वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
२०८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ६० श्लो० ४८-६९] ( महास्थानतीर्थवर्णनम् )
ऋषयस्त्वेकतः सर्वे याज्ञवल्क्यस्तथैकतः । सर्वे ते मुनवस्तेन याज्ञवल्क्येन धीमता ॥ ऐकैकशतस्तः पृष्टा नैवोत्तरमथाब्रुवन् ॥ ४८ तान्विजित्य मुनीन्सर्वान्ब्रह्मराशिर्महाद्युतिः । शाकल्यामिति होवाच वादकर्तारमञ्जसा ॥ ४९ शाकल्य वद वक्तव्यं किं ध्यायन्नवतिष्ठसे । पूर्णस्त्वं जडमानेन वाताध्मातो यथा दृतिः ॥ ५० एवं स धर्षितस्तेन रोषात्ताम्रास्यलोचनः । प्रोवाच याज्ञवल्क्यं तं परुषं मुनिसंनिधौ ॥ ५१ त्वमस्मांस्तृणवत्कृत्वा तथैवेमान्द्विजोत्तमान् । विद्याधनं महासारं स्वयंग्राहं जिघृक्षसि ॥ ५२ शाकल्येनैवमुक्तः स याज्ञवल्क्यः समब्रवीत् । बलिष्ठानां बलं विद्धि विद्यातत्त्वार्थदर्शनम् ॥ ५३ कामश्चार्थेन संबद्धस्तेनार्थं कामयामहे । कामप्रश्नेधना विप्राः कामप्रश्नान्वदामहे ॥ ५४ पणश्चैषोऽस्य राजर्षेस्तस्मान्नीतं धनं मया । एतच्छ्रुत्वा वचस्तस्य शाकल्यः क्रोधमूर्च्छितः ॥ याज्ञवल्क्यमथोवाच कामप्रश्नार्थवद्वचः ॥ ५५ ब्रूहीदानीं मयोद्दिष्टान्कामप्रश्नान्यथार्थतः । ततः समभवद्वादस्तयोर्ब्रह्मविदोर्महान् ॥ ५६ साग्रं प्रश्नसहस्रं तु शाकल्यस्तमचूचुदत् । याज्ञवल्क्योऽब्रवीत्सर्वानृषीणां शृण्वतां तदा ॥ ५७ शाकल्ये चापि निर्वीदे याज्ञवल्क्यस्तमब्रवीत् । प्रश्नमेकं ममापि त्वं वद शाकल्य कामिकम् ॥ शापः पणोऽस्य वादस्य अब्रुवन्मृत्युमाव्रजेत् ॥ ५८ अथो सन्नोदितं प्रश्नं याज्ञवल्क्येन धीमता । शाकल्यस्तमविज्ञाय सद्यो मृत्युमवामुयात् ॥ ५९ एवं स्मृतः स शाकल्यः प्रश्नव्याख्यानपीडितः । एवं वादश्च सुमहानासीत्तेषां धनार्थिनाम् ॥ ऋषीणां मुनिभिः सार्धं याज्ञवल्क्यस्य चैव हि ॥ ६० सर्वैः पृष्टांस्तु संप्रश्नाञ्शतशोऽथ सहस्रशः । व्याख्यायं वै मुने तेषां प्रश्नसारं महागतिः ॥ ६१ याज्ञवल्क्यो धनं गृह्य यशो विख्याप्य चाऽऽत्मनः । जगाम वै गृहं स्वस्थः शिष्यैः परिवृतो वशी देवमित्रस्तु शाकल्यो महात्मा द्विजसत्तमः । चकार संहिताः पञ्च बुद्धिमान्पदवित्तमः ॥ ६३ तच्छिष्या अभवन्पञ्च मुद्गलो गोलकस्तथा । खलीयश्च तथा मत्स्यः शैशरेयस्तु पञ्चमः ॥ ६४ प्रोवाच संहितास्तिस्रः शाकपूर्णरथीतरः । निरुक्तं च पुनश्चक्रे चतुर्थं द्विजसत्तमः ॥ ६५ तस्य शिष्यास्तु चत्वारः केतवो दालाकिस्तथा । * धर्मशर्मा देवशर्मा सर्वे व्रतधरा द्विजाः ॥ ६६ शाकल्ये तु मृते सर्वे ब्रह्मघ्नास्ते बभूविरे । तदा चिन्तां परां प्राप्य गतास्ते ब्रह्मणोऽन्तिकम् ॥ ६७ ताञ्ज्ञात्वा चेतसा ब्रह्मा प्रेषितः पवने पुरे । तत्र गच्छत यूयं वः सद्यः पापं प्रणश्यति ॥ ६८ द्वादशार्कं नमस्कृत्य तथा वै वालुकेश्वरम् । एकादश तथा रुद्रान्वायुपुत्रं विशेषतः ॥ कुण्डे चतुष्टये स्नात्वा ब्रह्महत्यां तरिष्यथ ॥ ६९
* धनुश्चिह्नान्तर्गतग्रन्थो ग. ङ. पुस्तकेयोर्नास्ति ।
[अ० ६०-६१ श्लो० ७०-७५।१-११] वायुपुराणम् । २०९
( प्रजापतिवंशानुकीर्तनम् )
सर्वे शीघ्रतरा भूत्वा तत्पुरं समुपागताः । स्नानं कृतं विधानेन देवानां दर्शनं कृतम् ॥ ७०
उत्तरेश्वरं नमस्कृत्य वाडवानां प्रसादतः । सर्वे पापविनिर्मुक्ता गतास्ते सूर्यमण्डलम् ॥ ७१
तदा प्रभृति तत्तीर्थं जातं पातकनाशनम् । वायोः पुरं पवित्रं च वायुना निर्मितं पुरा ॥ ७२
अञ्जनीगर्भसंभूतो हनुमान्पवनात्मजः । यदा जातो महादेव हनुमान्सत्यविक्रमः ॥
तदैव निर्मितं तीर्थं वायुना ब्रह्मयोनिना ॥ ७३
उर्व्यां जातास्तु ये शूद्रा ब्राह्मणानां निवेदिताः । वृत्यथं ब्रह्मयज्ञार्थं करस्तेषु कृतो महान ॥ ७४
अनेन विधिना जातं विप्राणां शासनं महत् । गोघ्नो वापि कृतघ्नो वा सुरापी गुंरुतल्पगः
वाडादित्यं नमस्कृत्य सर्वपापैः प्रमुच्यते ॥ ७५
इति श्रीमद्भापुराणे वायुप्रोक्ते महास्थानतीर्थवेदशाखाप्रणयवर्णनं नाम षष्ठ्याऽध्यायः ॥
आदितः श्लोकानां समष्टयङ्काः-४९००
अथैकषष्टयऽध्यायः ।
प्रजापतिवंशानुकीर्तनम् ।
ऋषय ऊचुः--
भारद्वाजो याज्ञवल्क्यो गालाकिः सालाकिस्तथा ] धीमाञ्शतवलाकश्र्च नैगमश्च द्विजोत्तमः ॥ १
बाष्कलिश्च भरद्वाजस्तिस्रः प्रोवाच संहिताः । रथींतरो निरुक्तं च पुनश्चक्रे चतुर्थकम् ॥ २
त्रयस्तस्याभवञ्छिष्या महात्मानो गुणान्विताः । श्रीमान्बन्दायनीयश्च पन्नगारिश्च बुद्धिमान् ॥
तृतीयश्चाऽऽर्यवस्ते च तपसा संशितव्रताः ॥ ३
वीतरागा * महातेजाः संहिताज्ञानपारगाः । इत्येते बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः ॥ ४
वैशम्पायनगोत्रोऽसौ यजुर्वेदं व्यकल्पयत् । षडशीतिस्तु येनोक्ताः संहिता यजुषां शुभाः ॥ ५
शिष्येभ्यः प्रददौ ताश्च जगृहुस्ते विधानतः । एकस्तत्र परित्यक्तो याज्ञवल्क्यो महातपाः ॥
षडशीतिश्च तस्यापि संहितानां विकल्पकाः । ६
सर्वेषामेव तेषां वै त्रिधा भेदाः प्रकीर्तिताः । त्रिधा भेदास्तु ते प्रोक्ता भेदेऽस्मिन्नवमे शुभे ॥ ७
उदीच्या मध्यदेशाश्च प्राच्याश्चैव पृथग्विधाः । श्यामायर्निरुदीच्यानां प्रधानः संबभूव ह ॥ ८
मध्यदेशप्रतिष्ठानामारुणिः प्रथमः स्मृतः । आलम्बिरादिः प्राच्यानां त्रयोदश्यादयस्तु ते ॥ ९
इत्येते चरकाः प्रोक्ताः संहितावादिनो द्विजाः । ऋषयस्तद्वचः श्रुत्वा सूतं जिज्ञासवोऽब्रुवन् ॥ १०
चरकाध्वर्यवः केन कारणं ब्रूहि तत्त्वतः । किं चीर्णं कस्य हेतोश्च चरकत्वं च भेजिरे ॥
इत्युक्तः प्राह तेषां स चरकत्वमभूद्यथा ॥ ११
* आर्षत्वादेकवचनम् ।
२७
२१० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६१ श्लो० १२-३३] ( प्रजापतिवंशानुकीर्तनम् )
सूत उवाच-- कार्यमासीदृषीणां च किंचिद्ब्राह्मणसत्तमाः । येरुष्टं मेस्तदा त्विति मन्त्रितम् ॥ १२ यो नोऽत्र सप्तरात्रेण नाऽगच्छेद्द्विजसत्तमाः । स कुर्याद्ब्रह्मवध्यां वै समयो नः प्रकीर्तितः ॥ १३ ततस्ते सगणाः सर्वे वैशम्पायनवज्जिताः । प्रययुः सप्तरात्रेण यत्र संधिः कृतोऽभवत् ॥ १४ ब्राह्मणानां तु वचनाद्ब्रह्मवध्यां चकार सः । शिष्यानथ समानीय स वैशम्पायनोऽब्रवीत् ॥ १५ ब्रह्मवध्यां चरध्वं वै मत्कृते द्विजसत्तमाः । सर्वे यूयं समागम्य ब्रूत मैतद्धितं वचः ॥ १६
याज्ञवल्क्य उवाच-- अहमेव चरिष्यामि तिष्ठन्तु मुनयास्त्विमे । बलं चोत्थापयिष्यामि तपसा स्वेन भावितः ॥ १७ एवमुक्तस्ततः क्रुद्धो याज्ञवल्क्यमथाब्रवीत् । उवाच यत्त्वयाऽधीतं सर्वं प्रत्यर्पयस्व मे ॥ १८ एवमुक्तः स रूपाणि यजूंषि प्रददौ गुरोः । रुधिरेण तथाक्तानि छर्दित्वा ब्रह्मवित्तमः ॥ १९ ततः स ध्यानमास्थाय सूर्यमाराधयद्विजाः । सूर्यब्रह्म यदुच्छिन्नं खं गत्वा प्रतितिष्ठति ॥ २० ततो यानि गतान्यूर्ध्वं यजूंष्यादित्यमण्डलम् । तानि तस्मै ददौ तुष्टः सूर्यो वै ब्रह्मरातये ॥ अश्वरूपाय मार्तण्डो याज्ञवल्क्याय धीमते ॥ २१ यजूंष्यधीयन्ते यानि ब्राह्मणा येन केन च । अश्वरूपाय दत्तानि ततस्ते वाजिनोऽभवन् ॥ २२ ब्रह्महत्या तु यैश्चीर्णा चरणाच्चरकाः स्मृताः । वैशम्पायनशिष्यास्ते चरकाः समुदाहृताः ॥ २३ इत्येते चरकाः प्रोक्ता वाजिनस्तान्निबोधत । याज्ञवल्क्यस्य शिष्यास्ते कण्ववैधेयशालिनः ॥ २४ मध्यन्दिनश्च शापेयी विदिग्धश्चाप्य उद्दलः । ताम्रायणश्च वात्स्यश्च तथा गालवशौषिरी ॥ आटवी च तथा पर्णी वीरणी सपरायणः ॥ २५ इत्येते वाजिनः प्रोक्ता दश पञ्च च संस्मृताः । शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः ॥ २६ पुत्रमध्यापयामास सुमन्तुमथ जैमिनिः । सुमन्तुश्चापि सुत्वानं पुत्रमध्यापयत्प्रभुः ॥
- सुकर्माणं सुतं सुत्वा पुत्रमध्यापयत्प्रभुः । २७ स सहस्रमधीत्याऽऽशु सुकर्माऽप्यथ संहिताः । प्रोवाचाथ सहस्रस्य सुकर्मा सूर्यवर्चसः ॥ २८ अनध्यायेष्वधीयानांस्ताञ्घान शतक्रतुः । प्रायोपवेशमकरोत्ततोऽसौ शिष्यकारणात् ॥ २९ क्रुद्धं दृष्ट्वा ततः शक्रो वरमस्मै ददौ पुनः । भाविनौ ते महावीर्यौ शिष्यावनलवर्चसौ ॥ ३० शधीयानौ महाप्राज्ञौ सहस्रं संहितावभौ । एतौ सुरौ महाभागौ मा क्रुध्य द्विजसत्तम ॥ ३१ इत्युक्त्वा वासवः श्रीमान्सुकर्माणं यशस्विनम् । शान्तक्रोधं द्विजं दृष्ट्वा तत्रैवान्तरधीयत ॥ ३२ तस्य शिष्यो भवद्धीमान्पौष्यञ्जि द्विजसत्तमः । हिरण्यनाभः कौशल्यो द्वितीयोऽभून्नराधिपः ॥ ३३ .
