भारतकोश
संग्रह पर लौटें

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

१४ रसार्णवे नवयौवनसम्पन्ना सुरूपा चारुहासिनी । सूक्ष्मकेशा तु या नारी चोत्पलाहारप्रिया सदा ॥ २० ॥ प्रियालापकरो¹ नित्यं शिवशास्त्रकथाप्रिया । पद्माकारं² मुखं यस्या दृष्टिरिन्दीवराकृतिः ॥ २१ ॥ दशना वज्रसदृशाः प्रवालसदृशोऽधरः³ । यस्याः पयोधरौ देवि तुङ्गपीनौ समावुभौ ॥ २२ ॥ अश्वत्थपत्रसदृशी योनो यस्या भगः समः ।⁴ यत्पादौ मांसलौ स्निग्धौ वर्तुलावर्त्तरौमकौ⁵ ॥ २३ ॥ श्यामा च मध्ये क्षामा च⁶ तन्वौ भक्तिपरा⁷ शिवे । पद्मिनी सा तु विज्ञेया प्रसन्ना⁸ मृगलोचना ॥ २४ ॥ पूर्णिमायाममायां वा पक्षे पक्षे रजस्वला । षड्भेदा काकिणी नाम्ना पूर्व्वप्रोक्ता रसप्रदा ॥ २५ ॥⁹ यस्य तुष्टो महादेवस्तस्य सिद्धो¹⁰ रसायने । तयैव¹¹ देवदेवेशि रसकर्माणि कारयेत् ॥ २६ ॥ (१) प्रियालापकरि, a variant in K, which is inc. (२) K has सदा कमलं. (३) B reads प्रवालसदृशाधरा. K has दशनं वज्रसदृशं प्रवालसदृशाधर, which seems to be inc. (४) अश्वत्थपत्रसदृशयोनिदेशसुशोभिता, a variant in र. र. स. (५) वर्तुलावेकरोमकौ, a variant in B. (६) मध्यसूक्ष्मा च, a variant in K. (७) भक्तीपरा, a variant in K, which is inc. (८) B reads सततं. (९) The 25th śloka is not found in B. (१०) B reads तस्य सिध्यति तादृशा. K reads सिद्धि, which is gram. inc. (११) K reads तथैव.

द्वितीयः पटलः । १५ तस्य हि निर्मला बुद्धिर्निश्चिता रससाधने । तस्माद्गुरुश्च शिष्यश्च पूर्वोक्तः सिद्धिभाग्भवेत् ॥ २७ ॥ श्रीदेव्युवाच । ईदृशैर्लक्षणैः¹ नारीं कुतः प्राप्नोति साधकः । यत्र रूपं महादेव लक्षणं नात्र विद्यते ॥ २८ ॥ लक्षणं विद्यते यत्र भावना नात्र विद्यते । अथवा रूपहीनाया रूपं केन प्रवर्त्तते ॥ २९ ॥ लक्षणत्रितयं² कुत्र त्वया दृष्टं महेश्वर । तदेतज्जायते येन तमुपायं वद प्रभो³ ॥ ३० ॥ श्रीभैरव उवाच । शृणु देवि परं गुह्यं यत्सुरैरपि दुर्लभम् । पितुः सदाशिवाज्जातं⁴ जन्म यच्चण्डिकोदरे ॥ ३१ ॥ तासां बुद्धिर्भवेद्देवि निर्मला रससाधने । दापयेत्त्वरितामन्त्रं जपेत्तं⁵ दर्पवर्जिता⁶ ॥ ३२ ॥ लक्षमन्त्रं⁷ जपेद्या तु जायते सा सुलक्षणा । बद्ध्वा तु खेचरीं मुद्रां जपेत् फेट्कारभैरवीम् ॥ ३३ ॥

(1) ईदृशीं लक्षणां, a variant in K, which is gram. untenable. [Here उपलक्षितां is to be understood.] (2) K reads लक्षण त्रितयं. (3) K reads तदुपायं वद मे प्रभो, where the word मे can be left out in order to keep up the metre. (4) The reading in K is gram. inc. : the text runs thus :—पितुः सदाशिवाच्चाद्य सन्तायाश्चण्डिकोदरे. (5) [Here सा is to be understood.] (6) तं जपेद्दर्पवर्जिता is the reading in B. (7) B reads लक्षमात्र.

" or "कं" or "तं"? It is "बं." (baṁ.) with a period.

Wait, look at (8): "(8) K reads" Next line: "ऽभयपरो," Wait! In the text, word 8 is "नयपरो⁸". K reads "ऽभयपरो,"!

Wait, look at (6) and (7): Line : "... (6) K reads यद्-" Line : "भावि. (7) Cf. र. र. स. Chap. VI. ślokas 12—66. (8) K reads" Line : "ऽभयपरो, (9) K reads माहित्यरास्तन प्रच्छन्नं बं."

