भारतकोश
संग्रह पर लौटें

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

चिद्घनानन्दरूपोऽसि चिदानन्दोऽसि सर्वदा ।
परिपूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.11॥

तदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्ष्यसि ।
चिदसि ब्रह्मभूतोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.12॥

अमृतोऽसि विभुश्चासि देवोऽसि त्वं महानसि ।
चञ्चलोष्कलङ्कोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.13॥

सर्वोऽसि सर्वहीनोऽसि शान्तोऽसि परमो ह्यसि ।
कारणं त्वं प्रशान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.14॥

सत्तामात्रस्वरूपोऽसि सत्तासामान्यको ह्यसि ।
नित्यशुद्धस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.15॥

ईषणात्रयविहीनोऽसि अणुमात्रविवर्जितः ।
अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ 5.16॥

योऽसि सोऽसि महन्तोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.17॥

लक्ष्यलक्षणहीनोऽसि चिन्मात्रोऽसि निरामयः ।
अखण्डैकरसो नित्यं त्वं ब्रह्मासि न संशयः ॥ 5.18॥

सर्वाधारस्वरूपोऽसि सर्वतेजः स्वरूपकः ।
सर्वार्थभेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.19॥

ब्रह्मैव भेदशून्योऽसि विप्लुत्वादिविवर्जितः ।
शिवोऽसि भेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.20॥

प्रज्ञानवाक्यहीनोऽसि स्वस्वरूपं प्रपश्यसि ।
स्वस्वरूपस्थितोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ 5.21॥

स्वस्वरूपावशेषोऽसि स्वस्वरूपो मतो ह्यसि ।
स्वानन्दसिन्धुमग्नोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.22॥

स्वात्मराज्ये त्वमेवासि स्वयमात्मानमो ह्यसि ।
स्वयं पूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.23॥

स्वस्मिन् सुखे स्वयं चासि स्वस्मात् किञ्चिन्न पश्यसि ।
स्वात्मन्याकाशवद्भासि त्वं ब्रह्मासि न संशयः ॥ 5.24॥

स्वस्वरूपान्न चलसि स्वस्वरूपान्न पश्यसि ।
स्वस्वरूपामृतोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ 5.25॥

स्वस्वरूपेण भासि त्वं स्वस्वरूपेण जृम्भसि ।
स्वस्वरूपादनन्योऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२६॥

स्वयं स्वयं सदाऽसि त्वं स्वयं सर्वत्र पश्यसि ।
स्वस्मिन् स्वयं स्वयं भुङ्क्ष्वे त्वं ब्रह्मासि न संशयः ॥ ५.२७॥

सूतः –

तदा निदाघवचसा तुष्टो ऋभुरुवाच तं ।
शिवप्रेमरसे पात्रं तं वीक्ष्याब्जजनन्दनः ॥ ५.२८॥

ऋभुः –

कैलासे शंकरः पुत्रं कदाचिदुपदिष्टवान् ।
तदेव ते प्रवक्ष्यामि सावधानमनाः शृणु ॥ ५.२९॥

अयं प्रपञ्चो नास्त्येव नोत्पन्नो न स्वतः क्वचित् ।
चित्रप्रपञ्च इत्याहुर्नास्त्येव सर्वदा ॥ ५.३०॥

न प्रपञ्चो न चित्तादि नाहंकारो न जीवकः ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३१॥

मायाकार्यादिकं नास्ति मायाकार्यभयं नहि ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३२॥

कर्ता नास्ति क्रिया नास्ति करणं नास्ति पुत्रक ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३३॥

एकं नास्ति द्वयं नास्ति मन्त्रतन्त्रादिकं च न ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३४॥

श्रवणं मननं नास्ति निदिध्यासनविभ्रमः ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३५॥

समाधिद्विविधं नास्ति मातृमानादि नास्ति हि ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३६॥

अज्ञानं चापि नास्त्येव अविवेककथा न च ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३७॥

अनुबन्धचतुष्कं च सम्बन्धत्रयमेव न ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३८॥

भूतं भविष्यन्न क्वापि वर्तमानं न वै क्वचित् । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३९॥

गङ्गा गया तथा सेतुव्रतं वा नान्यदस्ति हि । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.४०॥

न भूमिर्न जलं वह्निर्न वायुर्न च खं क्वचित् । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.४१॥

नैव देवा न दिक्पाला न पिता न गुरुः क्वचित् । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.४२॥

न दूरं नान्तिकं नान्तं न मध्यं न क्वचित् स्थितिः । नाद्वैतद्वैतसत्यत्वमसत्यं वा इदं न च ॥ ५.४३॥

न मोक्षोऽस्ति न बन्धोऽस्ति न वार्त्तावासरोऽस्ति हि । क्वचिद्वा किंचिदेवं वा सदसद्वा सुखानि च ॥ ५.४४॥

द्वन्द्वं वा तीर्थधर्मादि आत्मानात्मेति न क्वचित् । न वृद्धिर्नोदयो म्न्युर्न गमागमविभ्रमः ॥ ५.४५॥

इह नास्ति परं नास्ति न गुरुश्च च शिष्यकः । सदसन्नास्ति भूरास्ति कार्यं नास्ति कृतं च न ॥ ५.४६॥

जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकं । शमादिषट्कं नास्त्येव नियमो वा यमोऽपि वा ॥ ५.४७॥

सर्वं मिथ्येति नास्त्येव ब्रह्म इत्येव नास्ति हि । चिदित्येव हि नास्त्येव चिदहं भाषणं न हि ॥ ५.४८॥

