भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. ९ अ. ७ पान २५ फलहीनस्वभावेन धर्मं चरति नित्यदा । योगी लोकोपकारार्थं स्वयं ब्रह्मपरायणः ॥१६॥ कदाचित् पूर्वसंस्कारात् पापं तेन कृतं परम् । न तन्न पापयुक्तोऽसौ तदर्थो वर्णितः पुरा ॥१७॥ किमर्थं प्राणिनां योगी दुःखदायकमाचरेत् । पापं पापसमा- युक्तो न भवेन्निश्चितं पुरा ॥१८॥ सर्वत्र गणनांथं स पश्यत्यनन्यचक्षुषा । पुण्येन सुखसंयुक्तं विश्वं भवति तच्चरेत् ॥१९॥ प्रारब्धं योगिनां दक्ष न भवेत् पापकारकम् । पुण्यचेष्टासमायुक्तं तेषां प्रारब्धमंजसा ॥२०॥ योगार्थं धर्मसंयुक्तो ब्रह्मा- र्पणविधानतः । यतते जन्मसु प्राज्ञस्तदा योगी भवेन्नरः ॥२१॥ तस्य प्रारब्धकं दक्ष कुतो दुर्बुद्धिदायकम् । भवति च महायोगी धर्मयुक्तो भवेत् सदा ॥२२॥ अथ योगिजनानां ते स्थितिं वदामि सर्वदा । क्रमयुक्तो यथा योगी भ्रांतो नैव भवेत् कदा ॥२३॥ साधयित्वा महायोगं चित्तनिरोधकारकम् । पंचविधं परित्यज्य चित्तं योगी भवेन्नरः ॥२४॥ चित्ते चिंतामणिं ज्ञात्वा सचित्तः सहसा गतः । तदाकारः स वै योगी तत्र ब्रह्मणि संरतः ॥२५॥ प्रारब्धं योगिनां नास्ति भोगदं शास्त्रसंमतम् । यदा हठयुतो योगी भवेत् प्रारब्धचालकः ॥२६॥ देहपातं प्रकुर्याच्चेदात्महत्यां लभेन्न च । आयुष्रा संयुतो वाऽपि देहं त्यजति निश्चितम् ॥२७॥ तथापि योगसंयुक्तो न देहं त्यजति प्रभुः । न प्रारब्धमतिक्रम्य करोति किंचिदंजसा ॥२८॥ शांतियुक्तस्वभोवन तिष्ठत्यत्र न संशयः । यद्भावि तद्भवत्येव मायामोहविवर्जितः ॥२९॥ देहपातेन किं ग्राह्यं देहरक्षणतस्तथा । रचितं गणनाथेन सदा भवतु तादृशम् ॥३०॥ एवं निश्चित्य चित्तेन शांतियुक्तस्वभावतः । आचरेद्योगसंयुक्तः स्वधर्मे संस्थितां क्रियाम् ॥३१॥ वर्णाश्रमयुतो योगी भवेद्यदि स सर्वदा । तदा स्वधर्मजं कुर्यात् कर्म निःसंगभावतः ॥३२॥ देहः कर्ममयः प्रोक्तस्तस्थोऽकर्मी कुतो भवेत् । व्यवस्थासंभवं कर्म कृतं भवति न ह्यपि ॥३३॥ यदि कर्म परित्यज्य तिष्ठेद्योगपरायणः । तदा देहनिपातेन युक्तो भवेन्न संशयः ॥३४॥ अन्नभक्षणरूपं यद्भवति कर्म निश्चितम् । जागृत्स्वप्नादिकं सर्वं त्यक्त्वा जीवति तत्कथम् ॥३५॥ क्रियतेऽनेन यत्किंचित् सा क्रिया परिकीर्तिता । अतः कर्ममयो देहस्तेन धर्मं समाचरेत् ॥३६॥ देहत्यागे समुद्युक्तो यदि योगी भवेत् प्रभो । सहने द्वंद्वभावस्य न समर्थः स वै स्मृतः ॥३७॥ अशांतिसंयुक्तः सोऽपि योगहीनो यथा नरः । तथा द्वंद्वं समालोक्य सहने न समर्थकः ॥३८॥ गणेशेन कृतं तस्येच्छया सर्वं च यद्भवेत् । भवतु तादृशं सर्वं सहे नित्यं सुशांतिगः ॥३९॥ स योगी शांतिहीनो न प्रभवेत् क्वचिदंजसा । ब्रह्मभूतो महाश्रेष्ठः पावनः सर्वदेहिनाम् ॥४०॥ अतो वर्णाश्रमस्थो यो योगी भवेत् स तत् क्रियाम् ।

ख. १ अ. ७ पान २६

ब्रह्मार्पणतया कुर्याद् हृदि ध्यात्वा गजाननम् ॥४१॥ यदि स्वधर्मसंयुक्तं कर्म नैव समाचरेत् । तमक्रियं समालोक्यान्थे त्यजेयुः स्वधर्मकम् ॥४२॥ अतो लोकोपकारार्थं योगी कर्म समाचरेत् । अन्यान् कर्मयुतान् कुर्यात् स्ववशान् धर्म- पालकः ॥४३॥ सर्वेभ्यश्चाधिको योगी कुर्यात् सत्कर्म धर्मदम् । तादृशं कर्म सर्वेऽपि करिष्यंति विशेषतः ॥४४॥ तेन प्रामाण्यमानंदात् कृतं कर्म प्रजापते । तदेव सर्वलोकाश्च मान्यं कुर्वंति निश्चितम् ॥४५॥ ब्रह्मार्पणतया कर्म बंधदं न भवेत् कदा । ब्रह्मप्राप्तिकरं तस्य फलं प्रोक्तं मनीषिभिः ॥४६॥ योगिभिश्च कृतं कर्म लोकसंग्रहकारणात् । असक्तमनसा नित्यं नैमित्तिकं न बंधदम् ॥४७॥ सदा ब्रह्ममयत्वेन तेन किंचित् कृतं न च । देहस्वभावजो भावो भवेदस्य निरं- तरम् ॥४८॥ अन्यं मार्गं प्रवक्ष्यामि ये निंदंति स्तुवंति तम् । योगिनं पापभोक्तारो भवंति पुण्यभोगिनः ॥४९॥ योगिना यत् कृतं पापं तत् स्प्रष्टुं न क्षमं कदा । निंदकांस्तत् समाश्रित्य प्रतिष्ठेत्तस्य नित्यदा ॥५०॥ योगिना यत् कृतं पुण्यं तदेव तं न संस्पृशेत् । स्तुवतस्तान् समाश्रित्य नित्यं तिष्ठेत् स्वभावजम् ॥५१॥ अतो न योगिनां निंदां कदा कुर्याद्विचक्षणः । सेवां समाचरेत्तेषां तेन सौख्ययुतो भवेत् ॥५२॥ वने यदि स्थितो योगी प्रारब्धेन नियंत्रितः । फलादिकं तत्र भुंजन् शांत्या तिष्ठेत् स नित्यदा ॥५३॥ तत्र निंदाकरास्तस्य तथा सेवाकरा न च । एक एव महायोगी शुभाशुभं समाचरेत् ॥५४॥ तदेव देहपातेऽस्य योगिनश्च मृतं भवेत् । शुभाशुभं निराधारमुपोषणसमन्वितम् ॥५५॥ एतत्ते कथितं दक्ष ब्रह्मीभूतस्य चेष्टितम् । कर्म योगमयं पूर्णं श्रवणाच्छुभदं भवेत् ॥५६॥ अथ योगं प्रवक्ष्यामि ज्ञानात्मकमहं परम् । योगिभ्यः सुखदं पूर्णं शांतियुक्तं विशेषतः ॥५७॥ देहः कर्मात्मकः प्रोक्तस्तत्र योगं समाचरेत् । ब्रह्मार्पणतया कर्म चाचरन् शांति- धारकः ॥५८॥ ज्ञानं स्फूर्तिमयं प्रोक्तं हृदि तिष्ठति सर्वदा । विवेकात्ममयं तत्र ज्ञानयोगं समाचरेत् ॥५९॥ हृदि यच्चद् भवेज्ज्ञानं नानायोगार्थसौख्यदम् । अथवा विषयार्थानां बोधकं तत् स संत्यजेत् ॥६०॥ उत्पत्तिनाशसंयुक्तं ज्ञानं विषयबोधकम् । ब्रह्म सौख्यप्रदं ज्ञानं योगभूमिप्रभावजम् ॥६१॥ उपाधिसंयुतं चैकमनुपाधियुतं परम् । तच्च्यक्त्वा योगसंयुक्तो भवेद्योगी महायशाः ॥६२॥ ज्ञानानां सकलानां च योगे ज्ञानमयः स्मृतः । योगस्तत्र भवेल्लीनो ब्रह्मीभूत- स्वभावतः ॥६३॥ ब्रह्मणि ब्रह्मीभूतोऽहं मम ज्ञानं कुतो भवेत् । नानाभ्रांतिकरं हृत्स्थं त्यक्त्वा ब्रह्मपरो भवेत् ॥६४॥ अनेन विधिना सर्वं ज्ञानं त्यक्त्वा हृदि स्थितम् । शांतियुक्तः स्वयं योगी तिष्ठेद्ब्रह्मपरायणः ॥६५॥ न कर्ताऽहं कदाचिद्वै कारयिता

