भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

चतुर्थः सर्गः १२५

चतुर्थः सर्गः १२५

अन्वयः—अश्वक्षुण्णानाम् एलानाम् उत्पतिष्णवः फलरेणवः तुल्यगन्धिषु मत्तेभकटेषु ससञ्जुः ।

ससञ्जुरिति । अश्वैः क्षुण्णानामेलालतानामुत्पतिष्णव उत्पतनशीलाः । 'अलंकृञ्निराकृञ्–' इत्यादिनेष्णुच्प्रत्ययः । फलरेणवः फलरजांसि तुल्यगन्धिषु समानगन्धिषु । सर्वधनीतिवदिषन्तो बहुव्रीहिः । मत्तेभानां कटेषु ससञ्जुः सक्ताः । 'गजगण्डकटीकटौ' इति कोशः ।

भाषार्थ—घोड़ों की टापों से चूर्णित इलायची के फलों की उड़ती हुई धूलियाँ समानगन्धी गजों की कनपटी में गयीं ॥ ४७ ॥

भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ।
नास्रसत्करिणां ग्रैवं त्रिपदीच्छेदिनामपि ॥ ४८ ॥

अन्वयः—चन्दनानां भोगिवेष्टनमार्गेषु समर्पितं त्रिपदीच्छेदिनां अपि करिणां ग्रैवं न अस्रसत् ।

भोगीति । चन्दनानां चन्दनद्रुमाणां भोगिवेष्टनमार्गेषु सर्पवेष्टनाङ्कितेषु समर्पितं सङ्क्षितं त्रिपदीच्छेदिनां पादशृङ्खलच्छेदकानामपि 'त्रिपदी पादबन्धनम्' इति यादवः । करिणाम् । ग्रीवासु भवं ग्रैवं कण्ठबन्धनम् । 'ग्रीवाभ्योऽण्ण' इत्यण्प्रत्ययः । नास्रसन्नस्रस्तमभूत् । 'द्युभ्यो लुङि' इति परस्मैपदे पुषादित्वादङ् । 'अनिदिता'मिति नलोपः ।

भाषार्थ—चन्दन के वृक्षों में साँपों के लिपटने की रेखाओं में बँधे हुए पैर के सीकड़ को तोड़ डालने वाले हाथियों के गले के बन्धन ढीले नहीं हुए ॥ ४८ ॥

दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥ ४९ ॥

अन्वयः—दक्षिणस्यां दिशि रवेः अपि तेजः मन्दायते तस्यां एव (दिशि) पाण्ड्याः रघोः प्रतापं न विषेहिरे ।

दिशीति । दक्षिणस्यां दिशि रवेरपि तेजो मन्दायते मन्दं भवति । लोहितात्वात्क्यष्प्रत्ययः । 'वा क्यषः' इत्यात्मनेपदम् । दक्षिणायते तेजोमान्द्यादिति भावः । तस्यामेव दिशि पाण्ड्याः पाण्डूनां जनपदानां राजानः पाण्ड्याः 'पाण्डोर्यण्वक्तव्यः'। रघोः प्रतापं न विषेहिरे न सोढवन्तः । सूर्यविजयिनोऽपि विजितवानिति भावः ।

भाषार्थ—जिस दक्षिण दिशा में सूर्य का भी तेज मन्द हो जाता है, उसी दिशा में पाण्ड्य देश के राजा रघु का प्रताप नहीं सह सके ॥ ४९ ॥

ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः ।
ते निपत्य ददुस्तस्मै यशः स्वमिव सञ्चितम् ॥ ५० ॥

१२४ रघुवंशमहाकाव्ये

अन्वयः— ते ताम्रपर्णीसमेतस्य महोदधेः मुक्तासारं स्वं सञ्चितं यशः इव तस्मै निपत्य ददुः ।

ताम्रपर्णीति । ते पाण्ड्यास्ताम्रपर्ण्या नद्या समेतस्य सङ्गतस्य महोदधेः सम्बन्धि सञ्चितं मुक्तासारं मौक्तिकवरम् । ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु’ इत्यमरः । स्वं स्वकीयं यश इव । तस्मै रघवे निपत्य प्रणिपत्य ददुः । यशसः शुभ्रत्वाद्दोपम्यम् । ताम्रपर्णीसङ्गमे मौक्तिकोत्पत्तिरिति प्रसिद्धम् ।

भाषार्थ— पाण्ड्यदेश के राजाओं ने, ताम्रपर्णी नदी से संयुक्त महासागर के उत्तम मोती, अपने सञ्चित यश के समान रघु को उपहार में दिए ॥ ५०॥

स निर्विश्य यथाकामं तटेष्वलीनचन्दनौ ।
स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ ॥ ५१ ॥
असह्यविक्रमः सह्यं दूरान्मुक्तमुदन्वता ।
नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ॥ ५२ ॥

अन्वयः— तटेषु आलीनचन्दनौ तस्याः दिशः स्तनौ इव मलयदर्दुरौ शैलौ यथाकामं निर्विश्य असह्यविक्रमः सः उदन्वता दूरात् मुक्तं मेदिन्याः स्रस्तांशुकं नितम्बं इव सह्यं अलङ्घयत् ।

स इति । असह्येति च । युग्ममेतद् । असह्यविक्रमः सः रघुस्तटेषु सानुष्वाली-नचन्दनौ व्यासक्तचन्दनद्रुमौ । ‘गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्’ इत्यमरः । स्तनपक्षे—प्रान्तेषु व्यासक्तचन्दनानुलेपौ । तस्या दक्षिणस्या दिशः स्तनाविव स्थितौ मलयदर्दुरौ नाम शैलौ यथाकामं यथेच्छं निर्विश्योपभुज्य । ‘निर्वेशो भृतिभोगयोः’ इत्यमरः । उदकान्यस्य सन्तीत्युदन्वानुदधिः । ‘उदन्वानुदधौ च’ इति निपातः । उदन्वता दूरान्मुक्तं दूरतरस्त्यक्तम् । ‘स्तोकान्तिक०’ इति समासः । ‘पञ्चम्याः स्तोकादिभ्यः’ इत्यलुक् । स्रस्तांशुकं मेदिन्या नितम्बमिव स्थितं सह्यं सह्याद्रिमलङ्घयतप्रासोऽतिक्रान्तो वा ।

भाषार्थ— तटस्थ चन्दन के वृक्षों से युक्त दक्षिणदिशारूपी रमणी के दो स्तनों के तुल्य मलय और दर्दुर गिरिपर यथेच्छ निवास कर असह्य पराक्रमी रघु समुद्र से दूर पृथ्वीकामिनी की खिसकी हुई साड़ी वाले नितम्बतुल्य सह्य पर्वत को लांघ गये ॥ ५१-५२ ॥

तस्यानीकैर्विसर्पद्भिर्भरपरान्तजयोद्यतैः ।
रामास्त्रोत्सारितोऽप्यासीत्सहालग्न इवार्णवः ॥ ५३ ॥

अन्वयः— अपरान्तजयोद्यतैः विसर्पद्भिः तस्य अनीकैः अर्णवः रामास्त्रोत्सारित अपि सहलग्न इव आसीत् ।

चतुर्थः सर्गः१२५

तस्येति । अपरान्तानां पाश्चात्त्यानां जय उद्यतैरुद्युक्तैः । 'अपरान्तास्तु, पाश्चात्त्यास्ते च सूर्पारकादयः' इति यादवः । विसर्पद्भिर्गच्छद्भिस्तस्य रघोरनीकैः सैन्यैः । 'अनीकं तु रणे सैन्ये' इति विश्वः । अर्णवो रामस्य जामदग्न्यस्यास्त्रैरुत्सारितः परिसारितोऽपि सह्यलग्न इवासीत् । सैन्यं द्वितीयोऽर्णव इवादृश्यतेति भावः ।

भाषार्थ—पश्चिम की विजय के लिये जाने वाली रघु की सेना से समुद्र परशुराम के अस्त्रों से हटाए जाने पर भी सह्य पर्वत से मिला हुआ सा प्रतीत होता था ॥ ५३ ॥

भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् ।
अलकेषु चमूरेणुश्चूर्णंप्रतिनिधीकृतः ॥ ५४ ॥

अन्वयः—भयोत्सृष्टविभूषाणां केरलयोषिताम् अलकेषु तेन चमूरेणुः चूर्णंप्रतिनिधीकृतः ।

भयेति । तेन रघुणा भयेनोत्सृष्टविभूषाणां केरलयोषितां केरलाङ्गनानामलकेषु चमूरेणुः सेनारजश्चूर्णस्य कुङ्कुमादिरजसः प्रतिनिधीकृतः । एतेन योषितां पलायनं चमूनां च तदनुधावनं ध्वन्यते ।

