पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
षष्ठः सर्गः . १५६ भवित्रा भविष्यतानेन दौहित्रेण चक्रवर्त्ती तुष्यतु ॰ जहातिरन्तर्भावि(l.4)- तए्यर्थः ॥ 41. श्रुत्वेति दौहित्रमुखारविन्द- लावण्यलक्ष्मीसहवासमत्ताम् ॰ विधाय(l.5) दृष्टिभ्रमरीं कथञ्चि- त्तत्संमुखीं भूपतिराबभाषे ॥ दौहित्रमुखपद्मलाव(l.6)ण्यसमृद्धिसहवासेन मत्तां दृष्टिभ्रमरीं तस्य दैवज्ञस्य संमुखीं कृत्वा राजावदत् ॥(l.7) 42. अश्रौषमेवं बहुधा बहुभ्य- स्सन्देहगेहं च मनो ममाभूत् ॰ तदस्ति किञ्चिन्नहि जी(l.8)वलोके प्रियंवदानां न यदीरणीयम् ॥ बहुभ्यः सकाशाद्बहुधा चाहमेवं श्रु(l.9)तवान् मम मनस्तु सन्देह- स्थानमेवाभूत् चाटुकाराणां न किञ्चिदवाच्यं यतः ॥(l.10) 43. षाड्गुण्यमन्त्री परमार्थतस्तु प्रजापतेस्त्वं³ प्रतिभाससे मे ॰ ललाटपट्टेसु कृतो नृ(l.11)णां वा त्वं तेन लिप्यक्षरसूत्रधारः ॥ विधातुष्षाड्गुण्ये सृष्टिविषये व्यवहारे मन्त्री(l.12) उपदेष्टा त्वं भवसि ॰ त्वमेव प्रजापतेस्सुखदुःखलेखनोपदेशं करोषीत्यर्थः य(l.13)द्वा प्रजापतिना त्वं लिपिलेखकरः कृतः ॰ त्वमेव लिखसीत्यर्थः ॥ 44. आज्ञां त्वदी(l.14)[यामनुवर्त्तमानः] शरीरभाजां प्रसवप्रसङ्गे ॰ 1 Ms. भत्रा. 2 Ms. ॰यंचिं॰. 3 Ms. ॰तेः त्वं.
१६० पृथ्विराजविजयमहाकाव्यम्. ज्योतिंषि तीक्ष्णांशुमुखान्यमूनि(l.15) ―――――॥ [ग्रा]शिनां जन्मकाले त्वदाज्ञानुसारं सूर्याद्मि(l.16)············· ···णवन्मुमोच(l.17) 45. Lines 18 to end of page missing भरणान्तराणि ॥ संशय एव वंशस्तद्भेदं कृत्वा मुक्तारत्नसमुुक्तं वचनं सूच्यता(l.1)मुच्य- तामतः यथा सन्देहो न भवति तथा कथयेत्यर्थः . यद्वा व्यादाय . स्वपित्या- दिष्वि(l.2)दं द्रष्टव्यम् . मम हृदये स्थितेन येन भूषणान्तराणि त्याज्यत्वं प्राप्नुयुः. त्वद्वचनमेव(l.3) भूषणीभूतं हृदि धारयामीत्यर्थः ॥ 46. सन्देहबीजमाह ॥ इदं हि तद्व्योमनि चित्रकर्म(l.4) मरुस्थले श्रीसह
षष्ठः सर्गः . १६१ इदमपि संशयबीजं ˈहरिर्र्यस्या उ(l.9)दरं समुद्रादपि पवित्रं करिष्यति तस्याः कस्याः कलावपि पुण्यानि तथाविधानि (l.10) भवन्ति . यैस्संस्करि- ष्यत्युदरमित्यार्षः पाठः ॥ 48. आरुह्य संकल्पविकल्पतल्पं ज(l.11)ल्पन्तमित्थं जयदेवसिंहम् . स्मित्वा विधातेव स मन्युमूर्ति- र्मौहूर्त्तिकः स्फूर्तिम(l.12)दित्युवाच ॥ संकल्पाश्च विकल्पाश्च तदेव तल्पमाश्रित्य पृच्छन्तं जयसिं(l.13)हदेवं मौहूर्त्तिको ज्योतिर्विन्मन्युमूर्त्तिः प्रजापतिरिव किञ्चिद्विहस्योर्जितमेवमवो- (l.14)चत् ॥ 49. दशावतारानुकृतिप्रगल्भैः पुरा मुरारेर्दशभिशिरोभिः . दिङ्मात्र(l.15)- 50. [Lines 16 to end of page missing] (**45) – – – – तस्थे . तामुज्जहार त्वरितं स दृष्टिं सर्वसहां कोसलराजपुत्र्याः ॥ शोकाग्निना पीतेपि वृ(l.1)द्धिं गच्छति बाष्पसमुद्रे बुडितां यासीत्तां कौसल्याया दृष्टिं सर्वसहां शोकसां स उद्धृ(l.2)तवान् सर्वसहां भूमिं च हरिरुद्धृतवान् ॥ 