दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगती सुयोधनः॥७॥
विशङ्कमान इति। सुखेन युध्यते सुयोधनः। 'भाषायां शासियुधिदृशिधृषिभ्यो युज्वाच्यः' नृपासनस्थः सिंहासनस्थोऽपि। वनमधिवसतीति तस्मात् वनाधिवासिनो वनस्थात्। राज्यभ्रष्टादपीत्यर्थः। भवतस्त्वतः पराभवं पराजयं विशङ्कमान उत्प्रेक्षमाणः सन्। दुष्टमुदरमस्येति दुरोदरं द्यूतम्। पृषोदरादित्वात्साधुः। 'दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्' इत्यमरः। तस्य छद्मना मिषेण लब्धां दुर्नयार्जितां जगतीं महीम्। 'जगती विष्टपे महां वास्तुच्छन्दोविशेषयोः' इति वेजयन्ती। नयेन नीत्या जेतुं वशीकर्तुं समीहते व्याप्रियते। न तुदास्त इत्यर्थः। बलवत्स्वामिकमविशुद्धागमञ्च धनं भुञ्जानस्य कुतो मनसः समाधिरिति भावः। अत्र दुरोदरच्छद्मजिताम् इति विशेषणपदार्थस्य चतुर्थपदार्थं प्रति हेतुत्वेनोपन्यासाद् द्वितीयकाव्यलिङ्गमलङ्कारः। तदुक्तम्— 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् ॥७॥
अन्वयः- नृपासनस्थः, अपि वनाधिवासिनः, भवतः, पराभवं, विशङ्कमानः, दुर्योधनः, दुरोदरच्छद्मजितां, जगतीम्, नयेन, जेतुम्, समीहते ॥७॥
सुधा- नृपासनस्थः = राजसिंहासनारूढः, 'सन्' अपि, वनाधिवासिनः = (साम्प्रतम्) विपिने विहरतोऽपि भवतः = त्वतः पराभवं = पराजयम् विशङ्कमानः = मन्यमानः न जाने कदाऽपि पाण्डवाः समागत्यास्माकं समूलघातं कृत्वा राज्यं ग्रहीष्यन्ति एवं शङ्कया सदैव भयभीत इति भावः। सुयोधनः = अक्लेशयोद्धा, चैतन्नामकः धृतराष्ट्रज्येष्ठपुत्रः, दुरोदरच्छद्मजिताम् = द्यूतकपटवशीकृताम्, व्याजाक्षक्रीडयाऽऽत्मसात्कृतामित्यर्थः। जगतीम् = महीम्, नयेन = न्यायेन राज्यधर्मेणेत्यर्थः। जेतुं = वशीकर्त्तुम्, समीहते = सञ्चेष्टते। येन प्रजाजनाः सर्वे तद्वशवर्तिनोऽनुरागिणश्च भवेयुस्तथा यतते इति भावः॥७॥
समासः- नृपत्यासनं नृपासनम् तिष्ठतीति नृपासनस्थः। वनमधिवसतीति वनाधिवासी तस्माद् वनाधिवासिनः। दुरोदरस्य द्यूतस्य छद्म कपटं दुरोदरच्छद्म, तेन
सर्गः १] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १५
सर्गः १] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १५
दुरोदरच्छद्मना जिता इति दुरोदरच्छद्मजिता, तां दुरोदरच्छद्मजिताम्। सुखेन युध्यते इति सुयोधनः॥७॥
व्याकरणम्- समीहते = सम् + ईह् + लट् । जेतुम् = जि + तुमुन् ॥७॥
वाच्यान्तरम्- नृपासनस्थेनापि वनाधिवासिनो भवतः पराभवं विशङ्कमानेन सुयोधनेन दुरोदरच्छद्मजिता जगती नयेन जेतुं समीहते ॥७॥
कोषः- 'पराभवः परिभवः परिभूतः पराजयः' इति कोषः। 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः। 'दुरोदरे द्यूतकारे पणे द्यूते दुरोदरम्' इत्यमरः। 'त्रिष्वथो जगती लोको विष्टपं भुवनं जगत्' इत्यमरः। कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः। 'ओपः प्लोषे नयो न्याये' इत्यमरः॥७॥
सारार्थः- राजासिंहासनारूढः सन् वनवासिनोऽपि भवतः सततं पराभवं मन्यमानो विक्रमेण भवन्तं जेतुमसम्भवं जानन् न्यायेन राष्ट्रं पालयन् स्वपक्षवर्ति कर्तुमीहते ॥७॥
भाषार्थ- राजसिंहासन पर बैठा हुआ दुर्योधन, वन में घूमते हुए भी आप लोगों से अनिष्ट की शङ्का करता हुआ कपट-पाश से जीती हुई पृथ्वी को राजनीति से अपने वश में करना चाहता है ॥७॥
'नयेन जेतुं जगतीं समीहते' इत्युक्तम् । तत्प्रकारमाह—
तथाऽपि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः। समुन्नयन् भूतिमनार्यसङ्गमाद्वरं विरोधोऽपि समं महात्मभिः॥८॥
तथाऽपीति । तथाऽपि साशङ्कोऽपि । जिह्मः वक्रः। वञ्चक इति यावत् । स दुर्योधनो भवज्जिगीषया। गुणैर्भवन्तमाक्रमितुमिच्छयेत्यर्थः। 'हेतौ' इति तृतीया । गुणसम्पदा दानदाक्षिण्यादिगुणगरिम्णा करणेन । शुभ्रं यशस्तनोति । स खल्वेवमुपलोभनीयां त्वत्सम्पदमात्मसात्कर्तुं त्यक्तोऽपि गुणाक्ततामात्मनः प्रकटयतीत्यर्थः। नन्वेवं गुणिनः सतोऽपि सज्जनविरोधी महानस्त्यस्य दोष इत्याशङ्क्य सोऽपि सत्संसर्गाल्लाभे नीचसङ्गमाद्वरमुत्कर्षावहत्वादित्याह—समिति तथा हि भूतिं समुन्नयन्नुत्कर्षमापादयन्। 'लटः शतृशानचौ—' इत्यादिना शतृप्रत्ययः। पुनर्सङ्ग्रहणः सामर्थ्यात्तथावासत्सामान्याधिकरण्यम् । महात्मभिः समम् । सहेत्यर्थः। 'सार्कं सत्रा समं सह' इत्यमरः। अनार्यसङ्गमाद् दुर्जनसंसर्गात् । 'पञ्चमी विभक्ते' इति पञ्चमी । विरोधोऽपि वरं
