भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. ४ अ. ७ | पान २२

मया ॥४२॥ तपस्त्यक्त्वा पुरा तात योगमार्गपरायणः । न शांतिं प्रलभे तत्र योगभूमिं प्रसाधयन् ॥४३॥ ततोऽहं पितरं गत्वा ब्रह्माणं सर्ववेदिनम् । वंद्यं तं योगशांत्यर्थमपृच्छं विनयान्वितः ॥४४॥ स्वामिन् शांतिप्रदं ब्रह्म कीदृशं वद मे प्रभो । केन योगेन लभ्यं तत् प्रभवेत् कृपयान्वितः ॥४५॥ ब्रह्मोवाच । योगशांतिप्रदं ब्रह्म गाणेशं विद्धि पुत्रक । मनोवाणीमयं सर्वं त्यज योगस्य सेवया ॥४६॥ मनोवाणीविहीनं यदेव तत्तादृशं मतम् । गणेशोऽहं न भिन्नश्च ब्रह्मणो नायकः स्मृतः ॥४७॥ मनोवाणीमयः प्रोक्तो गकारो वेदवादतः । मनोवाणीविहीनश्च णकारः सर्वसंमतः ॥४८॥ तयोः स्वामी गणेशानो नाम्ना गणपतेर्यदा । गकारस्य णकारस्य योगो वेदप्रमाणतः ॥४९॥ समाधिना लभ्यते यच्चित्तेन च महामते । गकाराक्षरगं ज्ञानं ज्ञातव्यं वेदवादतः ॥५०॥ चित्तेन यन्न लभ्येत णकारं विद्धि मानद । ज्ञानाज्ञानमयं चित्तं त्यक्त्वा शांतिमवाप्स्यसि ॥५१॥ एतदेव परं गुह्यं शांतिदं कथितं मया । तदर्थं गणराजं त्वं भजस्व भावसंयुतः ॥५२॥ एकाक्षरं महामंत्रं गृहाण त्वं महामते । ध्यानयोगेन विघ्नेशं प्राप्स्यसि त्वं न संशयः ॥५३॥ एवमुक्त्वा महामंत्रं ददौ मह्यं विधानतः । तं प्रणम्य वने तात गतोऽहं योगकारणात् ॥५४॥ क्रमेण चित्तभूमीनां योगं त्यक्त्वा मया परम् । चित्तं चिंतामणौ पुत्र क्षिप्तं तद्रूप- भावतः ॥५५॥ ततो योगींद्रवंद्योऽहं जातस्तदपि नित्यदा । गणेशध्यानसंयुक्तोऽभवं तद्भक्तिकाम्यया ॥५६॥ ततो विघ्नपतिः साक्षाद्दर्शनं मे ददौ मया । स्तुतः संपूजितः सोऽपि ददौ स्वभक्तिमुत्तमाम् ॥५७॥ तदादिगाणपत्योऽहं जातः सर्वैश्च वंदितः । भजस्व गणराजं तमतस्त्वं योगकाम्यया ॥५८॥ कण्व उवाच । एवमुक्त्वा महायोगी मह्यं मंत्रं ददौ ततः । एकाक्षरं यथान्यायमंत्र्धानं चकार ह ॥५९॥ अहं तथा गणेशानं साधयित्वा विशेषतः । शांतिं प्राप्तस्तं तथापि भजाम्य- नन्यचेतसा ॥६०॥ अतस्त्वमपि राजेंद्र भज विघ्नपतिं सदा । चतुर्थीव्रतसंयुक्तो ब्रह्मभूतो भविष्यसि ॥६१॥ तत एकाक्षरं मंत्रं ददौ तस्मै महामुनिः । कण्वं प्रणम्य राजर्षिर्ययौ स्वनगरे तदा ॥६२॥ तस्मिन् काले चतुर्थी सा शुक्ला भाद्री समागता । कृता तेन सुभक्त्या वै नगरस्थजनैः सह ॥६३॥ ततः सर्वत्र संघोषः कृतस्तेन महीभृता । शुक्लां कृष्णां चतुर्थीं ये नाऽऽचरिष्यंति नित्यदा ॥६४॥ ते दंडैः पीडनीया वै ततः सर्वेऽभवन् जनाः । व्रतकारिण एतस्मात् पुण्यात् वृष्टिर्बभूव ह ॥६५॥ हृष्टपुष्टजनाः सर्वे तया जाता नृपात्मज । रोगादिदोषहीनास्ते भजंतं गणनायकम् ॥६६॥ भरतः स्म महाराजोऽभजत्सो- ऽनन्य चेतसा । गणेशं भक्तिसंयुक्तो गाणपत्यप्रियोऽभवत् ॥६७॥ स पुत्रे राज्यमुग्रं तन्निक्षिप्य वनगोऽभवत् ।

खं. ४ अ. ७ पान २३ अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह ॥६८॥ क्रमेण भूमिसंस्था येऽभवन् स्वानंदगा जनाः । चतुर्थी पुण्ययोगेन यथा योगपरायणाः ॥६९॥ स्पर्शेन भरतस्यैव जनाः कीटादिका नृप । पुण्यररूपा बभूवुस्तेऽथॉते स्वानंदगामिनः ॥७०॥ एतादृशेन भूपेन पुण्यशालिजनाः कृताः । यज्ञैः सर्वा धरा येन चित्रिता पुण्यकारिणा ॥७१॥ भरतेन समो राजन् न कश्चित् प्रबभूव ह । ज्ञानेन स्वबलेनाऽपि यशसा धर्मशालिना ॥७२॥ भाद्रशुक्लचतुर्थ्यास्तु महिमा कथितो मया । चतुर्वर्गफलैर्युक्तो ब्रह्मभूयपदप्रदः ॥७३॥ भाद्रशुक्लचतुर्थ्यां तु माहात्म्यं यः शृणोति चेत् । पठेद्वा तस्य राजेंद्र सर्वदं प्रभवेद् ध्रुवम् ॥७४॥ भाद्रशुक्लचतुर्थ्यां वै शंकरस्य हृदि प्रभुः । प्रादुर्बभूव मध्याह्ने ध्यानजः स सुतोऽभवत् ॥७५॥ तदादि सा तिथिर्मुख्या बभूव जन्मधारिणी । गणेशस्य न संदेहो ब्रह्मभूयपदप्रदा ॥७६॥ सृष्ट्यादौ पंच देवेशैः स्थापिता मूर्तिरुत्तमा । मयूरे गणनाधस्य मध्याह्ने भाद्रगे तिथौ ॥७७॥ मयूरेशअवतारो भाद्रपदेयो बभूव सः । मध्याह्ने शंकरगृहे चतुर्थ्यां शुक्ल- पक्षके ॥७८॥ तस्यां ये मृन्मयीं मूर्तिं पूजयंति नरादयः । देवाः शंकरमुख्याश्च महोत्सवपरायणाः ॥७९॥ ते सर्वे विघ्नहीनाश्च भवंति सुखभोगिनः । अंते स्वानंदगा भूप ब्रह्मभूता भवंति च ॥८०॥ मध्याह्ने पूजनं प्रोक्तं गणेशस्य विशेषतः । उपोषणसमायुक्तैश्चतुर्थ्यां व्रतकारिभिः ॥८१॥ पंचम्यां पारणं कृत्वा द्विजैः सह महामते । मूर्तिं तां मृन्मयीं पूज्यां विसृज्य निनयेज्जलम् ॥८२॥ चतुर्थ्यां मृन्मयीं मूर्तिं भाद्रे ये नार्चयंति चेत् । तेषां निष्फलरूपं वै कर्म सर्वं भविष्यति ॥८३॥ न तेषां दर्शनं कार्यं नरैरात्महितेप्सुभिः । पतितास्ते मताः शास्त्रे नारकाश्च भवंत्यतः ॥८४॥ इह विघ्नसमायुक्ता नानारोगप्रपीडिताः । दारिद्र्यादिसमायुक्ता महापापा मता नृप ॥८५॥ चतुर्थ्यां सर्ववर्णस्थैर्भाद्रे पूज्यो गजाननः । मृन्मयो विघ्नहीनास्ते भवंति सफलक्रियाः ॥८६॥ इयं भाद्रपदे मासि चतुर्थी शुक्लरूपिणी । तस्याश्चरितमाद्यं ते कथितं स्वल्पभावतः ॥८७॥ अत्र ते वर्णयिष्येऽहं इतिहासं पुरातनम् । तच्छृणुष्व महाभाग चतुर्थीव्रतजं महत् ॥८८॥ द्राविडे नगरे राजंश्चांडालः कोऽपि पापकृत् । कुष्ठरोगयुतः पूर्णः परस्त्रीलंपटोऽभवत् ॥८९॥ चतुर्थ्यां भाद्रमासे स ज्वर- युक्तो बभूव ह । ज्वरस्य पीडयाऽत्यंतं पीडितो राजसत्तम ॥९०॥ अन्नेन स जलेनाऽपि हीनोऽभूद्दैवयोगतः । पंचम्यां मरणे प्राप्ते विमानेन जगाम ह ॥९१॥ तस्यांगस्पर्शतॊ वायुर्यमलोके जगाम ह। तेन स्पृष्टा नरास्तत्र नरकस्थाः समंततः ॥९२॥ ते सर्वे यानगा भूत्वा गताः स्वानंदके पुरे । दृष्ट्वा गणपतिं तैः स ब्रह्मभूतो बभूव ह ॥९३॥ व्रतमजानतश्चैवं फलप्रदमिदं