Wait, let's check line : "hemistich in B :—रसदीक्षां विधायैवं तस्यात् कर्म समाचरेत् । We have rejec-" Wait, "तस्यात्" or "तस्मात्"? Let's look at the word: "तस्यात्" or "तस्मात्"? It is 'त', then 'स्मात्'? Wait, look at the letter: 'स्' + 'म' = 'स्म' or 'स्' + 'य' = 'स्य'? Look at 'तस्यात्': it has 'स्' and 'य': 'स्य'! Wait, or 'स्

द्वितीयः पटलः । १७ कारयेद्विजने स्थाने पशुर्यत्र न विद्यते । सुगुप्ते सुषमे स्थाने सर्व्वबाधाविवर्जिते ॥ ४० ॥ प्राकार¹परिखोपेते कपाटार्गलदक्षते । एकान्ते निर्मले हृद्ये नानापुष्पद्रुमान्विते ॥ ४१ ॥ हंसकारण्डवाकीर्णे चक्रवाकोपशोभिते । दिव्यौषधिगणोपेते सजले श्यामशैलले² ॥ ४२ ॥ कुमुदोत्पलकह्लार कदलीषण्डमण्डिते । चित्रिते³ भवनोद्याने कारयेत् परमेश्वरि ॥ ४३ ॥ तन्मध्ये देवदेवेशि मत्तवारणसंयुतम्⁴ । वातायनसमोपेतमूर्द्धनिर्गमिधूमकम्⁵ ॥ ४४ ॥ रक्त⁶पताकासंयुक्तं सज्जोपकरणं तथा । प्रविभक्तौषधितुषा⁷काष्ठारख्योत्पलालयम्⁸ ॥ ४५ ॥ समालिखितदिग्देवं⁹ समर्चितविनायकम्¹⁰ । (1) K reads प्रकार, which seems to be an error of the scribe. (2) K reads स्यात् ससाशले, wherein the first word (स्यात्) is redundant. (3) B reads विम्भूते. (4) यन्त्रोद्धारं तु कारयेत्, a variant in K, which seems to be unconnected. (5) K reads निष्काम instead of निर्गामि. (6) B reads रक्ता. K reads रक्षा, which is inc. (7) K reads प्रविभक्तौषधीरुपं, wherein रुप has no meaning. (8) काष्ट बन्योत्पला- लयं, a variant in K, wherein the word काष्ट is an error of the scribe. काष्ठारख्योपलायन, a variant in M, wherein some of the terms are inc. (9) This śloka (46th) is wanting in B. K reads दिग्गवस्रं, which has no clear meaning. (10) M reads विनाकम्, which is a palpable error of the scribe. 3 Asiatic Society, Calcutta Acc. No. B2609 Date 19.6.86.

१८ रसार्णवे प्रतिष्ठितंसुमेशाभ्यां¹ लोकपालैश्च रक्षितम् ॥ ४६ ॥ निर्मापयेदेकतलं द्वितलं वापि मण्डपम्² । अथ पक्षे सिते देवि चन्द्रताराबलान्विते³ ॥ ४७ ॥ पुष्ये तिथौ मुहूर्ते च⁴ लग्ने सौम्यग्रहेक्षिते । स्नातः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥ ४८ ॥ मधुसर्पिर्दधिक्षीरतिलैः संपूज्य बालिकाः⁵ । कपिलागोमयालिप्ते हिरण्यकलसाहते ॥ ४९ ॥⁶ यवसिद्धार्थकास्तीर्णे⁷ गन्धमाल्योपशोभिते । तत्रेष्टिकाभिः रचिते⁸ करपीठे सुरेखरे⁹ ॥ ५० ॥ शिलापट्टं समुत्कीर्य्य शिलापट्टार्गलं प्रिये । न्यासं रसाङ्गुष्ठेनैव कृत्वाङ्गुलिहृदादिषु¹⁰ ॥ ५१ ॥ रसलिङ्गं न्यसेत्तत्र हेम्ना त्र¹¹ सहितं प्रिये । (१) प्रतिष्ठितोमामद्देश, a variant in M, which breaks the metre. (२) B reads मडलं. M reads मष्टपम्, which is an error of the scribe. (३) चन्द्रताराबले सति, a variant in B and K. We have adopted the reading in M. (४) पुष्यतीर्थे मुहूर्त्तं तु, a variant in K, which seems to be unconnected. (५) M reads पालकः. (६) The portion from स्नातः to कलसाहते is wanting in M. (७) B reads यष सिद्धार्यका- स्तीर्थे ; M reads यवसिद्धावकास्तीर्णे ; both the readings seem to be erroneous. (८) तत्रेष्टकाभिरवचिते, a reading in B. तत्रैष्टकाभिः खचिते, a reading in M. (९) K reads कारदिसु. करपीठे सुरंधरीम्, a variant in M, which has no clear sense. (१०) न्यासाङ्गनेव कर्त्तव्याः साङ्गुलीहृदयादिषु, a variant in K. कृताङ्गलिमुतादिषु, a reading in M, which seems to be erroneous. (११) K reads पार्श्वतो.

द्वितीयः पटलः । १८ ॐ क्रौं श्रीं¹ सूतराजस्य मूलमन्त्र उदाहृतः ॥ ५२ ॥ तस्मिन् रसाङ्कुशीं देवीं² मूलेनावाहयेत्प्रिये । चतुरस्रे तु दिक्पालान्³ पूजयित्वा बहिः क्रमात् ॥ ५३ ॥ नन्दिनञ्च महाकालं भृङ्गि्रीटं महाबलम्⁴ । कुम्भकर्णञ्च सुग्रीवं भृङ्गोकञ्च⁵ दृढायुधम्⁶ ॥ ५४ ॥ द्वारे चतुष्टये विन्यस्य पूजयेद्दक्षवामयोः । शक्रं पूर्वेऽभि⁷संपूज्य स्कन्दमाग्नेयगोचरे⁸ ॥ ५५ ॥ दक्षिणस्यां ततो रुद्रं⁹ पवनं नैर्ऋते तथा¹⁰ । शिवं पश्चिमभागे तु पावकं वायवे न्यसेत् । उमामुत्तरभागे तु व्यापकं चेशगोचरे¹¹ ॥ ५६ ॥ लेपिका क्षेपिका चैव चारिका.........जया तथा¹² । लोहटी बन्धकारी च भूचरी मृत्युनाशिनी¹³ ॥ ५७ ॥ विभूतिः खेचरी¹⁴ चैव दश दूत्यः क्रमेण च¹⁵ ।


