मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
शरणागतम्। जन्ममृत्युविहीनं वै कुरुष्व ते पदप्रियम् ॥५२॥ एवं संस्तुतवंतं तं नवमासादनंतरम्। प्रसूतिजो महा- वायुर्बहिः कुर्यान्नरं क्षणात् ॥५३॥ वायुना चालितः सोऽपि मुमूर्च्छ दुःखसंयुतः । संकीर्णांगः पतेज्जंतुर्धरण्यां योनि- मार्गत्तः ॥५४॥ भवेत् स सावधानोऽत्र विस्मृतो ज्ञानमुत्तमम् । बालभावधरः कुर्याद्रोदनं धरणीतले ॥५५॥ फलहीनं भवेत् सर्वं गर्भागारकृतं महत् । ज्ञानादिकमतो भूमौ साधयेत् सर्वमंजसा ॥५६॥ न साधितं नरेणात्र कर्मभूमौ प्रजापते । ज्ञानादिकं तदा सोऽपि गर्भजं दुःखमश्नुते ॥५७॥ एवं कृष्णा गतिश्चैव कथिता ते विशेषतः । जन्ममृत्युंकरी जंतोः सुखदुःखप्रदायिनी ॥५८॥ इदं गर्भकृतं स्तोत्रं यः पठिष्यति मानवः । स भुक्त्वा सकलान् भोगानंते स्वानंदगो भवेत् ॥५९॥ न कदाचिल्लभेत सोऽपि गर्भवासं प्रजापते । अतो विशेषतो जंतुर्निरंतरमिदं जपेत् ॥६०॥ अधुना कथयिष्यामि ह्यन्यमर्थं सुखप्रदम् । शुक्लकृष्णगतिसंस्थं येन ज्ञानं तयोर्भवेत् ॥६१॥ भक्तिमुक्तिप्रलोभार्थं नरः कुर्यान्निरंतरम् । कर्म स्वधर्मसंयुक्तो नानादैवं स योगवित् ॥६२॥ उत्तरायणगे भानौ दिवसे वा मृतो भवेत् । स चाग्निलोकमासाद्य तपो- युक्तो भवेत् सदा ॥६३॥ तत्र भोगेप्सुतां ज्वाल्य गच्छेच्छक्तिं महामतिः । तत्राभिमानमुत्सृज्य गच्छेत् दिवं दिवाकरम् ॥६४॥ अतिध्यानेन संयुक्तस्तत्रात्मानं स चिंतयेत् । अंतरात्मानमुत्सृज्य गच्छेद्वैकुंठमेव च ॥६५॥ तत्रानंदं परित्यज्य शिवं गच्छेन्न संशयः । तत्र साक्षित्वमुत्सृज्य गच्छेत् स्वानंदमंजसा ॥६६॥ तत्र गणेश्वरं दृष्ट्वा ब्रह्मीभूतो नरो भवेत् । शुक्लगतिप्रभावेण कथितं ते प्रजापते ॥६७॥ यदा दक्षिणगे भानौ रात्रौ वा स मृतो भवेत्। भुक्तिमुक्तिपरः सोऽपि गच्छेत् स्वर्गं ततो नरः ॥६८॥ नानास्वर्गफलं भुक्त्वा स्वकर्मनिर्मितं नरः । पुनः पतेद्दिधे भूमौ तत्र मोक्षरुचि- र्भवेत् ॥६९॥ ततः शुक्लां समाश्रित्य मोक्षं गच्छेत् स योगवित् । एवं जानीहि भो दक्ष गत्योर्मार्गं पुरातनम् ॥७०॥ यद्येकदेवतां श्रित्वा तद्भक्तस्तत्परः सदा । उपासनाविधानेन स्वधर्मस्थो भजेत् स ताम् ॥७१॥ स मृतः स्वेष्टदेवस्य लोकं गच्छेन्न संशयः । तत्क्षणाच्चंद्रसूर्याख्यौ मार्गौ नैव प्रकीर्तितौ ॥७२॥ तत्र भोगान् प्रभुंजानः स पतेदिह निश्चितम् । त्रिगुणात्ममया देवास्तेषां नाशे प्रजापते ॥७३॥ यदा गणेश्वरं सोऽपि भजेदत्रैव मानवः । अंते स्वानंदगो भूत्वा ब्रह्मीभूतो भविष्यति ॥७४॥ स्वानंदो नाशहीनश्च सदा ब्रह्मसुखप्रदः । अतः स्वानंदमाश्रित्य ब्रह्मीभूतो भविष्यति ॥७५॥ मरणे दाघहीनश्चेत्तेजस्तत्त्वं समाश्रितः । अथवा धूम्रतत्त्वं स शुक्लकृष्णगतिश्रितः ॥७६॥ पूर्ववत् सर्वमाख्यातं तस्य सर्वं
खं. ९ अ. १३ पान ४५ प्रजापते। एवं विस्तरतो गत्योः कथितं ते प्रजापते ॥७७॥ अतो गणेश्वरं दक्ष समाश्रय हितप्रदम्। योगक्षेमं स ते कुर्यादनन्यचेतसः सदा ॥७८॥ न शुक्ला नैव कृष्णा ते भविष्यति गतिः कदा। ब्रह्मभूयमयं भावं प्राप्स्यसे नात्र संशयः ॥७९॥ ॥ ॐ तत्सदिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन शुक्लकृष्णगतियोगो नाम द्वादशोऽध्यायः ॥ ॥ इति योगगीतासूपनिषत्सु सुगमासु अष्टमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच। क्षेत्रं वद महाभाग क्षेत्रज्ञं च तयोः परम्। सर्वगं ब्रह्म यत् प्रोक्तं येन ज्ञानं तयोर्भवेत् ॥१॥ मुद्गल उवाच। देहं क्षेत्रमयं विद्धि देही क्षेत्रज्ञमंजसा। तयोर्योगे महद्ब्रह्म स्वत उत्थानसंज्ञितम् ॥२॥ भूतानि पंचतन्मात्राः पंच ज्ञानेंद्रियाणि तु। कर्मेंद्रियाणि पंचैव वायवः पंच देवताः ॥३॥ इंद्रियाणां दशैवाऽपि द्वेष इच्छा धृतिस्तथा। अव्यक्तं चेतना दुःखं सुखं मोहनमेव च ॥४॥ चित्तं बुद्धिः स्थूलसूक्ष्मे कारणं च तुरीयकम्। एतेषां योगभावे यत् क्षेत्रं तत् कथितं बुधैः ॥५॥ सदैकभावरूपश्च भेदैः संवर्जितः परः। क्षेत्रज्ञः क्षेत्रमास्थाय सर्वांतर्यामितां दधे ॥६॥ तयोर्योगे परं ब्रह्म दृश्यादृश्य- विवर्जितम्। दृश्यादृश्यमयं पूर्णं बोधरूपं प्रजापते ॥७॥ स्थूलसूक्ष्मसमात्माख्यैर्भावैर्माया विशेषतः। क्षेत्रज्ञं मोह्यस्वाधीनं करोति नित्यमादरात् ॥८॥ चतुर्भेर्दैर्विशेषेण मोहितोऽत्यंतमेव सः। अहं देहस्वरूपाख्यो मन्यते सततं मुधा ॥९॥ ततः क्षेत्रस्य भोगार्थं नानाकर्मपरायणः। त्रिगुणेषु भ्रमेणैव भ्रमतेऽहंममात्मकः ॥१०॥ ततस्तमोगुणं त्यक्त्वा राजसं धारयेन्नरः। राजसं च ततस्त्यक्त्वा सात्त्विकः संभवेत् क्रमात् ॥११॥ ततस्तुरीयमाश्रित्य गणेशं स भजेत् परम्। सर्वगं पंचमं साध्यं ब्रह्मीभूतो भवेन्नरः ॥१२॥ इह सौख्यप्रदं यच्च कर्म संजायते सदा। पापरूपमयं तेन ज्ञायते न कदाचन ॥१३॥ देहभोग- करं पूर्णं शिश्नोदरपरायणम्। तामसं तद्विजानीहि चांते नरकदं भवेत् ॥१४॥ तत्र तामससंयुक्ता भुक्त्वा दुःखं महाद्भुतम्।
[header] ख. ९ अ. १३ पान ४६ [/header]
पुना रोगादिसंयुक्ता भवंति नीचयोनिषु ॥१५॥ काणमूकादिदोषैस्ते संयुक्ताः पापचेतसः । दरिद्रादिसमायुक्ता भोगैर्हीना भवंत्यपि ॥१६॥ पुनः पापसमाचारा भवंति यदि मानवाः । अंते यमस्य गेहे ते नरकस्थाः पुनः पुनः ॥१७॥ अतस्तमो- गुणस्थं स्वभावं त्यक्त्वा च मानवाः । धर्मार्थधृतिसंयुक्ता यत॑ते दैवयोगतः ॥१८॥ विद्धि राजसगं भावं नरा भुवि सकामक्म् । सततं कर्म कुर्वंति भोगदं धर्मसंयुताः ॥१९॥ वासनासंयुक्तं कर्म स्वधर्मस्थं भवेत्किल । तदेव राजसं विद्धि नानाभावगतं परम् ॥२०॥ राजसाः सर्वभोगं तु भुक्त्वा पुनः पतंत्यपि । इह ये यादृशं कर्म कुर्वते तादृशं फलम् ॥२१॥ अथवा स्वल्पभावेन कृतं राजससंभवम् । कर्म तेन नरा भूमौ भवंते तत्क्षणात् पुनः ॥२२॥ अथवा विविधास्ते ते योनिषु संभवंत्यपि । नीचोच्चासु विशेषेण जन्ममृत्युपरायणाः ॥२३॥ राजसानां प्रजानाथ नरको नैव विद्यते । स्थावरं जंगमं श्रित्वा भवंते जन्मसंयुताः ॥२४॥ तन्न दुःखं सुखं नाना भुंजते नात्र संशयः । एवं राजसगं सर्वं कथितं ते समासतः ॥२५॥ अतः परं प्रवक्ष्यामि सात्त्विकं कामवर्जितम् । स्वधर्मस्था जना विद्धि तत्कुर्वंति निरंतरम् ॥२६॥ ब्रह्मार्पणतया यद्यद्भवति कर्म धर्मजम् । नानाविधं परं तत्तत् सात्त्विकं विद्धि मानद ॥२७॥ तेन शुक्लगतिं श्रित्य गच्छंति मोक्षमंजसा । अतः सत्त्वगुणेनैव युक्ता भवंति मानवाः ॥२८॥ अतःपरं तुरीयं ते कथयामि समासतः । रसहीनस्वभावेन चित्तं देह- समन्वितम् ॥२९॥ तदा भवति चेत्तुर्यं कर्म संजायते परम् । नानाविधं जगत् सर्वं ब्रह्माकारं न संशयः ॥३०॥ यद्यत्तेन कृतं कर्म तदेव ब्रह्मदं भवेत् । स्तुतिनिंदादिकं किंचिन्नैव तत्र प्रकीर्तितम् ॥३१॥ देवभक्तादिकं दक्ष नैव तुर्ये प्रतिष्ठितम् । ब्रह्मणि समभावेन वर्तते सर्वदा स्वयम् ॥३२॥ अंतरे सर्वभावेषु पश्यति विश्वरूपिणम् । तदा तुरीयगं कर्म कचिद्भवति नान्यथा ॥३३॥ एवं सर्वसमत्वेन यद्द्भवेत्तत्तुरीयकम् । कर्म प्रारब्धयोगेन ब्रह्मणो रसभावतः ॥३४॥ अंतेऽस्मितामये तेन लीनो भवति मानवः । महाकारणभावेन भवेत् त्रिगुणचालकः ॥३५॥ अतः परमहं कर्म कैवल्यं कथयामि ते । निषेध- विधिहीनं यद्भवते कर्म स्वेच्छया ॥३६॥ ब्रह्मभूयमयं विद्धि पंचमं योगिसंमतम् । कर्ता देहो न संदेहस्तुरीयं प्रेरकं मतम् ॥३७॥ कुतस्तत्र व्यवस्थारूयं तुरीयं वर्तते परे । चतुर्विधं येन सृष्टमिदं सर्वं स्वलीलया ॥३८॥ स एव कर्तृभावेन कारयितृप्रभावतः । तत्र तिष्ठति कोऽहं तु कुतो ब्रह्मविचारतः ॥३९॥ नाहं नरो न वै ब्रह्म मया साध्यं निरंतरम् । भ्रांत्या सर्वं न संदेहो दृश्यते मायया मयि ॥४०॥ स्वेच्छया खेलति ब्रह्म चतुर्भेदमयं परम् । शुभाशुभं तस्य नास्ति वृथाऽहंतां
शीर्षक (Header): खं. ९ अ. १३ | पान ४७
त्यजेन्नरः ॥४१॥ अनेनानुभवेनैव शांत्या संवर्तते नरः । रसं सर्वत्र संत्यज्य ब्रह्मणो रसधारकः ॥४२॥ एवं चतुर्विधे भावे स्थितं देहिस्वरूपकम् । देहभ्रांतिविहीनं तत्कृत्वा सोऽहंपरो भवेत् ॥४३॥ एवं क्रमेण योगींद्रो भवेद्योगान्नरोत्तमः । कथितं विस्तरात् सर्वं क्षेत्रक्षेत्रज्ञसाधनम् ॥४४॥ अथ वर्णाश्रमाचारं शृणु सर्वसुखप्रदम् । येन धर्मार्थकामांश्च लभेन् मोक्षं नरोत्तमः ॥४५॥ चित्तेंद्रियाणि वश्यानि क्षमार्जवतपांसि च । शौचं श्रुतिस्मृतीनां वै ज्ञानं यत्र प्रतिष्ठति ॥४६॥ वेदाधार- विहीनं यन्न करोति कदाचन । सदा ब्रह्मपरो यस्माद्ब्राह्मणः स च संस्मृतः ॥४७॥ शौर्यं दाक्ष्यं तथा दार्ढ्यं युद्धे संमुखता सदा । शरण्यरक्षणं नित्यं प्रभुत्वं दंडधारणम् ॥४८॥ धृतिः क्षात्रं सदा तेजश्चित्तमौदार्यसंयुतम् । सुनीत्या पालनं पंच कर्मयुक्तः स बाहुजः ॥४९॥ क्रयविक्रयकौ नित्यं वस्तूनां भूमिकर्षणम् । गवां पालनकं त्रेधा कर्मयुक्तः स वैश्यकः ॥५०॥ त्रिवर्णसेवनं दानं नाममंत्रं जपेत् परम् । पुराणश्रवणं शौद्रं कर्म पौराणिकं द्विजात् ॥५१॥ अंत्यजानां पुराणोक्तं कर्म विप्रमुखोद्गतम् । नैव शूद्रसमं चान्यदस्पर्शत्वं द्विजादिषु ॥५२॥ कृतोपवीतको विप्रः क्षत्रियो वैश्य एव यः । वेदादिकं समभ्यस्यन् ब्रह्मचर्ययुतो भवेत् ॥५३॥ भिक्षाशनो भवेन्नित्यं गुरोराज्ञावशानुगः । गायत्रीं संजपेन्नित्यं त्रिकालेषु च रोमधृक् ॥५४॥ सायं प्रातश्च जुहुयात् हविर्नित्यं जितेंद्रियः । षोडशाब्दं द्वादशाब्दं ब्रह्मचर्यं चरेत् परम् ॥५५॥ पंचयज्ञपरो नित्यं नैमित्तं स समाचरेत् । कृतदारः प्रजार्थं स ऋतुगामी भवेद् गृही ॥५६॥ स्त्रीसंगं संपरित्यज्य स्त्रिया युक्तो वसेद्वनम् । वन्येन सर्वकर्माणि कुर्यान्नित्यं तपः परम् ॥५७॥ नखलोमयुतश्चैव न ग्रामेषु प्रवेशयेत् । कुर्यादेवं वानप्रस्थो वायुभक्ष्यादिकं चरेत् ॥५८॥ मनसाऽपि स्मरेन्नैव स्त्रीसंगं न्याससंयुतः । चित्तनिग्रहसंयुक्तो भिक्षाशी सततं नरः ॥५९॥ कपर्दिकादिकं किंचिन्न स्पृशेत् स कदाचन । ब्रह्मणि ब्रह्मभूतत्वं तदर्थं श्रमयेत् सदा ॥६०॥ साक्षिवद् देहसंस्थोऽपि मौनादिदंडधारकः । अथवा दंडहीनः स ज्ञानदंडधरो भवेत् ॥६१॥ एवं संन्यासकं कृत्वा सदा तिष्ठेद्यतात्मवान् । मुक्तिमार्गमयं शास्त्रं स्पृशेन्नान्यद्विनिश्चितम् ॥६२॥ वर्णाश्रमविहीनश्चेद्योगी पंचमगः स्मृतः । विधिनिषेधहीनः स यथा विनायको भवेत् ॥६३॥ एतत्ते सर्वमाख्यातं स्वधर्माचरणादिकम् । येनैव प्राप्यते योगो नरेण ब्रह्मदायकः ॥६४॥ दक्ष उवाच । धर्मार्थकाममोक्षाणां स्वरूपं वद मानद । ब्रह्मीभूतस्य भिन्नं मे भ्रमनाशकरं परम् ॥६५॥ केचिद्धर्मं महाश्रेष्ठमर्थं कामं तु मोक्षकम् । परात्परं वदंत्येव ब्रह्मभूयं तथाऽपरे ॥६६॥ मुद्गल उवाच । धर्मेण ब्रह्मलोकश्च लभ्यते मानवैः परः । ब्रह्मा सर्वसमानश्च स्वधर्माख्यः
पादलेख (Footer): मु. पु. ७
[पान ४८]
प्रकीर्तितः ॥६७॥ अर्थः समर्थभावाख्य ईशलोकप्रदायकः । ईश्वरान्न समर्थोऽन्यः पश्य ब्रह्मांडमंडले ॥६८॥ कामो भोगात्मकः प्रोक्तो विष्णुलोकप्रदायकः । स लक्ष्मीपतिराख्यातो नानाकामप्रदः प्रभुः ॥६९॥ मुक्तिः सौरात्मिका प्रोक्ता सूर्यः पुरुष उच्यते । शुक्लमार्गधरः पूर्णः साक्षात् साक्षी विभावसुः ॥७०॥ ब्रह्मीभूतमयः प्रोक्तः स्वानंदः पूर्णयोगदः । वदंति न परं लोकं स्वानंदाद्वेदवादिनः ॥७१॥ अन्यच्छृणु प्रजानाथ पंचैते योगदायकाः । योगार्थवाचकाः सर्वे तत्र भेदं वदाम्यहम् ॥७२॥ योगधर्मेण योगश्च लभ्यते मानवैः परः । न योगादपरः श्रेष्ठस्तेनार्थोऽयं प्रकीर्त्यते ॥७३॥ योगकामेन योगोऽयं लभ्यते सर्वभावतः । मायाया वरणं त्यक्त्वा मोक्षयोगः प्रकीर्त्यते ॥७४॥ ब्रह्म ब्रह्मणि वेदेषु कथितं नात्र संशयः । तत्र योगेन योगी यो ब्रह्मीभूतः स वै स्मृतः ॥७५॥ धर्मार्थकाममोक्षाख्या योगशास्त्रे विशेषतः । भिन्ना मायामयाः प्रोक्ता ब्रह्मीभूतस्तु पंचमः ॥७६॥ ब्रह्मणि ब्रह्मभूतो यो योगी एव स उच्यते । न भिन्नः सर्वथा तस्माद्ब्रह्मणो ब्रह्मगः परः ॥७७॥
॥ ॐ तत्सदिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन क्षेत्रक्षेत्रज्ञज्ञानयोगो नाम त्रयोदशोऽध्यायः ॥ ॥ इति योगगीतासूपनिषत्सु सुगमासु नवमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । वक्ष्यामि भावनां चैकां वेदशास्त्रार्थसंयुताम् । नानामतभयं त्यक्त्वा तया योगी भवेन्नरः ॥१॥ चैतन्यं न्यायशास्त्रज्ञा वदंति ब्रह्ममुख्यकम् । चैतन्येन युताः सर्वे स्वस्वकार्यपरायणाः ॥२॥ सर्वप्रकाशक- त्वात्तच्चैतन्यं ब्रह्मसंज्ञितम् । चैतन्येन यदा त्यक्तं तदा नाशमुपैष्यति ॥३॥ पंचचित्तात्मयोगेन चैतन्यं ब्रह्मसंज्ञितम् । भवत्यत्र न संदेहः शब्दार्थानामनेकतः ॥४॥ तार्किकाः प्रवदंत्येव सर्वाभेदं परं मतम् । ब्रह्मवेदांतवादेषु विद्यते शास्त्रसंमतौ ॥५॥ पंचचित्तमया भेदा अभेदा योगिना कृताः । योग एकार्थभावाख्यो भवत्यर्थप्रमाणतः ॥६॥ धर्मशास्त्र-
खं. ९ अ. १४ पान ४९