खं. ९ अ. ७ पान २७ न निश्चितम् । मायामोहयुता मां ते वदंति कर्मकारिणम् ॥६६॥ अहं साक्षी शरीरस्य यद्देहेन कृतं भवेत् । तन्मया न कृतं क्वापि ब्रह्माहं परतः परः ॥६७॥ यद्यत् स्फूर्तिर्भवेन् मे वै सा माया भ्रांतिदायिका । न तस्यां संस्थितो जीवः सदा साक्षिस्वभावतः ॥६८॥ न मोहेन समायुक्तो न कदा मोहवर्जितः । मायया मां वदंत्येव ह्ययोगिनो न संशयः ॥६९॥ एवं सदा महायोगी साक्षिवत्संस्थितो भवेत् । हृदयज्ञानयोगस्थस्त्यक्त्वा स्फूर्तिभवं भ्रमम् ॥७०॥ सर्वत्र रसहीनं यन् मनस्तस्य महात्मनः । शांत्या युक्तं भवेद्दक्ष ब्रह्मीभूतस्य नित्यदा ॥७१॥ एष ते कथितो योगो ज्ञानात्मको विशेषदः । साक्षिवद्देहसंस्थः स मया तिष्ठति लेशतः ॥७२॥ अतः परं समं योगं शृणु स्थितिपरायण । यं ज्ञात्वा ब्रह्मभूतो यः शांतिहीनो भवेन्न सः ॥७३॥ देहः कर्मत्रयस्तत्र कर्मयोगं समाचरेत् । मनो विवेकरूपं तु साक्षित्वं तत्र संचरेत् ॥७४॥ अहं ब्रह्म यदा दक्ष कुतस्तत्र भवेदिदम् । द्वंद्वरूपं विशेषेण तस्य वक्ष्यामि रूपकम् ॥७५॥ देहः कर्ममयः प्रोक्तो विवेकः कर्मवर्जितः । द्वंद्वं ज्ञात्वा महायोगी समयोगं समाचरेत् ॥७६॥ देहे कर्ममयोऽहं तु हृदि साक्षी तथाऽमलः । उभयोर्योग- भावेन भवति किंचिदंजसा ॥७७॥ यदा विवेकहीनश्चेत् देहः किं तु करिष्यति । देहहीनं मनस्तद्वज्ज्ञानदं कस्य वा भवेत् ॥७८॥ आनंदमयभावेन संस्थितोऽहं तदात्मकः । उभयत्र ततः स्वस्वव्यापारं कुरुतः परौ ॥७९॥ देहे कर्ममयोऽहं वै हृदि विवेकधारकः । द्विविधां रच्यतां मायां सदानंद Robertoधर्मगः ॥८०॥ तयोः समानभावेन संस्थितोऽहं न संशयः । अनुपाधेरुपाधेश्च वर्जितो ब्रह्मसंज्ञितः ॥८१॥ अतः समं समाश्रित्य बाह्यांतरैकभावतः । यादृशं संस्थितं ब्रह्म तादृशं तत्र चाचरेत् ॥८२॥ देहे कर्मकरो भूत्वा हृदि साक्षिमयो भवेत् । उभयं तत् परित्यज्यानंदावस्थां समा- चरेत् ॥८३॥ यद्यदुभयभावाख्यं नानाभेदमयं परम् । तत्र योगमयो भूत्वा तिष्ठेदानंदसंयुतः ॥८४॥ आनंदानां समायोगे ब्रह्मानंदः प्रकीर्तितः । उभयेषां प्रजानाथ तादृशं चाचरेद्बुधः ॥८५॥ मदीयसंयोगेनोभयं प्रवर्तते सदा । उभयं चाचरेत् सर्वमुभाभ्यां वर्जितोऽपि सः ॥८६॥ इयमानंदरूपाख्या कथिता योगिभिः पुरा । ब्रह्मीभूतः समास्थाय तिष्ठेत्तां शांति- संयुतः ॥८७॥ अतः परं प्रजानाथावस्थां शृणु सुखप्रदाम् । सहजाख्यां महायोगी चाचरेत्तां विशेषतः ॥८८॥ देहः कर्म- मयः प्रोक्तस्तत्र योगं समाचरेत् । ब्रह्मार्पणतया नित्यं कर्मणां योगिसत्तमः ॥८९॥ हृदि साक्षिस्वभावेन तिष्ठेत्तयोः परे ततः । समभावं समाश्रित्य त्रिषु त्रैधं प्रकीर्तितम् ॥९०॥ तेषु विस्मृतिभावेन भ्रांत्या वा विस्मृतं भवेत् । विपरीतं

भवेद्वाऽपि ततः खेदं न धारयेत् ॥९१॥ त्रिविधं मायया युक्तं पराधीनं प्रकीर्तितम् । तुर्यं स्वाधीनरूपाख्यं प्रोक्तं शास्त्रेषु सर्वदा ॥९२॥ तुर्येच्छया त्रिधा भूतं चलत्यत्र न संशयः । स्वस्वप्रारब्धसंयुक्तं सदा भ्रांतमिव स्थितम् ॥९३॥ न कस्याहं- कृतिस्तस्य तुरीयस्य कदाचन । यादृशं कुरुते कर्म तादृशं फलमश्रुते ॥९४॥ अतः प्रारब्धयोगेन विस्मृतोऽहं स्थितिं पराम् । योगरूपां च तुर्येण प्रेरितः सर्वधारिणा ॥९५॥ अथवा ज्ञानमोहेन विपरीतं कृतं मया । त्यक्त्वा योगस्थितिं पूर्णां प्रारब्धं तत्र मुख्यकम् ॥९६॥ प्रारब्धधारकं प्रोक्तं तुरीयं नात्र संशयः । तस्येच्छया च यज्जातं तदेवं योगदं भवेत् ॥९७॥ पराधीनो- ऽहमत्यंतं तुर्येच्छया समन्वितः । करोमि कर्म साक्षित्वमानंदं वा न संशयः ॥९८॥ सदा स्वाधीनभावेन तिष्ठति ब्रह्म तुर्यगम् । तुरीयैः खेलकं प्रोक्तं तस्य किं बंधनं भवेत् ॥९९॥ यज्जातं तत्कृतं तेन तुरीयेण न संशयः । तत्र कुत्र स्थितोऽहं तु स्वेच्छया क्रीडति प्रभुः ॥१००॥ इयं तु सहजावस्था कथिता ते प्रजापते । यज्जातं तन्न सा प्रोक्ता न कृता तदपि ह्यहो ॥१॥ यत्कृतं सह जातेन स्वयमेव प्रवर्तते । योगस्तेन समाख्याता सहजा तुर्यसंज्ञिता ॥२॥ अतः परं ब्रह्मभूतं स्वानंदाख्यं प्रकीर्तितम् । तत्र योगस्वरूपाख्यां स्थितिं शृणु सुखप्रदाम् ॥३॥ स्वाधीनं तुर्यभावाख्यं पराधीनं त्रिधा मतम् । तेषां योगे निजात्मस्थो भवेद्योगी निजात्मसु ॥४॥ त्रिविधं खेलरूपं तु तुर्यः खेलक उच्यते । तयोर्योगे प्रजानाथ स्वानंदस्थो भवेन्नरः ॥५॥ ब्रह्मणि ब्रह्मभूतस्य योगिनश्च कुतो भवेत् । स्वाधीनं तु पराधीनं मायायुक्तं न संशयः ॥६॥ योगस्थितिं समाश्रित्य बुधश्चत्वारि चाचरेत् । तेषां संयोगरूपेण तिष्ठेत्तेषु महात्मवान् ॥७॥ कर्मयोगं समाश्रित्य देहचेष्टां समाचरेत् । ज्ञानयोगं तथाऽऽश्रित्य साक्षित्वं चाचरेत् बुधः ॥८॥ समयोगं समाश्रित्य आनंदं आचरेत् परम् । सहजं स समाश्रित्य विपरीतेन शोकभाक् ॥९॥ चतुर्भिः संयुतो भूत्वा चतुर्भिर्वर्जितस्तथा । तिष्ठेद्योगमयीं दक्षावस्थामाश्रित्य सर्वदा ॥११०॥ अवस्था निजरूपे तु कुतोऽवस्थाप्रधारकः । तयोर्योगे योगमयी व्यवस्था ते प्रकीर्तिता ॥११॥ चतुर्मयी चतुर्हीना योगावस्था प्रकीर्तिता । योगिभिस्तां समाश्रित्य शांतिहीनो भवेन्न सः ॥१२॥ अधुना शृणु योगस्थामवस्थां द्वितीयां पराम् । अयोगधारिकां पूर्णां सदा निवृत्तिदायिकाम् ॥१३॥ ब्रह्मणि ब्रह्मभूतो यो योगी तां संश्रयेत् पराम् । यदा निवृत्तिसंयुक्तः शांतिहीनो भवेन्न सः ॥१४॥ ब्रह्मणि ब्रह्मसंस्थं तन्नागतं न गतं पुनः । मायायां ब्रह्मभूतो योऽवस्थाया धारकः कुतः ॥१५॥ यत् कुर्यात् कारयेच्च तत्र नैवावलोकयेत् ।