अहमित्येव नास्त्येव नित्योऽस्मीति च न क्वचित् । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वथा ॥ ५.४९॥

वाचा यदुच्यते किंचिन्मनसा मनुते च यत् । बुद्ध्या निश्चीयते यच्च चित्तेन ज्ञायते हि यत् ॥ ५.५०॥

योगेन युज्यते यच्च इन्द्रियाद्यैश्च यत् कृतं । जाग्रत्स्वप्नसुषुप्तिं च स्वप्नं वा न तुरीयकं ॥ ५.५१॥

सर्वं नास्तीति विज्ञेयं यदुपाधिविनिश्चितं । स्नानाच्छुद्धिर्न हि क्वापि ध्यानात् शुद्धिर्न हि क्वचित् ॥ ५.५२॥

गुणत्रयं नास्ति किंचिद्गुणत्रयमथापि वा । एकद्वित्वपदं नास्ति न बहुभ्रमविभ्रमः ॥ ५.५३॥

भ्रान्त्यभ्रान्ति च नास्त्येव किञ्चिन्नास्तीति निश्चिनु ।
केवलं ब्रह्ममात्रत्वात् न किञ्चिदवशिष्यते ॥ ५.५४॥

इदं शृणोति यः सम्यक् स ब्रह्म भवति स्वयं ॥ ५.५५॥

ईश्वरः -

वाराश्यम्बुनि बुद्बुदा इव घनानन्दाम्बुधावप्युमा-
कान्तेऽनन्तजगद्गतं सुरनरं जातं च तिर्यङ् मुहुः ।
भूतं चापि भविष्यति प्रतिभवं मायामयं चोर्मिजं
सम्यङ् मामनुपश्यतामनुभवैर्नास्त्येव तेषां भवः ॥ ५.५६॥

हरं विज्ञातारं निखिलतनुकारेषु करणं
न जानन्ते मोहाद्व्यमितकरणा अप्रतितरां ।
उमानाथाकारं हृदयदहरान्तर्गतसरा
पयोजाते भास्वद्वपुभुजगनाशाण्डजवरं ॥ ५.५७॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे शिवेन कुमारोपदेशवर्णनं नाम पञ्चमोऽध्यायः ॥

॥ षष्ठोऽध्यायः ॥

ईश्वरः -

व्रतानि मिथ्या भुवनानि मिथ्या भावादि मिथ्या भवनानि मिथ्या । भयं च मिथ्या भरणादि मिथ्या भुक्तं च मिथ्या बहुबन्धमिथ्या ॥ 6.1॥

वेदाश्च मिथ्या वचनानि मिथ्या वाक्यानि मिथ्या विविधानि मिथ्या । वित्तानि मिथ्या वियदादि मिथ्या विधुश्च मिथ्या विषयादि मिथ्या ॥ 6.2॥

गुरुश्च मिथ्या गुणदोषमिथ्या गुह्यं च मिथ्या गणना च मिथ्या । गतिश्च मिथ्या गमनं च मिथ्या सर्वं च मिथ्या गदितं च मिथ्या ॥ 6.3॥

वेदशास्त्रपुराणं च कार्यं कारणमीश्वरः । लोको भूतं जनं चैव सर्वं मिथ्या न संशयः ॥ 6.4॥

बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः । गौणं मुख्यं परं चान्यत् सर्वं मिथ्या न संशयः ॥ 6.5॥

वाचा वदति यत्किञ्चित् सर्वं मिथ्या न संशयः । संकल्पात् कल्प्यते यद्यत् मनसा चिन्त्यते च यत् ॥ 6.6॥

बुद्ध्या निश्चीयते किञ्चित् चित्तेन नीयते क्वचित् । प्रपञ्चे पञ्चते यद्यत् सर्वं मिथ्येति निश्चयः ॥ 6.7॥

श्रोत्रेण श्रूयते यद्यन्नेत्रेण च निरीक्ष्यते । नेत्रं श्रोत्रं गात्रमेव सर्वं मिथ्या न संशयः ॥ 6.8॥

इदमित्येव निर्दिष्टमिदमित्येव कल्पितं । यद्यद्वस्तु परिज्ञातं सर्वं मिथ्या न संशयः ॥ 6.9॥

कोऽहं किंतदिदं सोऽहं अन्यो वाचायते नहि । यद्यत् सम्भाव्यते लोके सर्वं मिथ्येति निश्चयः ॥ 6.10॥

सर्वाभ्यास्यं सर्वगोप्यं सर्वकारणविभ्रमः । सर्वभूतेति वार्ता च मिथ्येति च विनिश्चयः ॥ 6.11॥

सर्वभेदप्रभेदो वा सर्वसंकल्पविभ्रमः । सर्वदोषप्रभेदश्च सर्वं मिथ्या न संशयः ॥ ६.१२॥

रक्षको विष्णुरित्यादि ब्रह्मसृष्टेस्तु कारणम् । संहारे शिव इत्येवं सर्वं मिथ्या न संशयः ॥ ६.१३॥

स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् । मन्त्रो गोत्रं च सत्सङ्गः सर्वं मिथ्या न संशयः ॥ ६.१४॥

सर्वं मिथ्या जगद्विद्या भूतं भव्यं भवत्तथा । नास्ति नास्ति विभावेन सर्वं मिथ्या न संशयः ॥ ६.१५॥

चित्तभेदो जगद्भेदः अविद्यायाश्च संभवः । अनेककोटिब्रह्माण्डाः सर्वं ब्रह्मेति निश्चिनु ॥ ६.१६॥