खं. ४ अ. ८ पान २४ मतम् । यथाविधि कृतं येन तत्र चित्रं किमप्यहो ॥९४॥ चतुर्थ्या महिमाऽयं कथितुं न प्रशक्यते । पुरुषार्थाश्च चत्वारः प्राप्यंते व्रतमात्रतः ॥९५॥ मुद्गल उवाच । वसिष्ठवचनं श्रुत्वा दशरथस्तमब्रवीत् । शृणु दक्ष महाभाग तां कथां पावनीं प्रभो ॥९६॥ दशरथ उवाच । चांडालो गणनांथस्य पुपूज स न मृन्मयीम् । मूर्तिं दोषी कथं स्वामिन् ब्रह्मभूतो बभूव ह ॥९७॥ वसिष्ठ उवाच । सम्यक् पृष्टं त्वया राजन् शृणु संशयनाशनम् । ज्ञानं ते कथयिष्यामि भवेल्लोकोपकारकम् ॥९८॥ चांडालस्य चतुर्थ्यास्तु ज्ञानं नाऽभूद् दुरात्मनः । पूजनं च तथा तस्योल्लंघनं न ततोऽभवत् ॥९९॥ अतोऽयं दोषहीनश्च स्वानंदस्थो बभूव ह । पूजनोल्लंघनाभ्यां स वर्जितो ज्ञानभावतः ॥१००॥ एवं नानाजनाश्चेह भुक्त्वा तु विविधं सुखम् । अंते स्वानंदगा राजन् बभूवुर्व्रतमात्रतः ॥१॥ तत्रैकं कथितं प्रोक्तुं नालं वर्षायुतैरपि । पूर्णं भवति माहात्म्यं संक्षेपेण निरूपितम् ॥१०२॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते भाद्रपदशुक्लचतुर्थीव्रतवर्णनं नाम सप्तमोऽध्यायः ॥ ❖ ॥ श्रीगणेशाय नमः ॥ वसिष्ठ उवाच । आश्विने वरदात्री या चतुर्थी शुक्लपक्षगा । तां शृणुष्व महाभाग सव्रतां सर्वदायिनीम् ॥१॥ इतिहासं प्रवक्ष्यामि पुरातनभवं नृप । व्रतसंयुक्तमाहात्म्यं भवेत् सर्वार्थसाधकम् ॥२॥ रैवतांतरगो राजा कीर्तिमांश्च बभूव ह । मत्तो नाम्ना धर्मधरः पूर्णशस्त्रास्त्रपारगः ॥३॥ देवविप्रातिथिप्रेप्सुः पंचयज्ञपरायणः । नीतिज्ञः पुत्रवल्लोकान् पालयन् स्वहिते रतः ॥४॥ भार्या तस्याऽभवत् साऽपि पातिव्रत्यगुणान्विता । सर्वलक्षणसंयुक्ता विप्रदेवातिथिप्रिया ॥५॥ गजानां च हयानां वै पदातीनां महीपतेः । रथानां नैव संख्याऽस्ति धानुष्काणां विशेषतः ॥६॥ सप्तद्वीपवतीं पृथ्वीं पालयन् स नराधिपः । देवादीनां च संग्रामे ह्यजेयः परवीरहा ॥७॥ तस्य वंध्यत्वदोषेण नृप पुत्रो बभूव नो । नानायत्न- परो राजा पुत्रार्थे प्रबभूव ह ॥८॥ तीर्थयात्रादिकं सर्वं चकार विधिवन्नृपः । अनुष्ठानव्रतादीनि देवानां पूजनं तथा ॥९॥ एवं नानाविधैः पुण्यैर्न बभूव सुतस्ततः । राज्यं त्यक्त्वा वने राजा सस्त्रीकः स जगाम ह ॥१०॥ तत्र भ्रमणयुक्तः स ददर्श ह महावनम् । सिंहव्यालादिसंयुक्तं भयदं सर्वजन्मिनाम् ॥११॥ दुःखयुक्तः स राजर्षिः प्रवेशं स चकार ह । वने तत्र मुनिश्रेष्ठं सौभरिं संददर्श च ॥१२॥ तं प्रणम्य महाभागः सस्त्रीकः पुरतो मुनेः । कृतांजलिपुटो भूत्वा तस्थौ

[हेडर] खं. ४ अ. ८ पान २५


स नृपंसमुखः ॥१३॥ ततः सौभरिणा सोऽपि सत्कृतो वचनेन च । निषसादासने तत्र मुनिना दर्शिते नृपः ॥१४॥ तमुवाच महाभागं राजानं मुनिसत्तमः । कोऽसि त्वं वन उग्र मेऽत्र किमर्थ समागतः ॥१५॥ इति पृष्टो महीपालस्तमुवाच सुहर्षितः । कीर्तिमान् सर्वधर्मज्ञः कृत्वा करपुटं वचः ॥१६॥ कीर्तिमानुवाच । द्राविडे वसतिर्मेऽस्ति नगरे सुरसत्तमे । राज्यं करोमि तत्राऽहं सार्वभौमो महामुने ॥१७॥ अपुत्रो दैवयोगेन जातोऽहं मुनिसत्तम । पुत्रार्थे व्रततीर्थादीन् नानाधर्मान् करोमि वै ॥१८॥ राज्यं त्यक्त्वा वने योगिन्नागतः पुत्रकाम्यया । तत्र ते दर्शनं प्राप्तं सर्वसिद्धिप्रदं प्रभो ॥१९॥ तव दर्शन- मात्रेण सफलो मे भवो भवेत् । मातृपित्रादिकं सर्वं धन्यं जातं न संशयः ॥२०॥ अधुना ब्रूहि मे नाथ पुत्रप्राप्त्यर्थमादरात् । उपायं तं चरिष्यामि त्वदाज्ञावशगो मुने ॥२१॥ इह जन्मनि भो विप्र न कृतं पापमुल्बणम् । मया राज्यं कृतं भूमेर्भययुक्तेन चेतसा ॥२२॥ तथापि वंध्यजो दोषो मया प्राप्तो महामुने । पूर्वजन्मकृतं पापं ज्ञायते नैव चेतसा ॥२३॥ कथयस्व महोग्रं मे पापं सर्वविदां वर । योगीन्द्रोऽसि महातेजाः साक्षाद्ब्रह्मस्तनोधरः ॥२४॥ वसिष्ठ उवाच । एवं विनययुक्तेन राज्ञा पृष्टो महामुनिः । सौभरिस्तं जगादेदं वचनं गणपप्रियः ॥२५॥ सौभरिरुवाच । कृतं त्वया महत्पापं महाराज विशेषतः । पूर्वजन्मकृतं नैव पापं ते विद्यतेऽधम ॥२६॥ तव राज्ये महामूर्ख चतुर्थीव्रतमुत्तमम् । लयं प्राप्तं विशेषेण व्रतादौ फलदं मतम् ॥२७॥ चतुर्थीव्रतमाद्यं यन्मानवेन नराधम । न कृतं चेद्रुतानीह निष्फलानि भवंति च ॥२८॥ विशेषतस्त्वया कर्म नानापुण्यादिकं कृतम् । चतुर्थीहीनभावेन निष्फलं तद्बभूव ह ॥२९॥ चतुर्विधपदार्थानां दात्री सा वरदा मता । चतुर्विधं तु संकष्टं हरंती संकटी मता ॥३०॥ भुनक्ति राजा पापं राष्ट्रकृतं शास्त्रसंमतम् । जनानां व्रतहीनानां पापभागी भवान् मतः ॥३१॥ अतः पापमयी मूर्तिस्त्वमेवात्र न संशयः । तेन वंध्यत्वमापन्नो नराधम न बुध्यसे ॥३२॥ सौभरेर्वचनं श्रुत्वा कीर्तिमांस्तं जगाद ह । विनयेन समायुक्तो अयभीतश्च पार्थिवः ॥३३॥ कीर्तिमानुवाच । अज्ञानेन कृतं कर्म मया स्वामिन् सुपापिना । कीदृशं तद्व्रतं विप्र मह्यं वद विधानतः ॥३४॥ पुत्रप्राप्त्यर्थमेवं मे वदोपायं महामते । येन पापविहीनोऽहं भवामि पुत्रवान् सुखी ॥३५॥ सौभरिरुवाच । चतुर्थीव्रतमाद्यं त्वं कुरुष्व नृप नित्यदा । जनैः सर्वैस्तदा सर्वपापहीनो भविष्यसि ॥३६॥ अज्ञानेन करोषि स्म पापं ज्ञात्वाऽनुतापवान् । व्रताचरणमात्रेण निष्पापः पुण्यभाग् भवेः ॥३७॥ इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तरात् । ततः सोऽपि महाबुद्धिः पप्रच्छ विनयान्वितः ॥३८॥ कीर्तिमानुवाच ।

पान २६

कीदृशोऽयं गणाधीशो व्रतं यस्य चतुःपदम् । ब्रह्मभूयकरं प्रोक्तं भजिष्यामि विशेषतः ॥३९॥ ततस्तं मुनिशार्दूलः सौभरिः पुनरब्रवीत् । माहात्म्यं गणनाधस्य शांतियोगपदप्रदम् ॥४०॥ सौभरिरुवाच । पुराऽहं तपसा युक्तो नानाछंदपरायणः । अभवं तत्र देवा वै भयभीता बभूविरे ॥४१॥ अहो तपःप्रभावेण जित्वा सर्वं द्विजोत्तमः । किमिच्छति पदं श्रेष्ठं ज्ञायतेऽस्मा- भिरेव न ॥४२॥ प्रेषयामास सस्त्रीकं ततः कामं सुराधिपः । तपोभंगार्थमेवं मे कामस्तत्र समागतः ॥४३॥ उर्वशी- सहिताभिश्चाप्सरोभिर्मधुना तथा । आत्तबाणः स्वयं कामः पीडयामास मां शरैः ॥४४॥ अहं तपःप्रभावेण जित्वा कामं सह स्त्रिया । मोहहीनस्तपस्तत्राऽतपं सुदृढनिश्चयः ॥४५॥ ततो मे तपसोग्रेण दाहयुक्तो बभूव ह । कामः पलाय्य सर्वैस्तं मघवंतं जगाद सः ॥४६॥ ततोऽहं योगमार्गेणांऽतर्निष्ठश्चाभवन्नृप । जडोन्मत्तादिमार्गेषु संस्थितो योगकारणात् ॥४७॥ ततः शुको महायोगी गाणपत्यः समागतः । ममाश्रमे स मां दृष्ट्वा जगादेच्छसि किं मुने ॥४८॥ ततस्तं प्रणतो भूत्वा कृतांजलिः पुरः प्रभोः । स्थित्वाऽवदं सुवाक्यं तच्छृणु राजन् सुसिद्धिदम् ॥४९॥ मम श्रेष्ठेन भाग्येन त्वं प्राप्तोऽसि महायशाः । शांतिं वद महायोगिन् यया शांतो भवाम्यहम् ॥५०॥ श्रीशुक उवाच । चित्तं पंचविधं त्यक्त्वा चित्तं कृत्वा च तन्मयम् । निरोधेनैव भूमीनां शांतिं प्राप्स्यसि निश्चितम् ॥५१॥ चिंतामणिं भजस्व त्वं मंत्रेणैकाक्षरेण च । तेन चिंतामणौ विप्र संचित्तः सुभविष्यसि ॥५२॥ त्यक्त्वा जडादिकं मार्गं शमदमपरायणः । गणनाथं महाभाग भज यत्नेन नित्यदा ॥५३॥ एवमुक्त्वा शुको योगी ययौ स्वेच्छापरायणः । गणेशनाम संकीर्त्य जपंश्चैव विशेषतः ॥५४॥ अहं गणपतिं भक्त्याऽभजं संभक्तिसंयुक्तः । एकाक्षरविधानेनाऽऽस्थाप्य मूर्तिं पुरो नृप ॥५५॥ ततः स्वल्पेन कालेन शांतिं प्राप्तोऽहमादरात् । तथापि पूजने सक्तोऽभजं तं गणनायकम् ॥५६॥ दशवर्षे गते काले विघ्नेशो मां समागतः । मया संपूजितो राजन् स्तुतश्च विविधैः स्तवैः ॥५७॥ गाणपत्यपदं दत्त्वा गतः स्वानंदके पुरे । तदादि गाणपत्योऽहं भजामि ब्रह्मनायकम् ॥५८॥ एवमुक्त्वा स राजानं ददौ मंत्रं विधानतः । षडक्षरं स राजर्षिस्तं प्रणम्य ययौ पुरम् ॥५९॥ स आश्विन्यां द्वितीयायां शुक्लायां तु गृहे गतः । तस्मिन् मासे चतुर्थ्यां च शुक्लायां व्रतमारभत् ॥६०॥ जनैः सर्वैः समायुक्त उपोषणपरायणः । मध्याह्ने गणपं तत्र प्रपूज्य विधिवन्नृपः ॥६१॥ रात्रौ जागरणं चक्रे बालवृद्धसमन्वितः । नरैः स्त्रीभि- स्तद्रुतं च कृतं सर्वैर्यथातथम् ॥६२॥ शुक्लां कृष्णां चतुर्थीं ये न कुर्वंति नराधमाः । ताडनीयाः प्रयत्नेन पृथिव्यां यत्र तत्र सः

