रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
( ९ ) गुटिकया अदृष्टत्वलाभः वर्षसहस्रजीवनञ्च २६३-२६६ रसभस्मरसायनं . . २६६-२७२ त्रयोदशः पटलः—द्रुतिबन्धनः . २७४-२८० वङ्गजारणा, त्रिविधबन्धनम् . २७४-२७६ द्रुतिबन्धः, द्रुतीनां मेलनम् . २७६-२८० चतुर्दशः पटलः—वज्रबन्धः . २८१-३१४ वज्रबन्धः (रसस्य) . . २८१-२८३ वज्रबन्धान्तरं (रसस्य) . . २८३-२८५ द्रव्यसंस्कारः . . २८५-२८६ वज्रभस्म . . . २८७-२८८ वङ्गभस्म . . . २८८-३०३ सिद्धरसः . . . ३०३-३०४ द्रुतबन्धः . . ३१२-३१४ पञ्चदशः पटलः—महारसोपरसलोहबन्धः ३१५-३५३ वैक्रान्तेन (महारसनाम्नापि ख्यातेन) रसबन्धः —वैक्रान्तबन्धः ३१६-३२४ वैक्रान्तसत्त्वेन रसबन्धः . ३१६ श्वेतवैक्रान्तेन ,, . . ३१८ रक्तवैक्रान्तेन ,, . . ३१८ कृष्णवैक्रान्तेन ,, . . ३२०
( १० ) पीतवैक्रान्तेन रसबन्धः . ३२१ नीलवैक्रान्तेन ,, . . ३२२ अयस्कान्तेन (महारसनाम्रापि ख्यातेन) —कान्तबन्धः . ३२४-३२५ चपलेन ,, —चपलबन्धः ३२५-३२७ गन्धकेन ,, —गन्धकबन्धः ३२७-३३५ तालकेन ,, —तालकबन्धः ३३५-३३६ कुनव्या (मनःशिलया) बन्धः ३३६-३३८ लोहैः माक्षिकादिभिश्च ,, ३३८-३५३ षोडशः पटलः—रसरञ्जनः . ३५४-३७२ रसद्रावणं . . ३५४-३५६ वज्रादिरत्नानां जारणं द्रावणञ्च . ३५६-३५८ जीर्णरसस्य कापालिरञ्जनम् . ३५८-३६० ,, नानाविधरञ्जनप्रकाराः ३६०-३७२ सप्तदशः पटलः—लोहवेधः . ३७३-३८६ रसस्य सारणं, प्रतिसारणम्, अनुसारणञ्च ३७३-३७४ रसस्य क्रामणं . . ३७४-३७५ हेमतारदलानि . . ३७५-३८७ तत्र हेमदलं . . ३७५-३८६ तथा तारदलं . . ३८६-३८७
( ११ ) रसवेधः . . . ३६७-३८८ उद्घाटः, रससिद्धनागः . . ३८८-३६६ अष्टादशः पटलः— . . ४००-४३६ देहशोधनं . . . ४००-४०१ आरोटसेवनम् . . . ४०१-४०२ श्वेतीकरणम् . . . ४०२-४०३ वज्रजीर्णरसभक्षणम् . . ४०३-४०४ लोहजीर्णभस्मरसभक्षणम् . . ४०४-४०५ हेमजीर्णभस्मरसभक्षणं वैक्रान्तजीर्णभस्मरसभक्षणञ्च . . ४०५-४०६ हेमादिजीर्णभस्मरसभक्षणफलम् . ४०६-४०९ रसवीर्यरक्षणोपायाः . . ४१०-४११ वज्रभस्मरसायनम् . . ४११-४१४ वज्रमत्त्वरसायने उपचारः . ४१४-४१५ मन्त्रहोमस्य दुर्गतिः . . ४१५-४१६ रसस्य क्रामणोपायाः . . ४१७-४१८ रससेवनकाले वर्जनीयानि . ४१८-४२० तत्काले सेवनीयानि . . ४२०-४२१ रसाजीर्णे अनिष्टानि . . ४२१-४२२ देहवेधः—त्वग्वेधः, मांसवेधः, रक्तवेधः,