51. जीमूतकेशत्वदशोपपन्न- सौदामिनी(l 3)सोदरपिङ्गलिम्ना , ममार्ज्ज बाष्पाम्बुनिपातपाण्डू पादौ जटानां पटलेन चास्याः ॥(l.4) 1 Comm. जयसिंहदेवं. 2 Ms. समन्त°. 3 Ms. मूर्त्तिः lc. under 1 13. 4 Ms. किंचि°. 5 Ms. °त्राः. 6 Ms. वृत्वित्वा. 7 Restore शोकाग्निपीतेपि विवर्धमाने बाष्पाम्बुधौ या बुडितेव तस्थे । 8 Ms. °सुत°. See pp. 18 and 42, note 2. 9 Ms. °मनी°. २१
१६२ पृथ्वीराजविजयमहाकाव्यम्. जीमूतकेशत्वदशयोपपन्नसौदामिनीसोदरः पिङ्गलिमा यस्य तेन विद्यु- त्कपिशे(l.5)नेत्यर्थः . बाष्पजलपाण्डू मातुः पादौ रामो जटापटलेन शोधि- तवान् प्रणामं कृ(l.6)तवानित्यर्थः ॥ 52. रामप्रणामानुपदं विमुक्तं प्रणम्य सुग्रीवविभीषणाभ्याम् . त्त(l.7)त्पादमेकं पवमानसूनु- रन्यं सुमित्रातनयो ववन्दे ॥ रामस्य प्रणामानन्तरं सुग्री(l.8)वविभीषणाभ्यां प्रणम्य मुक्तमेकं कौसल्यायाः पादं हनुमानन्यं लक्ष्मणो वन्दि(l.9)तवान्॥ 53. त्वं मे महर्षे बहुमानभूमि- रलं प्रणम्येति ससंभ्रमायाम् . पादौ ज(l.10)नन्त्यामपसारयन्त्यां जटाधरो लक्ष्मण इत्युवाच ॥ तपोधन मम त्वं बहुमानपात्रं भ(l.11)वस्यतः प्रणम्याल॑ मा प्रणामं कृथा इति संभ्रमसहितायां मातरि पादौ संवृ(l.12)ण्वत्यां सत्यां लक्ष्मण एवमवोचत् ॥ 54. आर्यस्य कान्तारविहारकेला- वहं सदांनु(l.13) ‿ ‿ — — — + समन्वयातः क्षणमेव दृष्ट्या विधीयतां मातरनुग्रहो मे ॥ आर्य(l.14)··············मनया दृष्ट्या हे मातः(l.15) 55. [Lines 16 to end of page missing] (*) 1 Ms. °सुपं, 2 Ms. °पा°; °दा° on margin. 3 Ms. °ष्ट्वा .
षष्ठः सर्गः . १६३ ज्येष्ठानुरागाख्यनिधानकोशे मुद्रानिवेशो निहितो हृदीव ॥ ततः कौसल्याया हृदि सू(1.1)क्ष्मं मेघनादपातितशक्तिव्रणचिह्नं² लक्षि- तम् . अतस्संभाव्यते श्रीरामविष(1.2)ये स्नेहनामनिधिकोशे न्यस्तो मुद्रा- निवेश इव ॥ 56. किमेतदित्याकुलया स्पृशन्त्या पृष्टो(1.3)पि मात्रा न स किंचिदूचे . द्रोणाचलेन्द्रोद्धरणोद्धुरोपि नेमे च लज्जातिभरात्कपीन्द्रः ॥(1.4) व्रणं स्पृशन्त्या व्याकुलया मात्रा किमेतदिति पृष्टोपि लक्ष्मणो न किंचिदुक्तवान् व्रण(1.5)रोॅपणौषध्यानयनार्थं द्रोणाख्यपर्वतोद्धरणेनोद्धुरोपि हनुमांल्लॅज्जाभरादनमत्(1.6) मयि सत्यनेनायोधीति लज्जाभरः ॥ 57. यथाभवत्तस्य च शक्तिपातो धन्वन्तरिर्वायुसु(1.7)तो यथा च . वितत्य रामेण तथा समस्तं मातुः पुरस्तात्प्रतिपाद्यते स्म ॥ लक्ष्मणस्य श(1.8)क्तिपातो यथाभूद्यथा च हनुमान्विशल्यीकरणे धॅन्वन्तरीरासित्तथा स प्रकारस्स(1.9)मस्तं विस्तरेण मातुरग्रे रामेण प्रतिपादितः ॥ 58. स्तुतिर्जगत्प्राणसुतस्य के(1.10)यं जागर्ति यत्त्राणयितुं जगन्ति . हरिस्तथा भाति न कौस्तुभेन यथामुना लक्ष्मण(1.11) लक्ष्मणा त्वम् ॥ 1 Ms. सूक्ष्मं लक्ष्मणस्य crossed after ˚हृ. 2 Ms. ˚ह्नो˚. 3 Ms. ˚रपयो˚. 4 Ms. ˚माल्ल˚ 5 Ms. धान्व˚. 6 Ms. ˚न्वरि˚. 7 Ms. ˚तम्. 8 Ms. ˚गन्ति य˚.