- इदमर्धं नास्ति ख. घ. पुस्तकयोः ।
[ अ० ६१ - श्लो० ३४-५५ ]
वायुपुराणम् ।
३११
( प्रजापतिवंशानुकीर्तनम् )
अध्यापयत्तु पौष्यञ्जी सहस्रार्थं तु संहिताः । ते नाम्नोदीच्यसामान्याः शिष्याः पौष्यञ्जिनः शुभाः
शतानि पञ्च कौशिल्यः संहितानां च वीर्यवान् । शिष्या हिरण्यनाभस्य स्मृतास्ते प्राच्यसामगाः ॥
लोकाक्षी कुथुमिश्चैव कुशीती लाङ्गलिस्तथा । पौष्यञ्जिशिष्याश्चत्वारस्तेषां भेदान्निबोधत ॥ ३६
राणायनीयः सहितण्डितपुत्रस्तस्मादन्यो मूलचारी सुविद्वान् ।
सकैतिपुत्रः सहसात्यपुत्र एतान्भेदान्वित्त लोकाक्षिणस्तु ॥ ३७
त्रयस्तु कुथुमेः पुत्रा औरसो रसपासरः । भागवित्तिक्ष तेजस्वी त्रिविधाः कौथुमाः स्मृताः ॥ ३८
शौरिद्युः शृङ्गिपुत्रश्च द्वावेतौ चरितव्रतौ । राणायनीयः सौमित्रिः सामवेदविशारदौ ॥ ३९
प्रोवाच संहितास्तिस्रः शृङ्गिपुत्रो महातपाः । चैलः प्राचीनयोगश्च सुरालश्च द्विजोत्तमाः ॥ ४०
प्रोवाच संहिताः षट् तु पाराशर्य्यस्तु कौथुमः । आसुरायणवैशाख्यौ वेदवृद्धपरायणौ ॥ ४१
प्राचीनयोगपुत्रश्च बुद्धिमांश्च पतञ्जलिः । कौथुमस्य तु भेदास्ते पाराशर्यस्य षट् स्मृताः ॥ ४२
लाङ्गलिः शालिहोत्रश्च षट्षट् प्रोवाच संहिताः ॥
भालुकिः कामहानिश्च जैमिनिर्लोमगायिनिः । कण्डुश्च कीहलश्चैव षडेते लाङ्गलाः स्मृताः ॥ ४३
एते लाङ्गलिनः शिष्याः संहिता यैः प्रसाधिताः ॥
ततो हिरण्यनाभस्य कृतशिष्यो नृपात्मजः । सोऽकरोच्च चतुर्विंशत्संहिता द्विपदां वरः ॥ ४४
प्रोवाच चैव शिष्येभ्यो येभ्यस्तांश्च निबोधत ॥
राडश्च महवीर्यश्च पञ्चमो वाहनस्तथा । तालकः पाण्डकश्चैव कालिको राजिकस्तथा ॥ ४५
गौतमश्चाजबस्तश्च सोमराजाऽपतत्ततः ॥
पृष्टघ्नः परिकृष्टश्च उलूखलक एव च । यवीयसश्च वैशालो अङ्गुलीयश्च कौशिकः ॥ ४६
सालिमञ्जरिसत्यश्च कापीयः कानिकश्च यः । पराशरश्च धर्मात्मा इति क्रान्तास्तु सामगाः ॥ ४७
सामगानां तु सर्वेषां श्रेष्ठौ द्वौ तु प्रकीर्तितौ । पौष्यञ्जिश्च कृतिश्चैव संहितानां विकल्पकौ ॥ ४८
अथर्वाणं द्विधा कृत्वा सुमन्तुरददान्द्विजाः । कबन्धाय गुरुः कृत्स्नं स च विद्याद्यथाक्रमम् ॥ ४९
कबन्धस्तु द्विधा कृत्वा पथ्यायैकां पुनर्ददौ । द्वितीयं वेदस्पर्शाय स चतुर्धाऽकरोत्पुनः ॥ ५०
मोदो ब्रह्मबलश्चैव पिप्पलादस्तथैव च । शौष्कायनिश्च धर्मज्ञश्चतुर्थस्तपनः स्मृतः ॥ ५१
वेदस्पर्शस्य चत्वारः शिष्यास्त्वेते दृढव्रताः ॥
पुनश्च त्रिविधं विद्धि पथ्यानां भेदमुत्तमम् । जाजलिः कुमुदादिश्च तृतीयः शौनकः स्मृतः ॥ ५२
शौनकस्तु द्विधा कृत्वा ददावेकं तु बभ्रवे । द्वितीयां संहितां धीमान्सैन्धवायनासञ्जिते ॥ ५३
सैन्धवो मुञ्जकेशाय भिन्ना सा च द्विधा पुनः । नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः ॥ ५४
चतुर्थोऽङ्गिरसः कल्पः शान्तिकल्पश्च पञ्चमः ॥
श्रेष्ठास्त्वथर्वणो ह्येते संहितानां विकल्पनाः । षट्शः कृत्वा मयाऽप्युक्तं पुराणमृषिसत्तमाः ॥ ५५
२१२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६१श्लो०५६-७९] ( प्रजापतिवंशानुकीर्तनम् )
आत्रेयः सुमतिर्धीमान्काश्यपो ह्यकृतव्रणः । भारद्वाजोऽग्निवर्चाश्च वसिष्ठो मित्रयुश्च यः ॥ सावार्णिः सौमदत्तिस्तु सुशर्मा शांशपायनः ॥ ५६ एते शिष्या मम ब्रह्मन्पुराणेषु दृढव्रताः । त्रिभिस्तिस्रः कृतास्तिस्रः संहिताः पुनरेव हि ॥ ५७ काश्यपः संहिताकर्ता सावर्णिः शांशपायनः । सामिका च चतुर्थी स्यात्सा चैषा पूर्वसंहिता ॥ ५८ सर्वास्ता हि चतुष्पादाः सर्वार्थैकार्थवाचिकाः । पाठान्तरे पृथग्भूता वेदशाखा यथा तथा ॥ चतुःसाहस्रिकाः सर्वाः शांशपायनिकामृते ॥ ५९ लोमहर्षणिका मूलास्ततः काश्यपिकाः पराः । सावर्णिकास्तृतीयास्ता यजूर्वाक्यार्थपण्डिताः ॥ ६० शांशपायनिकाश्चान्या नोदनार्थाविभूषिताः । सहस्राणि ऋचामष्टौ षट् शतानि तथैव च ॥ ६१ एताः पञ्चदशाम्याश्च दशान्या दशभिस्तथा । वालखिल्याः सहैषाः ससावर्णाः प्रकीर्तिताः ॥ ६२ अष्टौ साम सहस्राणि सामानि च चतुर्दश । आरण्यकं सहोमं च एतद्गायन्ति सामगाः ॥ ६३ द्वादशैव सहस्राणि छन्द आध्वर्यवं स्मृतम् । यजुषां ब्राह्मणानां च तथा व्यासो व्यकल्पयत् ॥ ६४ सग्राम्यारण्यकं तत्स्यात्समन्त्रकरणं तथा । अतः परं कथानां तु पूर्वा इति विशेषणम् ॥ ६५ ग्राम्यारण्यं समन्त्रं च ऋग्ब्राह्मणयजुः स्मृतम् । तथा हारिद्रवीयाणां खिलान्युपखिलानि च ॥ तथैव तैत्तिरीयाणां परक्षुद्रा इति स्मृतम् ॥ ६६ द्वे सहस्रे शतेन्यूने वेदे वाजसनेयके । ऋग्गणः परिसंख्यातो ब्राह्मणं तु चतुर्गुणम् ॥ ६७ अष्टौ सहस्राणि शतानि चाष्टावशीतिरन्यान्यधिकश्च पादः ॥ एतत्प्रमाणं यजुषामृचां च सशुकियं साखिलयाज्ञवल्क्यम् ॥ ६८ तथा चरणविद्याणां प्रमाणं संहितां शृणु । षत्साहस्रमृचामुक्तमृचः षड्विंशतिः पुनः ॥ एतावदधिकं तेषां यजुः कामं विवक्ष्यति ॥ ६९ एकादश सहस्राणि दश चान्या दशोत्तराः । ऋचां दश सहस्राणि अशीतिस्त्रिशतानि च ॥ ७० सहस्रमेकं मन्त्राणामृचामुक्तं प्रमाणतः । एतावद्भृगुविस्तारमन्यच्चाथर्विकं बहु ॥ ७१ ऋचामथर्वणां पञ्च सहस्राणि विनिश्चयः । सहस्रमन्यद्विज्ञेयमृषिभिर्विंशतिं विना ॥ ७२ एतदङ्गिरसा प्रोक्तं तेषामारण्यकं पुनः । इति संख्या प्रसंख्याता शाखाभेदास्तथैव च ॥ ७३ कर्तारश्चैव शाखानां भेदे हेतुस्तथैव च । सर्वमन्वन्तरेष्वेवं शाखाभेदाः समाः स्मृताः ॥ ७४ प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे स्मृताः । अनित्यभावाद्वेदानां मन्त्रोत्पत्तिः पुनः पुनः ॥ ७५ मन्वन्तराणां क्रियते सुराणां नामनिश्चयः । द्वापरेषु पुनर्भेदः श्रुतीनां परिकीर्तितः ॥ ७६ एवं वेदं तदा न्यस्य भगवानृषिसत्तमः । शिष्येभ्यश्च पुनर्ह्यत्वा तपस्तप्तुं गतो वनम् ॥ तस्य शिष्यप्रशिष्यैस्तु शाखाभेदास्त्विमे कृताः ॥ ७७ अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्यास्त्वेताश्चतुर्दश ॥ ७८ आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्यास्त्वष्टादशैव तु ॥ ७९
[अ०६१श्लो०८०-१०३] वायुपुराणम् । २१३ (प्रजापतिवंशानुकीर्तनम )
ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः । राजर्षयः पुनस्तेभ्य ऋषिकल्पतयस्त्रयः ॥ तेभ्य ऋषिकल्पतयो मुनिभिः संशितव्रतैः ॥ ८० कश्यपेषु तथा भृग्वङ्गिरोऽत्रिषु । पञ्चस्वेतेषु जायन्ते गोत्रेषु ब्रह्मवादिनः ॥ यस्मादृषन्ति ब्रह्माणं तेन ब्रह्मर्षयः स्मृताः ॥ ८१ धर्मस्याथ पुलस्त्यस्य क्रतोश्च पुलहस्य च । प्रत्यूषस्य प्रभासस्य कश्यपस्य तथा पुनः ॥ ८२ देवर्षयः सुतास्तेषां नामतस्तान्निबोधत । देवर्षी धर्मपुत्रौ तु नरनारायणावुभौ ॥ ८३ वालखिल्यः क्रतोः पुत्राः कर्दमः पुलहस्य तु । कुबेरश्चैव पौलस्त्यः प्रत्यूषस्याचलः स्मृतः ॥ ८४ पर्वतो नारदश्चैव कश्यपस्यात्मजावुभौ । ऋषन्ति देवान्यस्मात्ते तस्माद्देवर्षयः स्मृताः ॥ ८५ मानवे वैष्ये वंशे ऐडवंशे च ये नृपाः । ऐडा ऐक्ष्वाकनाभागा ज्ञेया राजर्षयस्तु ते ॥ ८६ ऋषन्ति रञ्जनाद्यस्मात्प्रजा राजर्षयस्ततः । ब्रह्मलोकप्रतिष्ठास्तु स्मृता ब्रह्मर्षयो मताः ॥ ८७ देवलोकप्रतिष्ठाश्च ज्ञेया देवर्षयः शुभाः । इन्द्रलोकप्रतिष्ठास्तु सर्वे राजर्षयो मताः ॥ ८८ अभिजात्या च तपसा मन्त्रव्याहरणैस्तथा । एवं ब्रह्मर्षयः प्रोक्ता दिव्या राजर्षयस्तु ये ॥ ८९ वेवर्षयस्तथाऽन्ये च तेषां वक्ष्यामि लक्षणम् । भूतभव्यभवज्ज्ञानं सत्याभिव्याहृतं तथा ॥ ९० संबुद्धास्तु स्वयं ये तु संबद्धा ये च वै स्वयम् । तपसेह प्रसिद्धा ये गर्भे यैश्च प्रनो[णो]दितम् ॥ ९१ मन्त्रव्याहारिणो ये च ऐश्वर्यात्सप्तगाश्च ये । इत्येत ऋषिभिर्युक्ता देवद्विजनृपास्तु ये ॥ ९२ एतान्भावानधीयाना ये चैत ऋषयो मताः । सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः ॥ ९३ दीर्घायुषो मन्त्रकृत ईश्वरा दिव्यचक्षुषः । बुद्धाः प्रत्यक्षधर्माणो गोत्रप्रावर्तकाश्च ये ॥ ९४ षट्कर्माभिरता नित्यं शालिनो गृहमेधिनः । तुल्यैर्व्यवहरन्ति स्म अदृष्टैः कर्महेतुभिः ॥ ९५ अग्राम्यैर्वर्तयन्ति स्म रसैश्चैव स्वयंकृतैः । कुटुम्बिन ऋद्धिमन्तो बाह्यान्तरनिवासिनः ॥ ९६ कृतादिषु युगारूयेषु सर्वेष्वेव पुनः पुनः । वर्णाश्रमव्यवस्थानं क्रियन्ते प्रथमं तु वै ॥ ९७ प्राप्ते त्रेतायुगमुखे पुनः सप्तर्षयास्विह । प्रवर्तयन्ति ये वर्णानाश्रमांश्चैव सर्वशः ॥ तेषामेवान्वये वीरा उत्पद्यन्ते पुनः पुनः ॥ ९८ जायमाने पिता पुत्रे पुत्रः पितरि चैव हि । एवं समेत्याविच्छेदाद्वर्तयन्त्यायुगक्षयात् ॥ अष्टाशीतिसहस्राणि प्रोक्तानि गृहमेधिनाम् ॥ ९९ अर्यम्णो दक्षिणा ये तु पितृयाणं समाश्रिताः । दाराग्निहोत्रिणस्ते वै ये प्रजाहेतवः स्मृताः ॥ १०० गृहमेधिनां च संख्येयाः श्मशानान्याश्रयन्ति ते । अष्टाशीतिसहस्राणि निहिता उत्तरायणे ॥ १०१ ये श्रूयन्ते दिवं प्राप्ता ऋषयो ह्यूर्ध्वरेतसः । मन्त्रब्राह्मणकर्तारो जायन्ते ह युगक्षये ॥ १०२ एवमावर्तमानस्ते द्वापरेषु पुनः पुनः । कल्पनां भाष्यविद्यानां नानाशास्त्रकृतः क्षये ॥
- क्रियते तैर्विवरणं त्रेतादौ संयुगे प्रभुः ॥ १०३
+ इदमर्धं नास्ति क. घ. पुस्तकयो ।
२१४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ६१।श्लो० १०४-१२४] (प्रजापतिवंशानुकीर्तनम्)
भविष्ये द्वापरे चैव द्रौणिर्द्वैपायनः पुनः। वेदव्यासो ह्यतीतेऽस्मिन्भविता सुमहातपाः॥ १०४ भविष्यन्ति भविष्येषु शाखाप्रणयनानि तु। तस्मै तद्ब्रह्मणा ब्रह्म तपसा व्याप्तमव्ययम्॥ १०५ तपसा कर्म संप्राप्तं कर्मणा हि ततो यशः। यशसा प्राप्य सत्यं हि सत्येनाप्तो हि चाव्ययः॥ १०६ अव्ययादमृतं शुक्रममृतात्सर्वमेव हि। ध्रुवमेकाक्षरमिदं स्वात्मन्येव व्यवस्थितम्॥ बृहत्त्वाद्बृंहणाच्चैव तद्ब्रह्मेत्यभिधीयते॥ १०७ प्रणवावास्थितं भूयो भूर्भुवः स्वरिति स्मृतम्। ऋग्यजुः सामाथर्वाणं यत्तस्मै ब्रह्मणे नमः॥ १०८
- जगतः प्रणयोत्पत्तौ यत्तत्कारणसंज्ञितम्। महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः॥ १०९ अगाधपारमक्षय्यं जगत्संमोहनालयम्। सप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम्॥ ११० सांख्यज्ञानवतां निष्ठा गतिः संगद्मात्मनः। यत्तदव्यक्तममृतं प्रकृतिर्ब्रह्म शाश्वतम्॥ १११ प्रधानमात्मयोनिश्च गुह्यं सत्त्वं च शब्द्यते। अविभागस्तथा शुक्रमक्षरं बहुवाचकम्॥ परमब्रह्मणे तस्मै नित्यमेव नमो नमः॥ ११२ कृते पुनः क्रिया नास्ति कृत एवाकृताक्रिया। सकृदेव कृतं सर्वं यद्वै लोके कृताकृतम्॥ ११३ श्रोतव्यं वै श्रुतं वाऽपि तथैवासाधुसाधुताम्। ज्ञातव्यं चाथ मन्तव्यं स्पृष्टव्यं भोज्यमेव च॥ द्रष्टव्यं चाथ श्रोतव्यं ज्ञातव्यं वाऽथ किंचन॥ ११४ दर्शितं यदनेनैव ज्ञानं तद्वै सुरर्षिणाम्। यद्वै दर्शितवानेष कस्तदन्वेष्टुमर्हति॥ सर्वाणि सर्वान्सर्वांश्च भगवानैव सोऽब्रवीत्॥ ११५ यदा यत्क्रियते येन तदा तत्सोऽभिमन्यते। * येनेदं क्रियते पूर्वं तदन्येन विभावितम्॥ ११६ यदा तु क्रियते किंचित्केन चिद्वाङ्मयं क्वचित्। तेनैव तत्कृतं पूर्वं कर्तॄणां प्रतिभाति वै॥ ११७ विरक्तं चातिरिक्तं च ज्ञानाज्ञाने प्रियाप्रिये। धर्माधर्मौ सुखं दुःखं मृत्युश्चामृतमेव च॥ ऊर्ध्वं तिर्यगधोभागस्तस्यैवादृष्टकारणम्॥ ११८ स्वायंभुवोऽथ ज्येष्ठस्य ब्रह्मणः परमेष्ठिनः। प्रत्येकविधं भवति त्रेतास्विह पुनः पुनः॥ ११९ व्यस्यते ह्येकविद्यं तद्द्वापरेषु पुनः पुनः। ब्रह्मा चैतदुवाचाऽऽदौ तस्मिन्वैवस्वतेऽन्तरे॥ १२० आवर्तमाना ऋषयो युगाख्यासु पुनः पुनः। कुर्वन्ति संहिता ह्येते जायमानाः परस्परम्॥ १२१ अष्टाशीतिसहस्त्राणि श्रुतर्षीणां स्मृतानि वै। ता एव संहिता ह्येत आवर्तन्ते पुनः पुनः॥ १२२ श्रिता दक्षिणपन्थानं ये श्मशानानि भेजिरे। युगे युगे तु ताः शाखा व्यस्यन्ते तैः पुनः वुनः॥१२३ द्वापरेष्विह सर्वेषु संहिताश्च श्रुतर्षिभिः। तेषां गोत्रेष्विमाः शाखा भवन्तीह पुनः पुनः॥ ताः शाखास्तत्र कर्तारो भवन्तीह युगक्षयात्॥ १२४
- नास्त्ययं श्लोकः ख. घ. पुस्तकयोः। * इदमर्धस्थाने भयेदं क्रियते पूर्वं नैतदन्येन भाषित- मिति ख. घ. ङ. पुस्तकेषु॥
[अ० ६१ श्लो० १२५-१४९] वायुराणम् । ११५
( प्रजापतिवंशानुकीर्तनम् )
एवमेव तु विज्ञेयं व्यतीतानागतेष्विह । मन्वन्तरेषु सर्वेषु शाखाप्रणयनानि वै ॥ १२५ अतीतेषु अतीतानि वर्तन्ते सांप्रतेषु च । भविष्याणि च यानि स्युर्वर्ण्यन्तेऽनागतेष्वपि ॥ १२६ पूर्वेण पश्चिमं ज्ञेयं वर्तमानेन चोभयम् । एतेन क्रमयोगेन(ण)मन्वन्तरविनिश्चयः ॥ १२७ एवं देवाश्च पितर ऋषयो मनवश्च ये । मन्त्रैः सहोर्ध्वं गच्छन्ति ह्यावर्तन्ते च तैः सह ॥ १२८ जनलोकात्सुराः सर्वे पद्मकल्पात्पुनः पुनः । पर्याप्तिकाले संप्राप्ते संभूता नैव[ ध ]नस्य तु ॥ १२९ अवश्यंभाविनाऽर्थेन संबध्यन्ते तदा तु ते । ततस्ते दोषवज्जन्म पश्यन्ते रागपूर्वकम् ॥ १३० निवर्तते तदा वृत्तिस्तेषामादोषदर्शनात् । एवं देवयुगानीह दश कृत्वा विवर्तते ॥ १३१ जनलोकात्तपोलोकं गच्छन्तीहानिवर्तनम् । एवं देवयुगानीह व्यतीतानि सहस्रशः ॥ निधनं ब्रह्मलोके वै गतानि मुनिभिः सह ॥ १३२ न शक्यमानुपूर्वेण तेषां वक्तुं सविस्तरम् । अनादित्वाच्च कालस्य असंख्यानाच्च सर्वशः ॥ १३३ मन्वन्तराण्यतीतानि यानि कल्पैः पुरा सह । पितृभिर्मुनिभिर्देवैः सार्धं सप्तर्षिभिश्च वै ॥ कालेन प्रतिसृष्टानां युगानां च निवर्तनम् ॥ १३४ एतेन क्रमयोगेन( ण )कल्पमन्वन्तराणि तु । सप्तजानि व्यतीतानि शतशोऽथ सहस्रशः ॥ १३५ मन्वन्तरान्ते संहारः संहारान्ते च संभवः । देवतानामृषीणां च मनोः पितृगणस्य च ॥ १३६ न शक्यमानुपूर्व्येण वक्तुं वर्षशतैरपि । विस्तरस्तु निसर्गस्य संहारस्य च सर्वशः ॥ मन्वन्तरस्य संख्या तु मानुषेण निबोधत ॥ १३७ देवतानामृषीणां च संख्यानार्थविशारदैः । त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया द्विजैः सप्तषष्टिश्चान्यानि नियुतानि च संख्यया । विंशतिश्च सहस्राणि कालोऽयं सांधिकाद्दिना ॥ मन्वन्तरस्य संख्यैषा मानुषेण प्रकीर्तिता । वत्सरेणैव दिव्येन प्रवक्ष्याम्यन्तरं मनोः ॥ १४० अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतम् । द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु ॥ १४१ चतुर्दशगुणो ह्येष काल आभूतसंप्लवः । पूर्णं युगसहस्रं स्यात्तदहर्ब्रह्मणः स्मृतम् ॥ १४२ तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः । ब्राह्मणमग्रतः कृत्वा सह देवर्षिदानवैः ॥ प्रविशन्ति सुरश्रेष्ठं देवदेवं महेश्वरम् ॥ १४३ स स्रष्टा सर्वभूतानि कल्पादिषु पुनः पुनः । इत्येष स्थितिकालो वै मनोर्देवर्षिभिः सह ॥ १४४ सर्वमन्वन्तराणां वै प्रतिसंधिं निबोधत । युगाख्या या समुद्दिष्टा प्रागेवास्मिन्मयाऽनघाः ॥ १४५ कृतत्रेतादिसंयुक्तं चतुर्युगमिति स्मृतम् । तदेकसप्ततिगुणं परिवृत्तं तु साधिकम् ॥ मनोरेतमधीकारं प्रोवाच भगवान्प्रभुः ॥ १४६ एवं मन्वन्तराणां तु सर्वेषामेव लक्षणम् । अतीतानागतानां वै वर्तमानेन कीर्तितम् ॥ १४७ इत्येष कीर्तितः सर्गो मनोः स्वायंभुवस्य ह । प्रतिसंधिं तु वक्ष्यामि तस्य चैवापरस्य तु ॥ १४८ मन्वन्तरं यथा पूर्वमृषिभिर्देवैः सह । अवश्यंभाविनाऽर्थेन यथा तद्वै निवर्तते ॥ १४९
