मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । श्रुतस्य चैव नाभाख्यः पुत्रस्तस्य बभूव ह । सिंधुद्वीपस्ततो जज्ञे ज्ञानी पुत्रो महायशाः ॥१॥ अयुतायुः सुतस्तस्य ततो य ऋतुपर्णकः । स वै नलसखस्तस्मादश्वविद्यापरायणः ॥२॥ सर्वकामस्ततो जज्ञे तस्माज्जातः सुदासकः । सौदासास्तस्य पुत्रोऽभूत् ख्यातः कल्माषपादकः ॥३॥ कल्माषपादक्षेत्रे वै वसिष्ठो मुनिसत्तमः । अश्मकं जनयामास चेक्ष्वाकुकुलवर्धकम् ॥४॥ अश्मकस्य च पुत्रोऽभून्मूलको नाम पार्थिवः । स हि राम- भयाद्राजा वनं प्राप्य सुदुःखितः ॥५॥ तत्र नारीस्वरूपः सन्नारीभिः परिरक्षितः । नारीकवचनामाऽभूत् कर्मणा तेन भो मुने ॥६॥ तस्माच्छतरथश्चैलविलो जज्ञे च तत्सुतः । ततो विश्वसहस्तस्मात् खड्वांगो ढुंढिमाप्तवान् ॥७॥ दीर्घबाहुस्तत- स्तस्माद्रघुस्तस्मादजोऽभवत् । पुत्रो दशरथस्तस्य कश्यपांशः स वै स्मृतः ॥८॥ तस्य भार्यात्रयं चासीद्रूपेणाप्रतिमं मुने । कौसल्या चैव कैकेयी सुमित्रा धर्मसंयुता ॥९॥ यौवने प्रगते प्राप न राजा पुत्रमुत्तमम् । नानायत्नं चकाराऽसौ व्रत- तीर्थादिकं मुने ॥१०॥ ततो वसिष्ठं विप्रेशं सस्त्रीकः शरणं ययौ । प्रधानेषु विनिक्षिप्य राज्यं निहतकंटकम् ॥११॥ वसिष्ठेन गणेशस्य मंत्रो दत्तो दशाक्षरः । तस्मै राज्ञे तथा चैवोवाच पत्नीसमन्वितम् ॥१२॥ सूर्यस्य कुलदैवत्वं संप्राप्तः स गजाननः । तस्य वंशे त्वमुत्पन्नः कथं विस्मृतवांश्च तम् ॥१३॥ तस्य विस्मृतिमात्रेण न सिद्धिं पुरुषो लभेत् । परत्रेह च विघ्नेन पीडितोऽतिमहाद्भुतम् ॥१४॥ अतस्त्वमपि राजेंद्र गणपं भज भावतः । न त्याज्योऽयं मंत्रराजस्त्यागे हानिर्भविष्यति ॥१५॥ तथेति तं वसिष्ठं स उक्त्वा नत्वा ययौ वनम् । तताप वै दशरथस्तप उग्रं महायशाः ॥१६॥ वायुमात्राशनो भूत्वा- ऽपूजयद् गणनायकम् । पत्न्या सह विनीतात्माऽजपत्तं मंत्रमुत्तमम् ॥१७॥ ततो वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः । आययौ तं वरान् दातुं मूषकारूढ एव सः ॥१८॥ तं दृष्ट्वोत्थाय सस्त्रीको ननाम सहसा प्रभुम् । पूजयामास तं देवं स्तुत्वा स्तोत्रै- र्ननाम च ॥१९॥ ततस्तं गणराजो वै जगाद स नृपोत्तमम् । वरं ब्रूहि महाबाहो दास्ये ते मनसेप्सितम् ॥२०॥ ततस्तद्वचनं श्रुत्वोवाच संविनयान्वितः । प्रसन्नात्मा दशरथो गणेशं सर्वसिद्धिदम् ॥२१॥ दशरथ उवाच । यदि प्रसन्नो देवेश तदा देहि गजानन । भक्तिं ते चरणे नाथ ययाऽज्ञानं न विद्यते ॥२२॥ अन्यद्देहि गणाधीश पुत्रं पृथुलकीर्तिदम् । बलेनाप्रतिमं चैव तव भक्तिपरायणम् ॥२३॥ मया यत्र तपस्तप्तं तत्र त्वं सुस्थिरो भव । पूरयन् भक्तिभावेन जनानां मनसीप्सितम् ॥२४॥ तथेति वै दशरथं जगाद गणनायकः । अंतर्धाय स्वमात्मानं ययौ स्वानंदमादरात् ॥२५॥ ततो वसिष्ठहस्तेन
खं. ३ अ. २६ पान ५३ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ स्थापिता मूर्तिरादरात् । गणेशस्य च तत्राऽऽसीत् क्षेत्रं सकलसिद्धिदम् ॥२६॥ पूजयित्वा दशरथः सस्त्रीकश्च स विप्र तम् । आययौ नगरेऽयोध्यायां सर्वान् संप्रहर्षयन् ॥२७॥ ततो रावणनाशार्थं विष्णुमाज्ञापयत् प्रभुः । गणेशः स तु पुत्रोऽभून् मुने दशरथस्य भोः ॥२८॥ चतुर्धात्मानमाभाज्य विबभौ हरिरव्ययः । कौसल्यायां समुत्पन्नो रामः शस्त्रभृतां वरः ॥२९॥ कैकेय्यां भरतो जज्ञे सुमित्रायां च लक्ष्मणः । शत्रुघ्नश्चैव विप्रेन्द्र सर्वे विष्णुसमा बभुः ॥३०॥ ततो दशरथो राजा काम- भोगपरायणः । संजातस्तं न सस्मार विस्मृत्या गणनायकम् ॥३१॥ ततो रामस्य मौञ्ज्यादि कर्म तेन कृतं मुने । विश्वामित्रेण यज्ञस्य रक्षार्थं याचितोऽभवत् ॥३२॥ स लक्ष्मणेन रामेण यज्ञस्तस्य प्रपालितः । हतः सुबाहको नाम राक्षसो दारुणो मुने ॥३३॥ प्रसन्नोऽभून् महायोगी विश्वामित्रः प्रतापवान् । अस्त्रविद्यां ददौ तस्मै रामाय सकलां मुने ॥३४॥ ततो जनकयज्ञं वै जगाम मुनिकौशिकः । रामलक्ष्मणसंयुक्तः पूजितो जनकेन सः ॥३५॥ माहेश्वरं धनुस्तत्र सज्यं रामेण वै कृतम् । आकर्षणेन महता भग्नं मध्ये महामुने ॥३६॥ ततो जनकभूपेन दत्ता सीता महात्मने । रामाय प्रीतियुक्तेन लक्ष्मणाय तथोर्मिला ॥३७॥ भ्रातृकन्ये ततो राज्ञा दत्ते तत्र महामुने । भरताय तथा शत्रुघ्नाय भावेन मानद ॥३८॥ ततो दशरथो राजा कैकेय्या प्रार्थितो भृशम् । रामस्य वनवासार्थं राज्यार्थं भरतस्य च ॥३९॥ वरदान- प्रभावेन तथेति स चकार ह । वर्षाणि वनवासं स चतुर्दश च राघवः ॥४०॥ सलक्ष्मणश्च सस्त्रीकश्चकार पितृगौरवात् । स तत्र नासिके रामो वासं चक्रे प्रहर्षितः ॥४१॥ तत्रातिथिरूपेण रावणश्च समाययौ । एकाकिनीं च सीतां संगृह्य लंकां ययौ खलः ॥४२॥ सलक्ष्मणस्ततो रामो न ददर्श विदेहजाम् । पपात मूर्च्छितो भूत्वा विललाप भृशातुरः ॥४३॥ ततो जगाम रामश्च सीतामन्वेषयन् वने । कर्णाटे तत्र शैवं स क्षेत्रं मुख्यं ददर्श ह ॥४४॥ तत्र शंभुं स रामो वै लक्ष्मणेन समन्वितः । आराधयन् महाभक्त्या मासं वै शैवरूपधृक् ॥४५॥ संतुष्टस्तत्र रामाय वरं प्रादात् सदाशिवः । सीताप्राप्ति- स्वरूपं तमुपदेशं चकार सः ॥४६॥ शिव उवाच । शृणु राम महाभाग त्वं वै विष्णुः सनातनः । भृगोः शापेन जातोऽसि मानुषे देहधारकः ॥४७॥ सीतावियोगजं दुःखं वनवासं तथाऽऽश्रितः । अतस्त्वं गणराजं वै भज त्वं भक्तिसंयुतः ॥४८॥ तेन ज्ञानं च ते राम भविष्यति पुरातनम् । सीताप्राप्तिर्महाबाहो भविता नात्र संशयः ॥४९॥ शिवस्य वचनं श्रुत्वा तं पप्रच्छ महायशाः । रामः परमशोकार्तो विनयेन समन्वितः ॥५०॥ राम उवाच । वद शंभो महेशान गणेशस्य
स्वरूपकम्। कीदृशोऽयं विशेषेण सर्वाधीशश्च कथ्यते ॥५१॥ रामस्य वचनं श्रुत्वा शंकरस्तमुवाच ह। योगं गाणेशकं पूर्णं बोधयन् मुनिसत्तम ॥५२॥ शिव उवाच। शृणु राम गणेशस्य ज्ञानं ते कथयाम्यहम्। तेन त्वं सर्वभावज्ञः शांतिं प्रलभसे प्रभो ॥५३॥ पंचधा हृदि संस्था या बुद्धिः सैव न संशयः। चित्तरूपा महाभागा प्रकृतिस्तस्य भो विभो ॥५४॥ नानाभ्रम- करी माया सिद्धिः सर्वत्र दृश्यते। भ्रमंति सर्वलोका वै सिद्ध्यर्थं मोहितास्तया ॥५५॥ सा तस्य प्रकृतिः प्रोक्ता वामभागे प्रसंस्थिता। बभूव दक्षिणांगे वै बुद्धिर्मायेति कथ्यते ॥५६॥ तयोः स्वामी गणेशः स योगशांतिमयो मतः। तं ज्ञात्वा च वयं राम शांतिं प्राप्ता भजामहे ॥५७॥ बुद्ध्या यद् बुध्यते राम तदेवं तस्य रूपकम्। योगादिसाधने नैव लभ्यते तच्च सिद्धिदम् ॥५८॥ माये च द्विविधे त्यक्त्वा भजस्व गणनायकम्। तेन त्वं योगमार्गज्ञो गणेशश्च भविष्यसि ॥५९॥ विघ्नराजः स वेदेषु प्रोक्तो वै वेदवादिभिः। तमनादृत्य विघ्नेशं विघ्नहीनः कथं भवेत् ॥६०॥ विघ्नाधीनं महाभाग सकलं वेदवर्णितम्। अतो विघ्नेन संयुक्तं हीनं प्रभवति प्रभो ॥६१॥ विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गणेश्वरः। तं भजस्व विधानेन विघ्नहीनो भविष्यसि ॥६२॥ हेरंबं भज भावेन भक्तिमार्गं वदामि ते। तेन त्वं लभसे देवं गणेशं नात्र संशयः ॥६३॥ स्वकीयसत्तया हीनो भवेद्वै यदि मानवः। हीनस्तदा समाख्यातः पराधीनस्वभावतः ॥६४॥ दीनानां रक्षका ये वै ईश्वराः परमेश्वराः। ते दीनपालकाः प्रोक्ता विचारय महामते ॥६५॥ दीनार्थवाचको राम हेर्वेदेषु विनिश्चितम्। नाथो रंबस्तयोर्योगे हेरंबश्च प्रकथ्यते ॥६६॥ दीनाः सत्ताविहीनाश्च सत्तायुक्ताश्च पालकाः। तेषां स्वामी स हेरंबस्तं भजस्व विधानतः ॥६७॥ अभिमानं च द्विविधं त्यज त्वं राघव प्रभो। दीनात्मकं तथा पूर्णपालनात्मक- मुत्तमम् ॥६८॥ दीना येन कृता जीवाः पालकाः परमेश्वराः। तदधीनं जगद्ब्रह्म मत्वा तं शरणं व्रज ॥६९॥ एवमुक्तवा महादेवो राघवं च सलक्ष्मणम्। अंतर्धानं जगामाऽपि राघवस्तत्र संस्थितः ॥७०॥ विद्याधीशपुरे रामस्तताप तप उत्तमम्। शिवोपदिष्टमंत्रेण तोषयामास विघ्नपम् ॥७१॥ हेरंबं तं सदा रामो लक्ष्मणश्च विशेषतः। पुपूज भक्तिसंयुक्तो निराहार- समन्वितः ॥७२॥ ध्यानेन तस्य देवस्य स्वल्पकालेन च प्रभुः। रामः शांतियुतो विप्र समभूद् योगसेवया ॥७३॥ निश्चयं तस्य रामस्य दृष्ट्वा भक्तं तमाययौ। षण्मासैश्च वरं दातुं गणेशः करुणानिधिः ॥७४॥ सलक्ष्मणं च रामं स बोधयामास विघ्नपः। ततो ध्यानं परित्यज्य गणपं नेमतुः परम् ॥७५॥ ततस्तं पूजयामास रामो देववरो मुने। तुष्टाव स गणाधीशं