१६४ पृथ्वोराजविजयमहाकाव्यम् जगन्ति प्राणयतीति जगत्प्राणो वायुस्तस्य सुतो हनुमांस्तस्ये(l.12)यं का स्तुतिः यज्जगज्जीवयितुं हनुमाञ्जगार्ति . एतेन न केवलं हनुमता ल(l.13)क्ष्मणः प्राणितो यावज्जगन्त्यपि लक्ष्मणवत्त्राणयतीति प्रतिपादितम् लँक्ष्मणे प्राणिते रामस्यै......कार्याणा(l.14)............जीवनार्थं य- ............(l.15) 59. Lines 16 to end of page missing मंनुजस्य सेवा- मनुस्मरन्वाक्यमिदं बभाषे ॥ लीलयात्तो मनुष्यभावो येन स देवो रामः(l.1) कौसल्योक्तमेव श्रुत्वा- न्येन कर्तुमशक्यां लक्ष्मणस्य सेवां स्मरन्निदमवोचत् ॥ 60. तिललम् ॥(l.2) मातर्मुषा प्रार्थयसे त्वमेवं भवादृशीनां नहि तंत्वमेतत् . देवी भवानी किमु कात्ति(l.3)केय- गाङ्गेययोः किञ्चिदवैति भेदम् ॥ हे मातस्त्वमेवं मृषा याचसे त्वादृशीना(l.4)मेतन्न युक्तं रामो मदीयो लक्ष्मणोऽन्यदीय इति यतो गौरी कुमारहेरम्बयोर्भेदं न जा(l.5)नाति ॥ 61. आशंसनीयं तु ममेदमस्ति यथाग्रजं मामनुजस्सिषेवे . तथाहमस्या(l.6)नुजतामुपेत्य सेवाविधानात्कृतनिष्क्रयः स्याम् ॥ 1 Ms. °ब्जगर्ति. 2 Ms. lc. on margin. 3 Restore देवः स लीलान्तमनुष्य- भावो मात्रोदितं वाक्यमिदं निशम्य. । अनन्यकार्यामनु° (?) 4 Comma युक्तं.
१६६ पृथ्वीराजविजयमहाकाव्यम्. अनेन भोगेन मम शोभा नास्ति अतोऽहमीदृशं भोगित्वं सर्पत्वं(l.1) भोगभाक्त्वं च प्राप्नुयाम् येन त्वत्पादपवित्रां भूमिं स्प्रष्टुं सहस्रं मूर्ध्नां शिरसां फणानां(l.2) च यस्य स स्यामित्यादरद्योतनम्. शेषो भवेयमित्यर्थः ॥ 66. इत्थं महीनाथ कथानवद्या पु(l.3)राभवद्या पुरतो जनन्याः . स्नेहानुबन्धादपि दाशरथ्योः पफाल तस्यां प्रथमस्य वाक्यम् ॥(l.4) हे राजन्मातुरग्रे या कथा पूर्वमभूत्तस्यां कथायां प्रथमस्य रामस्य वाक्यं फलितम् ॥(l.5) 67. तथा हि रामत्वमुपेयुषः प्रा- ज्येष्ठस्य निर्वाहिनसाहचर्यः . कृष्णः कनिष्ठस्स विवेक(l.6)निष्ठ- स्तथागतत्वं प्रतिपन्न एव ॥ तथा हीत्यादि प्रथमवागुत्पत्तिपरम् हलधरभावं प्राप्त(l.7)स्य ज्येष्ठस्य भ्रातुर्लक्ष्मणावतारस्य संपादितसाहायकः कनिष्ठः कृष्णो बुद्धत्वं प्राप्तः ॥ (l.8) 68. अपत्यरत्नद्वयसंनिधान- निधानभूः कोसलराजपुत्री . यथा भवित्री विदितं तथा(l.9) मे बद्धावधानः क्षणमस्तु देवः ॥ कौसल्या द्वौ पुत्रौ यथा सूते तथा मम विदितमतो (l.10)राजा क्षणं सावधानो भवतु ॥ 69. चक्षुस्त्रयाणां जगतामवामं वामं त्रयाणामपि का(l.11)रणानाम् . 1 Ms. °न्थां. 2 Ms. °फली (!) 3 Ms. पत्रौ.