भाषार्थ—रघु ने भय से अलङ्काररहित केरल देश की स्त्रियों के सुन्दर घुँघराले बालों में सेना की धूलि सुगन्धित चूर्ण के स्थान में लगा दी ॥ ५४ ॥

मुरलामारुतोद्धूतमगमत्कैतकं रजः ।
तद्योधवारबाणानामयत्नपटवासताम् ॥ ५५ ॥

अन्वयः—मुरलामारुतोद्धूतं कैतकं रजः तद्योधवारबाणानामयत्नपटवासताम् अगमत् ।

मुरलेति । मुरला नाम केरलदेशेषु काचिन्नदी । 'मुरलीमारुतोद्धृतम्' इति केचित्पठन्ति । तस्य मारुतेनोद्धृतमुत्थापितं कैतकं केतकीसम्बन्धि रजस्तद्योधवारबाणानां रघुभटकञ्चुकानाम् । 'कञ्चुको वारबाणोऽस्त्री' इत्यमरः । अयत्नपटवासतामयत्नसिद्धवस्त्रवासनाद्रव्यत्वमगमत् । 'पिष्टातः पटवासकः' इत्यमरः ।

भाषार्थ—मुरला नदी की हवा से उड़ी हुई केवड़ा पुष्प की धूलि ने रघुके सैनिकों के कवचों को अनायास ही सुगन्धित कर दिया ॥ ५५ ॥

अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः ।
वर्मभि पवनोद्धूतराजतालीवनध्वनिः ॥ ५६ ॥

अन्वयः—चरतां वाहानां गात्रशिञ्जितैः वर्मभिः पवनोद्धूतराजताली वनध्वनिरभ्यभूयत ।

१२६ रघुवंशमहाकाव्ये

अभ्यभूयतेति । चरतां गच्छतां वाहनां वाजिनाम् । 'वाजिवाहार्षगन्धर्वहय- सैन्धवसप्तयः' इत्यमरः । गात्रशिञ्जितैर्गात्रेषु शब्दायमानैः । कर्तरि क्तः । 'गात्र- सञ्जितैः' इति वा पाठः । सञ्जतेर्ण्यन्तात्कर्मणि क्तः । वर्मभिः कवचैः । 'मर्मरः' इति पाठे वाहनां गात्रशिञ्जितैर्गात्रध्वनिभिरित्यर्थः । मर्मरो मर्मरायमाण इति ध्वनेर्विशेषणम् । पवनेनोद्धूतानां कम्पितानां राजतालीवनानां ध्वनिरभ्यभूयत तिरस्कृतः । भावार्थ—चलते हुए घोड़ों के शरीर पर बजते हुए कवचों से हवा हिलाये गये ताड़ के वनों के शब्द दब गए ॥ ५६ ॥

खर्जूरीस्कन्धबद्धानां मदोद्गारसुगन्धिषु । कटेषु करिणां पेतुः पुन्नागेभ्यः शिलीमुखाः ॥ ५७ ॥

अन्वयः—खर्जूरीस्कन्धबद्धानां करिणां मदोद्गारसुगन्धिषु कटेषु पुन्नागेभ्यः शिलीमुखाः पेतुः ।

खर्जूरीति । खर्जूरीणां तृणद्रुमविशेषाणाम् । 'खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमाः' इत्यमरः । स्कन्धेषु प्रकाण्डेषु । 'मस्त्री प्रकाण्डः स्कन्ध स्यान्मूला- च्छाखावधिस्तरोः' इत्यमरः । बद्धानां करिणां मदोद्गारेण मदस्रावेण सुगन्धिषु । 'गन्धस्येदुत्पूतिसुसुरभिभ्यः' इत्यनेनेकारः । कटेषु पुन्नागेभ्यो नागकेशरेभ्यः पुन्ना- गपुष्पाणि विहाय । ल्यब्लोपे पञ्चमी । शिलीमुखा अलयः पेतुः । 'अलिबाणौ शिलीमुखौ' इत्यमरः । ततोऽपि सौगन्ध्यातिशयादिति भावः ।

भावार्थ—खजूर में बँधे हुए हाथियों के मद से सुगन्धित कनपटीयों पर नागकेसर को छोड़कर भौंरे आ बैठे ॥ ५७ ॥

अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ । अपरान्तमहीपालव्याजेन रघवे करम् ॥ ५८ ॥

अन्वयः—उदन्वान् अभ्यर्थितः रामाय अवकाशं ददौ किल अपरान्तमहि- पालव्याजेन रघवे करं ( ददौ ) ।

अवकाशमिति । उदन्वानुदधी रामाय जामदग्न्याय । अभ्यर्थितो याचित सन् अवकाशं स्थानं ददौ किल । किलेति प्रसिद्धौ । रघवे त्वपरान्तमहीपालव्याजेन करं बलिं ददौ । 'बलिहस्तांशवः कराः' इत्यमरः । अपरान्तानां समुद्रमध्यदेश- वर्तित्वात्तद्दत्तकरे समुद्रदत्तत्वोपचार । करदानं च भीत्या, न तु याच्ञयेति रामाद्रघोरुत्कर्षः ।

भावार्थ—समुद्र ने माँगने पर परशुराम को स्थान दिया था । उसी समुद्र ने पश्चिम देश के राजाओं के बहाने रघु को राजकर दिया ॥ ५८ ॥

चतुर्थः सर्गः१२७

मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् ।
त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः ॥ ५९ ॥

अन्वयः—तत्र सः मत्तभरदनोत्कीर्णव्यक्तविक्रमलक्षणं त्रिकूटमे वोच्चैर्जयस्तम्भं चकार ।

मत्तेति । तत्र स रघुर्मत्तानामिभानां रदनोत्कीर्णानि दन्तक्षतान्येव । भावे क्तः । व्यक्तानि स्फुटानिविक्रमलक्षणानि पराक्रमचिह्नानि विजयवर्णविलिस्थानानि यस्मिंस्तं तथोक्तं त्रिकूटमेवोच्चैर्जयस्तम्भं चकार । गाढप्रकाशात्त्रिकूटोऽद्रिरेवोत्कीर्णस्तम्भी रघोर्जयस्तम्भोऽभूदित्यर्थः ।

भाषार्थ—उस रघु ने अपने हाथियों के दाँतों से खुदे हुए पराक्रम के चिह्न वाले त्रिकूट पर्वत को ही केरल देश में विजयस्तम्भ बनाया ॥ ५९ ॥


पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना ।
इन्द्रियाण्येव रिपूंस्तत्त्वज्ञानेन संयमी ॥ ६० ॥

अन्वयः—ततः संयमी तत्वज्ञाने इन्द्रियाख्यान् रिपून् इव स पारसीकान् जेतुं स्थलवर्त्मना प्रतस्थे ।

पारसीकानिति । ततः स रघुः । संयमी योगी तत्त्वज्ञानेनेन्द्रियाख्यानिन्द्रियनामकान् रिपूनिव पारसीकान् राज्ञो जेतुं स्थलवर्त्मना तस्थे न तु निर्दिष्टेनापि जलपथेन, समुद्रयानस्य निषिद्धत्वादिति भावः ।

भाषार्थ—उसके बाद जैसे योगी ज्ञान से इन्द्रियों को जीत लेते हैं वैसे ही राजा रघु पारसियों को जीतने के लिए स्थल मार्ग से चले ॥ ६० ॥


यवनीमुखपद्मानां सेहे मधुमदं न सः ।
बालातपमिवाब्जानामकालजलदोदयः ॥ ६१ ॥

अन्वयः—स यवनीमुखपद्मानां मधुमदमकालजलदोदयः अब्जानां बालातपमिव न सेहे ।

यवनीति । स रघुर्यवनानीनां यवनस्त्रीणाम् । 'जातेरस्त्रीविषयादयोपधात्' इति ङीष् । मुखानि पद्मानीव मुखपद्मानि । उपमितसमासः । तेषां मधुना मद्येन यो मदो मदरागः । कार्यकारणभावयोरभेदेन निर्देशः । तं न सेहे । कमिव । अकाले प्रावृड्व्यतिरिक्ते काले जलदोदयः । प्रायेण प्रावृषि पद्मविकाशस्याप्रसक्तत्वादब्जानां सम्बन्धिनं बालातपमिव । अब्जहितत्वादब्जसम्बन्धित्वं सौरातपस्य ।

भाषार्थ—रघु पारसी स्त्रियों के मुख की मद्य गन्ध को सहन न कर सके, जैसे असमय में उठा हुआ बादल कमलसम्बन्धित बालसूर्य के ताप को नहीं सहता ॥ ६१ ॥