॥६३॥ घोषेण घोषयामास ततः सर्वे तथाऽभवन् । व्रतं ततो वै बभूव प्रशस्तं भूमिखंडले ॥६४॥ एवं भूमंडले राज्यं कृत्वा पुत्रे निवेद्य सः । वने गत्वा गणेशानं सस्त्रीको नृप आभजन् ॥६५॥ अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह । तस्य राज्ये स्थिता लोकाः सर्वे स्वानंदगा बभुः ॥६६॥ एवमन्यं दशरथ शृणुष्व त्वं व्रतोद्भवम् । इतिहासं प्रवक्ष्यामि चाश्विन्यां परमाद्भुतम् ॥६७॥ भीमो नाम महाव्याधः पापकर्मपरायणः । मार्गे जनान् निहत्वाऽगृह्य धनं स तुतोष ह ॥६८॥ एकदा वनमध्ये स ब्राह्मणं हंतुमुद्यतः । पलायत द्विजस्तत्र वने भयसमाकुलः ॥६९॥ एतस्मिन्नंतरे तत्राश्वगः शस्त्रधरः पुमान् । धावंश्च ब्राह्मणं दृष्ट्वा भीमं धृत्वा गतः पुरे ॥७०॥ ततो द्विजः सुखेनैव स्वाश्रमं प्रजगाम ह । पुरुषो भीमव्याधं तं राज्ञे दुष्टं न्यवेदयत् ॥७१॥ तत्र सोऽपि क्षुधाविष्टो व्याधः संस्थापितोऽभवत् । राज्ञाऽऽश्विन्यां चतुर्थ्यां वै शुक्लायां दैवयोगतः ॥७२॥ पंचम्यां तं जघानैव ततो व्याधं गजाननः । चतुर्थ्यां क्षुधितत्वात् स ब्रह्मभूतं चकार ह ॥७३॥ एवं नानाजना राजन् चतुर्थीव्रतयोगतः । स्वानंदस्था भवंतीह मया वक्तुं न शक्यते ॥७४॥ चतुर्थीजमिदं चित्रं चरितं कथितं मया । शुक्लाऽऽश्विन्यां समुद्भूतं श्रवणात् सर्वसिद्धिदम् ॥७५॥ शृणुयाद्यः पठेद्वाऽपि भुक्तिं मुक्तिं लभेन्नरः । पुत्रपौत्रादि- संयुक्तः सुहृद्भिर्नृपसत्तम ॥७६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते शुक्लाऽश्विनी चतुर्थी व्रतवर्णनं नामाष्टमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ वसिष्ठ उवाच । कार्तिके मासि शुक्ला या चतुर्थी सर्वसिद्धिदा । तां शृणुष्व महाभाग इतिहास- समन्विताम् ॥१॥ सूर्यवंशोद्भवो राजा सुधन्वा नीतिसंयुतः । शस्त्रास्त्रबलसंयुक्तो बभूव परमद्युतिः ॥२॥ धर्मशीलो वदान्यश्च सत्यवाक् साधुसंमतः । देवविप्रातिथिप्राज्ञपंचयज्ञपरायणः ॥३॥ भार्या कलावती तस्य बभूवे रूपशालिनी । पतिव्रता महोदारा धर्मशीला विशेषतः ॥४॥ जित्वा भूमंडलं सर्वं राजा तेजस्विनां वरः । पालयामास पृथिवीं स नित्यं धर्मपरायणः ॥५॥ सामंता वशगा यस्य सैन्यं स्म गणनातिगम् । संपच्च धनदेनैव तुल्या सर्वत्र संबभौ ॥६॥ अर्द्धायुषा समायुक्तो बभूव नृपसत्तमः । अकस्मात् कुष्ठसंयुक्तः कीतैः संपीडितोऽभवत् ॥७॥ पूयशोणितघर्मौघैर्व्याप्तो दुर्गंधिसंयुतः ।

पान २८

न चाऽलभत् सुखं किंचिच्छूलप्रोतो यथा नरः ॥८॥ औषधानि विशेषेण सिषेवे यत्नसंयुक्तः । नानामंत्रप्रयोगादि कारयामास मानवैः ॥९॥ अनुष्ठानं द्विजैः सोऽपि वेदमंत्रैः सुखप्रदैः । अकारयत्तथा तेभ्यो न फलं चाऽभवत् कदा ॥१०॥ ततस्तीर्थानि बभ्राम स्नानदानपरायणः । तथापि रोगसंयुक्तोऽधिकं राजा बभूव ह ॥११॥ ततो निवृत्तिमापन्नो जगाद सचिवात्नृपः । राज्यं मे परिपाल्यं वै यावदागमनं पुनः ॥१२॥ सांत्वयित्वा स सस्त्रीकः सुहृदः सर्वनागरान् । वनं ययौ नृपश्रेष्ठो बभ्राम यत्र तत्र च ॥१३॥ ततो गणपतिं राजा सस्मार दुःखसंयुतः । विघ्नहीनार्थमेवं स तत्र चित्रं बभूव ह ॥१४॥ अकस्मात् मुनिशार्दूलः पुलस्त्यस्तत्र चाययौ । तं दृष्ट्वा हर्षसंयुक्तो ननाम प्रियया सह ॥१५॥ कृत्वा करपुटं राजोवाच तं मुनिनायकम् । किं पुण्यं मे पुरा चीर्णं येन दृष्टो भवान् मुने ॥१६॥ धन्यं जन्म तथा ज्ञानं जनको जननी च मे । तपो धर्मादिकं सर्वं त्वदंघ्रियुगदर्शनात् ॥१७॥ एवं विवदमानं तं जगाद मुनिसत्तमः । किमर्थं राजनीतिज्ञ वने त्वं च समागतः ॥१८॥ एवं पृष्ट्वा स राजानं वृक्षच्छायासमाश्रितः । पुलस्त्य उपविश्याथ तमुपावेश्य संबभौ ॥१९॥ ततो राज्ञा स्वकीयो वै वृत्तांतः कथितोऽभवत् । जगाद प्रणनामैवं पुनस्तं हर्षसंयुतः ॥२०॥ सुधन्वोवाच । दयाकराश्च योगींद्राः पुराणेषु वदंति यत् । तदेव सत्यमभवत् त्वां दृष्ट्वा दयया युतम् ॥२१॥ दुःखितं मां विदित्वा त्वं संस्थितो मुनिसत्तम । साक्षात् प्रजापतिः प्रोक्तः पुलस्त्यो ब्रह्मणः सुतः ॥२२॥ सर्वज्ञस्त्वं महायोगिन् न्यायं मे वद मानद । धर्मयुक्ततया राज्यं करोमि स्म निरंतरम् ॥२३॥ पूर्वजन्मकृतं मे किं महापापं समागतम् । येनाऽहं कुष्ठसंयुक्तोऽभवं पश्य दयायुतः ॥२४॥ वसिष्ठ उवाच । सुधन्वनो वचः श्रुत्वा तमुवाच महामुनिः । अत्यंतं पीडितं दृष्ट्वा करुणायुतचेतसा ॥२५॥ पुलस्त्य उवाच । इहजन्मकृतं पापं बुद्ध्यसे न नराधम । तेन कुष्ठयुतो जातः शृणु तत्ते वदाम्यहम् ॥२६॥ तव राज्ये नृपश्रेष्ठ व्रतं गाणेश्वरं महत् । नष्टं चतुर्थीसंज्ञं यत् सर्वसिद्धिप्रदं परम् ॥२७॥ चतुर्णां पुरुषार्थानां साधनं सर्वसंमतम् । तेन प्रोक्ता चतुर्थी सा वरदा संकटा मता ॥२८॥ सर्वादौ न कृतं चेद्वै भवेत् सर्वं सुनिष्फलम् । कृतं कर्म नरेणाऽपि चतुर्वर्गविहीनकम् ॥२९॥ वर्णैः सर्वैः कृतं पापं राजानमुपतिष्ठति । तेन त्वं कुष्ठसंयुक्तोऽधुना जातो नराधम ॥३०॥ मरिष्यसि यदा राजंस्तदा ते नरके गतिः । भविष्यति न संदेहश्चतुर्वर्गविहीनता ॥३१॥ पुलस्त्यवचनं श्रुत्वा दुःखयुक्तो महीपतिः । उवाच तं महाप्राज्ञं कृतांजलिपुटोऽभवत् ॥३२॥ सुधन्वोवाच । भगवन् सर्वतत्त्वज्ञ त्वया यत् कथितं वचः । तदेव सत्यरूपं वै मया ज्ञातं न संशयः