षष्ठः सर्गः . १६७ योयं जयत्यत्रिमुनेरिवाब्धे- रयोनिजं पुण्यमपत्यमिन्दुः ॥ यस्त्रयाणां (l. 12) जगतामवासंमनुकूलं चक्षुस्तथा ब्रह्मादीनां कार- णानां वामं चक्षुः तथात्रिमु(l. 13)नेस्समुद्रस्य चायोनिजातमपत्यं चन्द्रोयं जयति ॥ 70. मयाष्टधा लोकहिताय चक्रे (l. 14) कृता तनुष्षोडशधा त्वयैव . इतीव यो मूर्धनि धारणीयः परिश्रमज्ञेन महेश्वरेण ॥(l. 15) मया लोकानां हितार्थं प्रकृतिरष्टधा कृता अनेन चन्द्रेण पुनरेका .... .........(l. 16) 71. [Lines 17 to end of page missing] (**47) पाणौ¹ बिभर्त्ति हृदयेमृतकलशान्तर्बिभर्त्ति² दृग्गोचरे वामनेत्रे³ बिभर्त्ति चन्द्रं कर्पूरमिव (l. 1) . मृत्युञ्जयस्य कर्पूरोद्धूलितस्यागमेष्वभिधानात् . अन्या लोकोत्तरा प्रादेशिकी न प्रदेशे ए(l. 2)कद्देशे भवा भूषास्य चन्द्रस्य⁴ भूषणत्वं भवति किंवाद्वत्नवत् शोभामात्रं समानो धर्मः(l. 3)चन्द्रं⁵मिवेति वान्त्रयः ॥ 72. लोकार्थमष्टावपि मूर्त्तयोमू- रतिमकृंष्टा⁶ तु य एष मूर्त्तिः .(l. 4) कामं च कालं च हि सर्वकालं यतोर्नुगृह्णात्यविरोधमीशः⁷ ॥ हरस्याष्टौ मूर्तयो भूम्या(l. 5)दयो लोकहितार्था भवन्ति एष यश्चन्द्रा मूर्त्तिर्भवति सा लोकहितार्थमतिप्रकृष्टा भव(l. 6)ति अतो हेतोरीशः कामं 1 Ms. °वापं. 2 Ms. °न्तर्विं. 3 Ms. °व°. 4 Ms. भूषा crossed after 'स्य. 5 Ms. °न्द°. 6 Ms. °ष्ठा. 7 Ms. सतोव°.
१६८ पृथ्वीराजविजयमहाकाव्यम्. कालं च विरोधत्यागेनानुगृह्णाति . चन्द्रस्य कामोद्दीपकत्वात् काल(l.7)स्य तिथिमुखेन व्यवस्थितस्य चन्द्रेणैव संपादितत्वात् ॥ ७३. अखण्डितेच्छैरपि राजदारैः प्रि(l.8)यान्तराश्लेषसुखं न लभ्यम् . इतीव धन्याः प्रति दक्षकन्याः प्राप्नोति नित्यं नवरूपतां यः ॥(l.9) राजानो नृपा राजा चन्द्रश्च तत्प्रियाभिरैश्वर्येणाखण्डितेच्छाभिरपि नवनवदयितालि(l.10)ङ्गनसुखं न लभ्यते इत्यत इव भाग्यवतीस्ताराः प्रति यो नित्यं नवत्वं गृह्णाति कलानां च(l.11)यादपचयाच्चेति भावः ॥ ७४. पक्षस्थिते दैत्यगुरौ विवादं कृत्वा समं वाक्पतिनान्वयार्थे .(l.12) य एव लेभे विजयप्रशस्तिं श्रेयान्हि राज्ञः कविपक्षपातः ॥ चन्द्रस्य पक्षे स्थिते शुक्रे(l.13) सति बृहस्पतिना साकं पुत्रार्थे¹ विवादं कृत्वा य एव चन्द्रो विजयकीर्त्तिं लब्धवान् जी(l.14)…………तः बृहस्पति- चन्द्रयोर्विवादो जातः क्षेत्रिणो ममायं बुधः पुत्र इ(l.15)-· ७५. [Lines 16 to end of page missing] (*) प्रतिबिम्बिता भूर्यत्ततः कलङ्कः कलङ्क इति प्रवाहो जातः . कलङ्कः कलङ्क इति द्विरुक्ति(l.1)र्वीप्साप्रतिपादनार्था ॥ ७६. वव्रे बलादाङ्गिरसाङ्गनापि यदेनमेषोपि कथङ्कल(l.2)ङ्कः . विहाय देवी दमघोषसूनुं न रुक्मिणी किं विधुमालिलिङ्ग ॥ ¹ Ms. 'र्थेविं'.
