रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
५७८ रघुवंशमहाकाव्ये
यावन्नाश्यायते वेदिरभिषेकजलाप्लुता ।
तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः ॥ ३७ ॥
अन्वयः—अभिषेकजलाप्लुता वेदिः यावत् न आश्यायते तावत् एव अस्य दुःसहः प्रतापः वेलान्तं प्राप ।
यावदिति । अभिषेकजलैराप्लुता सिक्ता वेदिरभिषेकवेदिर्यावन्नाश्यायते न शुष्यति । कर्तरि लट् । तावदेवास्य राज्ञो दुःसहः प्रतापो वेलान्तं वेलापर्यन्तं प्राप ।
भाषार्थ—अभी अभिषेक के जल से भीगी हुई वेदी सूखने भी नहीं पाई थी कि उनका दुस्सह प्रताप समुद्र के तट तक पहुँच गया ॥ ३७ ॥
वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः ।
किं तत्साध्यं यदुभये साधयेयुर्न सङ्गताः ॥ ३८ ॥
अन्वयः—गुरोः वसिष्ठस्य मंत्राः धन्विनः तस्य सहायकाः उभये संगताः (सन्तः) यत् साध्यं न साधयेयुः तत् किम् ।
वसिष्ठस्येति । गुरोर्वसिष्ठस्य मन्त्राः धन्विनस्तस्यातिथेः सायकाः इत्युभये सङ्गता सन्तो यत्साध्यं न साधयेयुस्तत्तादृक्साध्यं किम् । न किञ्चिदित्यर्थः । तेषामसाध्यं नास्तीति भावः ।
भाषार्थ—गुरु वसिष्ठ जी के मन्त्र और धनुर्धारी राजा अतिथि के बाण इन दोनों मिलकर वह कौनसा कार्य था जिसे पूरा न कर डाला हो ॥ ३८ ॥
स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम् ।
ददर्श संशयच्छेद्यान् व्यवहारानतन्द्रितः ॥ ३९ ॥
अन्वयः—धर्मस्थसखः अतन्द्रितः सः शश्वदर्थिप्रत्यर्थिनां संशयच्छेद्यान् व्यवहारान् ददर्श ।
स इति । धर्मे तिष्ठन्तीति धर्मस्थाः सभ्याः । 'राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः' इत्युक्तलक्षणाः । तेषां सखा धर्मस्थसखः । तत्सहित इत्यर्थः । अतन्द्रितोऽनलसः स नृपः शश्वत् अन्वहमित्यर्थः । अर्थिनां साध्यार्थवतां प्रत्यर्थिनां तद्विरोधिनां च संशयच्छेद्यान्संशयाद्धेतोश्छेद्यान्परिच्छेद्यान्। सन्दिग्धत्वादवश्यनिर्णयानित्यर्थः । व्यवहारानृणादानादिविवादान्स्वयं ददर्शानुसन्दधौ । न तु प्राड्विवाकमेव नियुक्तवानित्यर्थः । अत्र याज्ञवल्क्यः—'व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह' इति ।
भाषार्थ—धर्मात्माओं से मिलकर राजा अतिथि आलस को छोड़कर वादी-प्रतिवादियों के सन्दिग्ध मुकदमों को स्वयं देखते थे ॥ ३९ ॥
सप्तदशः सर्गः ५७९
ततः परमभिव्यक्तसौमनस्यनिवेदितैः ।
युयोज पाकाभिमुखैर्भृत्यान् विज्ञापनाफलैः ॥४०॥
अन्वयः—ततः परं भृत्यान् अभिव्यक्तसौमनस्यनिवेदितैः पाकाभिमुखैः विज्ञापनाफलैः युयोज ।
तत इति। ततः परं व्यवहारदर्शनानन्तरं भृत्याननुजीविनः अभिव्यक्तं मुखप्रसादादिलिङ्गैः स्फुटीभूतं यत्सोमनस्यं स्वामिनः प्रसन्नत्वं तेन निवेदितैः सूचितैः पाकाभिमुखैः सिद्धयुन्मुखैर्विज्ञापनानां विज्ञप्तीनां फलैः प्रेप्सितार्थैर्युयोज योजयामास। अत्र वृहस्पतिः—‘नियुक्तः कर्मनिष्पत्तौ विज्ञप्तौ च यदृच्छया। भृत्यान्धनैर्नियम्यंस्तु नवोऽप्यक्षोभ्यतां व्रजेत् ।’ इति । कविश्च वक्ष्यति—‘अक्षोभ्यः स नवोऽप्यासीत्’ इत्यादिना । अत्र सोमनस्यफलयोजनादिभिर्नृपस्य वृक्षसमाधिर्ध्वन्यत इत्यनुसन्धेयम् ।
भाषार्थ—इसके बाद जिस प्रकार वृक्ष को फला हुआ देखकर यह अनुमान कर लिया जाता है कि इससे इतने फल मिलेंगे, उसी प्रकार राजा अतिथि के प्रसन्न मुखको देखकर ही उनके सेवक जान लेते थे कि हमें इतना फल मिलेगा ॥४०॥
प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः ।
तस्मिंस्तु भूयसीं वृद्धिं नभस्ये ता इवाययुः ॥४१॥
अन्वयः—प्रजाः तद्गुरुणा नभसा नद्य इव विवर्धिताः तस्मिन् तु नभस्ये ता इव भूयसीं वृद्धिं ययुः ।
प्रजा इति । प्रजास्तस्यातिथेर्गुरुणा पित्रा कुशेन नभसा श्रावणमासेन नद्य इव विवर्धिता तस्मिन्नतिथौ तु नभस्ये भाद्रपदे मासे नद्य इव भूयसीं वृद्धिमभ्युदयमाययुः । प्रजापोषणेन पितरमतिशयितवानित्यर्थः ।
भाषार्थ—कुश के समय जो प्रजा सावन की नदी के समान भरी-पूरी थी वह पुनः राजा अतिथि के राज्यकाल में भादो की नदी के समान और भी अधिक बढ़ने लगी ॥ ४१ ॥
यदुवाच न तन्मिथ्या यद्ददौ न जहार तत् ।
सोऽभूद् भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन् ॥४२॥
अन्वयः—स यत् उवाच तत् मिथ्या न, यत् ददौ तत् न जहार । (किन्तु) शत्रून् उद्धृत्य प्रतिरोपयन् भग्नव्रतः अभूत् ।
यदति । सोऽतिथिर्यद्वाक्यं दानत्राणादिविषयमुवाच तन्न मिथ्याऽनृतं नाभूत् । यद्वस्तु ददौ तन्न जहार न पुनराददे। किन्तु शत्रूनुद्धृत्योत्खाय प्रतिरोपयन्पुनः स्थापयन् भग्नव्रतो भग्ननियमोऽभूत् ।
| ५८० | रघुवंशमहाकाव्ये |
|---|
भाषार्थ— राजा अतिथिने मुंह से जो कहा उसे पूरा कर दिखाया, जिसे जो दे दिया उससे फिर लिया नहीं, पर शत्रुओं को उखाड़ उन्हें फिर जमाते समय उन्होंने यह नियम तोड़ दिया ॥ ४२ ॥
वयोरूपविभूतीनामेकैकं मदकारणम् ।
तानि तस्मिन्ससमस्तानि न तस्योत्सिषिचे मनः ॥४३॥
अन्वयः— वयोरूपविभूतीनां एकैकं मदकारणं, तानि अस्मिन् समस्तानि, तस्य मनः न उत्सिषिचे ।
वय इति। वयोरूपविभूतीनां यौवनसौन्दर्यैश्वर्याणां मध्य एकैकं मदहेतुः तानि मदकारणानि तस्मिन् राज्ञि समस्तानि मिलितानीति शेषः । तथापि तस्यातिथेर्मनो नोत्सिषिचे न जगर्व । सिचतेः स्वरितत्वादामनेपदम् । अत्र वयोरूपादीनां गर्वहेतुत्वा-न्मदस्य च मदिराकार्यत्वेनात्कारकत्वान्मदशब्देन गर्वो लक्ष्यत । इत्याहुः उक्तं च—‘ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि। इष्टलाभादिना ह्येषामवज्ञा गर्व ईरितः । मदस्त्वानन्दसम्मोहः सम्भेदो मदिराकृतः ॥’ इति । अतएव कविनाऽपि ‘उत्सिषिचे’ इत्युक्तम् । न तु ‘उन्माद’ इति ।