(१) चौं यां क्रौं, a variant in M. (२) B reads रसाङ्गुशां. M reads रसाङ्गुशं देवी, which is grammatically inc. (३) चतुरः श्रेष्ठदिकपालान्, a variant in M. (४) M reads मनोबलं. (५) B reads भङ्गोकञ्च. M reads मृगादृञ्च. (६) K reads सुधायुधम्, which has no clear sense. (७) B reads पूर्वेऽभि. M reads युक्त पूर्वे च. (८) B reads ऽमाचरम्. (९) K reads भद्र. (१०) K reads यजेत्. (११) B reads चेत् समाचरेत्. (१२) B has क्रामिका रञ्जिका तथा. K has लेपिकां क्षेपिकां चैव रञ्जकां रन्धिनीं तथा. (१३) लोहटीं बन्धकारीं च भूतमृत्युविनाशिनीं, a variant in K. (१४) विभूतीं खेचरीं, a variant in K. (१५) दशदूत्यक्रमेण च, a reading in M, which is grammatically inc.

२० .रसार्णवे पूज्यास्त्वष्टदले¹ पद्मे जर्द्धाधस्तु दलेषु च² ॥ ५८ ॥ माक्षिको विमल:³ शैल⁴श्चपलो रसकस्तथा । सस्यको⁵ गन्धतालौ च पूर्व्वादिक्रमयोगतः ॥ ५९ ॥ अष्टादशभुजा रुद्रा:⁶ पञ्चवक्त्रास्त्रियम्बका:⁷ । चन्द्रार्द्धशोभिमुकुटा⁸ नीलग्रीवा वृषध्वजा:⁹ ॥ ६० ॥ स्वस्ववर्णधरा:¹⁰ सर्व्वेऽप्यष्टविद्येश्वरास्तथा¹¹ । पूजनीया महेशानि द्वितीयेऽष्टदलाम्बुजे¹² ॥ ६१ ॥ कर्णिकायान्तु पूर्वादिकूर्व्वं¹³ शक्तिचतुष्टयम् । मालिनी हेमशक्तिश्च परा शक्तिर्बला स्मृता¹⁴ । अपरा वज्रशक्तिश्च कान्तिश्चेत्यं परापरम्¹⁵ ॥ ६२ ॥ (१) पूज्या चाष्टदले is the reading in K, which is a palpable error. (२) पुर्व्वादिक्षु दलेषु च, a variant in B. ऊर्ध्व चाधःस्थलेषु च, a variant in M. (३) K reads माक्षिकां विमलां. (४) M reads चेलः, which seems to be erroneous. (५) सस्यक्षा is the reading in K, and सस्यके is that in M. Both are incorrect. (६) K reads भद्रा (without विसर्ग). (७) पञ्चवक्त्रा त्रियम्बिका (without विसर्ग), a variant in K. (८) M reads मकुटा. (९) K reads वृषध्वजा (without विसर्ग). (१०) The portion from the 61st to the first hemistich of the 94th is wanting in B. स्वस्व- कर्णवराः, a variant in K, which is absurd. (११) विद्येश्वरास्तु ते, a variant in K. विद्येश्वरस्तथा, a reading in M, which is inc. (१२) M reads महेशानी द्वितीयाष्टदलाम्बुजि. (१३) पूर्व्वं. यै पूर्व्वाः is the reading in M, which seems to be incorrect. (१४) K reads स्मृतं, which is incorrect. This charana and the next are wanting in M. (१५) कान्त्ये- श्चैव परापरम्, a variant in K.

द्वितीयः पटलः । २१ मध्ये तासाञ्च शक्तीनां सर्व्वज्ञं रसभैरवम् । शुद्धस्फटिकसंकाशं पञ्चवक्त्रं त्रियम्बकम्¹ ॥ ६३ ॥ ज्वलत्पिङ्गोयनेत्रञ्च² ज्वलज्जिह्वाननं तथा । ज्वलद्रूपं³ ज्वलत्केशं दुःप्रेक्ष्यं⁴ प्रेतविष्टरम् ॥ ६४ ॥ जटामुकुटसंयुक्तं चन्द्रार्द्धकृतशेखरम्⁵ । व्याघ्रचर्म्मधरं नागोपवीतं वृषभध्वजम्⁶ ॥ ६५ ॥ अष्टादशभुजं देवमशेषप्रहसिताननम् । द्वात्रिंशार्णेन मनुना पूजयेत् सकलं शिवम् ॥ ६६ ॥ रसेश्वरस्य मन्त्रञ्च कथ्यमानं निबोध मे⁷ ॥ ६७ ॥ ॐ ह्रीं क्रों⁸ रसेश्वराय महाकालाय महाबलायाघोर- भैरवाय⁹ वज्रवोर¹⁰ क्रोधकङ्काल प्लौः स्रः¹¹ ॥ ६८ ॥ तस्योत्सङ्गे महादेवीं रत्नाभरणभूषणां¹² ।