२१६ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०६१ श्लो० १५०-१७५] ( प्रजापतिवंशानुकीर्तनम् )
अस्मिन्मन्वन्तरे पूर्वं त्रैलोक्यस्येश्वरास्तु ये। सप्तर्षयश्च देवास्ते पितरो मनवस्तथा ॥ मन्वन्तरस्य काले तु संपूर्णे साधकास्तथा ॥ १५० क्षीणाधिकाराः संवृत्ता बुद्ध्वा पर्यायमात्मनः। महर्लोकाय ते सर्वे उन्मुखा दधिरे गतिम् ॥ १५१ ततो मन्वन्तरे तस्मिन्प्रक्षीणा देवतास्तु ताः। संपूर्णे स्थितिकाले तु तिष्ठन्त्येकं कृतं युगम् ॥ १५२ उत्पद्यन्ते भविष्याश्च यावन्मन्वन्तरेश्वराः। देवताः पितरश्चैव ऋषयो मनुरेव च ॥ १५३ मन्वन्तरे तु संपूर्णे यद्यन्यद्वै कलौ युगे। संपद्यते कृतं तेषु कलिशिष्टेषु वै तदा ॥ १५४ यथा कृतस्य संतानः कलिपूर्वः स्मृतो बुधैः। तथा मन्वन्तरान्तेषु आदिर्मन्वन्तरस्य च ॥ १५५ क्षीणे मन्वन्तरे पूर्वे प्रवृत्ते चापरे पुनः। मुखे कृतयुगस्याथ तेषां शिष्टास्तु ये तदा ॥ १५६ सप्तर्षयो मनुश्चैव कालावेक्षास्तु ये स्थिताः। मन्वन्तरं प्रतीक्षन्ते क्षीयन्ते तपसि स्थिताः ॥ १५७ मन्वन्तरव्यवस्थार्थं संतत्यर्थं च सर्वशः। पूर्ववत्संप्रवर्तन्ते प्रवृत्ते वृष्टिसर्जने ॥ १५८ द्वन्द्वेषु संप्रवृत्तेषु उत्पन्नास्वोषधीषु च। प्रजासु च निकेतासु संस्थितासु क्वचित्क्वचित् ॥ १५९ वार्तायां तु प्रवृत्तायां सद्धर्म ऋषिभाविते। निरानन्दे गते लोके नष्टे स्थावरजङ्गमे ॥ १६० अग्रामनगरे चैव वर्णाश्रमविवर्जिते। पूर्वमन्वन्तरे शिष्टे ये भवन्तीह धार्मिकाः ॥ सप्तर्षयो मनुश्चैव संतानार्थं व्यवस्थिताः ॥ १६१ प्रजार्थं तपसां तेषां तपः परमदुष्करम्। उत्पद्यन्तीह सर्वेषां निधनेष्विह सर्वशः ॥ १६२ देवासुराः पितृगणा मुनयो मनवस्तथा। सर्पा भूताः पिशाचाश्च गन्धर्वा यक्षराक्षसाः ॥ १६३ ततस्तेषां तु ये शिष्टाः शिष्टाचारात्प्रचक्षते। सप्तर्षयो मनुश्चैव आदौ मन्वन्तरस्य ह ॥ प्रारभन्ते च कर्माणि मनुष्या दैवतैः सह ॥ १६४ मन्वन्तरादौ प्रागेव त्रेतायुगमुखे ततः। पूर्वं देवास्ततस्ते वै स्थिते धर्मे तु सर्वशः ॥ १६५ ऋषीणां ब्रह्मचर्येण गत्वाऽनृण्यं तु वै ततः। पितॄणां प्रजया चैव देवानामिज्यया तथा ॥ १६६ शतं वर्षसहस्राणि धर्मे वर्णात्मके स्थिताः। त्रयीं वार्त्तां दण्डनीतिं धर्मान्वर्णाश्रमांस्तथा ॥ स्थापयित्वाऽऽश्रमांश्चैव स्वर्गाय दधिरे मतीः ॥ १६७ पूर्वं देवेषु तेष्वेव स्वर्गाय प्रमुखेषु च। पूर्वं देवास्ततस्ते वै स्थिता धर्मेण कृत्स्नशः ॥ १६८ मन्वन्तरे परावृत्ते स्थानान्युत्सृज्य सर्वशः। मन्त्रैः सहोर्ध्वं गच्छन्ति महर्लोकमनामयम् ॥ १६९ विनिवृत्तविकारास्ते मानसीं सिद्धिमास्थिताः। अवेक्ष्यमाणा वशिनस्तिष्ठन्त्याभूतसंप्लवम् ॥ १७० ततस्तेषु व्यतीतेषु सर्वेष्वेतेषु सर्वदा। शून्येषु देवस्थानेषु त्रैलोक्ये तेषु सर्वशः ॥ उपस्थिता इहैवान्ये देवा ये स्वर्गवासिनः ॥ १७१ ततस्ते तपसा युक्ता स्थानान्यापूरयन्ति वै। सत्येन ब्रह्मचर्येण श्रुतेन च समन्विताः ॥ १७२ सप्तर्षीणां मनोश्चैव देवानां पितृभिः सह। निधनानीह सर्वेषामादिना च भविष्यताम् ॥ १७३ तेषामत्यन्तविच्छेद इह मन्वन्तरक्षयात्। एवं पूर्वानुपूर्वेण स्थितिरैषोऽनवस्थिता ॥ मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् ॥ १७४ एवं मन्वन्तराणां तु प्रतिसंधानलक्षणम्। अतीतानागतानां तु प्रोक्तं स्वायंभुवेन तु ॥ १७५
[अ० ६१-६२ श्लो० १७६-१८६-१-३] वायुपुराणम् । २१७
( पृथिवीदोहनम )
मन्वन्तरेष्वतीतेषु भविष्याणां तु साधनम् । एवमत्यन्तविच्छिन्नं भवत्याभूतसंप्लवात् ॥ १७६ मन्वन्तराणां परिवर्तनानि एकान्ततस्तानि महर्गतानि ॥ महर्जनं चैव जनं तपश्च एकान्तगानि स्म भवन्ति सत्ये ॥ १७७ तद्भाविनां तत्र तु दर्शनेन नानावदृष्टेन च प्रत्ययेन ॥ सत्ये स्थितानीह तदा तु तानि प्राप्ते विकारे प्रतिसर्गकाले ॥ १७८ मन्वन्तराणां परिवर्तनानि मुञ्चन्ति सत्यं तु ततोऽपरान्ते ॥ ततोऽभियोग।द्विषमप्रमाणं विशन्ति नारायणमेव देवम् ॥ १७९ मन्वन्तराणां परिवर्तनेषु चिरप्रवृत्तेषु विधिस्वभावात् ॥ क्षणं रसं तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवन्दमानः ॥ १८० इत्युत्तराण्येवमृषिस्तुतानां धर्मात्मनां दिव्यदृशां मनूनाम् ॥ वायुप्रणीतान्युपलभ्य दृश्यं दिव्यौजसा व्याससमासयोगैः ॥ १८१ सर्वाणि राजर्षिसुरर्षिमन्ति ब्रह्मर्षिदेवोरगवन्ति चैव ॥ सुरेशसप्तर्षिपितृप्रजेशैर्यूक्तानि सम्यक्परिवर्तनानि ॥ १८२ उदारवंशाभिजनद्युतीनां प्रकृष्टमेधाभिसमेधितानां ॥ कीर्तिद्युतिख्यातिभिरन्वितानां पुण्यं हि विख्यापनमीश्वराणाम् ॥ १८३ स्वर्ग्यमेतत्परमं पवित्रं पुत्रीयमेतच्च परं रहस्यम् ॥ जप्यं महत्पर्वसु चैतदग्र्यं दुःस्वप्नशान्तिः परमायुषेयम् ॥ १८४ प्रजेशदेवर्षिमनुप्रधानां पुण्यप्रसूतिं प्रथितामजस्य ॥ ममापि विख्यापनसंयमाय सिद्धिं जुषध्वं सुमहेशतत्त्वम् ॥ १८५ इत्येतदन्तरं प्रोक्तं मनोः स्वायंभुवस्य तु । विस्तरेणाऽऽनुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥ १८६ इति श्रीमहापुराणे वायुप्रोक्ते प्रजापतिवंशानुकीर्तनं नामैकषष्ट्यध्यायः ॥ ६१ ॥ आदितः श्लोकानां समष्ट्यङ्काः- ५०८६
अथ द्विषष्ट्यध्यायः ।
पृथिवीदोहनम् ।
शांशपायन उवाच-
क्रमं मन्वन्तराणां तु ज्ञातुमिच्छामि तत्त्वतः । दैवतानां च सर्वेषां ये च यस्यान्तरे मनोः ॥ १
सूत उवाच-
मन्वन्तराणि यानि स्युरतीतानागतानि ह । समासाद्विस्तराच्चैव ब्रुवतो वै निबोधत ॥ २
स्वायंभुवो मनुः पूर्वं मनुः स्वारोचिषस्तया । औत्तमस्तामसश्चैव तथा रैवतचाक्षुषौ ॥
षडेते मनवोऽतीता वक्ष्याम्यष्टावनागतान् ॥ ३
२८
२१८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६२श्लो०४-२७] (पृथिवीदोहनम्)
सावर्णाः पञ्चरौच्यश्च भौत्यो वैवस्वतस्तथा। वक्ष्याम्येतान्पुरस्तात्तु मनोर्वैवस्वतस्य ह ॥ ४
मनवः पञ्च येऽतीता मानवांस्तान्निबोधत। मन्वन्तरं मया चोक्तं क्रान्तं स्वायंभुवस्य ह ॥ ५
अत ऊर्ध्वं प्रवक्ष्यामि मनोः स्वारोचिषस्य च। प्रजासर्गं समासेन द्वितीयस्य महात्मनः ॥ ६
*आसन्वं तुषिता देवा मनुस्वारोचिषेऽन्तरे। पारावताश्च विद्वांसो द्वावेव तु गणौ स्मृतौ ॥ ७
तुषितायां समुत्पन्नः क्रतोः पुत्राः स्वरोचिषः। पारावताश्च शिष्टाश्च द्वादशौ तौ गणौ स्मृतौ ॥
छन्दजाश्च चतुर्विंशद्देवास्ते वै तदा स्मृताः ॥ ८
धैवस्य शोऽथ वामान्यो गोपा देवायतस्तथा। अजश्च भगवांदेवा दुरोणश्च महाबलः ॥ ९
आपश्चापि महाबाहुर्महौजाश्चापि वीर्यवान्। चिकित्वान्निभृतो यश्च अंशो यश्चैव पठ्यते ॥ १०
×अजश्च द्वादशस्तेषां तुषिताः परिकीर्तिताः। इत्येते क्रतुपुत्रास्तु तदाऽऽसन्सोमपायिनः ॥ ११
प्रचेताश्चैव यो देवो विश्वदेवास्तथैव च। समज्ञो विश्रुतो यश्च अजिह्मश्चा रिमर्दनः ॥ १२
अजिह्लानमहायानौ विद्यावन्तौ तथैव च। अजोषौ च महाभागौ यवीयश्च महाबलः ॥ १३