भाषार्थ— यौवन, सौन्दर्य और ऐश्वर्य इनमें से एक भी वस्तु जिसके पास होती है वह उन्मत्त हो जाता है, अतिथि के पास ये सभी वर्तमान थीं फिर भी उन्हें अभिमान छू तक नहीं गया था ॥ ४३ ॥
इत्थं जनितरागासु प्रकृतिष्वनुवासरम् ।
अक्षोभ्यः स नवोऽप्यासीद् दृढमूल इव द्रुमः ॥४४॥
अन्वयः— इत्थं अनुवासरं प्रकृतिषु जनितरागासु स नवः अपि दृढमूलो द्रुम इव अक्षोभ्य आसीत् ।
इत्थमिति। इत्थमनुवासरमन्वहं प्रकृतिषु प्रजासु जनितरागासु जनित उत्पन्नो रागः प्रीतिर्यासु तासु सतीषु स राजा नवोऽपि दृढमूलो द्रुमः इव अक्षोभ्योऽप्रधृष्य आसीत् ।
भाषार्थ— इस प्रकार प्रजा उनसे दिनों दिन अधिक प्रेम करने लगी और राजा होने पर भी वे गहरी डाल वाले वृक्ष के समान अचल हो गये ॥ ४४ ॥
अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः ।
अतः . सोऽभ्यन्तरांस्छिष्यान्षट्पूर्वमजयद्रिपून् ॥४५॥
अन्वयः— यतः बाह्याः शत्रवः अनित्याः विप्रकृष्टाः च ते, अतः सः अभ्यन्तरान् षड् रिपून् पूर्वं अजयत् ।
सप्तदशः सर्गः ५८१
अनित्या इति । यतो बाह्याः शत्रवः प्रतिनृपा अनित्याः । द्विषन्ति स्निह्यन्ति चेत्यर्थः । किञ्च ते बाह्या विप्रकृष्टा दूरस्थाश्च । अतः सोऽभ्यन्तरानन्तर्वर्तिनो नित्यान् षड्रिपून्कामक्रोधादीन्पूर्वमजयत् । अन्तःशत्रुजये बाह्या अपि न दुर्जया इति भावः ।
**भाषार्थ—**यह सोचकर कि बाहरी शत्रु तो सदा होते नहीं और होते भी हैं तो दूर रहते हैं इसलिए राजा अतिथि ने शरीर के अन्दर सदा वर्तमान काम आदि छहों शत्रुओं को पहले जीत लिया ॥ ४५ ॥
प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः ।
निकषे हेमरेखेव श्रीरासीदनपायिनी ॥ ४६ ॥
**अन्वयः—**स्वभावतः चपला अपि श्रीः प्रसादाभिमुखे तस्मिन् निकषे हेम-रेखा इव अनपायिनी आसीत् ।
प्रसादेति । स्वभावतश्चपला चञ्चलापि श्रीः प्रसादाभिमुखे तस्मिन्नृपे निकषे निकषोपले हेमरेखेव अनपायिनी स्थिराऽऽसीत् ।
**भाषार्थ—**स्वभाव से चञ्चल लक्ष्मी भी प्रसन्नमुखवाले राजा अतिथि के पास आकर उसी प्रकार स्थिर होकर बैठ गई जिस प्रकार कसौटी पर बनी हुई सोने की लकीर पक्की हो जाती है ॥ ४६ ॥
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥ ४७ ॥
**अन्वयः—**केवला नीतिः कातर्यं (केवलं) शौर्यं श्वापदचेष्टितम् । अतः स समेताभ्यां उभाभ्यां सिद्धिं अन्वियेष ।
कातर्यमिति । केवला शौर्यवर्जिता नीतिः कातर्यं भीरुत्वम् । शौर्यं केवलमित्य-नुषञ्जनीयम् । केवलं नीतिरहितं शौर्यं श्वापदचेष्टितम् । व्याघ्रादिचेष्टाप्रायमि-त्यर्थः । ‘व्याघ्रादयो वनचराः पशवः श्वापदा मताः’ इति हलायुधः । अतो हेतोः सोऽतिथिः समेताभ्यां सङ्गताभ्यामुभाभ्यां नीतिशौर्याभ्यां सिद्धिं जयप्राप्तिमन्वि-येष गवेषितवान् ।
**भाषार्थ—**केवल कूट नीति से काम लेना कायरता है और केवल मारकाट करके जीतना हिंसक पशुओं का स्वभाव है इसलिए राजा अतिथि ने समयानुसार राजनीति और वीरता दोनों का आश्रय लेकर कार्य सिद्ध करने की चेष्टा की॥४७॥
न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः ।
अदृष्टमभवत्किञ्चिद्व्यभ्रस्येव विवस्वतः ॥ ४८ ॥
**अन्वयः—**न्यस्तप्रणिधिदीधितेः तस्य राज्ञः मण्डले व्यभ्रस्य विवस्वतः इव किञ्चित् अदृष्टं न अभवत् ।
५८२ रघुवंशमहाकाव्ये
न तस्येति । न्यस्ताः सर्वतः प्रहिताः प्रणिधयश्चरा रश्मयो यस्य तस्य । ‘प्रणिधिः प्रार्थने चरे’ इति शाश्वतः । तस्य राज्ञः व्यभ्रस्य निर्मेघस्य विवस्वतः सूर्यस्येव मण्डले स्वविषये किंचिदल्पमप्यदृष्टमज्ञातं नाभवन्नासीत् । स चारचक्षुषा सर्वमपश्यदित्यर्थः ।
**भाषार्थ—**जिस प्रकार खुले आकाश में सूर्य की किरणों के फैल जाने से कुछ भी छिपा नहीं रहता, उसी प्रकार राजा अतिथि ने गुप्तचरों का ऐसा जाल बिछा दिया था कि प्रजा की कोई बात उससे छिपी नहीं रह पाती थी अर्थात् वे सर्वत्र नियुक्त गुप्तचरों द्वारा सब जान जाते थे ॥ ४८ ॥
रात्रिंदिवविभागेषु यदादिष्टं महीक्षिताम् ।
तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥ ४९ ॥
**अन्वयः—**रात्रिन्दिवविभागेषु महीक्षितां यत् आदिष्टं तत् स विकल्पपराङ्मुखः (सन्) नियोगेन सिषेवे ।
रात्रिंदिवेति । रात्रौ च दिवा रात्रिंदिवम् । “अचतुरविचतुरस्त्रीपुंसधेन्वनडुह ०' इत्यादिनाधिकरणार्थे द्वन्द्वेऽच्प्रत्ययान्तो निपातः । अव्ययान्तत्वादव्यत्वम् । अत्र षष्ठ्यर्थलक्षणया रात्रिंदिवमिति अहोरात्रयोरित्यर्थः । तयोर्विभागा अंशाः प्रहरादयः तेषु महीक्षितां राज्ञां यदादिष्टमिदमस्मिन्काले कर्तव्यमिति मन्वादिभिरुपदिष्टं तत्स राजा विकल्पपराङ्मुखः संशयरहितः सन् नियोगेन निश्चयेन सिषेवे अनुष्ठितवानित्यर्थः । अत्र कौटिल्यः—'कार्याणां नियोगविकल्पसमुच्चया भवन्ति । अनेनैवोपायेन नान्येनेति नियोगः । अनेन वान्येन वेति विकल्पः । अनेन वेति समुच्चयः' ।
**भाषार्थ—**राजनीतिकारों ने राजाओं के लिए दिन और रात के जो कर्तव्य निर्धारित किये हैं उन सब को राजा अतिथि विश्वास के साथ नियमपूर्वक पालन करते थे ॥ ४९ ॥
मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः ।
स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते ॥ ५० ॥
**अन्वयः—**तस्य प्रतिदिनम् मन्त्रिभिः सह मन्त्रः बभूव । स सेव्यमानः अपि जातु सूच्यते ( यतः सः ) गुप्तद्वारः ( आसीत् ) ।
मन्त्र इति । तस्य राज्ञः प्रतिदिनं मन्त्रिभिः सह मन्त्रो विचारो बभूव । स मन्त्रः सेव्यमानोऽप्यन्वहमावर्त्यमानोऽपि जातु कदाचिदपि न सूच्यते न प्रकाश्यते । तत्र हेतुर्गुप्तद्वार इति संवृतेङ्गितकारादिज्ञानमार्ग इत्यर्थः ।