(1) M reads त्राम्बकम्, which is the correct form of त्रियम्बकम्. (2) K reads ज्वलत्पिङ्गायनैत्रञ्च. (3) M reads ज्वलद्रूपं. (4) M reads दुष्प्रेक्षा, which is an alternative form of दुःप्रेक्षा. (5) M reads चन्द्राद्धींकृतशेखरम्. (6) M reads नाग उपवीत वृषध्वजम्, wherein the former is grammatically incorrect. (7) In lieu of this hemistich M has only रसेश्वरमन्त्रम्, which ought to be रसेश्वरमन्त्रः. (8) M reads ओम् डीम् प्रेम् प्रम्. (9) M reads भैरव. (10) ववधौर is the reading in M. The correct form would be वज्रघोराय and क्रोधकङ्कालाय. (11) M reads प्लो खः । After this, is added इति मनुः. This मनु con- tains 32 letters (द्वात्रिंशार्णेन), the last two (प्लौः स्रः) being excepted. (12) ॰रत्नाभरणभूषिताम्, a variant in K.

२२ रसार्णवे उत्तप्तहेमरुचिरां पीतवस्त्रां त्रिलोचनाम् ॥ ६९ ॥ श्वेतचामरयोर्मध्ये मुक्ताच्छत्रेण शोभिताम्¹ । अङ्कुशं चाक्षमालां च दधतीं दक्षहस्तयोः ॥ ७० ॥ पाशाभये च वामाभ्यां² चन्द्रार्द्धकृतशेखराम् । रसाङ्कुशीं³ महादेवीं नीलग्रीवां कृपामयीम् ॥ ७१ ॥ पूजयेद्रससिद्ध्यर्थं विद्यया पञ्चबीजया । वाग्भवं भुवनेशीञ्च⁴ श्रोबीजञ्च सुरेश्वरि ॥ ७२ ॥ मादनं⁵ शक्तिबीजञ्च—विद्या⁶ परमदुर्लभा । धूपदीपैस्तु नैवेद्यैः⁷ पुष्पताम्बूलचन्दनैः ॥ ७३ ॥ शान्तिपाठस्य निर्घोषैः⁸ स्तोत्रमङ्गलनिस्वनैः⁹ । घण्टाटङ्कारसंयुक्तैः पूजां कृत्वा यथाविधि ॥ ७४ ॥ अघोरेण बलिं दद्यात् सर्व्वविघ्नोपशान्तये¹⁰ ।


(1) K reads मुक्ताच्छत्रोपशोभितां, which is a palpable error of the scribe. (2) वरदाभयदण्डाढां, a variant in K. पाशभयी च वामाभ्यां, a variant in M, wherein the first term is grammatically incorrect. (3) रसाङ्कुशां, a reading in M. (4) K reads भुवनेशानीं. भुवनेशिञ्च, a variant in M, which ought to be भुवनेशीञ्च. (5) K reads मदनं. (6) K reads विद्यया, which is incorrect. This charaṇa “विद्या परमदुर्लभा” is the remark made by Śiva to draw special attention of his consort. This विद्या is to be communicated by the गुरु to his शिष्य (see śloka 82). (7) धूपदीपैः सुनैवेद्यैः, a variant in K. (8) K reads शान्तिपाठैश्च निर्घोषैः. M reads शास्त्रपाठस्य निर्घोषैः. We have adopted the above reading after collating all the texts. (9) K reads निःस्वनैः. (10) K reads सर्व्वविघ्नस्य शान्तये ।

वर्द्धन्याभ्युक्ष्य साधकम्¹¹ ॥ ८० ॥ शतमष्टोत्तरं चैवमर्घ्यपात्रोदकेन¹² तु ।

Footnotes:
(1) Both K and M read यक्षरक्षेभ्यः, which is grammatically in-
correct, the term being रक्षस् and not रक्ष. (2) M reads संयुक्तां,
which is incorrect. (3) सर्व्वकर्णाकरं, a variant in M, which is
meaningless. (4) K reads विघ्नोपद्रवनाशणम्, which is palpably an
error of the scribe. M adds here after the 76th śloka अघोरेभ्योऽथ घोर
इति मन्त्रं नमोऽन्तकम्, which we have rejected as it is redundant.
(5) K reads विद्योपविद्या विद्या तु, which has no clear sense. (6) योनि-
वक्त्रं, a variant in K. (7) पयःपूर्णफलाश्रितम्, a reading in M. (8)
K reads तथाष्टशत. (9) M reads कीर्णं. (10) K reads बलिपात्रञ्च.

