बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
अष्टमः खण्डः ] तृतीयप्रश्ने नवमोऽध्यायः ३५१
अष्टमः खण्डः ] तृतीयप्रश्ने नवमोऽध्यायः ३५१
तदेतद्धन्यं पुण्यं पुत्र्यं पौत्र्यं पशव्यमायुष्यं स्वर्ग्यं यशस्यं सार्वकामिकम् ॥ ४० ॥
अनु०—यह व्रत धन देने वाला, पुण्य देने वाला, पुत्र, पौत्र, पशु, दीर्घ जीवन, स्वर्ग, यश प्रदान करने वाला तथा सभी प्रकार की इच्छाओं की पूर्ण करने वाला है ॥ ४० ॥
'तस्मै हितम्' इति तद्धितान्तानां विग्रहः ॥ ४० ॥
नक्षत्राणां द्युतिं सूर्याचन्द्रमसोस्सायुज्यं सलोकतामाप्नोति ॥ ४१ ॥ य उच्चैनदधीते य उच्चैनदधीते ॥ ४२ ॥
इति तृतीयप्रश्नेऽष्टमः खण्डः ॥
अनु०—जो व्यक्ति इस व्रत का अध्ययन करता है वह नक्षत्रों की ज्योति तथा सूर्य और चन्द्रमा का सायुज्य प्राप्त करता है और उन्हीं के लोक में निवास करता है ॥ ४१-४२ ॥
फलार्थवादोऽयम् ॥ ४१ ॥ विद्वत्प्रशंसैषा ॥ ४२ ॥
इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते तृतीयप्रश्नेऽष्टमोऽध्यायः ॥
तृतीयप्रश्ने नवमोऽध्यायः
नवमः खण्डः
अनशनत्पारायणमपि पापमोचनमिति मत्वाऽऽह—
अथातोऽनशनत्पारायणविधिं व्याख्यास्यामः ॥ १ ॥
अनु०—अब हम अनशनत्पारायण (उपवास करते हुए सम्पूर्ण वेद का पाठ) की विधि का विवेचन करेंगे ॥ १ ॥
वेदस्य पारं पर्यन्तं निष्पामयन्ते गच्छन्तीति पारायणम् । तच्चाऽनशनता कर्तव्यमित्यनशनत्पारायणम् ॥ १ ॥
शुचिवासाः स्याच्चीरवासा वा ॥ २ ॥
३५२ बौधायन-धर्मसूत्रम् [वेदपारायणविधिः
अनु०—शुद्ध वस्त्र पहने अथवा वृक्ष की छाल के वस्त्र के रूप में धारण करे॥२॥ चीरं चिरकालिकं जीर्णमित्यर्थः । न चैतावतोपभुक्तं वासोऽभ्यनुज्ञातं भवति । 'अहतं वाससां शुचिः' इति नियमात् । समुच्चयार्थो वाशब्दः पूर्वे- स्मिन् । उत्तरत्र तु विकल्पार्थः ॥ २ ॥
हविष्यमन्नमिच्छेद्पः फलानि वा ॥ ३ ॥
अनु०—यज्ञ के लिए योग्य ( क्षारलवणवर्जित ) अन्न अथवा जल या फलों के आहार की ही इच्छा करे ॥ ३ ॥ हविष्यमक्षारलवणम् । यदि मन्येतोपवत्स्यामीति तदेतद्वेदितव्यम् । इतर- थाऽनशनत्वविरोधात् ॥ ३ ॥
ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याऽद्भिरभ्युक्ष्याऽग्नि- मुपसमाधाय सम्परिस्तीर्यैताभ्यो देवताभ्यो जुहुयात् ॥ ४ ॥
