भारतकोश
संग्रह पर लौटें

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

॥ त्रिचत्वारिंशोऽध्यायः ॥

निदाघः –

न पश्यामि शरीरं वा लिङ्गं कारणमेव वा । न पश्यामि मनो वापि न पश्यामि जडं ततः ॥ ४३.१ ॥

न पश्यामि चिदाकाशं न पश्यामि जगत् क्वचित् । न पश्यामि हरिं वापि न पश्यामि शिवं च वा ॥ ४३.२ ॥

आनन्दस्वान्तरे लग्नं तन्मयत्वान्न चोत्थितः । न पश्यामि सदा भेदं न जडं न जगत् क्वचित् ॥ ४३.३ ॥

न द्वैतं न सुखं दुःखं न गुरुर्न परापरम् । न गुणं वा न तुर्यं वा न बुद्धिर्न च संशयः ॥ ४३.४ ॥

न च कालं न च भयं न च शोकं शुभाशुभम् । न पश्यामि सन्दीनं न बन्धं न च सम्भवम् ॥ ४३.५ ॥

न देहेन्द्रियसद्भावो न च सद्वस्तु सन्मनः । न पश्यामि सदा स्थूलं न कृशं न च कुब्जकम् ॥ ४३.६ ॥

न भूमिर्न जलं नाग्निर्न मोहो न च मन्त्रकम् । न गुरुश्च च वाक्यं वा न दृढं न च सर्वकम् ॥ ४३.७ ॥

न जगच्छ्रवणं चैव निदिध्यासं न चापरः । आनन्दसागरे मग्नस्तन्मयत्वान्न चोत्थितः ॥ ४३.८ ॥

आनन्दोऽहमशेषोऽहमजोऽहममृतोऽस्म्यहम् । नित्योऽहमिति निश्चित्य सदा पूर्णोऽस्मि नित्यधीः ॥ ४३.९ ॥

पूर्णोऽहं पूर्णचित्तोऽहं पुण्योऽहं ज्ञानवानहम् । शुद्धोऽहं सर्वमुक्तोऽहं सर्वाकारोऽहमव्ययः ॥ ४३.१० ॥

चिन्मात्रोऽहं स्वयं सोऽहं तत्त्वरूपोऽहमीश्वरः । परापरोऽहं तुर्योऽहं प्रसन्नोऽहं रसोऽस्म्यहम् ॥ ४३.११ ॥

ब्रह्मोऽहं सर्वलक्ष्योऽहं सदा पूर्णोऽहमक्षरः । ममानुभवरूपं यत् सर्वमुक्तं च सद्गुरो ॥ ४३.१२ ॥

नमस्करोमि ते नाहं सर्वं च गुरुदक्षिणा । मद्देहं त्वत्पदे दत्तं त्वया भस्मीकृतं क्षणात् ॥ ४३.१३ ॥

ममात्मा च मया दत्त: स्वयमात्मनि पूरितः ।
त्वमेवाहमहं च त्वमहमेव त्वमेव हि ॥ ४३.१४॥

ऐक्यार्णवनिमग्नोऽस्मि ऐक्यज्ञानं त्वमेव हि ।
एकं चैतन्यमेवाहं त्वया गन्तुं न शक्यते ॥ ४३.१५॥

गन्तव्यदेशो नास्त्येव एकाकारं न चान्यतः ।
त्वया गन्तव्यदेशो न मया गन्तव्यमस्ति न ॥ ४३.१६॥

एकं कारणमेकं च एकमेव द्वयं न हि ।
त्वया वक्तव्यकं नास्ति मया श्रोतव्यमप्यलं ॥ ४३.१७॥

त्वमेव सद्गुरुर्नासि अहं नास्मि सशिष्यकः ।
ब्रह्ममात्रमिदं सर्वमस्मिनान्नोऽस्मि तन्मयः ॥ ४३.१८॥

भेदाभेदं न पश्यामि कार्याकार्यं न किञ्चन ।
ममैव चेन्नमस्कारो निष्प्रयोजन एव हि ॥ ४३.१९॥

तवैव चेन्नमस्कारो भिन्नात्मान्न फलं भवेत् ।
तव चेन्नम चेद्भेदः फलाभावो न संशयः ॥ ४३.२०॥

नमस्कृतोऽहं युष्माकं भवानज्ञेति वक्ष्यति ।
ममैवापकरिष्यामि परिच्छिन्नो भवाम्यहम् ॥ ४३.२१॥

ममैव चेन्नमस्कारः फलं नास्ति स्वतः स्थिते ।
कस्यापि च नमस्कारः कदाचिदपि नास्ति हि ॥ ४३.२२॥

सदा चैतन्यमात्रत्वात् नाहं न त्वं न हि द्वयं ।
न बन्धं न परो नान्ये नाहं नेदं न किञ्चन ॥ ४३.२३॥

न द्वयं नैकमद्वैतं निश्चितं न मनो न तत् ।
न बीजं न सुखं दुःखं नाशं निष्ठा न सत्सदा ॥ ४३.२४॥

नास्ति नास्ति न सन्देहः केवलात् परमात्मनि ।
न जीवो नेश्वरो नैको न चन्द्रो नाग्निलक्षणः ॥ ४३.२५॥

न वार्ता नेन्द्रियो नाहं न महत्त्वं गुणान्तरं ।
न कालो न जगन्नान्यो न वा कारणमद्वयं ॥ ४३.२६॥

नोन्नतोऽत्यन्तहीनोऽहं न मुक्तस्त्वत्प्रसादतः ।
सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मैव केवलं ॥ ४३.२७॥

अहं ब्रह्म इदं ब्रह्म आत्म ब्रह्मोहमेव हि ।
सर्वं ब्रह्म न सन्देहस्त्वत्प्रसादान्महेश्वरः ॥ ४३.२८॥