Here is the complete, line-by-line transcription of the Sanskrit text and footnotes in Markdown format:

२४ रसार्णवे अभिषिच्य¹ विधानेन कुम्भतोयेन मन्त्रवित् ॥ ८१ ॥ विद्यामुपदिशेद्देवि पाठयेद्रससाधकम्² । कुमारोयोगिनोयोगि³साधकांश्च यथोचितैः⁴ ॥ ८२ ॥ तर्पयेदन्नपानैश्च⁵ जागरं तत्र कारयेत् । एवंविहितदीक्षस्तु⁶ साधकः सुरनायिके ॥ ८३ ॥ महाभूतमयीं तत्र⁷ वर्णपञ्चकसंयुताम्⁸ । पञ्चबीजात्मिकां⁹ विद्यां प्राणायामात्मसूत्रके¹⁰ ॥ ८४ ॥ मुद्रां रसाङ्कुशीं बध्वा लक्षमेकं जपेत्प्रिये । तस्य सिध्यति देवेशि निर्विघ्नं रसभैरवः ॥ ८५ ॥ प्रणवादि नमोऽन्तस्तु तर्पणान्ते जपः परः¹¹ । अहिंसा चन्दनं¹² सत्यं पुष्पमस्तेयधूपनम्¹³ ॥ ८६ ॥ ब्रह्मचर्यं महादीपम

द्वितीयः पटलः । २५ पायसान्नं¹ महेशानि सर्व्वभूतदयात्मकम्² ॥ ८७ ॥ संघटनादाराधयेद्देवीं³ स भवेत्सिद्धिभाजनम्⁴ । सहस्रं वा शतं वापि त्रिसन्ध्यं संजपेदिमाम्⁵ ॥ ८८ ॥ यस्या चाज्ञा⁶प्रसादेन जायते खेचरो रसः । दिब्यौषधयश्च तस्यैव सिध्यन्ति सुरवन्दिते ॥ ८९ ॥ अनङ्कुशं समारुह्य वने मत्तगजं यथा । तथाऽरसाङ्कुशाभिज्ञो⁷ रसेन्द्रं प्राप्य सीदति⁸ ॥ ९० ॥ विद्यया⁹ सह मन्तव्यं गुरोः¹⁰ सत्सम्प्रदायिनः । रसप्रयोगजातन्तु¹¹ सर्व्वतः सिद्धिमिच्छता ॥ ९१ ॥ अथ प्रश्नावताराय¹² पूर्व्वोक्तं रसभैरवम् । समाहितमनां ध्यायेत् तदालीन¹³ समाचरेत् ॥ ९२ ॥

(1) K reads पायसानि, which seems to be incorrect. (2) सर्व्व- भूतदयात्मकम्, a reading in M. (3) M reads देवि, which makes the sentence incomplete. (4) सम्भवेत is the reading in M. सिद्धि- भाजनः is the reading in K. (5) त्रिसन्ध्या सञ्जपेदिमाम्, a variant in M, wherein the first term is incorrect. (6) यस्याज्ञया is the reading in K, which is not correct. (7) रसाङ्कुशयुक्तं, a variant in K. In this reading no nominative to सीदति is to be found. (8) K reads सिध्यसि, which is absurd. (9) K reads मद्यया, which is senseless. (10) K reads गुरो (without विसर्ग), which is erroneous. (11) M reads रसप्रयोगजातास्तु, which is incorrect. [जात is neuter.] (12) -श्रावताराय is the reading in M, which is an evident error of the scribe. (13) M reads तानालीनं.

२६ रसार्णवे अनाहते¹ ब्रह्मरन्ध्रे मनः कृत्वा निरामये । करन्यासं पुरा² कृत्वा अङ्गन्यासमनन्तरम्³ । यथाशक्ति जपेन्मन्त्रं रसेन्द्रस्य समाहितः ॥ ९३ ॥ चतुष्कोणं पुनः⁴ कृत्वा मध्ये षट्कोणमण्डलम्⁵ । हस्तमात्रं द्विहस्तं वा तच्छुलैर्विमलैर्लिखेत् ॥ ९४ ॥ सुगन्धेर्लेपिते स्थाने⁶ पूजयेच्चन्दनादिभिः ॥ ९५ ॥ कर्णिकायां⁷ न्यसेद्देवि⁸ पूर्वोक्तं रसभैरवम् । षट्कोणे⁹ देवताषट्कं महाकालादि विन्यसेत् ॥ ९६ ॥ महाकालं महाबल¹⁰मघोरं वज्रवोरकम्¹¹ । न्यसेत् क्रोधञ्च कङ्कालं मालामन्त्रैः समर्चयेत् ॥ ९७ ॥ ॐ ह्रीं क्रौं ह्लौं ह्लं ह्रीं ह्रीं क्रीं ह्रूं हुं फट्—रसेश्वराय महाकालभैरवाय रौद्ररूपाय कृष्णपिङ्गललोचनाय । अवतर २ अवतारय २ जल्प २ जल्पय २ शुभाशुभं कथय २ कथापय २ महारक्षां कुरु २ रससिद्धिं देहि ॥ इति मालामन्त्राः ॥¹² (1) अनाहतो, a variant in M, which is incorrect. (2) M reads पुनः. (3) The portion commencing from this charaṇa and ending in the third charaṇa of the 94th śloka is not found in K. (4) B reads पुरा. (5) K and M read मण्डले (6) B reads सुगन्धि- लेपितस्थाने. (7) M reads कर्णिकाया, which seems to be an error of the scribe. (8) न्यसेद्देवं, a reading in K. (9) M reads षट्कोश, which is inc. (10) B and K read महाबल ; this reading we have adopted, though it makes a defective metre : because we see the same word occurring afterwards. M reads महाकाल. (11) वज्रवोलकम् is the variant in M. (12) B reads ओं ह्रीं क्रों ल्लौं ल्लं ह्रीं ह्रीं क्रौं ह्रूं हुं फट् ।