खं. ९ अ. ७ पान २९ मायामयं विनिश्चित्य पंचकं पंचकेषु गम् ॥१६॥ नाहं पंचकगश्चैवै तत्स्तकृतमंजसा । कुतो मयि प्रदृश्येताधार्यनिवृत्तिगो भवेत् ॥१७॥ जीवनं मरणं जन्म योगो योगात्मिका परा । अवस्था मे कुतो मायामोहयुक्तं स्मृतं बुधैः ॥१८॥ अथ योगमयीं पूर्णामवस्थां शृणु मानद । संयोगायोगहीनां तां यथा शांतो भवेन्न सः ॥१९॥ ब्रह्मणि ब्रह्मभूतोऽहं मयि मायामयं परम् । पंचकं च कुतो भाति मायाहीनमयोगकम् ॥२०॥ विधिनिषेधसंयुक्तं चित्तं भवति सर्वदा । विधिनिषेधहीनं तु तदेवं जायते मुधा ॥२१॥ देहेन कर्मयोगश्च ज्ञानगो हृदि जायते । उभयत्र समश्चैव तुर्येषु सहजात्मकः ॥२२॥ सर्वसंयोगभावेषु स्वानंदाख्यः प्रवर्तते । निवृत्तिषु ह्ययोगाख्यो योगेषु शांतियोगकः ॥२३॥ एवं नानाविधं योगं समास्थाय महामतिः । योगी शांत्या समातिष्ठेद्ब्रह्मभूतोऽपि निश्चितम् ॥२४॥ योगस्थितिः समाख्याता ब्रह्मभूतसुखप्रदा । अनेन विधिना देहनिर्वाहो योगिनां भवेत् ॥२५॥ वर्णाश्रमस्थितो योगी चाचरेत् स्थितिमुत्तमाम् । लोकसंग्रहकार्यार्थमसक्तस्तत्फलादिषु ॥२६॥ यदा वर्णाश्रमं त्यक्त्वा पंचमाश्रमधारकः । न तस्य स्थितिरूपं तु कदाचिन्नात्र संशयः ॥२७॥ विधिनिषेधहीनोऽयं विनायको भवेत् सदा । यद्यत् कुर्यात् स तत् सर्वं योगरूपं भवेत् सदा ॥२८॥ यदि स्थितिसमायुक्तो वेदादिषु प्रमाणतः । तदा विधियुतः सोऽपि भवेत् पश्य प्रजापते ॥२९॥ यदा स्थितिविहीनोऽयं तिष्ठेत् संकथितं परम् । वेदेषु स निषेधेन तदा युक्तो भवेत् परः ॥३०॥ अतः स्थितियुतो योगी स्थितिहीनो यथारुचि । वर्णाश्रमान् परित्यज्य तिष्ठेद्विनायको यथा ॥३१॥ शांत्या नित्यं चरेत् सर्वं मनसीप्सितमंजसा । विधिनिषेधहीनश्च ब्रह्मणि रसधारकः ॥३२॥ एतत् सर्वं समाख्यातं योगिनां चेष्टितं महत् । ब्रह्मभूतात् परं पूर्णं चरेदेवं निरंतरम् ॥३३॥ शृणुयाद्यः पठेद्वाऽपि स सर्वं हीप्सितं लभेत् । अंते योगमयो भूत्वा तिष्ठेत् स गणपे रतः ॥३४॥ ॥ ॐ तत्सदिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे योगस्थितिवर्णनयोगो नाम सप्तमोऽध्यायः ॥ इति योगगीतासूपनिषत्सु सुगमासु तृतीयोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । योगशांतिं समाश्रित्य योगमभ्यस्य नित्यदा । ब्रह्मणि ब्रह्मभूतः स योगभ्रष्टः कथं भवेत् ॥१॥ मायामयं जगत् सर्वं नानाभ्रमसमन्वितम् । ज्ञात्वा स्वयं पुनर्भ्रष्टः कौतुकं वद मे मुने ॥२॥ मुद्गल उवाच । ब्रह्मणि ब्रह्मभूतस्य योगिनो बिंबसंस्थितम् । बुद्धौ तस्यां विमोहेन मोहयुक्तं प्रजापते ॥३॥ दृष्ट्वा नानाविधान् भोगान् स्वयं मोहेन मोहितः । तेषु भूत्वा रसयुतो तानिच्छति निरंतरम् ॥४॥ तत्र तस्य हृदि दक्ष विवेकः संस्थितो भवेत् । तस्य रूपं प्रवक्ष्यामि शृणु बुद्धिविशारद ॥५॥ अहं ब्रह्मणि योगेन ब्रह्मीभूतो न संशयः । पापपुण्यादिकं मे न शुभा- शुभकृते भवेत् ॥६॥ यदा भोगं परित्यज्य तिष्ठामि नित्यमादरात् । तदा योगस्य वृद्धिर्मे न भविष्यति निश्चितम् ॥७॥ यदा नित्यं प्रभूंजाने भोगान्नानाविधान् परान् । पापपुण्यमनादृत्य तदा योगक्षयो न च ॥८॥ अतोऽहं योगमुत्सृज्य किमर्थं दुःखसंयुतः । तिष्ठामि शांतिमाश्रित्य विधिनिषेधसंयुतः ॥९॥ एवं मनसि संधार्य योगी भोगेषु लालसः । विविधेष्वेव भवति रसयुक्तः क्रमेण सः ॥१०॥ अयं मोहः समाख्यातो योगिहृद्भ्रांतिदायकः । तेन शांतिं परित्यज्य पापपुण्यपरो भवेत् ॥११॥ ततः कामं समाश्रित्य देहसौख्यप्रदायकम् । इच्छेत् स विविधान् भोगान् पुण्यपापपरायणः ॥१२॥ भोगार्थं यतमानस्य योगिनः क्रमभावतः । तत्र विघ्नः कृतः केन ततः क्रोधयुतो भवेत् ॥१३॥ येन विघ्नः कृतस्तेषु भोगेषु तस्य भोगिनः । तं शत्रुं स हि जानाति भिन्नभावपरायणः ॥१४॥ ततो ह्यज्ञानसंभूतिः क्रमेणोत्पद्यते परा । योगिनश्च तया युक्तो हंतुं तं यतते सदा ॥१५॥ शत्रुशिक्षार्थमर्थान् स नानाभावसमन्वितः । संपाद्य तं तु निर्जित्य भोगान् भुंक्ते प्रयत्नतः ॥१६॥ स्वपरज्ञानहीनत्वं गतं तस्य प्रजापते । तदेवाज्ञानसंभूतिः शत्रुमित्रप्रदर्शिनी ॥१७॥ ततः शांतेः क्रमेणास्य विस्मृतिर्जायते परा । तया युतः स्वयं देहं मन्यते सत्यरूपकम् ॥१८॥ देहे संतोषमापन्ने कृतकृत्यमिव स्थितम् । मन्यते विपरीते स आत्मानं भाग्यवर्जितम् ॥१९॥ ततो योगं परित्यज्य स्वयं बिंबी प्रजायते । बिंबे तन्मयभावेनागमिष्यति न संशयः ॥२०॥ एवं क्रमेण योगी स शांतिहीनस्वभावतः । सदा तिष्ठति तं योगं नाश्रयते कदाचन ॥२१॥ सुखयुक्ते शरीरे स सुखयुक्तो भवेत् स्वयम् । दुःखयुक्ते तथा दुःखी नानाभावपरायणः ॥२२॥ लेशमात्रमयं शांतिं लभते न कदांचन । असंतोषयुतो नित्यं भ्रमते भोगलिप्सया ॥२३॥ भोगार्थं विविधान्येव नित्यं पापानि चादरात् । चरते सर्वपुण्यानि विधिनिषेधवर्जितः ॥२४॥ वर्णाश्रमयुतो योगी स्वधर्मं त्यज्य नित्यदा । पापं चरति वा पुण्यं स्वधर्मैः संयुतः कदा ॥२५॥

खं. ९ अ. ८ पान ३१ योगान् भुंक्ते विशेषेण मोहयुक्तो निरंतरम् । योगभ्रष्टोऽयमाख्यातस्त्यक्त्वा योगं नरो भवेत् ॥२६॥ हृदि तस्य विवेकश्च सदा तिष्ठति मोहदः । पुण्यपापविहीनोऽहं ब्रह्मैव ब्रह्मभावितः ॥२७॥ अंते स नरकान् गच्छेदू द्वंद्वदुःखप्रदायकान् । यातनां घोररूपां तु पतेद्भुक्त्वा धरातले ॥२८॥ दक्ष उवाच । योगभ्रष्टगतिं ब्रूहि योगींद्र दयया पराम् । कथं नरकगो भूत्वा यातनां प्राप्नुयात् परम् ॥२९॥ कर्मफलपरित्यागादिहजन्मधरः कथम् । संभवेदद्विस्मयो भाति चेष्टितं योगिनः परम् ॥३०॥ मुद्गल उवाच । ब्रह्मणि ब्रह्मभूतस्य पुनर्विषयसेवनात् । ब्रह्मणो भक्तिहीनस्यांते स्थानं न भवेत् किल ॥३१॥ अपारपुण्य- योगेन ब्रह्मणि देहिनः कदा । रसोत्पत्तिर्भवेद्दक्ष सर्वश्रेष्ठस्य योगदा ॥३२॥ देहविषयसंयोगाद् द्वंद्वभावपरात्मनः । नानापापादियोगेन पुण्यं स्वल्पं प्रहीयते ॥३३॥ मृतोऽयं शिवलोके वै वैकुंठे सौरशाक्तयोः । ब्रह्मण इंद्रलोके वा पतेदंते न संशयः ॥३४॥ शोकहर्षप्रदं विश्वं नानाद्वंद्वसमन्वितम् । नरको नात्र संदेहो योगिनां शास्त्रसंमतम् ॥३५॥ उत्पत्तिनाश- संयुक्तं त्यक्त्वा ब्रह्मपरायणः । ब्रह्मणि ब्रह्मभूतः स पुनर्द्वंद्वपरो यतः ॥३६॥ वैकुंठादिपदे संस्थो द्वंद्वं भुंक्ते निरंतरम् । उत्पत्तिनाशसंयुक्तं नानाभोगपरायणः ॥३७॥ अतो योगी प्रजानाथ स्वर्गारुह्यान्रकान् परान् । भुक्त्वा द्वंद्वमयान् पश्चादिह जन्मधरो भवत् ॥३८॥ भवेद्योगिकुले तस्य जन्म वा तापसे कुले । ऋद्धिमतां स तत्रापि पुनर्योगं चरिष्यति ॥३९॥ पूर्वसंस्कारयोगेन न भोगे स रमेत् कदा । चित्तं तस्य महायोगी प्रभवेत् स्वल्पयोगतः ॥४०॥ पुनर्न योगभ्रष्टः स संभवेद्ब्रह्मणः सुत । शांत्यायुक्तस्वभावेन शरीरं पोषयेन् मुदा ॥४१॥ अंते ब्रह्मणि योगी स तदाकारो भवेत् परम् । योगसंस्कारपुण्येन स्थितिं लब्ध्वा महामतिः ॥४२॥ एतत्ते कथितं पूर्णं योगभ्रष्टस्य चेष्टितम् । किं पुनः श्रोतुमिच्छा ते वद धातर्वदाम्यहम् ॥४३॥ ॥ ॐ तत्सदिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे योगभ्रष्टचरितनिरूपणं नाम अष्टमोऽध्यायः ॥ ॥ इति योगगीतासूपनिषत्सु सुगमासु चतुर्थोऽध्यायः ॥

खं ९ अ. ९ पान ३२ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । चित्तं चंचलमप्यंतं विषयेषु परायणम् । दुर्ग्रहं शांतिसंयुक्तं न भवेन् मुनिसत्तम ॥१॥ अतो योगस्य प्राप्त्यर्थं सिद्ध्यर्थं सुगमं ततः । उपायं वद चित्तस्य जयार्थं वाऽपरं प्रभो ॥२॥ मुद्गल उवाच । पंचचित्तेषु यद्बिंबं स्थितं भ्रांत्या समन्वितम् । चिंतामणेः समाख्यातं तस्यैव भजनं चरेत् ॥३॥ तेन चित्तं जयेद्योगी नान्यं पश्यामि भो विधे । विना चित्तजयं योगदायकं नात्र संशयः ॥४॥ दक्ष उवाच । सुगमं वद मार्गं मे सर्वेभ्यो ब्रह्मदायकम् । संसेव्य जंतवः सर्वे ब्रह्मीभूता भवंति वै ॥५॥ मुद्गल उवाच । अज्ञानेन समायुक्तो नरो विषयलंपटः । शिश्नोदरपरो नित्यं योगं नेच्छति कर्हिचित् ॥६॥ तस्य सकामिकं कर्म सुखदं बोधयेत् परम् । अलभ्यप्रापकं हृद्यमाचरेल्लोभसंयुतः ॥७॥ अलभ्यलभ्यलोभेन त्यक्त्वा पापं महाखलः । सत्कर्मनिरतो भूत्वा चरेत् पुण्यं निरंतरम् ॥८॥ ततस्तेनैकभावेन पापं नश्येन्निरंतरम् । शुद्धोऽत्यंतं नरः कुर्यात् कर्म कामयुतं परम् ॥९॥ समाप्नुयात्ततोऽलभ्यं हृद्यं चेत् पुनरेव सः । विश्वासेन समायुक्तः कुर्यात् कर्म विशेषतः ॥१०॥ अथवा नैव संप्राप्तमलभ्यं तेन तं तदा । उपादिशेद्विशेषेणाधिकं सत्कर्म चाचर ॥११॥ अनंतजन्मभिः पापं त्वया कृतमसंशयम् । अपारमंतरायो भवति ते तद्विघातकम् ॥१२॥ एवं कर्मपरः सोऽपि दुःखितो- ऽत्यंतमाचरेत् । पापनाशार्थमानंदात्तेन शुद्धांतरो भवेत् ॥१३॥ सकामिकपरस्यास्य कर्मात्यंतप्रभावतः । तस्य बुद्धिर्भवेत् दक्ष निःकामिकपरायणा ॥१४॥ जन्ममृत्युप्रदा भोगा भुक्ता विविधजन्मसु । अपारसुखदं ब्रह्म न प्राप्तं देहधारिणा ॥१५॥ अलभ्यं न मया प्राप्तं प्रारब्धाधीनतोऽथवा । प्रारब्धं चालितुं कोऽपि न समर्थो भविष्यति ॥१६॥ अतो निःकामिकं कर्म करोमि नित्यमादरात् । जन्ममृत्युविहीनोऽहं भविष्यामि न संशयः ॥१७॥ ब्रह्मसुखमपारं यल्लब्ध्वा ब्रह्मपरायणः । ब्रह्मीभूतो भविष्यामि यत्नं करोमि तत्परः ॥१८॥ एवं धार्य परित्यज्य कामान् सेवेत् स पंचकान् । देवान् गणेशमुख्यांश्च मुक्तिमार्गपरायणः ॥१९॥ सालोक्यादिभवं सौख्यमिच्छति नित्यमादरात् । क्रमेण तपसा युक्तो प्रभवेन् मानवस्ततः ॥२०॥ विभूतिर्ब्रह्मणः प्रोक्ता नानारूपा प्रजापते । तत्र तस्य रमेच्चित्तमैश्वर्यैर्युक्तभावतः ॥२१॥ इमे समर्थरूपा वै ब्रह्मणः परमात्मनः । अंशतेजोधरास्तस्य सर्वाधीशा भवंत्यतः ॥२२॥ एवं सर्वत्र संचिंत्य तेषां पूजापरो भवेत् । लभेत्तत् कृपया दक्ष चित्तशुद्धिं नरोत्तमः ॥२३॥ विचारेण गणेशानं ज्ञात्वा संपूर्णमंजसा । सर्वपूज्यादिचिह्नैस्तं श्रेष्ठं तत्र रतो भवेत् ॥२४॥ ज्ञात्वा स्वानंदनाथं तं स्वानंदार्थं विशेषतः । प्रभजेद्गणराजं स निष्कामभक्तिसंयुक्तः ॥२५॥ ततोऽहर्निशमत्यंतं