त्वमेव सद्गुरुर्ब्रह्म न हि सद्गुरुरन्यतः । आत्मैव सद्गुरुर्ब्रह्म शिष्यो ह्यात्मैव सद्गुरुः ॥ ४३.२९॥

गुरुः प्रकल्पते शिष्यो गुरुहीनो न शिष्यकः । शिष्ये सति गुरुः कल्प्यः शिष्याभावे गुरुर्न हि ॥ ४३.३०॥

गुरुशिष्यविहीनात्मा सर्वत्र स्वयमेव हि । चिन्मात्रात्मनि कल्पोऽहं चिन्मात्रात्मा न चापरः ॥ ४३.३१॥

चिन्मात्रात्माहमेवैको नान्यत् किञ्चिन्न विद्यते । सर्वस्थितोऽहं सततं नान्यं पश्यामि सद्गुरोः ॥ ४३.३२॥

नान्यत् पश्यामि चित्तेन नान्यत् पश्यामि किञ्चन । सर्वाभावान्न पश्यामि सर्वं चेद् दृश्यतां पृथक् ॥ ४३.३३॥

एवं ब्रह्म प्रपश्यामि नान्यदस्तीति सर्वदा । अहो भेदं प्रकुपितं अहो माया न विद्यते ॥ ४३.३४॥

अहो सद्गुरुमाहात्म्यमहो ब्रह्मसुखं महत् । अहो विज्ञानमाहात्म्यमहो सज्जनवैभवः ॥ ४३.३५॥

अहो मोहविनाशश्च अहो पश्यामि सत्सुखं । अहो चित्तं न पश्यामि अहो सर्वं न किञ्चन ॥ ४३.३६॥

अहमेव हि नान्यत्र अहमानन्द एव हि । ममान्तःकरणे यद्वन्निश्चितं भवदीरितं ॥ ४३.३७॥

सर्वं ब्रह्म परं ब्रह्म न किञ्चिदन्यदैवतं । एवं पश्यामि सततं नान्यत् पश्यामि सद्गुरो ॥ ४३.३८॥

एवं निश्चित्य तिष्ठामि स्वस्वरूपे ममात्मनि ॥ ४३.३९॥

अगाधवेदवाक्यतो न चाधिभेषजं भवे- दुमाधवाङ्घ्रिपङ्कजस्मृतिः प्रबोधमोक्षदा । प्रबुद्धभेदवासनानिरुद्धहृत्तमोभिदे महोरुजाशुवैद्यमीश्वरं हृदम्बुजे भजे ॥ ४३.४०॥

धृतत्वदर्धकामदेह दुग्धसन्निभं प्रमुग्धसामि । सोमधारिणं श्रुतीड्यगद्यसंस्तुतं त्वभेद्यमेकशङ्करं ॥ ४३.४१॥

वरः कङ्कः काको भवदुभयजातेषु नियतं महोशङ्कातङ्कैर्विधिविहितशान्तेन मनसा ।

यदि स्वैरं ध्यायन्नगपतिसुतानायकपदं
स एवायं धुर्यो भवति मुनिजातेषु नियतं ॥ ४३.४२॥

कः कालान्तकपादपद्मभजनादन्यद्वृधा कष्टदां
धर्माभासपरंपरां प्रथयते मूर्खो खरीं तौरगीं ।
कर्तुं यत्नशतैरशक्यकरणैर्विन्देत दुःखादिकं
तद्वत् साम्बपदाम्बुजार्चनरतिं त्यक्त्वा वृथा दुःखभाक् ॥ ४३.४३॥

॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे निदाघानुभववर्णनप्रकरणं
नाम त्रिचत्वारिंशोऽध्यायः ॥

॥ चतुश्चत्वारिंशोऽध्यायः ॥

निदाघः –

शृणुष्व सद्गुरो ब्रह्मन् त्वत्प्रसादान्विनिश्चितम् ।
अहमेव हि तद्ब्रह्म अहमेव हि केवलम् ॥ ४४.१॥

अहमेव हि नित्यात्मा अहमेव सदाऽजरः ।
अहमेव हि शान्तात्मा अहमेव हि निश्चलः ॥ ४४.२॥

अहमेव हि निश्चिन्तः अहमेव सुखात्मकः ।
अहमेव गुरुस्त्वञ्च अहं शिष्योऽस्मि केवलम् ॥ ४४.३॥

अहमानन्द एवात्मा अहमेव निरञ्जनः ।
अहं तुर्यातीगो ह्यात्मा अहमेव गुणोज्झितः ॥ ४४.४॥

अहं विदेह एवात्मा अहमेव हि शङ्करः ।
अहं वै परिपूर्णात्मा अहमेवेश्वरः परः ॥ ४४.५॥

अहमेव हि लक्ष्यात्मा अहमेव मनोमयः ।
अहमेव हि सर्वात्मा अहमेव सदाशिवः ॥ ४४.६॥

अहं विष्णुरहं ब्रह्मो अहमिन्द्रस्त्वहं सुराः ।
अहं वै यक्षरक्षांसि पिशाचा गुह्यकास्तथा ॥ ४४.७॥

अहं समुद्राः सरित अहमेव हि पर्वताः ।
अहं वनानि भुवनं अहमेवेदमेव हि ॥ ४४.८॥

नित्यतृप्तो ह्यहं शुद्धबुद्धोऽहं प्रकृतेः परः ।
अहमेव हि सर्वत्र अहमेव हि सर्वगः ॥ ४४.९॥

अहमेव महानात्मा सर्वमङ्गलविग्रहः ।
अहमेव हि मुक्तोऽस्मि शुद्धोऽस्मि परमः शिवः ॥ ४४.१०॥

अहं भूमिरहं वायुरहं तेजो ह्यहं नभः ।
अहं जलमहं सूर्यश्चन्द्रमा भगणा ह्यहम् ॥ ४४.११॥

अहं लोका अलोकाश्च अहं लोक्या अहं सदा ।
अहमात्मा पारदृश्य अहं प्रज्ञानविग्रहः ॥ ४४.१२॥