द्वितीयः पटलः । २७ ॐ महाकालभैरवाय हृदयाय नमः । ॐ महाबलभैरवाय शिरसे स्वाहा । ॐ अघोरभैरवाय शिखायै वौषट् । ॐ वज्र- बीरभैरवाय कवचाय हुम् । ॐ क्रोधभैरवाय नेत्राय वौषट् । ॐ कङ्गालभैरवाय अस्त्राय फट् । सर्व्वत्र स्वाहान्तम् । एव- मङ्गन्यासाः ।¹ एवमङ्गुलीन्यासान् कुर्य्यादादौ । एते षडङ्गे पूजने च मूलमन्त्राः ॥ एवं व्यासाक्षरैः कूटैः² गन्धपुष्पैः समर्चयेत्³ । पूर्णकुम्भं⁴ न्यसेन्मध्ये शरावं तण्डुलैः सह ॥ ६८ ॥ तस्योपरि घृतदीपं⁵ वर्त्तीं मन्त्रेण⁶ मन्त्रयेत् ॥ ६६ ॥ समानाय कुमारीं तु कुमारं वा सुशोभनम् ।⁷


रसेश्वराय महाकालभैरवाय रौद्ररूपाय कृष्णपिङ्गललोचनाय । कथायय महारक्षां कुरु कुरु कथायय कुरु रससिद्धिं देहि । M reads ओंम् होंम् प्रंम् स्हौंम् ष्शः क्रोंम् क्रौम् क्रौं ह्रु हुम् फट् । रसेश्वराय महाकालभैरवाय क्रोधरूपाय कृष्णपिङ्गललोचनाय । अवतर अवतर । अवतारय अवतारय । जल्प जल्प। जल्पय जल्पय । शुभाशुभं कथय कथय । कथायय कथायय । महारक्षां कुरु कुरु । कथायय कथायय । मम रससिद्धिं देहि। We have adopted the fore-mentioned reading after collating the texts. (1) ओं महाकालभैरवाय is wanting in B. K reads ओं महाकालभैरवाय ठः ठः स्वाहा अस्त्राय फट् । The portion beginning from हृदयाय नमः and ending in एवमङ्गन्यासाः is wanting in K. (2) K reads एव व्यामान् करैः कृत्वा. (3) B reads गन्धपुष्पैश्च पूजयेत्. गन्धैः पुष्पैश्च पूजयेत्, a variant in M. (4) पूर्व्वकं is the reading in K, which is palpably an error of the scribe. (5) B reads घृतं दिव्य. M reads स्थित दीप. (6) B reads वर्त्तिमन्त्रेण. M reads तत्तन्मन्त्रैश्च. (7) समानाय कुमारीं कुमारं चासुशोभनम्, a variant in B. समानाय कुमारन्तु कुमारीं वा सुशोभनम्, a variant in M, which is inc.

२८ रसार्णवे एकद्वित्रिचतुःपञ्च¹ यथालाभं समानयेत् । गन्धपुष्पैर्धूपदीपैः नैवेद्येन च पूजयेत् ॥ १०० ॥ एकैकस्यां² न्यसेन्मन्त्रं हृदयाद्याश्च³ देवताः ॥ १०१ ॥ ततो निरौक्ष्य⁴ तद्दीपं⁵ सर्वांस्ताश्च⁶ कुमारिकाः⁷ । पश्यन्ति देवता दीपे कुमाराश्च⁸ शुभाशुभम् । सिद्धिं वा⁹प्यथवासिद्धिं कथयन्ति कुमारिकाः¹⁰ ॥ १०२ ॥ प्रश्नावतारं ज्ञात्वेति¹¹ रसकर्मणि सञ्चरेत्¹² ॥ १०३ ॥ यः पुरा देवदेवेशि रसेन्द्रे¹³ भावितात्मवान् । सप्तजन्म¹⁴ मृतो जातो न त्यजेद्रसभावनम्¹⁵ ॥ १०४ ॥ एवं शुभाशुभं ज्ञात्वा देवतानुग्रहान्वितः ।

(1) एकद्वित्रिचतुपञ्च is the reading in K, which is not correct. (2) B reads एकैक स्यात्. M reads एकैकस्य. (3) हृदयादींश्च is the reading in M. They are mentioned in p. 27. (4) M reads निरीक्ष्य. B and K read निरौक्ष्य, which seems to be inc. (5) B reads तद्दीपं. K reads ते दीपं, which is grammatically untenable. (6) B reads सर्व्वे ते च. K reads सर्व्वा स्तत्र, which is a palpable mistake. (7) B and M read कुमारकाः. (8) ते कुमाराः is the reading in B and M. (9) B and M read चा. (10) B and M read कुमारकाः. (11) शतावतारान् ज्ञात्व is the reading in M, which seems to be incorrect. (12) B reads सर्व्वकर्म्माणि. M reads रसकर्म्माणि सञ्चरेत्, which is incorrect. (13) या पुराद्देवदेवेशि रसेन्द्रं is the reading in M, which is incorrect. (14) B and M read वारं. (15) B reads रसभावणां. रसभाविषम् is the variant in M, which has no sense here.