१२८ रघुवंशमहाकाव्ये

सङ्ग्रामस्तुमुलस्तस्य पाश्चात्त्यैरश्वसाधनै । शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥ ६२ ॥

अन्वयः—तस्य अश्वसाधनैः पाश्चात्त्यैः शार्ङ्गकूजितविज्ञेयप्रतियोधे रजसि तुमुलोऽभूत् ।

सङ्ग्राम इति । तस्य रघोरश्वसाधनैर्वाजिसैन्यैः । 'साधनं सिद्धिसैन्ययोः' इति हैमः । पश्चाद्भवः पाश्चात्यवनैः सह । 'दक्षिणापश्चात्पुरसस्त्यक् । इति त्यक् । सहार्थे तृतीया । शृङ्गाणां विकाराः शार्ङ्गाणि धनूंषि तेषां कूजितैः शब्दैः । 'शार्ङ्गं पुनर्घनुषि शार्ङ्गिणः । जये च शृङ्गविहिते चापेऽप्याह विशेषतः' इति केशवः । अथवा शार्ङ्गैः शृङ्गसम्बन्धिभिः कूजितैर्विज्ञेया अनुमेयाः प्रतियोधाः प्रतिभटा यस्मिंस्तस्मिन् रजसि तुमुलः संग्रामः संकुलं युद्धमभूत् । 'तुमुलं रणसंकुले इत्यमरः ।

भाषार्थं—अश्वसेना वाले पश्चिम देशवासियों के साथ धनुष की टङ्कारों से ही अपने शत्रु का द्योतक, धूलि के अन्धेरे में रघु, का भीषण संग्राम हुआ ॥६२॥

भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् । तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ॥ ६३ ॥

अन्वयः—स तेषां भल्लापवर्जितैः श्मश्रुलैः शिरोभिः सरघाव्याप्तैः क्षौद्रपटलैः इव महीं तस्तार ।

भल्लेति । स रघुर्भल्लापवर्जितैर्बाणविशेषकृत्तैः । 'स्नुहीदलफलो भल्ल' इति यादवः । श्मश्रुलैः प्रवृद्धमुखरोमवद्भिः । 'सिध्मादिभ्यश्च' इति लच्प्रत्ययः । तेषां पाश्चत्त्यानां शिरोभिः सरघाभिर्मधुमक्षिकाभिर्व्याप्तैः । 'सरघा मधुमक्षिका' इत्यमरः । क्षुद्रः सरघा । क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्ठकारिका' इत्यमरः । क्षुद्राभिः कृतानि क्षौद्राणि मधूनि । 'मधुः क्षौद्रं माक्षिकादि इत्यमरः । 'क्षुद्राभ्रमरवदपाददन्' इति संज्ञायामञ्प्रत्ययः । तेषां पटलैः सञ्चयैरिव । 'पटलं तिलकेनेत्ररोगे छन्दसि सञ्चये । विटके परिवारे च' इति हैमः । महीं तस्ताराच्छादयामास ।

भाषार्थं—रघु ने मधुमक्खियों से व्याप्त मधु के छत्तों के समान भल्ल बाणों से कटे हुए उनके दाढ़ीवाले शिरों से पृथ्वी को पाट दिया ॥६३॥

अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः । प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥ ६४ ॥

अन्वयः—अपनीतशिरस्त्राणाः शेषा तं शरणं ययुः, महात्मनां संरम्भः हि प्रणिपातप्रतीकारः ।

अपनीतेति । शेषा हतावशिष्टा अपनीतशिरस्त्राणा अपसारितशीर्षण्याः सन्तः

चतुर्थः सर्गः

चतुर्थः सर्गः १२६

'शीर्षकम् । शीर्षण्यं च शिरस्त्रे' इत्यमरः । शरणागतलक्षणमेतत् । तं रघुं शरणं ययुः तथाहि । महात्मनां संरम्भः कोपः । 'संरम्भः सम्भ्रमे कोपे' इति विश्वः । प्रणिपातः प्रणतिरेव प्रतिकारो यस्य सः । हि महतां परकीयमौद्धत्यमेवासह्यं न तु जीवितमिति भावः ।

**भाषार्थ—**शेष बचे हुए यवन अपने शिर के टोपों को उतार कर उस रघु की शरण में गये और क्षमा पा गये, क्योंकि बड़े लोगों का क्रोध नम्रतासे दूर होता है ।

विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् ।
आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥ ६५ ॥

**अन्वयः—**तद्योधाः अस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु मधुभिः विजयश्रमं विनयन्ते स्म ।

विनयन्त इति । तस्य रघोर्योधा भटा आस्तीर्णान्यजिनरत्नानि चर्मश्रेष्ठानि यासु तासु द्राक्षावलयानां भूमिषु । 'मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च' इत्यमरः । मधुभिर्द्राक्षाफलप्रकृतिकैर्मद्यैर्विजयश्रमं युद्धखेदं विनयन्ते स्मापनीतवन्तः । 'कर्तृस्थे चाशरीरे कर्मणि' इत्यात्मनेपदम् । 'लट् स्मे' इति भूतार्थे लट् ।

**भाषार्थ—**रघु के सैनिकों ने अंगूरों के कुंजों में चर्मासन पर बैठ, अंगूरी शराबे से थकावट को दूर किया ॥ ६५ ॥

ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् ।
शरैरुस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव ॥ ६६ ॥

**अन्वयः—**ततः रघुः भास्वान् इव उस्रैः शरैः, उदीच्यान् रसान् इव उद्धरिष्यन् कौबेरीं दिशं प्रतस्थे ।

तत इति । ततो रघुर्भास्वान्सूर्य इव शरैर्वाणैरुस्रैः किरणैरिव । 'किरणोस्त्र-मयूखांशुगभस्तिघृणिरश्मयः' इत्यमरः । उदीच्यानुद्भग्वान्नृपान्रसानुदकानीवोद्धरिष्यन्कौबेरीं कुबेरसम्बन्धिनीं दिशमुदीचीं प्रतस्थे । अनेकेनेवशब्देनेयमुपमा । यथाऽऽह दण्डी—'एकानेकेवशव्दत्वात्सा वाक्यार्थोपमा द्विधा' इति ।

**भाषार्थ—**जैसे उत्तरायण सूर्य अपनी किरणों से जल को सुखाते हैं वैसे ही रघु बाणों से उत्तरप्रदेश के राजाओं की पराजय के लिए उत्तर की चले ।

विनीताध्वश्रमास्तस्य सिन्धुतीरविचेष्टनैः ।
दुधुवुर्वाजिनः स्कन्धाँल्लग्नकुंकुमकेसरान् ॥ ६७ ॥

**अन्वयः—**सिन्धुतीरविचेष्टनैः विनीताध्वश्रमाः तस्य वाजिनः लग्नकुंकुमकेसरान् स्कन्धान् दुधुवुः ।

१ र० सम्पू०

१३०रघुवंशमहाकाव्ये

विनीतेति । सिन्धुर्नाम काश्मीरदेशेषु कश्चिन्नदविशेषः । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । सिन्धोस्तीरे विचेष्टनै रङ्गपरिवर्तनैर्विनीताध्व-श्रमास्तस्य रघोर्वाजिनोऽश्वाः, लग्नाः कुङ्कुमकेसराः कुङ्कुमकुसुमकिञ्जल्का येषां तान् । यद्वा लग्नकुङ्कुमाः केसराः सटा येषां तान् । 'अथ कुङ्कुमम् । कश्मीर-जन्म' इत्यमरः । केसरो नागकेसरे । तुरङ्गसिंहयोः स्कन्धकेशेषुबकुलद्रुमे । पुन्ना-गवृक्षेकिञ्जल्के स्यात्' इति हैमः । स्कन्धान्कायान् । 'स्कन्धः प्रकाण्डे कार्येऽसे विज्ञानादिषु पञ्चसु ॰ नृपे समूहे व्यूहे च' इति हैमः । दुधुवुः कम्पयति स्म ।

भाषार्थ—सिन्धु नदी के किनारे लोटने से मार्ग की थकावट दूर करने वाले रघु के घोड़ों ने केसर लगे हुए देह झाड़े ॥ ६७ ॥

तत्र हूणावरोधानां भर्तृषु व्यक्तविक्रमम् ।
कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥ ६८ ॥