अहं शून्यो अशून्योऽहं सर्वानन्दमयोऽस्म्यहम् ।
शुभाशुभफलातीतो ह्याहमेव हि केवलम् ॥ ४४.१३॥

अहमेव ऋतं सत्यमहं सच्छित्सुखात्मकः ।
अहमानन्द एवात्मा बहुधा चैकधा स्थितः ॥ ४४.१४॥

अहं भूतभविष्यं च वर्तमानमहं सदा ।
अहमेको द्विधाहं च बहुधा चाहमेव हि ॥ ४४.१५॥

अहमेव परं ब्रह्म अहमेव प्रजापतिः ।
स्वराट् सम्राड् जगद्योनिरहमेव हि सर्वदा ॥ ४४.१६॥

अहं विश्वस्तैजसश्च प्राज्ञोऽहं तुर्य एव हि ।
अहं प्राणो मनश्चाहमहमिन्द्रियवर्गकः ॥ ४४.१७॥

अहं विश्वं हि भुवनं गगनात्माहमेव हि ।
अनुपाधि उपाध्यं यत्तत्सर्वमहमेव हि ॥ ४४.१८॥

उपाधिरहितश्चाहं नित्यानन्दोऽहमेव हि ।
एवं निश्चयवानन्तः सर्वदा सुखमश्नुते ।
एवं यः शृणुयान्नित्यं सर्वपापैः प्रमुच्यते ॥ ४४.१९॥

नित्योऽहं निर्विकल्पो जनवनभुवने पावनोऽहं मनीषी
विश्वो विश्वातीगोऽहं प्रकृतिविनिकृतो एकधा संस्थितोऽहं ।
नानाकारविनाशजन्यरहितस्वज्ञानकार्योर्ज्झितैः
भूमानन्दघनोऽस्म्यहं परशिवः सत्यस्वरूपोऽस्म्यहं ॥ ४४.२०॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे निदाघानुभववर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥

॥ पञ्चचत्वारिंशोऽध्यायः ॥

निदाघः –

पुण्ये शिवरहस्येऽस्मिन्नितिहासे शिवोदिते । देव्यै शिवेन कथिते देव्या स्कन्दाय मोदतः ॥ ४५.१॥

तदेतस्मिन् हि षष्ठांशे षडास्यकमलोदिते । पारमेश्वरविज्ञानं श्रुतमेतन्महाद्भुतम् ॥ ४५.२॥

महामायातमस्तोमविनिवारणभास्करम् । अस्याध्यायैककथनाद् विज्ञानं महदश्नुते ॥ ४५.३॥

श्लोकस्य श्रवणेनापि जीवन्मुक्तो न संशयः । एतद्ग्रन्थप्रवक्ता हि षण्मुखः शिव एव हि ॥ ४५.४॥

जैगीषव्यो महायोगी स एव श्रवणेऽर्हति । भस्मरुद्राक्षधृङ् नित्यं सदा ह्यत्याश्रमी मुनिः ॥ ४५.५॥

एतद्ग्रन्थप्रवक्ता हि स गुरुर्नात्र संशयः । एतद्ग्रन्थप्रवक्ता हि परं ब्रह्म न संशयः ॥ ४५.६॥

एतद्ग्रन्थप्रवक्ता हि शिव एव न चापरः । एतद्ग्रन्थप्रवक्ता हि साक्षाद्देवी न संशयः ॥ ४५.७॥

एतद्ग्रन्थप्रवक्ता हि गणेशो नात्र संशयः । एतद्ग्रन्थप्रवक्ता हि स्कन्दः स्कन्दिततारकः ॥ ४५.८॥

एतद्ग्रन्थप्रवक्ता हि नन्दिकेशो न संशयः । एतद्ग्रन्थप्रवक्ता हि दत्तात्रेयो मुनिः स्वयं ॥ ४५.९॥

एतद्ग्रन्थप्रवक्ता हि दक्षिणामूर्तिरेव हि । एतद्ग्रन्थार्थकथने भावने मुनयः सुराः ॥ ४५.१०॥

न शक्ता मुनिशार्दूला त्वदृतेऽहं शिवं शपे । एतद्ग्रन्थार्थवक्तारं गुरुं सर्वात्मना यजेत् ॥ ४५.११॥

एतद्ग्रन्थप्रवक्ता तु शिवो विघ्नेश्वरः स्वयं । पिता हि जन्मदो दाता गुरुरज्ञानिनाशकः ॥ ४५.१२॥

एतद्ग्रन्थं समभ्यस्य गुरोर्वाक्याद्विशेषतः । न द्रुह्येत गुरुं शिष्यो मनसा किञ्च कायतः ॥ ४५.१३॥

गुरुरेव शिवः साक्षात् गुरुरेव शिवः स्वयं ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ ४५.१४॥

एतद्ग्रन्थपदाभ्यासे श्रद्धा वै कारणं परं ।
अश्रद्दधानः पुरुषो नैतल्लेशमिहार्हति ॥ ४५.१५॥

श्रद्धैव परमं श्रेयो जीवब्रह्मैक्यकारणं ।
अस्ति ब्रह्मेति च श्रुत्वा भावयेन् सन्त एव हि ॥ ४५.१६॥

शिवप्रसादहीनो यो नैतद्ग्रन्थार्थविद्भवेत् ।
भावग्राह्योऽयमात्त्मायं पर एकः शिवो ध्रुवः ॥ ४५.१७॥

सर्वमन्यत् परित्यज्य ध्यायीतेशानमव्ययं ।
शिवज्ञानमिदं शुद्धं द्वैताद्वैतविनाशनं ॥ ४५.१८॥

अन्येषु च पुराणेषु इतिहासेषु न क्वचित् ।
एतादृशं शिवज्ञानं श्रुतिसारमहोदयं ॥ ४५.१९॥