विदः सर्वे बोधान्नैव परं पदम् । ब्रह्म बोधमयं मुख्यं भावाभावविवर्जितम् ॥७॥ पंचचित्तगतो धर्मस्त्यक्तव्यस्तेन योगकः । धर्मो भवेन्न संदेहो ब्रह्मधर्मधरः प्रभुः ॥८॥ सांख्या वदंति सांख्यं यद्ब्रह्म संख्याविवर्जितम् । विबोधान्न परं ब्रह्म खेलहीनप्रभावतः ॥९॥ तत्र पंचविधं चित्तं परं योगेन संख्यया । हीनं तदेव भवति योगाख्यं शब्दमानतः ॥१०॥ मीमांसका वदंत्येव स्वसंवेद्यं परं मतम् । कारणं ब्रह्म तत्रान्यन्नास्ति ब्रह्मणि संस्थितम् ॥११॥ पंचचित्तं परित्यज्य ब्रह्मरूपं करोति तत् । मीमांसया स्वयं योगी योगवाच्यं भवेत् परम् ॥१२॥ एवं नानामर्तैर्युक्ता वदंति शास्त्रभेदतः । ब्रह्म नानाविधं दक्ष तदेवं योगगं भवेत् ॥१३॥ शक्तिर्ब्रह्मेति शाक्ता वै ते वदंति न तत्परम् । संयोगो द्वंद्वयोर्यत्र तदेवं योगगं भवेत् ॥१४॥ शक्तिः पंचमचित्तांगा सा ब्रह्मणि समागता । परिगृह्य निरोधाख्यं चित्तं देवी ततः स्मृता ॥१५॥ सौरं ब्रह्मेति सौराश्च वदंति तु परात्परम् । तस्मात्परं न विद्येत सर्वाधारप्रमाणतः ॥१६॥ भेदात्मकं स संजीव्य नित्यं तिष्ठति चादरात् । तेन योगमयः सूर्यो भवत्यत्र न संशयः ॥१७॥ वदंति विष्णुर्ब्रह्मेति मुख्यं यद्वैष्णवा जनाः । तस्मात् परं पदं नास्ति सदानंदप्रमाणतः ॥१८॥ चित्तं यत् पंचमं तत्र मोहं त्यक्त्वा तदात्मकम् । ब्रह्मयोगे भवेद्योग आनंदो नात्र संशयः ॥१९॥ शैवाः शैवं परं ब्रह्म वदंति मुख्यभावतः । वेदे तस्मात् परं नास्ति किंचिन् मोहविहीनकम् ॥२०॥ निरोधं त्रिविधं दक्ष पराधीनं न संशयः । तत्रस्थं योगरूपाख्यं स्वाधीनं योगगं भवेत् ॥२१॥ एवं नानामर्तैर्युक्ता स्वस्व- देवपरायणाः । वदंति तत् प्रमाणं वै शब्दानांमर्थभावतः ॥२२॥ अनेकार्थमयाः शब्दास्तेषु किं किं न संभवेत् । सर्वे योगार्थवाच्या वै जायंते योगिनः क्रमात् ॥२३॥ अन्नप्राणादिकाः शब्दा एवं ब्रह्मप्रवाचकाः । ते सर्वे योगदा दक्ष भवंति ब्रह्मधारणात् ॥२४॥ वेदांतमथ वक्ष्यामि सर्वमान्यं विशेषतः । शास्त्राणि च तदंगानि तत्प्रमाणानि सर्वदा ॥२५॥ यः सर्वं सर्वभावेषु युतो जानाति मायया । मायाहीनप्रभावेण योगस्तिष्ठति नित्यदा ॥२६॥ तदेव ब्रह्ममुख्यं तु सर्वेभ्यो नात्र संशयः । ब्रह्मभ्य ऋग्जगादैव प्रज्ञानं योगगं स्मृतम् ॥२७॥ पंचचित्तभवं सर्वं यो जानाति तदेव सः । योगस्तद्गतभावैः संर्वाजितो भवति प्रभुः ॥२८॥ अहं ब्रह्मेति यद्ब्रह्म सर्वदोषविवर्जितम् । सदैव यजुषा प्रोक्तं मुख्यं वै परतः परम् ॥२९॥ पंचचित्तभवा भेदास्तेष्वेवं भेदवर्जितम् । योगं विद्धि प्रजानाथ योगशास्त्रप्रमाणतः ॥३०॥ मायामोहयुतं यच्च मायामोह- विवर्जितम् । तयोर्योगे परं ब्रह्म सान्ना संकथितं किल ॥३१॥ मायामोहयुतं ब्रह्म स्वानंदाख्यं ततः परम् । अयोगं मायया
हीनं तयोर्योगे तु योगगम् ॥३२॥ ब्रह्म ब्रह्मणि संस्थं यन्मनोवाणीमयं न तत् । मनोवाणीविहीनं नाथर्ववेदो जगाद ह ॥३३॥ मनोवाणीमयः प्रोक्तः संप्रज्ञातो न संशयः । असंप्रज्ञातस्ताभ्यां हीनो योगस्तयोः परः ॥३४॥ एवं वेदार्थयुक्तानि महावाक्यानि मानद । योगाख्यानि विशेषेण जानीया योगसेवया ॥३५॥ कर्मादयः समाख्याताः शब्दा ब्रह्ममया बुधैः । भवंति योगसंज्ञस्थास्ते सर्वे योगिनां मते ॥३६॥ सर्वशास्त्रमतैक्यं ते कथितं शब्दधारणात् । तज्ज्ञात्वा मोहहीनः स सदा भवति मानवः ॥३७॥ ॥ ॐ तत्सदिति श्रीमदाम्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन नानामतैक्ययोगो नाम चतुर्दशोऽध्यायः ॥ ॥ इति योगगीतासूपनिषत्सु सुगमासु दशमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अथो लयं प्रवक्ष्यामि येन चित्तं लयं व्रजेत् । ब्रह्मण्योस्थाय योगं च ज्ञात्वा योगं प्रजापते ॥१॥ लयश्चतुर्विधः प्रोक्तो नित्यो नैमित्तिकः परः । तृतीयः प्राकृतो विप्रैः सारस्वतश्चतुर्थकः ॥२॥ कर्माकर्म- विकर्माख्यो नित्यः प्रोक्तो बुधैः पुरा । कर्मानुकूलभावेन जनानां जननादिकम् ॥३॥ क्षणक्रमादिमारभ्यायुषामंतः समास्थितः । गर्भाधानाद्यवस्थानां प्रकाशश्च प्रकथ्यते ॥४॥ ब्रह्मणो दिवसांते स कुंठितो नात्र संशयः । नैमित्तिकलयैनैव त्रिलोकलयकारिणा ॥५॥ शुभाशुभयुताः सर्वे जंतवो लयमाययुः । शुभाशुभफलैर्हीना बभूवुः कर्मकुंठनात् ॥६॥ स्वर्गमंडलपर्यंतं त्रैलोक्यं प्रलयं गतम् । तावता स प्रमाणेन नित्यः संकथितो बुधैः ॥७॥ अथो नैमित्तिकं दक्ष कथयामि समासतः । चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ॥८॥ नैमित्तिको दिनांतो यस्तदाऽयं वर्तते लयः । तेन नैमित्तिकः प्रोक्तो नाम्ना सर्वार्थकोविदैः ॥९॥ अधुना प्राकृतं वच्मि व्यवस्थाभिर्युतं लयम् । महाकारणं चेदं स प्राकृत उदाहृतः ॥१०॥ तत्त्वानामेकभावेऽयं स्थूलसूक्ष्मसमात्मनाम् । प्राकृतः प्रकृतिस्थत्वात् कथ्यते विबुधैः परः ॥११॥ सारस्वतं परं पूर्णं शृणु योगप्रदं प्रभो । निरोधचित्तभावेन पंचचित्तलयात्मकम् ॥१२॥ मनोवाणीमयं सर्वं
विश्वं नानास्वभावगम् । मनोवाणीविहीनं त्वसंप्रज्ञातं विदुर्बुधाः ॥१३॥ वाण्या संकथ्यते भावो मनस्तत्र प्रगच्छति । नानापदार्थभिन्नत्वात् सर्वेषां प्राणिनां प्रभो ॥१४॥ वाण्या वाणीविहीनं यत् कथितं ब्रह्म हृद्गतम् । चित्तं समाधिना तत्र सदा तिष्ठति तादृशम् ॥१५॥ वाणी सा द्विविधा प्रोक्ता ब्रह्माकारा जगन्मयी । तयोर्नाशे लयः प्रोक्तः परः सारस्वतो बुधैः ॥१६॥ सरस्वतीलयं यत्र योगभावात् प्रगच्छति । महावाक्यादिसंयुक्ता स सारस्वत उच्यते ॥१७॥ सारस्वतलयेनैव चित्तं पंचविधं प्रभो । चिंतामणौ लयं कृत्वा तिष्ठ त्वं योगिसंमतः ॥१८॥ एतत् सर्वं समाख्यातं योगदं ते समासतः । गोपयैनं महायोगं ततो योगी भविष्यसि ॥१९॥ मा योगं कथयस्व त्वमिमं कस्मै प्रजापते । पात्रहीन- प्रभावेण भ्रंशदस्ते भविष्यति ॥२०॥ वासनाहीनभावेन गणेशज्ञानलालसान् । तान् बोधय विशेषेण तदाऽयं शुभदो भवेत् ॥२१॥ अत्र ते कारणं दक्ष कथयामि समासतः । तस्य श्रवणमात्रेण संशयस्तु लयं व्रजेत् ॥२२॥ योगाकारो गणेशानो यदा खेलपरोऽभवत् । तदा तं वचनं माये सिद्धिबुद्धी समूचतुः ॥२३॥ सिद्धिबुद्धी ऊचतुः । यदि खेलं करोषि त्वमावाभ्यां गणनायक । आवां त्वां छादयिष्यावो नानाभावप्रदर्शनात् ॥२४॥ वेदादिभिस्तत्र वाणीमयी गाथा गजानन । स्वरूपं ते यथातथ्यं कथयिष्यति मानवान् ॥२५॥ तेन त्वां ब्रह्मणों नाथं ज्ञास्यंते मानवादयः । त्वदुपासन- मात्रेण भवेयुर्ब्रह्मभूतकाः ॥२६॥ न त्वां छादयितुं शक्ते वाणीस्थं गणनायक । अतस्तदर्थमानंदात् कुरु किंचिद्गजानन ॥