अनु०—गांव से निकलकर पूर्व या उत्तर दिशा को जाय, गोबर से गोचर्म के बराबर चौकोर भूमि को लीपकर उस पर जल छिड़के, उस पर चिह्न अंकित करे और जल छिड़ककर अग्नि का उपसमाधान करे अग्नि के चारो ओर कुश फैलाए और इन देवों के लिए हवन करे—॥ ४ ॥
उपनिष्क्रम्य शुचौ देशे गोमयेनोपलिप्ते प्रोक्ष्य लक्षणमुल्लिख्य स्थण्डिलं कृत्वेत्यर्थः । सम्परिस्तीर्याऽऽज्यं विलाप्योत्पूय । नाऽत्र दार्श्विहोमिकं तन्त्रं विद्यते ॥ ४ ॥
अग्नये स्वाहा सोमाय स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवे- भ्यः स्वयम्भुव ऋग्भ्यो यजुर्भ्यो सामभ्यो ऽथर्वभ्यश्श्रद्धायै प्रज्ञायै मेधायै श्रियै ह्रियै सवित्रे सावित्र्यै सदसस्पतयेऽनुमतये च व्याहरेन्न चान्तरा विरमेत् ॥ ५ ॥
अनु०—अग्नि को स्वाहा, सोम को स्वाहा, प्रजापति को स्वाहा, सभी देवों के, स्वयम्भू, ऋक्, यजुस्, साम, अथर्वन्, श्रद्धा प्रज्ञा, मेधा, श्री, ह्री, सवितृ, सावित्री, सदसस्पति, अनुमति के लिए हवन कर वेद के आरम्भ से निरन्तर पारायण करे । बीच में कोई और बात न करे और न बीच में रुके ॥ ५ ॥
व्याहरणमवैदिकशब्दोच्चारणम् । विरामोऽवसानम् । अन्तरा स्वाध्याय- मध्ये । सन्ततविधानादेव सिद्धे अन्तरा विरमणनिषेधात् नैमित्तिकेऽनध्याये-
नवमः खण्डः ] तृतीयप्रश्ने नवमोऽध्यायः ३५३
नवमः खण्डः ] तृतीयप्रश्ने नवमोऽध्यायः ३५३
ऽभ्युत्पातादावध्ययने दोषो नास्तीति गम्यते । नित्याध्ययनानां सन्ध्योपास- नादीनां च पूर्वमेवाऽवगन्तुं शक्यत्वात् तत्परिहरणेनाऽपि सङ्कल्प उपपद्यते ॥५॥ अत्राऽन्यथाकरणे प्रायश्चित्तमाह—
अथाऽन्तरा व्याहरेदथाऽन्तरा विरमेत्त्रीन् प्राणानायम्य वृत्ता- न्तादेवाऽऽरमेत ॥ ६ ॥
अनु०—यदि बीच में कोई अन्य आलाप करता है या रुक जाता है तो तीन प्राणायाम कर वहीं से आरम्भ करे जहाँ व्यवधान हुआ था ॥ ६ ॥
अथ यदीत्यर्थः । आयमनमातमनम् । वृत्तान्तात् स्थितादुत्तरतः ॥ ६ ॥
चिरकालेनाऽप्यप्रतिभायां किं कर्तव्यमित्याह—
अप्रतिभायां यावता कालेन न वेद तावन्तं कालं तदधीयीत स यज्जानीयात् ॥ ७ ॥
अनु०—किसी अंश के याद न आने पर जितने समय तक वह याद न आ जाय उतने समय उसी का पाठ करे जो याद हो ॥ ७ ॥
व्यवहितमपि यत्प्रत्यभात्तदधीयीतेत्यर्थः ॥ ७ ॥
तत्राऽप्यशक्तौ कथम् ?