( १२ ) अस्थिवेधः, मज्जवेधः, नाड़ीवेधः, धातुवेधः, कवचवेधः . ४२३-४२४ एतेषां वेधानां फलानि . ४२३-४२४ तक्रादिमर्दनम् . . ४२४ अजरामरत्वलाभः . . ४२५ वज्राङ्गसुन्दरीगुटिका . . ४२७ सर्व्वसिद्धिदा गुटिका . . ४२८ रसशास्त्रज्ञानविहीनस्य निन्दा . ४२६ अन्यत् गोलबन्धनम् . . ४३० अन्यः वज्रबन्धः . . ४३२ बद्धरसप्रभावकथनम्—तप्तकटाहे रससिद्धस्य पुंसः देहक्षेपणं, तत उत्थानम् , दिव्य- कन्यागमनम् , तया सह सिद्धलोके गमनम् , तत्र सर्व्वसुखभोगः, प्रलये विलयश्च . . . ४३३-४३६ ———
रसार्णवम् पारदादिरसोपरसविषयकं तन्त्रम् श्रीलश्रीयुक्त- वङ्गदेशीयासियाटिकसमितेरनुज्ञया कलिकाता-प्रेसिडेन्सीकलेजे रसायनोध्यापकेन डि. एस्सि.—पि. एच्. डि.—उपाधिद्वयधारिणा हिन्दुरसायनेतिहासप्रणेत्रा श्रीप्रफुल्लचन्द्र-रायेण तथा तस्यैव कलेजस्य संस्कृताध्यापकचरेण श्रीहरिश्चन्द्र-कविरत्नेन संकलितं संशोधितञ्च । कलिकाता-राजधान्याम् धौपवर्त्मनि २७ संख्यक-भवने सत्ययन्त्रे श्रीचितप्रसन्नशोपाध्यायेन मुद्रितम् पार्कवर्त्मस्थ-५७-संख्यकभवनात् प्रकाशितञ्च । शकाब्दाः १८३२ । Title Page of the first edition of Rasārṇava
The provided image is completely blank and contains no visible text to transcribe. Please upload a clear image of the page.
रसार्णवम् ।
ॐ श्रीगणेशाय नमः । प्रथमः पटलः । यस्मिन् सर्व्वं यतः सर्व्वं यः सर्व्वं सर्व्वतश्च यः । यश्च सर्व्वमयो नित्यं तस्मै सर्व्वात्मने नमः ॥ १ ॥¹ कैलासशिखरे रम्ये नानारत्नविभूषिते । नानाद्रुमलताकीर्णे गुप्तसंबन्धवर्जिते ॥ २ ॥ देवदेवं सुखासीनं नीलकण्ठं त्रिलोचनम् । प्रणम्य शिरसा देवी पार्व्वती परिपृच्छति ॥ ३ ॥ श्रीदेव्युवाच । देवदेव महादेव काल कामाङ्गदाहक । कुलकौल-महाकौल-सिद्धकौलादिनाशन ॥ ४ ॥
(1) The portion from the first śloka to the first hemistich of the 54th is wanting in the Bíkánír MS. (B). Ślokas from first to the 43rd are wanting in the Madras MS. (M). Rasārṇava, Vol. I. Fasc. I.