२७॥ एवं तयोर्वचः श्रुत्वा ते जगाद गजाननः । मा खेदं कुरुतं देव्यौ वाणीं संमोहयाम्यहम् ॥२८॥ मोहिता सा मया वाणी वर्णनं भ्रांतिदं च मे । करिष्यति प्रगूढार्थयुतं सत्यार्थभाषितम् ॥२९॥ गूढार्थं नैव देवेशा योगीशास्तत्त्वदर्शिनः । ज्ञास्यंति तेन मां सर्वे न भजिष्यंति भावतः ॥३०॥ सिद्धिबुद्धियुतं ब्रह्म वाणी प्रकटयिष्यति । न गणेशमयीं गाथां कथयिष्यति योगदाम् ॥३१॥ सिद्धिबुद्धिमयं सर्वं जगद्ब्रह्म प्रसेव्य यः । यदा शुद्धो नरो भावी तदा मां ज्ञास्यति प्रिये ॥३२॥ परं सिद्धियुतं ब्रह्म कथितं सिद्धिदायकम् । स एव गणनाथोऽयं पतिः सिद्धेः प्रमाणतः ॥३३॥ परं बुद्धियुतं ब्रह्म परं बुद्धेः प्रकथ्यते । गणेश एव संप्रोक्तः पतिर्बुद्धेः प्रमाणतः ॥३४॥ एवं त्रैविध्यगं वाणी वदिष्यति सदा तु माम् । सिद्धिदं बुद्धिगं ब्रह्म शास्त्रेष्वे तत् त्रयं मतम् ॥३५॥ एवमुक्त्वा गणेशानः पुनस्तूष्णीं बभूव तम् । उवाच प्रणनामादौ भक्तिः परम- दुःखिता ॥३६॥ भक्तिरुवाच । वरो दत्तस्त्वया नाथ सिद्धयै बुद्धयै गजानन । तेन भक्तिविहीनाश्च भविष्यंति सदा नराः ॥३७॥
अतोऽहं दुःखसंयुक्ता चरिष्यामि निरंतरम् । मां पालय गणाध्यक्ष भक्तियुक्तान् जनान् कुरु ॥३८॥ एवमुक्तो गणाध्यक्ष- स्तामुवाच सुदुःखिताम् । भक्तिं भक्तिप्रियः पूर्णः स्मयमानः प्रजापते ॥३९॥ श्रीगणेश उवाच । मा शोकं कुरु कल्याणि नरा मद्भक्तिकारकाः । देवनागासुराद्याश्च भविष्यंति न संशयः ॥४०॥ नानादेवपरा ये तु भक्त्या जन्मनि जन्मनि । संतुष्टा अमरास्तेभ्यो दास्यंत्यग्निरुचिं मुदा ॥४१॥ ततस्तेऽग्निं समाराध्य भक्तियुक्ता निरंतरम् । तुष्टं तं वै करिष्यंति नानायज्ञ- परायणाः ॥४२॥ ततस्तस्य कृपायोगात् देवीभक्तियुता नराः । भविष्यंति च ते सर्वे तां भजिष्यंति संयताः ॥४३॥ एवं बहौ गते काले संतुष्टा सा प्रदास्यति । तेभ्यः सौरीं महाभक्तिं भजिष्यंति तया रविम् ॥४४॥ ततो बहौ गते काले सूर्यस्तोषसमन्वितः । उग्रां दास्यति भक्तिं तु वैष्णवीं तेभ्य आदरात् ॥४५॥ तया युक्ता भजिष्यंति विष्णुं भावसम- न्विताः । नरास्ततः स संतुष्टो बहुकाले भविष्यति ॥४६॥ तुष्टो विष्णुः स्वयं तेभ्यो दाता स्याद्भक्तिमुत्तमाम् । शैवीं तया ततस्ते तं भजिष्यंति सदाशिवम् ॥४७॥ ततो बहौ गते काले तुष्टः शंभुः प्रदास्यति । भक्तिं गाणेश्वरीं तेभ्यो भजिष्यंति तया च माम् ॥४८॥ नराः शांतिं समालभ्य मत्तो योगपरायणाः । ब्रह्मीभूता भविष्यंति भजिष्यंति तथाऽपि ते ॥४९॥ एवं क्रमेण मद्भक्ता भविष्यंति नरादयः । त्वद्युक्ता मां भजिष्यंति तेषां वश्यो भवाम्यहम् ॥५०॥ न भक्ते ते समं मे वै प्रियं किंचिद्भविष्यति । यत्र भक्तिर्गता तत्र यथा स्थास्यामि किंकरः ॥५१॥ स्वानंदं लक्षलाभौ च सिद्धिं बुद्धिं मदीय कम् । सर्वं तेभ्यः प्रदास्यामि भक्तेभ्यो नात्र संशयः ॥५२॥ अयं मदीयदेहश्च भक्त्यधीनो भविष्यति । भक्ताग्रे भक्तरूपेण सदा स्थास्यामि दासवतू ॥५३॥ कर्मभ्यश्चाधिकं भक्ते तपः परमदुश्चरम् । तपोभ्यश्चाधिकं ज्ञानं निःसंगपददायकम् ॥५४॥ ज्ञानाद्योगः समाख्यातोऽधिकः शांतिप्रदायकः । तस्माच्च त्वं महाभक्ते भविष्यस्यधिका प्रिया ॥५५॥ भक्तेः परं न किंचिन् मे ह्यधिकं शास्त्रसंमतम् । भविष्यति महाभागे मा चिंतां कुरु सर्वथा ॥५६॥ अन्यद्वाणी मदीयं यद् गूढं रूपं वदिष्यति । तदर्थं ते प्रियं भक्ते करोमि शृणु मे वचः ॥५७॥ मदीयभुज- संस्थोऽयं मुद्गलः सर्वदर्पहा । स एव ब्राह्मणो भूत्वा चरिष्यति निरंतरम् ॥५८॥ कृतं तेन मदीयं वै पुराणं वेदवृंहितम् । गूढार्थद्योतनं भावि सर्वेभ्यो भक्तिदायकम् ॥५९॥ स्वरूपं तत्र मे भक्ते प्रकटं पश्यतां नृणाम् । शृण्वतां तत्तदा पूर्ण भविष्यति न संशयः ॥६०॥ तथापि दुर्लभा भक्तिर्मदीया त्वं भविष्यसि । अतोऽल्पज्ञा न मां देवि भजिष्यंति कदा-
खं. ९ अ. १६ पान ५३ चन ॥६१॥ विघ्नं मौद्गलशास्त्रेऽहं करिष्यामि भ्रमप्रदम् । अश्रद्धं तेन नष्टं तद्भविष्यति कदा कदा ॥६२॥ तव भावस्य रक्षार्थं मौद्गलं निर्मितं मया । अतः परं महाभक्ते वद किं ते करोम्यहम् ॥६३॥ एवं तस्य वचः श्रुत्वा हर्षिता सा ननाम तम् । गणेशं भावगंभीरा न किंचित् पुनरब्रवीन् ॥६४॥ एतत्ते कथितं दक्ष गुह्यं विघ्नेश्वरस्य यत् । अतो गुप्तं प्रकर्षेण शास्त्रं कुरु मदीयकम् ॥६५॥ त्वं दक्षः सर्वभावेषु दक्षाद्दक्षो न विद्यते । अतस्तुभ्यं मया सर्वं कथितं शास्त्रमुत्तमम् ॥६६॥ हृदिस्थेन गणेशेन प्रेरितोऽहं प्रजापते । तदाज्ञया हृदिस्थं मे कथितं शास्त्रमुत्तमम् ॥६७॥ अनेन विधिना दक्ष भज त्वं गणनायकम् । तेनेप्सितं समासाद्य गाणपत्यो भविष्यसि ॥६८॥ ॥ ॐ तत्सदिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन गणेशरहस्ययोगो नाम पंचदशोऽध्यायः ॥ ॥ इति योगगीतासूपनिषत्सु सुगमासु एकादशोऽध्यायः ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं कृतकृत्योऽहं कृतस्तवद्य महामते । त्वदाज्ञावशगः स्वामिन् गुप्तं ग्रंथं करोमि ते ॥१॥ अधुना वद मे भक्तिं गणेशस्य तया परम् । भजिष्यामि विशेषेण सदा भक्तिपरायणः ॥२॥ मुद्गल उवाच । सांख्ययोगौ प्रजानाथ शृणु ते कथयाम्यहम् । ताभ्यां युक्तस्ततो भक्तिं करिष्यसि परां मुदा ॥३॥ चित्तं पंचविधं प्रोक्तं पंचसंख्याविवर्जितम् । कुरु चिंतामणौ लीनभावेन त्वं सुयोगतः ॥४॥ एतत् सांख्यं समाख्यातं गणेशाभेददायकम् । तेन योगी भवेत् सद्यः शांतियुक्तो विशेषतः ॥५॥ पंचचित्तोद्भवेषु त्वं भोगेष्वसि सुसंस्थितः । बिंबरूपेण तान् भुंक्ष्व शांत्या रससमन्वितः ॥६॥ चित्तेषु चित्तभूतेषु कर्म ज्ञानादिकं भवेत् । तद्गणेशार्पणं सर्वं कुरु त्वं नित्यमादरात् ॥७॥ स्वधर्मसंस्थितं देहं चित्तं शांतिसमन्वितम् । कुरुष्व सततं दक्ष ब्रह्मभावपरायणः ॥८॥ अयं योगः समाख्यातः शास्त्रे वै सर्वसंमतः । वेदेषु च पुराणेषु ब्रह्मभूयप्रदायकः ॥९॥ सांख्ययोगौ समाराध्य भजस्व गणनायकम् । योगाकारं समाध्याय तन्निष्ठस्तत्परायणः ॥१०॥ श्रवणं गणनाथस्य गुणानां नित्यमादरात् । कीर्तनं तस्य तद्वत्त्वं कुरुष्वैतद्रसैर्युतम् ॥११॥