ऋक्तो यजुष्टस्सामत इति ॥ ८ ॥
अनु०—यदि ऋचा याद न आ रही हो तो ऋचा का, यजुस् के लिए यजुस् का और साम के लिए साम का ही पाठ करता रहे ॥ ८ ॥
विजानीयादिति शेषः । ऋच्यप्रतिभातायामृगन्तरमधीयीतेत्यर्थः । एवं यजुषि, साम्नि च ॥ ८ ॥
तत्राऽप्यप्रतिभायाम्—
तद्ब्राह्मणं तच्छन्दसं तद्दैवतमधीयीत ॥ ९ ॥
अनु०—अथवा उस भूले हुए अंश से संबद्ध ब्राह्मण का या उसके छन्द और देवता का ही अध्ययन करे ॥ ९ ॥
ऋचश्चेन्न प्रतिभान्ति तद्ब्राह्मणमधीयीत । तत्प्रतिभायां पुनर्मन्त्रमेव । तच्छन्दसं तद्दैवतं तत्तदार्षमधीयीत ॥ ९ ॥
द्वादश वेदसंहिता अधीयीत यदनेनाऽनध्यायेऽधीयीत यद्गुरुवः
२६ बौ० गृ०
३५४ बौधायन-धर्मसूत्रम् [ अनश्नत्पारायणविधिः
कोपिता यान्यकार्याणि भवन्ति, ताभिः पुनीते शुद्धमस्य पूतं ब्रह्म भवति ॥ १० ॥
अनु०— अपने वेद की संहिता का बारह बार अध्ययन करे इससे यदि उसने निषिद्ध समय पर वेदाध्ययन किया हो या गुरुओं के कोप का कारण बना हो अथवा निषिद्ध कर्म किये हों तो उन सभी से वह शुद्ध हो जाता है । उसका वेदज्ञान पवित्र हो जाता है ॥ १० ॥
द्वादशेत्यत्र ऋग्यजुषेष्ठिवत्यध्याहार्यम् । संहिताग्रहणं च पदक्रमनिवृत्त्यर्थम् । तथा च शौनकः—‘अथैके प्राहुरनुसंहितं तत्पारायणं प्रवचनं प्रशस्तम्’ इति । ताभिस्संहिताभिर्द्वादशभिः द्वादशकृत्वोऽभ्यस्ताभिः पुनीते । कस्मात् ? अनध्यायाध्ययननिमित्तात् गुरुकोपनिमित्तादकार्यकरणनिमित्ताच्च ॥ १० ॥
अत ऊर्ध्वं सञ्चयः । ११ ॥
अनु०— उससे अधिक बार पढ़ने पर पुण्य फलों का संचय होता है ॥ ११ ॥
ब्रह्मभिर्हि द्वादशभिः पारायणैः पूते सञ्चयः निःश्रेयसस्य भवति ॥ ११ ॥
अपरा द्वादश वेदसंहिता अधीत्य ताभिरुशनसो लोकमवाप्नोति ॥ १२ ॥ अपरा द्वादश वेदसंहिता अधीत्य ताभिर्बृहस्पतेर्लोकमवाप्नोति ॥ १३ ॥ अपरा द्वादश वेदसंहितां अधीत्य ताभिः प्रजापतेर्लोकमवाप्नोति ॥ १४ ॥ अनश्नन्संहितासहस्रमधीत्य ब्रह्मभूतो विराजो ब्रह्म भवति ॥ १५ ॥
अनु०— यदि और बारह बार वेद की संहिता का अध्ययन करता है तो उससे उशनस् का लोक प्राप्त होता है । उस के बाद भी बारह बार संहिता का अध्ययन करने पर बृहस्पति के लोक की प्राप्ति होती है । उसके बाद भी पुनः बारह बार वेद की संहिता का अध्ययन कर प्रजापति का लोक प्राप्त करता है । उपवास करते हुए एक सहस्र बार संहिता का अध्ययन करने पर ब्रह्म से एक हो जाता है, ब्रह्म की तरह प्रकाश युक्त हो जाता है, स्वयं ब्रह्म ही हो जाता है ॥ १२–१५ ॥