खं. ४ अ. ९ पान २९ ॥३३॥ अधुना तद्व्रतं ब्रूहि कीदृशं कस्य पूजनम् । कस्मिन् काले प्रकर्तव्यं सर्वसिद्धिप्रदायकम् ॥३४॥ कुष्ठनाशार्थमेवं मे वदोपायं महाप्रभो । प्रायश्चित्तं करिष्यामि व्रतलोपप्रदोषहृत् ॥३५॥ एवं पृष्टो महायोगी पुलस्त्यो हर्षसंयुक्तः । तं जगाद गणेशाय नम इत्युपसंस्मरन् ॥३६॥ पुलस्त्य उवाच । अज्ञानेन कृतं दोषं प्रायश्चित्तेन हंति तम् । नरस्तस्मात्त्वमेवाशु व्रतं कुरु जनैः सह ॥३७॥ तेन कुष्ठविहीनस्त्वं सुरूपः प्रभविष्यसि । अनुतापाच्च ते राजन् पापं नष्टं न संशयः ॥३८॥ इत्युक्त्वा तं ततो योगी जगाद व्रतसंभवाम् । कथां सर्वां स संश्रुत्य हर्षयुक्तो नृपोऽभवत् ॥३९॥ उवाच तं मुनिश्रेष्ठं प्रणम्य च पुनः पुनः । धन्यं मे जन्म भो नाथ श्रुतं येन महद्व्रतम् ॥४०॥ नानेन सदृशं किंचिन् मया ज्ञातं महामते । त्वत्तो वद महाप्राज्ञ गणेशस्य स्वरूपकम् ॥४१॥ तज् ज्ञात्वा सर्वभावेन भजिष्यामि महामुने । नित्यं भक्तिसमायुक्तो देवदेवेशमादरात् ॥४२॥ एवं पृष्टः स राजानं वचनं प्रजगाद ह । पुलस्त्यः सर्वभावज्ञो गाणपत्यो महायशाः ॥४३॥ पुलस्त्य उवाच । सुधन्वञ्छृणु मे वाक्यं गणेशज्ञानकारकम् । ब्रह्मभूयमयं पूर्णं योगाकारं विशेषतः ॥४४॥ पुराऽहं योगशांत्यर्थं नानायोगपरायणः । असाधयञ्छ्रमेनैव दमेन मनसो जयात् ॥४५॥ तथापि शांतिहीनोऽहं शरणं शंकरं गतः । तं प्रणम्य महात्मानमपृच्छं योगमुत्तमम् ॥४६॥ ततस्तेन समाख्यातं तच्छृणुष्व नराधिप । येन त्वं गाणपत्यश्च साधनेन भविष्यसि ॥४७॥ श्रीशिव उवाच । योगशांतिमयं विद्धि गणेशं भज भावतः । मनोवाणीविहीनं तं मनोवाणीमयं न च ॥४८॥ मनोवाणीमयं सर्वं संप्रज्ञातसमुद्भवम् । गकाराक्षरगं विद्धि पठ्य वेदे महामते ॥४९॥ मनोवाणीविहीनं यदसंप्रज्ञातगं मतम् । णकाराक्षरसंभूतं नाम्नो गणपतेर्यदि ॥५०॥ तयोः स्वामी गणेशानः शांत्या योगेन लभ्यते । चित्तभूमिनिरोधेन तं भजस्व विनायकम् ॥५१॥ एवमुक्त्वा महादेवो विरराम विशेषवित् । तं प्रणम्य वनं गत्वाऽसाधयं तं सुयत्नतः ॥५२॥ अष्टाक्षरेण मंत्रेण ध्यात्वा गणपतिं नृप । अतोषयं विशेषेण चित्तनिग्रहभावतः ॥५३॥ ततः स्वल्पेन कालेन शांतिं प्राप्तोऽहमात्मनि । तथापि मंत्रराजं तमजपं पूजने रतः ॥५४॥ एकविंशतिवर्षेषु गतेषु स विनायकः । आययौ मे वरं दातुं भक्तानुग्रहकारकः ॥५५॥ तं दृष्ट्वा प्रणतो भूत्वाऽपूजयं तु यथाविधि । स्तौमि नामाष्टकेन स्म कौथुमेन महाप्रभुम् ॥५६॥ गाणपत्यं स मां कृत्वा ययौ स्वानंदके पुरे । तदारभ्याहमत्यंतं भजामि गणनायकम् ॥५७॥ एवमुक्त्वा महीपालं तथा दशरथं स्वयं । मंत्रमष्टाक्षरं तस्मै ददौ विधिसमन्वितम् ॥५८॥ तेन स्तुतो महायोगी पुलस्त्योंऽतर्दधे प्रभुः । राजा स्वनगरे गत्वा कार्तिके

पान ३०

हर्षितोऽभवत् ॥५९॥ जनैः सर्वैर्महाभागश्चकार व्रतमुत्तमम् । कार्तिके शुक्लपक्षस्य चतुर्थ्यां गणपं स्मरन् ॥६०॥ पंचम्यां पारणं चक्रे राजाऽसौ जनसंयुतः । ब्राह्मणेभ्यो ददौ दानं सर्वान् अन्नैस्त्वतोषयत् ॥६१॥ ततः कुष्ठविहीनश्च बभूव स जनाधिपः । सुरूपः कामदेवेन समः शोभाधरो बभौ ॥६२॥ लोका वंध्यत्वदोषेण रोगादिभिः प्रपीडिताः । ते सर्वे दुःखहीनाश्च बभूवुर्व्रतसेवनात् ॥६३॥ ततस्तेन नृपेणाऽथ सर्वत्र भूमिमंडले । प्रकाशितं प्रयत्नेन व्रतं गाणेश्वरं नृप ॥६४॥ ततः शुक्लां तथा कृष्णां चतुर्थी चक्रिरे जनाः । तेनाऽऽनंदसमायुक्ता बुभुजुर्विविधं सुखम् ॥६५॥ ततः सुधन्वा स्थाप्य स्वं पुत्रं राज्ये महामतिः । एकांते संस्थितो भूत्वाऽभजत्तं गणपं सदा ॥६६॥ अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह । तथा जनाश्च सर्वे ते स्वानंदस्था बभूविरे ॥६७॥ एवं ते कथितं राजन्नथो शृणु महामते । महिमानं व्रतस्यैव सर्वसिद्धिकरस्य ह ॥६८॥ माहिष्मत्यां च चांडालो वसन् कः पापकारकः । प्राप्य कार्तिकगां शुक्लां चतुर्थी स वने गतः ॥६९॥ तत्र व्याघ्रेण संदृष्टः पलायन् वृक्षमारुहत् । व्याघ्रो वृक्षतले तत्र संस्थितस्तं प्रतीक्षयन् ॥७०॥ तत्र रात्रिर्गता तस्य चांडालस्य प्रजागरः । संपूर्णश्चाभवद्भूष पुनश्चित्रं बभूव ह ॥७१॥ समागतो महासर्पो वनस्थो वृक्षमारुहत् । पपात भयभीतः स तं दृष्ट्वा कंपवेगतः ॥७२॥ व्याघ्रेण संगृहीतः स पंचम्यां भक्षितोऽभवत् । स विमानं समारुह्य ययौ स्वानंदकं पुरम् ॥७३॥ अज्ञातव्रतजेनैव पुण्येन गणपं गतः । दृष्ट्वा योगपरो भूत्वा ब्रह्मभूतो बभूव सः ॥७४॥ एवं नृप अपारा वै चतुर्वर्गफलैर्युताः । ब्रह्मभूताश्च संजाताश्चतुर्थीव्रतकारकाः ॥७५॥ कार्तिके शुक्लपक्षस्य चतुर्थ्या महिमा मया । कथितो लेशतो भूप श्रोतुमिच्छसि किं पुनः ॥७६॥ शृणुयाच्चः पठेद्वाऽपि स वै सर्वार्थसिद्धिभाक् । पुत्रपौत्रादिसंयुक्तः प्रभवेद्गणपप्रियः ॥७७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते कार्तिकशुक्लचतुर्थीवर्णनं नाम नवमोऽध्यायः ॥

खं. ४ अ. १० पान ३१ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । गणेशस्य कथां श्रुत्वा हर्षश्चेतसि जायते । मार्गशीर्षे च या शुक्ला तां मे वद मुने यतः ॥१॥ वसिष्ठ उवाच । अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । मार्गशीर्षे चतुर्थ्यां यः शुक्लायामभवन्नृप ॥२॥ काशीपतिः पुरा राजा पुण्यकीर्तिर्बभूव ह । अजातशत्रुको नाम सर्वशास्त्रविशारदः ॥३॥ देवद्विजातिथिप्रेप्सुर्नाना- धर्मपरायणः । प्रजानां पालने सक्तो यथाशास्त्रेण मानदः ॥४॥ तत्रैव नारदोऽकस्मान्नृपं द्रष्टुं समागतः । तं प्रणम्य महात्मानं पूजयामास भक्तितः ॥५॥ स्वयं पादस्य संवाहं चकार नृपसत्तमः । उवाच तं प्रहर्षेण नारदं सर्वगं परम् ॥६॥ अजातशत्रुरुवाच । धन्यं मे जन्म पुत्रादि राज्यं निहतकंटकम् । धन्यौ च जनकौ ज्ञानं त्वदंघ्रियुगदर्शनात् ॥७॥ सर्वसारं वदस्व त्वं योगशांतिप्रदायकम् । येन संसारदुःखेभ्यो मुच्यते मानवः क्षणात् ॥८॥ ततस्तं नारदो योगी गाणपत्या- ग्रणीर्नृप । जगाद हर्षसंयुक्तो वाक्यं सारमयं हसन् ॥९॥ नारद उवाच । सम्यक् पृष्टं त्वया राजन् सर्वेभ्यो ब्रह्मदं परम् । शृणु ते कथयिष्यामि योगं शांतिप्रदायकम् ॥१०॥ ब्रह्म नानाविधं वेदे वर्णितं पात्रभेदतः । न मुख्यं ब्रह्मभूतत्वं तदेव भवति प्रभो ॥११॥ ब्रह्मणस्पतिनामानं गणेशं भज भावतः । चित्तवृत्तिनिरोधेन चिंतामणिर्भविष्यसि ॥१२॥ गणेशोऽहं न संदेहो मम तत्र कथं भवेत् । संयोगायोगकं राजन् तेन शांतिमवाप्स्यसि ॥१३॥ तस्य व्रतं महाभाग चतुर्थीसंज्ञकं महत् । राज्ये नष्टे च तेन त्वं नारकी प्रभविष्यसि ॥१४॥ धर्मार्थकाममोक्षाणां प्रदं पूर्णं प्रकीर्तितम् । चतुर्थीसंज्ञकं राजन वरदं संकटं मतम् ॥१५॥ नानाकर्माणि कुर्वंति नराः सर्वार्थसिद्धये । चतुर्थीव्रतहीनाश्चेन्निष्फलाः प्रभवंति ते ॥१६॥ इत्युक्त्वा तं महायोगी नारदः करुणायुतः । माहात्म्यं कथयामास चतुर्थीसंभवं नृप ॥१७॥ ततस्तं नृपवर्यः स प्रणम्य भावसंयुतः । पप्रच्छ सर्वमार्गज्ञं गणेशोपासनं पुनः ॥१८॥ अजातशत्रुरुवाच । ब्रह्मणस्पतिमाहात्म्यं श्रुतं मया महामते । तस्योपासनमार्गं मे वद सर्वज्ञ ते नमः ॥१९॥ नारद उवाच । एकाक्षरविधानेन भज ढुंढिं विनायकम् । तेन साध्यो गणेशस्ते प्रत्यक्षश्च भविष्यति ॥२०॥ तस्मै स विधिना सर्वं गणेशोपासनं ददौ । मंत्रमेकाक्षरं सांगं ततश्चांतर्हितोऽभवत् ॥२१॥ तत्राऽऽदौ मार्गशीर्षस्या संप्राप्ता शुक्लगा नृप। चतुर्थी सा कृता तेनोपोषणेन यथाविधि ॥२२॥ जनैः सर्वैस्तथा राजन् कृता सर्वप्रदायिनी । ततस्तेन च सर्वत्र प्रशस्ता सुकृताऽभवत् ॥२३॥ शुक्लां कृष्णां चतुर्थीं ये न कुर्वंति नराधमाः । स्त्रियश्चे- त्ताडनीयास्ते महापापिन एव च ॥२४॥ ढुंढिराजं नृपाध्यक्षो नित्यं संपूज्य यत्नतः । भक्त्याऽभजत् संबभूव योगींद्रो म. पु. ५