यहाँ पृष्ठ का सम्पूर्ण देवनागरी पाठ प्रस्तुत है:
शीर्षक (Header): खंड. ३ अ. २६ | पान ५५
भक्तिनम्रात्मकंधरः ॥७६॥ राम उवाच । हेरंबाय नमस्तुभ्यं दीनकर्त्रे कृपालवे । दीनानाथस्वरूपाणां कर्त्रे ते वै नमो नमः ॥७७॥ ईश्वराणां च दीनानामभेदाय च ते नमः । विघ्नेशाय गणानां वै पतये ते नमो नमः ॥७८॥ अनादये च सर्वेषामादि- रूपाय ते नमः । अंतमध्यप्रतिष्ठाय लंबोदर नमो नमः ॥७९॥ चिंतामणे च चित्तानां चालकाय नमो नमः । भेदाभेदादिहीनाय तदाकाराय ते नमः ॥८०॥ सर्वपूज्याय सर्वादिपूज्याय परमात्मने । अनंताय परेशाय ढुंढिराजाय ते नमः ॥८१॥ पूर्णाय पूर्णनाथाय स्वानंदस्थाय ते नमः । सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिपराय च ॥८२॥ समर्थानां च ते भक्तिहीनानां दैन्य- कारिणे । दीनानां भक्तियुक्तानां नमः सामर्थ्यकारिणे ॥८३॥ दीनत्वं च समर्थत्वं त्वदधीनं न संशयः । अतो मां रक्ष योगेश योगेशाय नमो नमः ॥८४॥ किं स्तौमि त्वां गणाधीश शांतियोगस्वरूपिणम् । न समर्थाश्च वेदा यं योगींद्रास्तत्र कोऽप्यहम् ॥८५॥ रामस्य तस्य स्तुवत एवं संभक्तिभावितः । रोमोद्गमः प्रादुरासीत् कंठरोधस्तथैव च ॥८६॥ ततो भक्तिरसे मग्नं रामं वीक्ष्य गजाननः । जगाद तं वरं ब्रूहि मनसीप्सितमादरात् ॥८७॥ त्वया कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् । शांतियोगप्रदं चैव भक्तिलक्षणवर्धनम् ॥८८॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । श्रवणेन न संदेहः प्रियो मे स भविष्यति ॥८९॥ हेरंबस्य वचः श्रुत्वा तमुवाच जनार्दनः । रामः परमभावेन भक्त्या च प्रकृतांजलिः ॥९०॥ राम उवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा त्वदीयपादाब्जे भक्तिर्भवतु शाश्वती ॥९१॥ योगशांतिः स्मृतिर्नित्यं यथा शंकरभाषितम् । तथा योगींद्रवंद्यं मां कुरुष्व गणप प्रभो ॥९२॥ रावणेन हृता सीता तद्वधार्थं समुद्यतः । अहं तत्र च हेरंब जयं देहि विशेषतः ॥९३॥ मदीयस्य च नाम्नो वै महिमानं महाद्भुतम् । कुरु सर्वत्र मान्यं मां कीर्तियुक्तं गजानन ॥९४॥ एवं तस्य वचः श्रुत्वा हेरंबो राममब्रवीत् । यथा संप्राथितं विष्णो तथाऽस्तु तव नित्यदा ॥९५॥ मदीय- स्मरणेनैव सर्वं ते सुलभं भवेत् । तव नामप्रभावेण तरिष्यंति तु जंतवः ॥९६॥ एवमुक्त्वा गणेशानोऽंतर्धानं प्रचकार ह । रामो लक्ष्मणसंयुक्तोऽभवत्तत्रैव संस्थितः ॥९७॥ ततोऽगस्त्यं समानीय रामो विप्रेंद्रसत्तमैः । मूर्तिं संस्थापयामास हेरंबस्य विधानतः ॥९८॥ तदादिगणनाथस्तु हेरंबः संस्थितोऽभवत् । विद्याधीशपुरे विप्र भक्तेभ्यः सर्वसिद्धिदः ॥९९॥ तं पूजयित्वा रामः स शोकहीनतया मुने । जगाम लक्ष्मणेनैव युक्तो रक्षोवधाय च ॥१००॥ सुग्रीवं मित्रभावेन वानरैः सहितं मुने । कृत्वा च वालिनं हत्वा ययौ लंकां महाबलः ॥१॥ हनूमदंगदाद्यैश्च सुग्रीवाद्यैश्च संवृतः । अन्यैर्जांबवदाद्यैश्च
खं. ३ अ. २७ पान ५६ वानरैर्देवरूपिभिः ॥२॥ सलक्ष्मणश्च रामोऽयं युयुधे राक्षसैस्ततः । हत्वा राक्षससंघान् स कुंभकर्णं जघान च ॥३॥ लक्ष्मणश्चेंद्रजेतारं मारयामास वेगतः । ततोऽतिकोपसंयुक्तो रावणो युयुधे भृशम् ॥४॥ तेन सर्वे कपींद्राश्च हताः संमूर्च्छिताः कृताः । लक्ष्मणे मूर्च्छितस्तत्र भृशं रामश्च पीडितः ॥५॥ शस्त्रास्त्राणि च रामस्य कुंठितानि विशेषतः । ततोऽतिविह्वलो रामः सस्मार गणनायकम् ॥६॥ स्मृतिमात्रेण रामस्य हृदि चिंतामणिः स्वयम् । ददौ स्फूर्तिं तथा रामो जघान रावणं मुने ॥७॥ स्वयं बुद्धिपतिः साक्षाद्रामार्थं बुद्धिदोऽभवत् । बुद्धयधीनं विशेषेण जगद्ब्रह्म महामुने ॥८॥ ततो हत्वा महावीरं रावणं रविवंशजः । रामश्चकार लंकायां राजानं च बिभीषणम् ॥९॥ ययौ सीतां विमानेन संगृह्य नगरे स्वके । चकार राज्यमुग्रं वै सदा धर्मेण धर्मवित् ॥१०॥ सीतयाऽऽसक्तचित्तः स व्यस्मरत् ज्ञानमुत्तमम् । गाणेशं च ततस्तस्य वियोगः सीतयाऽभवत् ॥११॥ अश्वमेधादिकं कृत्वा संस्थितो राज्यकर्मणि । ततो वसिष्ठयोगेन पुनर्ज्ञानमवाप ह ॥१२॥ ततः शांतिसमायुक्तो गणेशं मनसा सदा । पुपूज भक्तिसंयुक्तो बर्हिमूर्तिधरं मुने ॥१३॥ अंते जगाम रामः स विकुंठं विष्णुरव्ययः । तत्र तं गणनाथं सोऽभजतानन्यचेतसा ॥१४॥ इदं रामचरित्रं यः शृणुते भक्तिसंयुतः । पठेद्वा भुक्तिदं तस्य मुक्तिदं प्रभविष्यति ॥१५॥ अयं महोदरस्यैवावतारस्ते महामुने । हेरंबारूयस्तथा प्रोक्तः श्रवणात् सर्वसिद्धिदः ॥११६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते रामचंद्रचरितं नाम षड्विंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । इत्यादि राजमाहात्म्यं वक्तुं नैव प्रशक्यते । सर्वं मायामयं विद्धि मार्कंडेय विशेषतः ॥१॥ ब्रह्मणा सृष्टमापूर्वं विष्णुना पालितं तथा । हरेण संहृतं सर्वं ब्रह्मांडं मायया कृतम् ॥२॥ अनंतानि च सर्वत्र ब्रह्मांडाानि स्थितानि वै । महाकारणरूपेण संधृता विद्धि मानद ॥३॥ मायात्मकानि सर्वाणि ज्ञातव्यानि विशेषतः । भ्रमनाशेन योगेन ज्ञायंते नात्र संशयः ॥४॥ मनोवाणीमयं सर्वं भ्रमरूपं प्रकथ्यते । मनोवाणीविहीनं वै तदेवं तादृशं मतम् ॥५॥ धर्मार्थकाममोक्षाश्च ब्रह्मभूतत्वमेव च । भ्रमेण मायया विप्र भासते योगिनां हृदि ॥६॥ रामस्य चरितं पूर्णं कथितं ते समासतः । किं श्रोतुमिच्छसि प्राज्ञ गमिष्यावो निजाश्रमम् ॥७॥ भानुरुवाच । तयोर्वचनमाकर्ण्य
खं. ३ अ. २७ पान ५७ मार्कंडेयश्च तौ पुनः । जगाद प्रणतो भूत्वा योगार्थं पूर्णभावतः ॥८॥ मार्कंडेय उवाच । नरनारायणौ देवौ भवद्भ्यां पावितो- ऽप्यहम् । कथां श्रुत्वा न मे तृप्तिर्जायतेऽमृतपानवत् ॥९॥ अतो गणेशयोगं मे वदतं येन चाप्यहम् । रामवच्छांतिमाश्रित्य ब्रह्मभूतो भवामि च ॥१०॥ नरनारायणावूचतुः । गणेशयोगमार्गं ते वदिष्यावः सुयुक्तितः । न शक्तिस्तं वर्णयितुं मनसाऽपि मुनीश्वर ॥११॥ चित्तं पंचविधं विप्र तत्र चिंतामणिः स्थितः। पंचवृत्तिनिरोधेन लभ्यते नात्र संशयः ॥१२॥ भ्रांतिदा सर्वभावेषु सिद्धिः सर्वत्र संस्थिता । भ्रांतिधारकरूपा वै बुद्धिः सा कथ्यते बुधैः ॥१३॥ तयोर्बिंबं च यत् प्रोक्तं तदेव गणनायकः । मोहयुक्तः स्वभावेन खेलते मुनिसत्तम ॥१४॥ बिंबिभावं परित्यज्य भव त्वं गणनायकः । अहं गणेशरूपश्च योगोऽयं शांतिदायकः ॥१५॥ चित्तं पंचविधं त्यक्त्वा तदैश्वर्यं भ्रमात्मकम् । अधुना गणनाथो वै त्वं योगेन भविष्यसि ॥१६॥ मनोवाणीमयं सर्वं गकाराक्षरवाचकम् । मनोवाणी विहीनं च णकारः कथ्यते बुधैः ॥१७॥ तयोः स्वामी गणेशानो वेदे पश्य महामुने । तं भजस्व ततः शांतिं गच्छसि त्वं न संशयः ॥१८॥ एवमुक्त्वा बालखिल्या नरनारायणावृषी । विरेमतुरुथैवं तं जानीत गणनायकम् ॥१९॥ तौ प्रणम्य पुनः प्राह मार्कंडेयः प्रतापवान् । धन्योऽहं भवतोश्चैव दर्शनेन महामुनी ॥२०॥ मायां मोहकरीं नाथौ द्रष्टुमिच्छामि शाश्वतीम् । दर्शयेतं महामायां भगवंतौ नमाम्यहम् ॥२१॥ भानुरुवाच । तथेति तं बालखिल्या ऊचतुर्मुनिसत्तमौ । पश्यसि त्वं महामायां मार्कंडेय न संशयः ॥२२॥ आज्ञां प्रगृह्य तेनैव पूजितौ योगिनां वरौ । ययतुः स्वाश्रमं योगाद्गाणपत्यौ महर्षयः ॥२३॥ ततः कदाचिद्विप्रेन्द्रो मार्कंडेयः स्व आश्रमे । संस्थितो योगिनौ ध्यात्वा मायादर्शनलालसः ॥२४॥ ततोऽकस्मात् प्रशुश्राव महानादं समुद्भवम् । भयाक्रांतोऽभवत् सोऽपि ततो मेघा जगर्जिरे ॥२५॥ हस्तिहस्तोपमाभिस्ते धाराभिर्ववृषुस्ततः । मेघैस्तत्र जगत् सर्वं मज्जितं पश्यतो मुनेः ॥२६॥ ततः समुद्र- जेनैव जलेन प्लावितं महत् । सर्वं चराचरं तत्र बभ्राम मुनिसत्तमः ॥२७॥ मत्स्यादिभिश्च विप्रेन्द्रः किंचित् क्षतयुतः कृतः । सस्मार गणनाथं स मार्कंडेयोऽतिविह्वलः ॥२८॥ ततो ददर्श तत्रैव वटपत्रस्थितं शिशुम् । अंगुष्ठपर्वमात्रं स विष्णुं सर्वार्थदं परम् ॥२९॥ तं प्रणम्य प्रतुष्टाव मार्कंडेयो महर्षयः । अथर्वशिरसा देवं संतुष्टं स चकार ह ॥३०॥ उवाच तं स विप्रेन्द्रं किमिच्छसि महामुने । वद तेऽहं प्रदास्यामि वरदो नात्र संशयः ॥३१॥ तं प्रणम्य तथोऽवाच मार्कंडेयः प्रसन्नधीः । मायां दर्शय मे विष्णो तां ज्ञात्वा संत्यजाम्यहम् ॥३२॥ ततस्तं विष्णुरूपः स बालको भक्तियंत्रितः । जगाद हास्य-