षष्ठः सर्गः. १६६ आङ्गिरसो जीवः(l.3) तस्याङ्गना रोहिणी साप्येनं बलाद्यद्गत्रेचकमत सोपि नास्य दोषः शिशुपालं त्य(l.4)क्ता रुक्मिणी विधुं विष्णुं किं नालि- ङ्गत् ॥ 77. तुषारगौरादपि जातमस्मा- त्सुंत्रामरामा(l.5)श्रवणोचितेन . इन्दीवरेणेव सुरस्रवन्ती- हृदान्महानीलरुचा बुधेन ॥ शच्या श्रोतृसु(l.6)चितेन . सुरूपत्वादिति भावः . बुधेन महानीलका- न्तिना यतो हिमशुभ्रादपि जातम्(l.7) यथा शचीकर्णपूरत्वोचितेन नीलो- त्पलेन गङ्गाप्रवाहात् ॥ 78. अङ्कस्पृशमित्यादि(l.8) बुधस्तुतिपरमनन्तरकुलकम् ॥ अङ्कस्पृशं यं परभागभङ्गी- सौभाग्यहेतुं स्मरतेव(l.9) बालम् . अद्यापि नीलोत्पलचारुनेत्रो नोत्सृज्यते चन्द्रमसा कुरङ्गः ॥ बुधो नील इत्यतः(l.10) परभागभङ्गया सौभाग्यस्य हेतुमङ्कारूढं यं बालं स्मरतेव चन्द्रेण मृगोद्याप्यङ्गान्न(l.11) त्यज्यते नीलोत्पलदृष्टिः ॥ 79. सितेन्दुमुक्तामणिजीवहीर- भौमार्क रक्तोपलगुम्फि(l.12)तो यः . आकाशलक्ष्म्या इव कण्ठसूत्रे सहार्कणा नीलमणित्वमेति ॥ सितेन्दू एव(l.13) मुक्तामणी जीव एव हीरो भौमार्कवेव रक्तोपलौ 1 Ms. °ज्ञी°. 2 Ms. °दशुभ्रा°. 3 Ms. °च्याश्रों°. 4 Ms. °शी°. 5 Ms. °स्प°. 6 Ms. ये. २२
पद्मरागौ तेषु गुम्फितो यो बुध:(l.14)·······दलक्ष्म्याः कण्ठसूत्रे इन्द्रनीलभावमेति ॥ ८०. अल्पो महान्वां महसास्तु(l.15) Lines 16 to end of page missing —न्निकटे स्थित इत्यर्थः . पुत्रा पितुः पार्श्वे वसन्तीति तात्पर्यम् . अयं बुध- श्चन्द्रसकाशाद्व्यवहितो(l.1) यदास्ते तत्तस्मादहं मन्ये इति शेषः . जीवाद्- गुरोरुपजीव्यादधीत्यायं बुधो भूमिजे भौमे स्वकु(l.2)लजातराजोद्देशेन बुद्धिं ददाति . शनिः पितुस्सूर्यस्य सकाशाद्व्युत्क्रमेण पार्श्वे वसतीति नी(l.3)त्यु- ल्लङ्घनप्रकाशनम् बुधस्तु चन्द्रात्क्रमेणैव तिष्ठति किन्तु भौमेन व्यवहितः तथाविधा(l.4) स्थितिः पुण्यार्थमेवास्य भवति . अयं हि गुरोर्नीतिमधीत्य भौमस्य प्रतिपादयति भौमेन(l.5) पुत्रेण नीतिर्भुवो
षष्ठः सर्गः . १७१ वरुणश्शीतो रविरुष्ण इति विरोधिनावपि वरुणाकौँ दीक्षितावपि यामुर्वशीं यद्दृष्ट(l.12)वन्तौ तत्ततो वरुणस्सन्तापमवहत् मित्रस्सूर्यो जाड्यं जडत्वमवहत् ॥ 83. साप्युर्वशी प्रा(l.13)प्य तमूर्व्वरीशं तथा च नोजनम्वशंवदाभूत् . अस्याश्शची पामरकामिनीव यथा न सं(l.14)-------- ॥ पुरूरवसं प्राप्य साप्युर्वशी तथा कामातुराभूद्यथा पामरस्त्रीव(l.15) ...............दित्यर्थः ॥ 84. बहुष्वैतीं---------(l.16), 85. [Lines 17 to end of page missing] (*) .........इन्द्रसमं पुत्रमिच्छतस्तस्य यैस्तपोभिर्हेतुभिः कुशिकस्य गाधिनामेन्द्रस्स्वयमेव जातः ॥ 86. धर्तुं धरित्रीं(l.1) नवमो बभूव नगाधिराजस्स न गाधिराजः . ऐन्द्रीषु यस्येष्टिषु शश्वदासी- देकाश्रयस्त(l.2)र्पकंतर्प्यभावः ॥ स गाधिराजो भुवं वोढुं नवमकुलपर्वत आसीत् काँक्कासीदेवेत्यर्थः यद्वा स गाधिराजो नासीत्किं तर्हि नवमो नगाधिराजः इन्द्रयागेषु यस्य तँ(l.3)र्पकंतर्प्यत्वं चैकाश्रयमासीत् . स हि शक्रः तर्पकश्च स एव स एवे- न्द्रयागे तर्पणीयः ॥(l.4) 87. 1 Ms. यामू°. 2 Restore °तेषु. 3. Ms. यै° to °भिः lc. on margin. 4 Ms. न written below आ°. 5-5 Ms. lc. on top margin. 6 Ms. तत°.