संहितासहस्रं सहस्रकृत्व इत्यर्थः ॥ १२–१५ ॥
संवत्सरं भैक्षं प्रयुञ्जानो दिव्यं चक्षुर्लभते ॥ १६ ॥
अनु०— यदि एक वर्ष तक भिक्षा ग्रहण करता हुआ वेद का पारायण करता है तो दिव्य दृष्टि प्राप्त करता है ॥ १६ ॥
नवमः खण्डः ] तृतीयप्रश्ने नवमोऽध्यायः ३५५
नवमः खण्डः ] तृतीयप्रश्ने नवमोऽध्यायः ३५५
भैक्षमिति क्रियाविशेषणम् । प्रयुञ्जानः पारायणमिति शेषः । दिव्यं चक्षुर्दूरदर्शनम् ॥ १६ ॥
षण्मासान्यावकभक्षश्चतुरो मासानुदकसक्तुभक्षो द्वौ मासौ फलभक्षो मासमब्भक्षो द्वादशरात्रं वाऽप्राश्नन् क्षिप्रमन्तर्धीयते ज्ञातीन्पुनाति सप्ताऽवरान्सप्त पूर्वान्नात्मानं पञ्चदशं पंक्तिं च पुनाति ॥ १७ ॥
अनु०—यदि छः मास तक यावक का भक्षण करे, चार मास जल और सक्तु का भक्षण करे, दो मास फल भक्षण करे, एक मास केवल जल पीकर रहे, अथवा बारह दिन का उपवास करे तो शीघ्र लुप्त होने की शक्ति प्राप्त कर लेगा, बन्धु-बान्धवों को, अपने से पहले की सात पीढ़ी को, बाद की सात पीढ़ी को और पन्द्रहवें अपने को पवित्र करता है । और ब्राह्मणों की जिस पंक्ति में प्रवेश करता है उसे पवित्र करता है ॥ १७ ॥
प्राश्नन्नित्यत्राऽकारप्रश्लेषः कर्त्तव्यः अप्राश्नन्निति । पराचीनं वा पारायणं प्रयुञ्ज्येत्यर्थः ॥ १७ ॥
तामेतां देवनिश्श्रयणीत्याचक्षते ॥ १८ ॥
अनु०—इसको देवों तक पहुंचने के लिए नसेनी ( सीढ़ी ) कहा गया है ॥१८॥
निश्श्रयणी निश्श्रेयसहेतुः । निश्श्रेयसस्य संश्रयः सोपानमिति यावत् ॥ १८ ॥
निश्श्रेयसहेतुत्वं दर्शयति—
एतया वै देवा देवत्वमगच्छन्नृषय ऋषित्वम् ॥ १९ ॥
अनु०—इसीसे देवों ने देवत्व प्राप्त किया और ऋषियों ने ऋषि के पद प्राप्त किये ॥ १९ ॥
अथेदानीमनशनपारायणारम्भकालत्वेनाऽहारावयवानाह—
तस्य ह वा एतस्य यज्ञस्य त्रिविध एवाऽऽरम्भकालः—प्रातस्सवने माध्यन्दिने सवने, ब्राह्मे वाऽपररात्रे ॥ २० ॥
अनु०—इस यज्ञ को आरम्भ करने के तीन काल हैं, प्रातः सवन का काल, माध्यंदिन सवन का काल तथा रात्रि का अन्तिम अंश जिसे ब्राह्म मुहूर्त कहते हैं ।२०।
अतश्च होमा एतेष्वेव कालेषु कर्त्तव्याः ॥ २० ॥
| ३५६ | बौधायन-धर्मसूत्रम् | [अनशनत्पारायणविधिः |
|---|
साम्प्रतं गुरुपर्वक्रमद्वारेण प्रशंसामाह—
तं वा एतं प्रजापतिस्सप्तऋषिभ्यःप्रोवाच सप्तर्षयो महाजज्ञवे महाजज्ञुर्ब्राह्मणेभ्यो ब्राह्मणेभ्यः ॥ २१ ॥