होता यज्वा च इत्येते पराक्रान्ताः परावताः। इत्येता देवता ह्यासनमनुस्वारोचिषेऽन्तरे ॥ १४
सोमपास्तु तदा ह्येताश्चतुर्विंशतिदेवताः। तेषामिन्द्रस्तदा ह्यासीद्वैधश्च लोकविश्रुतः ॥ १५
ऊर्जो वसिष्ठपुत्रस्तु स्तम्भः काश्यप एव च। भार्गवश्च तदा द्रोणो ऋषभोगङ्गिरसस्तथा ॥ १६
[÷पौलस्त्यश्चैव दत्तात्रिरात्रेया निश्चलस्तथा। पौलहस्य च धावांस्तु एते सप्तर्षयः स्मृताः ] ॥ १७
चैत्रः कविरुतश्चैव कृतान्तो विभुतो रविः। बृहद्गुणो नवश्चैव शुभाश्चैते नव स्मृताः ॥ १८
मनोः स्वारोचिषस्यैते पुत्रा वंशकराः स्मृताः। पुराणे परिसंख्याता द्वितीयं चैतदन्तरम् ॥ १९
सप्तर्षयो मनुर्देवाः पितरश्च चतुष्टयम्। मूलं मन्वन्तरस्यैते तेषां चैवान्तरे प्रजाः ॥ २०
ऋषीणां देवताः पुत्राः पितरो देवसूनवः। ऋषयो देवपुत्र अ इति शास्त्रविनिश्चयः ॥ २१
मनोः क्षत्रं विशश्चैव सप्तर्षिभ्यो द्विजातयः। एतन्मन्वन्तरं प्रोक्तं समासान्न तु विस्तरात् ॥ २२
स्वायंभुवेन विस्तारा ज्ञेयः स्वारोचिषस्य तु। न शक्यो विस्तरस्तस्य वक्तुं वर्षशतैरपि ॥
पुनरुक्तबहुत्वात्तु प्रजानां वै कुले कुले ॥ २३
तृतीयस्त्वथ पर्याय औत्तमस्यान्तरे मनोः। पञ्च देवगणाः प्रोक्तास्तान्वक्ष्यामि निबोधत ॥
सुधामानश्च देवाश्च ये चान्ये वशवर्तिनः। प्रतर्दनाः शिवाः सत्या गणा द्वादश वै स्मृताः ॥ २४
सत्यो धृतिर्दमो दान्तः क्षमः क्षामो धृतिः शचिः। ईषोर्जाश्च तथा ज्येष्ठो वपुष्मांश्चैव द्वादश ॥
इत्येते नामाभिः क्रान्ताः सुधामानस्तु द्वादश ॥ २५
सहस्रधारो विश्वात्मा शमितारौ बृहद्वसुः। विश्वधा विश्वकर्मा च मनस्वन्तो विराड्चशाः ॥ २६
ज्योतिश्चैव विभाव्यश्च कीर्तिमान्वंशकारिणः। अन्यानाराधितो देवो वसुधिष्णो विवस्वसुः ॥ २७
*इदमर्धं नास्ति घ. पुस्तके। ×इदमर्धं नास्ति क. पुस्तके। ÷धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति।
[ अ० ६२ श्लो० २८-४८ ] वायुपुराणम् । २१९
( पृथिवीदोहनम् )
दिनक्रतुः सुधर्मा च धूतवर्मा यशस्विनः । केतुमांश्चैव इत्येते कीर्तितास्तु प्रमर्द्दनाः ॥ २८ हंसस्वरोऽहिहा चैव प्रतर्द्दनयशस्करौ । सुदानो वसुदानश्च सुमञ्जसविषावुभौ ॥ २९ यत्तु वाह्ययतिश्चैव सुवित्तसुनयस्तथा । शिवा ह्येते तु विज्ञेया यज्ञिया द्वादशापराः ॥ ३० सत्त्वानार्माप नामानि निबोधत यथामतम् । दिक्पतिर्वाक्पतिश्चैव विधः शंभुस्तथैव च ॥ ३१ स्वमृङ्किोऽधिपश्चैव वर्चोधा मुद्दसर्वशः । वासवश्च सदाश्वश्च क्षेमानन्दौ तथैव च ॥ ३२ सत्या ह्येते परिक्रान्ता यज्ञिया द्वादशापराः । इत्येता देवता ह्यासन्रौत्तमस्यान्तरे मनोः ॥ ३३ अजश्च परशुश्चैव दिव्यो दिव्यौषधिर्नयः । देवानुजश्चाप्रतिमो महोत्साहौशिजस्तथा ॥ ३४ विनीतश्च सुकेतुश्च सुमित्रः सुबलः शुचिः । औत्तमस्य मनोः पुत्रास्त्रयोदश महात्मनः ॥ एते क्षत्रप्रणेतारस्तृतीयं चैतदन्तरम् ॥ ३५ औत्तमो परिसंख्यातः सर्गः स्वारोचिषेण तु । विस्तरेणाऽऽनुपूर्व्या च तामसांस्तान्निबोधत ॥ ३६ चतुर्थे त्वथ पर्याये तामसस्यान्तरे मनोः । [*सत्याः स्वरूपाः सुधियो हरयश्चतुरो गणाः ॥ ३७ पुलस्त्यपुत्रस्य सुतास्तामसस्यान्तरे मनोः ] । गणस्तु तेषां देवानामकेकः पञ्चविंशकः ॥ ३८ इन्द्रियाणां शतं यद्धि मुनयः प्रतिजानते । सत्यप्राणास्तु शीर्षण्यास्तमश्चैवाष्टमस्तथा । इन्द्रियाणि तदा देवा मनोस्तस्यान्तरे स्मृताः ॥ ३९ तेषां च प्रभुदेवानां शिबिरिन्द्रः प्रतापवान् । सप्तर्षयोऽन्तरे चैव तान्निबोधत सत्तमाः ॥ ४० काव्यो हर्षस्तथा चैव काश्यपः पृथुरेव च । आत्रेयश्चाग्निरित्येव ज्योतिर्धामा च भार्गवः ॥ ४१ पौलहो वनपीठश्च गोत्रवासिष्ठ एव च । चैत्रस्तथाऽपि पौलस्त्य ऋषयस्तांमसेऽन्तरे ॥ ४२ जनुषण्डस्तथा शान्तिर्नरः ख्यातिर्मयस्तथा । प्रियभृत्यो ह्यवक्षिश्च पृष्ठलोढो दृढोद्यतः ॥ ऋतश्च ऋतबन्धुश्च तामसस्य मनोः सुताः ॥ ४३ पञ्चमे त्वथ पर्याये मनोश्चारिष्णवेऽन्तरे । गणास्तु सुसमाख्याता देवतानां निबोधत ॥ ४४ अमृतात्माभूतरजोविकुण्ठाः ससुमेधसः । चारिष्णोस्तु शुभाः पुत्रा वसिष्ठस्य प्रजापतेः ॥ चतुर्दश च चत्वारो गणास्तेषां तु भास्वराः ॥ ४५ स्वमविमोऽग्निभासश्च प्रत्येतिष्ठामृतस्तथा । सुमतिर्वाविरावश्च वाचिनोदःस्रवास्तथा ॥ ४६ प्रविराशी च वादश्च प्राशश्चेति चतुर्दश । अमृताभाः स्मृताः ह्येते देवाश्चारिष्णवेऽन्तरे ॥ ४७ मतिश्च सुमतिश्चैव ऋतसत्यौ तथैव च । आवृतिर्विवृतिश्चैव मदो विनय एव च ॥ ४८
* धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्ना नास्ति ।
२२० श्रीमद्द्वैपायनमुनिप्रणीतम्— [अ० ६२-श्लो० ४९-६७]
( पृथिवीदोहनम् )
जेता जिष्णुः सहश्चैव द्युतिमाञ्श्रवसस्तथा । इत्येतानीह नामानि आभूतरजसां विदुः ॥ ४९
वृषभेत्ता जयो भीमः शुचिर्दान्तो यशो दमः । नाथो विद्वानजेयश्च कृशो गौरो ध्रुवस्तथा ॥
कीर्तितास्तु विकुण्ठा वै सुमेधांस्तु निबोधत ॥ ५०
मेधा मेधातिथिश्चैव सत्यमेधास्तथैव च । पृश्निमेधाल्पमेधाश्च भूयोमेधादयः प्रभुः ॥ ५१
दीप्तिमेधा यशोमेधा स्थिरमेधास्तथैव च । सर्वमेधाश्वमेधाश्च मतिमेधाश्च यः स्मृतः ॥
मेधावान्मेधहर्त्ता च कीर्तितास्तु सुमेधसः ॥ ५२
विभुरिन्द्रस्तदा तेषामासीद्विक्रान्तपौरुषः । पौलस्त्यो वेदबाहुश्च यजुर्नामा च काश्यपः ॥ ५३
हिरण्यरोमाऽङ्गिरसौ वेदश्रीश्चैव भार्गवः । ऊर्ध्वबाहुश्च वासिष्ठः पर्जन्यः पौलहस्तथा ॥
सत्यनेत्रस्तथाऽऽत्रेया ऋषयो रैवतारन्तरे ॥ ५४
महापुराणसंभाव्यः प्रत्यङ्गमपहरा शुचिः । बलबन्धुर्निरामित्रः केतुभृद्गङ्गो दृढव्रतः ॥
चारिष्णवस्य पुत्रास्ते पञ्चमं चैतदन्तरम् ॥ ५५
स्वारोचिषोत्तमश्चैव तामसो रैवतस्तथा । प्रियव्रतान्वया ह्येते चत्वारो मनवस्तथा ॥ ५६
षष्ठे खल्वथ पर्याये देवा ये चाक्षुषेऽन्तरे । आद्याः प्रसूता भाव्याश्च पृथुकाश्च दिवौकसः ॥
महानुभावा लेखाश्च पञ्च देवगणाः स्मृताः ॥ ५७
दिवौकसः सर्ग एष प्रोच्यते मातृनामभिः । अत्रेः पुत्रस्य नम्रार आरण्यस्य प्रजापतेः ॥
गणश्च तेषां देवानामेकैको ह्यष्टकः स्मृतः ॥ ५८
अन्तरिक्षो वसुह्रयो ह्यतिथिश्च प्रियव्रतः । श्रोता मन्ता सुमन्ता च आद्या ह्येते प्रकीर्तिताः ॥ ५९
श्येनभद्रस्तथा पश्यः पथ्यनेत्रो महायशाः । सुमनाश्च सुवेताश्च रेवतः सुमेचेतसः ॥
द्युतिश्चैव महासत्त्वः प्रसूत्याः परिकीर्त्तिताः ॥ ६०
विजयः सुजयश्चैव मनोद्यानौ तथैव च । सुमतिः सुपरिश्चैव विज्ञातोऽर्थपतिश्च यः ॥
भाव्या ह्येते स्मृता देवाः पृथुकांस्तु निबोधत ॥ ६१
अजिष्टः शाक्यनो देवो वानपृष्ठस्तथैव च । शांकरः सत्यधृष्णुश्च विष्णुश्च विजयस्तथा ॥
अजितश्च महाभागः पृथुकास्ते दिवौकसः ॥ ६२
लेखांस्तथा प्रवक्ष्यामि ब्रुवतो मे निबोधत । मनोजवः प्रघासस्तु प्रचेतास्तु महायशाः ॥ ६३
वातो ध्रुवक्षितिश्चैव अद्भुतश्चैव वीर्यवान् । अवनो बृहस्पतिश्चैव लेखाः संपरिकीर्तिताः ॥ ६४
मनोजवो महावीर्यस्तेषामिन्द्रस्तदाऽभवत् । उन्नतो भार्गवश्चैव हविष्मानङ्गिरः सुतः ॥ ६५
सुधामा काश्यपश्चैव वसिष्ठो विरजस्तथा । अतिमानश्च पौलस्त्यः सहिष्णुः पौलहस्तथा ॥
मधुरात्रेय इत्येते सप्त वै चाक्षुषेन्तरे ॥ ६६
ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कतिः । अग्निष्णुदतिरात्रश्च सद्युम्नश्चेति ते नव ॥ ६७
[अ० ६२ श्लो ६८-९०] वायुपुराणम् । २२१ (पृथिवीदोहनम् )