खं. ३ अ. २७ पान ५८ संयुक्तो भक्तरक्षणतत्परः ॥३३॥ बालविष्णुरुवाच । पश्य मायां महर्षे त्वं ज्ञानदृष्ट्या महामुने । ज्ञानचक्षुर्मया दत्तं तुभ्यं भक्तिप्रभावतः ॥३४॥ मार्कंडेयस्ततो विप्रा ज्ञानचक्षुःसमन्वितः । मायामपश्यदानंदान्नानाभावप्रकाशिनीम् ॥३५॥ व्याप्यव्यापकरूपेण द्विजाः सर्वत्र संस्थिताः । नानागुणविभेदेन मोहयंति नरान् सदा ॥३६॥ कुत्र ब्रह्मांडनाशश्च कुत्र ब्रह्मांडपालनम् । कुत्रोत्पत्तिश्च विप्रेंद्रा दृश्यते तेन योगिना ॥३७॥ कुत्र शून्यमयं कुत्र पूर्णरूपं तथा पुनः । ध्यानसंस्थं परं ब्रह्म ददर्श मुनिसत्तमः ॥३८॥ कुत्र योगार्थमत्यंतं नराः परमभाविकाः । लिप्यंते कुत्र भोगार्थं मोक्षार्थं कुत्रचिद् द्विजाः ॥३९॥ पुनः पुनश्च सृज्यंते म्रियंते च पुनः पुनः । ईश्वरानेश्वराः कुत्र प्रभवंतीश्वरा नराः ॥४०॥ अमृतं विषरूपं च विषं चामृतदायकम् । ददर्श तत्र विप्रर्षिः सूर्यं शीतत्वमास्थितम् ॥४१॥ स्थले जलं जले चैव स्थलं नानाविकारजम् । मुक्तं नरं तथा बद्धं ददर्श मुनिसत्तमः ॥४२॥ न प्रलेभे गतिं तत्रेश्वरो भ्रांत्या ह्यनीश्वरः । जगच्च जगदात्मा वै ततोऽसौ विस्मितोऽभवत् ॥४३॥ एवं नानाविधं भावं ददर्श मुनिसत्तमः । न शक्यते मया वक्तुं वर्षकोटिशतैरपि ॥४४॥ ततस्तं परितुष्टाव बालविष्णुं महामुनिः । नानास्तोत्रैः सुतुष्टं स प्रार्थयामास भावतः ॥४५॥ निवर्तय हरे मायां कुरु मां पूर्ववद्यथा । इति प्रार्थयमानं स चक्रे स्वे चाश्रमे स्थितम् ॥४६॥ ततस्तत्र द्विजेंद्रेण न दृष्टमिव तद्बभौ । यथा स्वप्नगतं जंतुर्न ददर्श समुत्थितः ॥४७॥ न जलं नैव सामुद्रं भयं दुःखं न केशवः । बालरूपधरश्चैव न माया तेन विस्मितः ॥४८॥ बालखिल्यास्ततो विप्रस्त्यक्त्वा मायां भ्रमात्मिकाम् । गणेशभजने सक्तोऽजपद्वै मंत्रमुत्तमम् ॥४९॥ नरनारायणाभ्यां यः कथितो योग उत्तमः । हेरंबमंत्रभावेन साधयामास तं पुनः ॥५०॥ रामेण साधितः पूर्वं तथा तेनाऽपि साधितः । योगः शांतिप्रदः पूर्णो गाणपत्यस्वभावतः ॥५१॥ योगशांतिपरो भूत्वाऽभजत्तं गणनायकम् । अनन्यचेतसा सोऽपि मार्कंडेयः सुयोगवित् ॥५२॥ अंते गणेशदेहे स सायुज्यं प्राप भक्तितः । एवं नानाविधा विप्रा गाणेशाः संभवंति वै ॥५३॥ एतन् मृकंडुपुत्रस्य चरितं यः शृणोति वा । पठेत्तु तस्य वै मायाबंधो न प्रभविष्यति ॥५४॥ महोदरो भवेद्देवो हेरंबाख्यः प्रकीर्तितः । विद्याधीशपुरे भक्तिसिद्धिदस्तत्र तिष्ठति ॥५५॥ अतोऽहं गणनाथं तं प्रभजे वालखिल्यकाः । योगभावेन संसाध्यं कृत्वा भक्तिसमन्वितः ॥५६॥ मुद्गल उवाच । एवं भानोर्वचः श्रुत्वा प्रणेमुर्वालखिल्यकाः । रविं सर्वत्र चात्मानं तुष्टुवुर्विविधैः स्तवैः ॥५७॥ ऊचुः प्रांजलयस्ते तं भानुं सर्वप्रियं पुनः । कृतकृत्याः कृता भानो वयं देव न संशयः ॥५८॥
यहाँ दिए गए पृष्ठ का देवनागरी में लिप्यंतरण (Transcription) प्रस्तुत है:
सं. ३ अ. २८ [Page Header Left] | पान ५९ [Page Header Right]
किं प्रदद्मो महात्मंस्त्ववां देहोऽयं ते समर्पितः । तेन तुष्टो भव स्वामिन् गुरुरस्माकमादरात् ॥५९॥ ततः सर्वे पुपूजुस्तं वालखिल्यास्तपोधनाः । प्रणम्य प्रययुस्ते वै तपसे वनमुत्तमम् ॥६०॥ साधयित्वा यथायोगं श्रुतमंत्र प्रजापते । योगिनः सर्ववंद्यास्ते संबभूवुर्विशेषतः ॥६१॥ हेरंबं भजमानाश्च नित्यं ध्यानपरायणाः । अनन्यबुद्धयः सर्वे योगशांतिं प्रलेभिरे ॥६२॥ हेरंबाख्यावतारश्च महोदरकलात्मकः । कथितस्ते प्रजापाल नानाख्यानसन्वितः ॥६३॥ एतादृशा- ऽवताराश्च बहवस्तस्य मानद । महोदरस्य तेषां यच्चरित्रं परमाद्भुतम् ॥६४॥ नैव शक्यं कथयितुं तत् केनाऽपि न संशयः । अतः संक्षेपतः प्रोक्तं मया दक्ष प्रजापते ॥६५॥ सूर्यस्य वालखिल्यानां संवादः परमाद्भुतः । ब्रह्मभूयप्रदः प्रोक्तो धर्मकामार्थमोक्षदः ॥६६॥ प्रभवेत् स विशेषेण सर्वसंपत्प्रदायकः । मोहनाशकरः पूर्णः श्रोतुमिच्छसि किं पुनः ॥६७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते सूर्यवालखिल्यसंवादसमाप्तिर्वर्णनं नाम सप्तविंशतितमोऽध्यायः ॥ ❧ ❖ ❧ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत त्वया महाख्यानं कथितं सर्वसिद्धिदम् । श्रुत्वा तृप्तिं न यामीहाऽमृतं पीत्वा यथा नरः ॥१॥ पुनस्त्वं वद मे ब्रह्मन् भवेदक्षेण संश्रुतम् । मुद्गलान् मुनिमुख्याच्च सर्वेषां संमतं परम् ॥२॥ सूत उवाच । सूर्यस्य वालखिल्यानां संवादं ब्रह्मदायकम् । श्रुत्वा पप्रच्छ तं दक्षो मुद्गलं विनयान्वितः ॥३॥ दक्ष उवाच । श्रुतं हेरंबमाहात्म्यं ब्रह्मभूतपदप्रदम् । पुनस्त्वं वद विप्रर्षे महोदरचरित्रकम् ॥४॥ श्रुत्वा श्रुत्वा न मे तृप्तिर्जायते योगिसत्तम । कथां ब्रह्ममयीं पूर्णां सुधारससमां पराम् ॥५॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा हृष्टरोमा महायशाः । जगाद तं प्रजापालं यत्तच्छृणु हि शौनक ॥६॥ मुद्गल उवाच । युधिष्ठिरेण देवेशो मानप्रद महोदरः । आराधितो विशेषेण योगी सोऽभूच्च पांडवः ॥७॥ दक्ष उवाच । युधिष्ठिरस्य विप्रर्षे चरित्रं वद सांप्रतम् । प्रारभ्य चंद्रवंशाच्च तदंतं पुण्यदं भवेत् ॥८॥ मुद्गल उवाच । अत्रिनेत्रात् समुत्पन्नश्चंद्रोऽमृतमयः पुरा । तेनातितपसा देवः सेवितो गणनायकः ॥९॥ गणेशवरदानेन ताराणामधिपोऽभवत् । ओषधीनां च विप्राणां योगयुक्तः प्रतापवान् ॥१०॥ ततः स राजा मोहेन मोहितोऽतितरां विभो । गणेशभजनं त्यक्त्वा भोगयुक्तो बभूव ह ॥११॥ ततो विघ्नेन वै चंद्रः पीडितो मोहसंयुतः । मोहेन गर्हितं कर्म यच्चकार शृणुष्व तत् ॥१२॥
[पान ६०]
बृहस्पतेश्च या नारी तारा यौवनशालिनी। रूपेणाप्रतिमा तां स जगृहे तीर्थसंश्रिताम् ॥१३॥ मा मेति ब्रुवतीं तारां हाहाकारं प्रकुर्वतीम् । गुरुपत्नीं महामूर्खश्चुचुंब हठसंयुतः ॥१४॥ वनेषु पर्वतद्रोण्यां नानाभावेषु सोऽत्रिजः । रेमे तया प्रजापाल कामबाणप्रपीडितः ॥१५॥ ततो बहौ गते काले गर्भस्तस्यां व्यवर्धत । न मुमोच तदाऽप्येतां मोहयुक्तश्च चंद्रमाः ॥१६॥ बृहस्पतिश्च तं ज्ञात्वा वृत्तांतं क्षुभितो भृशम् । नानायत्नेन चंद्रं स ययाचे न ददौ शठः ॥१७॥ ततश्च गुरुणा दक्ष शिवस्तेन प्रसादितः । शंभुरंगिरसः शिष्यः स वै क्रोधयुतोऽभवत् ॥१८॥ देवैरिंद्रादिभिः सर्वैः शंकरः क्रोधसंयुतः । हंतुं चंद्रं ययौ तत्र क्रोधारुणविलोचनः ॥१९॥ भयभीतः शशी तत्र शुक्रं स शरणं ययौ । तेनाप्यांगिरस्यैव वैरी संपादितोऽभवत् ॥२०॥ शुक्रेणाकारिता दैत्याः प्रह्लादप्रमुखा ययुः । संग्रामाय शिवेनैव ससुरेण महाबलाः ॥२१॥ ततस्तेषामभूद्युद्धं तुमुलं रोमहर्षणम् । दैत्यानां चैव देवानां परस्परविनाशनम् ॥२२॥ मासमात्रं महोग्रं तन्न शांतिमलभन् कदा । दिवारात्रं देवगणा दैत्यानां च गणा विभो ॥२३॥ ततो बृहस्पतिर्दुःखात् सस्मार गणनायकम् । निंदयामास चात्मानं तथा चंद्रं प्रजापते ॥२४॥ अहो भ्रातृविरोधेन मम ज्ञानं गतं महत् । गतो गणेशस्तेनाऽहं विघ्नयुक्तोऽधुनाऽभवम् ॥२५॥ मदर्थं देवदैत्यानामधुना नाश आगतः । किं भविष्यति देवेश गजानन नमोऽस्तु ते ॥२६॥ निर्विघ्नं कुरु मां ढूंढेऽधुना देव दयानिधे । देवानां चैव दैत्यानां मूलच्छेदो भविष्यति ॥२७॥ तथा चंद्रः स तं देवं सस्मार हृदि भावतः । ततो विघ्नहरश्चैव तयोर्दक्ष बभूव ह ॥२८॥ तत्राऽऽजगाम देवेशो ब्रह्मा सर्वपितामहः । देवानां दानवानां वै ज्ञात्वा नाशं दयान्वितः ॥२९॥ शंकराद्यांश्च देवान् स प्रह्लादाद्यांश्च दानवान् । वारयामास सर्वज्ञो विधाता सर्वभावनः ॥३०॥ ब्रह्मणो वचनं श्रुत्वा संस्थिता देवदानवाः। प्रणम्य तं विधातारं बद्धांजलिपुटाः पुरः ॥३१॥ चंद्रं ततस्तिरस्कृत्य ददौ तारां पितामहः। गुरवे तत्र संवादः पुत्रार्थं च तयोरभूत् ॥३२॥ ताराया उदरे गर्भो वा चंद्रस्य बृहस्पतेः । न ज्ञायते देवगणैस्ततस्तां विधिरब्रवीत् ॥३३॥ त्यज गर्भं महाभागे कस्यांऽशोऽयं वद स्नुषे । तथा तया च संत्यक्तो गर्भः संपतितोऽभवत् ॥३४॥ महातेजोमयं पुत्रं वीक्ष्य देवा विसिस्मिरे । लज्जयाऽधोमुखी तारा कथयामास नैव तम् ॥३५॥ ततो गर्भः स्वयं तत्रोवाच ब्रह्माणमादरात् । चंद्रस्याऽहं न संदेहस्तं ताराऽपि तथाऽब्रवीत् ॥३६॥ तस्य नाम कृतं देवैर्बुधस्तेन सुकर्मणा । चंद्राय तं ददौ धाता सर्वे स्वस्वालयं ययुः ॥३७॥ एवं पुरा तारकार्थे संग्रामस्तारकामयः । बभूव परमोग्रश्च दैत्यदेवविनाशकृत् ॥३८॥