अन्वयः—तत्र भर्तृषु व्यक्तविक्रमं रघुचेष्टितं हूणावरोधानां कपोलपाटलादेशि बभूव ।

तत्रेति । तत्रोदीच्यां दिशि भर्तृषुव्यक्तविक्रमम् । भर्तृवधेन स्फुटपराक्रममि-त्यर्थः । रघुचेष्टितं रघुव्यापारः । हूणा जनपदाख्याः क्षत्रियाः तेषामवरोधा अन्तः-पुरस्त्रियः । तासां कपोलेषु पाटलस्य पाटलिम्नस्ताडनादिकृततारुण्यस्यादेश्युपदेशकं बभूव । अथवा पाटल आदेश्यादेष्टा यस्य तत् बभूव । स्वयं लेखयायत इत्यर्थः ।

भाषार्थ—उत्तर के राजाओं के प्रति पराक्रम दिखाने वाला रघु का पौरुष हूणों की स्त्रियों के कपोलों में लालिमा का सूचक हुआ ॥ ६८ ॥

काम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः ।
गजालानापरिक्लिष्टैरक्षोटैः सार्धमानताः ॥ ६६ ॥

अन्वयः—समरे तस्य वीर्यं सोढुम् अनीश्वराः काम्बोजाः गजालानापरिक्लिष्टैः अक्षोटैः सार्धम् आनताः ।

काम्बोजा इति । काम्बोजा राजानः समरे तस्य रघोर्वीर्यं प्रभावम् । 'वीर्यं तेजःप्रभावयोः' इति हैमः । सोढुमनीश्वरा अशक्ताः सन्तः गजानामालानां बन्धनम् । भावे ल्युटि 'विभाषा लीयतेः' इत्यात्वम् । तेन परिक्लिष्टैः परिक्षतैरक्षोटै-र्वृक्षविशेषैः सार्धमानताः ।

भाषार्थ—युद्ध में रघु के पराक्रम को न सह सकने वाले काम्बोज राजा हाथियों के रस्सों से छिले हुए अखरोट के पेड़ों के साथ नम्र हो गये ॥ ६९ ॥

तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः ।
उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम् ॥ ७० ॥

चतुर्थः सर्गः १३१

चतुर्थः सर्गः १३१

अन्वयः—तेषां सदश्वभूयिष्ठाः तुङ्गाः द्रविणराशयः उपदाः कोसलेश्वरं शश्वत् विविशुः, उत्सेका न (विविशुः)।

तेषामिति। तेषां काम्बोजानां सद्भिरश्वैर्भूयिष्ठा बहुलास्तुङ्गा द्रविणानां हिरण्यानाम्। 'हिरण्यं द्रविणं द्युम्नम्' इत्यमरः। राशय एवोपदा उपायनानि। 'उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः। कोसलेश्वरं कोसलदेशाधिपतिं तं रघुं शश्वदसकृद्विविशुः। मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः' इत्यमरः। तथाऽप्युत्सेका गर्वास्तु न विविशुः, सत्यपि गर्वकारणे न जगर्वेत्यर्थः।

भाषार्थ—उन राजाओं के बहुत से अच्छे-अच्छे काबुली घोड़े और ऊँची सोने की राशि उपहार में रघु के पास बार-बार आई, किन्तु गर्व नहीं आया ॥७०॥

ततो गौरीगुरुं शैलमारुरोहाश्वसाधनः।
वर्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः ॥ ७१ ॥

अन्वयः—ततः अश्वसाधनः सन् गौरीगुरुं शैलम् उद्धूतैः धातुरेणुभिः तत्कूटान् वर्धयन् इव आरुरोह।

तत इति। ततोऽनन्तरमश्वसाधनः सन् गौर्या गुरुं पितरं शैलं हिमवन्तम्। उद्धूतैरश्वखुरोद्धूतैर्धातूनां गैरिकादीनां रेणुभिस्तत्कूटास्तस्य शृङ्गाणि। 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः। वर्धयन्निव। आरुरोह। उत्पतद्धूलिदर्शनाद्- गिरिशिखर वृद्धिश्रमो जात इति भावः।

भाषार्थ—उसके बाद रघु घुड़सवारों को ले, हिमालय पर घोड़ों की टापों से उड़ी हुई गैरिकादि धातुओं की धूलि से उसके शिखर को ऊँचा करते हुए से चढे।

शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसम्भ्रमम्।
गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥ ७२ ॥

अन्वयः—तुल्यसत्त्वानां गुहाशयाना सैन्यघोषे अपि असंभ्रमं परिवृत्य अवलोकितं शशंस।

शशंसिति। तुल्यसत्त्वानां सैन्यैः समानबलानाम्। गुहासु शेरते इति गुहाश- यास्तेषाम्। 'अधिकरणे शेते' इत्यच्प्रत्ययः। 'दरी तु कन्दरो वा स्त्री देवखातबिले गुहा' इत्यमरः। सिंहानां हरीणाम्।' सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः' केसरो हरिः' इत्यमरः। सम्बन्धि परिवृत्य परावृत्यावलोकितं शयित्वैव ग्रीवाभङ्गेनावलोकनं कर्तृ सैन्यघोषे सेनाकलकले सम्भ्रमकारणे सत्यप्यसम्भ्रममन्तःक्षोभविरहितम्। नवः प्रसज्यप्रतिषेधेऽपि समास इष्यते। शशंस कथयामास। सैन्येभ्य इत्यर्थाल्लभ्यते।

१३२रघुवंशमहाकाव्ये

बाह्यचेष्टितमेव मनोवृत्तेरनुमापकमिति भावः। असम्भ्रान्तत्वे हेतुस्तुल्यसत्त्वानामिति। न हि समबलाः समबलाद् बिभ्यतीति भावः।

भाषार्थ— रघु ने समान बलवाले कन्दरा-स्थित सिंहों का, सेना के कोलाहल से भी न घबड़ाते हुए, उपेक्षा से गर्दन उठा कर देखना सैनिकों से कहा ॥७२॥

भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः।
गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे॥ ७३ ॥

अन्वयः— भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः गङ्गाशीकरिणः मरुतः तं मार्गे सिषेविरे।

भूर्जेष्विति। भूर्जेषु भूर्जपत्रेषु। ‘भूर्जपत्रो भुजो भूर्जो मृदुत्वक्चर्मिका मता’ इति यादवः। मर्मरः शुष्कपर्णध्वनिः। ‘मर्मरः शुष्कपर्णानाम्’ इति यादवः। अयं च शुक्लादिशब्दवद्गुणिन्वपि वर्तते। प्रयुज्यते च—‘मर्मरैरगुरुधूपगन्धिभिः’ इति। अतो मर्मरीभूताः। मर्मरशब्दवन्तो भूता इत्यर्थः। कीचकानां वेणुविशेषाणां ध्वनिहेतवः। श्रोत्रसुखाश्चेति भावः। गङ्गाशीकरिणः शीतलाः। मरुतो वाता मार्गे तं सिषेविरे।

भाषार्थ— भोजपत्रों में मरमर शब्दकारी, बांस में ध्वनि-उत्पादक, गङ्गा-जल के शीतल कणों को लेकर बहने वाले वायु ने रास्ते में रघु की सेवा की ॥७३॥

विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः।
दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः॥ ७४ ॥

अन्वयः— सैनिकाः नमेरूणां छायासु निषण्णमृगनाभिभिः वासितोत्सङ्गाः दृषदः अध्यास्य विशश्रमुः।

विशश्रभुरिति। सैनिकाः सेनायां समवेताः। प्राग्वहतीयश्छप्रत्ययः। नमेरूणां सुरपुन्नागानां छायासु निषण्णानां दृषदुपविष्टानां मृगाणां कस्तूरीमृगाणां नाभिभिर्वासितोत्सङ्गाः सुरभिततला दृषदः शिला अध्यास्याधिष्ठाय। ‘अधिशीङ्स्थासां कर्म’ इति कर्म। दृषत्स्वधिरुह्येत्यर्थः। विशश्रमुर्विश्रान्ताः।

भाषार्थ— रघु के सैनिकों ने नमेरु वृक्षों की छाया में बैठे हुए कस्तूरी मृग के बैठने से सुगन्धित चट्टानों पर बैठ कर विश्राम किया ॥७४॥

सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः।
आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः॥ ७५ ॥

अन्वयः— सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः ओषधयः नेतुः नक्तम् अस्नेहदीपिका आसन्।

चतुर्थः सर्गः १९३

चतुर्थः सर्गः १९३

सरलेति। सरलेषु देवदारुविशेषेष्वासक्तानि यानि मातङ्गानां गजानाम् ग्रीवासु भवानि ग्रैवेयाणि कण्ठशृङ्खलानि। ‘ग्रीवाभ्योऽण्ढ’ इति चकाराद्ढन्- प्रत्ययः। तेषु स्फुरितत्विषः प्रतिफलितभास ओषधयो ज्वलन्तो ज्योतिर्लता- विशेषा नक्तं रात्रौ नेतुर्नायकस्य रघोरस्नेहदीपिकास्तैलनिरपेक्षाः प्रदीपा आसन्।