भजेत्तत्तपसा युतः । मोक्षार्थं सर्वभावेन विरक्तो विषयादिषु ॥२६॥ गणेशकृपया तस्य चित्तशुद्धिर्भवेत् परा । तया सर्वस्वभावेन भजेत्तं गणनायकम् ॥२७॥ विश्वं चराचरं सर्वं जानीयात्तत्स्वरूपकम् । सर्वेषां हितभावेन भजेत्तं द्विरदाननम् ॥२८॥ कस्यापि संभवेत् दुःखं तादृशं प्रचरेन्न सः । सहन् सन् द्वंद्वजं भावमार्जवेन समन्वितः ॥२९॥ देवकार्यं विना साधुर्न छिन्द्यात् स कदाचन । पत्रादिकं विशेषेण विश्वरूपपरायणः ॥३०॥ एकांते निर्जने स्थाने स्थित्वा ध्यात्वा गजाननम् । पूजयेद्भक्तिसंयुक्तो ध्यानं कुर्याद्विशेषतः ॥३१॥ अनन्यमनसा देवं भजेत्तं भावधारकः । शमदमपरो भूत्वा चित्तनिग्रहमाचरेत् ॥३२॥ दुर्जयं चित्तमत्यंतं ज्ञात्वा वायुनिबंधतः । प्राणायामपरो भूत्वा जयेत्तन्नात्र संशयः ॥३३॥ अथ वायुनिरोधस्य वदामि मार्गमुत्तमम् । येन पापं परित्यज्य शुद्धचित्तो नरो भवेत् ॥३४॥ पूरयेद्वामनासायां वायुं तस्माच्चतुर्गुणम् । धारणं तस्य कुर्यात् स स्वोदरे नियतो भवेत् ॥३५॥ पूरकाद् द्विगुणं कुर्याद्रेचकं च प्रजापते । पुनर्नसा दक्षिणया पूरयेत् कुंभकं चरेत् ॥३६॥ वामया रेचकं चैव पुनः पुनर्निंरंतरम् । प्राणायामं चरेद् धीमान् पापहीनो नरो भवेत् ॥३७॥ एवं त्रैकालिकं कुर्यात् प्राणायामं विशेषतः । नातिनिरोधसंयुक्तं वायुं हठसमन्वितः ॥३८॥ अतिहठेन संरुद्धो वायू रोमभ्य एव च । निःसृत्य कुष्ठसंयुक्तं तं करोति न संशयः ॥३९॥ नाभिमूलस्थिता नाडी इडा च पिंगलाऽपरा । सुषुम्णा तत्र रोधेन मार्गो भवति निर्मलः ॥४०॥ अपानो नाभिमूलस्थो ह्यधो गच्छति सर्वदा । प्राण ऊर्ध्वं तथा जन्तोर्नाडीभिः प्रेरितः सदा ॥४१॥ मार्गरोधनभावेन नाड्यां मार्गो भविष्यति । वायुर्मूलं समाश्रित्य तिष्ठति क्रमतस्ततः ॥४२॥ तत्र लघ्वक्षराण्येव द्वादशापि प्रतिष्ठति । वायुश्चेत् स लघुः प्रोक्तः प्राणायामश्च योगिभिः ॥४३॥ ततो द्विगुणतस्तिष्ठेद्यदा वायुः सुरोधितः । मध्यमः स समाख्यातस्त्रिगुणादुत्तमोत्तमः ॥४४॥ एवं प्राणमपानं च स्वमूले संनयेद् बुधः । तयो रोधनभावेन मूलगौ तौ भविष्यतः ॥४५॥ एवं क्रमेण मूलेऽयं वायुर्मुहूर्तं संस्थितः । तदा समानगा नाडी भिद्यते तत्र संस्थिता ॥४६॥ सा सुषुम्णा समाख्याता तत्र संमिलितौ क्रमात् । प्राणापानौ समौ भूत्वा तद्रूपौ तौ भविष्यतः ॥४७॥ त्रिकालज्ञः स्वयं सिद्धो भविष्यति नरोत्तमः । वायुसाधनपात्रत्वं प्राप्य तेजःसमन्वितः ॥४८॥ ततः स्वाधीनतां यातौ प्राणापानौ विशेषतः । स नयिष्यति तौ यत्र क्रमात्तत्र गमिष्यतः ॥४९॥ ततो ध्यानपरो भूत्वा षट्चक्रभेदने रतः । चक्रस्थं स्वस्वरूपं स पश्येत्तद्वायुना गतः ॥५०॥ एवं क्रमेण योगींद्रो गच्छेद्ध्रेय प्रजापते । सहस्रारे स

ख. ९ अ. ९ पान ३४ चक्राणि तत्र पश्येद्गजाननम् ॥५१॥ तत्र क्रमेण वायुं संस्थापयेत् सुसमाधिना । वायुना संयुतस्तिष्ठेत् पश्यन् विघ्नेश्वरं परम् ॥५२॥ क्रमाद्वायुबलेनैवं शुद्धचित्तो भविष्यति । पश्येत् सर्वत्र भावेषु स्थितं ब्रह्म सनातनम् ॥५३॥ ततः स्वाधीनता- युक्तः प्रभवेत् स्वेन तेजसा । यं यमिच्छेत् स तं तं तु सद्यो वै सफलं भवेत् ॥५४॥ किंचिदिच्छेन्न यो योगी तदा योगमवाप्नुयात् । नो चेच्छंदरतो भूत्वा भोगयुक्तः पुनः पतेत् ॥५५॥ साधनं द्विविधं प्रोक्तं क्रियारूपं प्रजापते । बाह्यं कर्मस्वरूपाख्यं तपोयुक्तं स्वधर्मजम् ॥५६॥ आन्तरं वायुरोधाख्यं सर्वसिद्धिप्रदायकम् । ताभ्यां चित्तं विनिगृह्य स्ववशं कारयेन्नरः ॥५७॥ बाह्यकर्मरताज्जंतोरांतरं शीघ्रसिद्धिदम् । सहस्राधिकभावाख्यं प्रोक्तं योगींद्रमुख्यकैः ॥५८॥ अतः परं तृतीयं ते साधनं कथयाम्यहम् । येन योगींद्रसेव्यः स ध्रुवं भवति मानवः ॥५९॥ चित्तशुद्धेश्च कार्यार्थं कर्म द्विविधमुच्यते । शुद्धचित्तो नरः पश्चात् संपश्येद्ब्रह्म शाश्वतम् ॥६०॥ सर्वत्र पूर्णभावेन संस्थितं परमव्ययम् । अवयवादिभिर्हीनं तत्र लीनो भवेत् स्वयम् ॥६१॥ एतावान् फलादाताऽयं क्रियायोगः प्रकीर्तितः । बाह्यांतरात्मकः पूर्णस्ततोऽन्यत् साधनं चरेत् ॥६२॥ चित्तं रसयुतं कुत्र जायते योगिनः परम् । तज्जयेद्ब्रह्मभावेन शमदमपरायणः ॥६३॥ स्वधर्मसंयुक्तो भूत्वा देहनिर्वाहकं चरेत् । देहस्य शमनं तच्च जायते स दमः स्मृतः ॥६४॥ विषयार्थं मनस्तस्य संकल्पं यत् समाचरेत् । तन्नेच्छेच्चित्तमागृह्य कुर्याद्ब्रह्मपरायणम् ॥६५॥ अयं शमः समाख्यातस्तेन चित्तं भवेत् परम् । स्वाधीनं सर्वभावं च त्यक्त्वा ब्रह्मपरो भवेत् ॥६६॥ शनैः शनैरुपरमेद्विषयेभ्यो महात्मवान् । धृतिं योगमयीं धृत्वा भवेद्योगी स मानवः ॥६७॥ कर्ममार्गं परित्यज्य द्विविधं योगिसत्तमः । ध्यानयोगपरो भूत्वा तिष्ठेन्नित्यं वदामि तम् ॥६८॥ मनोवाणीविहीनं यद्ब्रह्म तत्र समाचरेत् । ध्यानं संकल्पत्यागाख्यं विषयेषु निरंतरम् ॥६९॥ यो यश्चित्तेन संकल्पः क्रियते विषयेषु च । तत्तत्संकल्पहीनं स कारये- द्योगतत्परः ॥७०॥ एवं चित्तं नरस्यैव स्वाधीनं जायते सदा । यदा धर्तुं स नो शक्तस्तदान्यदाचरेद्बुधः ॥७१॥ देहेंद्रियाणि संगृह्य तिष्ठेद्भूतौ महायशाः । न चलेत् स्थाणुवत् सोऽपि क्रियां नैव समाचरेत् ॥७२॥ तत्र यन्मिलितं चान्नं जलपानादिकं चरेत् । परेच्छया समायुक्तः सदा तिष्ठेन् महायशाः ॥७३॥ केनापि जलपानादि न दत्तं तादृशो वसेत् । न तदर्थं भ्रमेत् सोऽपि नेच्छेत् प्रारब्धधारकः ॥७४॥ सर्पवृश्चिकव्याघ्राद्यैः पीडितो यदि मानवः । नानाप्रहारयोगैश्च मानवादिभिरेव वा ॥७५॥ तथापि न चलेत् सोऽपि स्वस्थानाज्डवत्परः । देहप्रारब्धमाश्रित्य न तेषु क्रोधमाचरेत् ॥७६॥ पूर्वजन्मकृतं कर्म