**भाषार्थ—**वे राजा अतिथि प्रतिदिन मन्त्रियों के साथ राज्य की गुप्त बातें
सप्तदशः सर्गः ५८१
करते थे पर उन्हें इतना गुप्त रखते थे कि व्यवहार में आने पर भी किसी को पता नहीं चलता था ॥ ५० ॥
परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः ।
सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि ॥ ५१ ॥
अन्वयः—यथाकालं स्वपन् अपि सः परेषु च क्षिप्तैः अज्ञातपरस्परैः अपसर्पैः जजागार ।
परेष्विति । यथाकालमुक्तकालानतिक्रमेण स्वपन्नपि सोऽतिथिः परेषु शत्रुेषु स्वेषु स्वकीयेषु च मन्वादितीर्थेष्विति शेषः । क्षिप्तैः प्रहितै रविज्ञाताः परस्परे येषां तैः । अन्योन्याविज्ञातैरित्यर्थः । अपसर्पश्चरैः । ‘अपसर्पश्चरा स्पर्शः’ इत्यमरः । जजागार बुद्धवान् । चारमुखेन सर्वमज्ञासीदित्यर्थः । अत्र कामन्दकः—‘चारान्वि-चारयेत्तीर्थेष्ववात्मनश्च परस्य च । पाषण्डचादीनविज्ञातानन्योन्यमितरैरपि’ । इति ।
भाषार्थ—उन्होंने अपने कर्मचारियों तथा शत्रुओं का भेद जानने के लिए ऐसी चतुराई से उनके पीछे गुप्तचर लगा रखे थे कि वे गुप्तचर भी आपस में एक दूसरे को नहीं पहचान पाते थे । उनसे सब समाचार मिलते रहने के कारण वे सोते हुए भी मानो जागते रहते थे ॥ ५१ ॥
दुर्गाणि दुर्ग्रहाण्यासंस्तस्य रोद्धुरपि द्विषाम् ।
न हि सिंहो गजास्कन्दी भयाद् गिरिगुहाशयः ॥ ५२ ॥
अन्वयः—द्विषां रोद्धुः तस्य दुर्ग्रहाणि दुर्गाणि आसन् । हि गजास्कन्दी सिंहः भयात् गिरिगुहाशयः न ( किन्तु स्वभावात् ) ।
दुर्गाणीति । द्विषां रोद्धू रोधकस्यापि न तु स्वयं रोध्यस्येत्यर्थः । तस्य राज्ञो दुर्ग्रहाणि परैर्दुर्धर्षाणि दुर्गाणि महीदुर्गादीन्यासन् । न च निर्भीकस्य किं दुर्गैरिति वाच्यमित्यर्थान्तरन्यासमुखेनाह—न हीति । गजानास्कन्दति हिनस्तीति गजास्कन्दी सिंहो भवाद्धेतोः गिरिगुहासु शेत इति । गिरिगुहाशयी न हि किंतु स्वभावत एवेति शेषः । “अधिकरणे शेतेः” इत्यच्प्रत्ययः । अत्र मनुः—‘धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्ष्यमेव वा । नृदुर्गं गिरदुर्गं वा समाश्रित्य वसेत्पुरम्’ ॥ इति ।
भाषार्थ—यद्यपि वे युद्ध में शत्रुओं को घेरते थे फिर भी उन्होंने राजधानी के चारों ओर बहुत-बड़े बड़े दुर्ग बनवा दिये थे, क्योंकि हाथियों पर आक्रमण करने वाला सिंह भय से पहाड़ की कन्दरा में नहीं सोता । अर्थात् जैसे निर्भीक होने पर भी सिंह सुरक्षित कन्दरा में सोता है वैसे ही निर्भीक अतिथिके भी दुर्जय किले थे ॥ ५२ ॥
५८४ रघुवंशमहाकाव्ये
भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः ।
गर्भशालिसधर्माणस्तस्य गूढं विपेचिरे ॥ ५३ ॥
अन्वयः—भव्यमुख्याः प्रत्यवेक्ष्याः (अतएव) निरत्यया गर्भशालि सधर्माणः तस्य समारम्भाः गूढं विपेचिरे ।
भव्येति । भव्यमुख्याः कल्याणप्रधानाः न तु विपरीताः प्रत्यवेक्ष्या एतावत्कृतमेतावत्कर्तव्यमित्यनुसंधानेन विचारणीयाः । अतएव निरत्यया् निर्बाधा गर्भेऽभ्यन्तरे पच्यन्ते ये शालयस्तेषां सधर्माणः । अतिनिगूढा इत्यर्थः । "धर्मादनिच्केवलात्" इत्यनिच्प्रत्ययः, समासान्तः तस्य राज्ञः समारभ्यन्त इति समारम्भाः कर्माणि गूढमप्रकाशं विपेचिरे । फलिता इत्यर्थः । 'फलानुमेयाः प्रारम्भाः' इति भावः ।
भाषार्थ—वे जो काम करते थे सब कल्याणकारी होते थे । वे काम करने के पहले उस पर भली भाँति विचार कर लेते थे, इसलिए उसमें किसी प्रकार की बाधा नहीं पड़ती थी, जिस प्रकार साठी धान का दाना भीतर ही भीतर पक जाता है उसी प्रकार उनका काम गुप्तरूप से आरम्भ होकर पूरा हो जाता है ॥ ५३ ॥
अपथेन प्रववृते न जातुपचितोऽपि सः ।
वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ॥ ५४ ॥
अन्वयः—सः उपचितः जातु अपथेन न प्रववृते हि लवणाम्भसः वृद्धौ नदीमुखेनैव प्रस्थानम् ।
अपथेनेति । सोऽतिथिरुपचितोऽपि वृद्धिं गतोऽपि सन् जातु कदाचिदप्यपथेन कुमार्गेण न प्रववृते न प्रवृत्तः । मर्यादां न जहावित्यर्थः । तथाहि लवणाम्भसो लवणसागरस्य वृद्धौ पूरोत्पीडे सत्यां नदीमुखेनैव नदीप्रवेशमार्गेणैव प्रस्थानं निःसारणम् । न त्वन्यथेत्यर्थः ।
भाषार्थ—ऐश्वर्यशाली होकर भी उन्होंने बुरे मार्ग में पैर नहीं रखा क्योंकि ज्वार के समय जब समुद्र बढ़ता है तब नदियों के मार्ग से ही बढ़ता है दूसरे मार्गों से नहीं ॥ ५४ ॥
कामं प्रकृतिवैराग्यं सद्यः शमयितुं क्षमः ।
यस्य कार्यः प्रतीकारः स तन्नैवोदपादयत् ॥ ५५ ॥
अन्वयः—प्रकृतिवैराग्यं (दैवादुत्पन्नम्) सद्यः कामं शमयितुं क्षमः शक्तः स यस्य प्रतीकारः कार्यः तत् न उदपादयत् ।
काममिति । प्रकृतिवैराग्यं प्रजाविरागम् । दैवादुत्पन्नमिति शेषः । सद्यः कामं सम्यक्शमयितुं प्रतिकर्तुं क्षमः शक्तः स राजा यस्य प्रकृतिवैराग्यस्य प्रतीकारः कार्यः
सप्तदशः सर्गः ५८५
कर्त्तव्यः। अनर्थहेतुत्वादित्यर्थः। तद्वैराग्यं नोदपादयत्। उत्पन्नप्रतीका- रादनुत्पादनं वरमिति भावः। अत्र कौटिल्यः—'क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम्। विरक्ता यान्त्यमित्रं वा भर्त्तारं घ्नन्ति वा स्वयम्'।। तस्मात्प्रकृतीनां विरागकारणानि नोत्पादयेदित्यर्थः।
भाषार्थ— राजा अतिथि में इतनी शक्ति थी कि प्रजा में यदि किसी प्रकार का असन्तोष हो तो उसे क्षणभर में दूर कर दें किन्तु उन्होंने प्रजा में कोई ऐसा असन्तोष उत्पन्न ही नहीं होने दिया जिसे दूर करने की आवश्यकता पड़े ॥५५॥
शक्येष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः।
समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः ॥ ५६ ॥
अन्वयः— शक्तिमतः सतः तस्य शक्येषु एव यात्रा अभवत्, समीरणसहायः अपि दावानलः अम्भःप्रार्थी न ( अभवत् ) ।