इति तृतीयप्रश्ने नवमः खण्डः ॥ ९ ॥
**अनु०—**इस यज्ञ के उपदेश प्रजापति ने सात ऋषियों को दिया, सात ऋषियों ने महाजज्ञु को महाजज्ञु ने ब्राह्मणो को इसकी शिक्षा दी ॥ २१ ॥
यस्मान्महाजज्ञुः ब्राह्मणेभ्यः एतमनशनत्पारायणविधिं प्रोवाच तस्मात्तेषामेवाऽत्राऽधिकारो न क्षत्रियवैश्ययोरिति ॥ २१ ॥
इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते तृतीय प्रश्ने नवमोऽध्यायः ॥
तृतीयप्रश्ने दशमोऽध्यायः
दशमः खण्डः
पञ्चविधो धर्मो व्याख्यायेततया प्रक्रान्तः, तत्र चतुर्विधः—
उक्तो वर्णधर्मश्चाऽऽश्रमधर्मश्च ॥ १ ॥
अथ खल्वयं पुरुषो याप्येन कर्मणा ॥ २ ॥
**अनु०—**वर्णों और आश्रमों के धर्मों का विवेचन किया जा चुका है ॥ १ ॥
**अनु०—**मनुष्य इस लोक में अपने बुरे कर्मों के पाप से लिप्त हो जाता है ॥२॥
लिप्यत इति शेषः । अयमिति प्रत्यक्षं शरीरिणं क्षेत्रज्ञं व्यपदिशति । अतश्च परमात्मा न लिप्यते । पुरुषः पुरि शयः पूरयतेर्वा । कस्मात् स्त्रियोऽपि लिप्यन्ते ॥ १-२ ॥
याप्यं भान्यं पापमिति यावत्, तद्दर्शयति—
मिथ्या वा चरत्ययाज्यं वा याजयत्यप्रतिग्राह्यस्य वा प्रतिगृह्णात्यनाद्यान्नस्य वाऽन्नमश्नात्यचरणीयेन वा चरति ॥ ३ ॥
**अनु०—**यदि मिथ्या आचरण करता है, ऐसे व्यक्ति का यज्ञ कराता है जिसका यज्ञ कराना निषिद्ध है, जिनसे दान नहीं लेना चाहिए उनसे दान लेता है, जिनका
दशमः खण्डः ] तृतीयप्रश्ने दशमोऽध्यायः ३५७
दशमः खण्डः ] तृतीयप्रश्ने दशमोऽध्यायः ३५७
अन्न नहीं खाना चाहिए उनके अन्न का भक्षण करता है और निषिद्ध आचरण करता है, तो पाप से लिप्त हो जाता है ॥ ३ ॥
प्रदर्शनमेतदन्येषामपि पापानाम् । मिथ्या अयथादृष्टार्थस्य कर्मणः आत्मनो लाभपूजार्थं चरणमित्यादि । अचरणीयमकर्तव्यं प्रतिषिद्धमित्यर्थः । यदत्र पुनरुक्तमिव लक्ष्यते तत् दृढार्थम्, स्वाभावो ह्येष आचार्यस्य । अथ वा— आपद्विषयेऽनुज्ञातस्याऽप्ययाज्ययाजनादेः प्रायश्चित्तापत्त्यर्थम् । तत्राऽपि प्रथम- कल्पितचतुर्भागः कर्तव्यः, उशनसा वचनात् । आपद्विहितैः कर्मभिरापादयन्ती- त्यापदस्तेषां प्रायश्चित्तचतुर्भागं कुर्यात्' इति ॥ ३ ॥
पाप्येन कर्मणा लिप्यत इत्युक्तम्—
तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति ॥ ४ ॥
अनु०—इस विषय में सन्देह है कि प्रायश्चित्त करना चाहिए या नहीं करना चाहिए ॥ ४ ॥
मीमांसन्ते इति शेषः । तत्र पूर्वपक्षो न कुर्यादिति ॥ ४ ॥
कुतः ?