२ रसार्णवे त्वत्प्रसादाच्छ्रुतं सर्व्वमशेषमवधारितम् । यदि तेऽहमनुग्राह्या यद्यहं तव वल्लभा ॥ ५ ॥ सूचिता सर्व्वतन्त्रेषु या पुनर्न प्रकाशिता । जीवन्मुक्तिरियं नाथ कीदृशी वक्तुमर्हसि ॥ ६ ॥ श्रीभैरव उवाच । साधु साधु महाभागे साधु पर्व्वतनन्दिनि । साधु पृष्टं त्वया देवि भक्तानां हितकाम्यया ॥ ७ ॥ अजरामरदेहस्य शिवतादात्म्यवेदनम् । जीवन्मुक्तिर्महादेवि देवानामति दुर्लभा ॥ ८ ॥ पिण्डपाते च यो मोक्षः स च मोक्षो निरर्थकः । पिण्ड तु पतिते देवि गर्दभोऽपि विमुच्यते ॥ ९ ॥ यदि मुक्तिर्भवेत्क्षोभे किं न मुञ्चन्ति¹ गर्दभाः । अजाश्च वृषभाश्चैव किन्न मुक्ता गणाम्बिके ॥ १० ॥ तस्मात् संरक्षयेत्² पिण्डं रसेन्द्रैव रसायनैः
प्रथमः पटलः । ३ शून्यपापो मन्त्रयाजी^१ न पिण्डं धारयेत् क्वचित् । देवानामपि देवेशि दुर्लभं पिण्डधारणम् ॥ १४ ॥ किं पुनर्म्मानुषाणान्तु धरणीतलवासिनाम् । धर्म्मे नष्टे कुतो धर्म्मी धर्म्मि नष्टे कुतः क्रिया ॥ १५ ॥ क्रियानष्टे^२ कुतो योगः योगे नष्ट कुतो गतिः । गतिनष्टे^२ कुतो मोक्षो मोक्षे नष्टे न किञ्चन ॥ १६ ॥ (तेन पिण्डो महाभाग रक्षणीयः प्रयत्नतः ।)^३ श्रीदेव्युवाच । जीवन्मुक्तिस्वरूपं तु देवदेव श्रुतं मया । तत्प्रत्युपायं मे ब्रूहि यद्यस्ति करुणा मयि ॥ १७ ॥ श्रीभैरव उवाच । कर्म्मयोगेन देवेशि प्राप्यते पिण्डधारणम् । रसश्च पवनश्चेति कर्म्मयोगो द्विधा स्मृतः^४ ॥ १८ ॥ मूर्च्छितो हरते व्याधिं^५ मृतो जीवयति स्वयम् । बद्धः खेचरतां कुर्य्यात् रसो वायुश्च भैरवि ॥ १६ ॥^६ ज्ञानान्मुक्तः सुरेशाने ज्ञानं पवनधारणात् । (1) K reads शून्यपायामन्त्रजायी, which seems to be grammatically incorrect. (2) क्रियानष्टे - क्रियानाशे , गतिनष्टे - गतिप्रवृत्तौ [तु किञ्चन] K reads गती नष्टे, which is inc. (3) K adds the line within brackets without affixing a serial number to it. (4) स. द. सं. and रसकण्ठ- भरण read मृत. (5) स. द. सं. reads हरति व्यथान्. (6) The 18th and the 19th ślokas are quoted in स. द. सं.
५ रसार्णवे तत्र देवि स्थिरं पिण्डं यत्र स्थैर्ये रसः प्रभुः ॥ २० ॥ अचिराज्जायते देवि शरीरमजरामरम् । मनसश्च यथा ध्यानं¹ रसयोगादवाप्यते ॥ २१ ॥ सत्यं स² लभते देवि ज्ञानं विज्ञानपूर्व्वकम्³ । तस्य⁴ मन्त्राश्च सिध्यन्ति योऽश्नाति⁵ मृतसूतकम् ॥ २२ ॥ यावन्न शक्तिपातस्तु न यावत् पाश⁶कृन्तनम् । तावत्तस्य कुतो बुद्धिः⁷ जायते मृतसूतके ॥ २३ ॥ मद्यमांसरता नित्यं भगलिङ्गेषु ये रताः । तेषां विनष्टबुद्धीनां रसज्ञानं सुदुर्लभम् ॥ २४ ॥ कुलशासनहीनानां सङ्घर्षणमकाङ्क्षिणाम् । न सिध्यति रसो देवि पिबन्ति मृगतृष्णिकाम् ॥ २५ ॥ गोमांसं भक्षयेद्यस्तु पिबेदमरवारुणीम् । कुलोनं⁸ तमहं मन्ये रसज्ञमपरेऽधमाः ॥ २६ ॥ न गर्भेः संप्रदायार्थे⁹ रसो गर्भो विधीयते । तेनायं लभते सिद्धिं न सिद्धिः सूतकं विना ॥ २७ ॥
(1) र. चि. reads समाधानम्. (2) सत्त्वञ्च, a variant in र. चि. (3) र. चि. reads विज्ञान ज्ञानपूर्व्वकम्. (4) सत्य, a variant in र. चि. which is not appropriate here. (5) K reads अश्नुते in the sense of अश्नाति. (6) र. चि. reads शक्ति, which is tautological. (7) र. चि. reads शुद्धिः. (8) अहं तं कुलोनं कुकार्य्यलीनं कदाचारं मन्ये , कुलीनशब्दादुत्पन्नं कौलीनं लोकनिन्दा इत्यर्थः । अन्ये अधमाः त रसज्ञं मन्यन्ते इत्यर्थः । (9) We have adopted the reading in र. चि.