शक्येष्विति। शक्तिमतः शक्तिसंपन्नस्यापि सतस्तस्य राज्ञः शक्येषु शक्ति- विषयेषु स्वस्माद्धीनबलेष्वेव विषये यात्रा दण्डयात्राऽभवत्। न तु समधिकेष्वित्यर्थः। तथाहि समीरणसहायोऽपि दवानलोऽम्भःप्रार्थी जलान्वेषी न दग्धुमिति शेषः। किंतु तृणकाष्ठादिकमेवान्विष्यतीत्यर्थः। अत्र कौटिल्यः—'समज्यायोभ्यां सन्दधीत हीनेन विगृह्णीयात्' इति।
भाषार्थ— राजा अतिथि शक्तिमान् थे इसलिए शक्तिशाली राजाओं पर ही चढ़ाई करते थे, दुर्बलों पर नहीं क्योंकि वायु की सहायता मिलने पर भी वन में लगी हुई आग पानी को नहीं चाहती। अर्थात् आग वायु का सहयोग रहने पर जल को जलाने की इच्छा नहीं करती किन्तु तृण, काष्ठ आदि को ही जलाती है ॥ ५६ ॥
न धर्ममर्थकामाभ्यां बबाधे न च तेन तौ।
नार्थं कामेन कामं वा सोऽर्थेन सदृशस्त्रिषु ॥ ५७ ॥
अन्वयः— सः अर्थकामाभ्यां धर्मं न बबाधे, तेन च तौ न बबाधे, अर्थं कामेन कामं वा अर्थेन ( न बबाधे ), ( किन्तु ) त्रिषु सदृशः ( अभूत् ) ।
न धर्ममिति। स राजार्थकामाभ्यां धर्मं न बबाधे न नाशितवान्। तेन धर्मेण च तावर्थकामो न अर्थं कामेन कामं वार्थेन न बबाधे। एकत्रैवासक्ता नाभूदित्यर्थः। किन्तु त्रिषु धर्मार्थकामेषु सदृशस्तुल्यवृत्तिः। अभूदित्यर्थः।
भाषार्थ— राजा अतिथि ने अर्थ और काम के लिए कभी धर्म को नहीं छोड़ा और धर्म में आसक्त होकर अर्थ और काम को नहीं छोड़ा और न अर्थ के
| ५८६ | रघुवंशमहाकाव्ये |
|---|
कारण कामको अथवा कामके कारण अर्थ को छोड़ा किन्तु धर्म, अर्थ और काम इन तीनों के साथ वे एकसा व्यवहार करते थे ॥ ५७ ॥
हीनान्यनुपकर्तॄणि प्रवृद्धानि विकुर्वते ।
तेन मध्यमशक्तीनि मित्राणि स्थापितान्यतः ॥ ५८ ॥
**अन्वयः—**मित्राणि हीनानि अनुपकर्तॄणि प्रवृद्धानि ( चेत् ) विकुर्वते; अतः तेन मित्राणि मध्यमशक्तीनि स्थापितानि ।
हीनानीति । मित्राणि हीनान्यतिक्षीणानि चेदनुपकर्तॄण्यनुपकारीणि प्रवृद्धान्यतिसमृद्धानि चेद्विकुर्वते विरुद्धं चेष्टन्ते । अपकुर्वत इत्यर्थः । "अकर्मकाच्च" इत्यात्मनेपदम् । अतः कारणात्तेन राज्ञा मित्राणि सुहृदः । 'मित्रं सुहृदि मित्रोऽर्के' इति विश्वः ।
**भाषार्थ—**यदि नीच मनुष्य मित्र बन जाते हैं तो कुछ न कुछ खोटा कर्म अवश्य कर देते हैं, यदि धनी मिल जाते हैं तो कुछ न कुछ बाधा डालते हैं, इसलिए राजा अतिथि मध्यममार्ग का अवलम्बन करके ऐसे लोगों को मित्र बनाते थे जो न नीच थे न धनी ही थे ॥ ५८ ॥
परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् ।
ययावेभिर्बलिष्ठश्चेत्परस्मादास्त सोऽन्यथा ॥ ५९ ॥
**अन्वयः—**सः परात्मनोः शक्त्यादीनां बलाबलं परिच्छिद्य एभिः परस्मात् बलिष्ठः चेत् ययौ अन्यथा आस्त ।
परेति । सोऽतिथिः परात्मनोः शत्रोरात्मनश्च शक्त्यादीनां शक्तिदेशकालादीनां बलाबलं न्यूनाधिकभावं परिच्छिद्य निश्चित्य एभिः शक्त्यादिभिः परस्माच्छत्रोर्बलिष्ठः स्वयमतिशयेन बलवाञ् चेत् । बलशब्दान्मतुबन्तादिष्ठन्प्रत्ययः । "विन्मतोर्लुक्" इति मतुपो लुक् । ययौ यात्रां चक्रे । अन्यथा बलिष्ठश्चेदास्तात्तिष्ठत् । ययावित्यर्थः । अत्र मनुः—'यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् । परस्य विपरीतं चेत्तदा यायादरीन्प्रति ॥ यदा तु स्यात्परिक्षीणो वाहनेन बलेन च । तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन् ॥' इति ।
**भाषार्थ—**शत्रुओं पर आक्रमण करने के पहले वे राजा अतिथि अपनी और शत्रुओं की त्रुटि को भलीभांति तौल लेते थे, जब शत्रुसे अपना बल अधिक देखा तभी उसपर आक्रमण किया, नहीं तो चुप बैठे रहे ॥ ५९ ॥
सप्तदशः सर्गः ५८७
सप्तदशः सर्गः ५८७
कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः । अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते ॥ ६० ॥
अन्वयः—कोशेन आश्रयणीयत्वं (भवति) इति तस्य अर्थसंग्रहः, हि अम्बु- गर्भः जीमूतः चातकैः अभिनन्द्यते ।
कोशेनेति । कोशेनार्थचयेनाश्रयणीयत्वं भजनीयत्वम् । भवतीति शेषः । इति हेतोस्तस्य राज्ञः कर्तुः अर्थसंग्रहः । न तु लोभादित्यर्थः । तथाहि अम्बुगर्भो यस्य सोऽम्बुगर्भो जीवनस्य जलस्य मूतः पुटबन्धो जीमूतो मेघः । 'मूङ् बन्धने' पृषोद- रादित्वात्साधुः । चातकैरभिनन्द्यते । सेव्यते । अत्र कामन्दकः—'धर्महेतोस्तथार्थाय भृत्यानां रक्षणाय च । आपदर्थं च संरक्ष्यः कोशो धर्मवता सदा' ॥ इति ।
भाषार्थ—राजा अतिथि ने इसलिए धन इकट्ठा किया कि एक तो इससे आदर होता है और दूसरे दीन लोग आकर आश्रय लेते हैं क्योंकि चातक उन्हीं बादलों का स्वागत करते हैं जिनमें पानी भरा रहता है ॥ ६० ॥
परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु । आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्निपून् ॥ ६१ ॥
अन्वयः—स परकर्मापहः (सन्) स्वेषु कर्मसु उद्यतः अभूत्, रिपून् रन्ध्रेषु प्रहरन् आत्मनः रन्ध्रं आवृणोत् ।
परकर्मेति । स राजा परेषां कर्माणि सेतुवार्तादीन्यपहन्तीति परकर्मापहः सन् । ‘‘अन्येष्वपि दृश्यते’’ इत्यपिशब्दसामर्थ्याद्विन्तेर्डप्रत्ययः । किं च रिपून्तरन्ध्रेषु प्रहरन्नात्मनो रन्ध्रं व्यसनादिकमावृणोत्संवृतवान् । अत्र मनुः—‘नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु । गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ।।' इति ।
भाषार्थ—शत्रुओं का उद्योग नष्ट करके वे राजा अतिथि अपने उद्योग में लग गये । उन्होंने शत्रुओं के दोषों से लाभ उठाकर उन्हें नष्ट कर दिया और अपने दोषों को दूर कर दिया ॥ ६१ ॥