लोकत्रयेषु सद्भावो गुणदोषादिजृम्भणम् । सर्वदेशिकवारोक्तिः सर्वं ब्रह्मेति निश्चिनु ॥ ६.१७॥

उत्कृष्टं च निकृष्टं च उत्तमं मध्यमं च तत् । ओंकारं चाप्यकारं च सर्वं ब्रह्मेति निश्चिनु ॥ ६.१८॥

यद्यज्जगति दृश्येत यद्यज्जगति वीक्ष्यते । यद्यज्जगति वर्तेत सर्वं ब्रह्मेति निश्चिनु ॥ ६.१९॥

येन केनाक्षरेणोक्तं येन केनापि संगतम् । येन केनापि नीतं तत् सर्वं ब्रह्मेति निश्चिनु ॥ ६.२०॥

येन केनापि गदितं येन केनापि मोदितम् । येन केनापि च प्रोक्तं सर्वं ब्रह्मेति निश्चिनु ॥ ६.२१॥

येन केनापि यद्दत्तं येन केनापि यत् कृतम् । यत्र कुत्र जलस्नानं सर्वं ब्रह्मेति निश्चिनु ॥ ६.२२॥

यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् । यद्यत् करोषि सत्येन सर्वं मिथ्येति निश्चिनु ॥ ६.२३॥

इदं सर्वमहं सर्वं सर्वं ब्रह्मेति निश्चिनु । यत् किञ्चित् प्रतिभातं च सर्वं मिथ्येति निश्चिनु ॥ ६.२४॥

ऋभुः –

पुनर्वक्ष्ये रहस्यानां रहस्यं परमाद्भुतम् । शङ्करेण कुमाराय प्रोक्तं कैलास पर्वते ॥ ६.२५॥

तन्मात्रं सर्वचिन्मात्रमखण्डैकरसं सदा । एकवर्जितचिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.२६॥

इदं च सर्वं चिन्मात्रं सर्वं चिन्मयमेव हि । आत्माभासं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.२७॥

सर्वलोकं च चिन्मात्रं सर्वं चिन्मयमेव हि । त्वत्ता मत्ता च चिन्मात्रं चिन्मात्रान्नास्ति किंचन ॥ ६.२८॥

आकाशो भूर्जलं वायुborder: अग्निर्ब्रह्मो -> वायुर्अग्निर्ब्रह्मो हरिः शिवः । यत्किंचिदन्यत् किंचिच्च सर्वं चिन्मयमेव हि ॥ ६.२९॥

अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि । भूतं भव्यं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३०॥

द्रव्यं कालश्च चिन्मात्रं ज्ञानं चिन्मयमेव च । ज्ञेयं ज्ञानं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३१॥

संभाषणं च चिन्मात्रं वाक् च चिन्मात्रमेव हि । असच्च सच्च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३२॥

आदिरन्तं च चिन्मात्रं अस्ति चेच्चिन्मयं सदा । ब्रह्मो यद्यपि चिन्मात्रं विष्णुश्चिन्मात्रमेव हि ॥ ६.३३॥

रुद्रोऽपि देवाश्चिन्मात्रं अस्ति नरतिर्यक्सुरासुरम् । गुरुशिष्यादि सन्मात्रं ज्ञानं चिन्मात्रमेव हि ॥ ६.३४॥

दृग्दृश्यं चापि चिन्मात्रं ज्ञाता ज्ञेयं ध्रुवाध्रुवम् । सर्वाश्चर्यं च चिन्मात्रं देहं चिन्मात्रमेव हि ॥ ६.३५॥

लिंगं चापि च चिन्मात्रं कारणं कार्यमेव च । मूर्तामूर्तं च चिन्मात्रं पापपुण्यमधापि च ॥ ६.३६॥

द्वैताद्वैतं च चिन्मात्रं वेदवेदान्तमेव च । दिशोऽपि विदिशश्चैव चिन्मात्रं तस्य पालकाः ॥ ६.३७॥

चिन्मात्रं व्यवहारादि भूतं भव्यं भवत्तथा । चिन्मात्रं नामरूपं च भूतानि भुवनानि च ॥ ६.३८॥

चिन्मात्रं प्राण एवेह चिन्मात्रं सर्वमिन्द्रियम् । चिन्मात्रं पञ्चकोशादि चिन्मात्रानन्दमुच्यते ॥ ६.३९॥

नित्यानित्यं च चिन्मात्रं सर्वं चिन्मात्रमेव हि । चिन्मात्रं नास्ति नित्यं च चिन्मात्रं नास्ति सत्यकम् ॥ ६.४०॥

चिन्मात्रमपि वैराग्यं चिन्मात्रकमिदं किल ।
आधारादि हि चिन्मात्रं आधेयं च मुनीश्वर ॥ ६.४१॥

यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ।
यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि ॥ ६.४२॥

यच्च यावच्च भूतानि यच्च यावच्च वक्ष्यते ।
यच्च यावच्च वेदोक्तं सर्वं चिन्मात्रमेव हि ॥ ६.४३॥

चिन्मात्रं नास्ति बन्धं च चिन्मात्रं नास्ति मोक्षकं ।
चिन्मात्रमेव सन्मात्रं सत्यं सत्यं शिवं स्पृशे ॥ ६.४४॥

सर्वं वेदत्रयप्रोक्तं सर्वं चिन्मात्रमेव हि ।
शिवप्रोक्तं कुमाराय तदेतत् कथितं त्वयि ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ॥ ६.४५॥