प्रथमः पटलः । ५ यावन्न हरबीजन्तु भक्षयेत् पारदं रसम् । तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥ २८ ॥¹ मद्यमांसरताप्रज्ञा² मोहिताः³ शिवमायया । जल्पन्ति च वयं मुक्ता यास्यामः शिवमन्दिरम् ॥ २९ ॥ पिण्डधारणयोगे च निस्पृहा मन्दबुद्धयः । खण्डज्ञानेन देवेशि रञ्जितं सचराचरम् ॥ ३० ॥ स्वदेहे खेचरत्वं च शिवत्वं येन लभ्यते । तादृशे तु रसज्ञाने नित्याभ्यासं कुरु प्रिये ॥ ३१ ॥ श्रीदेव्युवाच । अवतारं रसेन्द्रस्य माहात्म्यं तु सुरेश्वर । श्रोतुमिच्छामि देवेश वक्तुमर्हसि तत्त्वतः ॥ ३२ ॥ श्रीभैरव उवाच । साधु पृष्टं महाभागे गुह्याद्गुह्यतरं त्वया । अनुग्रहकरं ध्यानं लोकानामुपकारकम् ॥ ३३ ॥ त्वं माता सर्व्वभूतानां पिता चाहं सनातनः⁴ । द्वयोश्च यो रसो देवि महामैथुनसम्भवः ॥ ३४ ॥ स्वैरतः सम्भवाद्देवि⁵ पारदः कीर्त्तितो महः⁶ । (1) र. चि. exactly quotes this śloka. (2) K reads मद्यमांसरता प्रज्ञा, which is inc. (3) K reads मोहिता, which seems to be an error of the scribe. (4) K reads सनातनम्, which is inc. This śloka (34th) is also found in र. चि. (5) K reads स्वरत्सम्भवोद्देवि, which is absurd, being gram. untenable. (6) K reads महा, which is inc.
६ रसार्णवे पारदो गदितो यश्च परार्थं साधकोत्तमैः ॥ ३५ ॥ सूतोऽयं¹ मत्समो देवि मम प्रत्यङ्गसम्भवः । मम देहरसो यस्मात् रसस्तेनायमुच्यते² ॥ ३६ ॥ दर्शनात् स्पर्शनात् तस्य भक्षणात् स्मरणादपि³ । पूजनाच्च प्रदानाच्च⁴ दृश्यते षड्विधं फलम् ॥ ३७ ॥ केदारादीनि लिङ्गानि पृथिव्यां यानि कानि च⁵ । तानि दृष्ट्वा तु यत्पुण्यं तत्पुण्यं रसदर्शनात् ॥ ३८ ॥ चन्दनागुरुकर्पूरकुङ्कुमान्तर्गतो रसः । मूर्च्छितः शिवपूजायां⁶ शिवसान्निध्यसिद्धये ॥ ३९ ॥ भक्षणात् परमेशानि हन्ति पापत्रयं रसः । तथा तापत्रयं हन्ति रोगान् दोषत्रयोद्भवान् ॥ ४० ॥ दुर्लभं ब्रह्मनिष्ठातैः⁷ प्राप्यतं परमं पदम् । हृद्व्योमकर्णिकान्तःस्थ-रसेन्द्रस्य महेश्वरि ॥ ४१ ॥⁸ स्मरणान्मुच्यते⁹ पापैः सद्यो जन्मान्तरार्जितैः ॥ ४२ ॥ स्वयंभूलिङ्गसाहस्रैः¹⁰ यत्फलं सम्यगर्च्यनात् । (1) स. द. सं. reads सुतोऽयम्. (2) K reads रसमेनं समुच्यते, which is gram. inc. We have adopted the variant in स. द. सं. (3) र. चि. reads स्मरणात् प्रिये. (4) स. द. सं. reads पूजनात् रसदानाच्च. This variant exactly agrees with that in र. चि. (5) स. द. सं. and र. चि. read कानिचित्. (6) शिवपूजा सा, a variant in र. चि. (7) र. चि. reads ब्रह्मविष्ण्वाद्यैः. (8) The reading in र. चि. is as follows :—तद्वोमकर्णिका- न्तःस्थं रसेन्द्रं परमेश्वरि. (9) स्मरन् विमुच्यते, a variant in र. चि. (10) K reads साहस्तैः,;which is inc.