१६ किरातार्जुनीयम् [प्रथमः
मनाक्प्रियः 'दैवाद् वृते वरः श्रेष्ठे त्रिषु क्लीवं मनाक्प्रिये' इत्यमरः। अत्र मैत्र्यपेक्षया मनाक्प्रियत्वं विरोधम्य ‘भूतिं समुन्नयन्' इत्यस्य पूर्ववाक्यान्वये समाप्तस्य वाक्यार्थस्य पुनरादानात्समाप्तपुनरात्ताख्यानदोषापत्तिः। तदुक्तं काव्यप्रकाशे---'समाप्तपुन- रुपादानात्समाप्तपुनरात्तकम्' इति। न च वाक्यान्तरमेतत्, येनोक्तदोषपरिहारः स्यात्। अर्थान्तरन्यासालङ्कारः। स च भूतिसमुन्नयनस्य पदार्थविशेषणद्वारा विरोधित्वं प्रति हेतुत्वाभिधानरूपकाव्यलिङ्गाऽनुप्राणित इति ॥८॥
अन्वयः- तथाऽपि, जिह्मः, भवज्जिगीषया, गुणसम्पदा शुभ्रं, यशः, तनोति। भूतिम्, समुन्नयन्, अनार्यसङ्गमात्, महात्मभिः समम्, विरोधः, अपि, वरम् ॥८॥
सुधा- तथापि = तादृशचेष्टावानपि, साशङ्कोऽपीत्यर्थः। जिह्मः = वक्रः, कपटकुशलः। सः = दुर्योधनः भवज्जिगीषया = भवन्तं जेतुमिच्छया, केनापि विधिना धर्मराजो युधिष्ठिरो जेतव्यस्तत्र यतोऽसौ महान्, धर्मतत्परः अतो न हि धर्माचरणमन्तरेण जेतुं शक्यः, 'यतो धर्मस्ततो जय' इत्युक्तत्वात्। अत एव भवतोऽप्यधिकं प्रजासु दानदाक्षिण्यादिभिः, गुणसम्पदा, शुभ्रम् = निर्मलम्, यशः = कीर्तिम्, तनोति = विस्तारयति। कुत एव तदाह—भूतिम् = विभूतिम् = ऐश्वर्यं वा, राजलक्ष्मीमित्यर्थः। समुन्नयन् = सवर्द्धयन् सन्, अनार्यसङ्गमात् = नीचजनसंसर्गात्, महात्मभिः = महानुभावैः, भवादृशैरित्यर्थः। समं = सह, विरोधः = विग्रहः, अपि, वरम् = ईषत्प्रियम्। यदि नीचसम्पर्केण तथा च महतो विरोधेनापि श्रियो वृद्धिस्तर्हि तदापि कर्तव्यमेवेति राजनीतिः॥८॥
समासः- जेतुमिच्छा जिगीषा, भवतो जिगीषा भवज्जिगीषा, तया भवज्जिगीषया। गुणानां सम्पद् गुणसम्पत् तथा गुणसम्पदा। न आर्यः, अनार्य, अनार्यस्य सङ्गमः अनार्यसङ्गमस्तस्मात्। महान् आत्मा यस्यासौ महात्मा, तैर्महात्मभिः॥८॥
**व्याकरणम्-**तनोति = तनु + लट्। समुन्नयन् = सम् + उत् + नी शतृ ॥८॥
वाच्यान्तरम्- तथापि जिह्मेन तेन भवज्जिगीषया गुणसम्पदा शुभ्रं यशः तन्यते। भूमिं समुन्नयता, अनार्यसङ्गमान्महात्मभिर्विरोधेनापि वरेण भूयते ॥८॥
कोषः- जिह्मस्तु कुटिलेऽलसे' इत्यमरः। 'शुक्लशुभ्रशुचिस्वेतविशदश्वेत- पाण्डुराः' इत्यमरः। 'यशः कीर्तिः समज्ञा च' इत्यमरः। विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा'
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १७
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १७
इत्यमरः। 'नीचोऽनार्योऽकुलीनोऽपि शठो दुष्टः' इत्यमरः। संसर्गः सङ्गमः सम्पर्क इति प्रोच्यते सम' इति। 'देवाद्वृते वरः श्रेष्ठे क्लीबे मनाक् प्रिये' इत्यमरः। 'विरोधो विग्रहो मतः' इतिः कोषः॥८॥
सारांशः— यथा प्रजा भवतोऽपि तमुच्चदृष्ट्या पश्येतया प्रणिपातपूर्वकमधुना सर्वथा राज्यं दुर्योधनः पालयति । येन भवतः शासनविधिं स्मृत्वा भवद्वियोगेन विमनाः प्रजा न स्यात्, एवम्भूतोऽपि कृत्रिमसाधुः स भवतः सकाशाद्विशेषमेवेच्छति न हि साम्प्रतमपि दुःशासनादिदुर्जनसंसर्गं त्यजति । यतोऽसौ प्रकृत्या खलः। साधुताऽपि तस्य स्वार्थसाधनिकैव । तथा हि—नीचसङ्गात् महात्मभिर्भवत् दृशैः सह विरोधमपि वरमेव मनुते ॥८॥
भावार्थः— तो भी (हर समय चौकन्ना रहता हुआ भी) कपटी वह दुर्योधन आप से बढ़ने के ख्याल से देखौआ गुणों से अभी बेदाग (निर्मल) यश फैलाता है । क्योंकि ऐश्वर्य को बढ़ाते हुए आदमी के लिए नीचों के सङ्ग की अपेक्षा महान् जन से विरोध करना भी कुछ अच्छा ही है ।
ननु 'कातर्यं केवलाः नीतिः' इत्याशङ्क्य नीतियुक्तं पौरुषमस्त्येवेत्याह—
कृतारिषड्वर्गजयेन मानवीमगम्यरूप्रां पदवीं प्रपित्सुना ।
विभज्य नक्तन्दिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥९॥