खं. ३ अ. २९ पान ६१ बुधस्य चरितं पूर्णं कथितं ते प्रजापते । पुरूरवास्तस्य पुत्रो बभूवाऽपि महायशाः ॥३९॥ इलायां गर्भसंदानात्तस्य जन्म मया पुरा । कथितं सोऽपि राजर्षिः पितृतृप्तिकरोऽभवत् ॥४०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते बुधोत्पत्तिवर्णनं नामाष्टाविंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पुरूरवाश्चकाराऽसौ राज्यं भूमंडलस्य च । धर्मयुक्तः सुनीत्या तान् पालयामास मानवान् ॥१॥ मुनिशापसमायुक्तोर्वशी नृपतिमाययौ । कुरुक्षेत्रे चरंतं स चकमे तां महीपतिः ॥२॥ सोवाच पुत्रतुल्यौ मे उरणौ रक्षसि प्रभो । रतिं विना स्वदेहं त्वं नग्नं मा दर्शयस्व माम् ॥३॥ तदा तव गृहे राजन् वसामि घृतभोजना । तथेति स तु भूपस्तां संगृह्य गृहमाययौ ॥४॥ तस्यां पुत्रा बभूवुश्च षडिंद्रसमतेजसः । आयुर्मायुरमायुश्च विश्वायुश्च तथा प्रभो ॥५॥ शतायुः स्थायुरेते च नामभिः परिकीर्तिताः । चंद्रवंशकराः सर्वे बभूवुर्जयशालिनः ॥६॥ तत इंद्रेण गंधर्वाः प्रेषिता राजवेश्मनि । उर्वशीनयनार्थं वै विश्वावसुपुरोगमाः ॥७॥ तैर्मायाप्रकृती तत्र रात्रौ तस्याः समाहृतौ । उरणौ च तथा ताभ्यां शब्दैः प्ररुदितं भृशम् ॥८॥ तयो रुदनमाकर्ण्य राजानं रभसाज्जगौ । उर्वशी वीर्यहीनं त्वां न जानामि नरेश्वरम् ॥९॥ मम पुत्रौ हृतौ केन चौरेण किमु पश्यसि । तस्या वचनमाकर्ण्य क्रोधरूपो बभूव सः ॥१०॥ नग्नः खड्गधरः सद्यो निर्ययौ भाविगौरवात् । विद्युत्पातस्तथा तत्र समभूद्देवनिर्मितः ॥११॥ तेजसा विद्युतस्तत्र राजा नग्नो बभौ गृहे । तथा तमुर्वशी दृष्ट्वाऽन्तर्धानं सा चकार वै ॥१२॥ मेषौ प्रगृह्य गंधर्वा गताः स्वर्गं विहायसा । उर्वशीसहिताः शक्रं प्रणेमुर्हर्षसंयुताः ॥१३॥ राजा स्वगृहमध्ये तां न ददर्श यशस्विनीम् । तदा पपात भूपृष्ठे हाहाकृत्वा मुमूर्च्छ सः ॥१४॥ तथाविधो महाराजो विललाप पुरूरवाः । बभ्राम वसुधां सर्वामुर्वशीदर्शनोत्सुकः ॥१५॥ ततो बहौ गते काले वर्षमात्रे दयायुताम् । कुरुक्षेत्रे पुनस्तां स दृष्टवान् हर्षितोऽभवत् ॥१६॥ मां त्यक्त्वा क्व गताऽसि त्वं प्रिये ते भक्तिसंयुतम् । अधुना मां गृहाण त्वं त्यज मा चाप्सरोवरे ॥१७॥ ततस्तेन समायुक्ता रात्रिमेकामुवास सा । उवाच तं तु राजानं शोकयुक्तं वचो हितम् ॥१८॥ अहं देवाप्सरो रम्या गंधर्वाऽधीनतां गता । अतस्तं पितृयज्ञेन यज त्वं नित्यमादरात् ॥१९॥ ततः स्वर्गे
खं. ३ अ. २९ पान ६२ च ते वासो भविष्यति महामते । त्वदधीना भविष्यामि नित्यं राजन्न संशयः ॥२०॥ ततः शोकाकुलो राजा रुरोदातीव दारुणम् । सा तथा विह्वलं दृष्ट्वोवाच देवांगना च तम् ॥२१॥ वर्षे वर्षे च भो राजन्नेकरात्रिं वसाम्यहम् । त्वया सार्द्धं महाभाग ततः साऽन्तर्हिताऽभवत् ॥२२॥ राज्ञाऽपि तादृशं तत्र कृतं नित्यं प्रजापते । तेन पितृगणास्तुष्टा वरं राज्ञे ददौ परम् ॥२३॥ उर्वशी त्वदधीना सा भविष्यति महामते । तव नामांकिता देवाः श्राद्धेऽस्माकं भवंतु च ॥२४॥ अक्षयः पितृलोकस्ते भविष्यति न संशयः । एवमुक्त्वाऽंतर्दधुस्ते पितरो भक्तवत्सलाः ॥२५॥ ततः स्वल्पेन कालेन भूमिपो निधनं गतः । स्वर्गं पुण्यबलेनैव जगाम स पुरूरवाः ॥२६॥ तत्रोर्वशी समायुक्तो बुभुजे विषयप्रियः । भोगान् स्वर्गोद्भवान् नित्यं तामवाप्य पुरूरवाः ॥२७॥ ततो बहौ गते काले पितृलोके गतेन सः । नारदेन महीपालो बोधितो दयया विधे ॥२८॥ नारद उवाच । किं राजंस्त्वं महाभाग विषयेषु विशेषतः । सक्तः पश्य स्वमात्मानं पतिष्यसि न संशयः ॥२९॥ देहोऽयं बंधनागारं तत्र त्वं निगडेन च । बद्धस्तस्माच्च योगेन बंधहीनो भव प्रभो ॥३०॥ पुनः पुनश्च भोगाः किं भोक्तव्यास्तादृशा- स्त्वया । न तृप्तिमधिगच्छंति जना अज्ञानसंयुताः ॥३१॥ ब्रह्मामृतं पिब त्वं च सदा स्वानंददायकम् । तच्च्यक्त्वाऽल्पसुखे सक्तः पतिष्यसि पुनर्घधः ॥३२॥ चतुरशीति लक्षासु नरो भ्रमति योनिषु । तत्र स्त्रीपुत्रकार्यं स लभते नाऽत्र संशयः ॥३३॥ मनुष्ययोनिगो भूत्वा नरः सर्वार्थवान् भवेत् । तत्र ज्ञानं विशेषेण भवत्यत्र न संशयः ॥३४॥ कर्मार्हो नरदेहोऽयं तत्र योगो न साधितः । पतिष्यति पुनः सोऽपि नानायोनिषु मानद ॥३५॥ द्वंद्वभावमयं दुःखं यत्र तत्र च विंदति । न शाश्वतस्वरूपं स ब्रह्म भुंक्ते नरः कदा ॥३६॥ त्वमपि ज्ञानयुक्तः सन् किं करोषि महामते । तारयस्व स्वमात्मानं योगेन नरसत्तम ॥३७॥ नारदस्य वचः श्रुत्वा तं जगाद नराधिपः । सत्यमुक्तं त्वया योगिन् मया तच्चैव संधृतम् ॥३८॥ अहं विषयदोषेण पीडितोऽतितरां प्रभो । निर्वेदं मे मनः प्राप्तं ज्ञानं ब्रूहि महामुने ॥३९॥ नारद उवाच । गणेशं भज भावेन ततः क्षेमं भविष्यति । एकाक्षरविधानेन सर्वेभ्यश्च परात्परम् ॥४०॥ हृदि बुद्धिप्रदातारं बहिः सिद्धिप्रदं परम् । योगाकारं च सर्वत्र संस्थितं ब्रह्मनायकम् ॥४१॥ चित्तं त्यक्त्वा महाराज भव चिंतामणिः स्वयम् । एवमुक्त्वा च तस्मै स ददावेकाक्षरं मनुम् ॥४२॥ ततस्तेनाभ्यनुज्ञातो नारदः प्रजगाम ह । सोऽपि तामुर्वशीं त्यक्त्वा ध्यानसंस्थो बभूव ह ॥४३॥ कालेन स्वल्पभावेन गाणपत्यो बभूव ह । ततः स निंदयामास स्वात्मानं भृशदुःखितः ॥४४॥
खं. ३ अ. ३० पान ६३ अहो मयाऽतिमूर्खेण कृतं कर्म विशेषतः । भोगदं मोहितेनैव स्त्रीकामेन न संशयः ॥४५॥ अस्थिमांसमयो देहस्तत्र दुर्गंधसंयुक्तः। छिद्रं मूत्रगृहं नीचं तत्र सक्तो भवाम्यहम् ॥४६॥ सर्वार्थदं मनुष्याणां देहं प्राप्य मया सदा । नरकाधिप्रदं कर्म कृतं वै नात्र संशयः ॥४७॥ नरदेहमवाप्यैव मद्विना को भवेच्छठः । स्त्रीसंसक्तो विशेषेण त्यक्त्वा गणपतिं नरः ॥४८॥ एवं खेदसमायुक्तो बभूव नृपसत्तमः । अभजत्तं स्वभावेन गणेशं सर्वसिद्धिदम् ॥४९॥ अंते जगाम योगेन गणेशं स पुरूरवाः । महिमा कथितस्तस्य पापनाशकरो यतः ॥५०॥ पुरूरवस आख्यानं यः शृणोति नरोत्तमः । पापक्षयकरं तस्य भवतीदं प्रजापते ॥५१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते पुरूरवसश्चरितकथनं नामैकोनत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आयुषस्तनया दक्ष पंचाऽऽसन् दृढविक्रमाः । स्वर्भानुतन्यायां वै प्रभायां तेजसा युताः ॥१॥ नहुषः प्रथमस्तेषां शक्रतुल्यपराक्रमः । चकार शतयज्ञांश्च राज्ञः सर्वान् विजित्य यः ॥२॥ तत्रेंद्रः क्षुभितोऽत्यंतं निराकर्तुं शशाक न । राजानं सर्वशास्त्रज्ञं ततः शांतो बभूव ह ॥३॥ गौतमेन महेंद्रोऽथ शापितस्त्रीप्रधर्षणात् । भ्रष्ट- राज्योऽभवद्देवस्ततो देवा भयातुराः ॥४॥ दैत्यानां वेगमुग्रं ते सहने न क्षमास्ततः । बृहस्पतिं समागम्य पप्रच्छुः क्षेम- कारकम् ॥५॥ तेनाज्ञाप्तास्ततो देवा मुनयश्च प्रजापते । नहुषं स्वर्गराजं तं चक्रुस्तेजस्विनां वरम् ॥६॥ देवेंद्रो नहुषो भूत्वा शशास स्वर्गमंडलम् । इंद्रासने समासीनः पालयामास तान् सुरान् ॥७॥ तस्मै वरं ददौ देवा मुनयस्ते प्रजापते । क्रोधेन यस्त्वया दृश्यः सत्ताहीनो भवेत् सदा ॥८॥ ततोऽतितेजसा युक्तो बभूव स नराधिपः । देवादिभिः सदा दक्ष सेवितो नहुषः किल ॥९॥ ततोऽतिगर्वितो राजाऽभवत् स्त्रीसंगलालसः । शचीं देवैश्च निर्लज्ज आह्वयामास दुर्मतिः ॥१०॥ देवानुवाच सा देवी नाहं यामि नराधिपम् । इंद्रस्य देवमुख्यस्य पत्न्यहं पुरुषं परम् ॥११॥ एवमुक्त्वा ततो देवान् ययौ गेहं बृहस्पतेः । ननाम तं महाभागा स्नुषां रक्षेति साऽब्रवीत् ॥१२॥ तस्या वृत्तांतमुग्रं स श्रुत्वा देवगुरुः स्वयम् । निकटे तां समास्थाप्य इंद्रार्थं ह्युद्यतोऽभवत् ॥१३॥ गौतमं सहसाऽऽगत्य तमुवाच महामुनिम् । शापहीनं महेंद्रं त्वं कुरुष्व