मया तेन प्रबोधितः । इमे संपीडयंत्येवमेषां दोषो न विद्यते ॥७७॥ अथवा सात्त्विकैस्तत्र पूजितः सर्वभावतः । नित्यं नानाजनैः सोऽपि सेवितो न चलेत्तदा ॥७८॥ पूर्वजन्मकृतं कर्म प्रेरितास्तेन मानवाः । मया मां पूजयंत्येव गुण एषां न विद्यते ॥७९॥ एवं मनसि संधार्य तेषां नेच्छेच्छुभं कदा । द्वंद्वमेवं परिगृह्य तिष्ठेन्नित्यं महायशाः ॥८०॥ अनेन विधिना सोऽपि स्वल्पकालेन भो विधे । चित्तं जयेन्न संदेहः शांतिं पूर्णामवाप्नुयात् ॥८१॥ नान्यत् किंचिच्चरेत् कर्म न ध्यानादिक- मादरात् । एवं शमदमौ धृत्वा भवेद्योगी स मानवः ॥८२॥ विचारं ब्रह्मणस्तत्र कुर्यान्नित्यं विशेषतः । कीदृशं ब्रह्म हृत्स्थं मे वेदायैः प्रतिपादितम् ॥८३॥ पंचभूमिमतिक्रम्य तिष्ठेत् क्रमेण मानवः । नानाब्रह्माणि पश्यन् सन्नंते शांतिमवाप्नुयात् ॥८४॥ शांतियुक्तो नरः पश्चात् संत्यजेत्तां महाद्भुताम् । जडावस्थां पुनः सोऽपि यथेच्छाचारगो भवेत् ॥८५॥ हृदि चिंतामणिं दृष्ट्वा पंचभूमिप्रचालकम् । शांत्या युक्तो भवेन्नित्यं स्वाधीनहृदयः परः ॥८६॥ दृष्ट्वा ब्रह्म स्वयं योगी रसहीनो भवेन् मुदा । सर्वत्र नात्र संदेहः शांत्या सर्वं समाचरेत् ॥८७॥ अनेन विधिना दक्ष ज्ञानी पापपरायणः । क्रमेण साधयेद्योगं स योगी संभवोत् परः ॥८८॥ एवं कर्तुमशक्तश्चेत्तदा श्रुत्वा महामतिः । इमं योगं स्वयं तत्र निष्ठायुक्तो भवेत् सदा ॥८९॥ स्वधर्मनिरतो भूत्वा योगमिच्छेन्निरंतरम् । निंद्यभोगान् प्रसुंजन् सन्नंते स्वानंदगो भवेत् ॥९०॥ गणेश्वरं तत्र दृष्ट्वा योगयुक्तो भविष्यति । ज्योतिर्देहधरो भूत्वा प्रभजेद्गणनायकम् ॥९१॥ ब्रह्म कल्पमयं स्थित्वा कालं तत्र महामतिः । तद्देहे लीनतां प्राप्य ब्रह्मभूतो भविष्यति ॥९२॥ एवं कर्तुमशक्तश्चेत्तदा स धर्मसंयुक्तः । कर्माचरेत् प्रजानाथ ब्रह्मार्पणविधानतः ॥९३॥ तेनैव शुक्लगत्या स ब्रह्मीभूतो नरो भवेत् । निःकामयोगमार्गेण सदा ब्रह्मणि तत्परः ॥९४॥ एवं कर्तुमशक्तश्चेत्तदाऽहं ब्रह्मभावतः । त्रिविधं फलमुत्सृज्य कर्मजं योगमाप्नुयात् ॥९५॥ कर्मत्यागबले- नैवाहं ब्रह्म निश्चयेन सः । क्रमेण कर्मसंयुक्तो भविष्यत्यन्यजन्मनि ॥९६॥ निःकामकर्मकर्ता स पुनरन्यभवे नरः । योगरससमायुक्तो भवेद्विषयनिंदकः ॥९७॥ एवं क्रमेण शांतिं स लभेत् पूर्णां न संशयः । क्रमार्थं रचितं सर्वं नानामतसमन्वितम् ॥९८॥ सुगमं सर्वभावेषु गणेशभजनं परम् । तेन योगी भवेन्नूनं सर्वशास्त्रेषु संमतम् ॥९९॥ यत्किंचिद् गणराजस्य व्रतपूजादिकं प्रभोः । कीर्तनश्रवणायं तु ब्रह्मीभूतप्रदायकम् ॥१००॥ नानाविषयसंयुक्तो नरः स्मरेद्गणाधिपम् । अहर्निशं तदास्यांते गणेशस्मरणं भवेत् ॥१॥ तेन स्वानंदगो भूत्वा योगमभ्यस्य तन्मयः । ब्रह्मकल्पांत-

भावे स भविष्यति न संशयः ॥२॥ स्मरणं गणराजस्य प्रकुर्यान्नित्यमादरात् । तस्यांते गणराजस्य स्मृतिं दद्यान्नराय सः ॥३॥ अतोऽहर्निशमेकं तं संस्मरेन् मानवः परम् । नानायोगादिकं सर्वं साध्य योगिसमो भवेत् ॥४॥ आयासेन विहीनोऽपि सदा विषयलंपटः । गणेशस्मरणे सक्तः सः शुकसमतां व्रजेत् ॥५॥ शिवविष्णुमुखादीनां नरो यः स्मरणं चरेत् । अंते तेषां स्मृतिं तस्मै स दद्याच्चित्तगः प्रभुः ॥६॥ तेषां लोकं समासाद्य भुक्त्वा भोगान् मनोरहान् । प्रपतेन्नाऽत्र संदेहो मृत्युलोके विशेषतः ॥७॥ पुराणेषु प्रपद्यंते त्रिगुणानां लयाः सदा । अतः स जन्ममृत्युभ्यां युक्तो भवति तद्गतः ॥८॥ अतः सारं समाख्यातं गणेशभजनं परम् । तेनाज्ञानसमायुक्तो नरो ब्रह्ममयो भवेत् ॥९॥ एतत्ते कथितं दक्ष योगप्राप्त्यर्थमादरात् । अज्ञानसंयुतस्यापि ब्रह्मीभूतप्रदायकम् ॥१०॥

ॐ तत्सदिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे अज्ञानिनां क्रमयोगवर्णनं नाम नवमोऽध्यायः ॥ ॥ इति योगगीतासूपनिषत्सु सुगमासु पंचमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । विभूतीर्वद योगीश गणेशस्य महात्मनः । या ज्ञात्वा ताः समाराध्य गणेशज्ञो भवेन्नरः ॥१॥ मुद्गल उवाच । अपारा गणनांथस्य विभूतयो न संशयः । ता न शक्ताः कथयितुं भवंति शंकरादयः ॥२॥ क्षणे क्षणे गणेशानो नानाखेलपरायणः । विभूतिभिर्जगत्सर्वं भावयति परात्परः ॥३॥ लोकेषु तत्त्वमुख्येषु जगत्सु ब्रह्मसु प्रभोः । ये श्रेष्ठास्तस्य ते सर्वे विभूतिपदधारकाः ॥४॥ कल्पे कल्पे विभूतीनामवतारा असंख्यकाः । गणेशस्य तथा दक्ष तान् वक्तुं कः क्षमो भवेत् ॥५॥ अतः संक्षेपतस्तुभ्यं कथयिष्यामि ताः शृणु । विभूतीर्गणनाथस्य नानासिद्धि- प्रदायिनीः ॥६॥ जगत्सु ब्रह्मसु प्राज्ञ योगरूपो गजाननः । कथं न भिन्नभावाख्यं वर्तते वर्णयाम्यहम् ॥७॥ मायाभ्यां संयुतः सोऽपि नानावेषप्रधारकः । अयोगिनामिदं हृद्यं सत्यं संभासते सदा ॥८॥ मायायुक्तप्रभावेण किं किं गजाननस्य

खं. १ अ. १० पान ३७ च । न संभवेदहं मायां समाश्रित्य वदामि ताः ॥९॥ कलांशाः कलया युक्ताः कलांशांशाः कलात्मकाः । तेषामंशधरा ये ते सर्वे विभूतिधारकाः ॥१०॥ एवमेव गणेशानः पृष्टश्च नारदेन सः । जगाद ताः शृणुष्व त्वं विभूतीः परमाद्भुताः ॥११॥ श्रीगणेश उवाच । पूर्णो योगेषु सर्वेषु चित्तरोधमयः परः । मायाहीनप्रभावाणामयोगोऽहं महामुने ॥१२॥ स्वानंदो निजभूतेषु तुर्येष्वव्यक्तसंज्ञितः । आनंदसमभावेषु जीवेष्वात्माहमंजसा ॥१३॥ नानाभेदेषु ब्रह्माहमसद्रूपप्रधारकम् । सत्येषु सांख्य- रूपोऽहं बोधः खेलकरेषु च ॥१४॥ देहाभिमानयुक्तेषु सदैकोऽहं महामते । देहेषु बिंदुरूपोऽहं चेतनासु गुणेश्वरः ॥१५॥ कोशेष्वानन्दकोशोऽहं विज्ञानं सूक्ष्मजातिषु । विवेकेषु मनश्चाहं चालकेषु समीरणः ॥१६॥ स्थूलेष्वन्नस्वरूपोऽहं समष्टिषु तथेश्वरः । व्यष्टिषु प्राज्ञरूपोऽहमणुषु च महाविराट् ॥१७॥ इंद्रियेषु मनश्चाहं भूतेष्वाकाशसंज्ञितः । तन्मात्राणामहं शब्दो ज्ञाताहं देवतासु च ॥१८॥ तत्त्वेषु विविधेष्वेव महत्तत्त्वमहं परम् । गुणेषु गुणपोऽहं तु पालकेषु जनार्दनः ॥१९॥ हरः संहारकर्तॄणां स्रष्टॄणां प्रपितामहः । कर्मणामर्यमाऽऽत्माऽहं मोहकानां च शक्तिका ॥२०॥ देवानां मघवाऽहं तु आदित्यानां विनायकः । तेजसां भानुरूपोऽहममृतेषु विधुः परः ॥२१॥ अग्निः प्रतापदेष्वेव धर्मः समप्रवृत्तिषु । यमो यमवतां चाहं रक्षसां निर्ऋतिः स्वयम् ॥२२॥ जलेषु वरुणोऽहं तु बलवत्सु समीरणः । निधीनां धनदाताऽहं रुद्राणां शंकरः प्रभुः ॥२३॥ कामो धनुर्धराणां च रतिर्भोगेषु भोगदा । नागेशानामहं शेषः सर्पाणां तक्षकः स्वयम् ॥२४॥ नागानां वासुकिर्नाम जंबुद्वीपेषु सर्वदः । स्वादूदकः समुद्राणां पर्वतेषु हि मेरुकः ॥२५॥ पितॄणां यमरूपोऽहं वृक्षेषु शमिका मता । देववृक्षेषु मंदारस्तरूणां कामदायकः ॥२६॥ धेनूनां कामधेनुर्या दूर्वा चौषधिषु प्रभुः । पक्षिषु तु मयूरोऽहं मृगाणां सिंहरूपधृक् ॥२७॥ मासानां श्रावणश्चाहं चौराणां मूषकाधिपः । वाहनेष्वश्ववाहोऽहं सिद्धिराश्चर्यदेषु च ॥२८॥ विद्यासु बुद्धिरूपोऽहं चित्तं प्रकाशकारिणाम् । अहं मनश्च वेगानां मोहदेष्वभिमानकः ॥२९॥ नराधिपो नराणां तु वर्णेषु ब्राह्मणो- ह्यहम् । आश्रमेषु तुरीयोऽहं पोषकेषु गृहस्थकः ॥३०॥ त्यागिनामवधूतोऽहं तिथीनां च चतुर्थिका । प्रजापतिषु दक्षोऽहं ब्रह्मर्षिषु भृगुस्तथा ॥३१॥ नारदो दैवतर्षीणां दत्तोऽवधूतरूपिणाम् । कपिलस्तत्त्वविज्ञानां योगिनां शुक एव यः ॥३२॥ जनकोऽहं विदेहानां निःसंगेषु महामुने । सनकादय एवाऽहं ज्ञानिनां बादरायणः ॥३३॥ वसिष्ठः कर्मकर्तॄणां गाणपत्येषु मुद्गलः । भ्रुशुंडी चैकनिष्ठेषु ब्रह्मिष्ठानां बृहस्पतिः ॥३४॥ अन्नानां तिलरूपोऽहं गव्यानां घृतमंजसा । मधु सर्वरसानां च