उक्तं साक्षाच्छिवेनैतद् योगसांख्यविवर्जितं ।
भावनामात्रसुलभं भक्तिगम्यमनामयं ॥ ४५.२०॥

महानन्दप्रदं साक्षात् प्रसादेनैव लभ्यते ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ४५.२१॥

एतद्ग्रन्थं गुरोः श्रुत्वा न पूजां कुरुते यदि ।
श्वानयोनिशतं प्राप्य चण्डालः कोटिजन्मसु ॥ ४५.२२॥

एतद्ग्रन्थस्य माहात्म्यं न यजन्तीश्वरं हृदा ।
स सूकरो भवत्येव सहस्रपरिवत्सरान् ॥ ४५.२३॥

एतद्ग्रन्थार्थवक्तारमभ्यसूयेत यो द्विजः ।
अनेकब्रह्मकल्पं च विष्ठायां जायते क्रिमिः ॥ ४५.२४॥

एतद्ग्रन्थार्थविद्ध्योऽसौ ब्रह्म भवति स्वयं ।
किं पुनर्बहुनोक्तेन ज्ञानमेतद्विमुक्तिदं ॥ ४५.२५॥

यस्त्वेतच्छृणुयाच्छिवोदिमहावेदान्ताम्बुधि (?)
वीचिजातपुण्यं नापेक्षत्यनिशं न चाब्जकल्पैः ।
शब्दानां निखिलो रसो हि स शिवः किं वा तुषाद्रि
परिखण्डनतो भवेत् स्यात् तण्डुलोऽपि स मृषा भवमोहजालं ॥ ४५.२६॥

तद्वत् सर्वमशास्त्रमित्येव हि सत्यं
द्वैतोत्थं परिहाय वाक्यजालं ।

एवं त्वं त्वनिशं भजस्व नित्यं शान्तोद्यखिलवाक् समूहभावना ॥ 45.27॥

सत्यत्वाभावभावितोऽनुरूपशीलः । संपश्यन् जगदिदमासमंजसं सदा हि ॥ 45.28॥

॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे निदाघकृतगुरुस्तुतिवर्णनं नाम पंचचत्वारिंशोऽध्यायः ॥

॥ षट्चत्वारिंशोऽध्यायः ॥

निदाघः –

एतद्ग्रन्थं सदा श्रुत्वा चित्तजाड्यमकुर्वतः ।
यावद्देहं सदा वित्तैः शुश्रूषेत् पूजयेद्गुरुम् ॥ ४६.१॥

तत्पूजयैव सततं अहं ब्रह्मेति निश्चिनु ।
नित्यं पूर्णोऽस्मि नित्योऽस्मि सर्वदा शान्तविग्रहः ॥ ४६.२॥

एतदेवात्मविज्ञानं अहं ब्रह्मेति निर्णयः ।
निरंकुशस्वरूपोऽस्मि अतिवर्णाश्रमी भव ॥ ४६.३॥

अग्निरित्यादिभिर्मन्त्रैः सर्वदा भस्मधारणम् ।
त्र्यायुषैस्त्र्यम्बकैश्च कुर्वन्ति च त्रिपुण्ड्रकम् ॥ ४६.४॥

त्रिपुण्ड्रधारिणामेव सर्वदा भस्मधारणम् ।
शिवप्रसादसम्पत्तिर्भविष्यति न संशयः ॥ ४६.५॥

शिवप्रसादादेतद्वै ज्ञानं सम्प्राप्यते ध्रुवम् ।
शिरोव्रतमिदं प्रोक्तं केवलं भस्मधारणम् ॥ ४६.६॥

भस्मधारणमात्रेण ज्ञानमेतद्भविष्यति ।
अहं वत्सरपर्यन्तं कृत्वा वै भस्मधारणम् ॥ ४६.७॥

त्वत्पादाब्जं प्रपन्नोऽस्मि त्वत्तो लब्धात्मनिर्वृतिः ।
सर्वाधारस्वरूपोऽहं सच्चिदानन्दमात्रकम् ॥ ४६.८॥

ब्रह्मेत्याहं सुलक्षण्यो ब्रह्मलक्षणपूर्वकम् ।
आनन्दानुभवं प्राप्तः सच्चिदानन्दविग्रहः ॥ ४६.९॥

गुणरूपादिमुक्तोऽस्मि जीवन्मुक्तो न संशयः ।
मैत्र्यादिगुणसम्पन्नो ब्रह्मैवाहं परो महान् ॥ ४६.१०॥

समाधिमानहं नित्यं जीवन्मुक्तेषु सत्तमः ।
अहं ब्रह्मास्मि नित्योऽस्मि समाधिरिति कथ्यते ॥ ४६.११॥

प्रारब्धप्रतिबन्धश्च जीवन्मुक्तेषु विद्यते ।
प्रारब्धवशतो यद्यत् प्राप्यं भुञ्जे सुखं वस ॥ ४६.१२॥

दूषणं भूषणं चैव सदा सर्वत्र सम्भवेत् ।
स्वस्यनिश्चयतो बुद्ध्या मुक्तोऽहमिति मन्यते ॥ ४६.१३॥

अहमेव परं ब्रह्म अहमेव परा गतिः ।
एवं निश्चयवान् नित्यं जीवन्मुक्तेति कथ्यते ॥ ४६.१४ ॥

एतद्भेदं च सन्त्यज्य स्वरूपे तिष्ठति प्रभुः ।
इन्द्रियार्थविहीनोऽहमिन्द्रियार्थविवर्जितः ॥ ४६.१५ ॥

सर्वेन्द्रियगुणातीतः सर्वेन्द्रियविवर्जितः ।
सर्वस्य प्रभुरेवाहं सर्वं मय्येव तिष्ठति ॥ ४६.१६ ॥

अहं चिन्मात्र एवास्मि सच्चिदानन्दविग्रहः ।
सर्वं भेदं सदा त्यक्त्वा ब्रह्मभेदमपि त्यजेत् ॥ ४६.१७ ॥