प्रथमः पटलः । ७
तत्फलं कोटिगुणितं रसलिङ्गार्च्चनाद्भवेत् ॥ ४३ ॥ अधमः खगवादस्तु¹ बिलवादस्तु मध्यमः । उत्तमो मन्त्रवादस्तु रसवादो महोत्तम² ॥ ४४ ॥ मन्त्रतन्त्रपरिज्ञाने रसयोगस्य³ दूषकाः⁴ । प्रयान्ति नरकं⁵ सर्व्वे कृत्वा सुकृतसञ्चयम् ॥ ४५ ॥ रसविद्या परा विद्या त्रैलोक्येऽपि सुदुर्लभा⁶ । भुक्तिमुक्तिकरी यस्मात् तस्माद्धेया गुणान्वितैः ॥ ४६ ॥ अस्तीति भाषते कश्चित् कश्चिन्नास्तीति भाषते । आस्तिके तु भवेत्सिद्धिः⁸ तस्य सिद्ध्यति भूतले ॥ ४७ ॥ नास्तिकेनानुभावेन⁹ नास्ति नास्तीति यो वदेत् । तस्य नास्ति प्रिये सिद्धिर्जन्मकोटिशतैरपि ॥ ४८ ॥ ब्रह्मज्ञानिन मुक्ताऽसौ पापी यो¹⁰ रसनिन्दकः ।
(1) M reads खन्यवादस्तु. रससार reads शून्यवाद in place of खगवाद, and क्षेत्रवाद in place of बिलवाद. (2) रसवादात्तमोत्तमः, a variant in M, which is gram. inc. (3) रसो योगस्य, a variant in K, which seems to be inc. M reads रसवादस्य. (4) K reads दूषकः, which is inc. M reads भूषकाः, which deteriorates the sense. (5) K reads रसकं, which has no sense here. (6) M reads च दुर्लभा, which agrees with र. चि. (7) मुक्ति- भुक्तिकरी यस्मात् तस्माज्ज्ञेया गुणान्विता is the reading in र. चि. (8) अस्तीति भाषते यंस्तु, a variant in M. (9) नास्तिकेन तु वादेन, a variant in M. (10) M reads पापीयान्. सोऽयुक्तो यः पापी, a variant in र. चि.
८ रसार्णवे नाहं त्राता भवे तस्य¹ जन्मकोटि²शतैरपि ॥ ४९ ॥ श्वानोऽयं जायते देवि यावत्³ जन्मसहस्रकम् । त्रिकोटिजन्मलक्षाणि मार्जारो जायते रसात् । रासभो लक्षजन्मानि लक्षजन्मानि वायसः ॥ ५० ॥⁴ कृमिको लक्षजन्मानि कुक्कुटो⁵ जन्मलक्षकम् । गृध्रको लक्षजन्मानि यः पापी रसनिन्दकः ॥ ५१ ॥ आलापं गात्रसंसर्गं यः कुर्याद्रसनिन्दकैः । यावज्जन्मसहस्रं तु स भवेद्दुःखपीडितः ॥ ५२ ॥⁶ रसवीर्यविपाके च सूतक⁷स्त्वमृतोपमः । तन जन्मजराव्याधीन्⁸ हरते सूतकः प्रिये ॥ ५३ ॥ गुरुमाराधयेत् पूर्वं विशुद्धेनान्तरात्मना⁹ । संप्रदायं प्रयच्छन्ति¹⁰ गुरौ तुष्टे मरीचयः ॥ ५४ ॥
(1) K reads भवेत्तस्य ; so also र.चि. M reads भवेत्तस्य. Both are gram. inc. The correct reading is either भवाम्यस्य or भवे तस्य. (2) K reads जन्मकोटी. (3) श्वान्यां जायते सोऽपि याति, a variant in M. (4) Slokas 50—52 are wanting in M. The sense of रसात् is not accurate. (5) कुकुटः, a variant in K, is palpably an error of the scribe. (6) The hemistich as quoted in र. चि. is as follows :—यावज्जन्मसहस्राणि स भवेत् पापपीडितः. (7) रसो वीर्यो विपाके चा पारद, a variant in M, which is gram. inc. (8) M reads जन्मजराव्याधीः. (9) This charaṇa is wanting in M. (10) M reads संप्रदायमपृच्छन्ति, which has no sense here.