भाषार्थ—देवदारु में बँधे हुए हाथियों के गले के हारों में चमकती हुई ज्योतिर्लता आदि बूटियाँ सेना के लिए बिना तेल के दीपक का काम करती थीं।

तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः।
गजवष्मं किरातेभ्यः शशंसुर्देवदारवः॥ ७६ ॥

अन्वयः—तस्य उत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः देवदारवः किरातेभ्यः गजवष्मं शशंसुः।

तस्येति। तस्य रघोरुत्सृष्टेषूज्झितेषु निवासेषु सेनानिवेशेषु कण्ठरज्जुभिर्गजग्रीवैः क्षता निष्पिष्टास्त्वचो येषां ते देवदारवः किरातेभ्यो वनचरेभ्यो गजानां वष्मं प्रमाणम्। ‘वष्मं देहप्रमाणयोः’ इत्यमरः। शशंसुः कथितवन्तः। देवदारुस्कन्ध- त्वक्क्षतैर्गजानामोन्नत्यमनुमीयत इत्यर्थः।

भाषार्थ—रघु के छोड़े हुए फौजी पड़ावों पर गले की सिक्कड़ों से छिली हुई छालवाले देवदारु से भीलों ने हाथियों की ऊँचाई बतलायी॥ ७६ ॥

तत्र जन्यं रघोर्घोरं पर्वतीयैर्गणैरभूत्।
नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम्॥ ७७ ॥

अन्वयः—तत्र रघोः पर्वतीयैः गणैः नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलं घोरं जन्यम् अभूत्।

तत्रेति। तत्र हिमाद्रौ रघोः पर्वते भवैः पर्वतीयैः। ‘पर्वताञ्च’ इति छप्रत्ययः। गणैरुत्सवसंकेताख्यैः सप्तभिः सह। ‘गणानुत्सवसंकेतानजयत्सप्त पाण्डवः’ इति महाभारते। नाराचानां बाणविशेषाणां क्षेपणीयानां भिन्दपालानाम्- इमनां च निष्पेषेण सङ्घर्षेणोत्पतिता अनला यस्मिंस्तत्तथोक्तम्। ‘क्षेपणीयो भिन्दिपालः खड्गो दीर्घो महाफलः’ इति यादवः। घोरं भीमं जन्यं युद्धमभूत्। ‘युद्धमायोधनं जन्यमि’त्यमरः।

भाषार्थ—उस हिमालय पर रघु का पर्वतीय गणों से नाराच, बाण, भिन्दि- पाल और पत्थर के टुकड़ों की रगड़ से उठी हुई अग्नि वाला भयङ्कर युद्ध हुआ।

शरैरुत्सवसंकेतान् स कृत्वा विरतोत्सवान्।
जयोदाहरणं बाह्वोर्गापयामास किन्नरान्॥ ७८ ॥

१३४रघुवंशमहाकाव्ये

अन्वयः—सः शरैः उत्सवसङ्केतान् विरतोत्सवान् कृत्वा किन्नरान् बाह्वोः जयोदाहरणं गापयामास ।

शरैरिति । स रघुः शरैर्बाणैरुत्सवसङ्केतान्नाम गणान्विरतोत्सवान्कृत्वा । जित्वेत्यर्थः । किन्नरान्बाह्वोः स्वभुजयोर्जयोदाहरणं जयख्यापकं प्रबन्धविशेषं गापयामास । 'गतिबुद्धिप्रत्यवसानार्थ०' इत्यनेन किन्नराणां कर्मत्वम् ।

भाषार्थ—उस रघु ने बाणों से उत्सव संकेत नामक पहाड़ी कबीलों को पराजित कर किन्नरों द्वारा अपनी भुजा की जयकथा का गान कराया ॥ ७८ ॥

परस्परेण विज्ञातस्तेषूपायनपाणिषु ।
राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ॥ ७९ ॥

अन्वयः—तेषु उपायनपाणिषु ( सत्सु ) परस्परेण राज्ञा हिमवतः सारः हिमाद्रिणा राज्ञः सारः विज्ञातः ।

परस्परेणेति । तेषु गणेषूपायनयुक्ताः पाणयो येषां तेषु सत्सु परस्परेणान्योऽन्यं राज्ञा हिमवतः सारो धनरूपो विज्ञातः, हिमाद्रिणाऽपि राज्ञः सारो बलरूपो विज्ञातः । एतेन तत्रत्यवस्तूनामनर्घ्यत्वं गणानामभूतपूर्वंश्च पराजय इति ध्वन्यते ।

भाषार्थ—भेंट देने के लिए हाथ में लेकर पर्वतीयों के सुवर्णादि आने पर रघु ने हिमालय के धन और हिमालय ने राजा रघु के बल को जाना ॥ ७९ ॥

तत्राक्षोभ्यं यशोराशि निवेश्यावरुरोह सः ।
पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियम् ॥ ८० ॥

अन्वयः—तत्र अक्षोभ्यं यशोराशि निवेश्य सः पौलस्त्यतुलितस्य अद्वेः ह्रियम् आदधानः इव अवरुरोह ।

तत्रेति । स रघुस्तत्र हिमाद्रावक्षोभ्यमघृष्यं यशोराशि निवेश्य निधाय । पौलस्त्येन रावणेन तुलितस्य चालितस्याद्रेः कैलासस्य ह्रियमादधानो जनयन्निव । अवरुरोहावततार । कैलासमगत्वैव प्रतिनिवृत्तः । नहि शूराः परेण पराजितमभियुज्यन्ते ।

भाषार्थ—उस हिमालय पर अमर कीर्ति स्थापित कर रघु रावण से उठाए गए कैलास पर्वत की ओर न जाकर मानो उसे लज्जित करते हुए लौट गए ।

चकम्पे तीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः ।
तद्गजालानातां प्राप्तैः सह कालागुरुद्रुमैः ॥ ८१ ॥

अन्वयः—तस्मिन् तीर्णलोहित्ये ( सति ) प्राग्ज्योतिषेश्वरः तद्गजालानातां प्राप्तैः कालागुरुद्रुमैः सह चकम्पे ।

चतुर्थः सर्गः १३५

चकम्प इति । तस्मिन् रघौ । तीर्णा लोहित्या नाम नदी येन तस्मिंस्तीर्णलोहित्ये सति । प्राग्ज्योतिषाणां जनपदानामीश्वरः, तस्य रघोर्गजानामालनतां प्राप्तैः कालागुरुद्रुमैः कृष्णागुरुवृक्षैः सह चकम्पे कम्पितवान् ।

**भावार्थ—**उस रघु के लौहित्यनद के पार उतर जाने पर प्राग्ज्योतिष (आसाम) के राजा रघु के हाथियों की सीकरों के बांधने के लिए स्तम्भभूत काले अगर के वृक्षों के साथ काँप गये ॥ ८१ ॥

न प्रसेहे स रुद्धार्कमधारावर्षदुर्दिनम् ।
रथवर्त्मरजोऽप्यस्य कुत एव पताकिनीम् ॥ ८२ ॥

**अन्वयः—**स रुद्धार्कम् अधारावर्षदुर्दिनम् अस्य रथवर्त्मरजः अपि न प्रसेहे, कुतः एव पताकिनीम् ।

नेति । स प्राग्ज्योतिषेश्वरो रुद्धार्कम़ावृतसूर्यम् । अधारावर्षं च तद् दुर्दिनं धारावृष्टिं बिना दुर्दिनीभूतम् । अस्य रघो रथवर्त्मरजोऽपि न प्रसेहे । पताकिनीं सेनां तु कुत एव प्रसेहे । न कुतोऽपीत्यर्थः ।

**भावार्थ—**वे आसाम के राजा सूर्य को ढँक देने वाले वर्षा के बिना मेघावृत दिन के समान रघु के रथ की धूलि को भी न सह सके फिर सेना को कैसे सह सकते ॥ ८२ ॥

तमेशः कामरूपाणामत्याखण्डलविक्रमम् ।
भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः ॥ ८३ ॥

**अन्वयः—**कामरूपाणाम् ईशः अत्याखण्डलविक्रमं तं भिन्नकटैः नागैः, यैः अन्यान् उपरुरोध, भेजे ।

तमिति । कामरूपाणां नाम देशानामीशोऽत्याखण्डलविक्रममतीन्द्रपराक्रमं तं रघुम् । भिन्नाः स्रवन्मदाः कटा गण्डा येषां तैर्नागैर्गजैः साधनैर्भेजे नागान्दत्वा शरणङ्गत इत्यर्थः । कीदृशैर्नागैः । यैरन्यान्रघुव्यतिरिक्तनृपानुपरुरोध । शूराणामपि शूरो रघुरिति भावः ।