१७२ पृथ्वीराजविजयमहाकाव्यम्. को वेद तद्गाधिसुवस्स तत्वं दधत्पुरस्तादपि राजतत्वम् • अपारतो यंस्तपसः प्रभावा- त्सुव(l. 5)र्णतां भावनयोपनीतः ॥ तत्तस्माद्धेतोर्गाधिभुवो विश्वामित्रस्य माहात्म्यं को जानाति यत्पू(l. 6)र्वे राजतत्वं क्षत्रियभावमपि दधत्तपंसोपारात्प्रभावाद्धेतोर्भावनया सुवर्णतां शो- भन(l. 7)वर्णत्वं ब्राह्मणत्वं नीतः . क्षत्रियोपि हि विश्वामित्रस्तपोमाहात्म्या- द्ब्राह्मणस्संपन्नः . अथ च(l. 8) यः पदार्थः पारदो न भवति राजतं रूप्यं सुवर्णं करोतीत्यपि विरोधाभासकः ॥ 88. निन्ये ह(l. 9)रिश्चन्द्रमधोगतिं य- दुच्चैः पदं चागमयत्रिशङ्कुम् • कोपप्रसादौ नृपगोचरौ त- च्यक्त्वा(l. 10)पि यो राज्यमपेक्षते स्म ॥ विश्वामित्रो हरिश्चन्द्रं यदधः कृतवांस्त्रिशङ्कुं च यदुच्चैः पदं(l. 11) प्राप- यत्तद्राज्यं त्यक्त्वापि कोपप्रसादावेवापेक्षते स्म नृपाणां गोचरौ राज्ञामेव कोप- (l. 12)प्रसादावुपयोगिनौ अयं तु राज्यं त्यक्त्वापि निग्रहानुग्रहोद्यतोभूदित्यर्थः उदारचे(l. 13)तसा तेन तयोरेव राज्यफलत्वगणनादिति भावः ॥ 89. स चक्रवर्त्ती भरतोपि जज्ञे(l 14) ――――――न्दुगोत्रे . राज्याभयं कर्तुमनेकवारं पुलोमजा यस्य पुरे ययाचे ॥ स ह(l. 15)- . 90, Lines 16 to end of page missing 1 Ms. येतं . 2 Ms. °परी° . 3 Ms °तपं written above °त्सुवं. 4 Doublet of पारत, See l. 7. 5 Ms. °चरो.
षष्ठः सर्गः . १७३ 'ख्यानकरं जघान . इतीव यद्दोर्वनदृप्तदन्ती रामेण रामो दमयांबभूवे ॥ मम पूर्वपुरु(l.1)षस्सहस्ररश्मिः तस्य मम गणनकरं कार्तवीर्यमयं हत- वानित्यस्मादिव कार्तवीर्यभुज(l.2)वनमत्तगजः परशुरामश्रीरामेण दमितः . मत्तश्च हस्ती दम्यते ॥ ९1. द्वाभ्यां शताभ्यां स क(l.3)रैररौंसी- त्पंचाशता च ध्रुवमेकमेकम् . नैकोपि पादश्चलति स्म येन धर्मस्य तस्मिन्परिरक्ष(l.4)ति क्ष्माम् ॥ पञ्चाशदधिकशतद्वयसंख्यैः करैस्सहस्रबाहुः कार्तवीर्यो धर्मस्यैकमेकं पादं त(l.5)द्ध्रुवं रुद्धवान् यतस्तस्मिन्भुवं पालयति धर्मस्यैकोपि पादो नाचलत् ॥ 92. कलिर्जजागा(l.6)र चुरिक्रियायां कृतस्य दत्ताभय एष राजा . तेनास्य पृथ्वीवलयप्रसिद्धिं प्राचुर्यमूहै(l.7) कलिचुर्युपाख्या ॥ कार्तवीर्यस्य कलिचुरिरिति नाम प्रसिद्धं तत्र कविरन्वर्थतामूहते(l.8). चुर स्तेये इत्यस्य धातोः क्रिया चुरिक्रिया तस्यां हरणोर्थात्कृतयुगस्य क- लिरुद्यतः . कार्त(l.9)वीर्यैः कृतस्य दत्ताभयः तेन ध्रुवं कलिचुरिसंज्ञा राज्ञो भूमण्डले प्रसिद्धिमवहत् ॥(l.10) 93. तदीयमेवाभरणायमानं क्रमागतं नाम समुद्वहन्तः . 1 Read संख्या°. 2 Ms. °रौ°. 3 Ms. पादं lc. on margin. 4 Ms. प्रापुर्यं°. 5 Ms. तन्ना° written under दत्ता°. Is it तत्र दत्ताभयः ?