सूतः –

ईशावास्यादिमन्त्रैर्वरगगनतनोः क्षेत्रवासार्थवादैः
तल्लिङ्गागारमध्यस्थितसुमहदीशान लिङ्गेषु पूजा ।
अक्लेद्ये चाभिषेको ??? ??? ??? दिग्वाससे वासदानं
नो गन्धघ्राणहीने रूपदृश्याद्विहीने गन्धपुष्पार्पणानि ॥ ६.४६॥

स्वभासे दीपदानं ??? सर्वभक्ष्ये महेशे
नैवेद्यं नित्यतृप्ते सकलभुवनगे प्रक्रमो वा नमस्या ।
कुर्यां केनापि भावैर्नम निगमशिरोभाव एव प्रमाणं ॥ ६.४७॥

अविच्छिन्नैश्छिन्नैः परिकरवरैः पूजनधिया
भजन्त्यज्ञास्तद्ज्ञाः विधिविहितबुद्ध्यागतधियः ।
तथापीशं भावैर्यजति भजतामात्मपदवीं
ददातीशो विश्वं भ्रमयति गतज्ञांश्च कुरुते ॥ ६.४८॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे प्रपञ्चस्य सच्चिन्मयतथकथनं नाम षष्ठोऽध्यायः ॥

॥ सप्तमोऽध्यायः ॥

ऋभुः -

अत्यद्भुतं प्रवक्ष्यामि सर्वलोकेषु दुर्लभं । वेदशास्त्रमहासारं दुर्लभं दुर्लभं सदा ॥ 7.1॥

अखण्डैकरसो मन्त्रमखण्डैकरसं फलं । अखण्डैकरसो जीव अखण्डैकरसा क्रिया ॥ 7.2॥

अखण्डैकरसा भूमिरखण्डैकरसं जलं । अखण्डैकरसो गन्ध अखण्डैकरसं वियत् ॥ 7.3॥

अखण्डैकरसं शास्त्रं अखण्डैकरसं श्रुतिः । अखण्डैकरसं ब्रह्म अखण्डैकरसं व्रतं ॥ 7.4॥

अखण्डैकरसो विष्णुरखण्डैकरसः शिवः । अखण्डैकरसो ब्रह्मो अखण्डैकरसाः सुराः ॥ 7.5॥

अखण्डैकरसं सर्वमखण्डैकरसः स्वयं । अखण्डैकरसश्चात्मा अखण्डैकरसो गुरुः ॥ 7.6॥

अखण्डैकरसं वाच्यमखण्डैकरसं महः । अखण्डैकरसं देह अखण्डैकरसं मनः ॥ 7.7॥

अखण्डैकरसं चित्तं अखण्डैकरसं सुखं । अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः ॥ 7.8॥

अखण्डैकरसं नित्यमखण्डैकरसः परः । अखण्डैकरसात् किंचिदखण्डैकरसादहं ॥ 7.9॥

अखण्डैकरसं वास्ति अखण्डैकरसं न हि । अखण्डैकरसादन्यत् अखण्डैकरसात् परः ॥ 7.10॥

अखण्डैकरसात् स्थूलं अखण्डैकरसं जनः । अखण्डैकरसं सूक्ष्ममखण्डैकरसं द्वयं ॥ 7.11॥

अखण्डैकरसं नास्ति अखण्डैकरसं बलं । अखण्डैकरसाद्विष्णुरखण्डैकरसादणुः ॥ 7.12॥

अखण्डैकरसं नास्ति अखण्डैकरसाद्भवान् । अखण्डैकरसो ह्येव अखण्डैकरसादितं ॥ 7.13॥

अखण्डितरसाद् ज्ञानं अखण्डितरसाद् स्थितम् ।
अखण्डैकरसा लीला अखण्डैकरसः पिता ॥ 7.14॥

अखण्डैकरसा भक्ता अखण्डैकरसः पतिः ।
अखण्डैकरसा माता अखण्डैकरसो विराट् ॥ 7.15॥

अखण्डैकरसं गात्रं अखण्डैकरसं शिरः ।
अखण्डैकरसं घ्राणं अखण्डैकरसं बहिः ॥ 7.16॥

अखण्डैकरसं पूर्णमखण्डैकरसामृतं ।
अखण्डैकरसं श्रोत्रमखण्डैकरसं गृहं ॥ 7.17॥

अखण्डैकरसं गोप्यमखण्डैकरसः शिवः ।
अखण्डैकरसं नाम अखण्डैकरसो रविः ॥ 7.18॥

अखण्डैकरसः सोमः अखण्डैकरसो गुरुः ।
अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥ 7.19॥

अखण्डैकरसो बन्धुरखण्डैकरसोऽस्म्यहं ।
अखण्डैकरसो राजा अखण्डैकरसं पुरं ॥ 7.20॥

अखण्डैकरसैश्वर्यं अखण्डैकरसं प्रभुः ।
अखण्डैकरसो मन्त्र अखण्डैकरसो जपः ॥ 7.21॥

अखण्डैकरसं ध्यानमखण्डैकरसं पदं ।
अखण्डैकरसं ग्राह्यमखण्डैकरसं महान् ॥ 7.22॥

अखण्डैकरसं ज्योतिरखण्डैकरसं परं ।
अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥ 7.23॥