अजस्रं भावयन् नित्यं विदेहो मुक्त एव सः ।
अहं ब्रह्म परं ब्रह्म अहं ब्रह्म जगत्प्रभुः ॥ ४६.१८ ॥

अहमेव गुणातीतः अहमेव मनोमयः ।
अहं मय्यो मनोमेयः प्राणमेयः सदामयः ॥ ४६.१९ ॥

सद्यज्योयो ब्रह्ममयोऽमृतमयः सभूतोमृतमेव हि ।
अहं सदानन्दघनोऽव्ययः सदा ।
स वेदमय्यो प्रणवोऽहमीशः ॥ ४६.२० ॥

अपाणिपादो जवनो गृहीता
अपश्यः पश्याम्यात्मवत् सर्वमेव ।
यत्तद्भूतं यच्च भव्योऽहमात्मा
सर्वातीतो वर्तमानोऽहमेव ॥ ४६.२२ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ज्ञानोपायभूतशिवव्रतनिरूपणं नाम षट्चत्वारिंशोऽध्यायः ॥

॥ సప్తచత్వారింశోఽధ్యాయః ॥ -> ॥ सप्तचत्वारिंशोऽध्यायः ॥

ऋभुः -

निदाघ शृणु वक्ष्यामि दृढीकरणमस्तु ते ।
शिवप्रसादपर्यन्तमेवं भावय नित्यशः ॥ 47.1 ॥

अहमेव परं ब्रह्म अहमेव सदाशिवः ।
अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ॥ 47.2 ॥

अहमेव हि चैतन्यमहमेव हि निष्कलः ।
अहमेव हि शून्यात्मा अहमेव हि शाश्वतः ॥ 47.3 ॥

अहमेव हि सर्वात्मा अहमेव हि चिन्मयः ।
अहमेव परं ब्रह्म अहमेव महेश्वरः ॥ 47.4 ॥

अहमेव जगत्साक्षी अहमेव हि सद्गुरुः ।
अहमेव हि मुक्तात्मा अहमेव हि निर्मलः ॥ 47.5 ॥

अहमेवाहमेवोक्तः अहमेव हि शंकरः ।
अहमेव हि महाविष्णुरहमेव चतुर्मुखः ॥ 47.6 ॥

अहमेव हि शुद्धात्मा ह्यहमेव ह्यहं सदा ।
अहमेव हि नित्यात्मा अहमेव हि मत्परः ॥ 47.7 ॥

अहमेव मनोरूपं अहमेव हि शीतलः ।
अहमेवान्तर्यामी च अहमेव परेश्वरः ॥ 47.8 ॥

एवमुक्तप्रकारेण भावयित्वा सदा स्वयं ।
द्रव्योऽस्ति चेन्न कुर्यात्तु वंचकेन गुरुं परं ॥ 47.9 ॥

कुंभीपाके सुघोरे तु तिष्ठत्येव हि कल्पकान् ।
श्रुत्वा निदाघश्शीघ्राय पुत्रदारान् प्रदत्तवान् ॥ 47.10 ॥

स्वशरीरं च पुत्रत्वे दत्त्वा सादरपूर्वकं ।
धनधान्यं च वस्त्रादीन् दत्त्वोऽतिष्ठत् समीपतः ॥ 47.11 ॥

गुरोस्तु दक्षिणं दत्वा निदाघुस्तुष्टवानृभुं ।
संतुष्टोऽस्मि महाभाग तव शुश्रूषया सदा ॥ 47.12 ॥

ब्रह्मविज्ञानमाप्तोऽसि सुकृतार्थो न संशयः ।
ब्रह्मरूपमिदं चेति निश्चयं कुरु सर्वदा ॥ 47.13 ॥

निश्चयादपरो मोक्षो नास्ति नास्तीति निश्चिनु ।
निश्चयं कारणं मोक्षो नान्यत् कारणमस्ति वै ॥ ४७.१४॥

सकलभुवनसारं सर्ववेदान्तसारं
समरसगुरुसारं सर्ववेदार्थसारं ।
सकलभुवनसारं सच्चिदानन्दसारं
समरसजयसारं सर्वदा मोक्षसारम् ॥ ४७.१५॥

सकलजननमोक्षं सर्वदा तुर्यमोक्षं
सकलसुलभमोक्षं सर्वसाम्राज्यमोक्षं ।
विषयरहितमोक्षं वित्तसंशोषमोक्षं
श्रवणमननमात्रादेतदत्यन्तमोक्षम् ॥ ४७.१६॥

तच्छुश्रूषा च भवतः तच्छ्रुत्वा च प्रपेदिरे ।
एवं सर्ववचः श्रुत्वा निदाघऋषिदर्शितं ।
शुकादयो महन्तस्ते परं ब्रह्ममवाप्नुवन् ॥ ४७.१७॥

श्रुत्वा शिवज्ञानमिदं ऋभुस्तदा
निदाघमाहैतं मुनीन्द्रमध्ये ।
मुदा हि तेऽपि श्रुतिशब्दसारं
श्रुत्वा प्रणम्याहुरतीव हर्षात् ॥ ४७.१८॥

मुनयः -

पिता माता भ्राता गुरुरसि वयस्योऽथ हितकृत्
अविद्याब्धेः पारं गमयसि भवानेव शरणं ।
बलेनास्मान् नीत्वा मम वचनबलेनैव सुगमं
पथं प्राप्त्यैवारैः शिववचनतोऽस्मान् सुखयसि ॥ ४७.१९॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ऋभुकृतसंग्रहोपदेशवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥

॥ अष्टचत्वारिंreflexोऽध्यायः ॥

स्कन्दः -

ज्ञानाङ्गसाधनं वक्ष्ये शृणु वक्ष्यामि ते हितम् ।
यत् कृत्वा ज्ञानमाप्नोति तत् प्रादात् परमेष्ठिनः ॥ ४८.१॥