ाणि-> wait, line 8 isरसकर्माणिorरसकर्म्माणि? Look at line 8: रसकर्म्माणि! It also has र्म्म! Wait, what about रसार्णवं? र्ण(r-ṇ). दुर्ल्लभम्->र्ल्ल`!
* Let's check `मूढ़चेतनः`:
Is it `मूढ़` (with ढ़) or `मूढ` (with ढ)?
In the print: `मूढ़` has a dot under `ढ`? Yes, look at `मूढ़चेतनः`: there is a tiny nukta or it's `ढ`?
Wait, in line 13: `मूढ़चेतसा`. It clearly has a dot under `ढ`: `ढ़`!
Yes, in Hindi/Bengali presses, Vedic/Sanskrit texts often printed `ढ` as `ढ़` or `ढ`. Let's look at the letter: `मूढ़`. We can write `मूढ़` as printed.
* Let's check line 5:
`सिद्धोपायोपदेशोऽयमुभयोर्भोगमोक्षदः ।⁵`
Wait, is there a danda before footnote 5? Yes: `।⁵`.
* Line 6:
`रसार्णवं महातन्वं⁶मिदं परमदुर्ल्लभम् ॥ ५७
१० रसार्णवे इति श्रीपार्व्वतीपरमेश्वरसंवादे¹ रसार्णवे रससंहितायां² तन्त्रावतारो नाम³ प्रथमः पटलः ॥१॥ — द्वितीयः पटलः । ❖ श्रीदेव्युवाच । रसोपदेशदाता च¹ कथं स्याद्वद मे² प्रभो । शिष्यश्चैव कथं³ देव रसानुष्ठानतत्परः ॥ १ ॥ श्रीभैरव उवाच । निस्पृहो निरहङ्कारो लोभमायाविवर्जितः । कुलमार्गरतो नित्यं गुरूपूजारतश्च यः ॥ २ ॥⁴
(1) श्रीपार्व्वतीपरमेश्वरसंवादे is wanting in M. (2) रससंहितायां is wan- ting in M. (3) B reads रसावतारो नाम. — (1) K reads रसोपरसदाता. We have adopted partly the reading in B and that in M. (2) कथं मम वद, a variant in B and M. (3) K reads रसं, which is senseless. (4) B reads षटकपूजा instead of गुरूपूजा. This śloka is wanting in M.