**भावार्थ—**कामरूप देश के राजा ने इन्द्र से भी अधिक पराक्रमी उस रघु की मदस्रावी हाथियों की भेंट से सेवा की, जिनसे अन्य आक्रमणकारियोंको रोका था ।

कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् ।
रत्नपुष्पोपहारेण छायामानर्च पादयोः ॥ ८४ ॥

**अन्वयः—**कामरूपेश्वरः हेमपीठाधिदेवतां तस्य पादयोश्छायां रत्नपुष्पोपहारेणानर्च ।

१३६रघुवंशमहाकाव्ये

कामेति । कामरूपेश्वरो हेमपीठस्याधिदेवतां तस्य रघोः पादयोश्छायां कन- कमयपादपीठव्यापिनीं कान्तिं रत्नान्येव पुष्पाणि तेषामुपहारेण समर्पणेनानर्चर्च- यामास ।

भाषार्थ—कामरूप के राजा ने सुवर्णनिर्मित राजसिंहासन के देवता उस रघु के पैरों की उपहारभूत रत्नमय पुष्पों को अर्पित करके पूजा की ॥ ८४ ॥

इति जित्वा दिशो जिष्णुर्न्यवर्तत रथोद्धतम् ।
रजो विशामयन्न्राज्ञां छत्रशून्येषु मौलिषु ॥ ८५ ॥

अन्वयः—इति दिशः जित्वा जिष्णुः ( सः ) राज्ञां छत्रशून्येषु मौलिषु रथो- द्धतं रजः विश्रामयन् न्यवर्तत ।

इतोति । जिष्णुर्जयशीलः ‘ग्लाजिस्थश्च ग्सुः’ इतिग्स्नुप्रत्ययः । स रघुरिती- त्थं दिशो जित्वा रथैरुद्धतं रजश्छत्रशून्येषु । रघोरेकच्छत्रत्वादिति भावः । राज्ञां मौलिषु किरीटेषु । ‘मौलिः किरीटे धम्मिल्ले चूडाकङ्केलिमूर्धजे’ इति हैमः । विश्रामयन् । सङ्क्रामयन्नित्यर्थः । न्यवर्तत निवृत्तः ।

भाषार्थ—इस प्रकार चारों दिशाओं को जीत, विजयी राजा रघु राजाओं के छत्रहीन मुकुटों पर रथ की धूलि को भरते हुए अपनी राजधानी लौटे । ८५।

स विश्वजितमाजह्रे यज्ञं सर्वस्वदक्षिणम् ।
आदानं हि विसर्गाय सतां वारिमुचामिव ॥ ८६ ॥

अन्वयः—सः सर्वस्वदक्षिणं विश्वजितं यज्ञम् आजह्रे हि, सतां वारिमुचाम् इव आदानं विसर्गाय ।

स इति । रघुः सर्वस्वं दक्षिणा यस्य तं सर्वस्वदक्षिणम् । ‘विश्वजित्सर्वस्व- दक्षिणः’ इति श्रुतेः । विश्वजितं नाम यज्ञमाजह्रे कृतवानित्यर्थः । युक्तं चैतदि- त्याह—सतां साधूनाम् वारिमुचां मेघानामिव । आदानमर्जनं विसर्गाय त्यागाय हि, पात्रविनियोगायेत्यर्थः ।

भाषार्थ—रघु ने दक्षिणा के रूप में सर्वस्व दे दिया जाने वाला विश्वजित् नामक यज्ञ किया, क्योंकि सज्जनों का मेघों के समान लेना दूसरों को देने के लिए होता है ॥ ८६ ॥

सत्रान्ते सचिवसखः पुरस्क्रियाभिर्गुर्वीभिः शमितपराजयव्यलीकान् ।
काकुत्स्थश्चिरविरहोत्सुकावरोधान् राजन्यान्स्वपुरनिवृत्तयेऽनुमेने ॥ ८७ ॥

अन्वयः—सत्रान्ते सचिवसखः काकुत्स्थः गुर्वीभिः पुरस्क्रियाभिः शमितपरा- जयव्यलीकान् चिरविरहोत्सुकावरोधान् राजन्यान् स्वपुरनिवृत्तये अनुमेने ।

चतुर्थः सर्गः १३७

सत्रान्त इति। काकुत्स्थो रघुः सत्रान्ते यज्ञान्ते। 'सत्रमाच्छादने यज्ञे सदा दाने धनेऽपि च' इत्यमरः। सचिवानांममात्यानां सखेति सचिवसखः सन्। 'सचिवो भृतकेऽमात्ये' इति हैमः। तेषामत्यन्तानुसरणद्योतनार्थं राज्ञः सखित्वव्यपदेशः। 'राजाहः सखिभ्यष्टच्'। गुर्वीभिर्महतीभिः। 'गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके' इति हैमः। पुरस्क्रियाभिः पूजाभिः शमितं पराजयेन व्यलीकं दुःखं वैलक्ष्यं वा येषां तान्। 'दुःखे वैलक्ष्ये व्यलीकम्' इति यादवः। चिरविरहेणोत्सुकिता उत्कण्ठिता अवरोधा अन्तःपुराङ्गना येषां तान्। राज्ञोऽपत्यानि राजन्याः क्षत्रियास्तान्। 'राजश्वशुराद्यत्' इत्यपत्यार्थे यत्प्रत्ययः। मूर्द्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्' इत्यमरः। स्वपुरं प्रति निवृत्तये प्रतिगमनायानुमेनेऽनुज्ञातवान्। प्रह-र्षिणीवृत्तमेतत्। तदुक्तम्—'म्नौ जौ गस्त्रिदशयतिः प्रहर्षिणीयम्' इति।

**भावार्थ—**यज्ञ के बाद मन्त्रियों की सम्मतिसे काकुत्स्थ रघु ने अत्यन्त सम्मान से, पराजय को भूल जाने वाले और अधिक दिन के वियोग से अपनी रानियों में उत्सुक राजाओं को अपनी-अपनी राजधानी को लौट जाने की आज्ञा दी ॥८७॥

ते रेखाध्वजकुलिशातपत्रचिह्नं सम्राजश्चरणयुगं प्रसादलभ्यम्।
प्रस्थानप्रणतिभिरङ्गुलीषु चक्रमौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥ ८८ ॥

**अन्वयः—**ते रेखाध्वजकुलिशातपत्रचिह्नं प्रसादलभ्यं सम्राजः चरणयुगं प्रस्थानप्रणतिभिः अङ्गुलीषु मौलिस्रक्च्युतमकरन्दरेणुगौरं चक्रुः।

त इति। ते राजानः रेखा इव ध्वजाश्च कुलिशानि चातपत्राणि च, ध्वजाद्या काररेखा इत्यर्थः। तानि चिह्नानि यस्य तत्तथोक्तम् प्रसादेनैव लभ्यम् प्रसाद-लभ्यम्। सम्राजः सार्वभौमस्य रघोश्चरणयुगं प्रस्थाने प्रयाणसमये याः प्रणतयो नमस्करास्ताभिः करणैः। अङ्गुलीषु मौलिषु केशबन्धनेषु याः स्रजो माल्यानि ताभ्यश्च्युतैर्मकरन्दैः पुष्परसैः। 'मकरन्दः पुष्परसः' इत्यमरः रेणुभिः परागैश्च। 'परागः सुमनोरजः' इत्यमरः। गौरवर्णं चक्रुः।

**भावार्थ—**उन राजाओं ने रेखा, ध्वज, वज्र और छत्र चिह्न वाले, कृपा से प्राप्य रघु के चक्रवर्ती लक्षणों वाले पैरों को प्रस्थानकाल के प्रणाम से अङ्गुलियों में किरीटों की माला के परागों से श्वेत कर दिया ॥ ८८ ॥

त्रिपाठ्युपाह्व पं० श्रीकृष्णमणिशास्त्रिलिखित चन्द्रकला टीका में चतुर्थ सर्ग समाप्त।


⁂ ⁂ ⁂

पञ्चमः सर्गः

तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् ।
उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥ १ ॥

इन्दीवरदलश्याममिन्दिराऽऽनन्दकन्दलम् ।
वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥

**अन्वयः—**विश्वजिति अध्वरे निःशेषविश्राणितकोशजातम् तं क्षितीशम् उपात्तविद्यः गुरुदक्षिणार्थी वरतन्तुशिष्यः कौत्सः प्रपेदे ।