मकरो जलजात्मनाम् ॥३५॥ कौमंडली नदीनां च तीर्थेषु गाणपं परम् । क्षेत्राणां मयूरक्षेत्रं काशिराजः सुबुद्धिषु ॥३६॥ मयूरेशोऽवताराणां गार्ग्य उपासकात्मनाम् । ध्याननिष्ठेषु सर्वेषु गृत्समदोऽहमेव च ॥३७॥ सुबोधौ दैत्यजातीनां ज्ञाना- रिर्द्वेषकारिणाम् । दुर्जयेषु मनश्चाहं वर्णेष्वोंकार एव सः ॥३८॥ शुक्लोऽहं भाविकेष्वेव त्रिशिराः शुद्धचेतसाम् । उपदेश- प्रदातॄणां याज्ञवल्क्यः प्रतापवान् ॥३९॥ पौराणिकेषु सूतोऽहं श्रोतॄणां शौनको मुनिः । सेनानीनामहं स्कंदो विष्णु- र्यशस्विनामहम् ॥४०॥ पापेष्ववृत्तरूपोऽहं कलहो भेदधारिणाम् । प्राप्तिषु लोभरूपोऽहं मणीनां चिंतितार्थदः ॥४१॥ ज्ञानं पवित्रं भावानां सामगायकधर्मिणाम् । वेदेष्वथर्वसंज्ञोऽहं शस्त्रेषु परशुः परः ॥४२॥ निर्लेपानामहं साक्षी राजश्रीषु गजस्तथा । विषयो भ्रांतिदानां च रंभा ह्यप्सरसामहम् ॥४३॥ गंधर्वाणां चित्ररथो वैद्यानां वैद्यनायकः । धन्वंतरिस्तु भिषजां समुद्रः सरसात्मनाम् ॥४४॥ स्रोतसां जाह्नवी विप्र मंत्राणामेकवर्णजः । सूक्तेषु ब्राह्मणस्पत्यं यज्ञेषु ज्ञान- रूपधृक् ॥४५॥ प्राणेषु तु समानोऽहं शक्तिः शक्तिमतामहम् । बृहदारण्यकं विद्धि नानोपनिषदां परम् ॥४६॥ शास्त्रेषु योगशास्त्रं च पुराणेषु च मौद्गलम् । अरण्यानां महारण्यं दंडकाख्यमहं परम् ॥४७॥ नियंतॄणामहं दंडो मायाऽहं भावकारि- णाम् । स्मृतीनां याज्ञवल्क्यस्य स्मृतिरेव परा मता ॥४८॥ गायत्री छंदसां विप्र स्वानंदो नगरात्मनाम् । व्याकरणमंग- भूतेषु कलासु योगदा ह्यहम् ॥४९॥ नीतिज्ञेषु तथा काव्यो वृषभो भूमिधारिणाम् । नंदिकेशो गवां चाहं नग्नो भैरव- भाविनाम् ॥५०॥ एवं नानाविधाऽऽकारा विभूतीर्गणपस्य या । कथितुं नैव शक्या सा सारा संकथिता मया ॥५१॥ यद्यच्छ्रेष्ठतमं विप्र सा विभूतिर्न संशयः । लोकेषु गणराजस्य तां भावय विशेषतः ॥५२॥ मुद्गल उवाच । एवमुक्तवा गणेशानो विरराम प्रजापते । नारदस्तं प्रणम्यैव जगाम तादृशोऽभवत् ॥५३॥ य इमां श्रावयेद्यश्च शृणुयाद्वा प्रयत्नतः । न मोहं स लभेत् क्वापि ज्ञात्वा सामर्थ्यजं महः ॥५४॥ अपारमहिमायुक्ता जीवाश्च परमेश्वराः । ते सर्वे विघ्नराजस्य विभूतिपदधारकाः ॥५५॥ एवं ज्ञात्वा गणेशानं ये भजंति मनीषिणः । ते सर्वे ब्रह्मभूताश्च भविष्यंति प्रजापते ॥५६॥ ॥ ॐ तत्सदिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन विभूतियोगो नाम दशमोऽध्यायः ॥ ॥ इति योगगीतासूपनिषत्सु सुगमासु षष्ठोऽध्यायः ॥

खं. ९ अ. ११ पान ३९ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । त्वया प्रोक्तः पुरा विप्र विचारो ब्रह्मणः परः। तं कृत्वा योगमाप्नोति तद्वदस्व हितावहम् ॥१॥ क्रियया शुद्धचित्तो यो नरो ब्रह्मपरायणः । सर्वत्र ब्रह्मरूपं यद्विधिना केन पश्यति ॥२॥ मुद्गल उवाच । बाह्यांतरं क्रियां कृत्वा शुद्धचित्तो नरोत्तमः । तत्त्वविचारमार्गेण पश्यति ब्रह्म शाश्वतम् ॥३॥ तत्तेऽहं कथयिष्यामि तत्त्वज्ञानं प्रजापते । आदौ योगिजनानां यत् साधनं योगदायकम् ॥४॥ पृथ्वी जलं तथा तेजो वायुराकाशमेव यत् । पंचभूतमयो देहः प्रकृतिः सा च पंचधा ॥५॥ क्रियारूपा महाभागा नानाभेदपरायणा । विभज्यात्मानमेवं सा क्रीडति विविधे रता ॥६॥ भूतानामेकभावाख्या पंचानां ज्ञानरूपिणी । प्रकृतिर्हृदि संस्था सा जीवभावधरा परा ॥७॥ तया ज्ञानं भवेत् सर्वं नानाविवेकदायकम् । तदाधारं जगत् सर्वमेकरूपा प्रकीर्तिता ॥८॥ तयोर्योगे प्रजानाथ ब्रह्मैवमभिधीयते । क्रियाज्ञान- स्वरूपाख्यं द्वंद्वहीनं परात्परम् ॥९॥ तदेव पंचधा जातं शृणु तद्योगदायकम् । स्थूलं सूक्ष्मं समं चात्मप्रतीतं बिंदु- संज्ञितम् ॥१०॥ समष्टिव्यष्टिभावेन द्विविधं ब्रह्म कथ्यते । पृथक्त्वेन स्वयं भाति पंचसु पंचभेदतः ॥११॥ स्थूलं जागृन्मयं ब्रह्म तदेव द्विविधं मतम् । विश्वाख्यं व्यष्टिरूपेण वैश्वानरं समष्टिगम् ॥१२॥ अंडेषु विविधा रूपा जंतवो दृष्टिगोचराः । जागृद्भावधराः सर्वे विश्वात्मका उदाहृताः ॥१३॥ तस्य बोधं प्रवक्ष्यामि सुगमार्थप्रकाशकम् । क्रियात्मकेषु देहेषु क्रियारूपा भवंति ते ॥१४॥ ज्ञानात्मकेषु देहेषु ज्ञानरूपधरा मताः । उभयोर्योगभावेन विश्वाख्यास्ते प्रकीर्तिताः ॥१५॥ बाह्यदेहस्य भो दक्ष वितस्तिर्यादृशी भवेत् । तावन्मानेन सर्वेषां ज्ञानदेहो हृदि स्थितः ॥१६॥ विराट् जागृत् स्वरूपस्थो वैश्वानर इति स्मृतः । व्यापकात्मकदेहेन तिष्ठति विश्वभाविषु ॥१७॥ तस्यापि द्विविधो देहः क्रियाज्ञानप्रभेदतः । तयोर्योगे समाख्यातो वैश्वानरश्च तन्मयः ॥१८॥ विश्ववैश्वानरयोश्च योगे ब्रह्म प्रकीर्तितम् । जागृद्भावधरं पूर्णं स्थूलभूतप्रकाशकम् ॥१९॥ एतत् स्थूलस्य तत्त्वं ते कथितं तु समासतः । तत्र तत्त्वविधिं भिन्नं शृणु योगसमाधिदम् ॥२०॥ जन्ममृत्युयुतं यच्च नानाभाव- परायणम् । त्वंपदाख्यं प्रजानाथ विद्धि तत् सर्वभावगम् ॥२१॥ जन्ममृत्युविहीनं यदेकरूपं प्रकीर्तितम् । तत्पदार्थं च तद्विद्धि परं सर्वात्मधारकम् ॥२२॥ तयोर्योगे भवेत्तत्त्वं तदेवासिपदं परम् । द्वंद्वभावविहीनं यद् द्वंद्वरूपप्रकाशकम् ॥२३॥ त्वंपदं क्रियया युक्तं ज्ञानाख्यं तत्पदं भवेत् । तयोर्योगे भवेद्विश्वं तत्त्वरूपं न संशयः ॥२४॥ एवं वैश्वानराख्यं त्वं जानीहि तत्त्वसंज्ञितम् । क्रियाज्ञानसमायोगे तयोः प्रकाशकारकम् ॥२५॥ अथान्यच्छृणु दक्ष त्वं तत्त्वरूपं पुरातनम् । विश्वाख्या