खं. ९ अ. १६ पान ५४ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ गाणेशस्य च भावस्य विस्मृतिं मा कुरु प्रभो। गणेशपादजं मोहं धारयेः सत्यभावतः ॥१२॥ सांगं गणेश्वरस्यैव कुरु सर्वं विशेषतः। गणेशात्न परं श्रेष्ठं तस्मात्तन्निष्ठको भव ॥१३॥ गाणपत्यस्य मार्गस्य सेवनं कुरु सर्वदा। साक्षिरूपं गणेशानं ज्ञात्वा हृत्स्थं भजस्व च ॥१४॥ गणेशात्नैव भिन्नोऽहं भावयस्व निरंतरम्। एवं नवप्रकारैस्तं भज त्वं भक्तिसंयुतः ॥१५॥ बाह्यांतरं गणेशार्थं कुरु त्वं कर्म चादरात्। नवधा खंडभावेन पूर्णभक्तो भविष्यसि ॥१६॥ अथो चतुर्विधां भक्तिं कथयामि शृणुष्व ताम्। कायिकां वाचिकां पूर्णां मानसीं नित्यदा कुरु ॥१७॥ तथा सांसर्गिकीं दक्ष तस्याश्चिह्नं वदाम्यहम्। गणेशार्थं सदा देहश्रमं कुरु महामते ॥१८॥ गणेशभावहीनां यां वाचं मा त्वं वदस्व ताम्। गणेशचिंतनं तद्वागणेशे भावकस्य वा ॥१९॥ गणेशभक्तियुक्तानां संगतिं कुरु सर्वदा। एवं भजस्व भक्त्या त्वं भक्तराजो भविष्यसि ॥२०॥ भक्तिः सा द्विविधा दक्ष मानवैः क्रियते परा। पाखंडसंयुता पूर्णा देवप्रीत्यर्थमेव वा ॥२१॥ देहे विषयभोगार्थं भजनं संप्रवर्तते। पाखंडिनां सदा दक्ष लोकमोहकरं परम् ॥२२॥ पाखंडभजनस्यैव चिह्नं मुख्यं वदाम्यहम्। तच्छृणु त्वं हितार्थाय लोकानां लोकतारक ॥२३॥ सर्वाहंकारनिर्मुक्तः पाखंडी दृश्यते जनैः। जना मोहयुता येन भवंति भजनं यतः ॥२४॥ यत्र येषां रुचिर्दक्ष यादृशी तादृशं सदा। करोति तत्र यत्नेन सर्वभावं प्रदर्शयन् ॥२५॥ येनैव विषयाणां च प्राप्तिः संजायते परा। तादृशं भजनं तस्य परं भवति सर्वदा ॥२६॥ अथवा चैकनिष्ठः स भवति देवतत्परः। स्वदेवभक्तान् संमोह्य भुंक्ते दुष्टोऽर्थलालसः ॥२७॥ स्वदेवभजने सक्ता जनाः स्वल्पमतो बहु। तेषां रुचिप्रमाणेेन भवति भजनं यतः ॥२८॥ जनानां मोहदा भक्तिः कथिता ते प्रजापते। पाखंडिभिः सदा पूर्णा सेव्यते सा रुचिप्रदा ॥२९॥ पाखंडसंयुता नित्यं भक्तिं कुर्वंति शाश्वतीम्। चांडालास्ते मताः शास्त्रे देवानां दुःखदायकाः ॥३०॥ सत्यसंकल्पसिद्ध्या ते संयुतं देव- मुत्तमम्। संगृह्य भिक्षुकं दुष्टाः कुर्वंतेऽधः प्रगामिनः ॥३१॥ अथ देवप्रियां भक्तिं शृणुष्व सुसमाहितः। विचार्य हृदये भक्तिं कुरुते देवतुष्टये ॥३२॥ सदा देवपरो भूत्वा भजतेऽनन्यमानसः। लोकानां तत्र संभूयाद्रुचिर्वा ह्यरुचिः कदा ॥३३॥ लोका निंदंति तं भक्तमुत्तमाश्च स्तुवंति वा। ताननादृत्य देवस्य प्रीत्यर्थं भजते सदा ॥३४॥ स्वकीये हृदये सोऽपि विचार्य कुरुते सदा। भक्तिं यां तां प्रजानाति देवस्तस्य हृदि स्थितः ॥३५॥ यदा दैवस्य मार्गस्यापमानं वा ह्यनादरम्। कुर्वंति तान् परित्यज्य तदा भजति सर्वदा ॥३६॥ लोकानां रुचिदं तस्य भजनं जायते कदा। कदा तेषां विरुद्धं वा भक्त्या ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸
खं. ९ अ. १६ | पान ५५
तद्देवतुष्टिदम् ॥३७॥ अनेन विधिना दक्ष भजस्व गणनायकम् । गाणपत्यो न संदेहो भविष्यसि परात् परः ॥३८॥ पंच चित्तेषु यज्ज्ञानं तद्विद्धि विषयात्मकम् । तत्र रुचिविहीनस्त्वं भजस्व गणनायकम् ॥३९॥ सदा गणेश्वरे दक्ष रसोत्पत्तिः प्रजायते । चित्तस्य नान्यभावेषु यस्य भक्तः स उच्यते ॥४०॥ एतद्भक्तिरहस्यं ते कथितं भक्तिदायकम् । समासेन भजस्वैव गणेशं ब्रह्मनायकम् ॥४१॥ इमं योगं नरो यस्तु शृणुयाच्छ्रावयेत् परम् । योगिभ्यो वाऽन्यजंतुभ्यः स ईप्सित- मवाप्नुयात् ॥४२॥ नानेन सदृशं किंचिद्योगदं शास्त्रसंमतम् । अस्य श्रवणमात्रेण ब्रह्मभूतो भवेन्नरः ॥४३॥ महापापोप- पापेभ्यो मुच्यते पठनात् किल । श्रवणादस्य योगस्यांते ब्रह्म प्राप्नुयात् परम् ॥४४॥ पुत्रपौत्रादिसंयुक्तो धनधान्य- समन्वितः । आरोग्यादिसमायुक्तो लभेदंते परं पदम् ॥४५॥ सकामको लभेद्भोगान् पठनादस्य निश्चितम् । अंते ब्रह्ममयो भावी श्रवणान्नात्र संशयः ॥४६॥ योगगीतां पठेद्यस्तु निष्कामः शृणुयादथो । स विघ्नहीनतां प्राप्य ब्रह्मभूतो भविष्यति ॥४७॥ योगगीतां पठेद्यस्तु स भवेत् शांतिसंयुतः । शृणुयाद्ब्रह्मभूतश्च ज्ञानवान् स्थितिसंयुतः ॥४८॥ कर्म- निष्ठैरियं सेव्या तपोनिष्ठैः प्रजापते । तत्तत्सिद्धिसमायुक्तैरिहांते ब्रह्म चाप्यते ॥४९॥ नित्यं पठेदिमां गीतां स गणेशो धरातले । दर्शनात् पावनो नॄणां सर्वसिद्धिप्रदायकः ॥५०॥ एककालं द्विकालं वा त्रिकालं यः पठेदिमाम् । कृत्वाऽवश्यं गणेशानं स भवेत् सर्वदायकः ॥५१॥ शुक्लकृष्णचतुर्थ्यांस्तु पठेदेतां नरोत्तमः । स भुक्त्वा सकलान् भोगानंते ब्रह्म लभेत् परम् ॥५२॥ अथवा शुक्लजायां स चतुर्थ्यां भाद्रमाघयोः । ज्येष्ठे माघे च कृष्णायां पठेदीप्सितमाप्नुयात् ॥५३॥ अथवा गणराजस्य तीर्थक्षेत्रादिके गतः । पठेदिमां सुभावेन स ईप्सितमवाप्नुयात् ॥५४॥ वेदशास्त्रपुराणेषु यत् सारं समुदाहृतम् । योगगीतामयं तुभ्यं सर्वसिद्धिप्रदायकम् ॥५५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन भक्तिरहस्यवर्णनयोगो नाम षोडशोऽध्यायः ॥ ॥ इति योगगीतासूपनिषत्सु सुगमासु द्वादशोऽध्यायः ॥ ॥ श्रीगजाननार्पणमस्तु ॥ ॥ गीताश्लोकसंख्या ॥ ५९८ ॥
मु. पु. ८
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एतत्ते कथितं सर्वं रहस्यं परमं मया । गणेशस्य प्रजानाथ समासेन शुभप्रदम् ॥१॥ अतो भज गणाध्यक्षं सर्वेप्सितमवाप्स्यसि । मा शोकं कुरु दक्ष त्वं यज्ञध्वंसभवं परम् ॥२॥ सूत उवाच । एवमुक्त्वा ददौ तस्मै मंत्रमेकाक्षरं परम् । विधियुक्तं विधानेन मुनिर्दक्षाय मुद्गलः ॥३॥ तेन संपूजितो योगी ह्यभवद्धंतुमुद्यतः । तस्मिन् काले गणाध्यक्षः प्रकटोऽभूच्छुभप्रदः ॥४॥ मूषकोपरिसंस्थं तं सिद्धिबुद्धिसमन्वितम् । पाशांकुशरदैर्युक्तमभयं धारकं प्रभुम् ॥५॥ गजास्यं रक्तवस्त्रैः संछादितं भूषणैर्युतम् । नाभिशेषं गणैर्युक्तं प्रमोदाद्यैः सुसेवितम् ॥६॥ त्रिनेत्रमेकदंतं च महाकुक्षिं परात्परम् । दृष्ट्वा समागतं दक्षो मुद्गलो हर्षितोऽभवत् ॥७॥ उत्थाय सर्वसंयुक्तो ननाम द्विरदाननम् । दक्षश्च मुद्गलो विप्रो दंडवत् पृथिवीतले ॥८॥ ततोऽतिहर्षसंयुक्तो दक्षस्तं प्रजगाद ह । गणेशं भक्तिसंयुक्तः सरोमांचोऽश्रुसंयुतः ॥९॥ दक्ष उवाच । धन्योऽहं सर्वभावैश्च दर्शनात्ते गजानन । वेदांतागोचरोऽसि त्वं ब्रह्मरूपः समागतः ॥१०॥ धन्योऽयं मुद्गलो योगी पुराणं धन्यमुत्तमम् । मौद्गलं येन विघ्नेशो मया प्राप्तः परात्परः ॥११॥ मुद्गलेन समाख्यातं भक्त्याधीनो गजाननः । तदद्य सत्यरूपं यन् मया ज्ञातं प्रमाणतः ॥१२॥ मुद्गलस्यैव भक्त्या त्वं मोहितः सहसाऽऽगतः । त्वत्तः श्रेष्ठो गणेशान मुद्गलो नात्र संशयः ॥१३॥ एवं प्रवदतस्तस्य दक्षस्यासीन् महात्मनः । भक्ते रसः समुत्पन्नो ननर्त स हि विह्वलः ॥१४॥ आंतस्तन्न स्म जानाति कृत्यं विघ्नेश्वराय सः । जय हेरंब विघ्नेश गणेश मूषकध्वज ॥१५॥ गजानन परेश्रान जय लंबोदर प्रभो । उच्चरन् साश्रुनेत्रश्च देहातीत इवाऽभवत् ॥१६॥ एतस्मिन्नंतरे सर्वे समाजग्मुः सुरेश्वराः । शिवविष्णुमुखास्तत्रागतं ज्ञात्वा गजाननम् ॥१७॥ मुनयो भृगुमुख्याश्च नारदाद्याः सुरर्षयः । शुकाद्याः सनकाद्याश्च कपिलाद्या महामुने ॥१८॥ वसवः साध्यरुद्राश्च गंधर्वाप्सरसस्तथा । अश्विनौ शेषमुख्याश्च नागाः पर्वतनायकाः ॥१९॥ सिद्धाश्चारणमुख्याद्या असुरा धर्मपालकाः । विद्याधराः कामदुघा गावो विप्रा अनेकशः ॥२०॥ प्रणेमुर्गणराजं ते हर्षयुक्ताः प्रतुष्टुवुः । भक्तियुक्ता विशेषेणात्मानं धन्यं च मेनिरे ॥२१॥ ततः स मुद्गलो योगी विस्मितः प्रबभूव ह । पुराणश्रवणस्यैतत् दृष्ट्वा फलमनंतकम् ॥२२॥ बोधयामास दक्षं स ततो दक्षोऽतिहर्षितः । हर्षं नियम्य विघ्नेशं यथाविधि पुपूज ह ॥२३॥ ततो देवेश्वरान् देवान् विप्रादीन् योगिमुख्यकान् । पूजयित्वा पुनः सोऽपि प्रणनाम गजाननम् ॥२४॥ साश्रुनेत्रः प्रतुष्टाव भक्तिनम्रात्मकंधरः । अनु तं देवविप्राद्यास्तुष्टुवुस्तं पेरेश्वरम् ॥२५॥ सदेवर्षिर्दक्ष उवाच । नमस्ते गणेशाय सर्वात्मने ते सदा
यहाँ पृष्ठ की पंक्ति-दर-पंक्ति सटीक लिप्यंतरण (Transcription) प्रस्तुत है:
[शीर्षक]: खं. ९ अ. १७ | पान ५७
भक्तिमोहेन मोहात्मकाय । महेशादिदेवैः शुकाद्यैः स्तुताय ह्ययोगाय संयोगधारिन्नमस्ते ॥२६॥ गजाननाय वै तुभ्यं नमः परशुपाणये । गदाधराय शंखं वै धारिणे ते नमो नमः ॥२७॥ विघ्नेशाय परेशाय महाविघ्नविदारिणे । अनाधाय सनाथाय हेरंबाय नमो नमः ॥२८॥ नमो नमस्तेऽस्तु महोदराय स्वभक्तसंरक्षणतत्पराय । अभक्तकामान् विनिहंतृकाय सदा सुशांतिप्रद ते नमो वै ॥२९॥ ब्रह्मेशाय नमस्तुभ्यं सदा स्वानंदवासिने । सिद्धिबुद्धिवरायैव मूषकध्वजिने नमः ॥३०॥ दैत्यमस्तकधाराय दितिपुत्राय ते नमः । कंठाधो देवकायाय नमो सुरसुराय ते ॥३१॥ योगाय सर्वात्मकसर्वपूज्य मायाविनां मोहकराय तुभ्यम् । मायाप्रचालाय सुसिद्धिदाय धर्मस्यपालाय तु शूलपाणे ॥३२॥ अनंतलीलया नाथ स्वयं खेलसि मायया । तत्र किं वर्णयाम्येवाऽतो ब्रवीमि नमो नमः ॥३३॥ सदा योगस्वरूपाय भक्तिभावप्रदाय ते । भक्तिप्रियाय पूर्णाय भक्तवत्सल ते नमः ॥३४॥ प्रसीद पाहि विघ्नेश दासं ते भक्तिलालसम् । मां मुद्गलस्य शिष्यं वै भक्तराजस्य मानद ॥३५॥ एवमुक्त्वा गणेशानं प्रणनाम प्रजापतिः । अनु तं देवविप्राद्याः प्रणेमुस्तं परात्परम् ॥३६॥ तमुत्थाप्य गणाधीशो जगाद वच उत्तमम् । दक्षं मुद्गलमालोक्य स्वभक्तं भक्तपालकः ॥३७॥ श्रीगणेश उवाच । वरान् वृणु प्रजानाथ दास्ये ते तुष्टिमागतः । श्रवणेन पुराणस्य स्तोत्रेण मनसीप्सितान् ॥३८॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ॥३९॥ ब्रह्मप्रदं सुशांतेश्च दायकं भक्तिवर्धनम् । भविष्यति महाप्राज्ञ परं मत्प्रीतिवर्धनम् ॥४०॥ गणेशवचनं श्रुत्वा दक्षो हर्षसमन्वितः । प्रणम्य तं जगादाऽथ भक्तिनम्रात्मकंधरः ॥४१॥ दक्ष उवाच । वरदोऽसि गणाध्यक्ष तदा ते भक्तिमुत्तमाम् । देहि मे यच्च कृत्यं तदादिशः करवाणि किम् ॥४२॥ तच्छ्रुत्वा गणनाधस्तं जगाद वच उत्तमम् । ज्ञात्वा भक्तिप्रियं दक्षं हृष्टरोमा महामुने ॥४३॥ श्रीगणेश उवाच । मदीयां भक्तिमत्यंतं करिष्यसि महामते । दक्षाऽद्यप्रभृति प्राज्ञो भविष्यसि यथार्थतः ॥४४॥ यज्ञं कुरु महेशेन मया ध्वस्तं समन्वितः । किंचित् कुष्टं प्रदत्तं ते शापैः शैवैः सुखी भव ॥४५॥ योगशांतियुतो नित्यं मां भजिष्यसि सर्वदा । सर्वमान्यः सर्वमुख्यो भविष्यसि प्रजापतिः ॥४६॥ एवमुक्त्वा गणेशानो विरराम च शौनक । दक्षो हृष्टमना भूत्वा स चक्रे यज्ञमुत्तमम् ॥४७॥ संपूज्यादौ गणाध्यक्षं ततः शंभुमुखान् सुरान् । मुनीन्नागादिकान् सर्वान् विससर्ज सुहर्षितः ॥४८॥ ततो मुद्गलविप्रेशं पूजयन् भक्तिसंयुतः । उवाच तं सरोमांचो दक्षो दक्षगणाग्रणीः ॥४९॥ दक्ष उवाच । किं ददामि महायोगिन् शिष्योऽहं ते नमाम्यतः । शरीरं पादपद्मे ते समर्पितमिदं
प्रभो ॥५०॥ ततो दक्षं समानंद्य मुद्गलः प्रययौ मुने । स्वाश्रमं गाणपत्यैः संसेवितं गणपप्रियः ॥५१॥ इदं दक्षस्य माहात्म्यं कथितं ते समासतः । मुद्गलस्य तथा श्रेष्ठं सर्वसिद्धिप्रदायकम् ॥५२॥ पुराणं मौद्गलं पूर्णं कथितं योगभावितम् । सर्वमान्यं विशेषेण सर्वसंशयनाशनम् ॥५३॥ पुराणश्रवणस्यापि फलं प्रोक्तं मया परम् । श्रवणेन प्रजानाथो दक्षो दक्षो बभूव ह ॥५४॥ अधुनाऽहं गमिष्यामि स्वाश्रमं विप्रनायक । त्वदाज्ञया वद स्वामिन् किं करोमि हितं पुनः ॥५५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते दक्षसिद्धिप्राप्तिवर्णनं नाम सप्तदशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । धन्योऽसि सूत सर्वेभ्यो भवान् ज्ञानाधिको मतः । समस्तत्रिभुवने नैव संशयानां विनाशकः ॥१॥ सर्वसंशयहीनोऽहं धन्यश्चाद्य त्वया कृतः । अधुना कृतकृत्यश्च जातो मुनिसमन्वितः ॥२॥ न मुद्गलसमं किंचिन् मया ज्ञातं परात्परम् । तेनोक्तं मौद्गलं सूत मुद्गलेन सहक् परम् ॥३॥ वेदशास्त्रपुराणानां नानामतनिकृंतनम् । मौद्गलं मुद्गलाकारं सर्वसारप्रकाशकम् ॥४॥ त्रैलोक्ये मुद्गलो योगी मान्यः सर्वैः प्रकीर्तितः। सर्वाभिमानहीनत्वायथार्थ- करणात् किल ॥५॥ मुद्गलेन कृतं यद्वै पुराणं मुद्गलाकृति । तस्यापमानभावेन नारकी जायते नरः ॥६॥ यामा मुद्गर- हस्तास्तं मारयिष्यंति निश्चितम् । न वक्ता कुत्र योगींद्रो मुद्गलेन सहक् भवेत् ॥७॥ न भूतो नाधुना कुत्र वर्तते सूत निश्चितम् । निरहंकारसंयुक्तं भाषणं मुद्गलस्य च ॥८॥ पुराणानि च सर्वाणि स्वस्वब्रह्मपराणि वै । अभिमानेन संगोप्य स्वदोषं प्रवदंति हि ॥९॥ यथार्थभाषणं सर्वं पुराणानां न संशयः । मुनीनां देवतादीनां स्थितस्तत्राप्यहं किल ॥१०॥ तेन भिन्नमतादीनां प्रकाशस्तेषु जायते । मौद्गलं सर्वमान्यं वै निरहंकारभावतः ॥११॥ अभिमानो महाघोरो ह्यजेयो देव- योगिभिः । मुद्गलेन समाचूर्ण्य कृतो जीवविवर्जितः ॥१२॥ अतोऽयं मुद्गलः प्रोक्त एक एव महर्षिभिः । तत्र चित्रं न वै सूत सर्वमान्यं वदेत् परम् ॥१३॥ अहो गणेशहस्तस्थो मुद्गलः पतितो भुवि । नराकारस्वरूपेणांगिरसेन प्रपालितः ॥१४॥ स एव मुद्गलो योगी योगरूपप्रकाशकः । तत्र किं चित्रकं मन्येऽभिमानैर्वर्जितात्मकम् ॥१५॥ मुद्गलस्य च दक्षस्य संवादेन युतं परम् । पुराणं चांगिरःप्रोक्तं श्रुतं शांतिप्रदं मया ॥१६॥ अधुना वद सूत त्वं पुराणस्य प्रविस्तरात् ।