तमिति । विश्वजिति विश्वजिन्नाम्न्यध्वरे यज्ञे । 'यज्ञ.सवोऽध्वरो यागः' इत्यमरः । निःशेषं विश्राणितं दत्तम् । 'शण दाने' चुरादिः । कोषानामर्थराशीनां जातं समूहो येन तं तथोक्तम् । 'कोषोऽस्त्री कुङ्मले खड्गपिधानेऽर्थौघदिव्ययोः' इत्यमरः । 'जातं जनिसमूहयोः' इति शाश्वतः । एतेन कौत्सस्यानवसरप्राप्ति सूचयति । तं क्षितीशं रघुमुपात्तविद्यो लब्धविद्यो वरतन्तोः शिष्यः कौत्सः । 'ऋष्यन्धकवृष्णिकुरुभ्यश्च' इत्यण् । इनोऽपवादः । गुरुदक्षिणार्थी । 'पुष्करादिभ्यो देशे' इत्यत्रार्थाच्चासन्निहिते तदन्ताच्चेतीनिः । अप्रत्याख्येय इति भावः । प्रपेदे प्राप । अस्मिन्सर्गे वृत्तमुपजातिः ।

**भाषार्थ—**विश्वजित् यज्ञ की दक्षिणा में सर्वस्व समर्पण कर देने के बाद महर्षि वरतन्तु के शिष्य कौत्स ऋषि विद्या पढ़ कर गुरुदक्षिणा के लिए १४ करोड़ धन लेने की इच्छा से महाराज रघु के पास आए ॥ १ ॥

स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्घ्यमनर्घशीलः ।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः ॥ २ ॥

**अन्वयः—**अनर्घशीलः यशसा प्रकाशः आतिथेयः सः वीतहिरण्मयत्वात् मृण्मये पात्रे अर्घ्यम् निधाय श्रुतप्रकाशम् अतिथिम् प्रत्युज्जगाम ।

स इति । अनर्घश लोऽमूल्यस्वभावः । असाधारणस्वभाव इत्यर्थः । 'मूल्ये पूजा विधावर्घः' इति । 'शीलं स्वभावे सद्वृत्ते' इति चामरशाश्वतौ । यशसा कीर्त्त्या । प्रकाशत इति प्रकाशः । पचाद्यच् । अतिथिषु साधुरातिथेयः । 'पथ्यतिथिवसति-स्वपतेर्ढञ्' इति ढञ् । स रघुः । हिरण्यस्य विकारो हिरण्मयम् । दाण्डिनायन०' इत्यादिना सूत्रेण निपातः । वीतहिरण्मयत्वादपगतसुवर्णपात्रत्वात् । यज्ञस्य सर्वस्व-दक्षिणाकतवादिति भावः । मृण्मये मृद्विकारे पात्रे । अर्घार्थमिदमर्घ्यम् । 'पादार्घाभ्यां

पञ्चमः सर्गः १३९

पञ्चमः सर्गः १३९

च' इति यत् । पूजार्घ्यं द्रव्यं निधाय श्रुतेन शास्त्रेण प्रकाशं प्रसिद्धम् । श्रूयत इति श्रुतं वेदशास्त्रम् । अतिथिमभ्यागतं कौत्सम् । प्रत्युद्‌जगाम ।

भाषार्थ—असाधारणस्वभाव, यशस्वी और अतिथिसेवी रघु सुवर्ण पात्रों के अभाव में मृत्पात्र में अर्घ्य रखकर वेदाध्ययन से देदीप्यमान कौत्स के सम्मुख हुए।

तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी ।
विशाम्पतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदित्युवाच ॥ ३ ॥

अन्वयः—विधिज्ञः मानधनाग्रयायी कृत्यवित् विशांपतिः तपोधनम् आरात् विष्टरभाजम् तम् विधिवत् अर्चयित्वा कृताञ्जलिः ( सन् ) इति उवाच ।

तम्इति । विधिज्ञः शास्त्रज्ञः । अकरणे प्रत्यवायभीरुरित्यर्थः । मानधनानामग्रयाय्यग्रेसरः । अपयशोभीरुरित्यर्थः । कृत्यवित्कार्यज्ञः । आगमनप्रयोजनमवश्यं प्रष्टव्यमिति कृत्यवित् । विशाम्पतिर्मनुजेश्वरः । 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः । विष्टरभाजमासनगतम् । उपविष्टमित्यर्थः । 'विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्' इत्यमरः । 'वृक्षासनयोर्विष्टरः' इति निपातः । तं तपोधनं विधिवद्विध्यर्हम् । यथाशास्त्रमित्यर्थः । 'तदर्हम्' इति वतिप्रत्ययः । अर्चयित्वाऽऽरात्समीपे । 'आराद् दूरसमीपयोः' इत्यमरः । कृताञ्जलिः सन्निति वक्ष्यमाणप्रकारेणोवाच ।

भाषार्थ—शास्त्रज्ञ स्वात्माभिमानियों में श्रेष्ठ और कर्तव्यपरायण रघु आसन पर विराजमान् तपस्वी कौत्स का विधिवत् पूजन करके हाथ जोड़ते हुए यों बोले।

अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे ! कुशली गुरुस्ते ।
यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः ॥ ४ ॥

अन्वयः—हे कुशाग्रबुद्धे ! मन्त्रकृताम् ऋषीणाम् अग्रणीः ते गुरुः कुशली अपि ? यतः त्वया अशेषम् ज्ञानम् लोकेन उष्णरश्मेः चैतन्यम् इव आप्तम् ।

अप्यग्रणोरिति । हे कुशाग्रबुद्धे ! सूक्ष्मबुद्धे ! 'कुशाग्रीयमतिः प्रोक्तः सूक्ष्मदर्शी च यः पुमान्' इति हलायुधः । मन्त्रकृतां मन्त्रस्रष्टॄणाम् । 'सुकर्मपाप०' इत्यादिनां क्विप् । ऋषीणामग्रणीः श्रेष्ठस्ते तव गुरुः कुशल्यपि क्षेमवान्किम् ? अपिः प्रश्ने । 'गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि' इत्यमरः । यतो यस्माद् गुरोः सकाशात्त्वयाऽशेषं ज्ञानम् । लोकेनोष्णरश्मेः । सूर्याच्चैतन्यं प्रबोध इव । आप्तं स्वीकृतम् ।

भाषार्थ—हे बुद्धिमान् कौत्सजी ! मन्त्रसाक्षात्कार्ता, ऋषियों में श्रेष्ठ आपके गुरु कुशलपूर्वक तो हैं न ? जिनसे आपने सम्पूर्ण ज्ञानराशि प्राप्त की है जैसे सूर्य से मनुष्य जागरण को प्राप्त करता है ॥ ४ ॥

१४० रघुवंशमहाकाव्ये

कायेन वाचा मनसाऽपि शश्वत्सम्भृतं वासवधैर्यलोपि । आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत् ॥ ५ ॥ अन्वयः—कायेन वाचा मनसा अपि वासवधैर्यलोपि यत् शश्वत् सम्भृतम् महर्षेः त्रिविधम् तत् तपः अन्तरायै व्ययम् न आपाद्यते कच्चित् ? कायेनेति । कायेनोपवासादिकृच्छ्रचान्द्रायणादिना, वाचा वेदपाठेन, मनसा गायत्रीजपादिनां, कायेन वाचा मनसाऽपि कारणेन वासवस्येन्द्रस्य धैर्यं लुम्पतीति वासवधैर्यलोपि । स्वपदापहारशङ्काजनकमित्यर्थः । यत्तपः शश्वदसकृत् । 'मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समा' इत्यमरः । सम्भृतं सञ्चितं महर्षेर्वरतन्तोस्त्रि-विधं वाङ्मनःकायजं तत्तपोऽन्तरायैर्विघ्नैरिन्द्रप्रेरिताप्सरःशापैर्व्ययं नाशं नापाद्य-ते कच्चिद् न नीयते । भाषार्थ—आपके गुरु जी ने अधिकारच्युत हो जाने की आशंका से इन्द्र के धैर्य को भी नष्ट कर देने वाला जो कायिक, वाचिक, मानसिक तप संचय किया है कहीं उस त्रिविध तप का विघ्नों से नाश तो नहीं कराया जाता ? ॥ ५ ॥