न हि कर्म क्षीयते इति ॥ ५ ॥
अनु०—कुछ लोगों का मत है कि प्रायश्चित्त नहीं करना चाहिए, क्यों कि कर्म नष्ट नहीं होते हैं ॥ ५ ॥
इतिशब्दो हेतौ । फलप्रदानमन्तरेण पापस्य कर्मणः क्षयाभावादित्यर्थः । आत्मसंस्थत्वात्कर्मणो जलसंस्थस्येव लवणस्य नाशो नाऽस्तीति ॥ ५ ॥
कुर्यात्त्वेव ॥ ६ ॥
अनु०—किन्तु सिद्धान्त यह है कि प्रायश्चित्त अवश्य करना चाहिए ॥ ६ ॥
तुशब्दः पक्षं व्यावर्तयति । कथं कर्मणः क्षय इति चेत्, प्रायश्चित्तेन कर्म क्षीयत इति वदामः । यथा सर्पदंशनलक्षणस्य कर्मणो मरणपर्यन्तस्य मन्त्रौष- धादिना विनाशो दृश्यते, तद्वदस्याऽपि प्रायश्चित्तेनेत्यभिप्रायः, आगमंगम्यत्वा- दुत्पत्तेस्तन्नाशस्य च । किञ्च तत्फळभोग एवाऽयम्, यदिदं तपः । अल्पकाळ- परिसमाप्तमित्येतावत् । यथा दीर्घकालोपभोग्यस्य व्याधेरल्पदुःखानुभवरूपेण भैषजादिना क्षयो भवत्येवमस्याऽप्यागमगम्यत्वादेव । तस्मात्कुर्यादेव प्राय- श्चित्तम् । तत्र शुष्कतर्को न कर्तव्य इत्यभिप्रायः ॥ ६ ॥
३५८ | बौधायन-धर्मसूत्रम् | [ अनादिष्टप्रायश्चित्तम्
अथ तदागमं दर्शयति— 'पुनस्तोमेन यजेत पुनस्सवनमायन्तीति विज्ञायते ॥ ७ ॥
अनु०— वेद में कहा गया है कि पुनस्तोम करे । पुनस्तोम करने वाले पुनः सोम के सवनों में अंशग्राही होकर आते हैं ॥ ७ ॥
अथाऽप्युदाहरन्ति— ^२सर्वं पाप्मानं तरति, तरति ब्रह्महत्यां योऽश्वमेधेन यजत इति ॥ ८ ॥ ^३अग्निष्टुता वाऽभिशस्यमानो यजेतेति च ॥ ९ ॥
अनु०— इस सम्बद्ध में निम्नलिखित भी उद्धृत करते हैं— जो अश्वमेध यज्ञ करता है वह सभी पापों को पार कर जाता है, ब्रह्महत्या के पाप को भी पार कर जाता है ॥ ८ ॥
अनु०— जिसके ऊपर घोर पापकर्म का दोष लगाया गया हो वह अग्निष्टुत् यज्ञ करे ॥ ९ ॥
विषयव्याप्त्यर्थमनेकोदाहरणम् । पुनस्सवनं पुनर्योगः । नष्टाधिकारस्तत्समाधाने सत्येतदुपपद्यते । सर्वग्रहणाद्विहिताकरणप्रतिषिद्धसेवानिमित्तस्याऽपि । तरणं क्षपणम् । विज्ञायते प्रतीयते । उभयाभावेऽपि जन्मान्तरकृतपापप्रदर्शनार्थमभिशस्यमान इत्युक्तम् ॥ ७-९ ॥
अधुना पापनिवर्हणोपायानाह— तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानम् ॥ १० ॥
अनु०— वेद का जप, तपश्चरण, होम, उपवास और दान उस पाप कर्म के दोष को दूर करने के साधन हैं ॥ १० ॥
निष्क्रयणं शोधनं याप्यस्य कर्मणः । यथा कंसादिगतस्य मलस्य भस्मादि । जपो मानसो वाचिकश्च । स च वक्ष्यमाणस्योपनिषदादेर्मन्त्रगणस्य । तपश्चाऽहिंसादि यद्वक्ष्यते (सू० १४) । होम आत्मीयद्रव्यस्य देवतोद्देशपूर्वकोऽग्नौ प्रक्षेपः । उपवास इन्द्रियसंयमः । दानमात्मीयस्य द्रव्यस्य पात्रेषु प्रतिपादनम् ॥ १० ॥