पान ४० जंतवः सर्वे नानाभावात्मका बुधैः ॥२६॥ जन्ममृत्युयुताः प्रोक्तास्त्वंपदधारका मताः । वैश्वानरस्त्वंपदश्चैकरूपाद्वयापको मतः ॥२७॥ तयोरभेदभावे यद्ब्रह्मतत्त्वं प्रकीर्त्यते । जागृद्भावधरं पूर्णं स्थूलभावपरायणम् ॥२८॥ एवं नानाविभागेषु ज्ञातव्यं तत्त्वरूपकम् । सूक्ष्मादिषु प्रजानाथ ब्रह्मसौख्यप्रदायकम् ॥२९॥ अथ सूक्ष्मं प्रवक्ष्यामि योगमार्गप्रसिद्धये । शुद्धचित्तप्रभावेण तज्ज्ञानं तन्मयं भवेत् ॥३०॥ बाह्यं स्थूलं विशेषेण जागृदन्नमयं परम् । आंतरं स्वप्नभावाख्यं सूक्ष्मं जानीहि मानद ॥३१॥ प्राणो दशविधः प्रोक्तः सूक्ष्मरूपोऽन्तरे स्थितः । तस्मात् सूक्ष्मं मनः प्रोक्तं प्राणांतः संव्यवस्थितम् ॥३२॥ तस्मात् सूक्ष्मं च विज्ञानं देहद्वंद्वसमुत्तमम् । मनोऽन्तरे स्थितं पूर्णं तदंतर्न च विद्यते ॥३३॥ त्रिविधं कोशसंयुक्तं स्वप्नं सूक्ष्मस्वरूपकम् । सर्वांतरे स्थितं ब्रह्म द्वंद्वमायाप्रचालकम् ॥३४॥ क्रियारूपस्तथा देहः सूक्ष्मभूतमयः स्मृतः । सर्वांतरे समास्थाय कल्पिताभोग- कारकः ॥३५॥ ज्ञानदेहः समाख्यातः सदैकभावधारकः । पूर्ववत् सर्वं विज्ञेयं सूक्ष्ममायाप्रकाशकम् ॥३६॥ भिन्नभावधराः सर्वे जंतवः स्वप्नगाः पराः । तैजसास्ते मताः शास्त्रे क्रियाज्ञानप्रकाशकाः ॥३७॥ विराद् तत्र समाख्यातो हिरण्यगर्भ- संज्ञितः । व्यापकः स्वप्नभावेषु नानाजंतुप्रचालकः ॥३८॥ तयोरभेदभावे यद्ब्रह्म स्वप्नात्मकं परम् । सूक्ष्ममायाप्रकाशत्वात् सूक्ष्मं तत् कथ्यते बुधैः ॥३९॥ पूर्ववत्तत्त्वभावश्च विज्ञेयः सूक्ष्मगः परः । शुद्धचित्तप्रभावेण साक्षात्कारं करोति सः ॥४०॥ अतः परं समाख्यं यद्ब्रह्म सुषुप्तिसंज्ञितम् । कथयामि महाप्रीत्या लोकानामुपकारकम् ॥४१॥ बाह्यं जागृन्मयं दक्ष वपुः सर्वत्र पश्यते । आंतरं स्वप्नमित्युक्तं तयोर्योगे समात्मकम् ॥४२॥ बाह्यांतरैकभावाख्यं बाह्यांतरविवर्जितम् । आनंदकोशगं साम्यं कृतं भूतैर्गुणात्मकैः ॥४३॥ जागृत्त्यक्त्वा नरो यस्तु स्वप्नं गच्छति तत्र सः । तयोः संधिं समाश्रित्य सुषुप्तिर्जायते परा ॥४४॥ तथा स्वप्नं परित्यज्य जागृतिं गच्छति स्वयम् । तयोः संधिं समास्थाय तिष्ठति सा सुषुप्तिका ॥४५॥ यत्र सुप्तो नरो दक्ष ज्ञानयुक्तो भवत्यसौ । न जानाति स्वकं चान्यं स्वप्नं नैव प्रपश्यति ॥४६॥ सा सुषुप्तिः समाख्याता निद्रां संश्रित्य तिष्ठति । जागृतिस्वप्नबोधं या करोति सा सुषुप्तिका ॥४७॥ सा द्विधा मायया युक्ता प्राज्ञेश्वरस्वभावतः । भिन्नदेहधराणां तु प्रज्ञाख्या सा प्रकीर्तिता ॥४८॥ विराड्रूपधरा नित्या सेश्वराख्या प्रकथ्यते । ब्रह्मरूपा तयोर्योगे तत्त्वसंज्ञा यथा पुरा ॥४९॥ अथ तुरीयरूपं ते कथयामि समासतः । नादरूपधरं भूततन्मात्राभेदमंजसा ॥५०॥ व्यवस्थासंश्रितं पूर्णं त्रिषु साक्षिव- दुच्यते । तस्यानुभवमाहात्म्यं कथयामि हिताय ते ॥५१॥ मया जागृन्मयं भुक्तं मया स्वप्नं विलोकितम् । निद्रायां न मया

खं. ९ अ. ११ पान ४१ किंचिज्ज्ञातं वदति यः स वै ॥५२॥ यदा जागर्ति विश्वस्थस्तदा द्वाभ्यां विवर्जितः । यदा स्वपिति स द्वाभ्यां हीनस्तिष्ठति निश्चितम् ॥५३॥ यदा सुषुप्तिसंस्थोऽयं तदा द्वाभ्यां विवर्जितः । एवं भेदप्रकारैः स व्यवस्थासंयुतो मतः ॥५४॥ तस्य तत्त्वं प्रवक्ष्यामि विश्वतैजसप्राज्ञगः । त्वंपदाख्यः समाख्यातो नादरूपधरः प्रभुः ॥५५॥ त्रिविराण्मय एवासौ तत्पदाख्यः प्रकीर्त्यते । तयोर्भेदभावे स तत्त्वरूपोऽस्मितामयः ॥५६॥ अवस्थानां समायगो नादस्तुरीयधारकः । सदैकभावसंयुक्तः सर्वत्राऽसौ विराजति ॥५७॥ न बाह्यो नांऽऽतरस्थोऽयं नोभयात्मक उच्यते । अहमित्येव कोशात्माऽस्मिताख्यः परमेश्वरः ॥५८॥ अतः परं प्रवक्ष्यामि बिंदुसत्त्वं सुसौख्यदम् । पंचमं ब्रह्मसंज्ञं तत् देहानां देहगं परम् ॥५९॥ व्यवस्थात्रयसंस्थं यत्त्वंपदस्थं प्रकथ्यते । तुरीयसंज्ञितं देहं तत्पदारूयं प्रकीर्तितम् ॥६०॥ तयोरभेदभावे यत्तत्त्वं योगमयं परम् । चतुर्षु संस्थितं पूर्णं चतुर्भिर्वर्जितं सदा ॥६१॥ एवं तत्त्वविचारेण शमदमपरायणः । संकल्पजान् सदा कामांस्त्यक्त्वा योगमयो भवेत् ॥६२॥ सर्वत्र ब्रह्मसंस्थं यत् पश्येत्तन्नात्र संशयः । तत्त्वरूपधरं पूर्णं तत्त्वविचारतः सदा ॥६३॥ अथान्यत्तत्त्वमार्गं ते कथयिष्यामि सर्वदम् । बिंदुस्त्वंपदसंज्ञस्थः सोऽहं तत्पदगं मतम् ॥६४॥ तयोर्योगे प्रजानाथ बोधस्तत्त्वमयः स्मृतः । मनोवाणीविहीन- त्वात् दृश्यते योगिना परः ॥६५॥ बोधस्त्वंपदरूपश्च विबोधस्तत्पदात्मकः । तयोर्योगे स्वसंवेद्यं तत्त्वं वेदे प्रकीर्तितम् ॥६६॥ असत्त्वंपदरूपं सत्तत्पदस्थमुदुच्यते । तयोर्योगे समं ब्रह्म तत्त्वं योगप्रदं मतम् ॥६७॥ समं त्वंपदसंज्ञस्थमव्यक्तं तत्पदस्थितम् । तयोर्योगे तथा तत्त्वं स्वानंदारूयं प्रकीर्तितम् ॥६८॥ स्वानंदस्त्वंपदारूयश्चायोगस्तत्पदमुच्यते । तयोर्योगे परं तत्त्वं पूर्णयोगमयं मतम् ॥६९॥ सिद्धिस्त्वंपदगा प्रोक्ता बुद्धिस्तत्पदगा मता । तयोर्योगे गणेशानस्तत्त्वरूपः प्रकथ्यते ॥७०॥ एवं नानामर्तैर्युक्ता वेदांतार्थविचक्षणाः । तत्त्वं वदंति दक्ष त्वं जानीहि नात्र संशयः ॥७१॥ अनंतभावसंयुक्तं त्वंपदं विद्धि सर्वदा । अकल्पितं तत्पदाख्यं तयोर्योगे परं भवेत् ॥७२॥ इदं सारं रहस्यं ते कथितं योगदं परम् । येन सर्वत्र योगं स संपइयेज्ज्ञानचक्षुषा ॥७३॥ ॥ ॐ तत्सदिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन तत्त्वविचारयोगो नाम एकादशोऽध्यायः ॥ ॥ इति योगगीतासूपनिषत्सु सुगमासु सप्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । शुक्लां कृष्णां गतिं ब्रूहि याभ्यां मुक्तिमवाप्नुयात् । संसारं च तथा योगिन् दयया सर्वतारक ॥१॥ मुद्गल उवाच । कर्मत्वं त्रिविधं विद्धि कर्माकर्मविकर्मगम् । स्वधर्मवर्जितं सर्वं कर्म विकर्मसंज्ञकम् ॥२॥ स्वधर्मसंयुक्तं कर्म भोगवासनया युतम् । कर्मसंज्ञं विजानीहि कृष्णगतिपदप्रदम् ॥३॥ ब्रह्मार्पणतया कर्म स्वधर्मस्थं भवेत् परम् । शुक्लगतिमयं विद्धि मुक्तिदं तदकर्मकम् ॥४॥ आग्नेयं ज्योतिरयनमुत्तराख्यं दिवा तथा । शुक्लगतिमयं सर्वं जानीहि मुक्तिदायकम् ॥५॥ चांद्रं ज्योतिर्धूमरात्री दक्षिणायनमेव यत् । कृष्णगतिस्वरूपं तज्जानीहि जनिमृत्युदम् ॥६॥ तयोर्भेदं प्रवक्ष्यामि लोकानां हितकाम्यया । येन द्वैधं परित्यज्य ब्रह्मणि निरतो भवेत् ॥७॥ निष्कामिकं कर्म कृत्वा मृतो नरो यदा भवेत् । रात्रौ स दक्षिणार्के वा न तं गृह्णंति देवताः ॥८॥ देवभोगांस्तिरस्कृत्य ब्रह्मार्पणपरायणम् । नरं तं किं करिष्यंति देवाः स्वर्गसुखप्रदाः ॥९॥ अतो दाहे स वै दक्ष अग्निज्योतिःस्थगो भवेत् । दिवसे समनुप्राप्ते दिवा दैवतग- स्तथा ॥१०॥ उत्तरायणसंभूते स गच्छेदभ्रानुमंडले । प्रलये मंडलस्यैव नाशे पुरुषगो भवेत् ॥११॥ महाप्रलयवेलायां प्रकृतेः पुरुषस्य च । नाशे ब्रह्मणि गच्छेत् स ब्रह्मभूतो भवेत्ततः ॥१२॥ सकामं कर्म कृत्वा दिवसे उत्तरायणे । मृतं नरं न तं भानुर्गृह्णाति कामनायुतम् ॥१३॥ सदाघे धूमसंस्थश्च यदा रात्रिः समागता । तदा तस्यां समाश्रित्य तथा तिष्ठेत् प्रजापते ॥१४॥ दक्षिणायनमानंदादागतं वीक्ष्य तत्क्षणात् । विमानवरमारुह्य गच्छेत् स्वर्गं विहायसा ॥१५॥ चांद्रं ज्योतिः समाश्रित्य भोगान् भुंक्ते स्वकर्मजान् । कर्मप्रमाणमार्गेण नानास्वर्गपरायणः ॥१६॥ विधिं तत्र प्रवक्ष्यामि चंद्र- कलासमुद्भवम् । अमृतं देवलोकेषु स्वर्गेषु भोगदं परम् ॥१७॥ इह कर्म कृतं पूर्णं नरैस्तदमृतात्मकम् । भवति चंद्रगं सर्वं तेन कलायुतो भवेत् ॥१८॥ शुक्लपक्षे क्रमेणायमेकैककलया प्रभुः । वृद्धियुक्तः स्वयंपूर्णः पूर्णिमायां प्रदृश्यते ॥१९॥ कृष्णपक्षे सुराः सर्वे क्रमेणामृतभोजिनः । पिबंति चंद्रसंस्थं तदमृतं तृप्तिकारकम् ॥२०॥ तेन तृप्तियुताः सर्वे भवंति मासमानतः । अमायां पतितश्चंद्र ओषधीषु न संशयः ॥२१॥ अत ओषधयश्छेद्या नरेण नैव निश्चितम् । अमायां चंद्रसंयोगयुक्ताः सुखपरायणाः ॥२२॥ अतश्चंद्रभवं सर्वममृतं देवभूमिषु । चांद्रः स्वर्ग इति प्रोक्तस्तेनैवं वेदवादिभिः ॥२३॥ देवानां विविधानां स कर्म कृत्वा सकाम कम् । कर्मांगदेवमभ्यर्च्य गच्छेत् समर्प्य तत्क्रियाम् ॥२४॥ तत्तल्लोकसुखं भुक्त्वा नानाभोगसमन्वितम् । भोगांते पुनरेवाऽसौ मेघमंडल गो भवेत् ॥२५॥ तत्र जलमयो भूत्वा पतेद् वृष्ट्या स भूमिषु ।