द्वितीयः पटलः । २८ मण्डपे पूर्व्ववद्देवी¹मर्चयित्वा रसाङ्कुशाम्² ॥ १०५ ॥ आचार्य्यमपि संपूज्य धूपस्रक्चन्दनादिभिः । अघोरेण बलिं दत्त्वा ततः कर्म्म समाचरेत् ॥ १०६ ॥ ओषधयो मण्डपे³ प्राच्यां रसस्वेदोऽग्निगोचरे⁴ । दक्षिणस्यां लोहमारी नैर्ऋत्यां पेषणादिकम्⁵ ॥ १०७ ॥ दृतिक्रिया तु⁶ वारुण्यां वायव्ये धमनं प्रिये । वर्षोत्कर्षस्तु⁷ कौबेर्य्याम् ऐशान्यां रसवेधनम्८ ॥ १०८ ॥ आसनन्तु गुरोर्म्मध्ये⁹ निवेश्य¹⁰ सुरनायिके । नियामनादिकं कर्म्म क्रामणान्तं¹¹ वरानने । रसाङ्कुशेन मन्त्रेण कर्त्तव्यं साधकेन तु ॥ १०९ ॥ (1) B and K read देवि, which is incorrect. (2) B reads रसाङ्कुशा. M reads रसाङ्कुशम्. Both are grammatically erroneous. (3) ओषधौ मन्दवित्, a variant in K, wherein मन्दवित् has no final verb to govern. (4) B reads रसं स्वेदोऽग्निगोचरे. K reads रसे स्वेदोद्यो गोचरे. (5) K reads पेषिणं दक, wherein पेषिणं is incorrect. The correct form is पेषणं. [दकं = water.] (6) B reads दृतिक्रिया तु, which ought to be spelt द्रुतिक्रिया तु. K reads कर्त्ती कूपोति. M reads धृतिक्रिया तु. (7) वर्षोत्- कर्षंणं, a reading in K. (8

३० रसार्णवे यः पुरा देवदेवेशि वर्णितो¹ रसभैरवः । सद्योजातं तस्य जानु² वामदेवस्तु गुह्यकम्³ ॥ ११० ॥ अघोरं हृदयं⁴ तस्य वक्त्रं तत्पुरुषं स्मृतम्⁵ । यावद्⁶भ्रूमध्यमीशानमर्धचन्द्रं ललाटकम्⁷ ॥ १११ ॥ बिन्दुर्दवेशि तस्योर्द्धे बिन्दोरुर्द्धे स्थितो नदः⁸ । ललाटशिरसोर्मध्ये⁹ शक्तिस्तत्रैव संस्थिता ॥ ११२ ॥ व्यापिना¹⁰ ब्रह्मरन्ध्रस्था¹¹ तस्योर्द्धे तून्मना¹² भवेत् । उन्मना उन्मनोभावम्¹³ उन्मनापदमव्ययम् ॥ ११३ ॥ (1) M reads वर्णतः, which is incorrect. (2) K reads जानौ. सद्योजातस्तथा जानु, a variant in M, wherein जातु is an error of the scribe. (3) K reads गुह्यके. वामदेवैस्तु गुह्यकम्, a reading in M, wherein the first term is erroneous. (4) K and M read अघोरहृदयं, which is not correct. (5) B reads तत्पुरुषः स्मृतः. K reads तत्पुरुषः स्मृतम्. (6) B and M read भवेत्, which is not appropriate. (7) K reads ललाटके. M reads चार्डचन्द्रल्ललाटकम्. The final verb ध्यायेत्, stated in the śloka 116, is to be understood here (in the ślokas 110-111) by मण्डूक- प्‍लुति connection. (8) The 112th śloka is not found in B, except the initial and final words, i e. बिन्दुर्दव and सास्थता. बिन्दोरुर्द्धास्थतो नटः, a variant in M, which is incorrect. [Here the correct word is नाद as is stated in the कुब्जिकातन्त्र, Paṭala I. “तासाद्बिन्दुस्ततो नादो नादाच्छक्तिः समुद्भवा।”] (9) ललाटे शिरसो मध्ये, a reading in M. (10) K reads व्यापिनि. M reads व्यापिर्ना. Both are incorrect. (11) M reads ब्रह्मरन्ध्रस्थां. (12) B and K read समना. (13) B and M read उन्मनादुन्मनोंभावम्. [उन्मनाः = उन्मनापद.]

द्वितीयः पटलः । ३१ तत्सोऽहं परं सत्यं¹ व्योमस्थायि परात्परम्² । शून्यं शून्यं पुनः³ शून्यं त्रिशून्यञ्च⁴ निरामयम् ॥ ११४ ॥ नभश्च गगनं व्योम खमाकाशं⁵ च केवलम् । निष्कलं निर्मलं नित्यं निस्तरङ्गं निरामयम् ॥ ११५ ॥ निष्प्रपञ्चं⁶ निराधारं निर्गुणं गुणगोचरम्⁷ । एवंरूपं सदा ध्यायेत् स्वदेहे रसभैरवम् ॥ ११६ ॥ यदा च निश्चलं⁸ ध्यायेत् यदा च निश्चलं⁹ मनः । वह्निमध्ये तदा¹⁰ सूतो बध्यते निश्चलस्तथा¹¹ ॥ ११७ ॥ यदा च¹² चलति ध्यानं रसो वह्नौ न तिष्ठति ॥ ११८ ॥ मण्डलस्य बहिः¹³ रात्रौ सुरामत्स्यामिषादिभिः । भक्षयेद्¹⁴यक्षगन्धर्व्वान् पिशाचान् राक्षसांस्तथा ॥ ११९ ॥


(1) B reads तस्थोऽहं. K reads तु पदं शून्यं. M reads तु परं सत्यं. (2) B has व्योमव्यापि परापरं. व्योमव्यापीच तत्परम्, a variant in M, which is erroneous. (3) K reads पर. (4) B reads विशून्यञ्च. (5) खप्रकारं, a variant in K. [This repetition expresses the intensity of essence of God, who is compared with nothing but the sky] (6) K reads निःप्रसङ्गं. (7) नागमन्वगुणचरम्, a variant in M, which has no clear meaning. (8) K reads त्वनिश्चलं, which is inc. (9) B reads न चल. K reads तदा च. M reads यदा वै. (10) B reads तथा. (11) M reads तदा, thus creating a tautology. (12) B and K read यथा च. M reads यदा स. (13) K reads मंडल स. M reads मण्डपं कारयेत्. (14) The portion beginning from भक्षयेद् and ending in बटुकैश्वरम् is wanting in M.