कृतेति । षण्णां वर्गः षड्वर्गः। अरीणामन्तः शत्रूणां कामक्रोधादीनां षड्वर्गोऽरिषड्वर्गः। शिवभागवतवत्समासः। तस्य जयः कृतोयेन तेन तथोक्तेन । विनीतेनेत्यर्थः। विनीताधिकारं प्रजापालनमिति भावः। अगम्यरूप्रां पुरुषमात्रदुष्प्रापाम् । मनोरिमां मानवीम् । मनूपदिष्टसदाचारक्षुण्णामित्यर्थः। पदवीं प्रजापालनपद्धतिं प्रपित्सुना प्रपत्तुमिच्छुना । प्रपद्यतेः सन्नन्तादप्रत्ययः 'सनिमीमा—' इत्यादिना सादेशः। 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासस्य । अस्ता तन्द्रिरलस्यं यस्य तेनास्ततन्द्रिणा। अनलसेनेत्यर्थः। तदिः सौत्रो धातुः। तस्मात् 'कङ्कटादयश्च' इत्यौणादिकः क्रिन्नत्ययः 'कृदिकारदक्तिनो वा ङीष् वक्तव्यः' इति । 'चण्डीपतीतण्डीन्द्रौ' इति ङीबन्तोऽपि इति क्षीरस्वामी । तथा रामायणे प्रयोगः—निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् इति । तेन दुर्योधनेन । पुरुषस्य कर्म पौरुषं पुरुषकारः उद्योग इति यावत् । युवादिस्त्वादण्प्रत्ययः। पौरुषं पुरुषस्योक्ते भावे कर्मणि तेजसि' इति विश्वः। नक्तं
१८ किरातार्जुनीयम् [प्रथमः
च दिवा च नक्तन्दिवम् । अहोरात्रयोरित्यर्थः। ‘अचतुर-’ इत्यादिना सप्तम्यर्थवृत्त्यो- रव्ययोर्द्वन्द्वनिपातेऽच्समासान्तः। विभज्यास्यां वेलायामिदं कर्मेति विभागं कृत्वा नयेन नीत्या वितन्यते विस्तार्यते ॥९॥
अन्वयः- कृतारिषड्वर्गजयेन, अगम्यरूपाम्, मानवीम्, पदवीम्, प्रपित्सुना, अस्ततन्द्रिणा, तेन, नक्तन्दिवं, विभज्य, नयेन, पौरुषम्, वितन्यते ॥९॥
सुधा- कृतारिषड्वर्गजयेन = वशीकृतकामक्रोधादिषड्वैरिणा, अगम्यरूपाम् = दुर्विज्ञेयाम्, दुर्बोधैः साधारणजनैरिति शेषः। मानवीम्— मनुसम्बन्धिनीम् = मनुप्रोक्ताम्, कथं राज्ञा प्रजा पालनीयेति मनुस्मृत्युदितामिति भावः। पदवीम् = प्रजापालनपद्धतिम्, प्रपित्सुना=प्राप्तुमिच्छुना, ‘दुर्योधनस्तु यथार्थमनूपदिष्टप्रजापालनपद्धत्या प्रजाः पालयति, अयमपि धर्मात्मा राजा । नायं युधिष्ठिरान्न्यूनः। स्वबन्धुभ्यः पाण्डवेभ्यो यद्विरोधं विदधाति, तदिह संसारे केन न क्रियते स्वोन्नत्यै? अतो नायं कुनृपतिः। अयमेव चेदस्माकं सर्वदा पालकः स्यात्तथाऽपि न कोऽपि क्षतिलेशः’ इति यथा प्रजासु ख्यातिं प्राप्नोति, तथा तेनाचर्यते इत्यर्थः। अस्त तन्द्रिणा=निरलसेन, सदा दक्षेणेत्यर्थः। तेन=दुर्योधनेन, नक्तन्दिवम्=अहोरात्रम्, विभज्य=विभागं कृत्वा, ‘अस्मिन् समये इदं कर्म कर्तव्यमिदं न कर्तव्यम्’ एवं समयविभागं विधायेत्यर्थः। पौरुषम्=पौरुषाचरणं नयेन=न्यायेन, न तु स्वार्थान्धधिया अपि तु नीतिशास्त्रानुसारेणेत्यर्थः। वितन्यते= विस्तार्यते॥९॥
**समासः-**षण्णां वर्ग षड्वर्गः अरीणां षड्वर्गोऽरिषड्वर्गः। कृतः अरिषड्वर्गस्य जयो येन सः तेन कृतारिषड्वर्गजयेन । न गम्यं रूप यस्याः साऽगम्यरूपा, ताम् आगम्यरूपाम् । मनोरियं मानवी ताम् मानवीम्। अस्ता तन्द्रिर्यस्य येन वा सः अस्ततन्द्रिः। तेनास्ततन्द्रिणा । पुरुषस्येदं पौरुषम् ॥९॥
**व्याकरणम्-**विभज्य=वि + भज् + क्त्वा +ल्यप् । वितन्यते = वि + तनु + य +त + कर्मणि लट् ॥९॥
वाच्यान्तरम्- कृतारिषड्वर्गजयः अगम्यरूपां मानवीं पदवीं प्रपित्सुः अस्ततन्द्रिः सः (दुर्योधनः) नक्तन्दिवं विभज्य नयेन पौरुषं वितनोति ॥९॥
कोषः-‘रिपौ वैरियसत्नारिद्विषद्वेषणदुर्हृदः' इत्यमरः। 'वृन्दभेदाः समैर्वर्ग सत्सार्थी तु जन्तुभिः' इत्यमरः। 'विजयो जयः' इत्यमरः। 'अयनं वर्त्ममार्गाध्वपन्थानः
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १९
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १९
पदवी सृतिः। सरणिः पद्धतिः पद्या वर्तन्येकपदीति च' इत्यमरः। 'नयो न्याये' इत्यमरः। 'पुम्भावे तत्क्रियायां च पौरुषम्' इत्यमरः। 'स्यान्निद्रा शयनं स्वापः स्वप्नः संदेश इत्यादि'। 'तन्द्री प्रमीला' इत्यमरः॥९॥
सारार्थः—कामक्रोधादिषड्रिपून् विवेकेन जित्वा, मनूपदिष्टप्रजापालनवि- धिप्रचारलब्धयशो लब्धुमिच्छुः, अस्मिन् समये यदस्मिंश्च समये इदं कर्मावश्यं कर्तव्यमेवं वेलाविभागं विधायालस्यरहितः सन् स्वकर्तव्यं प्रजासु प्रदर्शयति सव्याजस्वभावसौष्ठवं गोपायतीति ॥९॥