खं. ४ अ. ११ | पान ३२ योगिसंमतः ॥२५॥ ततो बहुगते काले प्रत्यक्षः स गजाननः । बभूव तस्य भूपस्य वरं ब्रूहि तमब्रवीत् ॥२६॥ स्तुतः संप्रूजितस्तेन ढुंढिराजस्तुतोष ह । गाणपत्यं चकाराऽसौ नृपं चाजातशत्रुकम् ॥२७॥ ईप्सितं तं वरं दत्त्वा तत्रैवांतरधीयत ढुंढिराजं तमभजत् राजेंद्रोऽनन्यचेतसा ॥२८॥ अंते नागरसंयुक्तो जगाम गणपं नृपः । सर्वैर्बभूव च ब्रह्मभूतो वै योगिसंमतः ॥२९॥ एवं शुक्लचतुर्थ्यां ते मार्गशीर्षेऽभवन् महत् । माहात्म्यं कथितं राजन् संक्षेपेण न संशयः ॥३०॥ अन्यत् कथांतरं भूप शृणु सर्वभयापहम् । वेश्याया व्रतसंयोगाद्ब्रह्मभूयकरं महत् ॥३१॥ मिथिलायां कदाचित् का वेश्या नरविमोहिनी । आगता तां निरीक्ष्यैव मोहिताः सकला नराः ॥३२॥ राज्ञा संमानिताऽत्यंतं तत्र वासमरोचयत् । कदाचित्तीर्थगा सा वै संदृष्टा रक्षसा पुरः ॥३३॥ तां संगृह्य ययौ रक्षः स्ववासं हर्षसंयुतः । सा तं दृष्ट्वा भयोद्विग्ना विललाप भृशातुरा ॥३४॥ रक्षसा सांत्विता तत्र न शोकं साऽत्यजत् कदा । तस्मिन् काले चतुर्थी वै शुक्ला मार्गे समागता ॥३५॥ अतिशोकक्तया राजन्न बभक्ष जलादिकम् । पंचम्यां सा मृता तत्र भययुक्तेन चेतसा ॥३६॥ ततो गणेशदूतेन नीता स्वानंदके पुरे । ब्रह्मभूता च सा जाता व्रतपुण्यप्रभावतः ॥३७॥ अज्ञानेन कृतं चैतत् वरदाख्यं व्रतं महत् । ब्रह्मसायुज्यदं प्रोक्तं किं पुनर्ज्ञानभावतः ॥३८॥ मार्गशीर्षगतायाश्च शुक्लायाः कुरुते नरः । चतुर्थ्या लभते सोऽपि सर्वार्थ संशृणोति यः ॥३९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते मार्गशीर्षशुक्लचतुर्थीवर्णनं नाम दशमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं यन् मार्गशुक्लस्थचतुर्थी संज्ञितं मया । व्रतं तेन महाभाग संतृप्तो गुरुसत्तम ॥१॥ अधुना पौषमासे या चतुर्थी वरदायिनी । तस्या माहात्म्यमेवं मे ब्रूहि त्वं मुनिसत्तम ॥२॥ वसिष्ठ उवाच । शृणु राजंश्च माहात्म्यं संक्षेपेण वदाम्यहम् । विस्तरेण तु को वक्तुं समर्थः प्रभवेद्भुवि ॥३॥ अवंतीनगरीमध्येऽवसत्तु ब्राह्मणोत्तमः । सुदंत इति विख्यातः सर्वशास्त्रविशारदः ॥४॥ राज्ञः पुरोहितः श्रेष्ठः सदा नीतिपरायणः । धर्मशास्त्रानुसारेण राजानमप्यबोधयत् ॥५॥ राजा बृहद्रथो नाम तदाज्ञावशगोऽभवत् । पालयामास भूमिं स नानाधर्मकरः परः ॥६॥

सं. ४ अ. ११ | पान ३३ सुदंतस्याऽभवद्भार्या नाम्ना ख्याता विलासिनी । बभूव कर्मदोषेण वंध्या सा वै पतिव्रता ॥७॥ अपत्यं सुषुवे सा यज्जातमात्रं मृतं भवेत् । तदर्थं व्रतदानादिधर्मं चक्रे च स द्विजः ॥८॥ नाऽभवत्तस्य तदपि पुत्रः परमंसौख्यदः । विप्रोऽतिदुःखितः सस्त्रीको जगाम वनं ततः ॥९॥ बभ्राम भ्रांतचित्तोऽसौ यत्र तत्र महामतिः । मरणे निश्चयं कृत्वा तपोयुक्तो बभूव ह ॥१०॥ तत्राऽऽजगाम योगींद्रो वामदेवः प्रतापवान् । यदृच्छाविचरंस्तेन दृष्टः संनमितोऽभवत् ॥११॥ पूजयित्वा महात्मानं वामदेवं कृतांजलिः । जगाद खेदसंयुक्तः सुदंतो योगिसत्तमम् ॥१२॥ सुदंत उवाच । वामदेव च मे धन्यं दुःखितस्य तपो वयः । ज्ञानादिकं विशेषेण त्वत्पादपद्मदर्शनात् ॥१३॥ वंध्योऽहं मुनिशार्दूल का गतिर्मे भविष्यति । मृतस्य स्वर्ग- हीनस्य वद योगींद्रसत्तम ॥१४॥ वामदेव उवाच । शृणु द्विज महाभाग त्वं सदा धर्मसंयुक्तः । तथापि पापचारी त्वं येन जातः शृणुष्व तत् ॥१५॥ अवंतीपुरपालस्य आदरात्त्वं पुरोहितः । राज्ञा कृतं महत्पापं यत्तदेव त्वया कृतम् ॥१६॥ चतुर्थीव्रतलोपश्च बभूवे भूममंडले । चतुर्वर्गफलैर्हीना जाता भूवासिनो जनाः ॥१७॥ धर्मस्याऽऽचरणं पूर्णं कृतं राज्ञा तथा त्वया । निष्फलं व्रतलोपेन तेन त्वं दुःखितोऽधुना ॥१८॥ एवं श्रुत्वा वचो रम्यं वामदेवस्य धीमतः । विस्मितस्तं सुदंतोऽसौ जगाद विनयान्वितः ॥१९॥ सुदंत उवाच । कीदृशं तद्व्रतं तात वद मे हितकारकम् । चतुर्णां पुरुषार्थानां साधकं कथमाभवत् ॥२०॥ तेन हीनो नरो यस्तु स कथं फलहीनकः । कर्मणस्तत् समाचक्ष्व दयासागर मानद ॥२१॥ वसिष्ठ उवाच । एवं पृष्टो महायोगी तज्जगाद सविस्तरम् । माहात्म्यं सकलं तस्मै स श्रुत्वा विस्मितोऽभवत् ॥२२॥ पुनः पप्रच्छ तं विप्रो हर्षयुक्तेन चेतसा । गणेशज्ञानबोधार्थं गाणपत्यं महामुनिम् ॥२३॥ सुदंत उवाच । कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् । ज्ञात्वा तं प्रभजिष्यामि नित्यं भक्तिसमन्वितः ॥२४॥ एवं पृष्टो महायोगी वामदेवस्तमब्रवीत् । गणेश- बोधदाने स कुशलः सर्वपारगः ॥२५॥ वामदेव उवाच । सुदंत शृणु विप्रर्षे गाणेशं ज्ञानमुत्तमम् । गाणपतयो येन भक्तिभावितो भविताऽसि भोः ॥२६॥ अहं पुरा तपोनिष्ठस्त्वभवं यत्नसंयुक्तः । तपसा मे महाभाग व्याप्तं सर्वं चराचरम् ॥२७॥ ततो मया तपस्त्यक्तं योगार्थं ब्राह्मणोत्तम । शमे दमे परेणांतर्निष्ठेन मनसो जयात् ॥२८॥ योगभूमिक्रमेणाऽहं कालेन महता द्विज । सहजे संस्थितो भूत्वा यत्र तत्राऽचरं तु च ॥२९॥ सहजं मोहहीनं यत् स्वाधीनत्वसमायुतम् । दृष्ट्वा शांत्यर्थ- मत्यंतं तत् त्यक्तं च मया ततः ॥३०॥ संधृतं मनसि ब्रह्म मनोवाणीविवर्जितम् । कथं स्वाधीनता तत्र निर्मोहश्च प्रवर्तते

खं. ४ अ. ११ पान ३४ ॥३१॥ अधुना किं मया कार्यं विचार्य शरणं गतः । शंकरं योगिवंद्यं तं शैवोऽहं प्रणतोऽभवम् ॥३२॥ शैवमार्गे रतं नित्यं दृष्ट्वा हर्षसमन्वितः । शंभुः प्रोवाच मां विप्र स्थीयतां मुनिसत्तम ॥३३॥ किमर्थमागतस्तात वामदेव महामते । वद मे सकलं वृत्तं करिष्यामि प्रियं च ते ॥३४॥ शिवस्य वचनं श्रुत्वा संस्थितोऽहं कृतांजलिः । अवदं तं महादेवं भक्तवाञ्छा- सुरद्रुमम् ॥३५॥ सहजं यत्परं ब्रह्म शैवं स्वेच्छामयं प्रभो । तस्मात् परं न विद्येत तथापि नुद संशयम् ॥३६॥ ब्रह्मणि ब्रह्मभूतस्य स्वेच्छा तत्र कुतो भवेत् । स्वाधीनता दोषयुक्तं सहजं न परं मतम् ॥३७॥ अतः शांत्यर्थमेव त्वामहं प्रष्टुं समागतः । योगशांतिप्रदं पूर्णं वद मां करुणानिधे ॥३८॥ वसिष्ठ उवाच । वामदेववचः श्रुत्वा हर्षितः शंकरोऽब्रवीत् । तं पुनः सर्वयोगज्ञो गाणपत्यस्वभाववान् ॥३९॥ श्रीशिव उवाच । योगशांतिप्रदं पूर्णं गणेशं विद्धि भो मुने । जानीहि न परं ब्रह्म सहजं योगसेवया ॥४०॥ स्वानंदाद्यात् समुत्पन्नमसत्यं सत्यरूपकम् । समं च सहजं विद्धि चतुर्धाऽसौ विभज्यते ॥४१॥ चतुर्णामत्र संयोगे स्वानंदः परिकीर्तितः । अयोगे नैव संयोगः केषांचिद्ब्रह्मणां भवेत् ॥४२॥ गकाराक्षरगं ज्ञानं विद्धि तन्निजबोधतः । णकाराक्षरगं ज्ञानं निवृत्या लभ्यते जनैः ॥४३॥ तयोः स्वामी गणेशानो योगरूपः प्रकीर्तितः । शांत्याऽसौ लभ्यते विप्र शांतिभ्यः शांतिदायकः ॥४४॥ चित्तं पंचविधं विद्धि बुद्धिरूपं न संशयः । चित्ते मोहात्मिका सिद्धिर्माये ते परिकीर्तिते ॥४५॥ तयोर्बिंबं गणेशश्च बिंबिभावं त्यज प्रभो । अधुना गणनाथस्त्वं भविष्यसि न संशयः ॥४६॥ एवमुक्त्वा महादेवस्तस्मै मंत्रं ददौ पुनः । एकाक्षरं गणेशस्य सविधिं करुणायुतः ॥४७॥ तं प्रणम्य महेशानं वने यातोऽहमादरात् । तत्रैव गणनाथं तमभजं भक्तिसंयुतः ॥४८॥ एकाक्षरविधानेन संतुष्टो गणनायकः । योगशांतिं ददौ पूर्णां भक्तवात्सल्यकारणात् ॥४९॥ ततोऽहं योगिवंद्यश्च जातः सर्वत्र संमतः । तथापि विघ्नदहनमभजं नित्यमादरात् ॥५०॥ गतेषु दशवर्षेषु गणाधीशः समाययौ । ममाश्रमं वरं दातुमुवाच घननिःस्वनः ॥५१॥ गणेश उवाच । वामदेव महाभाग वरं वृणु हृदीप्सितम् । तव दास्यामि भक्त्याऽहं संतुष्टो योगिसत्तम ॥५२॥ गणेशस्य वचः श्रुत्वा त्यक्त्वा ध्यानं समुत्थितः । प्रणम्य तं गणेशं संपूज्य स्तोतुं प्रचक्रमे ॥५३॥ वामदेव उवाच । गणेशाय नमस्तुभ्यं सदा स्वानंदवासिने । सिद्धिवुद्धिपते तुभ्यं विघ्नेशाय नमो नमः ॥५४॥ मूषकारूढ हेरंब भक्तवाञ्छाप्रपूरक । ढुंढिराजाय ते देव रक्ष मां ते नमो नमः ॥५५॥ आदिमध्यांतहीनाय लंबोदर नमोऽस्तु ते । आदिमध्यांतरूपाय शंकरप्रियसूनवे ॥५६॥ नानामायाधरायैव