द्वितीयः पटलः । ११ दान्तः शिष्योपदेशज्ञः¹ शक्तिमान् गतमत्सरः² । धर्म्मज्ञः सत्यवाक् दक्षः शीलवान् गुणवान् शुचिः ॥ ३ ॥ अनेकरसशास्त्रज्ञो रसमण्डपकोविदः ।³ रसदोषाविधानज्ञो यन्त्रौषधि⁴महारसान् ॥ ४ ॥ रागसंख्यां⁵ वीजकलां द्वन्द्व⁶मेलापनं विड़म् । रञ्जनं⁷ सारणं तैलं⁸ दलानि क्रामणानि च⁹ ॥ ५ ॥ वर्णोत्कर्षं¹⁰ मृदुत्वञ्च जारणां बालवङ्गयोः¹¹ । खेचरीं भूचरीं चैव यो वेत्ति स गुरुर्मतः¹² ॥ ६ ॥ देशकालक्रियाभिज्ज्ञो¹³ दयादाक्षिण्यसंयुतः । लोभमायाविनिर्मुक्तो मन्त्रानुष्ठानतत्परः ॥ ७ ॥ सामुद्रलक्षणोपेतो गम्भीरो गुरुवत्सलः ।
(1) शिष्योविशेषशः, a variant in B. शिष्योविनीतश्च, a variant in M. Both are inc. (2) K reads विमत्सरः, which breaks the metre. We have adopted the reading in M. (3) The portion from धर्म्मज्ञः to कोविदः is wanting in M. B reads शिलवान्, which is inc. (4) B reads द्विषा. K reads मन्त्रौषध. Both are inc. (5) रागसंख्यां, a variant in K. (6) B reads द्विजकलां, which is inc. K reads द्वन्द, which is a palpable mistake. (7) M reads रञ्जकं. (8) तैलञ्च, a variant in K. (9) K reads बलानिक्रुम- णानि च. दलानीकामणानि च, a variant in M, which seems to be inc. (10) K reads वयोत्कर्षं, which is gram. inc. (11) जारणाद्वलवङ्गयो, a variant in K. (12) B has खेचरिं, and भूचरिं, which are inc. खेचरीश्चैव यो वेत्ति भूचरौं स गुरुर्भवेत्, a variant in M. (13) देशकालक्रियाभिश्च, a variant in K, which cannot be reconciled without the word युक्तः to be understood.
१. पटल १-५: रसशाला निर्माण, यन्त्र, मूषा, कोष्ठिका एवं पारद-स्वरूप विचार
१२ रसार्णवे देवाग्नि¹योगिनीचक्र-कुलपूजारतः सदा । शिष्यो विनीतस्तन्त्रज्ञः सत्यवादी दृढव्रतः ॥ ८ ॥² ये नराः³ कुम्भकुद्दाल-ध्वजशंखादिलाञ्छितैः⁴ । करै⁵रधिष्ठिता देवि योज्यास्ते निधिसाधने⁶ ॥ ९ ॥ बलवन्तो महासत्त्वाः⁷ कृष्णरक्त⁸विलोचनाः । वक्रघोणाः⁹ सदा¹⁰ क्रूराः प्रशस्ता बिल¹¹साधने ॥ १० ॥ निर्मांस¹²मूर्द्धपिण्डोकान्¹³ रक्तकेशान् गतालसान्¹⁴ । कठिनानुष्णपादांश्च¹⁵ धातुवादे¹⁶ नियोजयेत् ॥ ११ ॥ आदौ परीक्षयेद्देवि साधकान्¹⁷ सुसमाहितान् । ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चानुक्रमेण तु¹⁸ ॥ १२ ॥ जितेन्द्रियाः क्लेशसहा नित्योद्यमसमन्विताः ।
(1) K reads देवान्धौ, which is inc. (2) K reads सिद्धो instead of शिष्यो. The portion beginning from लोभमायाविनिर्मुक्तो and ending in सत्यवादी दृढव्रतः is not to be found in M. (3) K reads क्रूरा (without विसर्ग), which is absurd and inc. (4) B reads लाञ्छनैः. K reads लचणैः. (5) M reads नरैः, which is inappropriate. (6) निषिदर्शने, a variant in M. (7) K reads महासाधु, which is gram. inc. (8) B reads कृष्णारक्त. (9) K reads वक्रघोराः. (10) सवा, a variant in K, which is meaningless. (11) K reads किल, which is a mere expletive. (12) K reads निर्मीसा. (13) B reads मूर्द्धपिण्डोकं. M reads मूर्द्धफलिकान्. (14) K reads रक्तकेशाङ्गनासिकाः. (15) K reads कठिनात्युष्णपादाय. कठि- नानुष्ण...श्च, an incomplete variant in M. (16) K reads धातोर्वादे. (17) M reads साधवान्, which is gram. inc. (18) ब्राह्मणं क्षत्रियं वैश्यं शूद्र चानुक्रमेण तु, a variant in K. M has च instead of तु.