भाषार्थः—किया है काम, क्रोध, मोह, लोभ आदि शत्रुओं का जय जिसने, ऐसे और अत्यन्त कठिन, मनुस्मृति के अनुसार मार्ग (प्रजापालन-क्रम) को पाने की इच्छा करने वाले और दूर है आलस्य जिससे, ऐसे दुर्योधन ने दिन- रात्रि का ठीक विभाग (अभी यह काम करना चाहिए, उस वक्त यह करूँगा, ऐसे समय बाँट) कर न्याय (नीति) से अपने कर्तव्य को पूरा करता है ॥९॥
सम्प्रति भृत्यानुरागमाह- सखीनिव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः। न सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ॥१०॥
सखीनिवेति। गतस्मयो निरहङ्कारोऽत एव स दुर्योधनः सन्ततमनारतं साधु सम्यक् । अकपटमित्यर्थः। अनुजीविनो भृत्यान्। प्रीतियुजः स्निग्धान्सखीनिव मित्राणीव। दर्शयते । लोकस्येति शेषः। 'हेतुमति च' इति णिच् । 'णिचश्च' इत्यात्मनेपदम् । शोभनं हृदयं येषां तान्सुहृदो मित्राणि च। 'सुहृद्दुर्हृदौ मित्रामित्रयोः' इति निपातः। बन्धुभिर्भ्रात्रादिभिः समानमानांस्तुल्यसत्कारान् दर्शयते । बन्धूनां समूहो बन्धुता ताम्। 'ग्रामजनबन्धुसहायेभ्यस्तल्' कृतमाधिपत्यं स्वाम्यं यस्यास्तां कृताधिपत्यामिव दर्शयते । बन्धूनधिपतीनिव दर्शयतीत्यर्थः। यथा भृत्यादिषु सख्यादिबुद्धिर्जायते लोकस्य तथा तान्सम्भावयतीत्यर्थः। अनुजीव्यादीनाम् 'कर्तुरीप्सिततमं कर्म' इति कर्मत्वम्। पूर्वे त्वस्मिन्नेव पदान्वये वाक्यार्थमित्थं वर्णयन्ति-स राजाऽनुजीव्यादीनिव दर्शयते। सख्यादय इव ते तु तं पश्यन्ति । साख्यादिभावेन पश्यतस्तांस्तथा दर्शयते । स्वयमेव छन्दानुवर्तितया स्वदर्शनं तेभ्यः प्रयच्छतीत्यर्थः। अर्थात्तस्येप्सि- तकर्मत्वम् । अणि कर्तुरनुजीव्यादेः 'अभिवादिवृशोरारमनेपदे वेति वाच्यम्' इति
| २० | किरातार्जुनीयम् | [प्रथमः |
|---|
पक्षिकं कर्मत्त्वम्। एवं चात्राण्यन्तकर्मणो राज्ञो ण्यन्ते कर्तृत्वेऽपि 'आरोहयते हस्ती स्वयमेव' इत्यादिवदश्रूयमाणकर्मान्तरत्वाभावान्नायं णेरणादिसूत्रस्य विषय इति मत्वा 'णिचश्च' इत्यात्मनेपदं प्रतिपेदिरे। भाष्ये तु णेरणादिसूत्रविषयत्वमप्यस्योक्तम्। यथाऽऽह—'पश्यन्ति भृत्या राजानम्' 'दर्शयते भृत्यान् राजा', 'दर्शयते भृत्यै राजा', अत्रात्मनेपदं सिद्धं भवति' इति। अत्राह कैयटः-ननु कर्मान्तरसद्भावादात्मनेपदेन भाव्यम्। उच्यते-अस्मादेवोदाहरणाद्भाष्यकारस्यायमेवाभिप्राय उद्यते। अण्यन्तावस्थायां ये कर्तुकर्मणी तद्व्यतिरिक्तकर्मान्तरसद्भावादात्मनेपदं न भवति। यथा—'स्थलमारोहयति मनुष्यान्' इति। इह त्वण्यन्तावस्थायां कर्तॄणां भृत्यानां णौ कर्मत्वमिति भवत्येवात्मनेपदमिति ॥१०॥
अन्वयः—गतस्मयः, सः, सन्ततम्, अनुजीविनः, प्रीतियुजः, सखीन्, इव सुहृदः च, बन्धुभिः, समानमानान्, बन्धुतां, कृताधिपत्याम्, इव, साधु, दर्शयते ॥१०॥
सुधा—गतस्मयः + अपगतगौरवः, नम्रः सन् इत्यर्थः। सः=पूर्वोक्तो दुर्योधनः। सन्ततम् = सततम्, सर्वदेत्यर्थः। अनुजीविनः=अनुचरान्, किङ्करानित्यर्थः। प्रीतियुजः=स्नेहसमन्वितान्, प्रेमपूरितानित्यर्थः। सखीन् = मित्राणि, इव, (साधु=सम्यक्, दर्शयते इति सर्वत्र कर्मान्ते योजनीयम्)। अहो यदि मित्रवद् भृत्यगणं सः पश्यति, तदा मित्रगणं कया दृष्ट्या विलोकयतीत्याह-सुहृदः= मित्राणि, च = तु, बन्धुभिः= भ्रातृप्रभृतिनिजपरिवारैः, समानमानान् = समसत्कारान्, यथा स्वस- हजेषु भावस्तथैव कर्णप्रभृतिमित्रेष्विति भावः। अथाहो बन्धुवद्यदि मित्रमवलोकयति तदा बन्धुगणं किमिव पश्यति स इत्याह— बन्धुताम् = बान्धववृन्दम्, बन्धूनां समूहो बन्धुता, तां, बन्धुताम्, तां, बन्धुताम्, कृताधिपत्याम् = विहित सर्वाधिकाराम् इव, साधु = निर्व्याजम्, दर्शयते = बोधयते ॥१०॥
समासः—गतः स्मयो यस्य स गतस्मयः। प्रीत्या युञ्जन्ति ये ते प्रीतियुजः, तान् प्रीतियुजः। अनु पश्चात् (धावनेन) जीवनं येषां तेऽनुजीविनः, तान् अनुजीविनः। समानः मानो येषां ते समानमानाः, तान् समानमानान्। बन्धूनां समूहो बन्धुता, तां बन्धुताम्। अधिपतेः कर्म आधिपत्यम्, कृतमाधिपत्यं यया, तां कृताधिपत्याम् ॥१०॥
व्याकरणम्— दर्शयते = दृश् + णिच् + लट् ॥१०॥
वाच्यान्तरम्— गतस्मयेन तेन, अनुजीवितः (प्र०) प्रीतियुजः (प्र०) सखाय
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । २१
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । २१