पित्रा सम्बर्धितो नित्यं कृतास्त्रः साम्परायिकः । तस्य दण्डवतो दण्डःस्वदेहात्न व्यशिष्यत ॥ ६२ ॥
अन्वयः—दण्डवतः तस्य पित्रा नित्यं सम्बर्द्धितः कृतास्त्रः साम्परायिकः दण्डः स्वदेहात् न व्यशिष्यत ।
पित्रेति । दण्डो दमः सैन्यं वा तद्वतो दण्डतो दण्डसम्पन्नस्य तस्य राज्ञः पित्रा कुशेन नित्यं सम्बर्धितः कृतास्त्रः शिक्षितास्त्रः सम्परायो युद्धम् । 'युद्धायत्योः सम्प-
५८८ | रघुवंशमहाकाव्ये
राया' इत्यमरः । तमर्हतीति साम्परायिकः । “तदर्हति” इति ठक्प्रत्ययः ।• दण्डः सैन्यम् । 'दण्डो यमे मानभेदे लगुडे दमसैन्ययोः' इति विश्वः । स्वदेहान्न व्यशिष्यत नाभिद्यत । स्वदेहेऽपि विशेषणानि योज्यानि । मूलबलं स्वदेहमिवारक्षदित्यर्थः ।
भाषार्थ—कुशके प्रयत्न से बढ़ी हुई शस्त्रास्त्र चलाने में कुशल और युद्ध करने में समर्थ जो सेना थी, उसे अतिथि अपने शरीर के समान ही प्यार करते थे॥६२॥
सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः ।
स चकर्ष परस्मात्तदयस्कान्त इवायसम् ॥ ६३ ॥
अन्वयः—सर्पस्य शिरोरत्नम् इव अस्य शक्तित्रयं परः न चकर्ष । स तु परस्मात् तत् अयस्कान्त आयसम् इव (चकर्ष) ।
सर्पस्येति । सर्पस्य शिरोरत्नमिव अस्य राज्ञः शक्तित्रयं परः शत्रुर्न चकर्ष । स तु परस्माच्छत्रोस्तच्छक्तित्रयम् । अयस्कान्तो मणिविशेष आयसं लोहविकारमिव चकर्ष ।
भाषार्थ—जिस प्रकार सर्प के सिरसे मणि नहीं निकाली जा सकती, उसी प्रकार शत्रु इनके प्रभाव, उत्साह और मन्त्र इन तीन शक्तियों को अपनी ओर नहीं खींच सके, किन्तु जैसे चुम्बक लोहे को अपनी ओर खींच लेता है वैसे ही उन्होंने शत्रुओं की उन शक्तियों को अपनी ओर खींच लिया ॥ ६३ ॥
वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव ।
सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु ॥ ६४ ॥
अन्वयः—स्रवन्तीषु वापीषु इव अद्रिषु उपवनेषु इव अद्रिषु स्वकीयेषु वेश्मसु इव सार्थाः स्वैरं चेरुः ।
वापीष्विति । स्रवन्तीषु नदीषु वापीषु दीर्घिकास्रिव । 'वापी तु दीर्घिका' इत्यमरः । वनेष्वरण्येषूपवनेष्वारामेष्विव । 'आरामः स्यादुपवनम्' इत्यमरः । अद्रिषु वेश्मस्विव सार्था वणिक्प्रभृतयः स्वैरं स्वेच्छया चेरुश्चरन्ति स्म ।
भाषार्थ—राजा अतिथिका का इतना प्रताप था कि व्यापारी लोग ऐसे बेरोक-टोक व्यापार करते थे कि नदियां बांवलियों जैसी, वन उद्यान जैसे सुखकर और पर्वत अपने घर से सुखकर हो गये थे ॥ ६४ ॥
तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च सम्पदः ।
यथास्वमाश्रमैश्चक्रे वर्णैरपि षडंशभाक् ॥ ६५ ॥
अन्वयः—विघ्नेभ्यः तपः रक्षन् तस्करेभ्यः सम्पदः च ( रक्षन् ) स आश्रमैः वर्णैः च यथास्वं षडंशभाक् चक्रे ।
सप्तदशः सर्गः
५८९
तप इति। विघ्नेभ्यस्तपो रक्षन् तस्करेभ्यः संपदश्च रक्षन् स राजाश्रमैर्ब्रह्मचर्यादिभिर्वर्णैरपि ब्राह्मणादिभिश्च यथास्वं स्वमनतिक्रम्य षडंशभाक्चक्रे। यथाक्रममाश्रमैस्तपसो वर्णैः सम्पदां च षष्ठांशभाक्कृत इत्यर्थः। षष्ठोऽंशः षडंशः। सङ्ख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमुक्तं प्राक्।
**भाषार्थ—**राजा अतिथि ने विघ्नों से तपस्वियों के तप की रक्षा की, चोरों से प्रजा की सम्पत्तियों को बचाया और चारों वर्ण एवं चारों आश्रमों से उनके अनुसार छठा भाग पाया ॥ ६५ ॥
खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान्।
दिदेश वेतनं तस्मै रक्षासदृशमेव भूः ॥ ६६ ॥
**अन्वयः—**भूः तस्मै राज्ञे रक्षासदृशं एवं वेतनं दिदेश, खनिभिः रत्नं सुषुवे, क्षेत्रैः सस्यं, वनैः गजान् (सुषुवे)।
खनिभिरिति। भूर्भूमिस्तस्मै राज्ञे रक्षासदृशं रक्षणानुरूपमेव वेतनं भृतिं दिदेश ददौ। कथम्? खनिभिराकरैः 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः। रत्नं माणिक्यादिकं सुषुवे अजीजनत्, क्षेत्रैः सस्यं वनैर्गजान्हस्तिनः सुषुवे।
**भाषार्थ—**जिस प्रकार वे रक्षा कर रहे थे उसी प्रकार पृथ्वी भी उन्हें ऐश्वर्य देती जा रही थी, खानों ने रत्न दिये, खेतों ने अन्न दिया और वनों ने उन्हें हाथी दिये ॥ ६६ ॥
स गुणानां बलानां च षण्णां षण्मुखविक्रमः।
बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ॥ ६७ ॥
**अन्वयः—**षण्मुखविक्रमः षण्णां गुणानां बलानां च साधनीयेषु वस्तुषु विनियोगज्ञः बभूव।
स इति। षण्मुखविक्रमः स राजा षण्णां गुणानां सन्धिविग्रहादीनां बलानां मूलभृत्यादीनां च साधनीयेषु वस्तुषु साध्येष्वर्थेषु विनियोगं जानातीति विनियोगस्य ज्ञ इति वा विनियोगज्ञः। कर्मविवक्षायामुपपदसमासः। "आतोऽनुपसर्गे कः" इति कप्रत्ययः। शेषविवक्षायां षष्ठीसमासः। "इगुपधज्ञा०" इत्यादिना कप्रत्ययः। बभूव। 'इदमत्र प्रयोक्तव्यम्' इत्याद्यज्ञासीदित्यर्थः।
**भाषार्थ—**कार्तिकेय के समान पराक्रमी राजा अतिथि यह अच्छी तरह जानते थे कि सन्धि, विग्रह, यान, आसन, संश्रय एवं द्वैधीभाव इन छ राजगुणों को कैसे व्यवहार में लाना चाहिए तथा मूल, भृत्य, सुहृद्वर्ग, शत्रु, आटविक और बल इन छ प्रकार की सेनाओं के साथ कैसा व्यवहार करना चाहिए ॥ ६७ ॥
| ५९० | रघुवंशमहाकाव्ये |
|---|
इति क्रमात्प्रयुञ्जानो राजनीतिं चतुर्विधाम् ।
आतीर्थादप्रतिघातं स तस्याः फलमानशे ॥ ६८ ॥
अन्वयः— इति चतुर्विधां राजनीतिं क्रमात् प्रयुञ्जानः सः आतीर्थात् तस्याः फलं अप्रतिघातं आनशे ।
इतीति । इति चतुर्विधाम् । सामाद्युपायैरिति शेषः । राजनीतिं दण्डनीतिं क्रमात्सामादिक्रमादेव प्रयुञ्जानः स राजा तीर्थान्मन्त्र्याद्यष्टादशात्मकतीर्थपर्यन्तम् । 'योनौ जलावतारे च मन्त्र्याद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थं स्यात्' इति हलायुधः । तस्या नीतेः फलमप्रतिघातमप्रतिबन्धं यथा तथानशे प्राप्तवान् । मन्त्र्यादिषु यमुद्दिश्य य उपायः प्रयुज्यते स तस्य फलतीत्यर्थः ।