अखण्डैकरसो होमः अखण्डैकरसो जयः ।
अखण्डैकरसः स्वर्गः अखण्डैकरसः स्वयं ॥ 7.24॥

अखण्डैकरसाकारादन्यन्नास्ति नहि क्वचित् ।
शृणु भूयो महोश्चर्यं नित्यानुभवसंपदं ॥ 7.25॥

दुर्लभं दुर्लभं लोके सर्वलोकेषु दुर्लभं ।
अहमस्मि परं चास्मि प्रभास्मि प्रभवोऽस्म्यहं ॥ 7.26॥

सर्वरूपगुरुश्चास्मि सर्वरूपोऽस्मि सोऽस्म्यहं ।
अहमेवास्मि शुद्धोऽस्मि बुद्धोऽस्मि परमोऽस्म्यहं ॥ 7.27॥

अहमस्मि सदा ज्ञोऽस्मि सत्योऽस्मि विमलोऽस्म्यहं ।
विज्ञानोऽस्मि विशेषोऽस्मि साम्योऽस्मि सकलोऽस्म्यहं ॥ 7.28॥

शुद्धोऽस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् । मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् ॥ ७.२९॥

द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम् । भावाभावविहीनोऽस्मि भाषाहीनोऽस्मि सोऽस्म्यहम् ॥ ७.३०॥

शून्याशून्यप्रभावोऽस्मि शोभनोऽस्मि मनोऽस्म्यहम् । तुल्यातुल्यविहीनोऽस्मि तुच्छभावोऽस्मि नास्म्यहम् ॥ ७.३१॥

सदा सर्वविहीनोऽस्मि सात्त्विकोऽस्मि सदास्म्यहम् । एकसंख्याविहीनोऽस्मि द्विसंख्या नास्ति नास्म्यहम् ॥ ७.३२॥

सदसद्भेदहीनोऽस्मि सङ्कल्परहितोऽस्म्यहम् । नानात्मभेदहीनोऽस्मि यत् किञ्चिन्नास्ति सोऽस्म्यहम् ॥ ७.३३॥

नाहमस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् । आश्रयाश्रयहीनोऽस्मि आधाररहितोऽस्म्यहम् ॥ ७.३४॥

बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मादि सोऽस्म्यहम् । चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परोऽस्म्यहम् ॥ ७.३५॥

सदा विचाररूपोऽस्मि निर्विचारोऽस्मि सोऽस्म्यहम् । आकारादिस्वरूपोऽस्मि उकारोऽस्मि मुदोऽस्म्यहम् ॥ ७.३६॥

ध्यानाध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् । पूर्णात् पूर्णोऽस्मि पूर्णोऽस्मि सर्वपूर्णोऽस्मि सोऽस्म्यहम् ॥ ७.३७॥

सर्वातीतरूपोऽस्मि परं ब्रह्मोऽस्मि सोऽस्म्यहम् । लक्ष्यलक्षणहीनोऽस्मि लयहीनोऽस्मि सोऽस्म्यहम् ॥ ७.३८॥

मातृमानविहीनोऽस्मि मेयहीनोऽस्मि सोऽस्म्यहम् । जगत् सर्वं च द्रष्टास्मि नेत्रादिरहितोऽस्म्यहम् ॥ ७.३९॥

प्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि परोऽस्म्यहम् । सर्वेन्द्रियविहीनोऽस्मि सर्वकर्मरहितोऽस्म्यहम् ॥ ७.४०॥

सर्ववेदान्ततत्त्वोऽस्मि सर्वदा सुलभोऽस्म्यहम् । मुदा मुदितशून्योऽस्मि सर्वमौनफलोऽस्म्यहम् ॥ ७.४१॥

नित्यचिन्मात्ररूपोऽस्मि सदसच्चिन्मयोऽस्म्यहम् । यत् किञ्चिदपि हीनोऽस्मि स्वल्पमप्यति नाहितम् ॥ ७.४२॥

हृदयग्रन्थिहीनोऽस्मि हृदयाद्व्यापकोऽस्म्यहम् । षड्विकारविहीनोऽस्मि षट्कोशरहितोऽस्म्यहम् ॥ ७.४३॥

अरिषड्वर्गमुक्तोऽस्मि अंतरादंतरोऽस्म्यहं ।
देशकालविहीनोऽस्मि दिगंबरमुखोऽस्म्यहं ॥ 7.44॥

नास्ति होस्ति विमुक्तोऽस्मि नकाररहितोऽस्म्यहं ।
सर्वचिन्मात्ररूपोऽस्मि सच्चिदानंदमस्म्यहं ॥ 7.45॥

अखंडाकाररूपोऽस्मि अखंडाकारमस्म्यहं ।
प्रपंचचित्ररूपोऽस्मि प्रपंचरहितोऽस्म्यहं ॥ 7.46॥

सर्वप्रकाररूपोऽस्मि सद्भावावर्जितोऽस्म्यहं ।
कालत्रयविहीनोऽस्मि कामादिरहितोऽस्म्यहं ॥ 7.47॥

कायकायिविमुक्तोऽस्मि निर्गुणप्रभवोऽस्म्यहं ।
मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं सदा ॥ 7.48॥

सत्यासत्यविहीनोऽस्मि सदा सन्मात्रमस्म्यहं ।
गंतव्यदेशहीनोऽस्मि गमनारहितोऽस्म्यहं ॥ 7.49॥

सर्वदा स्वरूपोऽस्मि शांतोऽस्मि सुहितोऽस्म्यहं ।
एवं स्वानुभवं प्रोक्तं एतत् प्रकरणं महत् ॥ 7.50॥

यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ।
पिंडांडसंभवजगद्गतखंडनोद्य-
द्वेतंडशुंडनिभपीवरबाहुदंड ।
ब्रह्मोुरुमुंडकलितांडजवाहबाण
कोदंडभूधरधरं भजतामखंडं ॥ 7.51॥

विश्वात्मन्यद्वितीये भगवति गिरिजानायके काशरूपे
नीरूपे विश्वरूपे गतदुरितधियः प्राप्नुवंत्यात्मभावं ।
अन्ये भेदधियः श्रुतिप्रकथितैर्वर्णाश्रमोत्थश्रमैः
तांताः शांतिविवर्जिता विषयिणो दुःखं भजंत्यन्वहं ॥ 7.52॥

॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे स्वात्मनिरूपणं नाम सप्तमोऽध्यायः ॥

॥ अष्टमोऽध्यायः ॥

ऋभुः –

वक्ष्ये प्रपञ्चशून्यत्वं शशशृङ्गेण संमितम् ।
दुर्लभं सर्वलोकेषु सावधानमनाः शृणु ॥ 8.1॥

इदं प्रपञ्चं यत् किञ्चिद्यः शृणोति च पश्यति ।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ 8.2॥

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कारश्च तेजश्च सर्वं शशविषाणवत् ॥ 8.3॥

नाश जन्म च सत्यं च लोकं भुवनमण्डलं ।
पुण्यं पापं जयो मोहः सर्वं शशविषाणवत् ॥ 8.4॥

कामक्रोधौ लोभमोहौ मदमोहौ रतिर्धृतिः ।
गुरुशिष्योपदेशादि सर्वं शशविषाणवत् ॥ 8.5॥

अहं त्वं जगदित्यादि आदिरन्तिममध्यमम् ।
भूतं भव्यं वर्तमानं सर्वं शशविषाणवत् ॥ 8.6॥

स्थूलदेहं सूक्ष्मदेहं कारणं कार्यमव्ययम् ।
दृश्यं च दर्शनं किञ्चित् सर्वं शशविषाणवत् ॥ 8.7॥

भोक्ता भोज्यं भोगरूपं लक्ष्यलक्षणमद्वयम् ।
शमो विचारः सन्तोषः सर्वं शशविषाणवत् ॥ 8.8॥

यमं च नियमं चैव प्राणायामादिभाषणम् ।
गमनं चलनं चित्तं सर्वं शशविषाणवत् ॥ 8.9॥

श्रोत्रं नेत्रं गात्रगोत्रं गुह्यं जाड्यं हरिः शिवः ।
आदिरन्तो मुमुक्षा च सर्वं शशविषाणवत् ॥ 8.10॥

ज्ञानेन्द्रियं च तन्मात्रं कर्मेन्द्रियगणं च यत् ।
जाग्रत्स्वप्नसुषुप्त्यादि सर्वं शशविषाणवत् ॥ 8.11॥

चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् ।
सजातीयं विजातीयं सर्वं शशविषाणवत् ॥ 8.12॥

सर्वलोकं सर्वभूतं सर्वधर्मं सतत्त्वकम् ।
सर्वाविद्या सर्वविद्या सर्वं शशविषाणवत् ॥ 8.13॥

सर्ववर्णः सर्वजातिः सर्वक्षेत्रं च तीर्थकम् ।
सर्ववेदं सर्वशास्त्रं सर्वं शशविषाणवत् ॥ 8.14॥

सर्वबन्धं सर्वमोक्षं सर्वविज्ञानमीश्वरः ।
सर्वकालं सर्वबोध सर्वं शशविषाणवत् ॥ 8.15॥

सर्वास्तित्वं सर्वकर्म सर्वसङ्गयुतिर्महान् ।
सर्वद्वैतमसद्भावं सर्वं शशविषाणवत् ॥ 8.16॥

सर्ववेदान्तसिद्धान्तः सर्वशास्त्रार्थनिर्णयः ।
सर्वजीवत्वसद्भावं सर्वं शशविषाणवत् ॥ 8.17॥

यद्यत् संवेद्यते किञ्चित् यद्यज्जगति दृश्यते ।
यद्यच्छृणोति गुरुणा सर्वं शशविषाणवत् ॥ 8.18॥

यद्यद्ध्यायति चित्ते च यद्यत् सङ्कल्प्यते क्वचित् ।
बुद्ध्या निश्चीयते यच्च सर्वं शशविषाणवत् ॥ 8.19॥

यद्यद् वाचा व्याकरोति यद्याचा चार्थभाषणम् ।
यद्यत् सर्वेन्द्रियैर्ग्राह्यं सर्वं शशविषाणवत् ॥ 8.20॥

यद्यत् सन्त्यज्यते वस्तु यच्छृणोति च पश्यति ।
स्वकीयमन्यदीयं च सर्वं शशविषाणवत् ॥ 8.21॥

सत्यत्वेन च यद्ध्याति वस्तुत्वेन रसेन च ।
यद्यत् सङ्कल्प्यते चित्ते सर्वं शशविषाणवत् ॥ 8.22॥

यद्यदात्मेति निर्णीतं यद्यन्नित्यमितं वचः ।
यद्यद्विचार्यते चित्ते सर्वं शशविषाणवत् ॥ 8.23॥

शिवः संहरते नित्यं विष्णुः पाति जगत्त्रयम् ।
स्रष्टा सृजति लोकान् वै सर्वं शशविषाणवत् ॥ 8.24॥