खं. ९ अ. १८ पान ५९ माहात्म्यं श्रवणं चास्य कीदृशं क्रियते जनैः ॥१७॥ विधिना केन कर्तव्यं श्रवणं कैः पुरा कृतम् । के के सिद्धियुता जाताः श्रवणादस्य मानद ॥१८॥ पारायणं पुराणस्य कर्तव्यं कीदृशैः परम् । श्रवणं भिन्नखंडस्य कैः कृतं तद्वदस्व मे ॥१९॥ गणेशस्य पुराणानि चत्वारि कथितानि तु । तेषां श्रवणमात्रेण फलं किं नु लभेत् समम् ॥२०॥ अथवा भिन्नभावाख्यं फलं भवति तद्वद । येन संशयहीना वै भजिष्यामो गजाननम् ॥२१॥ सूत उवाच । एकविंशतिभेदैः स गणेशो ब्रह्म- नायकः । क्रीडति प्रणवाकारो ब्रह्मांडस्थे पुराणके ॥२२॥ ब्राह्मे द्वादशभेदैः स क्रीडते बुद्धिचालकः । निर्गुणः सगुणा- धारः प्रणवस्य प्रचालकः ॥२३॥ गाणेशे मूर्तिमान् मुख्यः क्रीडति द्वंद्वभावतः । बुद्धिस्थः प्रणवस्थः स तयोर्योगात्मका- कृतिः ॥२४॥ प्रणवात्मकभावस्योपासनाकांड उच्यते । हृदि खेलकरस्यैव क्रीडाकांडः प्रकीर्तितः ॥२५॥ मौद्गलेऽष्टविधः सोऽपि वर्णितो योगधारकः । संयोगायोगयोर्भोगाकारः पूर्णः सुशांतिगः ॥२६॥ तेषां फलं प्रवक्ष्यामि गणेशज्ञानकारकम् । तच्छ्रुत्वा मुनयः सर्वे संशयेन विवर्जिताः ॥२७॥ त्रिगुणमयकायाश्च देवाः पंच प्रकीर्तिताः । ब्रह्मा विष्णुः शिवः सूर्यः शक्तिः सर्वत्र पञ्चते ॥२८॥ अपूज्यो विधिरेके तु वदंते शास्त्रसंमतौ । मध्यस्था ये नरा विप्र ब्रह्मणो लोकगामिनः ॥२९॥ चतुर्णां भजने सक्ताः शिवादीनां नरादयः । ये ते तेषां तु लोकेषु भक्त्या गच्छंति संयुताः ॥३०॥ सगुणोपासका येऽत्र शिवादीनां गुणात्मनाम् । ते तेषां लोकमासाद्य भुंजते भोगकान् परान् ॥३१॥ पुनः पतंति भूमौ ते जन्म भाग्यसमन्विताः । भवंति कृपया तेषां प्रणवे रुचिसंयुताः ॥३२॥ ततस्ते प्रणवाकारं भजंते गणराजकम् । ब्रह्मप्राप्त्यर्थमानंदाद्यत्नवंतो न संशयः ॥३३॥ ततस्तत्कृपया युक्ता भवंति ज्ञानसंयुताः । त्यक्त्वा प्रणवसंस्थं ते भजंते बुद्धिधारकम् ॥३४॥ हृदि बुद्धि- पतिं पूर्णं भजंते यत्नसंयुताः । शमे दमे परा नित्यं नानाभावैर्विवर्जितम् ॥३५॥ बुद्धिस्थं तं समाराध्य तत्कृपायुक्त- चेतसः । भजंते गणनाथं वै शुंडादंडविराजितम् ॥३६॥ एकनिष्ठस्वभावेन तत्परा नित्यमादरात् । योगप्राप्त्यर्थमानंदाच्छम- दमपरायणाः ॥३७॥ गणेशोपासनायुक्ता मंत्रध्यानपरायणाः । गाणपत्याभिमानस्य धारकाः संभवंति ते ॥३८॥ न गणेशात् परं भावं मानयंति कदाचन । वेदशास्त्रपुराणेषु विचार्य मनुजोत्तमाः ॥३९॥ ततस्तस्य कृपायोगान् मौद्गलस्थं भजंति ते । योगशांतिपरा भूत्वा योगीशाः संभवंति वै ॥४०॥ एवं क्रमेण विप्रेद्र भवंति गणप्रियाः । विभिन्नफल- संयुक्ताः पुराणोपासका मताः ॥४१॥ प्रणवोपासका ये वै परं ते देहधारिणम् । सर्वसामान्यभावेन मानयंति गजा-
ननम् ॥४२॥ सत्यं प्रणवरूपं यत्तत्र देहधरः कथम्। तिष्ठेत्तु गणनाथोऽवयवादिभिरयं युतः ॥४३॥ सर्वमोंकार एवेदं न भिन्नं तत्र वर्तते। अनेन विधिना तेषां भजनं तस्य जायते ॥४४॥ ततः परं बुद्धिसंस्थं ये भजंति महामुने। गणेशानं सर्वसमं भावयंति न संशयः ॥४५॥ बुद्धेः परं बुद्धिसंस्थं बुद्धेः प्राकाश्यदायकम्। ब्रह्म तत्र कुतो भाति प्रणवो ह्यर्थ- संयुतः ॥४६॥ मनोवाणीविहीनं यद्ब्रह्म ब्रह्मणिगं परम्। गणेश्वरोऽन्ये तु तत्र तिष्ठंति भ्रांतिजाः कुतः ॥४७॥ एवं भजंति विघ्नेशं परं प्रणववर्जितम्। ब्राह्मे पुराणे संस्थं ते जानीहि मुनिसत्तम ॥४८॥ ततः परं गणेशानं गाणेशस्थं भजंति ये। गणैशार्थरहस्यं ते ज्ञात्वा विश्वाससंयुताः ॥४९॥ प्रणवः प्रणवाकारो गणेशः सगुणः स्मृतः। ओंकारवर्जितोऽयं तु बुद्धिस्थो निर्गुणः स्मृतः ॥५०॥ प्रणवो बुद्धिसंस्थस्तु तत्परो ब्रह्मदो भवेत्। तयोः प्रीत्यर्थमानंदादेहधारी बभूव ह ॥५१॥ गकारः प्रणवाकारो णकारो बुद्धिचालकः। तयोः स्वामी गणेशोऽयं गजवक्त्रादिचिह्नितः ॥५२॥ गाणपत्यस्वभावेन भजंते तं निरंतरम्। एकनिष्ठतया भक्त्या भवंते विप्रयोगिनः ॥५३॥ ततस्ते मौद्गले पूर्णे सेवंते भक्तिसंयुताः। त्रयाणां द्योतकं पूर्णं तेषां योगे गजाननम् ॥५४॥ योगरूपो गणेशोऽयं त्रिरूपधारकोऽभवत्। कार्यार्थं खेलसंयुक्तो मायाभ्यां नात्र संशयः ॥५५॥ प्रणवो जगदाकारश्चिदाकारो हि धीस्थितः। तयोरात्मा ततश्चायं गजवक्त्रादिचिह्नितः ॥५६॥ एवं ज्ञात्वा गणेशानं भजंते त्रिषु संस्थितम्। मौद्गलस्था सदा विप्र योगज्ञा योगरूपिणम् ॥५७॥ तत्र ते भजनं मुख्यं पंचधा कथयाम्यहम्। येन भक्त्येंद्र भूपस्त्वं भविष्यसि महामते ॥५८॥ मूर्तिसंस्थं गणेशानं भजेत् पूजादिमार्गतः। मंत्रस्तवन- कार्यैश्च देहधारिसुखप्रदैः ॥५९॥ प्रणवं जगदाकारं तत्र जीवमयं प्रभुम्। भजेत् सर्वत्र संस्थं तं सर्वेषां हितमाचरन् ॥६०॥ कस्यचित्त्वशुभं विप्र न कुर्यात् स नरोत्तमः। अनेन विधिना सोऽपि तोषयेद् गणनायकम् ॥६१॥ द्वंद्वभावं समालोक्य साक्षिवद्भाववर्जितः। बुद्धिस्थं तोषयेत् देवं विघ्नेशं भक्तिवत्सलम् ॥६२॥ धर्माधर्मादिकं सर्वं भ्रमं त्यक्त्वा महामतिः। बुद्धिभावं परित्यज्य निःसंगः स भवेत् सदा ॥६३॥ नाहं कर्ता कारयिता न देहस्थो न निश्चितम्। न बुद्धिस्थोऽहमानंदा- द्रह्माऽहं निर्मलः सदा ॥६४॥ निर्लिप्तलिप्तहीना या भक्तिः सा परिकीर्तिता। तया गणेश्वरः प्रीतो भवेदात्मा सदा- ऽमलः ॥६५॥ न गणेशादहं भिन्नो देहधर्मः प्रवर्तते। गणेशभक्तिसंयुक्तो मौद्गलस्थो भजेत् परम् ॥६६॥ स्वयं गणेश्वरो भूत्वा त्रिविधस्थं गजाननम्। त्रिभिर्मार्गैर्भजेन्नित्यं शांत्या भक्तिसमन्वितः ॥६७॥ त्रयाणां योगभावे यो गणेशश्चि-
यहाँ पृष्ठ का मूल संस्कृत पाठ पंक्ति-दर-पंक्ति (लाइन मार्कर सहित) दिया गया है:
[शीर्षक]: खं. ९ अ. १८ | पान ६१