भाषार्थ— इस प्रकार साम, दाम, दण्ड और भेद इन चार उपायों के साथ राजनीति चलाते हुए राजा अतिथि ने उन उपायों का निर्विघ्न फल पा लिया ॥६८॥
कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि ।
भेजेऽभिसारिकावृत्तिं जयश्रीर्वीरगामिनी ॥ ६९ ॥
अन्वयः— कूटयुद्धविधिज्ञे अपि सन्मार्गयोधिनि तस्मिन् वीरगामिनी श्रीः अभिसारिका वृत्ति भेजे ।
कूटेति । कूटयुद्धविधिज्ञेऽपि कपटयुद्धप्रकाराभिज्ञे सन्मार्गेण योधिनि धर्मयोद्धरि तस्मिन्नतिथौ वीरगामिनी जयश्रीरभिसारिकावृत्तिं भेजे । 'कान्तार्थिनी तु या याति सङ्केतं साभिसारिका' इत्यमरः । जयश्रीस्तमन्विष्यागच्छदित्यर्थः ।
भाषार्थ— वे कपट-युद्ध भी जानते थे पर युद्ध क्षेत्र में वे धर्म की लड़ाई ही लड़ते थे इसलिए वीरों की सखी जयश्री उनके पास अभिसारिका के समान चुपके से पहुँचती थी ॥ ६९ ॥
प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः ।
रणो गन्धद्विपस्येव गन्धभिन्नान्यदन्तिनः ॥ ७० ॥
अन्वयः— अरीणां प्रतापभग्नत्वात् तस्य गन्धभिन्नान्यदन्तिनः गन्धद्विपस्य इव प्रायः रणः दुर्लभः ( भवति ) ।
प्राय इति । अरीणां सर्वेषामपि प्रतापेनातितेजसैव भग्नत्वात्तस्य राज्ञः गन्धेन मदगन्धेनैव भिन्ना भग्ना अन्ये दन्तिनो येन तस्य गन्धद्विपस्येव प्रायः प्रायेण रणो दुर्लभः । खलर्थयोगेऽपि शेषविवक्षायां षष्ठीमिच्छन्तीत्युक्तम् ।
भाषार्थ— युद्ध क्षेत्र में अतिथि को देखते ही शत्रुओं के छक्के छूट जाते थे और वे प्राण लेकर भाग खड़े होते थे, इसलिए जैसे बिना मद वाले हाथी मतवाले
सप्तदशः सर्गः ५९१
सप्तदशः सर्गः ५९१
हाथी से नहीं लड़ते हैं वैसे ही प्रतापी राजा अतिथि से लड़ने का कोई साहस नहीं करता था ॥ ७० ॥
प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः । स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी ॥ ७१ ॥
**अन्वयः—**प्रवृद्धौ चन्द्रः हीयते समुद्रः अपि तथाविधः, सः तु तत्समवृद्धिः अभूत् तौ इव क्षयी न (अभूत्) ।
प्रवृद्धाविति । प्रवृद्धौ सत्यां चन्द्रे हीयते समुद्रोऽपि तथाविधश्चन्द्रवदेव प्रवृद्धौ हीयते । 'प्रवृद्धः' इति वा पाठः । स राजा तु ताभ्यां चन्द्रसमुद्राभ्यां समा वृद्धिर्यस्य स तत्समवृद्धिश्चाभूत् । तौ चन्द्रसमुद्राविव क्षयी । “जिदृक्षि०” इत्यादिनेन-प्रत्ययः । नाभूत् ।
**भाषार्थ—**पूरा बढ़ चुकने पर चन्द्रमा घटने लगता है और समुद्र की भी यही दशा होती है किन्तु राजा अतिथि के साथ यह बात उलटी थी, वे चन्द्रमा और समुद्र के समान बढ़े तो सही पर उनके समान घटते नहीं थे ॥ ७१ ॥
सन्तस्तस्याभिगमनादत्यर्थं महतः कृशाः । उदधेरिव जीमूताः प्रापुर्दातृत्वमर्थिनः ॥ ७२ ॥
**अन्वयः—**अत्यर्थं कृशाः अर्थिनः सन्तः महतः तस्य अभिगमनात् उदधेः जीमूताः इव दातृत्वं प्रापुः ।
सन्त इति । अत्यर्थं कृशा दरिद्रा अत एवार्थिनो याचनशीलाः सन्तो विद्वांसो महतस्तस्य राज्ञोऽभिगमनात् उदधेरभिगमनाज्जीमूता इव दातृत्वं वदान्यत्वं प्रापुः । अर्थिषु दानभोगपर्याप्तं धनं प्रयच्छतीत्यर्थः ।
**भाषार्थ—**जिस प्रकार निर्जल मेघ समुद्र के पास जाते हैं और वह उन्हें इतना जल दे देता है कि वे संसारभर को बाँटने लगते हैं, उसी प्रकार जो निर्धन विद्वान् राजा अतिथि के पास जाते थे उन्हें वे इतना धन दे देते थे कि स्वयं दूसरों को भी दान देने लगते थे ॥ ७२ ॥
स्तूयमानः स जिह्राय स्तुत्यमेव समाचरन् । तथापि ववृधे तस्य तत्कारिद्वेषिणो यशः ॥ ७३ ॥
**अन्वयः—**स स्तुत्यं एव समाचरन् (अत एव ) स्तूयमानः ( सन् ) जिह्राय तत्कारिद्वेषिणः तस्य यशः ववृधे ।
स्तूयमान इति । स राजा स्तुत्यं स्तोत्रार्हमेव यत्तदेव समाचरन्नत एव
५९२ | रघुवंशमहाकाव्ये
स्तूयमानः जिह्राय ललज्ज । तथापि ह्रीणत्वेऽपि तत्कारिणः स्तोत्रकारिणो द्वेषीति तत्कारिद्वेषिणस्तस्य राज्ञः यशो ववृधे । ‘गुणाढ्यस्य सतः पुंसः स्तुतौ लज्जैव भूषणम्’ इति भावः ।
**भाषार्थ—**उनके सभी कार्य प्रशंसनीय थे, पर जब कोई उसकी प्रशंसा करता तब वे सकुचाते थे । प्रशंसा की इच्छा न करने पर भी उनका यश बढ़ता ही गया ॥ ७३ ॥
दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः ।
प्रजाः स्वतन्त्रयांचक्रे शश्वत्सूर्य इवोदितः ॥ ७४ ॥
अन्वयः—(स) उदितः सूर्यः इव दर्शनेन दुरितं घ्नन् तत्त्वार्थेन तमः नुदन् शश्वत्प्रजाः स्वतन्त्रयांचक्रे ।
दुरितमिति । स राजा उदितः सूर्यः इव दर्शनेन दुरितं घ्नन्निवर्तयन् । तथा च स्मर्यते—‘अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः । दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत नित्यशः’ ॥ इति । तत्त्वस्य वस्तुतत्त्वस्यार्थेन समर्थनेन च तमोऽज्ञानं ध्वान्तं च नुदञ्शश्वत्प्रजाः स्वतन्त्रयाञ्चक्रे स्वाधीनाश्चकार ।
**भाषार्थ—**जिस प्रकार निकलते हुए सूर्य के दर्शन से पाप दूर हो जाते हैं उसी प्रकार राजा अतिथि के दर्शन से पाप भाग जाते थे । वे ज्ञानी थे इसलिए वे दूसरों को भी तत्त्वज्ञान सिखाकर अज्ञान का अन्धकार भी मिटाते थे इसलिए उन्होंने प्रजा को सब प्रकार से स्वतन्त्र कर दिया ॥ ७४ ॥
इन्दोरगतयः पद्मे सूर्यस्य कुमुदेऽंशवः ।
गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम् ॥ ७५ ॥
**अन्वयः—**इन्दोः अंशवः पद्मे अगतयः सूर्यस्य (च) अंशवः कुमुदे (अगतयः) गुणिनः तस्य गुणाः विपक्षे अन्तरं लेभिरे ।
इन्दोरिति । इन्दोरंशवः पद्मेऽगतयः । प्रवेशरहिता इत्यर्थः । सूर्यस्यांशवः कुमुदेऽगतयः । गुणिनस्तस्य गुणास्तु विपक्षे शत्रावप्यन्तरमवकाशं लेभिरे प्रापुः ।