वचनाच्च मे ॥१४॥ तमुवाच महायोगी गौतमः किं करोम्यहम् । उपायं वद मे तात तं करिष्ये जवादहम् ॥१५॥ गौतमाय ततस्तेन कथितं सुखदं परम् । विनायकस्य मंत्रं त्वं देहींद्राय महामुने ॥१६॥ गौतमेन तदा दत्तः स्वमंत्रो गणपस्य च । इंद्राय स ततस्तेनाऽभवच्छक्रश्च नीरुजः ॥१७॥ जजाप मंत्रराजं तं शक्रो गणपतेस्ततः । ध्यात्वा तं देवदेवेशं तताप तप उत्तमम् ॥१८॥ विदर्भे निर्जने देवो वने वाय्वशनः स्वयम् । नासाग्रन्यस्तदृष्टिः स पूजयामास विघ्नपम् ॥१९॥ गते वर्षसहस्रे वै तं ययौ भक्तवत्सलः । गणेशानो वरं दातुं तपसा तोषितो भृशम् ॥२०॥ सिंहारूढो महाबाहुश्चतुर्भुज- विराजितः । सिद्धिबुद्धियुतश्चैव नाभिशेषधरः प्रभुः ॥२१॥ इंद्रं स बोधयामास वरं ब्रूहि हृदीप्सितम् । मघवंस्ते प्रसन्नोऽहं दास्यामि तपसाऽधुना ॥२२॥ ततस्तं प्रणनामाऽथ इंद्रो भक्तिसमन्वितः । तुष्टाव सुस्थिरो भूत्वा यथामति गजाननम् ॥२३॥ इंद्र उवाच । नमस्तेऽस्तु गणाध्यक्ष भक्तेभ्यः सिद्धिदायक । विनायकाय देवाय हेरंबाय नमो नमः ॥२४॥ अनादये च सर्वेषामादिभूताय ते नमः । आदिपूज्याय विघ्नेश सर्वपूज्याय वै नमः ॥२५॥ आदिमध्यांतहीनाय ह्यादिमध्यमयाय च । अंत्यरूपाय देवेश विघ्नहर्त्रे नमो नमः ॥२६॥ पाशांकुशधरायैव सिंहवाहाय ते नमः । अमेयाय नमस्तुभ्यं नानामायाधराय च ॥२७॥ विघ्नकर्त्रे ह्यभक्तानां सदा स्वानंदवासिने । सिद्धिबुद्धिपते तुभ्यं नाभिशेषाय ते नमः ॥२८॥ ब्रह्मणे ब्रह्मरूपाय ब्रह्मदात्रे कृपालवे । धर्मार्थकाममोक्षाणां दात्रे ते वै नमो नमः ॥२९॥ पूर्णाय पूर्णभावज्ञ पूर्णानंदप्रदाय वै । कर्त्रे हर्त्रे च पात्रे ते गणेशाय नमो नमः ॥३०॥ सूक्ष्मेषु सूक्ष्मरूपाय स्थूलेषु स्थूलभोगिने । स्थूलसूक्ष्मादिहीनाय लंबोदर नमोऽस्तु ते ॥३१॥ किं स्तौमि त्वां सदा शांतिरूपं तस्मान्नमो नमः । तेन तुष्टो भव स्वामिन् दयाकाराय ते नमः ॥३२॥ मुद्गल उवाच । एवं स्तुतिं समाकर्ण्य मघवंतमुवाच ह । गणेशो भक्तिभावेन संतुष्टो भक्तमुत्तमम् ॥३३॥ गणेश उवाच । इंद्र त्वया कृतं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । यः पठेच्छृणुयाच्चैवस्तस्मै सर्वार्थदं तथा ॥३४॥ नित्यं त्वमपि देवेंद्र पठ स्तोत्रं प्रयत्नतः । तेन विघ्नविहीनस्तु भविष्यसि महामते ॥३५॥ वरान् ब्रूहि महाभाग ये ते चित्ते भवंति वै । तान् दास्यामि न संदेहो भक्त्या स्तोत्रेण तोषितः ॥३६॥ ततस्तं मघवा देवं प्रणम्याभिदधे वचः । निर्विघ्नं कुरु मां देव स्वपदस्थं तथा प्रभो ॥३७॥ भक्तिं त्वदीयपादे मे देहि नाथ नमोऽस्तु ते । इदं क्षेत्रं सुविख्यातं गाणपत्यं तथा कुरु ॥३८॥ तीर्थं च सर्वदं स्वामिन् कुरु ते पादलाञ्छितम् । स्वानंददायकं स्नानमात्रेणात्र न संशयः ॥३९॥ पुरे कदंबनाम्न्येव गाणेशं चिंतिताथर्दम् ।
यहाँ पृष्ठ की पूर्ण एवं शुद्ध प्रतिलिपि (Transcribed Text) प्रस्तुत है:
खं. ३ अ. ३० पान ६५ लोके भवतु विख्यातं प्रसादात्ते च विघ्नप ॥४०॥ तथेति तमुवाचाऽथ गणेशोऽन्तर्दधे ततः । इंद्रेण गणनाथस्य मूर्तिः संस्थापिता द्विजैः ॥४१॥ तं पूजयित्वा देवेंद्रः संस्थितस्तत्र मानद । नित्यं ध्यानपरो भूत्वाऽभजत्तं गणनायकम् ॥४२॥ अधुना शृणु भो दक्ष नहुषस्य प्रचेष्टितम् । गणेशेन तदा राजा विघ्नयुक्तः कृतः खलः ॥४३॥ बृहस्पतिमुवाचाऽथ मृत इंद्रो न संशयः । न दृश्यते जनैः कुत्र शचीं मे देहि भो गुरो ॥४४॥ ततस्तं वाक्पतिर्देवोऽवदत् क्रोधसमन्वितः । द्विजवाहनगो भूत्वा शचीं याहि नराधिप ॥४५॥ नानावाहेषु सा देवी देवेंद्रेण प्रलालिता । अपूर्वं वाहनं चैवेच्छति तस्मात्तथा कुरु ॥४६॥ तथेति मदयुक्तः स चकार नहुषस्ततः । विमानवाहान् संगृह्य दुरात्मा ब्राह्मणान् बलात् ॥४७॥ ततो दुःखं द्विजानां स ज्ञात्वाऽत्रेयः समाययौ । दुर्वासास्तं प्रगृह्यैव वाहकं स चकार ह ॥४८॥ ततोऽतिवेगभावार्थं सर्पध्वं ब्राह्मणांन्नृपः । उवाच शिबिकायां स संस्थितो मोहसंयुतः ॥४९॥ दुर्वासाः कुपितोऽत्यंतं ददौ शापं सुदारुणम् । सर्पो भव महादुष्ट पत भूमौ नृपाधम ॥५०॥ ततस्तं प्रणनामाऽथ गतगर्वो महीपतिः । उच्छापं वद मे ब्रह्मन् दयया त्वं दयानिधे ॥५१॥ धिङ् मां ब्राह्मणभावेषु विपरीतं प्रवर्तितम् । मोहेन मोहितं पूर्णं तारयस्व महामुने ॥५२॥ ततस्तापसमायुक्तं नहुषं मुनिसत्तमः । दुर्वासाः प्रत्युवाचेदं वचनं दयया युतः ॥५३॥ दुर्वासा उवाच । तव वंशे महाराज धर्मः साक्षाद्भविष्यति । युधिष्ठिरस्तदा तस्य दर्शनं ते भविष्यति ॥५४॥ तेन संकथितं ज्ञानं ज्ञात्वा शापविवर्जितः । भविष्यसि न संदेहोऽधुना गच्छ महीतलम् ॥५५॥ द्विजाः पूज्याः सदा राजन्नृपैनर्नान्ये कदाचन । त्वयाऽवमानिता विप्रा वाहकास्ते कृता बलात् ॥५६॥ तेनाऽतिधर्मलोपो वै जातस्ते नात्र संशयः । पुनर्धर्मं निरीक्ष्य त्वं धर्मयुक्तो भविष्यसि ॥५७॥ एवमुक्त्वा स दुर्वासा गतः स्वेच्छापरायणः । नहुषः सर्परूपोऽभूत् पपात धरणीतले ॥५८॥ तत इंद्रं समानीय सामरश्च बृहस्पतिः । इंद्रासने समास्थाप्य मुदितः स बभूव ह ॥५९॥ नहुषो वनमध्ये स चचार गणपं स्मरन् । अहो विघ्नयुतं सर्वं जगत् स्थावरजंगमम् ॥६०॥ अहं विघ्नेन संयुक्तः कृतो विघ्नेशरूपिणा । अतस्तं शरणं यामि तेन सर्वं शुभं भवेत् ॥६१॥ ततः क्रमेण तेनाऽपि जितं चित्तं प्रजापते । सर्पदेहगतेनैव गाणपत्यस्वभावतः ॥६२॥ ततो बहुौ गते काले वनमायाद् युधिष्ठिरः । द्रौपद्याः भ्रातृभिः सार्द्धं द्यूतदोषेण निश्चितम् ॥६३॥ ततो भीमो वने तत्र चचार फलकाम्यया । नहुषेण समाहृष्टो बद्धो ज्ञात्वा स पांडवः ॥६४॥ स्वदेहेनावृतं भीमं कृत्वा नागस्वरूपधृक् । पातयामास भूमौ तं बलेन बलवान्नृपः ॥६५॥ भीमेन तत्र
खं. ३ अ. ३० पान ६६ नादश्च कृतो मेघसमो महान् । तं श्रुत्वा धर्मराजः स ययौ भीमं महाबलम् ॥६६॥ सर्पेण वेष्टितं भीमं दृष्ट्वा दुःखसम- न्वितम् । युधिष्ठिरं स तं तत्रोवाच नागो महाबलः ॥६७॥ नाग उवाच । अहं नहुषनामा ते नृपः पुत्र न संशयः । दर्शनार्थं मया चाऽयं भीमः संजगृहेऽधुना ॥६८॥ अहं पृच्छामि राजंस्त्वां तद्वदस्व यथातथम् । तदा भीमं प्रमोक्ष्यामि सर्वज्ञस्त्वं मतो यतः ॥६९॥ नहुषस्य वचः श्रुत्वा हर्षितः स युधिष्ठिरः । तमुवाच महाभागं स्ववंशवरभूषणम् ॥७०॥ युधिष्ठिर उवाच । वद नाग महाभाग मान्योऽसि त्वं महामते । संशयं छेदयिष्यामि प्रसादात्तव मानद ॥७१॥ नहुष उवाच । किं सत्यं किं तथा राजन्ननृतं धर्ममुत्तमम् । पापं बंधं च मोक्षं किं योगं ध्यानं वदस्व च ॥७२॥ किं कर्म किमकर्म त्वं किं विकर्म स्मृतं भवेत् । किं ज्ञानं किं तपोमूलं दैवतं किं वदस्व मे ॥७३॥ किं सारं किमसारं च किं मान्यं च तथा नृप । अवमान्यं च सर्वेशं किं वदस्व युधिष्ठिर ॥७४॥ एतान् वै वद मे वत्स तदा भीमं महामते । मोचयिष्यामि वेगेन गमिष्यामि यथेच्छया ॥७५॥ युधिष्ठिर उवाच । सत्यं ब्रह्म च विज्ञेयं जगद्वै ह्यनृतात्मकम् । धर्मः स्वधर्मरूपश्च जानीया राजसत्तम ॥७६॥ स्वधर्महीनं रूपं यत् पापं सर्वैः प्रकीर्तितम् । अहं ममात्मको बंधो मोक्षस्ताभ्यां विवर्जितः ॥७७॥ योगश्चित्तस्य रोधो वै ध्यानं निर्विषयं मनः । कर्म सत्कर्मरूपं वै ज्ञातव्यं विबुधैः सदा ॥७८॥ ब्रह्मार्पणात्मकं सर्वमकर्म कथितं किल । विकर्म पापाचरणं सर्वशास्त्रैः प्रकाशितम् ॥७९॥ ज्ञानं ब्रह्माहमित्युक्तं तपो द्वंद्वसमात्मकम् । दैवतं सर्वपूज्यं वै गाणेशं विद्धि मानद ॥८०॥ देवस्य भजनं सारं नवधा सततं नृप । असारं विषयाणां वै भजनं नवधा स्मृतम् ॥८१॥ मान्यं संकथितं वेदैः पुराणैः स्मृतिभिर्भवेत् । वेदाधारविहीनं यदवमान्यं मनीषिभिः ॥८२॥ सर्वेशं हृदि संस्थं वै विद्धि बुद्धिप्रचालकम् सर्वं ते कथितं स्वामिन् मोचयस्वाऽनिलात्मजम् ॥८३॥ एतस्मिन्नंतरे तत्र विमानं सहसाऽऽगतम् । दिव्यभोगसमायुक्तं तद्ददर्श युधिष्ठिरः ॥८४॥ मुमोच नहुषो भीमं तं तदा बंधनात् प्रभो । देहं त्यक्त्वा विमानस्थो ययौ स्वर्गं नराधिपः ॥८५॥ तत्रेंद्रस्य समीपे सोऽभवदर्धासनस्थितः । गणेशमभजन्नित्यं स नृपोऽनन्यचेत्तसा ॥८६॥ स्वर्गांते स गतो भूपः शुक्लगत्या गजाननम् । विघ्नहीनः स्वभावेन पुण्यश्लोको बभूव ह ॥८७॥ नहुषस्य चरित्रं ते कथितं पापनाशनम् । शृणुयाद्वा पठेद्वाऽपि तस्मै कामप्रदं भवत् ॥८८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते नहुषचरितं नाम त्रिंशत्तमोऽध्यायः ॥