इव दृश्यन्ते । सुहृदः (प्र०) बन्धुभिः समानमाना इव दृश्यन्ते । बन्धुता कृताधिपत्या इव दृश्यते ॥१०॥
कोषः- 'वयस्यः स्निग्ध सवया अथ मित्रं सखा सुहृत्' इत्यमरः। 'सेवकार्थ्यनुजीविनः' इत्यमरः। 'सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः' इत्यमरः। 'सततानारताश्रान्तसन्तताविरतानिशम्' इत्यमरः। 'दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः' इत्यमरः। 'ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः' इत्यमरः॥१०॥
सारार्थः- स च दुर्योधनोऽभिमानं दूरतो विहाय प्रेमपूरितानि मित्राणीव भृत्यान् लोकाय दर्शयते । मित्राणि तु बन्धूनिव दर्शयते । बन्धूंस्तु अधिपतीनिव दर्शयते । यथोचितविशेषसत्कारं कुरुते सर्वेषामिति ॥१०॥
भाषार्थः- अहङ्कार से रहित होकर वह (दुर्योधन) अनुरक्त मित्रों के समान नौकरों के साथ व्यवहार दिखाता है । मित्रों से भाई के समान व्यवहार और भाई बिरादर से अध्यक्ष के सरीखे भाव रखता है ॥१०॥
न चायं त्रिवर्गात्प्रमाद्यतीत्याह- असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया । गुणानुरागादिव सख्यमीयिवान् न बाधतेऽस्य त्रिगणः परस्परम् ॥११॥
असक्तमिति । यथायथं यथास्वं विभज्य । असङ्कीर्णरूपं विविच्येत्यर्थः। 'यथास्वे यथायथम्' इति निपातनाद् द्विर्भावो नपुंसकत्वं च । ह्रस्वो नपुंसके प्रातिपदिकस्य' इति ह्रस्वत्वम् । पक्षे पातः पक्षपातः आसक्तिविशेषः समस्तुल्यो यस्यां तथा समपक्षपातया । भक्त्यानुरागविशेषेण । पूज्येष्वनुरागो भक्तिरित्युपदेशः। पूज्यश्चायं त्रिवर्ग इति । असक्तमनासक्तम् । अव्यसनितयेति यावत् । आराधयतः सेवमानस्यास्य दुर्योधनस्य त्रयाणां धर्मार्थकामानां गणस्त्रिवर्गोऽन्वर्थः। 'त्रिवर्गोधर्मकामार्थैश्चतुर्वर्गः समीक्षकैः' इत्यमरः। गुणानुरागात्तदीयगुणेष्वनुरागात् । गुणशब्दायलोभादित्यर्थः। सख्यं मैत्रीम् । 'सख्युर्यः' इति यत्प्रत्ययः। उपेयिवानुपगतवानिवेत्युत्प्रेक्षा । 'उपेयिवाननाश्वाननूचानश्च' इति क्वसुप्रत्ययान्तो निपातः। 'नात्रोपसर्गस्तन्वम्' इति काशिकाकार आह स्म। परस्परं न बाधते । समवर्त्तित्वादस्य 'धर्मार्थकामाः परस्परानुपमर्देन वर्धन्त इत्यर्थः। उक्तं च—'धर्मार्थकामाः सममेव सेव्या यो ह्येकसक्तः स जनो जघन्यः' इति ॥११॥
२२ किरातार्जुननीयम् [प्रथमः
अन्वयः- यथायथं विभज्य, सनपक्षपातया, भक्त्या, असक्तम्, आराधयतः, अस्य, गुणानुरागात्, सख्यम् ईयिवान् इव, त्रिगण, परस्परं न बाधते ॥११॥
सुधा- यथायथम् = यथास्वम्, यथोचितमित्यर्थः। विभज्य = विभागं विधाय, समपक्षपातया = तुल्यव्यवहारेण, अविषमभावेनेत्यर्थः। भक्त्या = अनुरागविशेषेण, असक्तम् = अनासक्तम्, यथा स्यात्तथा, न हि तदधीनो भूत्वेत्यर्थः । आराधयतः— सेवामानस्य, भजत इत्यर्थः। अस्य = दुर्योधनस्य, गुणानुरागात् = दयादाक्षिण्योदार्यशौर्यगाम्भीर्यप्रभृतिसल्लक्षणस्नेहाद् इव, त्रिगणः = धर्मार्थकामेत्येवंरूपः, न बाधते = न बाधां करोतीति । यस्मिन् समये तेन धर्मः सेव्यते न हि तदानीमर्थकामौ तं बाधेते । यदार्थसञ्चयः क्रियते न हि तदानीं धर्मकामौ पीडयतः एवं यदा कामः सेव्यते न हि तदानीमर्थधर्मौ बाधते स च सदा समयविभागं कृत्वाऽस्मिन् समयेऽर्थसञ्चय एवास्मिन् समये धर्मसञ्चय एवास्मिन् समये कामपूरणमुचितमेव करोतीति ॥११॥
समासः- समः पक्षपातो यस्यां सा समपक्षपाता । तया समपक्षपातया । गुणेषु गुणानां वाऽनुरागो गुणानुरागस्तस्माद् गुणानुरागात् । त्र्याणां गणः त्रिगणः॥११॥
व्याकरणम्- विभज्य = वि + भज् + क्त्वा + ल्यप् । बाधते = बाध् + लट् । आराधयतः = आ + राध् + णिच् + शतृ । भक्त्या = भज् + क्तिन् ॥११॥
वाच्यान्तरम्- यथायथं विभज्य समपक्षपातया भक्त्या असक्तमाराधयतोऽस्यगुणानुरागात् सख्यमीयुषा इव त्रिगणेन परस्परं न बाध्यते ॥११॥
कोषः- 'अनासक्तमसक्तं च पृथग्वर्ति पृथग् स्थितम्' इति । 'यथार्थं तु यथायथम्' इत्यमरः। 'मौर्व्यां द्रव्यश्रिते सत्त्वशौर्यसन्ध्यादिके गुणः' इत्यमरः। 'मिथोऽन्योन्यं परस्परम्' इति कोषः॥११॥