...Wait, what aboutकलिघंमकाले? Could it be कलिधर्मकालेwhere MS hasघंमor something? Wait, look at line 14:[Lines 18 to end of page missing] (*)Then:माण्याँबयास्स साहसिकस्तपस्विने...Wait, couldमाण्याँबयास्सbe...माण्यां नयास्स...? Wait, could the footnote be: 1 Ms. °थ°.Wait, where is1? Look at line 16: दत्वा(l.1) सर्वां भूमिं जेतुं प्रस्थितवान् ॥Look at(l.1)! That is (l. 1)of the next page/leaf of the manuscript! Wait, before(l.1)there isदत्वा(l.1): wait, is that (l.1)or(1.1)? In the image, the font for letter lis italicl: (l.11), (l.12), (l.13), (l.14), (l.15), (l.16), (l.17), (l.1), (l.2), (l.3). Wait, in दत्वा(l.1
षष्ठः सर्गः. १७५ स्तत्वं न जानामि यतोऽहं दैवज्ञस्तत्प्रतापस्तु दैवमप्य(1.4)तिवर्तते . यावान- स्य प्रतापस्तावान्वाङ्मनसातिक्रान्त इत्यर्थः ॥ 98. यत्कार्मुकारोपणमात्र(1.5)यत्न- सापेक्षमाशाविजयं विजानन् . स भाग्यसंपत्परिवार एव बभ्राम सामन्तशिखाम(1.6)णिर्गाम् ॥ धनुष्कर्षणमात्रप्राप्यं दिग्विजयं जानन्स राजा भाग्यसम्पदेव परिवारो यस्य(1.7). केवल इत्यर्थः . स चक्रवर्ती भुवं यदभ्रमत् ॥ 99. विधास्यतस्साहसमानुचर्या- च्छायामपि च्छे(1.8)तुमिवास्य रात्रौ . विरोचने चुम्बति पश्चिमायां पपात जातु त्रिपुरी पुरस्तात् ॥ रात्रौ साहसं(1.9) करिष्यतोस्य च्छायामप्यनुचरत्वाच्छेत्तुं वारयितुमिव [L15
१७६ पृथ्वीराजविजयमहाकाव्यम् क्षीणां क्षपाकान्तमशुद्धपक्षे ' दृष्ट्वां विसृष्टै(l.14)रिव सागरेण . प्रदीपितॆजोवधदन्दशूकै- रमूच्यत द्यौर्जलदैरकस्मात् ॥ कृष्णपक्षे क्षी(l.15)- 102. Lines 16 to end of page missing कम्पितुमारम्भमकरोत् ॥ 103. आजनमनस्साहसँसादरत्वा- त्स साहसस्यैव शुभं निमित्तम् .(l.1) यथार्थनामा पिशुनं विदित्वा घने घनं गर्जति नन्दंति स्म ॥ नित्यं साहसकरणात्सार्थकनामा स(l.2) राज्ञ तन्निमित्तं बाहुकम्पं ' साहसस्यैव सूचकं ज्ञात्वा घनं कृत्वा मेघे गर्जति सति साहसि(l.3)को राजातुष्यत् ॥ 104. ततो घनानां निचयाैनिशातै- र्निःशेषतस्तारकधाम्नि शान्ते . निशातनुत्वान्नि(l.4)शशामं नादं निकाममायाविनमेष वीरः ॥ निबिडैर्मेघैस्तारकाणां धाम्नि स्थाने तेजसि(l.5) वा शान्ते निशावसा- नादत्यर्थं विस्तीर्णं शब्दमेष वीरश्श्रुतवान् ॥ 105. अथ ध्वनेस्संमुख(l.6)मस्य॑ गत्वा भयानकेनेव रसेन पूर्णाम् .
- 1 Ms. °ष्ट्या. 2 Is it °पते° ? 3 Ms. °हसाद°. 4 Ms. °तिनन्द° lc. on top margin. 5 Ms. बजति. 6 Ms. °शस्र नां°, 7 Ms. °मप्यं°,
षष्ठः सर्गः . १७७ श्मशानेनामानमसौ गभीरां पुर्यांस्त्रिपुर्याः परिखां(l.7)मपश्यत् ॥ ततोस्य शब्दस्य संमुखं गत्वासौ भयानकेन रसेन पूर्णामिव त्रिपुरी- नामनग(l.8)रीसम्बन्धिनीं श्मशानाख्यां परिखामपश्यत् ॥ * 106. प्राणांन्नीति कुलकम् ॥ प्राणांन्निहो(l.9)त्रीकृतकालकार्म- पुरत्रयाख्याहुतिपंचकस्य . तृप्तिर्नृकीटेन मयापि का ते ब्रह्माण्ड(l.10)कोटीशतघस्मरस्य ॥ आकृष्टः पाशो यैस्तैः कालदूतैरिव खड्गहस्तैः पुरुषैः केशेषु गृ(l.11)- हीत्वा महाकालायतनं प्रवेश्यमानमेवं क्रन्दन्तं स राजा ददर्शोति सम्बन्धः . ग्रस्तकाल(l.12)कामतिपुराख्यपंचाहूतेस्तथा ब्रह्माण्डकोटीशतग्रासिनस्ते नृणां मध्ये कीटेन मया(l.13) का तृप्तिः ॥ 