१. 'पुनस्तोमेनेष्ट्वा' इति क. पुस्तके गौतमीये धर्मसूत्रे च पाठः ।
२. see तै० सं० ३. १२. २ ।
३. अयमपि सोमयागविशेष एकदिनसाध्यः ।
दशमः खण्डः ] तृतीयप्रश्ने दशमोऽध्यायः ३५९
दशमः खण्डः ] तृतीयप्रश्ने दशमोऽध्यायः ३५९
जप इत्युक्तम्, तत्राऽऽह—
उपनिषदो वेदादयो वेदान्ताः सर्वच्छन्दस्सु संहिता मधून्यघम-
र्षणमथर्वशिरो रुद्राः पुरुषसूक्तं राजनरौहिणे सामनी बृहद्रथन्तरे पुरु-
षगतिमहानाम्न्यो महावैराजं महादिवाकीर्त्यं ज्येष्ठसाम्नामन्यतमं बहि-
ष्पवमानं कूश्माण्डयः पावमान्यः सावित्री चेति पावनानि ॥ ११ ॥
अन०— उपनिषद्, वेदों के आदिम मन्त्र, वेदान्त, सभी वेदों की संहिताएँ, मधु नामक अनुवाक, अघमर्षण नामका सूक्त, अथर्वशिरस्, रुद्र नाम से ख्यात अनुवाक, पुरुषसूक्त, राजन और रौहिण नाम के साम, बृहत् और रथन्तर साम, पुरुषगति, महानाम्नी, महावैराज, महादिवाकीर्त्य साम, कोई भी ज्येष्ठ साम, बहिष्पवमान साम, कूष्माण्डी, पावमानी, सावित्री मन्त्र—ये सभी पवित्र करनेवाले होते हैं ॥११॥
टि०— सभी वेदों की संहिताओं का संहिता पाठ ही यहाँ समझना चाहिए । 'मधु वाता' आदि अनुवाक मधु अनुवाक कहलाता है । 'ऋतम्' आदि तीन ऋचाएँ अघमर्षण कहलाती है । 'नमस्ते रुद्र' इत्यादि प्रश्न रुद्र नाम के अनुवाक हैं । इस सूत्र के अन्त में 'इति' शब्द के प्रयोग से शिवसङ्कल्पादि का भी ग्रहण अभीष्ट है ।
उपनिषदो वेदसंहितारहस्यानि । वेदादयः ऋग्यजुषयोरनुवाकादिः । साम्नां सामवर्गादिः । वेदान्ता रहस्यमन्त्राश्च ब्राह्मणानि च । सर्वच्छन्दस्सु सर्वप्रवचनेषु संहिताः, न पदानि क्रमो वा । मधूनि 'मधु वाता' इति मधुशब्दयुक्तानि यजूंषि । अघमर्षणं 'ऋतं' इति तृचम् । अथर्वशिरोऽथर्वणं प्रसिद्धम् । रुद्राः 'नमस्ते रुद्र' इति प्रश्नः । पुरुषसूक्तं प्रसिद्धम् । राजनरौहिणे सामनी 'इन्द्रं नरः' इत्यस्यामृचि गीते । बृहत् 'त्वामिद्धि' इत्यस्याम् । रथन्तरं 'अभि त्वा' इति । पुरुषगतिः 'अहमस्मि' इत्यस्याम् । महानाम्न्यो 'विदा मघवन्' इत्येता ऋचः । आसूत्पन्नानि वा सामानि । महावैराजं 'पिबा सोमम्' इत्यस्याम् । महादिवाकीर्त्य ^२'विभ्राट् बृहत्पिबतु इत्यस्याम् । ज्येष्ठसामानि 'शं नो देवीः' 'चित्रं देवानाम्' इत्यनयोः । बहिष्पवमानम् 'उपास्मै' इत्यासु । कूष्माण्ड्य 'यद्देवाः' आच्छिद्रकोऽनुवाकः । पावमान्यः 'स्वादिष्ठया' इत्यृचः । सावित्री तु प्रसिद्धा । चशब्दाच्छुद्धवत्यादि । इतिशब्देन प्रकारवाचिना खिलेषु पठितं शिवसङ्कल्पादि गृह्यते ॥ ११ ॥
^३उपसन्न्यायेन पयोव्रतता शाकमक्षता फलमक्षता मूलमक्षता
१. See. P. १६७ ।
२. 'सा नो' इत्यस्याम् इति ख. पु. पाठः ।