[खं. ३ अ. ३१] [पान ६७]
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नहुषस्याभवन् पुत्राः पंच देवसमा धिया । यभ्यातिश्च ययातिश्च तथा संयातिरायतिः ॥१॥ पंचमश्चाश्वको नाम ययातिर्भूमिपोऽभवत् । माहात्म्यं तस्य मुख्यं ते कथयामि प्रजापते ॥२॥ देवयानीमुशनसः स तां भार्यामवाप ह । वृषपर्वसुतां चैव शर्मिष्ठां राजसत्तमः ॥३॥ यदुं च तुर्वसं चैव देवयानी व्यजीजनत् । द्रुह्यं तद्वदनुं पूरुं शर्मिष्ठां वार्षपर्वणी ॥४॥ सोऽभ्यषिंचदतिक्रम्य ज्येष्ठान् पुत्रान् महामतिः । पूरुं कनिष्ठमेवं च पितुर्वाक्यपरायणम् ॥५॥ दक्ष उवाच । किमर्थं तेन भूपेन विपरीतं कृतं प्रभो । तत् सर्वं वद योगींद्र सादरेण शृणोम्यहम् ॥६॥ मुद्गल उवाच । वृषपर्वा प्रजानाथ दैत्यानामधिपः स्मृतः । तस्य पुत्री महाभागा शर्मिष्ठा मानिताऽभवत् ॥७॥ तत्र शुक्रस्य पुत्री या देवयानी प्रकीर्तिता । साऽपि पित्रा स्ववात्सल्यात् स्थापिता लालिता भृशम् ॥८॥ सखीभिरेकदा बाला संवृता राज- कन्यका । शर्मिष्ठा वाटिकायां सा हर्षयुक्ता जगाम ह ॥९॥ देवयानी तथा तत्र क्रीडार्थं सा समागता । तत्र नानाविधां क्रीडां चक्रिरे कन्यकाः प्रभो ॥१०॥ ततस्ताः श्रमसंयुक्ता जग्मुः स्नानार्थमादरात् । तीरे क्षिप्त्वा स्ववस्त्राणि चिक्रीडुर्जल- मध्यगाः ॥११॥ ततः सखीभिर्युक्ता सा शर्मिष्ठा निःसृता पुरः । संभ्रमेण तया वस्त्रं देवयान्या धृतं किल ॥१२॥ निःसृता देवयानी वै दृष्ट्वा कर्म जुगुप्सितम् । राजपुत्रीमुवाचाऽथ भर्त्सयंती प्रजापते ॥१३॥ ब्राह्मणस्य महादुष्टे पुत्र्यहं किं धृतानि वै । वस्त्राणि मे यथा पाकस्पर्शने च शुनी खले ॥१४॥ द्वारपा लोमतः शास्त्रे ब्राह्मणानां विशेषतः । राजन्यस्तस्य पुत्री त्वं न योग्याऽसि कदाचन ॥१५॥ एवं नानाविधैर्वाक्यैर्देवयानी च तां प्रभो । भर्त्सयामास सोवाच कुपिता तां पुनर्वचः ॥१६॥ शर्मिष्ठोवाच । किमात्मानं च दुष्टे त्वं कथयसे मम सन्निधौ । राजप्रसादसंसर्गाद्ब्राह्मणा मानिता बभुः ॥१७॥ अस्मदीयप्रसादेन वस्त्रान्नादिकमादरात् । भुक्त्वा मां स्पर्शसे दुष्टे बलिभुग्वायसी यथा ॥१८॥ एवं नानाविधैर्वाक्यैस्तां निर्भर्त्स्य प्रजापते । सखीभिर्देवयानीं सा कूपे चिक्षेप चासुरी ॥१९॥ ततः सा स्वगृहे क्रुद्धा प्रययौ दुःखिता भृशम् । देवयानी तथा कूपे संस्थिता जलवर्जिते ॥२०॥ दैवयोगेन तत्राऽसौ ययातिः स जगाम ह । एकाकी मृगयासक्तः कूपस्थां तां ददर्श ह ॥२१॥ ततोऽतिकरुणायुक्तो हस्तं दत्वा स्वदक्षिणम् । देवयानीं दधाराऽसौ तया हस्तो धृतस्तथा ॥२२॥ बहिर्निष्कास्य राजा सोऽभवद्गंतुं समुद्यतः । ततस्तं देवयानी सोवाच हर्षसमन्विता ॥२३॥ देवयान्युवाच । पाणेस्त्वया मे ग्रहणं कृतं सौम्य महामते । कोऽसि त्वं वद मां सर्वं वृत्तांतं ते यथायथम् ॥२४॥ तामुवाच महीपालः शृणु त्वं वरवर्णिनि ।
[पान ६८]
ययातिं विद्धि मां देवि नाहुषं क्षत्रवंशजम् ॥२५॥ मृगयाऽऽसक्तभावेन प्राप्तं ते दर्शनं महत् । गच्छ त्वं स्वगृहे बाले गमिष्यामि स्वमालयम् ॥२६॥ तमुवाच प्रजानार्थं देवयानी प्रहर्षिता । काव्यपुत्रीं च मां विद्धि भव त्वं मे पतिः प्रभो ॥२७॥ हस्तस्य ग्रहणं ते वै विशेषेण कृतं मया । त्वदृते न वृणोम्यन्यमतस्त्वं मे पतिर्भव ॥२८॥ तस्यास्तद्वचनं श्रुत्वा ययातिस्तामुवाच ह । काव्यकन्यां कथं देवि वृणोमि क्षत्रवंशजः ॥२९॥ ततः सोवाच तं देवयानी शृणु वचो महत् । ब्राह्मणो मे न भर्ता च भविता कचशापतः ॥३०॥ अतस्त्वं भयहीनः सन् वृणु मां राजसत्तम । काव्यं संबोधयित्वाऽहं पत्नी ते प्रभवामि च ॥३१॥ तथेति नृपवर्योऽसौ तां जगाद तथा ययौ । नगरं स महाभागः सा च तत्र स्थिताऽभवत् ॥३२॥ तत्राऽऽगतं नरं कंचित्तमुवाच वद प्रभुम् । काव्यमत्र स्थिता पुत्री देवयानी महामते ॥३३॥ ततस्तेन मुनींद्रोऽसौ बोधितः शृणु मे वचः । वने ते देवयानी सा पुत्री वत्सल संस्थिता ॥३४॥ शुक्रस्तां प्रययौ शीघ्रं तमुवाच सुविह्वला । रुदती देवयानी सा वृत्तांतं सर्वमंजसा ॥३५॥ तं श्रुत्वा कुपितः काव्यस्त्यक्त्वा दैत्यं स निर्ययौ । वनवासार्थमानंदादूहयन् वृत्तिमुल्बणाम् ॥३६॥ ततो दैत्याधिपः श्रुत्वा वृत्तांतं विह्वलो भृशम् । तं ययौ धावमानः स प्रणनाम महामुनिम् ॥३७॥ उवाच भक्तिसंयुक्तं वचनं दैत्यनायकः । त्वदाधारमिदं राज्यं देहोऽयं मे तथा मुने ॥३८॥ मुनिसत्तम मां त्यक्त्वा कुत्र गंतुं त्वमिच्छसि । राज्यादिकं परित्यज्य याम्यहं ते प्रसन्निधौ ॥३९॥ तस्य तद्वचनं श्रुत्वा काव्यः पुत्रीमुवाच ह । चल त्वं राजकन्याया अपराधं क्षमस्व च ॥४०॥ देवयानी मुनिं तत्रोवाच क्रोधसमन्विता । नाऽहं यामि पितः पुर्यां देहत्यागं करोमि वै ॥४१॥ ततः पुत्रीं स्वयं काव्य ऊचे तां शोकसंकुलः । किमिच्छसि वद त्वं म उपायं तं करोम्यहम् ॥४२॥ ततस्तं देवयानी सोवाच क्रोधसमन्विता । सखीभिः सहिता दासी शर्मिष्ठा मे भवेद्यदि ॥४३॥ यत्र दास्यसि मां तात तत्रेयं सहगा भवेत् । तदाहं नगरे यामि हृष्टा दैत्याधिपस्य च ॥४४॥ उवाच काव्यो दैत्येशं तं पुत्रीवत्सलस्ततः । तथेति दैत्यराजः स गृहे काव्यं समानयत् ॥४५॥ काव्येन नाहुषायैव दत्ता पुत्री विधानतः । तत्र दासी स्वभावेन शर्मिष्ठा प्रययौ विधे ॥४६॥ कदाचित्तत्र शर्मिष्ठाऽभवदृऋतुयुता स्वयम् । राजानं वाटिकामध्ये उवाच विनयान्विता ॥४७॥ सख्या मे देवयान्या त्वं महीपाल वृतो यदा । पतिस्तदा मया नाथ त्वमेव मनसा वृतः ॥४८॥ ऋतुयुक्तां स्त्रियं स्वामिन् भज त्वं भक्तिसंयुताम् । तथेति नाहुषेणैव वृता सा गुप्तभावतः ॥४९॥ देवयान्या चरित्रं न तस्या ज्ञातं प्रजापते ।
खं. ३ अ. ३१ | पान ६९ गर्भयुक्तां विदित्वा तां सा पप्रच्छ मुनेः सुता ॥५०॥ कस्य वीर्यं त्वया देवि धृतं मे वद चाधुना । लाञ्छनं दैत्यराजस्य प्राप्तं किं दैवयोगतः ॥५१॥ शर्मिष्ठा तां जगादाऽथ न कृतं लाञ्छनं मया । ब्राह्मणस्य महद्वीर्यं गृहीतं गुप्ततः सखि ॥५२॥ तस्यां पुत्राः समुत्पन्नास्त्रयो देवसमा बभुः । राज्ञा संमानिता नित्यं वाटिकायां विशेषतः ॥५३॥ कदाचिद्देवयानी सा वाटिकायां जगाम ह । तत्र पुत्रा ययातिं तं पितरं प्राहुरदरात् ॥५४॥ तच्छ्रुत्वा क्षुभिताऽत्यंतं देवयानी गृहं ययौ । पितुस्तां सांत्वयामास ययातिर्विनयान्वितः ॥५५॥ न शशाक स राजर्षिस्तां स्वगेहे भयाकुलः । आनेतुं सा तथा काव्यं जगाद रुदती भृशम् ॥५६॥ शुक्रेण शापितो राजा जरायुक्तो बभूव सः । गत्वा चोशनसं तत्रोवाच शोकसमाकुलः ॥५७॥ नाऽहं श्वशुर तृप्तोऽस्मि कामभोगेभ्य एव च । जराघ्नं मे वदोपायं तं करिष्यामि यत्नतः ॥५८॥ देवयानीं विनाऽन्यां स्त्रीं न स्पृशामि कदाचन । ततस्तमुशनाः प्रीत उवाच वचनं हितम् ॥५९॥ तव पुत्रा महाभाग यौवनास्था भवंति ये । जरां तत्र विनिक्षिप्य गृहाण नृप यौवनम् ॥६०॥ त्वदाज्ञया जरां पुत्रो ग्रहीष्यति कुरुष्व तम् । राजानं मुख्यभावं त्वं न दोषस्तत्र ते भवेत् ॥६१॥ तथेति देवयानीं संगृह्य स्वनगरं ययौ । ज्येष्ठान् पुत्रान् ययाचे स राजर्षिर्यौवनं ततः ॥६२॥ न जरां जगृहुस्तस्य सर्वे ते मूर्खभावतः । ततः पूरुं स राजर्षिर्ययाचे स ददौ किल ॥