यहाँ प्रस्तुत पृष्ठ का मूल देवनागरी पाठ (लाइन-दर-लाइन) दिया गया है:


[शीर्षक/Header] खं. ४ अ. ११ | पान ३५


[मूल पाठ / Sanskrit Text]

मायिभ्यो मोहदायिने । मायामायिकभेदैस्त्वं क्रीडसे ते नमो नमः ॥५७॥ विष्णुपुत्राय शेषस्य पुत्राय ब्राह्मणाय ते । ब्रह्मपुत्राय सर्वेश सर्वपुत्राय ते नमः ॥५८॥ सर्वेषां चैव पित्रे ते मात्रे सर्वात्मकाय ते । महोदराय देवेंद्रपाय ज्येष्ठाय वै नमः ॥५९॥ महोग्राय महेशाय विष्णवे प्रभविष्णवे । अमृताय तु सूर्याय नानाशक्तिस्वरूपिणे ॥६०॥ पुरुषाय प्रकृतये गुणेशाय गुणात्मने । एकानेकात्मकार्याय विघ्नकर्त्रे नमो नमः ॥६१॥ भक्तेभ्यः सर्वदात्रे ते ब्रह्मणं पतये नमः । योगाय योगनाथाय योगिनां पतये नमः ॥६२॥ स्तौमि किं त्वां गणेशान मनोवाणीविहीनकम् । मनोवाणीमयं नैवातस्ते देव नमोऽस्तु ते ॥६३॥ सहसैवं संस्तुवतस्तस्य भक्तिरसेन च । रोमोद्गमः प्रादुरासीत् कंठरोधो बभूव ह ॥६४॥ उवाच वामदेवं स नृत्यंतं विघ्ननायकः । वरं वृणु महाभाग यत्ते चित्ते स्थितं परम् ॥६५॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं परम् । शृणोति यः पठति चेत्तस्मै योगप्रदं तथा ॥६६॥ भक्तिदं भक्तियुक्तेभ्यः पुत्रपौत्रादिकप्रदम् । धनधान्यप्रदं प्रोक्तं मयि प्रीतिविवर्धनम् ॥६७॥ गणेशवचनं श्रुत्वा तं जगाद महामुनिः । वामदेवः प्रसन्नात्मा ब्रह्मेशं ब्रह्मभावितः ॥६८॥ भक्तिं देहि गणाधीश गाणपत्यां विशेषतः । नान्यं याचे वरं देव यदि तुष्टोऽसि विघ्नप ॥६९॥ तथेति तमुवाचैव गणेशोऽन्तर्दधे स्वयम् । वामदेवः प्रसन्नात्मा गाणपत्यो बभूव ह ॥७०॥ तदादि शांतिमापन्नस्त्वहं विप्र महामते । अतस्त्वं गणराजं तं भज शांतिमवाप्स्यसि ॥७१॥ एकाक्षरं महामंत्रं सुदंताय ददौ ततः । सविधिं वामदेवः सोऽन्तर्धानमकरोन् मुनिः ॥७२॥ सुदंतो विस्मितो भूत्वा ययौ स्वस्थानमुत्तमम् । राज्ञा सम्मानितः सोप्यभजत्तं गणनायकम् ॥७३॥ बृहद्रथाय वृत्तांतं कथयामास भो नृप । तदाज्ञया नृपः सद्यो घोषयामास तद्भुतम् ॥७४॥ तत्रादौ पौषमासे या चतुर्थी शुक्लगाऽऽगता । तां चकार द्विजः सद्यो जनै राज्ञा पुरः स्थितैः ॥७५॥ व्रताचरणमात्रेण गर्भयुक्ता बभूव ह । मुनिपत्नी सुतं लेभे ज्ञानयुक्तं चिरायुषम् ॥७६॥ ततो भूमितले सर्वे चक्रुर्व्रतमनुत्तमम् । शौक्लं कार्ष्णं विशेषेण चतुर्थीसंज्ञितं नृप ॥७७॥ सर्वे रोगादिभिर्हीना जाताः पुत्रादिसंयुताः । धनधान्यादिभिर्युक्ता अंते स्वानंदगा बभुः ॥७८॥ सुदंतो योगिवंद्यश्च बभूवे योगसेवया । राजाऽपि ज्ञानसंयुक्तो गाणपत्यो बभूव ह ॥७९॥ पौषशुक्लचतुर्थीजमेतत्ते कथितं व्रतम् । राजन् सर्वार्थदं पूर्णं पुनस्त्वं शृणु मानद ॥८०॥ वैश्यो मार्गे स्थितः सोऽपि श्रमयुक्तो धनप्रियः । तत्र चोरैः समायातैर्लुंठितं तैर्धनं महत् ॥८१॥ तेषां शस्त्राभिघातेन पपात धरणीतले । वैश्यो वने दुःखितश्च विललाप भृशातुरः ॥८२॥ दैवयोगेन सा देवी चतुर्थी

शुक्लगा गता । पौषी तस्यां जलाद्यैश्च हीनस्तत्र बभूव सः ॥८३॥ रात्रौ जागरणं तस्य संजातं पीडया तदा । पंचम्यां स मृतः पापी धनलुब्धो महामते ॥८४॥ अज्ञातव्रतजेनैव महिम्ना सोऽपि भूपते । स्वानंदे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥८५॥ एवं जना व्रतेनैव मुक्ताः संसारसागरात् । इह भुक्त्वाऽखिलान् भोगान् वर्णितुं तन्न शक्यते ॥८६॥ इदं पौषचतुर्थ्यास्तु माहात्म्यं यः शृणोति चेत् । पठेद्द्वै तस्य भो राजन् सर्वदं प्रहविष्यति ॥८७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते पौषशुक्लचतुर्थीमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । चतुर्थ्या महिमानं च श्रुत्वा हर्षः प्रवर्धते । न तृप्यामि महायोगिन्नमृताधिकं मतम् ॥१॥ माघे शुक्लचतुर्थी या तस्या माहात्म्यमुत्तमम् । वद येन जनाः सर्वे भवंति सुखभोगिनः ॥२॥ वसिष्ठ उवाच । माघी शुक्ला चतुर्थी या तस्यां जातो विनायकः । कश्यपस्य गृहे साक्षादंगारकयुता नृप ॥३॥ मुद्गल उवाच । एवमुक्त्वा वसिष्ठस्तं विनायकचरित्रकम् । कथयामास भो दक्ष देवांतकवधाश्रितम् ॥४॥ श्रुत्वा सोऽपि मुदा युक्तो बभूवाजस्य नंदनः । पुनस्तं प्रेरयामास व्रतार्थं मुनिमादरात् ॥५॥ तस्यादरं स विज्ञाय वसिष्ठस्तमुवाच ह । हर्षेण महता युक्तो गाणपत्येंद्र- सत्तमः ॥६॥ वसिष्ठ उवाच । अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । श्रुतश्चेत् सर्वदः पूर्णो भविष्यति नरोत्तम ॥७॥ कर्णाटे भानुपुर्यां च राजा परमधार्मिकः । देवविप्रातिथिप्रेप्सुर्नरीत्या राज्यं चकार सः ॥८॥ शस्त्रास्त्रज्ञो विशेषेण नाम्ना सोमश्च वीर्यवान् । जित्वा भूमंडलं सर्वं चक्रे सौराज्यमुत्तमम् ॥९॥ भार्या यशोवती तस्य नाम्ना पूर्णपतिव्रता । धर्मशीला रता दाने बभूवे रूपशालिनी ॥१०॥ तस्याऽपि दीर्घकालेन कुर्वतो राज्यमुत्तमम् । अनावृष्टिभवं दुःखं प्राप्तं परमदारुणम् ॥११॥ स तु शौनकनामानं मुनिं सर्वार्थकोविदम् । ययौ दुःखनिवृत्त्यर्थं गाणपत्यं वने पुरात् ॥१२॥ महावनं समासाद्य तं ननाम महामुनिम् । साष्टांगं च पुरस्तस्य कृतांजलिपुटोऽभवत् ॥१३॥ उवाच तं मुनिश्रेष्ठं सोमो विनयसंयुतः । धन्यं मे जन्म कर्माद्यं येन दृष्टो भवान् मुने ॥१४॥ वदंतमेवं राजानमुवाच शौनको मुनिः । सर्वशास्त्रार्थतत्त्वज्ञो न्यस्तस्वपरविभ्रमः ॥१५॥ शौनक उवाच । पुरा राजन् महाभाग वद मां सकलं तव । चेष्टितं यद्वने कस्मादागतो दुर्गमे च मे ॥१६॥ एवं पृष्टो मुनींद्रेण सोमस्तं प्रत्युवाच ह । हर्षयुक्तेन चित्तेन मुनिं वेदज्ञमुत्तमम् ॥१७॥ सोम उवाच । कर्णाटे भानुपुर्यां मे वसतिर्धर्ममिच्छतः ।