**भाषार्थ—**चन्द्रमा की किरणें कमलों में तथा सूर्य की किरणें कुमुदों में नहीं पैठ पाती हैं पर राजा अतिथि के गुणों ने शत्रुओं के हृदय में भी घर कर लिया था और शत्रु भी उनके गुणों का लोहा मानते थे ॥ ७५ ॥
पराभिसंधानपरं यद्यप्यस्य विचेष्टितम् ।
जिगीषोरश्वमेधाय धर्म्यमेव बभूव तत् ॥ ७६ ॥
सप्तदशः सर्गः | ५९३
| सप्तदशः सर्गः | ५९३ |
|---|
अन्वयः—अश्वमेधाय जिगीषोः अस्य विचेष्टितं यद्यपि पराभिसंधानपर ( तथापि ) तत् धर्म्यं एव बभूव ।
परेति । अश्वमेधाय जिगीषोरस्य विचेष्टितं दिग्विजय रूपं यद्यपि पराभिसंधान-परं शत्रुवञ्चनप्रधानं तथापि तद्धर्म्यं धर्मादनपेतमेव । “धर्मपथ्यर्थन्यायादनपेते” इति यत्प्रत्ययः । बभूव । ‘मन्त्रप्रभावोत्साहशक्तिभिः परान्सन्दध्यात्’ इति कौटिल्यः ।
भाषार्थ—अश्वमेध यज्ञ करने के लिए वे दिग्विजय करने निकले तब इनका काम यद्यपि शत्रुओं को जिस-तिस प्रकार हराना ही था पर उस समय भी उन्होंने धर्म से ही काम लिया कूटनीति, या छल से नहीं ॥ ७६ ॥
एवमुद्यन्प्रभावेण शास्त्रनिर्दिष्टवर्त्मना ।
वृषेव देवो देवानां राज्ञां राजा बभूव सः ॥ ७७ ॥
अन्वयः—शास्त्रनिर्दिष्टवर्त्मना प्रभावेण उद्यन् सः वृषा देवानां देव इव राज्ञां राजा बभूव ।
एवमिति । एवं शास्त्रनिर्दिष्टवर्त्मना शास्त्रोपदिष्टमार्गेण प्रभावेण कोशदण्ड-जेन तेजसा । ‘स प्रभावः प्रतापश्च तत्तेजः कोशदण्डजम्’ इत्यमरः । उद्यन्नुद्युञ्जानः सः वृषा वासवो देवानां देवो देवदेव इव राज्ञां राजा राजराजो बभूव ।
भाषार्थ—इस प्रकार शास्त्रों के अनुसार चलने से अतिथि का प्रभाव बढ़ गया और जैसे इन्द्र देवों के देव हैं वैसे ही अतिथि भी राजाओं के राजा हो गये ॥७७॥
पञ्चमं लोकपालानां तमूचुः साम्ययोगतः ।
भूतानां महतां षष्ठमष्टमं कुलभूभृताम् ॥ ७८ ॥
अन्वयः—तं साधर्म्ययोगतः लोकपालानां पञ्चमं ऊचुः महतां भूतानां षष्ठं ( ऊचुः ) कुलभूभृतां अष्टमं ( ऊचुः ) ।
पञ्चममिति । तम् राजानमिति शेषः । साधर्म्ययोगतो यथाक्रमं लोकसंरक्षण-परोपकारभूधारणरूपसमानधर्मत्वबलाल्लोकपालानामिन्द्रादीनां चतुर्णां पञ्चम-मूचुः । महतां भूतानां पृथिव्यादीनां पञ्चानां षष्ठमूचुः । कुलभूभृतां कुलाचलानां महेन्द्रमलयादीनामष्टममूचुः ।
भाषार्थ—इन्द्र आदि चारों लोकपालों के समान पराक्रम होने के कारण लोग उन्हें पाचवाँ लोकपाल कहने लगे । पृथिव्यादि पाँचों तत्त्वों के समान महान् होने के कारण लोग उन्हें छठा तत्त्व कहते थे और हिमालय आदि सात कुल पर्वतों के समान विशाल होने के कारण वे आठवें कुलपर्वत कहलाते थे ॥७८॥
३८ र० सम्पू०
| ५९४ | रघुवंशमहाकाव्ये |
|---|
दूरापवर्जितच्छत्रैस्तस्याज्ञां शासनापिताम् ।
दधुः शिरोभिर्भूपाला देवाः पौरन्दरीमिव ॥ ७९ ॥
अन्वयः— भूपालाः शासनापितां तस्य आज्ञां देवाः पौरन्दरीम् इव शिरोभिः दधुः ।
दूरेति । भूपालाः शासनेषु पत्रेष्वर्पितामुपन्यस्तां तस्य राज्ञ आज्ञां देवाः पौरन्दरीमैन्द्रीमाज्ञामिव दूरापवर्जितच्छत्रैर्दूरात्परिहृतातपत्रैः शिरोभिर्दधुः ।
भाषार्थ— जैसे देवता लोग इन्द्र की आज्ञा मानते हैं वैसे ही राजा लोग भी अपने छत्र उतारकर उनकी आज्ञा अपने माथे चढ़ाते थे ॥ ७९ ॥
ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ ।
यथा साधारणभूतं नामास्य धनदस्य च ॥ ८० ॥
अन्वयः— सः महाक्रतौ ऋत्विजः दक्षिणाभिः तथा आनर्च यथा अस्य धनदस्य च नाम साधारणीभूतम् ।
ऋत्विज इति । स राजा महाक्रतावश्वमेधे ऋत्विजो याजकान् दक्षिणाभिस्तथानर्चार्चयामास । अर्चतेर्भावादिकाल्लिट् । यथास्य राज्ञो धनदस्य च नाम साधारणीभूतमेकीभूतम् । उभयोरपि धनदसंज्ञा यथा स्यात्तथेत्यर्थः ।
भाषार्थ— अश्वमेध के समय जिन ब्राह्मणों ने यज्ञ कराया था उनका राजा अतिथि ने इतना सत्कार किया कि लोग उन्हें दूसरा कुबेर कहने लगे ॥ ८० ॥
इन्द्राद् वृष्टिनिर्यमितगदोद्रेकवृत्तिर्यमोऽभू-
द्यादोनाथः शिवजलपथः कर्मणे नौचराणाम् ।
पूर्वापेक्षी तदनु विदधे कोषवृद्धिं कुबेर-
स्तस्मिन्दण्डोपनतचरितं भेजिर लोकपालाः ॥ ८१ ॥
अन्वयः— इन्द्रात् वृष्टिः अभूत् यमः नियमितगदोद्रेकवृत्तिः (अभूत्) यदोनाथः नौचराणां कर्मणे शिवजलपथः । अभूत् ) तदनु पूर्वापेक्षी कुबेरः कोषवृद्धिं विदधे लोकपालाः तस्मिन् दण्डोपनतचरितं भेजिर ।
इन्द्रादिति । इन्द्राद् वृष्टिरभूत् । यमो निवारिता गदस्य रोगस्योद्रेक एव वृत्तिर्येन सोऽभूत् । यादोनाथो वरुणो नौचराणां नाविकानां कर्मणे सञ्चाराय शिवजलपथः सुचरजलमार्गोऽभूत् । तदनु पूर्वापेक्षी रघुरामादिमहिमाभिज्ञः कुबेरः कोषवृद्धिं विदधे । इत्थं लोकपालास्तस्मिन् राज्ञि विषये दण्डोपनतस्य शरणागतस्य चरितं वृत्तिं भेजिर । 'दुर्बलो बलवत्सेवी विरुद्धाच्छङ्कितादिभिः । वर्तेत दण्डोपनतो भर्तयैवमवस्थितः' ॥ इति कौटिल्यः ।
अष्टादशः सर्गः ५९५
अष्टादशः सर्गः ५९५
**भाषार्थ—**इन्द्र ने उस राजा अतिथि के साम्राज्य पर वर्षा की, यमराज ने रोगों का बढ़ना रोका, वरुणने नाव चलाने वालों के लिए जल-मार्ग खोल दिये और कुबेर ने इनका राजकोष भर दिया । इस प्रकार इन्द्र आदि लोकपाल मानो इनके प्रताप से ही डरकर इनकी सेवा कर रहे थे ॥ ८१ ॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीवनीसमाख्यया व्याख्यया समेतो महाकविकालिदासकृतौ रघुवंशे महाकाव्ये अतिथिवर्णनो नाम सप्तदशः सर्गः ॥ १७ ॥
अष्टादशः सर्गः
यत्पादपांसुसम्पर्कादहल्यासीदपांसुला ।
कारुण्यसिन्धवे तस्मै नमो वैदेहिबन्धवे ॥
स नैषधस्यार्थपतेः सुतायामुत्पादयामास निषिद्धशत्रुः ।