सारार्थः- उचितरूपेण समदृष्ट्या धर्मार्थकामान् सेवमानस्य दुर्योधनस्य गुणप्रेम्णा मैत्री लब्धवानिव धर्मार्थकामानां गणः परस्परं न बाधते । अर्थात् धर्माचरणसमये न हि अर्थकामौ तन्मनो भ्रामयतः। एवमर्थसञ्चयसमये न हि धर्मकामौ तच्चित्तं चपलं कुरुतः। येन सर्वथाऽर्थार्जनं भवेत् । एवं कामोदयसमये नहि धर्मार्थौ तद्धृदयं बाधेते, येन कामपूरणे न काऽपि बाधा सम्भवेत् । साधारणजनस्य धर्मचिन्तनावसरे तद्विरोधिनाविवार्थकामौ पीडयतः। तथाऽर्थार्जनावसरे धर्मकामौ स्वस्वावश्यकतां प्रदर्शयन्तौ बाधां कुरुतः। तथा दुर्योधनं न, किन्तु ते धर्मार्थकामाप्रीस्तद्विशेषगुणप्रीतया मित्रतामुपगतास्तेन सहेति भावः॥११॥
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । २३
सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । २३
भावार्थ:- समुचित (यथार्थ) रूप से समय बाँटकर, बराबर प्रेम से उसके वशीभूत न होकर, सेवा करते हुए दुर्योधन के गुणों के प्रेम से मित्रता के प्राप्त हुए के समान दुर्योधन को धर्म, काम एक दूसरे के साथ नहीं बाधा करते हैं॥११॥
अथ श्लोकत्रयेणोपायकौशलं दर्शयन्नादौ सामदाने दर्शयति—
निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् । प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥ १२ ॥
निरत्ययमिति । तस्य दुर्योधनस्य निरत्ययं निर्वाधम् । अमायिकमित्यर्थः । अन्यथा अनानां दुर्ग्रहत्वादिति भावः। साम सान्त्वम् । ‘सम सान्त्वमुभे समे’ इत्यमरः। दानवर्जितं न प्रवर्तते । अन्यथा लुब्धाश्चावर्जनस्य शुक्रप्रियैर्वाक्यैर्दुष्करत्वादिति भावः। उक्तं च— ‘लुब्धमर्थेन गृह्णीयात्साधुमञ्जलिकर्मणता। मूर्खं छन्दालु रोधेन तत्वार्थेन च पण्डितम् ॥ इति । यथा भूरि प्रभूतम् । न तु कदाचित्स्वल्प मित्यर्थः । दानं धनत्यागः। सदित्यादरार्थेऽव्ययम् । ‘सादरानादरयोः सदसती’ इति निपात-संज्ञास्मरणात् । तस्य क्रियां सत्क्रियां विरहय्य विहाय । ‘ल्यपि लघुपूर्वात्, इत्यादेशो न प्रवर्तते । अनादरे दानवैफल्यादिति भावः। न चैवं सर्वत्र येनाविवेकित्वं कोशहानिश्च स्यादित्याह—प्रेति । विशेषशालिन्यतिशययोगिनी सत्क्रियाऽऽदरक्रिया गुणानुरागेण विना न प्रवर्त्तते । ‘पृथग्विना—’ इत्यादिना । तृतीया । गुणेष्यादरो भूरिदानं चेति नोक्तदोषावकाश इत्यर्थः । अत्रोत्तरोत्तरस्य पूर्वपूर्वविशेषणतया स्थापन-देकावल्यलङ्कारः तदुक्तं काव्यप्रकाशे— ‘स्थाप्यतेऽपोह्यते वाऽपि यथापूर्वं परं परम् । विशेषणतया वस्तु यत्र सैकावली द्विधा’ इति ॥१॥
**अन्वयः—**तस्य निरत्ययं दानवर्जितं साम, न (प्रवर्त्तते) । सत्क्रियां विरहय्य, भूरि, दानं, न (प्रवर्त्तते) विशेषशालिनी, सत्क्रिया, गुणानुरोधेन विना न प्रवर्त्तते ॥ १२ ॥
सुधा- तस्य = दुर्योधनस्य, निरत्ययं = निरापदं, निर्विघ्नमित्यर्थः। साम = सान्त्वं, प्रियवचनामित्यर्थः। दानवर्जितं = धनप्रयोगरहितम् । न प्रवर्त्तते । अर्था-द्यस्योपरि प्रसन्नो भूत्वा प्रियवाक्यं ब्रूते, तस्मै नियतं धनमपि ददात्येवेति भावः। सत्क्रियां = सत्कारं, सम्मानमित्यर्थः। विरहय्य = विहाय, भूरि = बहुलम्, दानम् = धनप्रयोगः न प्रवर्त्तते । अर्थात् ससम्मानमेव धनं ददाति नापमानं कृत्वा कस्मैचित्किमपि ददाति । विशेषशालिनी = प्रशंसनीया, सत्क्रिया = सत्कारः, गुणानुरोधेन = गुणपक्षपातेन, विना = ऋते, न प्रवर्त्तते । अर्थात् गुणिनं जनमेव
२४ किरातार्जुनीयम् [प्रथमः
दुर्योधनो मानयति । यं च मानयति, तस्मै धनमपि ददाति । तदपि प्रियकथाकथनपूर्वकमेवेति भावः॥१२॥
समासः—निर्गतः अत्ययो यस्मात्तद् निरत्ययम् । दानेन वर्जितं दानवर्जितम् । सती चासौ क्रिया सत्क्रिया, तां सत्क्रियाम् । विशेषेण शालते या सा विशेषशालिनी। गुणानामनुरोधस्तेन गुणानुरोधेन ॥१२॥
व्याकरणम्— विशेषशालिनी = विशेष+शाल+णिनिः। प्रवर्त्तते+प्र+वृतु+लट् ।
वाच्यान्तरम्— निरत्ययेन सान्ना दानवर्जितेन न (प्रवृत्त्यते सत्क्रियां विरहय्य) भूरिणा दानेन न (प्रवृत्त्यते)। विशेषशालिन्या सत्क्रियया गुणानुरोधेन विना न प्रवृत्त्यते ॥१२॥
कोषः—'अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि' इत्यमरः। 'अत्यर्थमधुरं सान्त्वं सङ्गतं हृदयङ्गमम्' इत्यमरः। 'त्यागो विहापितं दानमुत्सर्जनविसर्जने, इत्यमरः। 'पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च' इत्यमरः॥१२॥