विधो मतः। स्वयं त्रिविधकं पश्यन् भजेच्चानन्यचेतसः ॥६८॥ त्रिभिर्भावैः समायुक्तो भजेद्योगी महायशाः । गणेशं गणपाकारो मौद्गलज्ञो विचक्षणः ॥६९॥ एवं गणेश्वरस्यैव भजनं कुरु मानद । तेन योगींद्रवंचस्त्वं गाणपत्यो भवि- ष्यसि ॥७०॥ आदौ देहधरान् शंभुमुख्यान् संसेव्य वै नरः । ततो जीवस्वरूपस्थान् प्रणवाकृतिधारकान् ॥७१॥ ततो बुद्धिगतान् विप्र ततो भक्तिं लभेत् पराम् । गणेशं देहगं सोऽपि सेवतेऽनन्यभावतः ॥७२॥ ततो मौद्गलं ज्ञात्वा योगी योगपरायणः । भजते त्रिविधे संस्थं गणेशं गणपप्रियः ॥७३॥ एतत्ते कथितं सर्वं भजनं गणपस्य च । स्वरूपं त्रिविधं पूर्णं त्रिमार्गद्योतनं मुने ॥७४॥ शौनक उवाच । अष्टादश पुराणानि कथितानि विशेषतः । अन्यान्युपपुराणानि व्यासेना- मितबुद्धिना ॥७५॥ यथा वेदास्तथा सूत उपवेदाः प्रकीर्तिताः । नहि वेदसमा विप्रैर्मन्यंते वै विशेषतः ॥७६॥ तथैवो०- पुराणानि तेषु गाणेश्वरं परम् । मौद्गलं कथितं विप्रैः कथं तत्राधिकं भवेत् ॥७७॥ सूत उवाच । यथा देवपतिः प्रोक्त इंद्रः सर्वत्र विप्रपैः । उपेंद्रो विष्णुराज्यो वै कथ्यते च विनायकः ॥७८॥ इंद्रादधिकभावेन मतौ विष्णुविनायकौ । तथैवो०- पुराणानि ब्रह्मसायुज्यदानि तु ॥७९॥ आदौ श्रुत्वा पुराणानि ततः साधनसंयुतः । साधयित्वा भवेद्विप्र पात्रं चोप- पुराणके ॥८०॥ एवं जानीहि सर्वत्र पुराणेषु विशेषतः । वेदोपवेदवच्चात्र नैव ब्रह्मविनिश्चयात् ॥८१॥ मोहनार्थं जनानां वै भ्रांतिभावप्रकाशनात् । गणेशस्य स्वरूपं यद्वर्ण्यते गूढकं परम् ॥८२॥ अतो गणेश्वरस्यैव मता भक्तिः सुदुर्लभा । पूर्णपुण्यबलेनाढ्यैर्लभ्यते योगिभिः परा ॥८३॥ मौद्गलेन गणेशस्य स्वरूपं ज्ञायते जनैः । परिपूर्णं न संदेहोऽन्यथा भ्रांतिर्भविष्यति ॥८४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे योगामृतार्थशास्त्रे नवमे खंडे दक्षमुद्गलसंवादे गणेशस्वरूपक्रमवर्णनं नाम अष्टादशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ सूत उवाच । शुचिः स्वधर्मनिष्ठः स एकभुक्तपरायणः । ब्रह्मचर्यसमायुक्तो रात्रौ सुप्यात्तथा भुवि ॥१॥ अनृतादिकमेवं संत्यजेत् सर्वं समाहितः । हविष्यान्नं च भुक्त्वा तु शृणुयादिदमुत्तमम् ॥२॥ गणेशसन्निधाने वै वने वा स्वगृहे स्थितः । शृणुयान् मौद्गलं पूर्णं योगभक्तिपरायणः ॥३॥ अथवा कामनायुक्तो निःकामो वा भवेन्नरः । शृणुयान्नियमे संस्थः स सद्यश्च फलं लभेत् ॥४॥ यत्र वक्ता भवेदस्य तत्र गत्वा महामतिः । शृणुयादथवा विप्र पुराणमिदमुत्तमम् ॥५॥ ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा शृणुयादिदम् । शूद्रश्चेत् ब्राह्मणं कंचित् पुरस्कृत्य समाहितः ॥६॥ भाद्रशुक्लप्रतिपदमारभ्य च चतुर्दिनम् । पारायणं मौद्गलस्य श्रोतव्यं तैरुपोषितैः ॥७॥ माघसंज्ञे तथा मासे तथा ज्येष्ठे प्रकीर्तितम् । पारायणं मौद्गलस्य श्रोतव्यं सर्वसिद्धये ॥८॥ अथवा भाद्रमासस्य प्रतिपत्त: समारभेत् । आश्विन्यां पूर्णिमायां तत् पुराणं च समापयेत् ॥९॥ एवं माघे तथा ज्येष्ठे सार्धमासैकमानतः । श्रोतव्यं मौद्गलं पूर्णं सर्वभावपरायणैः ॥१०॥ अथवा भाद्रमासे च प्रतिपत्त: समारभेत् । पुराणं मौद्गलं विप्र शृणुयादूर्ध्वमात्रतः ॥११॥ पुनर्भाद्रपदं प्राप्य चैकभुक्तपरायणः । प्रतिपद्यां निराहारो भवेद्यावच्चतुर्थिका ॥१२॥ पंचम्यां मौद्गलं पूर्णं समापयतु तन्नरः । एवं श्रुत्वा फलं सद्यो लभेदीप्सितमंजसा ॥१३॥ विधिं तत्र प्रवक्ष्यामि मंडपं कारयेन्नरः । तोरणादिसमायुक्तं नानाशोभासमन्वितम् ॥१४॥ आदौ गणेश्वरं तत्र पूजयेत् पुस्तकं ततः । ततो मुद्गलविप्रेंद्रं शुकं योगविशारदम् ॥१५॥ पठते मौद्गलं तत्र संस्थितौ शुकमुद्गलौ । ततः पौराणिकं शांतं पूजयेद्भावसंयुतः ॥१६॥ ततः श्रोतॄगणान् पूज्य प्रार्थयेत् स्नेहसंयुतः । पौराणिकं ततः पुण्यं शृणुयादिदमुत्तमम् ॥१७॥ अर्थेन संयुतं सर्वं मौद्गलं शृणुयान्नरः । सर्वार्थनिपुणस्तेन सर्वसिद्धियुतो भवेत् ॥१८॥ यदा चतुर्दिनैः श्राव्यं तदार्थपरिवर्जितम् । पारायणं समाख्यातं सर्वसिद्धिप्रदायकम् ॥१९॥ नित्यमुत्सवसंयुक्तो भवेद्धर्मपरायणः । नानादानरतो भूत्वा ब्राह्मणादींश्च भोजयेत् ॥२०॥ गणेशप्रीतये सर्वं कुर्या- द्धीमान्निरंतरम् । विदित्वा धन्यमात्मानं शृणुयादिदमुत्तमम् ॥२१॥ अंते गणेश्वरं सोऽपि पुराणं पूजयेत् परैः । राजोपचार- काद्यैस्तु भक्तिभावसमन्वितः ॥२२॥ ततः पौराणिकं पूज्य तोषयेत्तं धनादिभिः । रत्नाद्यैरर्हसंयुक्तः प्रार्थयेन्नम्रकंधरः ॥२३॥ तारितोऽहं त्वया नाथ पुराणश्रावकेन वै । अधुना कृतकृत्योऽहं जातस्ते पाददर्शनात् ॥२४॥ एवं प्रार्थ्य नमस्कृत्य ततः सर्वान् समागतान् । दक्षिणाद्यैः समातोष्य ततस्तं स विसर्जयेत् ॥२५॥ पौराणिकं ततो भूयः समानीय महायशाः ।
खं. ९ अ. २० पान ६३
श्रोतॄनन्यान् द्विजादींश्च भोजयेन् मोदकादिभिः ॥२६॥ ततस्तान् स नमस्कृत्य पारणं यः समाचरेत् । एवभीप्सितकं प्राप्येहांते ब्रह्ममयो भवेत् ॥२७॥ अथवा मौद्गलं विप्र शृणुयान्नित्यमादरात् । यथेच्छया समायुक्तः स्वेच्छाभोजन- कारकः॥२८॥ ब्रह्मचर्यादिहीनः स भक्तिभावसमन्वितः। गणेशप्रीतये हर्षात् सर्वसिद्धिं लभेत् पराम् ॥२९॥ अकिंचनोऽपि विप्रेश शृणुयाद्भक्तिसंयुतः । यथाशक्तिविधानेन स पूजादिकमाचरेत् ॥३०॥ शमीमंदारदूर्वाभैरथवा यः समर्चयेत् । फलं सर्वं लभेत् सोऽपि पूजादानादिजं परम् ॥३१॥ यादृशो विभवः स्वस्य तादृशं स समाचरेत् । तेन विघ्नेश्वरः प्रीतो भवेत् सर्वप्रदायकः ॥३२॥ श्लोकार्धं श्लोकपादं वा पदं श्लोकस्थमेव वा। शृणुयान्मौद्गलस्यापि स धन्यो नात्र संशयः ॥३३॥ किं पुनः श्रद्धया युक्तः पुराणं शृणुयात् परम् । संपूर्णं तस्य विप्रेश सफलं जननं भवेत् ॥३४॥ नित्यं यः शृणुयाद्भक्त्या सर्वमाप्य स विप्रप । दर्शनात् सर्वजंतूनां तारको भवति प्रभुः ॥३५॥ यथा गणेश्वरो देवस्तथाऽसौ नात्र संशयः । ब्रह्मीभूत इव प्राज्ञस्तिष्ठेद्धै भूमिमंडले ॥३६॥ एतत्ते सर्वमाख्यातं सविधिश्रवणं परम् । पठनं तु पुराणस्य मौद्गलस्य समासतः ॥३७॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे पुराणश्रवणादिविधिवर्णनं नाम एकोनविंशोऽध्यायः ॥
॥ श्रीगणेशाय नम ॥ शौनक उवाच । श्रुत्वा मौद्गलकं पूर्णं के के सिद्धिं प्रलेभिरे । तेषां चरित्रमेवं मे ब्रूहि सूत समा- सतः ॥१॥ सूत उवाच । आदौ मुद्गलयोगीशाच्छ्रुत्वा दक्षो महामतिः । स सर्वदोषहीनश्च बभूवे शांतिधारकः ॥२॥ ततो दक्षेण विघ्नेश नियमः स कृतो भवेत् । मौद्गलं नित्यमेवेदं पठनीयं निरंतरम् ॥३॥ अवकाशानुसारेण अजपन्नित्यमादरात् । अध्यायादेस्तथा तत्र नियमं न चकार ह ॥४॥ भाद्रशुक्लप्रतिपदि प्रारभ्योपोषणान्वितः । चतुर्थ्यां तत् समाप्तं पारायणं स चकार ह ॥५॥ एवं माघे तथा पारायणं ज्येष्ठे महामतिः । चकार देवविप्राद्यैः संयुतो वार्षिकं परम् ॥६॥ एवं क्रमेण भक्त्या स गजाननपरायणः । मौद्गलं सेवतेऽद्यापि गाणपत्यस्वभाववान् ॥७॥ तेनैव बोधिताः सर्वे वसिष्ठाद्या महामुने । सेवंते मौद्गलं नित्यं प्रजापतय आदरात् ॥८॥ तैश्चान्ये बोधिता विप्रा योगमार्गपरायणाः । नानाभावसमायुक्ता असेवन्निद-
मु. पु. ९