107. सर्वाङ्गशुद्धस्य सुधारुचेर- प्यालोकयामो हृदि कालिमानम् . त्रैलोक्यकर्णो(l.14)- 108. Lines 15 to end of page missing शेषोपि बलैकरूपो गोरक्षणं साहसिकः करोति . तव दर्शनं यद्यप्राप्तं तत्तर्हि सहसा बले(l.1)न करणेन त्वयैव योग- णीत्वं प्रापितः स प्रकाश्यताम् यो शेषो न शेषोपि बलैकरूपो बलसहायो हलधरंसमोयं साँह(l.2)सिको गोरक्षणं भूमिरक्षणं करोति ॥ 109. 1 Ms. स्मशा°. 2 Ms. पणिपां°. 3 Ms. प्राजा°. 4 Ms. °कायं. 5 Ms. °नैकी°. 6 The verse referred to by this part of comm. is lost in the lacuna at the end of the page. 7 Ms. °कं to °र° lc. on top margin. 8 Ms. °मयोयसां°. 9 Ms. गोरक्षणं lc. under 1.3. २३
३. सर्ग ९-१२: सम्राट् पृथ्वीराज तृतीय बाल्यकाल, राज्याभिषेक, गोरी आक्रमण एवं विजय महाकाव्य उपसंहार
१७८ पृथ्वीराजविजयमहाकाव्यम्. यः कोपि वा साहसिकोस्ति लोके यस्यास्ति वा क्षत्रियतावदाता .(l.3) कृपाकृपाणाभरणोस्ति यो वा स पातु मां मृत्युभयादमुष्मात् ॥ यो वा साहसिको यो(l.4) वा शुद्धक्षत्रियो वा दयाखड्गभूषणो दया- मय इति यावत् सोस्मान्मृत्युभयान्मां रक्ष(l.5)[तु] ॥ 110. [श्रुत्वेति त]त्कालगुरुभवद्भि- र्मेघैस्स संक्रामणदीक्षयेव . सौदामिनीदृष्टिभिरी(l.6)[क्ष्यमाणः] ―――निर्घोषमिदं बभाषे ॥ तत्काले गुरुभवद्भिर्बहुँलीभवद्भिश्च मेघैः(l.7) ・・・・・・・・・・・・दर्यमाणः अत्रोत्प्रेक्ष्यते संक्रामणं वधनिषेधे प्रेरणां तदीक्षयेवेति(l.8) ・・・・・・・・[उ]क्त- वान् ・・・・・・प्रतिपादनदीक्षाया हेतोश्शिष्यं दृष्ट्या पश्यति(l.9) ・・・・・・॥111. [अरे वराकाः करुण]प्रलापं भाग्यैर्दृशो गोचरमागतं मे . विमुञ्चतैतं द्रुतमन्यथा व- स्तदा(l.10) ―― ‿ ―― ‿ ――दसिन् ॥ अरे वराकाः हे अधमाः करुणाक्रन्दिनं स्वभाग्यैर्मम(l.11) ・・・・・・ ・・・・・・गोचरमेनं यूयं त्यजत तूर्णम् अन्यथा यदि न यूयं त्यजथ तदा(l.12) ・・・・・・・・शनितं(?) तद्युष्माकमा・・・・・・ति स्यात् युष्मानुपहरामीत्यर्थः सम(l.13)・・・・・・・・・・・・सेनापरिवारितम् ・・・स(l.14) 112. Lines 15 to end of page missing
1 Ms. °कृपाभं°. 2 Ms. सोदा°. 3 Ms. °हली°. 4 Ms. °इत्य°. 5 Ms. °ष्ट्रा. *6 Ms. °ग्यैदृ°. 7 Ms. °व्य°. 8 Ms. °नप°. 9 Copyist's remark--अत ऊर्ध्वं त्रिचतुराणि पत्राणि गलितानीति भाति.
, [ सप्तमः सर्गः ]
एाश्चेत्यपिशब्दार्थः . कुम्भोदरनामा भवान्या गणस्त्वं हिमाद्रिलतानां भवा- न्यां भगिनीनामिव य......जागरूको भवसि ॥ 1. अवलम्ब्य मृगाधिराजभावं व्रततीनामवता वनेभभङ्गम् . भयॅ- ⏑ ⏑ - ⏑ - -(l.2)कदाचिद्विकृतं वासववारणो ररासं ॥ सिंहरूपमभिनय हिमाद्रिलतानां......रक्षता त्वया भयं प्रा- पितः ऐरावणो विकृतं कृत्वा क्रन्दितवान् ॥ 2. सदसि ध्वनितेन तेन - ⏑ ⏑ - नव्यकथाप्रसङ्गभङ्गे . अशपद्विरदास्यशब्दशङ्गाकुपिता पर्वतराजनन्दिनी त्वाम् ॥ ......(l.5)न हरस्य कथाच्छेदे जाते गणपतिबृंहितमिति शङ्कया कुपिता गौरी त्वां सभाया.........(l 6). 3. स्वरसेन यथा तथा वनेस्मिन्नसि राजेव समुद्यतो विहन्तुम् . परमेश्वरपाददूरवर्ती व्रज राजैव म(l.7)हीतले भवेति ॥ यथा तथानुचितं स्वातन्त्र्येण राजेव क्रीडितुमस्मिन्वने यत्त्वं प्रवृत्तोतो महेश्वरपादादूरव(l.8)र्ती त्वं भूतले राजैव भव ॥ 4. शनकैस्सुहृदा निकुम्भनाम्ना तव शापावधिमर्थिता भवानी . प्रचल(l.9)त्प्रतिबिम्बिताभ्रमुक्ता द्युनदीव प्रससाद चावदच्च ॥ 1 Ms. °ररा°. 2 Ms. भवान्या lc. on top margin. 3 Is it भवता भयमापितः क° ? 4 Ms. °राज- 5 Ms. °तान°. 6 Ms. °न्दनीत्व°. 7 Ms. lc. under l.7.