सारार्थः— स यस्य कस्योपरि प्रसन्नो भूत्वा सस्नेहमालापं करोति, तस्मै नियतं तत्सन्तोषार्थमपि ददात्येव । न हि वाङ्माधुर्यमात्रं फलम् । तथा च भूरि दानन्तु सत्कारार्हस्यैव सत्कारं विधाय ददाति, न हि यस्मै कस्मैचिदपात्राय बहु ददाति । तथा कृतेऽप्यव्ययित्वापत्तिस्तस्मिन् । सत्कारोऽपि यस्य कस्याप्यपरिचितस्य न हि करोति, य एव सत्कारयोग्यो गुणवान् जनस्तस्यैव करोतीति । अनेन स दुर्योधनो महान् समीक्ष्यकारीति सूच्यते ॥१२॥
भावार्थः— वह बिना कुछ दिये, सिर्फ कोमल बात नहीं किसी से कहता! जिसको बहुत देता है, उसको सत्कार करके ही देता है । बिना गुण की परीक्षा किये किसी का विशेष सत्कार नहीं करता; बल्कि योग्यतानुसार सत्कार करता है ॥१२॥
अथ दण्डप्रकरमाह—
वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः।
गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥१३॥
वसूनीति । वशी दुर्योधनो वसूनि धनानि वाञ्छन्न । लोभाप्रत्यर्थः। 'वसुतोयेघने मणी' वैजयन्ती । निहन्तीति शेषः। तथा मन्युना कोपेन न च । 'मन्यु दैन्ये क्रतौ
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । २५
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । २५
क्रुधि' इत्यमरः। 'धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः' इति स्मरणादित्यर्थः किन्तु निवृत्तकारणो निवृत्तलोभादिनिमित्तः सन्स्वधर्म इत्येव । स्वस्य राज्ञः सतो ममायं धर्मो ममेदं कर्तव्यमित्यस्मादेव हेतोरित्यर्थः । 'अदण्ड्यान्दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥ इति स्मरणादिति भावः गुरूपदिष्टेन प्राड्विवाकोपदिष्टेन । धर्मशास्त्रं पुरस्कृत्य प्राड् विवाकमते स्थितः। समाहितमतिः पश्येद् व्यवहाराननुक्रमात् ॥' इति नारदस्मरणात् । दण्डेन दमेन । शिक्षयेत्यर्थः रिपौ सुतेऽपि वा । स्थितमिति शेषः। एतेनास्य समदर्शित्वमुक्तम् । धर्मविप्लवं धर्मव्यतिक्रमम् । अधर्ममिति यावत् । निहन्ति निवारयति । दुष्ट एवास्य शत्रुः शिष्ट एव बन्धुः। न तु सम्बन्धनिबन्धनः पक्षपातोऽस्तीत्यर्थः ॥१३॥
अन्वयः- वशी, सः (दुर्योधनः) वसूनि वाञ्छन् न, मन्युना न, निवृत्त कारणः (सन्) स्वधर्मः एव (एषः) इति गुरूपदिष्टेन दण्डेन रिपौ वा सुते अपि धर्मविप्लवं निहन्ति ॥१३॥
सुधा- वशी = सर्वतन्त्रस्वतन्त्रः न तु परतन्त्रः, येन केनापि विधिना जनान् स्वाधीनान् करोतीति वा, वसूनि = धनानि, वाञ्छन्, न = हि (जनं न पीडयतीति शेषः) तथा न, मन्युना = क्रोधेन, न (निहन्ति) किन्तु, निवृत्त कारणः = कारणरहितः, लोभाद्यर्थसञ्चयहेतुहीन इत्यर्थः। केवलं दण्डनीयः = दण्ड्य इति, स्वधर्मः = राजधर्म एवास्माकम्, इत्यतः गुरूपदिष्टेन = मन्वादिशास्त्रोपदेशानुसारेण, दण्डेन = दमेन, रिपौ = शत्रौ, वा सुते = आत्मजे, पुत्रेऽपीत्यर्थः। धर्मविप्लवम् = धर्मविरुद्धम्, धर्मनीतिमर्यादोल्लङ्घनमित्यर्थः। निहन्ति = दण्डयति, अनाचारात्निवारयति इत्यर्थः ॥१३॥
समासः- स्वस्य धर्मः स्वधर्मः, निवृत्तानि कारणानि यस्मात् स निवृत्तकारणः। गुरुणा उपदिष्टस्तेन गुरूपदिष्टेन । धर्मस्य विप्लवस्तम् ॥१३॥
व्याकरणम्- वाञ्छन् = वाञ्छ् + शतृ । निहन्ति = नि हन् + लट् + ति वशी = वश् + इन् ॥१३॥
वाच्यान्तरम्- वशिना तेन, वसूनि वाञ्छता न, मन्युना न, स्वधर्म एवेति निवृत्तकारणेन (दुर्योधनेन) गुरूपदिष्टेन दण्डेन रिपौ सुतेऽपि धर्मविप्लवो निहन्यते। १३॥
कोष- 'वसु तोये धने मणौ' इति वैजयन्ती । 'मन्युर्दैन्ये क्रतौ क्रुधि' इत्यमरः।
३ किरात प्र. सर्ग
२६ किरातार्जुनीयम् [प्रथमः
‘हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्’ इत्यमः। ‘रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृदः’ इत्यमरः। ‘आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी, इत्यमरः। ‘साहसं तु दमो दण्डः’ इत्यमरः॥१३॥
सारार्थः- जितेन्द्रियो दुर्योधनो यत्प्रजां दण्डयति, तद्धनसञ्चयाशया न, न हि क्रोधेन वा, किन्तु ममायं धर्म एवेति धिया क्रोधलोभमोहादिदण्डकरणकारणरहितः सन् यदि पुत्रोऽप्यपराधी, तथा तमपि दण्डयति, न हि शत्रुमित्रयोरुपरि दण्डदानसमये भेददृष्ट्या विलोकयतीति ॥१३॥