जैगीषव्य शृणुष्वैतत् सावधानेन चेतसा ।
प्रथमं वेदसंप्रोक्तं कर्माचरणमिष्यते ॥ ४८.२॥

उपनीतो द्विजो वापि वैश्यः क्षत्रिय एव वा ।
अग्नीरित्यादिभिर्मन्त्रैर्भस्मधृक् पूयते त्वङ्ग्मः ॥ ४८.३॥

त्र्यायुषैस्त्र्यम्बकैश्च त्रिपुण्ड्रं भस्मनाऽऽचरेत् ।
लिङ्गार्चनपरो नित्यं रुद्राक्षान् धारयन् क्रमैः ॥ ४८.४॥

कण्ठे बाह्वोर्दृक्षी च मालाभिः शिरसा तथा ।
त्रिपुण्ड्रवद्धारयेत रुद्राक्षान् क्रमशो मुने ॥ ४८.५॥

एकाननं द्विवक्त्रं वा त्रिवक्त्रं चतुरास्यकम् ।
पञ्चवक्त्रं च षट् सप्त तथाष्टदशकं नव ॥ ४८.६॥

एकादशं द्वादशं वा तथोर्ध्वं धारयेत् क्रमात् ।
भस्मधारणमात्रेण प्रसीदति महेश्वरः ॥ ४८.७॥

रुद्राक्षधारणादेव नरो रुद्रत्वमाप्नुयात् ।
भस्मरुद्राक्षधृङ्मर्त्यो ज्ञानाङ्गी भवति प्रियः ॥ ४८.८॥

रुद्राध्यायी भस्मनिष्ठः पञ्चाक्षरजपाधरः ।
भस्मोद्धूलितदेहोऽयं श्रीरुद्रं प्रजपन् द्विजः ॥ ४८.९॥

सर्वपापैर्विमुक्तश्च ज्ञाननिष्ठो भवेन्मुने ।
भस्मसंछन्नसर्वाङ्गो भस्मफालत्रिपुण्ड्रकः ॥ ४८.१०॥

वेदमौलिजवाक्येषु विचाराधिकृतो भवेत् ।
नान्यपुण्ड्रधरो विप्रो यतिर्वा विप्रसत्तम ॥ ४८.११॥

शमादिनियमोपेतः क्षमायुक्तोऽप्यसंस्कृतः ।
शिरोव्रतमिदं प्रोक्तं भस्मधारणमेव हि ॥ ४८.१२॥

शिरोव्रतं च विधिवद्यैश्चीर्णं मुनिसत्तम ।
तेषामेव ब्रह्मविद्यां वदेत गुरुरास्तिकः ॥ ४८.१३॥

शांभवा एव वेदेषु निष्ठा नष्टाशुभाः परम् । शिवप्रसादसंपन्नो भस्मरुद्राक्षधारकः ॥ ४८.१४॥

रुद्राध्यायजपासक्तः पञ्चाक्षरपरायणः । स एव वेदवेदान्तश्रवणेऽधिकृतो भवेत् ॥ ४८.१५॥

नान्यपुण्ड्रधरो विप्रः कृत्वापि श्रवणं बहु । नैव लभ्येत तज्ज्ञानं प्रसादेन विनेशितुः ॥ ४८.१६॥

प्रसादजनकं शम्भोर्भस्मधारणमेव हि । शिवप्रसादहीनानां ज्ञानं नैवोपजायते ॥ ४८.१७॥

प्रसादे सति देवस्य विज्ञानस्फुरणं भवेत् । रुद्राध्यायजपिनां तु भस्मधारणपूर्वकम् ॥ ४८.१८॥

प्रसादो जायते शम्भोः पुनरावृत्तिवर्जितः । प्रसादे सति देवस्य वेदान्तस्फुरणं भवेत् ॥ ४८.१९॥

तस्यैवाकथिता ह्यर्थाः प्रकाशन्ते महात्मनः । पञ्चाक्षरजपादेव पञ्चास्यध्यानपूर्वकम् ॥ ४८.२०॥

तस्यैव भवति ज्ञानं शिवप्रोक्तमिदं ध्रुवम् । सर्वं शिवात्मकं भाति जगदेतच्चराचरम् ॥ ४८.२१॥

स प्रसादो महेशस्य विज्ञेयः शाम्भवोत्तमैः । शिवलिङ्गार्चनादेव प्रसादः शाम्भवोत्तमे ॥ ४८.२२॥

नियमाद्बिल्वपत्रैश्च भस्मधारणपूर्वकम् । प्रसादो जायते शम्भोः साक्षाज्ज्ञानप्रकाशकः ॥ ४८.२३॥

शिवक्षेत्रनिवासेन ज्ञानं सम्यक् दृढं भवेत् । शिवक्षेत्रनिवासी तु भस्मधार्यधिकारवान् ॥ ४८.२४॥

नक्ताशनार्चनादेव प्रीयेत भगवान् भवः । प्रदोषपूजनं शम्भोः प्रसादजनकं परम् ॥ ४८.२५॥

सोमवारे निशीथेषु पूजनं प्रियमीशितुः । भूतायां भूतनाथस्य पूजनं परमं प्रियम् ॥ ४८.२६॥

शिवशब्दोच्चारणं च प्रसादजनकं महत् । ज्ञानाङ्गसाधनेष्वेवं शिवभक्तार्चनं महत् ॥ ४८.२७॥

भक्तानामर्चनादेव शिवः प्रीतो भविष्यति । इत्येतत्तं समासेन ज्ञानाङ्गं कथितं मया ।

अकैतवेन भावेन श्रवणीयो महेश्वरः ॥ ४८.२८॥

सूतः -

यः कोऽपि प्रसभं प्रदोषसमये बिल्वीदलालंकृतं
लिंगं तुंगमपारपुण्यविभवैः पश्येदधार्चेत वा ।
प्राप्तं राज्यमवाप्य कामहृदयस्तुष्येदकामो यदि
मुक्तिद्वारमपावृतं स तु लभेत् शंभोः कटाक्षांकुरैः ॥ ४८.२९॥