खं. ४ अ. १२ पान ३७ अनावृष्टिभवं दुःखं प्राप्तं तत्र महामुने ॥१८॥ धर्मेण नीतियुक्तेन मया राज्यं प्रपालितम् । तथापि पापयोगेन दुःखं प्राप्तं जनैः सह ॥१९॥ तत्रोपायं वदस्व त्वं साक्षाद्योगीश्वरो भवान् । राज्यं त्यक्त्वा वने तेऽद्य शरणं चागतो नृपः ॥२०॥ श्रुत्वा तस्य वचो रम्यं तं जगाद महीपतिम् । शौनको मुनिशार्दूलो विनयेन समन्वितम् ॥२१॥ शौनक उवाच । शृणु राजन् महत् पापं तव राज्ये बभूव ह । तेन रोगयुता लोका वंध्यतादोषसंयुताः ॥२२॥ तत्रापि यन् महद् दुःखमनावृष्टि- समुद्भवम् । संप्राप्तं कारणं तत्र वदामि त्वां नृपाधम ॥२३॥ चतुर्थीसंज्ञकं राजन् व्रतं नष्टं विशेषतः । शौक्लं कार्ष्णं तदर्थं त्वं यत्नयुक्तो भवाधुना ॥२४॥ नो चेद्वर्षसहस्रैस्त्वं सुखं न लभसे कदा । अतः सर्वत्र विख्यातं तद्व्रतं कुरु मानद ॥२५॥ इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तरात् । नृपाय सोऽपि संश्रुत्य विस्मितो मानसेऽभवत् ॥२६॥ पुनः पप्रच्छ भावेन शौनक मुनिसत्तमम् । वद ब्रह्मन् गणेशस्य स्वरूपं शांतिदं परम् ॥२७॥ शौनक उवाच । पुराऽहं तपसा युक्तो नृपाऽतिष्ठं स्वआश्रमे । अंतर्निष्ठस्वभावेन ब्रह्मचिंतनतत्परः ॥२८॥ ततोऽकस्मात् महायोगी भृगुरस्माकमेव सः । बीजभूतः समायात आश्रमेऽनुग्रहाय मे ॥२९॥ तं दृष्ट्वा सहसोत्थाय प्रणतोऽहं महामुनिम् । आसने समुपवेश्याऽपूजयं च स्वभक्तितः ॥३०॥ कृतांजलिपुटं नम्रं पुरस्तस्य महात्मनः । संस्थितं मां ततो दृष्ट्वा सुविनीतमुवाच सः ॥३१॥ भृगुरुवाच । तात किं योग- निष्ठस्त्वं शांतिं प्राप्तो वदस्व माम् । किमिच्छसि महाभाग वद तेऽहं ददामि तत् ॥३२॥ अस्मत्कुले महाभाग भवान् साधुगुणान्वितः । तेनाऽहं तृप्तिमायाततः पूरयिष्यामि वाञ्छितम् ॥३३॥ एवं ब्रुवंतमाद्यं तं मुनिमानम्य शौनकः । जगाद हर्षसंयुक्तो भृगुं योगतपोनिधिम् ॥३४॥ शौनक उवाच । योगशांतिप्रदं पूर्णं ब्रूहि योगं महामुने । तेनाऽहं तृप्तिमत्यंतं यास्यामि त्वदनुग्रहात् ॥३५॥ भृगुरुवाच । योगशांतिमयं विद्धि गणेशं ब्रह्मनायकम् । तं भजस्व विधानेन तेन शांतो भविष्यसि ॥३६॥ चित्तं पंचविधं तात तत्र चिंतामणिः स्थितः। तं ज्ञात्वा ब्रह्मभूताश्चाऽभवन् ब्रह्मादयः सुत ॥३७॥ चित्तेन ज्ञायते यद्वै तत्र मोहः प्रवर्तते । मोहं चित्तं परित्यज्य भव चिंतामणिः स्वयम् ॥३८॥ मनोवाणीमयं चित्तं मनोवाणी- विवर्जितम् । चित्तं जानीहि पुत्र त्वं तत्यक्त्वा च सुखी भव ॥३९॥ एवमुक्त्वा गणेशस्य गणानां त्वा मनुं ददौ । शौनकाय महायोगी भृगुश्चांतर्हितोऽभवत् ॥४०॥ शौनक उवाच । भृगुणेवमहं राजन् उपदिष्टोऽभजं परम् । गणेशं योगभावेन चित्त- निग्रहणे रतः ॥४१॥ क्रमेण योगिवंद्योऽहं जातस्तस्य महात्मनः । कृपया गणराजस्य तथापि स्म भजामि तम् ॥४२॥

[Header] पान ३८

ततो मे वरदो जातो गणेशो भक्तवत्सलः । गाणपत्यं चकाराऽसौ तदहात् गणपोऽभवम् ॥४३॥ एवमुक्तवा स राजेंद्रं गणानां त्वा मनुं ददौ । शौनको मुनिशार्दूलो विधियुक्तं विधानवित् ॥४४॥ शौनकं प्रणनामाऽऽज्ञां गृहीत्वा राजसत्तमः । आययौ स्वगृहे तत्र प्रधानैरभिनंदितः ॥४५॥ नागरैः सह सोमश्च माघे शुक्लचतुर्थिका । संप्राप्ता साऽदिकाले स चकार व्रत- मुत्तमम् ॥४६॥ ततस्तेन प्रविख्यातं कृतं भूमितले नृप । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥४७॥ व्रताचरणपुण्येन वृष्टिस्तत्र बभूव च । सर्वे हर्षयुता लोका गणेशभजने रताः ॥४८॥ गणेशभजनं सोमश्चकार प्रेमसंयुक्तः । गणेशप्रीतये तत्राऽकरोद्देवालयं तथा ॥४९॥ महामौल्यं नृपाध्यक्षः स्थापयामास विघ्नपम् । गणेशं वरदाख्यं सोऽपूजयन्नित्यमादरात् ॥५०॥ पुत्रपौत्रयुतो राजा स चक्रे राज्यमुत्तमम् । लोकाः सर्वे सुखे मग्ना रोगवंध्यत्ववर्जिताः ॥५१॥ स्वधर्मनिरता नित्य- मभजन् गणनायकम् । न गणेशसमं किंचिद्धारयामासुरादरात् ॥५२॥ सोमश्चांते गणेशानं ययौ लोकसमन्वितः । स्वानंद ते प्रणम्याऽसौ ब्रह्मभूतो बभूव ह ॥५३॥ एतत्ते कथितं भूप तथाऽन्यच्छृणु सुंदरम् । चरित्रं व्रतसंभूतं सर्वपापप्रणाशनम् ॥५४॥ कोऽप्यंत्यजो विदर्भे वै कौंडिन्ये नगरेऽवसत् । भानुनामा महापापी दुष्टकर्मपरायणः ॥५५॥ परस्त्रीलंपटोऽत्यंतं मद्यद्यूतरतः सदा । मार्गे जनान् जघानाऽसौ द्रव्यलोभी विशेषतः ॥५६॥ जीवं दृष्ट्वा दुष्टकर्मा जघान स च भूमिप । कार्यहीनतया पापी ब्राह्मणानां वधे रतः ॥५७॥ इत्यादिदोषबाहुल्ययुक्तः परमदारुणः । कदाचिद्दैवयोगेन वने बभ्राम सोऽन्त्यजः ॥५८॥ तस्मिन् दिने समायाता माघी शौक्ली चतुर्थिका । तत्राऽन्नजलहीनोऽयं पर्वतांतरगोऽभवत् ॥५९॥ न प्राप्तवान् वने किंचिद् दुष्टस्तेन सुदुःखितः । क्षुधार्तस्तृष्णया युक्तस्तत्रैव निशि संस्थितः ॥६०॥ प्रभाते विमले सद्यः समुत्थाय गृहागतः । तृषितः स जलं तत्र पपावत्यंतमादरात् ॥६१॥ ततोऽकस्मात् सुदुःखेन वमित्वा तज्जलं नृप । ममार तं गृहीत्वा ते गाणेशा गणपं ययुः ॥६२॥ गणेशदर्शनेनैव निष्पापो ज्ञानसंयुतः । सायुज्यं गणनांथस्य लेभे वै तत्प्रभावतः ॥६३॥ अज्ञान- व्रतजेनैव पुण्येनॉन्त्यजजातिजः । ब्रह्मभूतो महापापी बभूवे सूर्यवंशज ॥६४॥ एतादृशी महापुण्या चतुर्थी शुक्लगा मता । माघी तस्याश्च माहात्म्यं कथितुं न क्षमो भवेत् ॥६५॥ एवं नाना जना भूप ब्रह्मभूता बभूविरे । कथितुं न प्रशक्यं यच्चरित्रं तत्समुद्भवम् ॥६६॥ माघे शुक्लचतुर्थ्यां यो महिमानं शृणोति चेत् । पठेद्वा तस्य भो राजन् सिद्धिदं शुभविष्यति ॥६७॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते माघशुक्लचतुर्थीमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ॥