६३॥ शुक्रस्य वरदानेन दोषः पूरोर्न तस्य वै । भुक्त्वा भोगाननेकान् स ययातिस्तोषितोऽभवत् ॥६४॥ यज्ञान् कृत्वा महाभागः सांगान् सर्वान् विशेषतः । तीर्था- दीनि जगामाऽसौ नानारूपाणि भावतः ॥६५॥ सर्वं कोशगतं द्रव्यं भूषणादिकमादरात् । ददौ स ब्राह्मणेभ्यश्च दानशीलो- ऽभवत्तथा ॥६६॥ मृतपात्रैर्गृहकार्येषु चरंतं गालवो मुनिः । तमाययौ ययाचे वै राजानं खेदसंयुतः ॥६७॥ गुरोश्च दक्षिणार्थं मे देह्यश्वान् श्यामकर्णकान् । सहस्त्रसंख्यायुक्तांस्त्वं श्रेष्ठः सकलभूभुजाम् ॥६८॥ माधवीं स्वां ददौ तस्मै ततः कन्यां महीपतिः । तया तस्य मुनेः कार्यं कृतं सर्वं प्रजापते ॥६९॥ ततः स राजशार्दूलो जरां संगृह्य यौवनम् । पूरवेऽदात् पुनः सद्यस्तं चकार नराधिपम् ॥७०॥ दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत् । दक्षिणापश्चिमायां स यदुं ज्येष्ठं न्ययोजयत् ॥७१॥ प्रतीच्यामुत्तरायां स द्रुह्यं चानुमयोऽजयत् । तैरियं पृथिवी सर्वा धर्मतः परिपालिता ॥७२॥ सर्वत्र सार्वभौमेन पूरुस्तत्र रराज च । धर्मयुक्तो विनीतात्मा सत्यसंधः प्रतापवान् ॥७३॥ ततो वनं ययौ राजा तताप तप उत्तमम् । अंते जगाम स्वर्गं स नानाभोगप्रदं परम् ॥७४॥ तत्र सर्वानतिक्रम्य बुभुजे भोगमुत्तमम् । न मत्समश्च स्वर्गेषु पुण्यभोगकरः
पान ७०
परः ॥७५॥ इति गर्वेण संयुक्तमिंद्रस्तं प्रजगाद सः । त्वया राजन् महत्पुण्यं कीदृशं प्रकृतं वद ॥७६॥ उवाच नरशार्दूलः ततस्तं मोहसंयुतः । न संख्या विद्यते देव मम पुण्यस्य देवप ॥७७॥ स्वर्गेषु ये स्थिता देवाः पुण्यकर्मकरा इमे । न मे कलां च पुण्यस्य लभंते देवनायक ॥७८॥ तस्य तद्वचनं श्रुत्वा तमिंद्रः प्रत्युवाच ह । न जानासि महाराज एषां पुण्यप्रभावकम् ॥७९॥ सर्वानिमांस्तिरस्कृत्य त्वं प्रमोहसमन्वितः । स्वप्रशंसां तथाऽपारं पुण्यं वदसि चाऽद्य माम् ॥८०॥ तेन ते पुण्यमुग्रं तत् सर्वं नष्टं नराधिप । प्रपत त्वं महीपृष्ठे पुनः पुण्यं समाचर ॥८१॥ ततः पपात भूपृष्ठे ययातिर्दुःख- संयुतः । तं पतंतं च दौहित्रा ददृशुः शिबिमुख्याः ॥८२॥ मातामहं च विज्ञाय ददुः पुण्यं पुनः स्वकम् । तेन स्वर्गस्थितो राजा मुमुदे देववत् स्वयम् ॥८३॥ ततस्तं नारदो योगी जगाद करुणायुतः । त्वया विघ्नो महाराज प्राप्तः पुण्यविनाशकृत् ॥८४॥ विघ्नेशं भज राजंस्त्वमंते स्वानंदगस्ततः । भविष्यसि न संदेहो नोचेद्भूमौ पतिष्यसि ॥८५॥ ततस्तेन गणेशस्य मंत्रो दत्तो दशाक्षरः । तं जजाप ययातिश्च गणेशध्यानतत्परः ॥८६॥ पुण्यक्षये स राजेंद्रः शुक्लगत्या प्रजापते । गणेशं प्रययौ भक्त्या गाणपत्यो महायशाः ॥८७॥ ययातेश्चरितं पुण्यं संक्षेपेण निरूपितम् । शृण्वते कामदं पूर्णं भविष्यति न संशयः ॥८८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते ययातिचरितं नामैकत्रिंशत्तमोऽध्यायः ॥ ❧❦❧ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । यदोरप्यभवन् पुत्राश्चत्वारो देवसन्निभाः । सहस्रजित्तथा ज्येष्ठस्तस्य पुत्रो बभूव ह ॥१॥ शतजिन्नाम विख्यातस्तस्य पुत्रास्त्रयोऽभवन् । हिहयश्च हयश्चैव वपुर्हय उदाहृतः ॥२॥ हिहयस्याऽभवत् पुत्रो धर्म इत्यभिविश्रुतः । तस्य नेत्रस्तस्य कुंतिः सोहंजिस्तत्सुतः स्मृतः ॥३॥ सो हंजेरभवत् पुत्रो महिष्मानाम पार्थिवः । माहिष्मती च नगरी वासिता येन भूभुजा ॥४॥ तस्य पुत्रो भद्रसेनो दुर्मदस्तत्सुतः स्मृतः । धनकश्चाऽपरो धीमान् मुख्योऽभूत्तत्र पार्थिवः ॥५॥ धनकादभवन् पुत्राश्चत्वारो लोकविश्रुताः । कृतवीर्यः कृताग्निश्च कृतवर्मा ततः स्मृतः ॥६॥ कृतौजाश्च तथा दक्ष तत्र ज्येष्ठः प्रतापवान् । बभूव दानशीलश्च कृतवीर्यो महीपतिः ॥७॥ तेन वै पृथिवीमध्ये चतुर्थी कृष्णगाऽपरा ।
[शीर्षक / पृष्ठ-शीर्षक] खं. ३ अ. ३२ | पान ७१
मूल संस्कृत पाठ (Line-by-Line Transcription)
प्रकाशिता प्रजापाल स्वर्गात् सर्वशुभप्रदा ॥८॥ दक्ष उवाच । कथं तेन नृपालेन चतुर्थी भूमिमंडले । समानीता महायोगिन् वद तस्य चरित्रकम् ॥९॥ श्रुत्वा कथामृतं स्वामिन् हर्षश्चेतसि वर्धते । अतो विस्तरभावेन कथयस्व कथानकम् ॥१०॥ मुद्गल उवाच । माहिष्मत्यां महापुर्यां भीमनामाऽभवत् पुरा । अंत्यजो द्रव्यलुब्धश्च पापकर्मपरायणः ॥११॥ स तु मार्गे जनान् वीक्ष्याऽमारयत्तन् दिने दिने । मांसविक्रयकारी च पशून् हत्वा निरंतरम् ॥१२॥ एकदा माघमासस्य चतुर्थी कृष्णपक्षगा । समागता च तत्राऽसौ विचचार वनांतरे ॥१३॥ महापर्वतदेशे स जनानां प्रबधाय च । दैवयोगेन तस्याऽपि मिलितं नैव किंचन ॥१४॥ अयं बभ्रामान्नजलविहीनो लोभसंयुतः । मिलितं तत्र नो किंचित्तथाभूतश्चचार ह ॥१५॥ ततोऽस्तमगमत् सूर्यस्तं दृष्ट्वा स्वगृहे मतिम् । गमनाय तथा चक्रे मार्गसंस्थो बभूव ह ॥१६॥ मार्गे दुष्टो द्विजांस्तत्र दृष्ट्वा द्वादशसंख्यकान् । तान् हत्वा स तदीयं वै गृहीत्वा स्वगृहं ययौ ॥१७॥ चंद्रोदये ततः प्राप्ते बुभुजे भोजनाकुलः । पुत्रं गणेशनामानमाह्वया- मास तेन सः ॥१८॥ पुनश्चकार तद्वत् स कदाचित् पापमुल्बणम् । कृष्णपक्षे चतुर्थ्यां च स ममारोदये विधोः ॥१९॥ गणेशदूतास्तं तत्र समानेतुं समाययुः । कैलासे गणपस्थाने निन्युस्तं ते विमानगम् ॥२०॥ स्वर्गमार्गेषु देवैश्च ब्रह्मविष्ण्वा- दिभिस्तुतः । विमानगैः स्तूयमानः प्रविवेश शिवास्पदम् ॥२१॥ तत्र भुक्त्वा प्रभोगान् स पपात पृथिवीतले । माहिष्मत्यां सुतो जज्ञे धनकस्य महाबलः ॥२२॥ कृतवीर्य इति ख्यातो नानाधर्मपरायणः । देवविप्रातिथिप्रेप्सुर्भूवे यज्ञकारकः ॥२३॥ अपुत्रः स्माऽभवद्राजा कृतवीर्यः प्रतापवान् । पुत्रार्थं यतते स्मातिनानाधर्मपरायणः ॥२४॥ न लेभे संततिं राजा ततोऽसौ दुःखसंयुतः । प्रधानेषु समाक्षिप्य राज्यं निहतकंटकम् ॥२५॥ सपत्नीको वनं राजा ययौ तपसि संस्थितः । पूर्वसंस्कारयोगेन गणेशे प्रीतिमानभूत् ॥२६॥ नानातपश्चकाराऽसौ संततिं न तथाऽपि च । लेभे नृपः प्रजानाथ नेत्र- प्राणावशेषितः ॥२७॥ अस्थित्वचासमायुक्तं दृष्ट्वा तं नारदो मुनिः । स्वर्गस्थं धनकं तत्र वृत्तांतमवदन्नृपम् ॥२८॥ तव पुत्रो वने संस्थः पुत्रार्थं यतते नृप । नानायतनसमायुक्तोऽस्थित्वचाप्रयुतोऽस्ति वै ॥२९॥ न लेभे संततिं राजा स्वल्पकाले मरिष्यति । पुत्रहीनस्य भो राजन् का गतिः प्रभवेद्वद ॥३०॥ इत्युक्त्वा तं मुनींद्रः स ययौ कैलासमादरात् । धनको मनसाऽत्यंतं विचारमकरोत्ततः ॥३१॥ ब्रह्माणं शरणं यामि सर्वज्ञं तेन चेप्सितम् । भविष्यति न संदेहस्ततः सोऽपि ययौ विधिम् ॥३२॥ प्रणिपत्य प्रतुष्टाव नानास्तोत्रैः प्रजापतिम् । उवाच तं महाभागं विनयेन समन्वितः ॥३३॥ धनक उवाच ।
श्लोकवार अन्वय एवं सरल हिन्दी भावार्थ
श्लोक ८-१०
प्रकाशिता प्रजापाल स्वर्गात् सर्वशुभप्रदा ॥८॥ दक्ष उवाच । कथं तेन नृपालेन चतुर्थी भूमिमंडले । समानीता महायोगिन् वद तस्य चरित्रकम् ॥९॥ श्रुत्वा कथामृतं स्वामिन् हर्षश्चेतसि वर्धते । अतो विस्तरभावेन कथयस्व कथानकम् ॥१०॥
- अन्वय: (हे प्रजापाल!) स्वर्गात् सर्वशुभप्रदा (चतुर्थी) प्रकाशिता। दक्षः उवाच— हे महायोगिन्! तेन नृपालेन भूमिमंडले चतुर्थी कथं समानीता? तस्य चरित्रकं वद। हे स्वामिन्! कथामृतं श्रुत्वा चेतसि हर्षः वर्धते, अतः विस्तरभावेन कथानकं कथयस्व।
- हिन्दी अनुवाद: हे प्रजापालक! इस प्रकार स्वर्ग से सब प्रकार के शुभ फल देने वाली चतुर्थी प्रकट हुई। दक्ष ने पूछा— हे महायोगिन्! उस राजा ने पृथ्वी पर चतुर्थी व्रत को कैसे लाया? आप उनका चरित्र मुझे सुनाइए। हे स्वामिन्! यह कथामृत सुनकर मेरे हृदय में परम हर्ष बढ़ रहा है, अतः आप इस कथा को विस्तारपूर्वक कहिए।
श्लोक ११-१५
मुद्गल उवाच । माहिष्मत्यां महापुर्यां भीमनामाऽभवत् पुरा । अंत्यजो द्रव्यलुब्धश्च पापकर्मपरायणः ॥११॥ स तु मार्गे जनान् वीक्ष्याऽमारयत्तन् दिने दिने । मांसविक्रयकारी च पशून् हत्वा निरंतरम् ॥१२॥ एकदा माघमासस्य चतुर्थी कृष्णपक्षगा । समागता च तत्राऽसौ विचचार वनांतरे ॥१३॥ महापर्वतदेशे स जनानां प्रबधाय च । दैवयोगेन तस्याऽपि मिलितं नैव किंचन ॥१४॥ अयं बभ्रामान्नजलविहीनो लोभसंयुतः । मिलितं तत्र नो किंचित्तथाभूतश्चचार ह ॥१५॥