अभिमन्युश्च दशमो नाद्वलेया मनोः सुताः । चाक्षुषस्य सुता ह्येते षष्ठं चैव तदन्तरम् ॥ ६८ वैवस्वतेन संख्यातस्तस्य सर्गो महात्मनः । विस्तरेणाऽनुपूर्व्या च कथितं वै मया द्विजाः ॥ ६९ ऋषय ऊचुः-- चाक्षुषस्य तु दायादः संभूतः कश्यपान्वये । तस्यान्ववाये येऽप्यन्ये तन्नो ब्रूहि यथातथम् ॥ ७० सूत उवाच-- चाक्षुषस्य निसर्गं तु समासाच्छ्रोतुमर्हथ । तस्मान्ववाये संभूतः पृथुर्वैन्यः प्रतापवान् ॥ ७१ प्रजानां पतयश्चान्ये दक्षः प्राचेतसस्तथा । उत्तानपादं जग्राह पुत्रमात्रेः प्रजापतिः ॥ ७२ दक्षकस्य तु पुत्रोऽस्य राजा ह्यासीत्प्रजापतेः । स्वायंभुवेन मनुना दत्तोऽत्रेः कारणं प्रति ॥ ७३ मन्वन्तरमथाऽऽसाद्य भविष्यं चाक्षुषस्य ह । षष्ठं तदनुवक्ष्यामि उपोद्घातेन वै द्विजाः ॥ ७४ उत्तानपादाच्चतुरा सूनृता वित्तभाविनी । * धर्मस्य कन्या धर्मज्ञा सूनृता नाम विश्रुता ॥ ७५ उत्पन्ना चापिधर्मेण ध्रुवस्य जननी शुभा । धर्मस्य पत्न्यां लक्ष्यां वै उत्पन्ना सा शुचिस्मिता ॥ ७६ ध्रुवं च कीर्त्तिमन्तं च अयस्मन्तं वसुं तथा । उत्तानपादोऽजनयत्कन्ये द्वे च शुचिस्मिते ॥ मनस्विनी स्वरां चैव तयोः पुत्राः प्रकीर्त्तिताः ॥ ७७ ध्रुवो वर्षसहस्राणि दश दिव्यानि वीर्यवान् । तपस्तेपे निराहारः प्रार्थयन्विपुलं यशः ॥ ७८ त्रेतायुगे तु प्रथमे पौत्रः स्वायंभुवस्य सः । आत्मानं धारयन्योगात्प्रार्थयन्सुमहद्यशः ॥ ७९ तस्मै ब्रह्मा ददौ प्रीतो ज्योतिषां स्थानमुत्तमम् । आभूतसंप्लवं हृद्यमस्तोद्यविवर्जितम् ॥ ८० तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य ह । दैत्यासुराणामाचार्यः श्लोकमप्युशना जगौ ॥ अहोऽस्य तपसो वीर्यमहो श्रुतमहो हुतम् । स्थिताः सप्तर्षयः कृत्वा यदेनमुपरि ध्रुवम् ॥ ८१ ध्रुवे दिवं समासक्तमीश्वरः स दिवस्पतिः ॥ ध्रुवात्पुष्टिं च भव्यं च भूमिः सा सुषुवे नृपौ । स्वां छायामाह वै पुष्टिर्भव नारी तु तां विभुः ॥ ८२ सत्याभि याहते तस्य सद्यः स्त्री साऽभवत्तदा । दिव्यसंहननच्छाया दिव्याभरणभूषिता ॥ ८३ छायायां पुष्टिराधत्त पञ्च पुत्रानकल्मषान् । प्राचीनगर्भं वृषकं वृकं च वृकलं धृतिम् ॥ ८४ पत्नी प्राचीनगर्भस्य सुवर्चा सुषुवे नृपम् । नाम्नोदारधियं पुत्रमिन्द्रो यः पूर्वजन्मनि ॥ ८५ संवत्सरसहस्रान्ते सकृदाहारमाहरत् । एवं मन्वन्तरं युक्तमिन्द्रत्वं प्राप्तवान्विभुः ॥ ८६ उदारधेः सुतं भद्राऽजनयत्सा दिवंजयम् । रिपुं रिपुंजयं जज्ञे वराङ्गी सा दिवंजयात् । ८७ रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् । ÷ तस्य पुत्रो मनुर्विद्वान्ब्रह्मक्षत्रप्रवर्तकः ॥ ८८ व्यजीजनत्पुष्करिण्यां वारुण्यां चाक्षुषं मनुम् । प्रजापतेरात्मजायामरण्यस्य महात्मनः ॥ ८९
- चाक्षुषं नाम विख्यातं मनुं धर्मार्थकोविदम् । मनोरजायन्त दश लद्वलायां शुभा सुताः ॥ कन्यायां वै महाभाग वैराजस्य प्रजापतेः ॥ ९०
* इदमर्धं नास्ति क पुस्तके । ÷ इदमर्धं नास्ति क. पुस्तके । + इदमर्धं नास्ति क पुस्तके ।
२२२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६२श्लो९१-११०] (पृथिवीदोहनम्)
ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः। अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव ॥
अभिमन्युश्च दशमो नद्वलायां मनोः सुताः ॥ ९१
ऊरोरजनयत्पुत्रान्वेडाभेयी महाप्रभान् । अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम् ॥ ९२
अङ्गात्सुनीथाऽपत्यं वै वेवमेकं व्यजायत । अपचारेण वेनस्य प्रकोपः सुमहानभूत् ॥ ९३
प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम् । वेनस्य पाणौ मथिते संबभूव महान्नृपः ॥
* वैन्यो नाम महीपालो यः पृथुः परिकीर्तितः ॥ ९४
स धन्वी कवची जातस्तेजसा प्रज्वलन्निव । पृथुर्वैन्यः सर्वलोकान्ररक्ष क्षत्रपूर्वजः ॥ ९४
राजसूयाभिषिक्तानामाद्यः स वसुधाधिपः । तस्य स्तवार्थमुत्पन्नौ निपुणौ सूतमागधौ ॥ ९५
तेनेयं गौर्महाराज्ञा दुग्धा सस्यानि धीमता । प्रजानां वृत्तिकामान दैवैर्ऋषिगणैः सह ॥ ९६
पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः । सर्वैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा ॥ ९७
तेषु तेषु तु पात्रेषु दुह्यमाना वसुंधरा । प्रादाद्यथेप्सितं क्षीरं तेन लोकांस्त्वधारयत् ॥ ९८
ऋषय उवाच--
विस्तरेण पृथोर्जन्म कीर्तयस्व महामते । यथा महात्मना दुग्धा पूर्वं तेन वसुंधरा ॥ ९९
यथा देवैश्च नागैश्च यथा ब्रह्मर्षिभिः सह । यथा यक्षैः सगन्धर्वैरप्सरोभिर्यथा पुरा ॥
+ यथातथा च तैर्दुग्धा विधिना येन येन च ॥ १००
तेषां पात्रविशेषांश्च दोग्धारं क्षीरमेव च । तथा वत्सविशेषांश्च तन्नः प्रब्रूहि पृच्छताम् ॥ १०१
यस्मिंश्च कारणे पाणिवेर्नस्य मथितः पुरा । क्रुद्धैर्महर्षिभिः पूर्वं तत्सर्वं कथयस्व नः ॥ १०२
सूत उवाच---
वर्णयिष्यामि वो विप्राः पृथोर्वैन्यस्य संभवम् । एकाग्राः प्रयताश्चैव शुश्रूषध्वं द्विजोत्तमाः ॥ १०३
नाशुचेर्नापि पापाय नाशिष्यायाहिताय च । वर्णयेयमिमं पुण्यं नाव्रताय कथंचन ॥ १०४
स्वर्ग्यं यशस्यमायुष्यं पुण्यं वेदैश्च संमितम् । रहस्यमृषिभिः प्रोक्तं शृणुयाद्योऽनसूयकः ॥ १०५
यश्चेमं श्रावयेन्मर्त्यः पृथोर्वैन्यस्य संभवम् । ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम् ॥
गोप्ता धर्मस्य राजाऽसौ बभूवात्रिसमः प्रभुः ॥ १०६
अत्रिवंशसमुत्पन्नो ह्यङ्गो नाम प्रजापतिः । यस्य पुत्रोभवद्वेनो नात्यर्थं धार्मिकस्तथा ॥ १०७
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः । स मातामहदोषेण वेनः कालात्मजात्मजः ॥ १०८
स धर्मं पृष्ठतः कृत्वा कामाल्लोभे ह्यवर्तत । स्थापनं स्थापयामास धर्मापेतं स पार्थिवः ॥ १०९
वेदशास्त्रान्यतिक्रम्य ह्यधर्मे निरतोऽभवत् । निःस्वाध्यायवषट्काराः प्रजास्तान्निन्प्रशासति ॥
आसन्न च पपुः सोमं हुतं यज्ञेषु देवताः ॥ ११०
* एतदर्थस्थानेऽयं श्लोकः-“ जनयित्वा सुतं तस्य पृथुं प्रथितपौरुषम् । अब्रुवंस्त्वेष वै राजन्मुनयो मुदिताः प्रजा ” इति ख. ग. घ. ङ. पुस्तकेषु । + इदमर्धं नास्ति क. पुस्तके ।
[अ०६२श्लो०१११--१३५] वायुपुराणम्। २२३
( पृथिवीदोहनम् )
न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः । आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥ १११ अहमिज्यश्च पूज्यश्च सर्वयज्ञे द्विजातिभिः । मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि ॥ ११२ तमतिक्रान्तमर्यादमाददानमसांप्रतम् । ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तथा ॥ ११३ वयं दीक्षां प्रवक्ष्यामः संवत्सरशतान्यहूनू । माऽधर्मं वेन कार्षीस्त्वं नैष धर्मः सनातनः ॥ निधने च प्रसूतोऽसि प्रजापतिरसंशयः ॥ ११४ पालयिष्ये प्रजाश्चेति त्वया पूर्वं प्रतिश्रुतम् । तांस्तथा वादिनः सर्वान्ब्रह्मर्षीनब्रवीत्तदा ॥ ११५ स प्रहस्य तु दुर्बुद्धिरिदं वचनकोविदः । स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वै मया ॥ ११६ वीर्यश्रुततपःसत्यैर्मया वा कः समो भुवि । महात्मानमनूनं मां यूयं जानीत तत्त्वतः ॥ ११७ प्रभवः सर्वलोकानां धर्माणां च विशेषतः । इच्छन्दहेयं पृथिवीं प्लावयेयं जलेन वा ॥ सृजेयं वा ग्रसेयं वा नात्र कार्या विचारणा ॥ ११८ यदा न शक्यते स्तम्भान्मानाच्च भृशमोहितः । अनुनेतुं नृपो वेनस्ततः क्रुद्धा महर्षयः ॥ ११९ निगृह्य तं महाबाहुं विस्फुरन्तं यथाऽनलम् । ततोऽस्य वामहस्तं ते मन्मथुर्भृशकोपिताः ॥ १२० तस्मात्प्रमथ्यमानाद्वै जज्ञे पूर्वमभिश्रुतः । ह्रस्वोऽतिमात्रं पुरुषः कृष्णश्चापि तथा द्विजाः ॥ १२१ स भीतः प्राञ्जलिंश्चैव स्थितवान्व्याकुलेन्द्रियः । तमार्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन्किल ॥ १२२ निषादवंशकर्ताऽसौ बभूवानन्तविक्रमः । धीवरान्सृजतसोऽपि वेनकल्मषसंभवान् ॥ १२३ ये चान्ये विन्ध्यनिलयास्तुम्बुरां स्तुवराः खसाः । अधर्मरुचयश्चापि संभूता वेनकल्मषात् ॥ १२४ पुनर्महर्षयस्तस्य पाणिं वेनस्य दक्षिणम् । अरणीमिव संरम्भान्ममन्थुर्जातमन्यवः ॥ १२५ पृथुस्तस्मात्समुत्पन्नः करास्फालनतेजसः । पृथोः करतलाद्वाऽपि यस्माज्जातः पृथुस्ततः ॥ दीप्यमानः स्ववपुषा साक्षादग्निरिवोज्वलन् ॥ १२६ आद्यमाजगवं नाम धनुर्गृह्य महारवम् । शरांश्च विप्रदक्षार्थं कवचं च महाप्रभम् ॥ १२७ तस्मिञ्जातेऽथ भूतानि संप्रहृष्टानि सर्वशः । समुत्पन्ने महाराज्ञि वेनश्च त्रिदिवं गतः ॥ १२८ समुत्पन्नेन राजर्षिः स सत्पुत्रेण धीमता । *त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकान्तदा ॥ १२९ तं नद्यश्च समुद्राश्च रत्नान्यादाय सर्वशः । अभिषेकाय तोयं च सर्व एवोपतस्थिरे ॥ १३० पितामहश्च भगवानङ्गिरोभिः सहामरैः । स्थावराणि च भूतानि जङ्गमानि च सर्वशः ॥ १३१ समागम्य तदा वैन्यमभ्यषिञ्चन्नराधिपम् । महता राजराज्येन महाराजं महाद्युतिम् ॥ १३२ सोऽभिषिक्तो महाराजो देवैरङ्गिरसः सुतैः । आदिराजो महाराजः पृथुर्वैन्यः प्रतापवान् ॥ १३३ पित्राऽपरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः । ततो राजेति नामास्य अनुरागादजायत ॥ १३४ आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः । पर्वताश्च विशीर्यन्ते ध्वजभङ्गश्च नाभवत् ॥ १३५
* एतदर्धस्थाने-“पुरुषव्याघ्रः पुंनाम्नो नरकात्त्रायत ततः ” इति क. पुस्तके ।
२२४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६२श्लो०१३६-१५८] (पृथिवीदोहनम्)
अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तया । सर्वकामदुघा गावः पुटके पुटके मधु ॥ १३६
एतस्मिन्नेव काले च यज्ञे पैतामहे शुभे । सूतः सुत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ॥ १३७
*[सामगेषु तु गायत्सु सुग्भाण्डे वैश्वदेवके । सामगाने समुत्पन्नस्तस्मान्मागध उच्यते ]
ऐन्द्रेण हविषा चापि हविः पृक्तं बृहस्पतेः । जुहावेन्द्राय देवेन ततः सूतो व्यजायत ॥ १३८
प्रमादस्तत्र संजज्ञे प्रायश्चित्तं च कर्मसु । शिष्यहव्येन यत्पृक्तमभिभूतं गुरोर्हविः ॥
अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतम् ॥ १३९
यच्च क्षत्रात्समभवद्ब्राह्मण्यं हीनयोनितः । सूतः पूर्वेण साधम्र्म्यात्तुल्यधर्मः प्रकीर्तितः ॥ १४०
मध्यमो ह्येष सूतस्य धर्मः क्षत्रोपजीवनम् । रथनागाश्व चरितं जघन्यं च चिकित्सितम् ॥ १४१
पृथोस्तवार्थं तौ तत्र समाहूतौ सुरर्षिभिः । तावूचुर्मुनयः सर्वे स्तूयतामेष पार्थिवः ॥
कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चाप्ययम् ॥ १४२
तावूचतुस्तदा सर्वांस्तानृषीन्सूतमागधौ । आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः ॥ १४३
न चास्य कर्म वै विद्मो न तथा लक्षणं यशः । स्तोत्रं येनास्य कुर्यावो राज्ञस्तेजस्विनो द्विजाः ॥ १४४
ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति । दानधर्मरतो नित्यं सत्यवाक्संजितेन्द्रियः ॥
ज्ञानशीलो वदान्यस्तु संग्रामेष्वपराजितः ॥ १४५
यानि कर्माणि कृतवान्पृथुश्चापि महाबलः । तानि शीलेन बद्धानि स्तुवद्भिः सूतमागधैः ॥ १४६
ततस्तवान्ते सुप्रीतः पृथुः प्रादात्प्रजेश्वरः । अनूपदेशं सूताय मागधान्मागधाय च ॥ १४७
तदा वै पृथिवीपालाः स्तूयन्ते सूतमागधैः । आशीर्वादैः प्रबोध्यन्ते सूतमागधवन्दिभिः ॥ १४८
तं दृष्ट्वा परमप्रीताः प्रजा ऊचुर्महर्षयः । एष वो वृत्तिदो वैन्यो भवत्विति नराधिपः ॥ १४९
ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः । त्वं नो वृत्तिं विधत्स्वेति महर्षेर्वचनात्तदा ॥
सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ॥ १५०
धनुर्गृहीत्वा बाणांश्च वसुधामार्दयद्बली । अस्यार्दनभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ॥ १५१
तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत । सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा ॥
ददर्श चाग्रतो वैन्यं कार्मुकोद्यतधारिणम् ॥ १५२
ज्वलद्भिरिवशिखैर्बाणैर्दीप्ततेजसमच्युतम् । महायोगं महात्मानं दुर्धर्षममरैरपि ॥ १५३
अलभन्ती तदा त्राणं वैन्यमेवान्वपद्यत । कृष्णाञ्जलिपुटा देवी पूज्या लोकैस्त्रिभिः सदा ॥ १५४
उवाच वैन्यं नाथर्मं स्त्रीवधे परिपश्यसि । कथं धारयिता चापि प्रजा राजन्मया विना ॥ १५५
मयि लोकाः स्थिता राजन्मयैदं धार्यते जगत् । मष्टे च विनश्येयुः प्रजाः पार्थिवसत्तम ॥ १५६
न मामर्हसि वै हन्तुं श्रेयश्चेत्त्वं चिकीर्षसि । प्रजानां पृथिवीपाल शृणु चेदं वचो मम ॥ १५७
उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः । हत्वाऽपि मां न शक्तस्त्वं प्रजानां पालने नृप ॥ १५८
* धनुश्चिह्नान्तर्गतग्रन्थो क. पुस्तके नास्ति ।
| [अ० ६२ श्लो० १५९-१७९] | वायुपुराणम् | २२५ |
|---|
(पृथिवीदोहनम् )
अन्नभूता भविष्यामि जहि कोपं महाद्युते । अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिशतेष्वपि ॥
मत्वैवं पृथिवीपाल धर्मं न त्यक्तुमर्हसि ॥ १५९
एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः । क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥ १६०
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा । एकं प्राणं बहूंश्चाऽपि कामं तस्यास्ति पातकम् ॥ १६१
यस्मिंस्तु निहते भद्रे लभन्ते बहवः सुखम् । तस्मिन्हते शुभे नास्ति पातकं चोपपातकम् ॥ १६२
सोऽहं प्रजानिमित्तं त्वां वधिष्यामि वसुंधरे । यदि मे वचनं नाद्य करिष्यसि जगद्धितम् ॥ १६३
त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् । आत्मानं प्रथयित्वेह धारयिष्याम्यहं प्रजाः ॥ १६४
सा त्वं वचनमासाद्य मम धर्मभृतां वरे । संजीव्य प्रजा नित्यं शक्ता ह्यसि न संशयः ॥ १६५
दुहितृत्वं च मे गच्छ एवमेतं महद्वरम् । नियच्छे त्वां तु धर्मार्थे प्रयुक्तं घोरदर्शने ॥ १६६
प्रत्युवाच ततो वैन्यमेवमुक्ता सती मही । एवमेतदहं राजन्विधास्यामि न संशयः ॥ १६७
वत्सं तु मम तं यच्छ क्षरेयं येन वत्सला । समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर ॥
यथा विष्यन्दमानं च क्षीरं सर्वत्र भावयेत् ॥ १६८
तत उत्सारयामास शिलाजालानि सर्वशः । धनुष्कोट्या ततो वैन्यस्तेन शैला विवर्धिताः ॥ १६९
मन्वन्तरेष्वतीतेषु विषमाऽऽसीद्वसुंधरा । स्वभावेनाभवंस्तस्याः समानि विषमाणि च ॥ १७०
न हि पूर्वविसर्गे वै विषमे पृथिवीतले । प्रविभागः पुराणां वा ग्रामाणां वाऽपि विद्यते ॥ १७१
न सस्यानि न गोरक्षा न कृषिर्न मणिक्पथः । चाक्षुषस्यान्तरे पूर्वमेतदासीत्पुरा किल ॥ १७२
वैवस्वतेऽन्तरे तस्मिन्सर्वस्यैतस्य संभवः ॥
समतवं यत्र यत्राऽऽसीद्रूपस्तस्मिंस्तदेव हि । तत्र तत्र प्रजास्ता वै निवसन्ति स्म सर्वदा ॥ १७३