अनूनसारं निषधाज्नगेन्द्रात्पुत्रं यमाहुर्निषधाख्यमेव ॥ १ ॥
**अन्वयः—**निषिद्धशत्रुः स नैषधस्य अर्थपतेः सुतायां निषधात् नगेन्द्रात् अनूनसारं पुत्रं उत्पादयामास यं निषधाख्यं एव आहुः ।
स इति । निषिद्धशत्रुर्निवारितरिपुः सोऽतिथिर्नैषधस्य निषधदेशाधीश्वरस्यार्थपते राज्ञः सुतायां निषधान्निषधाख्यान्नगेन्द्रात्पर्वतादनूनसारमन्यूनबलं पुत्रमुत्पादयामास । यं पुत्रं निषधाख्यं निषधनामकमेवाहुः ।
**भाषार्थ—**शत्रुसंहारक राजा अतिथि ने निषध देश के राजा की कन्या से निषध पर्वत के समान बलवान् पुत्र उत्पन्न किया और उसका भी नाम निषध रखा ॥ १ ॥
तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना ।
सुवृष्टियोगादिव जीवलोकः सस्येन सम्पत्तिफलोन्मुखेन ॥ २ ॥
**अन्वयः—**उरुवीर्येण प्रजायै कल्पिष्यमाणेन तेन पिता सुवृष्टियोगात् सम्पत्तिफलोन्मुखेन सस्येन जीवलोक इव ननन्द ।
तेनेति । उरुवीर्येणातिपराक्रमेणात एव प्रजायै लोकरक्षणार्थं कल्पिष्यमाणेन
५९६ | रघुवंशमहाकाव्ये
तेन यूना निषधेन पितातिथिः सुवृष्टियोगात्सम्पत्तिफलोन्मुखेन पाकोन्मुखेन सस्येन जीवलोकः इव ननन्द जहर्ष ।
भाषार्थ—जिस प्रकार समय की वर्षा से फले हुए धानों को देखकर संसार के सभी प्राणी प्रसन्न होते हैं उसी प्रकार महापराक्रमी और भविष्य में प्रजा की रक्षा के लिए समर्थ युवराज निषध को देखकर राजा अतिथि परम प्रसन्न हुए ॥ २ ॥
शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः ।
कौमुद्वतेयः कुमुदावदातैर्धामर्जितां कर्मभिरारुरोह ॥ ३ ॥
अन्वयः—कौमुद्वतेयः शब्दादि सुखं निर्विश्य चिराय तस्मिन् प्रतिष्ठापितराजशब्दः कुमुदावदातैः कर्मभिः अर्जितां द्यां आरुरोह ।
शब्दादीति । कुमुद्वत्या अपत्यं पुमान्कौमुद्वतेयोऽतिथिः शब्दादि शब्दस्पर्शादि सुखं सुखसाधनं विषयवर्गं निर्विश्योपभुज्य चिराय तस्मिन्निषधाख्ये पुत्रे प्रतिष्ठापितराजशब्दो दत्तराज्यः सन् कुमुदावदातैर्निर्मलैः कर्मभिरश्वमेधाभिरजितां सम्पादितां द्यां स्वर्गमारुरोह ।
भाषार्थ—कुमुद्वती के पुत्र राजा अतिथि ने बहुत दिनों तक सुख, शब्दादि विषयों को भोग कर और अपने पुत्र निषध को राजपाट सौंपकर कुमुद के समान उज्ज्वल पुण्य कर्मों के बल से प्राप्त स्वर्ग में सुख भोगने के लिए चले गये ॥ ३ ॥
पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः ।
एकातपत्रां भुवमेकवीरः पुरार्गलादीर्घभुजो बुभोज ॥ ४ ॥
अन्वयः—कुशेशयाक्षः सागरधीरचेताः एकवीरः पुरार्गलादीर्घभुजः कुशस्य पौत्रः अपि ससागरां एकातपत्रां भुवं बुभोज ।
पौत्र इति । कुशेशयाक्षः शतपत्रलोचनः । ‘शतपत्रं कुशेशयम्’ इत्यमरः । सागरधीरचेताः समुद्रगम्भीरचित्त एकवीरोऽसहायशूरः पुरस्यार्गला कपाटविष्कम्भः । ‘तद्विष्कम्भोऽर्गलं न ना’ इत्यमरः । तद्वद्दीर्घभुजः कुशस्य पोत्रो निषधोऽपि ससागरामेकातपत्रां भुवं बुभोज पालयामास । “भुजोऽनवने” इत्युक्तेः परस्मैपदम् ।
भाषार्थ—कमल के समान नेत्रवाले, समुद्रके समान गम्भीर चित्तवाले और नगर के प्रधान फाटक की अर्गला के समान बड़ी-बड़ी बाहुवाले, अद्वितीय वीर कुश के पौत्र निषध ने भी सागर तक फैली हुई एकछत्र पृथ्वी का भोग किया ॥ ४ ॥
तस्यानलौजस्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः ।
यो नड्वलानीव गजः परेषां बलान्यमृद्नान्नलिनामवक्त्रः ॥ ५ ॥
अष्टादशः सर्गः ५९७
अष्टादशः सर्गः ५९७
अन्वयः—अनलौजाः नलाभिधानः तस्य तनयः तदन्ते वंशश्रियं प्राप यः नलिनाभवक्त्रः गजः नड्वलानीव परेषां बलानि अमृद्नत् ।
तस्येति । अनलौजाः वह्नितेजाः नलाभिधानो नलाख्यस्तस्य निषधस्य तनयस्तस्य निषधस्यान्तेऽवसाने वंशश्रियं राज्यलक्ष्मीं प्राप । नलिनाभवक्त्रो यो नलः गजो नड्वलानि नडप्रायस्थलानीव । “नडशादाड्वलच्” इति ड्वलच्प्रत्ययः । परेषां बलान्यमृद्नान्ममर्द ।
भाषार्थ—निषध के पीछे अग्नि के समान तेजस्वी उनके पुत्र राजा नल हुए । वह्नि के समान सुन्दर तेज वाले राजा नल ने शत्रुओं के बल को वैसे ही तोड डाला जैसे हाथी नरकट के गट्ठे को तोड़ डालता है ॥ ५ ॥
नभश्चरैर्गीतयशाः स लेभे नभस्तलश्यामतनुं तनूजम् ।
ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभोमासमिव प्रजानाम् ॥ ६ ॥
अन्वयः—नभश्चरैः गीतयशाः स नभस्तलश्यामतनुं नभः शब्दमयेन नाम्ना ख्यातं नभोमासमिव प्रजानां कान्तं तनूजं लेभे ।
नभ इति । नभश्चरैर्गन्धर्वादिभिर्गीतयशाः स नलो नभस्तलश्यामतनुं नभःशब्दमयेन नाम्ना ख्यातम् । नभःशब्दसंज्ञकमित्यर्थः । नभोमासमिव श्रावणमासमिव प्रजानां कान्तं प्रियं तनूजं पुत्रं लेभे ।
भाषार्थ—वे इतने यशस्वी थे कि आकाश में गन्धर्व लोग उनका यश गाते थे । उन्हें आकाश के समान साँवला नभ नामक पुत्र हुआ, जो लोगों को वैसे ही प्यारा था जैसा सावन का महीना ॥ ६ ॥
तस्मै विसृज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वम् ।
मृगैरजय्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध ॥ ७ ॥
अन्वयः—धर्मोत्तरः प्रभवे तस्मै तदुत्तरकोशलानाम् प्रभुत्वं विसृज्य जरसा उपदिष्टं मृगैः अजय्यं अदेहबन्धाय बबन्ध ।
तस्मा इति । धर्मोत्तरो धर्मप्रधानः स नलः प्रभवे समर्थाय तस्मै नभसे तदुत्तरकोसलानां प्रभुत्वमाधिपत्यं विसृज्य दत्त्वा जरसा जरयोपदिष्टम् । वार्द्धके चिकीर्षितमित्यर्थः । मृगैरजय्यं तैः सह सङ्गतम् । “अजय्यं सङ्गतम्” इति निपातः । पुनरदेहबन्धाय पुनर्देहसम्बन्धनिवृत्तये बबन्ध मोक्षार्थं वनं गत इत्यर्थः । अदेहबन्धायेत्यत्र प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते ।
भाषार्थ—धर्मात्मा नल ने उस नभ नामके पुत्र को उत्तर कोशल का राज्य