द्वितीयः पटलः । १३ शूराश्च कृतविद्याश्च प्रशस्ताः¹ साधकाः प्रिये ॥ १३ ॥ रसदीक्षाविहीना ये² प्रोक्तलक्षणवर्जिताः । विप्लावकाः पापरता³ वर्जयेत्तान्⁴ प्रयत्नतः ॥ १४ ॥ दुश्चारिणी दुराचारा निष्ठुरा कलहप्रिया । बह्वाशिनी⁵ च दुश्चित्ता कोटराक्षी च निर्दया । रसनिन्दाकरी या च तां नारीं परिवर्जयेत् ॥ १५ ॥ ईदृशीभिर्वरारोहे⁶ सम्पूर्णं क्षितिमण्डलम् ।⁷ न तादृशी⁸ भवेन्नारी यादृशी रसबन्धकी ॥ १६ ॥⁹ काकिणी कोकणी नारी तथैव काञ्चिकाचिनी ।¹⁰ कृष्णपक्षे ऋतुमती सा नारी काकिणी स्मृता ॥ १७ ॥ उभयपक्षे ऋतुमती सा नारी कोकणी मता¹¹ ॥ १८ ॥ शुक्लपक्षे ऋतुमती सा नारी¹² काञ्चिकाचिनी ॥ १६ ॥ (1) K reads विज्ञेयाः. The portion commencing from the 14th śloka and ending in the first hemistich of the 45th is wanting in M. (2) K reads नरा दीक्षाविहीनाश्च. (3) K reads अवैष्णवावान्यायरताः. (4) K reads वर्जये तान्, which is gram. inc. (5) B reads बकाशनी. (6) K reads इदृशी, which is palpably inc. (7) K has सम्पूर्णक्षितिमण्डले. (8) K reads तादृशी च. (9) Cf. रसरत्नसमुच्चय, Chap. VI. ślokas 34—38. (10) काकणी कांचिकाचीनि कोकणी, a variant in K, which we have not adopted for its deficiency in words and defect in metre. र. र. स. reads कालिनी in lieu of काकिणी. (11) उभयपक्षे ऋतुमतौ सा कौकणी, a variant in K, where some words are wanting. (12) This word is not found in K. The ślokas 17—19 are not found in B.
१४ रसार्णवे नवयौवनसम्पन्ना सुरूपा चारुहासिनी । सूक्ष्मकेशा तु या नारी चोत्पलाहारप्रिया सदा ॥ २० ॥ प्रियालापकरो¹ नित्यं शिवशास्त्रकथाप्रिया । पद्माकारं² मुखं यस्या दृष्टिरिन्दीवराकृतिः ॥ २१ ॥ दशना वज्रसदृशाः प्रवालसदृशोऽधरः³ । यस्याः पयोधरौ देवि तुङ्गपीनौ समावुभौ ॥ २२ ॥ अश्वत्थपत्रसदृशी योनो यस्या भगः समः ।⁴ यत्पादौ मांसलौ स्निग्धौ वर्तुलावर्त्तरौमकौ⁵ ॥ २३ ॥ श्यामा च मध्ये क्षामा च⁶ तन्वौ भक्तिपरा⁷ शिवे । पद्मिनी सा तु विज्ञेया प्रसन्ना⁸ मृगलोचना ॥ २४ ॥ पूर्णिमायाममायां वा पक्षे पक्षे रजस्वला । षड्भेदा काकिणी नाम्ना पूर्व्वप्रोक्ता रसप्रदा ॥ २५ ॥⁹ यस्य तुष्टो महादेवस्तस्य सिद्धो¹⁰ रसायने । तयैव¹¹ देवदेवेशि रसकर्माणि कारयेत् ॥ २६ ॥ (१) प्रियालापकरि, a variant in K, which is inc. (२) K has सदा कमलं. (३) B reads प्रवालसदृशाधरा. K has दशनं वज्रसदृशं प्रवालसदृशाधर, which seems to be inc. (४) अश्वत्थपत्रसदृशयोनिदेशसुशोभिता, a variant in र. र. स. (५) वर्तुलावेकरोमकौ, a variant in B. (६) मध्यसूक्ष्मा च, a variant in K. (७) भक्तीपरा, a variant in K, which is inc. (८) B reads सततं. (९) The 25th śloka is not found in B. (१०) B reads तस्य सिध्यति तादृशा. K reads सिद्धि, which is gram. inc. (११) K reads तथैव.