जीव इत्यपि यद्यस्ति भाष्यत्यपि भाषणम् ।
संसार इति या वार्ता सर्वं शशविषाणवत् ॥ 8.25॥

यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयः ।
सर्वोपनिषदां भावं सर्वं शशविषाणवत् ॥ 8.26॥

शशशृङ्गवदेवेदमुक्तं प्रकरणं तव ।
यः शृणोति रहस्यं वै ब्रह्मैव भवति स्वयं ॥ 8.27॥

भूयः शृणु निदाघ त्वं सर्वं ब्रह्मेति निश्चयम् ।
सुदुर्लभमिदं नॄणां देवानामपि सत्तम ॥ 8.28॥

इदमित्यपि यद्रूपमहमित्यपि यत्पुनः ।
दृश्यते यत्तदेवेदं सर्वं ब्रह्मेति केवलम् ॥ ८.२९ ॥

देहोऽयमिति सङ्कल्पस्तदेव भयमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३० ॥

देहोऽहमिति सङ्कल्पस्तदन्तःकरणं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३१ ॥

देहोऽहमिति सङ्कल्पः स हि संसार उच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३२ ॥

देहोऽहमिति सङ्कल्पस्तद्बन्धनमिहोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३३ ॥

देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३४ ॥

देहोऽहमिति सङ्कल्पो जगत् सर्वमितीर्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३५ ॥

देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितः ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३६ ॥

देहत्रयेऽपि भावं यत् तद्देहाज्ञानमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३७ ॥

देहोऽहमिति यद्भावं सदसद्भावमेव च ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३८ ॥

देहोऽहमिति सङ्कल्पस्तत्प्रपञ्चमिहोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३९ ॥

देहोऽहमिति सङ्कल्पस्तदेवाज्ञानमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४० ॥

देहोऽहमिति या बुद्धिर्मलिना वासनोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४१ ॥

देहोऽहमिति या बुद्धिः सत्यं जीवः स एव सः ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४२ ॥

देहोऽहमिति सङ्कल्पो महानरकमीरितम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४३ ॥

देहोऽहमिति या बुद्धिर्न एवेति निश्चितम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8.44॥

देहोऽहमिति या बुद्धिः परिच्छिन्नमितीर्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8.45॥

देहोऽहमिति यद् ज्ञानं सर्वं शोक इतीरितम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8.46॥

देहोऽहमिति यद् ज्ञानं संस्पर्शमिति कथ्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8.47॥

देहोऽहमिति या बुद्धिस्तदेव मरणं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8.48॥

देहोऽहमिति या बुद्धिस्तदेवाशोभनं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8.49॥

देहोऽहमिति या बुद्धिर्महापापमिति स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8.50॥

देहोऽहमिति या बुद्धिः तुष्टा नैव हि चोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8.51॥

देहोऽहमिति सङ्कल्पः सर्वदोषमिति स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8.52॥

देहोऽहमिति सङ्कल्पस्तदेव मलमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8.53॥

देहोऽहमिति सङ्कल्पो महत्संशयमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8.54॥

यत्किञ्चित्स्मरणं दुःखं यत्किञ्चित् स्मरणं जगत् ।
यत्किञ्चित्स्मरणं कामो यत्किञ्चित्स्मरणं मलम् ॥ 8.55॥

यत्किञ्चित्स्मरणं पापं यत्किञ्चित्स्मरणं मनः ।
यत्किञ्चिदपि सङ्कल्पं महारोगेति कथ्यते ॥ 8.56॥

यत्किञ्चिदपि सङ्कल्पं महामोहेति कथ्यते ।
यत्किञ्चिदपि सङ्कल्पं तापत्रयमुदाहृतम् ॥ 8.57॥

यत्किञ्चिदपि सङ्कल्पं कामक्रोधौ च कथ्यते ।
यत्किञ्चिदपि सङ्कल्पं सम्बन्धो नेतरत् क्वचित् ॥ 8.58॥

यत्किंचिदपि संकल्पं सर्वदुःखेति नेतरत् । यत्किंचिदपि संकल्पं जगत्सत्यत्वविभ्रमम् ॥ ८.५९॥

यत्किंचिदपि संकल्पं महादोषं च नेतरत् । यत्किंचिदपि संकल्पं कालत्रयमुदीरितम् ॥ ८.६०॥

यत्किंचिदपि संकल्पं नानारूपमुदीरितम् । यत्र यत्र च संकल्पं तत्र तत्र महज्जगत् ॥ ८.६१॥

यत्र यत्र च संकल्पं तदेवासत्यमेव हि । यत्किंचिदपि संकल्पं तज्जगन्नास्ति संशयः ॥ ८.६२॥

यत्किंचिदपि संकल्पं तत्सर्वं नेति निश्चयः । मन एव जगत्सर्वं मन एव महारिपुः ॥ ८.६३॥

मन एव हि संसारो मन एव जगत्त्रयम् । मन एव महादुःखं मन एव जरादिकम् ॥ ८.६४॥

मन एव हि कालं च मन एव मलं सदा । मन एव हि संकल्पो मन एव हि जीवकः ॥ ८.६५॥

मन एवाशुचिर्नित्यं मन एवेन्द्रजालकम् । मन एव सदा मिथ्या मनो वन्ध्याकुमारवत् ॥ ८.६६॥