अचलातुलराजकन्यकाकुचलीलामलबाहुजालमीशं ।
भजतामनलाक्षिपादपद्मं भवलीलं न भवेत चित्तबालं ॥ ४८.३०॥

भस्मत्रिपुण्ड्ररचितांगकबाहुफाल-
रुद्राक्षजालकवचाः श्रुतिसूक्तिमालाः ।
वेदोबोरत्नपदकांकितशंभुनाम-
लोला हि शांभववराः परिशीलयन्ति ॥ ४८.३१॥

॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे स्कन्दकृतशिवव्रतोपदेशवर्णनं नाम अष्टचत्वारिंशोऽध्यायः ॥

॥ एकोनपञ्चाशोऽध्यायः ॥

स्कन्दः -

पुरा मगधदेशीयो ब्राह्मणो वेदपारगः । उचथ्यतनयो वाग्मी वेदार्थप्रवणे धृतः ॥ ४९.१॥

नाम्ना सुदर्शनो विप्रान् पाठयन् शास्त्रमुत्तमं । वेदान्तपरया भक्त्या वर्णाश्रमरतः सदा ॥ ४९.२॥

मोक्षमिच्छेदपि सदा विप्रोऽपि च जनार्दनात् । विष्णुपूजापरो नित्यं विष्णुक्षेत्रेषु संवसन् ॥ ४९.३॥

गोपीचन्दनफालौसा तुलस्यै वार्चयद्धरिं । उवास नियतं विप्रो विष्णुध्यानपरायणः ॥ ४९.४॥

दशवर्षमिदं तस्य कृत्यं दृष्ट्वा जनार्दनः । मोक्षेच्छोराजहावेनं पुरतोऽभूय तं द्विजं ॥ ४९.५॥

विष्णुः -

औचथ्य मुनिशार्दूल तपस्यभिरतः सदा । वृणु कामं ददाम्येव विना ज्ञानं द्विजोत्तम ॥ ४९.६॥

सूतः -

इति विष्णोर्गिरं श्रुत्वा विप्रः किञ्चिद्भयान्वितः । प्रणिपत्याह तं विष्णुं स्तुवन्नारायणेति तं ॥ ४९.७॥

सुदर्शनः -

विष्णो जिष्णो नमस्तेऽस्तु शङ्खचक्रगदाधर । त्वत्पादनलिनं प्राप्तो ज्ञानायानर्हणः किमु ॥ ४९.८॥

किमन्यैरर्थकामार्तैरीश्वर्यैरिह शम्भुभृत् । इत्युक्तं तद्वचः श्रुत्वा विष्णु प्राह सुदर्शनं ॥ ४९.९॥

विष्णुः -

सुदर्शन शृणुष्वैतन्मत्तो नान्यमना द्विज । वदामि ते हितं सत्यं मया प्राप्तं यथा तव ॥ ४९.१०॥

मदर्चनेन ध्यानेन मोक्षेच्छा जायते नृणां । मोक्षदाता महादेवो ज्ञानविज्ञानदायकः ॥ 49.11॥

तदर्चनेन संप्राप्तं मया पूर्वं सुदर्शनं । सहस्रारं दैत्यहंतृ साक्षात् त्र्यक्षप्रपूजया ॥ 49.12॥

तमाराधय यत्नेन भस्मधारणपूर्वकं । अग्निरित्यादिभिर्मन्त्रैस्त्र्यायुषत्रिपुण्ड्रकैः ॥ 49.13॥

रुद्राक्षधारको नित्यं रुद्रपंचाक्षरादरः । शिवलिंगं बिल्वपत्रैः पूजयन् ज्ञानवान् भव ॥ 49.14॥

वसन् क्षेत्रे महेशस्य स्नाहि तीर्थे च शांकरे । अहं ब्रह्मादयो देवाः पूजय्यैव पिनाकिनः ॥ 49.15॥

बलिनः शिवलिंगस्य पूजया विप्रसत्तम । यस्य फाल Public/तलं मेऽद्य त्रिपुण्ड्रपरिचिन्हितं ॥ 49.16॥

ब्रह्मेंद्रदेवमुनिभिस्त्रिपुण्ड्रं भस्मना धृतं । पश्य वक्षसि बाह्वोर्ये रुद्राक्षाणां प्रजं शुभां ॥ 49.17॥

पंचाक्षरजपासक्तो रुद्राध्यायपरायणः । त्रिकालमर्चयामीशं बिल्वपत्रैरहं शिवं ॥ 49.18॥

कमला विमला नित्यं कोमलैर्बिल्वपल्लवैः । पूजयत्यनिशं लिंगे तथा ब्रह्मादयः सुराः ॥ 49.19॥

मुनयो मनवोऽप्येवं तथान्ये द्विजसत्तमाः । नृपासुरास्तथा दैत्या बलिनः शिवपूजया ॥ 49.20॥

ज्ञानं मोक्षस्तथा भाग्यं लभ्यते शंकरार्चनात् । तस्मात् त्वमपि भक्त्यैव समाराधय शंकरं ॥ 49.21॥

पशवो विष्णुविधयस्तथान्ये मुनयः सुराः । सर्वेषां पतिरीशानस्तत्प्रसादाद्विमुक्तिभाक् ॥ 49.22॥

प्रसादजनकं तस्य भस्मधारणमेव हि । प्रसादजनकं तस्य मुने रुद्राक्षधारणं ॥ 49.23॥

प्रसादजनकस्तस्य रुद्राध्यायजपः सदा । प्रसादजनकस्तस्य पंचाक्षरजपो द्विज ॥ 49.24॥

प्रसादजनकं तस्य शिवलिंगैकपूजनं । प्रसादे शांभवे जाते भुक्तिमुक्ती करे स्थिते ॥ 49.25॥