- अन्वय: मुद्गलः उवाच— पुरा माहिष्मत्यां महापुर्यां भीमनामा अंत्यजः द्रव्यलुब्धः पापकर्मपरायणः अभवत्। सः तु दिने दिने मार्गे जनान् वीक्ष्य अमारयत्, निरंतरं पशून् हत्वा मांसविक्रयकारी च (आसीत्)। एकदा माघमासस्य कृष्णपक्षगा चतुर्थी समागता, तत्र असौ वनांतरे महापर्वतदेशे जनानां प्रबधाय विचचार। दैवयोगेन तस्य अपि किंचन नैव मिलितम्। लोभसंयुतः अयं अन्नजलविहीनः बभ्राम, तत्र किंचित् नो मिलितं तथाभूतः चचार ह।
- हिन्दी अनुवाद: मुद्गल मुनि बोले— प्राचीन काल में माहिष्मती नगरी में 'भीम' नाम का एक अंत्यज (शूद्र/बहेलिया) रहता था, जो धन का लोभी और महापापी था। वह प्रतिदिन राहगीरों को देखकर मार देता था और पशुओं की निरंतर हत्या करके उनका मांस बेचता था। एक बार माघ मास के कृष्ण पक्ष की चतुर्थी तिथि आई। उस दिन वह लोगों को मारने (लूटने) के उद्देश्य से घोर जंगल और पर्वतों में भटका। दैवयोग से उस दिन उसे कोई भी नहीं मिला। वह भूख-प्यास से व्याकुल होकर लोभवश दिनभर अन्न-जल के बिना भटकता रहा।
श्लोक १६-१८
ततोऽस्तमगमत् सूर्यस्तं दृष्ट्वा स्वगृहे मतिम् । गमनाय तथा चक्रे मार्गसंस्थो बभूव ह ॥१६॥ मार्गे दुष्टो द्विजांस्तत्र दृष्ट्वा द्वादशसंख्यकान् । तान् हत्वा स तदीयं वै गृहीत्वा स्वगृहं ययौ ॥१७॥ चंद्रोदये ततः प्राप्ते बुभुजे भोजनाकुलः । पुत्रं गणेशनामानमाह्वयामास तेन सः ॥१८॥
- अन्वय: ततः सूर्यः अस्तम् अगमत्, तं दृष्ट्वा (सः) स्वगृहे गमनाय मतिं चक्रे तथा मार्गसंस्थः बभूव ह। दुष्टः सः मार्गे द्वादशसंख्यकान् द्विजान् दृष्ट्वा तान् हत्वा तदीयं (द्रव्यं) गृहीत्वा स्वगृहं ययौ। ततः चंद्रोदये प्राप्ते भोजनाकुलः (सः) बुभुजे, तेन सः गणेशनामानं पुत्रम् आह्वयामास।
- हिन्दी अनुवाद: इसके बाद जब सूर्य अस्त हो गया, तो उसने घर लौटने का विचार किया और रास्ते पर चल पड़ा। मार्ग में उस दुष्ट ने बारह ब्राह्मणों को देखा और उन्हें मारकर उनका सारा धन लूटकर अपने घर पहुँचा। तब तक चन्द्रमा का उदय हो चुका था। उसने भूख से व्याकुल होकर भोजन किया और भोजन के समय उसने अपने पुत्र को 'गणेश' नाम से पुकारा (जिससे अनजाने में ही चतुर्थी व्रत, चंद्रोदय-दर्शन, गणेश-नाम-स्मरण और पारण हो गया)।
श्लोक १९-२१
पुनश्चकार तद्वत् स कदाचित् पापमुल्बणम् । कृष्णपक्षे चतुर्थ्यां च स ममारोदये विधोः ॥१९॥ गणेशदूतास्तं तत्र समानेतुं समाययुः । कैलासे गणपस्थाने निन्युस्तं ते विमानगम् ॥२०॥ स्वर्गमार्गेषु देवैश्च ब्रह्मविष्ण्वादिभिस्तुतः । विमानगैः स्तूयमानः प्रविवेश शिवास्पदम् ॥२१॥
- अन्वय: कदाचित् सः पुनः तद्वत् उल्बणं पापं चकार। कृष्णपक्षे चतुर्थ्यां विधोः उदये च सः ममार। तत्र गणेशदूताः तं समानेतुं समाययुः। ते तं विमानगं (कृत्वा) कैलासे गणपस्थाने निन्युः। स्वर्गमार्गेषु ब्रह्मविष्ण्वादिभिः देवैः विमानगैः स्तूयमानः (सः) शिवास्पदं प्रविवेश।
- हिन्दी अनुवाद: बाद में भी उसने उसी प्रकार घोर पाप किए। अंततः कृष्ण पक्ष की चतुर्थी के दिन ही चन्द्रोदय के समय उसकी मृत्यु हुई। गणेश जी के दूत उसे लेने आए और उसे विमान में बैठाकर कैलाश स्थित गणेश-लोक में ले गए। स्वर्गमार्ग में ब्रह्मा, विष्णु आदि देवताओं तथा विमानस्थ सुरों द्वारा स्तुति पाया हुआ वह शिवधाम में प्रविष्ट हुआ।
श्लोक २२-२६
तत्र भुक्त्वा प्रभोगान् स पपात पृथिवीतले । माहिष्मत्यां सुतो जज्ञे धनकस्य महाबलः ॥२२॥ कृतवीर्य इति ख्यातो नानाधर्मपरायणः । देवविप्रातिथिप्रेप्सुर्भूवे यज्ञकारकः ॥२३॥ अपुत्रः स्माऽभवद्राजा कृतवीर्यः प्रतापवान् । पुत्रार्थं यतते स्मातिनानाधर्मपरायणः ॥२४॥ न लेभे संततिं राजा ततोऽसौ दुःखसंयुतः । प्रधानेषु समाक्षिप्य राज्यं निहतकंटकम् ॥२५॥ सपत्नीको वनं राजा ययौ तपसि संस्थितः । पूर्वसंस्कारयोगेन गणेशे प्रीतिमानभूत् ॥२६॥
- अन्वय: तत्र प्रभोगान् भुक्त्वा सः पृथिवीतले पपात। माहिष्मत्यां धनकस्य महाबलः सुतः जज्ञे। कृतवीर्यः इति ख्यातः नानाधर्मपरायणः, देवविप्रातिथिप्रेप्सुः यज्ञकारकः बभूव। सः प्रतापवान् राजा कृतवीर्यः अपुत्रः अभवत्। नानाधर्मपरायणः सः पुत्रार्थं अति यतते स्म। राजा संततिं न लेभे, ततः असौ दुःखसंयुतः प्रधानेषु निहतकंटकं राज्यं समाक्षिप्य सपत्नीकः वनं ययौ तपसि संस्थितः। पूर्वसंस्कारयोगेन (सः) गणेशे प्रीतिमान् अभूत्।
- हिन्दी अनुवाद: वहाँ दिव्य भोगों को भोगकर वह पुनः पृथ्वी पर आया और माहिष्मती में राजा धनक के घर महाबली पुत्र के रूप में उत्पन्न हुआ। वह 'कृतवीर्य' नाम से प्रसिद्ध हुआ, जो अनेक धर्मों का पालक, देवता-ब्राह्मण-अतिथियों का सेवी तथा यज्ञकर्ता बना। परंतु वह प्रतापी राजा कृतवीर्य निःसंतान था। उसने पुत्र-प्राप्ति के लिए अनेक धार्मिक प्रयत्न किए, फिर भी उसे संतान नहीं मिली। तब दुःखी होकर वह अपने निष्कंटक राज्य को मंत्रियों पर सौंपकर पत्नी सहित तपस्या करने वन में चला गया। पूर्वजन्म के संस्कार से गणेश जी के प्रति उसकी अगाध प्रीति थी।
श्लोक २७-३०
नानातपश्चकाराऽसौ संततिं न तथाऽपि च । लेभे नृपः प्रजानाथ नेत्रप्राणावशेषितः ॥२७॥ अस्थित्वचासमायुक्तं दृष्ट्वा तं नारदो मुनिः । स्वर्गस्थं धनकं तत्र वृत्तांतमवदन्नृपम् ॥२८॥ तव पुत्रो वने संस्थः पुत्रार्थं यतते नृप । नानायतनसमायुक्तोऽस्थित्वचाप्रयुतोऽस्ति वै ॥२९॥ न लेभे संततिं राजा स्वल्पकाले मरिष्यति । पुत्रहीनस्य भो राजन् का गतिः प्रभवेद्वद ॥३०॥
- अन्वय: असौ प्रजानाथः नृपः नाना तपः चकार, तथापि च संततिं न लेभे, नेत्रप्राणावशेषितः (अभवत्)। नारदः मुनिः तं अस्थित्वचासमायुक्तं दृष्ट्वा, तत्र स्वर्गस्थं नृपं धनकं वृत्तांतम् अवदत्— हे नृप! तव पुत्रः वने संस्थः पुत्रार्थं यतते। सः नाना-आयासेन युक्तः केवलम् अस्थि-त्वचा-अवशेषः अस्ति वै। राजा संततिं न लेभे, स्वल्पकाले मरिष्यति। भो राजन्! पुत्रहीनस्य का गतिः प्रभवेत्, वद?
- हिन्दी अनुवाद: उसने कठोर तप किया, फिर भी संतान न पा सका। राजा केवल नेत्र और प्राण मात्र का अवशेष रह गया (शरीर सूखकर कंकाल हो गया)। केवल अस्थि और चर्म बचे हुए उस राजा को देखकर देवर्षि नारद ने स्वर्ग में स्थित उसके पिता राजा धनक के पास जाकर यह वृत्तांत कहा— "हे राजन्! तुम्हारा पुत्र वन में पुत्र-प्राप्ति हेतु घोर तप कर रहा है। वह सूखकर केवल हड्डियों का ढाँचा रह गया है। फिर भी उसे संतान नहीं मिली और वह शीघ्र ही मर जाएगा। हे राजन्! पुत्रहीन की क्या गति होगी, बताओ?"
श्लोक ३१-३३
इत्युक्त्वा तं मुनींद्रः स ययौ कैलासमादरात् । धनको मनसाऽत्यंतं विचारमकरोत्ततः ॥३१॥ ब्रह्माणं शरणं यामि सर्वज्ञं तेन चेप्सितम् । भविष्यति न संदेहस्ततः सोऽपि ययौ विधिम् ॥३२॥ प्रणिपत्य प्रतुष्टाव नानास्तोत्रैः प्रजापतिम् । उवाच तं महाभागं विनयेन समन्वितः ॥३३॥ धनक उवाच ।
- अन्वय: इति उक्त्वा सः मुनींद्रः आदरात् कैलासं ययौ। ततः धनकः मनसा अत्यंतं विचारम् अकरोत्। सर्वज्ञं ब्रह्माणं शरणं यामि, तेन ईप्सितं भविष्यति, अत्र संशयः न। ततः सः अपि विधिं ययौ। प्रजापतिं प्रणिपत्य नानास्तोत्रैः प्रतुष्टाव, विनयेन समन्वितः तं महाभागम् उवाच। धनकः उवाच—
- हिन्दी अनुवाद: ऐसा कहकर मुनिश्रेष्ठ नारद आदरपूर्वक कैलाश चले गए। तब राजा धनक ने मन में गहरा विचार किया कि— "मुझे सर्वज्ञ ब्रह्मा जी की शरण में जाना चाहिए, उन्हीं से मेरी मनोकामना पूर्ण होगी, इसमें कोई संदेह नहीं।" तदनन्तर वह ब्रह्मा जी के पास गया और प्रजापति को साष्टांग प्रणाम कर अनेक स्तोत्रों से उनकी स्तुति की तथा विनयपूर्वक उन महाभाग ब्रह्मा जी से कहने लगा। धनक ने कहा—