खं. ९ अ. १२ पान ४३ तत ओषधिगो भूत्वा भवेदन्नमयस्ततः ॥२६॥ ततो वीर्यं समाश्रित्य गच्छेत् स जठरे स्त्रियः । तत्र तत्त्वानि तं दक्ष आविशंति न संशयः ॥२७॥ क्षेत्रज्ञः संस्थितस्तत्र तत्त्वैः क्षेत्रं विनिर्ममे । विधिं तस्य प्रवक्ष्यामि गर्भोपनिषदि भवम् ॥२८॥ तत्रैकदिवसेनेव स्त्रीवीर्ये रक्तसंश्रिते । तस्मिन् संमिलनं कृत्वा तदाकारो भवेन्नरः ॥२९॥ ततस्त्रिदिवसैः सोऽपि फेनरूपो भवेन्नरः । बुद्बुदः पंचदिवसैः पेशी सप्तदिनैस्तथा ॥३०॥ ततश्चतुर्दशैः सोऽपि दिवसैः फुल्लतां गतः । पंचविंशतिभिस्तत्र मांसरूपो भवेत् स्वयम् ॥३१॥ मासेन कठिनत्वं स प्रगच्छेत्तत्र संस्थितः । द्विमासाभ्यां शिरो युक्तो भवेत्तत्र प्रजापते ॥३२॥ त्रिमासैः कंठसंयुक्तश्चतुर्मासैस्त्वचा युतः । पंचमासैर्भवेज्जंतुंरिंद्रियैः संयुतः क्रमात् ॥३३॥ अवयवादिसंयुक्तो नखरोम- समन्वितः । भवेन् मुखेन संयुक्तो मासैः षड्भिर्न संशयः ॥३४॥ तत इंद्रियसंभूतं ज्ञानं भवेत् क्रमेण वै । षण्मासैः परिपूूर्णैश्चाऽऽकृतिः पूर्णा भवेत् परा ॥३५॥ पूर्वकर्मानुसारेण यादृशी योनिराभवेत् । तादृशाकृतिसंयुक्त इंद्रियैश्च समन्वितः ॥३६॥ सप्तमासैर्भवेज्जंतुश्चेतनया समन्वितः । उदरे प्रचरेत् सोऽपि मातुर्दुःखसमन्वितः ॥३७॥ अवकाश- विहीनः स पीडितो जंतुभिः सदा । मूर्च्छां गच्छेत् पुनः संज्ञां कोमलोऽतीव मानवः ॥३८॥ अष्टमासैस्ततस्तत्र बुद्धियुक्तो भवेन्नरः । सांख्ययोगपरो भूत्वा ध्यायेद्ब्रह्म सनातनम् ॥३९॥ अतिसंकोचभावेन पीडितो जंतुभिस्तथा । मातुर्भक्ष्यान्न- दोषैः स वेदनासंयुतो भवेत् ॥४०॥ गर्भदुःखं स विज्ञाय तन्निवृत्त्यर्थमादरात् । सांख्ययोगपरो भूत्वा भजेत्तं गणनायकम् ॥४१॥ ततस्तत्र भवेत्तस्य ज्ञानं परमसौख्यदम् । तेनानंतभवानां स दृष्ट्वा दुःखं निवृत्तिगः ॥४२॥ अनन्यमनसा देवं स्तुयात् स्तोत्रैर्महामतिः । गर्भवासप्रशांत्यर्थं ब्रह्म भूयार्थमादरात् ॥४३॥ गर्भ उवाच । नमस्ते गणनाथाय ब्रह्मणे ब्रह्मरूपिणे । अनाथानां प्रणाथाय विघ्नेशाय नमो नमः ॥४४॥ ज्येष्ठराजाय देवाय देवदेवेशमूर्तये । अनादये परेशाय चादिपूज्याय ते नमः ॥४५॥ सर्वपूज्याय सर्वेषां सर्वरूपाय ते नमः । सर्वाद्ये परब्रह्मन् सर्वेशाय नमो नमः ॥४६॥ गजाकारस्वरूपाय गजाकारमयाय ते । गजमस्तकधाराय गजेशाय नमो नमः ॥४७॥ आदिमध्यांतभावाय स्वानंदपतये नमः । आदि- मध्यांतहीनाय त्वादिमध्यांतगाय ते ॥४८॥ सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे । सिद्धिबुद्धिमयायैव ब्रह्मेशाय नमो नमः ॥४९॥ शिवाय शक्तये चैव विष्णवे भानुरूपिणे । मायिनां मायया नाथ मोहदाय नमो नमः ॥५०॥ किं स्तौमि त्वां गणाधीश यत्र वेदादयोऽपरे । योगिनः शांतिमापन्ना अतस्त्वां प्रणमाम्यहम् ॥५१॥ रक्ष मां गर्भदुःखात्त्वं त्वामेव

शरणागतम्। जन्ममृत्युविहीनं वै कुरुष्व ते पदप्रियम् ॥५२॥ एवं संस्तुतवंतं तं नवमासादनंतरम्। प्रसूतिजो महा- वायुर्बहिः कुर्यान्नरं क्षणात् ॥५३॥ वायुना चालितः सोऽपि मुमूर्च्छ दुःखसंयुतः । संकीर्णांगः पतेज्जंतुर्धरण्यां योनि- मार्गत्तः ॥५४॥ भवेत् स सावधानोऽत्र विस्मृतो ज्ञानमुत्तमम् । बालभावधरः कुर्याद्रोदनं धरणीतले ॥५५॥ फलहीनं भवेत् सर्वं गर्भागारकृतं महत् । ज्ञानादिकमतो भूमौ साधयेत् सर्वमंजसा ॥५६॥ न साधितं नरेणात्र कर्मभूमौ प्रजापते । ज्ञानादिकं तदा सोऽपि गर्भजं दुःखमश्नुते ॥५७॥ एवं कृष्णा गतिश्चैव कथिता ते विशेषतः । जन्ममृत्युंकरी जंतोः सुखदुःखप्रदायिनी ॥५८॥ इदं गर्भकृतं स्तोत्रं यः पठिष्यति मानवः । स भुक्त्वा सकलान् भोगानंते स्वानंदगो भवेत् ॥५९॥ न कदाचिल्लभेत सोऽपि गर्भवासं प्रजापते । अतो विशेषतो जंतुर्निरंतरमिदं जपेत् ॥६०॥ अधुना कथयिष्यामि ह्यन्यमर्थं सुखप्रदम् । शुक्लकृष्णगतिसंस्थं येन ज्ञानं तयोर्भवेत् ॥६१॥ भक्तिमुक्तिप्रलोभार्थं नरः कुर्यान्निरंतरम् । कर्म स्वधर्मसंयुक्तो नानादैवं स योगवित् ॥६२॥ उत्तरायणगे भानौ दिवसे वा मृतो भवेत् । स चाग्निलोकमासाद्य तपो- युक्तो भवेत् सदा ॥६३॥ तत्र भोगेप्सुतां ज्वाल्य गच्छेच्छक्तिं महामतिः । तत्राभिमानमुत्सृज्य गच्छेत् दिवं दिवाकरम् ॥६४॥ अतिध्यानेन संयुक्तस्तत्रात्मानं स चिंतयेत् । अंतरात्मानमुत्सृज्य गच्छेद्वैकुंठमेव च ॥६५॥ तत्रानंदं परित्यज्य शिवं गच्छेन्न संशयः । तत्र साक्षित्वमुत्सृज्य गच्छेत् स्वानंदमंजसा ॥६६॥ तत्र गणेश्वरं दृष्ट्वा ब्रह्मीभूतो नरो भवेत् । शुक्लगतिप्रभावेण कथितं ते प्रजापते ॥६७॥ यदा दक्षिणगे भानौ रात्रौ वा स मृतो भवेत्। भुक्तिमुक्तिपरः सोऽपि गच्छेत् स्वर्गं ततो नरः ॥६८॥ नानास्वर्गफलं भुक्त्वा स्वकर्मनिर्मितं नरः । पुनः पतेद्दिधे भूमौ तत्र मोक्षरुचि- र्भवेत् ॥६९॥ ततः शुक्लां समाश्रित्य मोक्षं गच्छेत् स योगवित् । एवं जानीहि भो दक्ष गत्योर्मार्गं पुरातनम् ॥७०॥ यद्येकदेवतां श्रित्वा तद्भक्तस्तत्परः सदा । उपासनाविधानेन स्वधर्मस्थो भजेत् स ताम् ॥७१॥ स मृतः स्वेष्टदेवस्य लोकं गच्छेन्न संशयः । तत्क्षणाच्चंद्रसूर्याख्यौ मार्गौ नैव प्रकीर्तितौ ॥७२॥ तत्र भोगान् प्रभुंजानः स पतेदिह निश्चितम् । त्रिगुणात्ममया देवास्तेषां नाशे प्रजापते ॥७३॥ यदा गणेश्वरं सोऽपि भजेदत्रैव मानवः । अंते स्वानंदगो भूत्वा ब्रह्मीभूतो भविष्यति ॥७४॥ स्वानंदो नाशहीनश्च सदा ब्रह्मसुखप्रदः । अतः स्वानंदमाश्रित्य ब्रह्मीभूतो भविष्यति ॥७५॥ मरणे दाघहीनश्चेत्तेजस्तत्त्वं समाश्रितः । अथवा धूम्रतत्त्वं स शुक्लकृष्णगतिश्रितः ॥७६॥ पूर्ववत् सर्वमाख्यातं तस्य सर्वं