खं. ४ अ. १३ पान ३९

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । अधुना ब्रूहि मे विप्र माहात्म्यं फाल्गुनोद्भवम् । पुण्यं शुक्लचतुर्थीजं न तृप्यामि कथामृतात् ॥१॥ वसिष्ठ उवाच । फाल्गुने शुक्लपक्षे या चतुर्थी वरदा भवेत् । तस्या माहात्म्यमार्थं ते संक्षेपेण ब्रवीम्यहम् ॥२॥ मालवे नगरं ख्यातं सर्वशोभासमन्वितम् । भारकं सर्वधर्मज्ञैर्लोकैस्तत् संकुलं बभौ ॥३॥ तत्र हेमांगदो राजा चकार राज्यमुत्तमम् । जित्वा भूमंडलं सर्वं शस्त्रास्त्रज्ञो विचक्षणः ॥४॥ प्रधानै राजभिः सर्वैर्मान्योऽभूत् सर्वसंमतः । पुत्रैस्तेजो- युतैर्युक्तो द्विजदेवातिथिप्रियः ॥५॥ ततोऽकस्मात् स राजर्षिः शूलयुक्तो बभूव ह । उदरे शस्त्रसंपातैरिव युक्तो रुरोद ह ॥६॥ नानायत्नाः कृताः सर्वैः शूलनाशार्थमादरात् । मंत्रैश्चौषधिभिः शूलं पिपीडातितरां नृपम् ॥७॥ तीर्थदेवादिकं सोऽपि ब्राह्मणैर्वेदपारगैः । असेवत ततस्तस्य शूलमुग्रं बभूव वै ॥८॥ ततः शूलेन राजाऽतिपीडितो दारुणेन वै । विषादिभि- र्मतिं चक्रे देहत्यागे विशेषतः ॥९॥ ततोऽकस्मान् महायोगी पर्वतः सहसाऽऽगतः । तस्य गेहे तं ननाम स राजा दुःखसंयुतः ॥१०॥ ब्राह्मणैः पूजयामास तं सर्वज्ञं विशेषतः । उवाच दुःखसंयुक्तः शूलपीडां नियम्य सः ॥११॥ हेमांगद उवाच । धन्यं मे जन्म दानादि पिता माता कुलादिकम् । स्वधर्मपुत्रदारादि त्वदंघ्रियुगदर्शनात् ॥१२॥ ततोऽतिपीडया युक्तः पपात धरणीतले । रुरोद दारुणं राजा तत् दृष्ट्वा विस्मितो द्विजः ॥१३॥ पप्रच्छ सचिवान् विप्रो मुनीनां पर्वतो वरः । किमिदं दुःखमुग्रं वै राज्ञा प्राप्तं प्रकथ्यताम् ॥१४॥ सचिवा ऊचुः । शूलमुग्रं बभूवास्यानिवार्यं त्वौषधादिभिः । तीर्थमंत्र- प्रयोगैश्च नानायत्नैर्महामुने ॥१५॥ श्रुत्वा तेषां वचः क्रूरं पर्वतो ध्यानमास्थितः । ज्ञात्वा पापं महायोगी राज्ञः सर्वानुवाच ह ॥१६॥ पर्वत उवाच । शृणु राजंस्त्वदीये यद्राज्ये पापं सुदारुणम् । वर्तते त्वं ततः पूर्णशूलयुक्तोऽसि सांप्रतम् ॥१७॥ चतुर्थ्यास्ते व्रतं मुख्यं राज्ये नष्टं विशेषतः । तेन दोषसमूहेन सजनस्त्वं सुदुःखितः ॥१८॥ पर्वतस्य वचः श्रुत्वा राजा तं हर्षितोऽवदत् । कृत्वा करपुटं भूप विनयावनतो वचः ॥१९॥ हेमांगद उवाच । कीदृशं तद्व्रतं स्वामिन् केन संचरितं पुरा । कस्यैव पूजनं तत्र वद मे सर्वमंजसा ॥२०॥ पर्वत उवाच । सर्वसिद्धिकरं राजन् व्रतं गाणेश्वरं परम् । चतुर्णां पुरुषार्थानां साधनं सर्वसंमतम् ॥२१॥ ततश्चतुर्थीमाहात्म्यं कथयामास विस्तरात् । तेन संहर्षितो राजा श्रुत्वा तं पुनरब्रवीत् ॥२२॥ कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् । ज्ञात्वा तं देवदेवेशं भजिष्यामि विशेषतः ॥२३॥ पर्वत उवाच । पुरा वृत्तं गणेशस्य चरित्रं यन्मया श्रुतम् । तदेव कथयिष्यामि निदाघात् सर्वदं परम् ॥२४॥ अहं तपसि संतिष्ठन्नानायतनपरायणः ।

सं व्याप्तं तपसा सर्वं मदीयेन महामते ॥२५॥ इंद्रः प्रक्षुभितोऽत्यंतं काममप्सरसा युतम् । प्रेषयामास विघ्नार्थं तपसो मे मदान्वितः ॥२६॥ ततः सोऽपि भयोद्विग्नः कामो दाहसमन्वितः । तपसस्तेजसा सत्यं पलायत स सैनिकः ॥२७॥ ततोऽहं तपसा युक्तोऽतन्निष्ठश्चाऽभवं नृप । तपस्त्यक्त्वा महाबाहो शमदमपरायणः ॥२८॥ नानाभूमिपरो जातस्ततोऽतिभाग्य- गौरवात् । निदाघः सहसा तत्राऽऽगतोऽवधूतमार्गवित् ॥२९॥ दृष्ट्वा तं योगिनं पूर्णं प्रणतोऽहं विशेषतः । अपूजयं विधानेन ततस्तं स्म वदामि वै ॥३०॥ धन्यो मे जनको माता तपो धन्यं जनुस्तथा । ब्रह्मभूयप्रदस्याऽपि पादपद्मस्य दर्शनात् ॥३१॥ अधुना वद मे नाथ योगं शांतिप्रदायकम् । येनाऽहं योगिवंद्यश्च भवेयं साधनान् मुने ॥३२॥ वसिष्ठ उवाच । इति पृष्टो महातेजा निदाघस्तमुवाच ह । पर्वतं तपसा शुद्धं प्रहृष्टेनांतरात्मना ॥३३॥ निदाघ उवाच । शृणु वृत्तं मदीयं ते कथयामि पुरातनम् । येन योगींद्र वंद्यश्च जातोऽहं योगसेवया ॥३४॥ अहं योगार्थमत्यंतं योगभूमिपरायणः । असाधयं महायोगं ब्रह्मभूयकरं परम् ॥३५॥ ततोऽतेऽहं सदानंदे समः स्वानंदकेऽभवम् । संस्थितस्तत्र भो राजन् दृष्ट्मानंदरूपकम् ॥३६॥ द्वंद्वैः सर्वत्र संव्याप्तं द्वंद्वे तद् योगरूपि च । तेन शांतिर्गता मेऽभूत्ततो विष्णुं गतोऽभवम् ॥३७॥ तं प्रणम्य महात्मानमवदं वद शांतिदम् । योगं विष्णो महायोगिन् येन शांतो भवाम्यहम् ॥३८॥ विष्णुरुवाच । योगशांतिप्रदं तात गणेशं विद्धि मानद । तं ज्ञात्वा शांतिमापन्ना वयं सर्वे च योगिनः ॥३९॥ मनोवाणीमयं विद्धि गकारं च तयोः परम् । मनोवाणीविहीनं तं णकारं योगिसंमतम् ॥४०॥ तयोः स्वामी गणाधीशस्तं भजस्व विधानतः । ततः शांतिं महाभाग लभसे नाऽत्र संशयः ॥४१॥ एवमुक्त्वा महाविष्णुर्विरराम स्वयं ततः । तं प्रणम्य वने गत्वा योगाभ्यासपरोऽभवम् ॥४२॥ एकाक्षरस्य मंत्रस्य संतुष्टोऽभूद्गजाननः । गतेषु दश वर्षेषु जपेन सहसाऽऽगतः ॥४३॥ ध्यानस्थं मां समालोक्य जगाद वृणु वाञ्छितम् । ततोऽहं तं प्रणम्यैवापूज्य स्तोतुं प्रचक्रमे ॥४४॥ स्तोत्रं यत् सामवेदोक्तं तच्छ्रुत्वा तुष्टिमागतः । योगशांतिं गणेशानो दत्त्वा मे प्रजगाम ह ॥४५॥ तदादि गाणपत्योऽहं जातस्तं प्रभजामि वै । भजस्व गणराजं त्वमतस्तं शांतिदं परम् ॥४६॥ एवमुक्त्वा निदाघः सं ददौ तस्मै महामनुम् । एकाक्षरं विधानेन ततः सोऽंतर्हितोऽभवत् ॥४७॥ पर्वत उवाच । भजामि गणनाथं स्म ततोऽहं नित्यमादरात् । तेनोक्तविधिना राजन् शांतिं प्राप्तो विशेषतः ॥४८॥ अपूजयं हि गणपं ततो नित्यं तपोध्वितः । ततो मां दर्शयामास रूपं योगमयं प्रभुः ॥४९॥ स्तुतः संपूजितो मे स भक्तिं दत्त्वा महामते । स्वानंदे स गतो राजन्

खं. ४ अ. १३ पान ४१ भक्तानंदविवर्धनः ॥५०॥ एवमुक्त्वा पर्वतस्तं ददौ मंत्रं दशाक्षरम् । गणेशस्य महाराज ततश्चांतर्हितोऽभवत् ॥५१॥ राजा सर्वजनैरादौ व्रतं चक्रे स हर्षितः । फाल्गुने भूप शुक्लस्थचतुर्थीसंज्ञकं परम् ॥५२॥ ततो राज्ञाऽपि सर्वत्र कृतो घोषो जनैर्नृप । शौक्लं कार्ष्णं व्रतं भूमौ क्रियतां भावसंयुतैः ॥५३॥ ततः शूलव्यथाहीनो बभूवे राजसत्तमः । दुःखहीना जनाः सर्वे जाता व्रतप्रभावतः ॥५४॥ पुत्रपौत्रादिसंयुक्ता रोगाद्यभिविवर्जिताः । धनधान्यादिभिः सर्वे मुमुदुर्भूम force मुमुदुर्भूमिमंडले ॥५५॥ ततो हेमांगदो राजा भक्त्या विघ्नेशमुत्तमैः । उपचारैः प्रपूज्याऽपि सिषेवे नित्यमादरात् ॥५६॥ पुत्रं राज्ये निधायाऽसौ सस्त्रीकः शांतिसंयुक्तः । गणेशं सर्वभावेनांते च तन्मयतामयात् ॥५७॥ क्रमेण भूमिसंस्था ये नराः स्वानंदगा बभुः । भुक्त्वा भोगान् विशेषेण व्रतपुण्यप्रभावतः ॥५८॥ अधुना शृणु चान्यत्त्वं माहात्म्यं व्रतसंश्रितम् । भाकरे नगरे विप्रो वसद्वै जातिदूषणः ॥५९॥ बाल्यात्प्रभृति तेनैव कृतं कर्म सुदुःखदम् । हिंसादिसंयुतं राजन् चौर्यं क्लेशविवर्धनम् ॥६०॥ परस्त्रीलंपटो नित्यं यौवने सोऽतिदारुणः । पतिव्रता हठेनैव व्रतभ्रष्टाश्चकार ह ॥६१॥ शस्त्रधारी वने गत्वा जंतून् जघ्ने स नित्यशः । द्विजादीन् द्रव्यलुब्धश्च मानवान् मनुजप्रिय ॥६२॥ एवं पापसमाचारो वने कस्मिन् दिने स्थितः । वैश्यं दृष्ट्वा च तं हंतुमधावत् स वधप्रियः ॥६३॥ पलता वैश्यपुत्रेण नादस्तत्र कृतो महान् । तं श्रुत्वा मार्गसंस्थाश्च चत्वारः पुरुषा- ऽऽययुः ॥६४॥ ते धृत्वा राजदूतास्तं ताडयामासुरुल्बणम् । राजानं दर्शयामासुश्चौरं बद्धं जनास्ततः ॥६५॥ राज्ञाऽऽज्ञाप्ताश्च तं तत्राताडयंस्ते द्विजाधमम् । नाविदन् ब्राह्मणं राजंश्क्षिप्तुर्निगडे द्विजम् ॥६६॥ ततः फाल्गुनसंस्था या चतुर्थी शुक्लगाऽऽगता । बद्धस्तत्र निराहारो बभूवे स नराधमः ॥६७॥ पंचम्यां तं मृतं ज्ञात्वा ततो गाणेशकाऽऽययुः । दूता नेतुं द्विजं तत्र व्रतपुण्यप्रभावतः ॥६८॥ स स्वानंदपुरे नीतो गाणपत्यैर्नृपात्मज । तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥६९॥ एवं नाना जनाश्चैव ब्रह्मभूता बभूविरे । तेषां चरित्रकं सर्वं वक्तुं ते न प्रशक्यते ॥७०॥ फाल्गुने वरदायास्तु चरित्रं यः शृणोति चेत् । पठेद्वा तस्य विघ्नेशः सर्वान् कामान् ददाति हि ॥७१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते फाल्गुनशुक्लचतुर्थीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