भाषार्थः- अपने अधीन सबको रखने वाला वह दुर्योधन, न तो कुछ धन बटोरने की चाह से, न तो क्रोध ही से, किसी को कुछ दण्ड देता है । बल्कि दुष्ट अपराधियों का शासन करना मेरा धर्म है, इस ख्याल से धन जमा करने के कारणों से विमुख होकर, गुरु के उपदेश के अनुसार चाहे दुश्मन, चाहे लड़का ही क्यों न हो, समदृष्टि से जिसको अन्यायी समझता है उसी को दण्ड देता है॥१३॥
सम्प्रति भेदकौशलं दर्शयति- विधाय रक्षान्परितः परेतरानशङ्किताकारमुपैति शङ्कितः। क्रियाऽपवर्गेष्वनुजीविसात्कृताः कृतज्ञतामस्य वदन्ति सम्पदः ॥१४॥
विधायेति । शङ्का सञ्जाताऽस्य शङ्कितोऽविश्वस्तः सन्परितः सर्वत्र स्वपरमण्डले परेतानात्मीयान् । अवञ्चकानिति यावत् । यद्वा परानितरयन्ति भेदेनात्मसात्कुर्वन्तीति परेतान् । ‘तत्करोति’ति ण्यन्तात्कर्मण्यण्प्रत्ययः। रक्षन्तीति रक्षान् रक्षकान् । मन्त्रगुप्तिसमर्थानित्यर्थः ‘नन्दिग्रही—’ त्यादिना पचाद्यच् । विधाय कृत्वा । नियुज्येत्यर्थः। अशङ्किताकारमुपैति । स्वयमविश्वस्तोऽपि विश्वस्तवदेव व्यवहरन्परमुखेनैव परान् भिनत्तीत्यर्थः। न तान्रक्षानुपेक्षते येन तेऽपि विकुर्वीरन्नित्याह—क्रियेति । क्रियाऽपवर्गेषु कर्मसमाप्तिष्वनुजीविसात्कृताभृत्याधीनाः कृताः। अपरावर्तितया दत्ता इत्यर्थः। ‘देये त्रा च’ इति सातिप्रत्ययः। सम्पदोऽस्य राज्ञः कृतज्ञतामुपकारित्वं वदन्ति । प्रीतिदानैरेवास्य कृतज्ञत्वं प्रकाश्यते, न तु वाङ्मात्रेणेत्यर्थः। कृतज्ञे राजन्यनुजीविनोऽनुरज्यन्तेऽनुरक्ताश्च तं रक्षन्तीति भावः॥१४॥
अन्वयः- शङ्कितः, (सन्नपि) परितः परेतरान् रक्षान् विधाय, अशङ्किताकारम्, उपैति । क्रियाऽपवर्गेषु, अनुजीविसात्कृताः सम्पदः, अस्य कृतज्ञतां वदन्ति ॥१४॥
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । २७
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । २७
सुधा-शङ्कितः = सन्देहापन्नः सन् न हि केषामपि विश्वासं कुर्वन्नित्यर्थः। परितः, स्वराष्ट्रे परराष्ट्रेऽपि, परेतरान् = आत्मीयान्, यस्मिन्, जने सर्वथा विश्वासो, न हि स्वल्पोऽप्यविश्वासस्तानित्यर्थः। रक्षान् = रक्षकान्, कः केनाशयेन किं किं व्यापारं करोति, (तत्त्वया) गुप्तचित्तेन तटस्थेन सर्वं ज्ञातव्यमेवं सङ्केतितान् । कृत्वेत्यर्थः। (तदा) अशङ्किताकारम् = अचिन्तितचेष्टं, यथाऽन्येन ज्ञायते तद्दुर्योधनस्य हृदि न हि अल्पीयस्यपि शङ्का विद्यते, तदेत्यर्थः। उपैति = प्राप्नोति, अन्यान्, तथा दर्शयतीति भावः। तथा च क्रियाऽपवर्गेषु = कार्यसमाप्तिषु, कृत्यावसानेष्वित्यर्थः, अनुजीविसात्कृताः = अनुचरायत्तीकृताः, सम्पदः, = सम्पतयः, अस्य दुर्योधनस्य, कृतज्ञताम् = उपकारज्ञताम्, वदन्ति = कथयन्ति ॥१४॥
समासः- परेभ्य इतरे परेतेरे तान् परेतरान्। शङ्का जाताऽस्येति शङ्कितः, नः शङ्कितः अशङ्कितः आकारो यस्मिन्निति क्रि०वि०। क्रियाया अपवर्गा क्रियापवर्गाः तेषु । अनुजीविनामधीनाः कृताः अनुजीविसात्कृता । कृतं जानातीति कृतज्ञस्तस्य भावः कृतज्ञताम् ॥१४॥
व्याकरणम्- विधाय = वि+धा+क्त्वा+ल्यप् । उपैति = उप+इण्+लट्। वदन्ति=वद्+लट् ॥१४॥
वाच्यान्तरम्- शङ्कितेन तेन परितः परेतरान् रक्षान् विधाय अशङ्किताकारम् उपेयते, क्रियाऽपवर्गेषु अनुजीविसात्कृताभिः सम्पद्भिरस्य कृतज्ञता उच्यते ॥१४॥
कोषः- 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' इत्यमरः। 'अपवर्गोऽवसानन्तु मोक्षोऽपि च निगद्यते' इति । 'अर्थ सम्पदि सम्पत्तिः श्रीश्च लक्ष्मीश्च' इत्यमरः ॥१४॥
सारार्थः- प्रकृत्याऽविश्वस्तोऽपि स दुर्योधनः आत्मीयान् जनान् राजकार्येषु नियुज्य कथमेते राज्यपक्षं पोषयन्तीति गुप्तरूपेण पश्यन् बहिर्विश्वस्तः इव लक्ष्यते तथा च भृत्येषु दत्तस्य कार्यसाधननियोगस्य संसिद्धौ तेभ्यो दत्ता बह्व्यः सम्पदः एव दुर्योधनस्य उपकारितां सूचयन्ति ॥१४॥
भाषार्थः- हर वक्त सबके ऊपर शक करता हुआ भी वह चारों तरफ सब कर्मों में अपने आत्मीयों को लगाकर खुद निःशंक (निश्चिन्त) सा रहता है और काम-काजों के आखिरी में नौकरों के हाथ में दी हुई दौलत ही दुर्योधन की कृतज्ञता प्रकट करती है ॥१३॥