मन एव सदा नास्ति मन एव जडं सदा । मन एव हि चित्तं च मनोऽहंकारमेव च ॥ ८.६७॥

मन एव महद्बन्धं मनोऽन्तःकरणं क्वचित् । मन एव हि भूमिश्च मन एव हि तोयकम् ॥ ८.६८॥

मन एव हि तेजश्च मन एव मरुन्महान् । मन एव हि चाकाशो मन एव हि शब्दकः ॥ ८.६९॥

मन एव स्पर्शरूपं मन एव हि रूपकम् । मन एव रसाकारं मनो गन्धः प्रकीर्तितः ॥ ८.७०॥

अन्नकोशं मनोरूपं प्राणकोशं मनोमयम् । मनोकोशं मनोरूपं विज्ञानं च मनोमयः ॥ ८.७१॥

मन एवानन्दकोशं मनो जाग्रदवस्थितम् । मन एव हि स्वप्नं च मन एव सुषुप्तिकम् ॥ ८.७२॥

मन एव हि देवादि मन एव यमादयः । मन एव हि यत्किञ्चिन्मन एव मनोमयः ॥ ८.७३॥

मनोमयमिदं विश्वं मनोमयमिदं पुरम् । मनोमयमिदं भूतं मनोमयमिदं द्वयम् ॥ ८.७४ ॥

मनोमयमीयं जातिर्मनोमयमिदं गुणः । मनोमयमिदं दृश्यं मनोमयमिदं जडम् ॥ ८.७५ ॥

मनोमयमिदं यद्यन्मनो जीव इति स्थितम् । सङ्कल्पमात्रमज्ञानं भेदः सङ्कल्प एव हि ॥ ८.७६ ॥

सङ्कल्पमात्रं विज्ञानं द्वन्द्वं सङ्कल्प एव हि । सङ्कल्पमात्रकालं च देशं सङ्कल्पमेव हि ॥ ८.७७ ॥

सङ्कल्पमात्रो देहश्च प्राणः सङ्कल्पमात्रकः । सङ्कल्पमात्रं मननं सङ्कल्पं श्रवणं सदा ॥ ८.७८ ॥

सङ्कल्पमात्रं नरकं सङ्कल्पं स्वर्ग इत्यपि । सङ्कल्पमेव चिन्मात्रं सङ्कल्पं चात्मचिन्तनम् ॥ ८.७९ ॥

सङ्कल्पं वा मनाक्त्यक्तं ब्रह्मसङ्कल्पमेव हि । सङ्कल्प एव यत्किञ्चित् तन्नास्त्येव कदाचन ॥ ८.८० ॥

नास्ति नास्त्येव सङ्कल्पं नास्ति नास्ति जगत्त्रयम् । नास्ति नास्ति गुरुर्नास्ति नास्ति शिष्योऽपि वस्तुतः ॥ ८.८१ ॥

नास्ति नास्ति शरीरं च नास्ति नास्ति मनः क्वचित् । नास्ति नास्त्येव किञ्चिद्वा नास्ति नास्त्यखिलं जगत् ॥ ८.८२ ॥

नास्ति नास्त्येव भूतं वा सर्वं नास्ति न संशयः । "सर्वं नास्तीति" प्रकरणं मयोक्तं च निदाघ ते । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ८.८३ ॥

वेदान्तैरपि चन्द्रशेखरपदाम्भोजानुरागादरा- दारोदारकुमारदारनिकरैः प्राणैर्गृहैरुज्झितः । त्यागाद्यो मनसा सकृत् शिवपदध्यानेन यत्प्राप्यते तन्नैवाप्यति शब्दतर्कनिवहैः शान्तं मनस्तद्भवेत् ॥ ८.८४ ॥

अशेषदृश्योज्झितदृग्जयानां सङ्कल्पवर्जेन सदास्थितानाम् । न जाग्रतः स्वप्नसुषुप्तिभावो न जीवनं नो मरणं च चित्रम् ॥ ८.८५ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे प्रपञ्चशून्यत्व- सर्वनास्तित्वनिरूपणं नाम अष्टमोऽध्यायः ॥

(इस पृष्ठ पर कोई पाठ/सामग्री उपलब्ध नहीं है। केवल एक क्षैतिज रेखा अंकित है। / The page is blank with no text.)

॥ नवमोऽध्यायः ॥

निदाघः- कुत्र वा भवता स्नानं क्रियते नितरां गुरो । स्नानमन्त्रं स्नानकालं तर्पणं च वदस्व मे ॥ ९.१॥

ऋभुः - आत्मस्नानं महास्नानं नित्यस्नानं न चान्यतः । इदमेव महास्नानं अहं ब्रह्मास्मि निश्चयः ॥ ९.२॥

परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहं । इदमेव महास्नानं अहं ब्रह्मेति निश्चयः ॥ ९.३॥

केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहं । केवलं शान्तरूपोऽहं केवलं निर्मलोऽस्म्यहं ॥ ९.४॥

केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहं । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.५॥

केवलं सर्वरूपोऽहं अहन्त्यक्तोऽहमस्म्यहं । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.६॥

सर्वहीनस्वरूपोऽहं चिदाकाशोऽहमस्म्यहं । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.७॥

केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलं । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.८॥

सदा चैतन्यरूपोऽस्मि सच्चिदानन्दमस्म्यहं । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.९॥

केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.१०॥

केवलं ज्ञानशुद्धोऽस्मि केवलोऽस्मि प्रियोऽस्म्यहं । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.११॥

केवलं निर्विकल्पोऽस्मि स्वस्वरूपोऽहमस्मि ह । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.१२॥

सदा सत्सङ्गरूपोऽस्मि सर्वदा परमोऽस्म्यहं । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.१३॥