तस्य भक्त्यैव सर्वेषां मोचनं भवपाशतः । तस्य प्रीतिकरं साक्षाद्विल्वलिङ्गस्य पूजनम् ॥ 49.26॥

तस्य प्रीतिकरं साक्षाच्छिवक्षेत्रेषु वर्तनम् । तस्य प्रीतिकरं साक्षात् शिवतीर्थनिषेवणम् ॥ 49.27॥

तस्य प्रीतिकरं साक्षात् भस्मरुद्राक्षधारणम् । तस्य प्रीतिकरं साक्षात् प्रदोषे शिवपूजनम् ॥ 49.28॥

तस्य प्रीतिकरं साक्षाद् रुद्रपञ्चाक्षरावृतिः । तस्य प्रीतिकरं साक्षाच्छिवभक्तजनार्चनम् ॥ 49.29॥

तस्य प्रीतिकरं साक्षात् सोमे सायन्तनार्चनम् । तस्य प्रीतिकरं साक्षात् तन्निर्माल्यैकभोजनम् ॥ 49.30॥

तस्य प्रीतिकरं साक्षाद् अष्टम्यीश्वरार्चनं निशि । तस्य प्रीतिकरं साक्षात् चतुर्दश्यर्चनं निशि ॥ 49.31॥

तस्य प्रीतिकरं साक्षात् तन्नाम्नां स्मृतिरेव हि । एतावानेन धर्मो हि शम्भोः प्रियकरो महान् ॥ 49.32॥

अन्यदभ्युदयं विप्र श्रुतिस्मृतिषु कीर्तितम् । धर्मो वर्णाश्रमप्रोक्तो मुनिभिः कथितो मुने ॥ 49.33॥

अविमुक्ते विशेषेण शिवो नित्यं प्रकाशते । तस्मात् काशीति तत् प्रोक्तं यतो हीशः प्रकाशते ॥ 49.34॥

तत्रैवामरणं तिष्ठेदिति जाबालिकी श्रुतिः । तत्र विश्वेश्वरे लिङ्गे नित्यं ब्रह्म प्रकाशते ॥ 49.35॥

तत्रान्नपूर्णा सर्वेषां भुक्त्यन्नं सम्प्रयच्छति । तत्रास्ति मणिकर्ण्याख्यं मणिकुण्डं विनिर्मितम् ॥ 49.36॥

ज्ञानोदयोऽपि तत्रास्ति सर्वेषां ज्ञानदायकः । तत्र याहि मया सार्धं तत्रैव वस वै मुने ॥ 49.37॥

तत्रान्ते मोक्षदं ज्ञानं ददातीश्वर एव हि । इत्युक्त्वा तेन विप्रेण ययौ काशीं हरिः स्वयं ॥ 49.38॥

स्नात्वा तीर्थे चक्रसंज्ञे ज्ञानवाप्यां हरिद्विजः । तं द्विजं स्नापयामास भस्मनापादमस्तकम् ॥ 49.39॥

धृतत्रिपुण्ड्ररुद्राक्षं कृत्वा तं च सुदर्शनम् । पूजयच्चाथ विश्वेशं पूजयामास च द्विजान् ॥ 49.40॥

जल्यैर्गन्धाक्षतैर्दीपैर्नैवेद्यैश्च मनोहरैः । तुष्टाव प्रणिपत्यैवं स द्विजो मधुसूदनः ॥ ४९.४१॥

सुदर्शनविष्णुः -

भज भज भसितानलोज्ज्वलाक्षं भुजगाभोगभुजंगसंगहस्तं । भवभीममहोग्ररुद्रमीड्यं भवभर्गकतर्तकं महेनसां ॥ ४९.४२॥

वेदघोषभटकाटकावधृक् देहदाहदहनामल काल । जूटकोटिसुजतातटिद्युद्रागरंजितटिनीशशिमौले ॥ ४९.४३॥

शंबरांकवरभूष पाहि मामंबरांतरचरस्फुटवाह । वारिजाद्यघनघोष शंकर त्राहि वारिजभवेड्य महेश ॥ ४९.४४॥

मदगजवरकृत्तिवास शंभो मधुमदनाक्षिसरोरुहार्च्यपाद । यममददमनांधशिक्ष शंभो पुरहर पाहि दयाकटाक्षसारैः ॥ ४९.४५॥

अपां पुष्पं मौलौ हिमभयहरः फालनयनः जटाजूटे गङ्गाऽम्मुजविकसनः सव्यनयनः । गरं कंठे यस्य त्रिभुवनगुरोः शंबरहर मतंगोद्यत्कृत्य्ववहरणपादाब्जभजनं ॥ ४९.४६॥

श्रीबिल्वमालशितिकंठमहेशलिंगं जल्यांबुजोत्तमवरैः परिपूज्य भक्त्या । स्तंबेरमांगवदनौत्तमसंगभंग राजद्विषांगपरिसंगमहेशशांगं ॥ ४९.४७॥

यो गौरीरमणार् Uno चनोद्यतमतिर्भूयो भवेच्छांभवो भक्तो जन्मपरंपरासु तु भवेन्मुक्तोऽथ मुक्त्यंगना- कांतस्वांतनितांतशांतहृदये कार्तांतवार्तोज्झितः । विष्णुब्रह्मसुरेंद्ररंजितमुमाकांतांघ्रिपंकेरुह- ध्यानानंदनिमग्नसर्वहृदयः किंचिन्न जानात्यपि ॥ ४९.४८॥

कामारातिपदांबुजार्चनरतः पापानुतापाधिक- व्यापारप्रवणप्रकीर्णमनसा पुण्यैरगण्यैरपि । नो दूयेत विशेषसंततिमहोसारानुकारादरा- दाराग्राहकुमारमारुसुशराद्याघातभीतैरपि ॥ ४९.४९॥