आहारत्फलमूलं तु प्रजानामभवत्किल । * कृच्छ्रेणैव तदा तासामित्येवमनुशुश्रुम ॥
वैण्यात्प्रभृति लोकेऽस्मिन्सर्वस्यैतस्य संभवः ॥ १७४
- कृच्छ्रेण महता साऽपि प्रनष्टास्वोषधीषु वै । स कल्पयित्वा वत्सं तु चाक्षुषं मनुमीश्वरः ॥
पृथुर्दुदोह सस्यानि स्वतले पृथिवीं ततः ॥ १७५
सस्यानि तेन दुग्धानि(वै) वैन्येन तु वसुंधरा । मनुं च चाक्षुषं कृत्वा वत्सं पात्रे च भूये ॥
तेनान्नेन तदा ता वै वर्तयन्ते प्रजाः सदा ॥ १७६
ऋषिभिः स्तूयते चाऽपि पुनर्दुग्धा वसुंधरा । वत्सः सोमस्त्वभूत्तेषां दोग्धा चापि बृहस्पतिः ॥ १७७
पात्रमासीत्तु च्छन्दांसि गायत्र्यादीनि सर्वशः । क्षीरमासीत्तदा तेषां तपो ब्रह्म च शाश्वतम् ॥ १७८
पुनः स्तुत्वा देवगणैः पुरंदरपुरोगमैः । सौवर्णं पात्रमादायं अमृतं दुदुहे तदा ॥
तेनैव वर्तयन्ते च देवा इन्द्रपुरोगमाः ॥ १७९
- इदमर्धं नास्ति क पुस्तके । * इदमर्धं नास्ति ख, ग, घ, ङ, पुस्तकेषु ।
२९
२२६ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०६२-६३श्लो०१८०-१९३।१-४] ( पृथुवंशानुकीर्तनम् )
नागैश्च स्तूयते दुग्धा विषं क्षीरं तदा मही । तेषां च वासुकिर्दोग्धा काद्रवेया महौजसः ॥ १८०
नागानां वै द्विजश्रेष्ठ सर्पाणां चैव सर्वशः । तेनैव वर्तयन्त्युग्रा महाकाया महोल्बणाः ॥
तदाहारास्तदाचारास्तद्वीर्यास्तु तदाश्रयाः ॥ १८१
आमपात्रे पुनर्दुग्धा त्वन्तर्धानामियं मही । वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तथा ॥ १८२
दोग्धा च जतुनाभस्तु पिता मणिवरस्य सः । यक्षात्मजो महातेजा वशी स सुमहाबलः ॥
तेन ते वर्तयन्ताति परमर्षिरुवाच ह ॥ १८३
राक्षसैश्च पिशाचैश्च पुरुर्दुग्धा वसुंधरा । ब्रह्मोपेतस्तु दोग्धा वै तेषामासीत्कुबेरकः ॥ १८४
रक्षः सुमाली बलवाञ्क्षीरं रुधिरमेव च । कपालपात्रे निर्दुग्धा अन्तर्धानं च राक्षसैः ॥
तेन क्षीरेण रक्षांसि वर्तयन्तीह सर्वशः ॥ १८५
[* रजतं पात्रमादाय पितृभिः स्तूयते मही । स्वधामृतं च पितॄणामासीद्दोग्धाऽर्यमा तथा ॥
यमो वत्सोऽभवत्तेषां मासो(सं) तृप्तिस्तु सर्वदा ॥ ] १८६
पद्मपात्रे पुनर्दुग्धा गन्धर्वैरप्सरोगणैः । वत्सं चित्ररथं कृत्वा शुचीगन्धांस्तथैव ॥ १८७
तेषां विधावसुस्तवासीद्दोग्धा पुत्रो मुनेः शुचिः । गन्धर्वराजाऽतिबलो महात्मा सूर्यसंन्निभः ॥ १८८
शैलेश्च सयते दुग्धा पुनर्देवी वसुंधरा । तत्रौषधीर्मूर्तिमती रत्नानि विविधानि च ॥ १८९
वत्सस्तु हिमवांस्तेषां मेरुर्दोग्धा महागिरिः । पात्रं तु शैलमेवाऽऽसीत्तेन शैलः प्रतिष्ठितः ॥ १९०
सूयते वृक्षवरिष्ठाद्भिः पुनर्दुग्धा वसुंधरा । पलाशपात्रमादाय दुग्धं छिन्नमरोहणम् ॥ १९१
कामधुक्पुष्पितः शैलः पक्षो वत्सो यशस्विनी । सर्वकामदुधा दोग्धी पृथिवी भूतभाविनी ॥ १९२
सैषा धात्री विधात्रा च बारणी च वसुंधरा । दुग्धा हितार्थं लोकानां पृथुना इति वः श्रुतम् ॥
चराचरस्य लोकस्य प्रतिष्ठा योनिरैव च ॥ १९३
इति महापुराणे वायुप्रोक्ते पृथिवीदोहनं नाम द्विषष्टितमोऽध्यायः ॥ ५० ॥
आदितः श्लोकानां समष्ट्यङ्काः—५२७९
अथ त्रिषष्टितमोऽध्यायः ।
पृथुवंशानुकीर्तनम् ।
सूत उवाच--
आसीदियं समुद्वान्ता मेदिनीति परिश्रुता । वसु धारयते यस्माद्वसुधा तेन चोच्यते ॥ १
मधुकैटभयोः पूर्वं मेदसा संपरिप्लुता । ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य धीमतः ॥ २
इयं चाऽसीत्समुद्वान्ता मेदिनीति परिश्रुता । दुहितृत्वमनुप्राप्ता पृथिवीत्युच्यते ततः ॥ ३
प्रथिता प्रविभक्ता च शोभिता च वसुंधरा । सस्याकरवती राज्ञा पत्तनाकरमालिनी ॥
चातुर्वर्ण्यसमाकीर्णा रक्षिता तेन धीमता ॥ ४
* धनुश्चिह्नान्तर्गतग्रन्थः क. ग. घ. ड. पुस्तकेषु नास्ति ।
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः । पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥ ६
[अ० ६३ श्लो० ५-२९] | वायुपुराणम् । | २२७ ( पृथुवंशानुकीर्तनम् ) एवंप्रभावो राजाऽऽसीद्वैन्यः स नृपसत्तमः । नमस्यश्चैव पूज्यश्च भूतग्रामेण सर्वशः ॥ ५ ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः । पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥ ६ पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः । आदिराजा नमस्कार्यः पृथुर्वैन्यः प्रतापवान् ॥ ७ योधैरपि च सङ्ग्रामे प्रार्थयानैर्जयं युधि । आदिकर्ता नराणां वै नमस्यः पृथुरेव हि ॥ ८ यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् । स घोररूपे सङ्ग्रामे क्षेमी तरति कीर्तिमान् ॥ ९ वैश्यैरपि च राजर्षिर्वैश्यवृत्तिसमाश्रितैः । पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ॥ १० एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च । पात्राणि च मयोक्तानि सर्वाण्येव यथाक्रमम् ॥ ११ ब्रह्मणा प्रथमं दुग्धा पुरा पृथ्वी महात्मना । वायुं कृत्वा तदा वत्सं बीजानि वसुधातले ॥ १२ ततः स्वायम्भुवे पूर्वं तदा मन्वन्तरे पुनः । वत्सं स्वायम्भुवं कृत्वा दुग्धाऽऽग्नीध्रेण वै मही ॥ १३ मनौ स्वारोचिषे दुग्धा मही चैत्रेण धीमता । [* मनुं स्वारोचिषं कृत्वा वत्सं सस्यानि वै पुरा ॥ १४ उत्तमेऽनुत्तमेनापि दुग्धा देवभुजेन तु । मनुं कृत्वोत्तमं वत्सं सर्वसस्यानि धीमता ॥ ] १५ पुनश्च पञ्चमे पृथ्वी तामसस्यान्तरे मनोः । दुग्धेयं तामसं वत्सं कृत्वा तु बलबन्धुना ॥ १६ चारिष्णवस्य देवस्य संप्राप्ते चान्तरे मनोः । दुग्धा मही पुराणेन वत्सं चारिष्णवं प्रति ॥ १७ चाक्षुषेऽपि च संप्राप्ते तदा मन्वन्तरे पुनः । दुग्धा मही पुराणेन वत्सं कृत्वा तु चाक्षुषम् ॥ १८ चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः । वैन्येनेयं मही दुग्धा यथा ते कीर्तितं मया ॥ १९ एतैर्दुग्धा पुरा पृथ्वी व्यतीतेष्वन्तरेषु वै । देवादिभिर्मनुष्यैश्च तथा भूतादिभिश्च यः ॥ २० ( +एवं सर्वेषु विज्ञेया ह्यतीतानागतेष्विह । देवा मन्वन्तरेष्वस्य पृथोस्तु शृणुत प्रजाः ॥ २१ पृथॊस्तु पुत्रौ विक्रान्तौ जज्ञातेऽन्तर्धिपालिनौ । शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत ॥ २२ हविर्धानात्षडाग्नेयी धिषणाऽजनयत्सुतान् । प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ ॥ २३ प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः । बलश्रुततपोवीर्यैः पृथिव्यामेकराडसौ ॥ प्राचीनाग्राः कुशास्तस्य तस्मात्प्राचीनबर्हिसौ ॥ २४ समुद्रतनयायां तु कृतदारः स वै प्रभुः महतस्तमसः पारे सवर्णायां प्रजापतिः ॥ सवर्णाऽधत्त सामुद्री दश प्राचीनबर्हिषः ) ॥ २५ सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः । अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः ॥ दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥ २६ तपश्चरत्सु पृथिवी प्रचेतःसु महीरुहाः । अरक्ष्यमाणाः खं ववृधुर्भुवाथ प्रजाक्षयः ॥ २७ प्रत्याहृते तदा तस्मिंश्चाक्षुषस्यान्तरे मनोः । नाशकन्मारुतो वातुं वृतं खमभवद्द्रुमैः ॥ दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ २८ तदुपश्रुत्य तपसा सर्वे युक्ताः प्रचेतसः । मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ॥ २९
* धनुश्चिह्नान्तर्गतग्रन्थो ङ्. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो ङ्. पुस्तके नास्ति ।