आधारबन्धप्रमुखैः प्रयत्नः संवर्धितानां सुतनिर्विशेषम् । कच्चिन्न वात्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् ॥ ६ ॥ अन्वयः—आधारबन्धप्रमुखैः प्रयत्नः सुतनिर्विशेषम् संवर्धितानां श्रमच्छिदाम् वः आश्रमपादपानाम् वात्त्वादिः उपप्लवः न कच्चित् ? । आधारेति । आधारबन्धप्रमुखैरालवालनिर्माणदिभिः प्रयत्नैरुपायैः । सुतेभ्यो निर्गतो विशेषोऽतिशयो यस्मिन्कर्मणि तत्तथा संवर्धितानां श्रमच्छिदां व आश्रमपा-दपानां वात्यादिः । आदिशब्द्दाद्दावानलादिः । उपप्लवो बाधको न कच्चिन्ना-स्ति किम् । भाषार्थ—आलवाल, जलदानादि उपायोंसे पुत्रके समान सम्बर्धित, पथिकों के विश्रामक तपोवन के वृक्षों को झंझावातादि उपद्रवों से कोई बाधा तो नहीं होतीं ? ॥ ६ ॥

क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु । तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगोणामनघा प्रसूतिः ॥ ७ ॥ अन्वयः—क्रियानिमित्तेषु अपि कुशेषु मुनिभिः वत्सलत्वात् अभग्नकामा तद-ङ्कशय्याच्युतनाभिनाला प्रसूतिः अनघा कच्चित् । क्रियेति । क्रियानिमित्तेष्वप्यनुष्ठानसाधनेष्वपि कुशेषु मुनिभिर्वत्सलत्वान्मृगस्ने-हादभग्नकामाऽप्रतिहतेच्छा । तेषां मुनीनामङ्क एव शय्यास्तासु च्युतानि नाभिना-लानि यस्याः सा तथोक्ता मृगीणां प्रसूतिः सन्ततिरनघाऽव्यवसना कच्चित् । अनपायिनी किम् ।

पञ्चमः सर्गः १४१

**भाषार्थ—**अनुष्ठान के लिए रखे गए कुशों को भी खाने को इच्छुक जिन हरिणों के शावकोंको स्नेहवश मुनि लोग नहीं रोकते, मुनियों की गोद में नाभि-नाल के गिराने वाले वे नवजात हरिणों के बच्चे कुशल से तो हैं ? ॥७॥

निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितॄणाम् ।
तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥ ८ ॥

**अन्वयः—**यैः नियमाभिषेकः निर्वर्त्यते, येभ्यः पितॄणाम् निवापाञ्जलयः, उञ्छषष्ठाङ्कितानि वः तानि तीर्थजलानि शिवानि कच्चित् ।

निर्वर्त्यत इति । यैस्तीर्थजलैर्नियमाभिषेको नित्यस्नानादिर्निवर्त्यते निष्पाद्यते । येभ्यो जलेभ्यः उद्धृत्येति शेषः । पितॄणामग्निष्वात्तादीनां निवापाञ्जलयस्तर्पणाञ्जलयः । निर्वर्त्यन्ते । उञ्छानां प्रकीर्णोद्धृतधान्यानां षष्ठैः षष्ठभागैः पालकत्वाद्रा जगाहै रङ्कितानि सैकतानि पुलिनानि येषां तानि तथोक्तानि वो युष्माकं तानि तीर्थजलानि शिवानि भद्राणि कच्चित् । अनुप्लवानि किमित्यर्थः ।

**भाषार्थ—**जिन तीर्थजलों से नित्यस्नानादि क्रियायें निष्पन्न होती हैं और पितरों का तर्पण किया जाता है, देय षष्ठांश राजभाग उञ्छ से सुशोभित वे तीर्थजल उपद्रवरहित तो हैं न ? ॥८॥

नीवारपाकादि कडङ्गरीयैरामृश्यतेः जानपदैर्न कच्चित् ।
कालोपपन्नातिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः ॥ ६ ॥

**अन्वयः—**कालोपपन्नातिथिकल्प्यभागम् वन्यम् शरीरस्थितिसाधनम् वः नीवारपाकादि जानपदैः कडङ्गरीयैः न आमृश्यते कच्चित् ।

नीवारेति । कालेषु योग्यकालेषूपपन्नानामागतानामतिथीनां कल्प्या भागा य॑स्य तत्तथोक्तम् । वने भवं वन्यम् शरीरस्थितेर्जीवितस्य साधनं वो युष्माकम् । पच्यत इति पाकः फलम् । धान्यमिति यावत् । नीवारपाकादि । जनपदेभ्य आगतैर्जानपदैः । कडङ्गरं बुसमर्हन्तीति कडङ्गरीयाः तैर्गोमहिषादिभिर्नामृश्यते कच्चित् न भक्ष्यते किमित्यर्थः ।

**भाषार्थ—**बलि वैश्वदेव के बाद उचित समय पर उपस्थित अतिथियों के भाग वाले, आप लोगों के जीवन के आधार, वनों में उत्पन्न नीवार आदि धान्य को ग्रामीण घास भूसा खाने वाले पशु तो नहीं खा जाते ? ॥ ९ ॥

अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥ १० ॥

१४२ | रघुवंशमहाकाव्ये

**अन्वयः—**त्वम् प्रसन्ने न सता महर्षिणा सम्यक् विनीय गृहाय अनुमतः अपि हि ते सर्वोपकारक्षमम् द्वितीयम् आश्रमं संक्रमितुम् अयम् कालः अस्ति ।

अपीति । किञ्च त्वं प्रसन्नेन सता महर्षिणा सम्यग्विनीय शिक्षयित्वां विद्यामुपदिश्येत्यर्थः । गृहस्थाश्रमं प्रवेष्टुम् । अनुमतोऽप्यनुज्ञातः किम् । यस्मात्ते तव सर्वेषामाश्रमाणां ब्रह्मचर्यवानप्रस्थयतीनामुपकारे क्षमं शक्तम् । द्वितीयमाश्रमं गार्हस्थ्य सङ्क्रमितुं प्राप्तुमयं कालः । विद्याग्रहणानन्तर्यात्तस्येति भावः ।

**भाषार्थ—**क्या प्रसन्नता से वरतन्तु ने भली भांति शिक्षा देकर गृहस्थाश्रम में प्रवेश के लिए आपको आज्ञा दे दी है ? क्योंकि आपकी यह अवस्था गृहस्थाश्रम में प्रवेश के योग्य है ॥ १० ॥

तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे ।
अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्माम् ॥ ११ ॥

**अन्वयः—**अर्हतः तव अभिगमेन मे मनः न तृप्तम्, किन्तु नियोगक्रियया उत्सुकम् शासितुः आज्ञया अपि आत्मना वा माम् सम्भावयितुम् वनात् प्राप्तोऽसि ?

तवेति । अर्हतः पूज्यस्य प्रशंस्यस्य । तवाभिगमनागमनमात्रेण मे मनो न तृप्तं न तुष्टम् । किन्तु नियोगक्रिययाऽऽज्ञाकरणेनोत्सुकं सोत्कण्ठम् । शासितुर्गुरोराज्ञयाप्यात्मना स्वतो वा । मां सम्भावयितुं वनात्प्राप्तोऽसि ।

**भाषार्थ—**आपके आगमन मात्र से मेरा मन सन्तुष्ट नहीं हो सकता है किन्तु आपकी आज्ञा सुनने को बड़ी उत्कण्ठा है । क्या आप गुरु की आज्ञा से या स्वेच्छा से मुझे कृतार्थ करने आये हैं ? ॥ ११ ॥

इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य ।
स्वार्थोपपत्तिं प्रति दुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्यः ॥ १२ ॥

**अन्वयः—**अर्घ्यपात्रानुमितव्ययस्य रघोः इति उदाराम् अपि गाम् निशम्य वरतन्तुशिष्यः स्वार्थोपपत्तिम् प्रति दुर्बलाशः सन् तम् इति अवोचत् ।

इतीति । अर्घ्यपात्रेण मृन्मयेनानुमितो व्ययः सर्वस्वत्यागो यस्य तस्य रघोरित्युक्तप्रकारामोदार्ययुक्तामपि गां वाचम् । 'मनोनियोगक्रिययोत्सुकं मे' इत्येवंरूपाम् । निशम्य श्रुत्वा वरतन्तुशिष्यः कौत्सः स्वार्थोपपत्ति स्वकार्यसिद्धि प्रति दुर्बलाशः सन्मृण्मयपात्रदर्शनाच्छिथिलमनोरथः संस्तं रघुमिति वक्ष्यमाणप्रकारेणावोचत् ।

**भाषार्थ—**मिट्टी के अर्घ्यपात्र से ही विश्वजित् यज्ञ में समस्त सम्पत्ति का व्यय व्यक्त करने वाले रघु की यह उदार वाणी सुन, कौत्स ऋषि अपनी कार्य-सिद्धि में निराश होते हुए बोले ॥१२॥