३२ रसार्णवे क्रियाकरणविघ्नाश्च फलविघ्नाश्च¹ कोटिशः । सम्भवन्ति तथा तत्तच्छान्त्यै च² वटुकेश्वरम् । अर्चानु³ग्रहषट्कञ्च संपूज्यादौ समाचरेत् ॥ १२० ॥ कर्मान्ते च पुनर्बाल⁴मष्टाष्टकमनुग्रहम् । संपूज्य विनियुञ्जीतसत⁵ सिद्धद्रव्यन्तु सिद्धिदम् ॥ १२१ ॥ सिद्धस्तु नाशयेद्वादं⁶ तद्देशं⁷ तु परित्यजेत् । भ्रमेन्माधुकरीं⁸ भिक्षां सुसिद्धे तु⁹ महारसे ॥ १२२ ॥ प्रमादादुत्थितो विघ्नो¹⁰ रसबन्धे कृते सति । रसशान्तिर्विधातव्या रसक्षोभं न कारयेत् ॥ १२३ ॥ रसं न दर्शयेद्देवि नारीहस्ते¹¹ न पातयेत् । नार्य्यै¹² गुह्यं न वक्तव्यं द्रव्यं ताभ्यो हि¹³ गोपयेत् ॥ १२४ ॥ परद्रव्ये¹⁴र्न कर्त्तव्यं परदारा¹⁵न्न संस्पृशेत् । परान्नं नैव भुञ्जीत परांश्चैव न विश्वसेत् ॥ १२५ ॥¹⁶

(1) K has विघ्न तु कुलविघ्नादि. (2) K reads तच शांत्येव, which is senseless and incorrect. (3) K reads यथाता. M reads अर्चानु. (4) K reads मर्मान्ते च पुनर्बाल. M reads बाला. Both are incorrect. (5) K reads विविधवर्द्धवि. (6) द्वार is the reading in M. (7) K reads तं देश. (8) B reads मधुकरीं. The portion commencing from भ्रान्त्याधुकरीं to the end of the 123d. śloka is wanting in M. (9) B reads सुसिद्धे च. (10) B has प्रमादादुत्थ्यते नौघे. (11) नारी हस्ते is the reading in M. (12) B and M read नार्य्या. (13) The term द्रव्यं is wanting in B. B and M read तासाम्. (14) M reads परद्रव्यं. (15) M reads परदारं, which is grammatically incorrect. (16) The hemistich परान्न नैव &c. is not found in K.

द्वितीयः पटलः । ३३ न देयं दुष्टबुद्धीनां गोष्ठीरूपेण याचके ॥ १२६ ॥¹ अष्टम्यां पौर्णमास्यां च² अमावास्यां³ युगादिषु । अयने विषुवे⁴ चेव चतुर्दश्यां विशेषतः । रसोत्सवं प्रकुर्वीत यथावित्तानुसारतः ॥ १२७ ॥⁵ एवं रसोत्सवं देवि यः कुर्याद्भक्तिसंयुतः । ब्रह्महत्यादिपापानि नश्यन्ति विविधानि च ॥ १२८ ॥ अनेन विधिना यत्र पूजां कुर्व्वन्ति साधकाः⁶ । न तत्र रोगदौर्गत्यं नेतयः⁷ प्रभवन्ति च ॥ १२९ ॥ एवंविधां⁸ रसे पूजां प्रतिष्ठाप्य यथाविधि । पश्चात्कर्म विधातव्यमात्मनः शुभमिच्छता⁹ ॥ १३० ॥ अन्यथा¹⁰ कुरुते यस्तु तस्य सिद्धिर्न जायते । अपायः¹¹ पापशंका च बुद्धिभङ्गो हि जायते ॥ १३१ ॥

(1) K reads गोष्ठीभूय न याचयेत्. This hemistich is wanting in M. (2) K reads पूर्णमायां च, which seems to be an error of the scribe. M reads पूर्णिमायां वा. (3) अमावश्यां वा युगादिषु, a variant in K, which destroys the metre. (4) M reads विषुवै, which is incorrect. (5) After this śloka, there is a hemistich in M, which runs thus :— नश्यन्ति पापसङ्घानि महासिद्धिः प्रजायते ॥ Also the following two ślokas (128 and 129) are not found in M. (6) K has यस्तु पूर्व्वं कुर्वीत साधकः, wherein पूर्व्वं is incorrect. (7) K reads रोगा जायन्ते न पुनः. (8) K reads एवंविधे. (9) सिद्धिमिच्छता, a variant in M. (10) M reads अयथा. (11) The portion beginning from अपायः and ending in प्रिये (ślokas 131-- 132) is wanting in M. 5