३. सोमयागे उपसन्नामकेष्टिसन्निधौ दीक्षितस्य व्रतग्रहणमाम्नातम् । तत्र कल्प-
| ३६० | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तजपादि |
|---|
प्रसृतयावको हिरण्यप्राशनं घृतप्राशनं सोमपानमिति मेध्यानि ॥१२॥
**अनु०—**केवल दूध का आहार करना, शाक भक्षण करना, केवल फलों को ही खाना, केवल मूल का आहार करना, केवल एक मुट्ठी जौ का बना यावक खाकर रहना, सुवर्ण का प्राशन करना, घृत पान करना, सोमपान करना—ये पवित्र करने वाली वृत्तियां हैं और उसमें प्रत्येक अपने पहले की अपेक्षा अधिक पवित्र करने वाली है ॥ १२ ॥
उपसन्नधायः—आराग्ना, परोवरीयसो वा। प्रसृतयावको व्याख्यातः। इतिकरणेनैवं प्रकारं पञ्चगव्यादि परिगृह्यते ॥ १२ ॥
सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः सरितः पुण्याह्रदास्तीर्थाण्यृषिनिकेतनानि गोष्ठक्षेत्रपरिष्कन्दा इति देशाः ॥ १३ ॥
**अनु०—**सभी पर्वत, सभी बहने वाली नदियां, पवित्र जलाशय, तीर्थ ( स्नान के घाट ), ऋषियों के आश्रम, गायों के रहने का घर, क्षेत्र और देवों के मन्दिर और गुफाएँ—ये सभी पाप को दूर करने वाले स्थान हैं ॥ १३ ॥
शिलोच्चयाः शिलानामुच्चयाः पर्वता इत्यर्थः । स्रवन्त्यो नद्यः । ह्रदा ह्लादतेश्शब्दकर्मणः ह्लादतेर्वा शीतभावकर्मणः । अच् पृषोदरादिः । श्रीपुष्करादयः । इतः प्रभृति पुण्यानुसन्धानात् पूर्वत्राऽपुण्या अपि पर्वतादयोऽभ्यनुज्ञायन्ते । ऋषिनिकेतनानि ऋषिनिवासाः ऋष्याश्रमाः । क्षेत्रं कुरुक्षेत्रम् । परिष्कन्दा देवालयाः गुहावासप्रदेशाः । इति शब्दादग्न्यगारादयः ॥ १३ ॥
अथैतानि तपांसि—
अहिंसा सत्यमस्तैन्यं सवनेषूदकोपस्पर्शनं गुरुशुश्रूषा ब्रह्मचर्यमधश्शयनमेकवस्त्रताऽनाशक इति तपांसि ॥ १४ ॥
**अनु०—**अहिंसा, सत्यभाषण, चोरी न करना, तीनों सवन काल में स्नान करना, गुरु की सेवा, ब्रह्मचर्य का पालन, भूमि पर शयन करना, केवल एक वस्त्र धारण करना और भोजन का त्याग करना—ये सभी तप हैं ॥ १४ ॥
तपांसि तपोहेतवः । सवनं पूर्वाह्नमध्यन्दिनापराह्नाः । इतिशब्दो देवद्विजपूजार्थः ॥ १४ ॥
द्वयम्—आराग्ना परोवरीयसीति । अल्पशः आरम्भः क्रमशो वृद्धिरित्याराग्ना । अर्थात् आरम्भदिनेऽल्पं पय आदिकं भक्षयेत् । प्रतिदिनं च क्रमशो वर्धयेदित्यराग्ना । तद्विपरीता परोवरीयसी तन्न्यायेनाऽत्रापि व्रतकल्पो विकल्पेन वेदितव्य इत्यर्थः ॥
दशमः खण्डः ] तृतीयप्रश्ने दशमोऽध्यायः ३६१
दशमः खण्डः ] तृतीयप्रश्ने दशमोऽध्यायः ३६१
उक्तं दानम्, तस्य साधनमाह—
हिरण्यं गौर्वासोऽश्वो भूमिस्तिला घृतमन्नमिति देयानि ॥ १५ ॥
अनु०—सुवर्ण, गाय, वस्त्र, अश्व, भूमि, तिल, घृत और अन्न—ये दान देने योग्य वस्तुएं हैं ॥ १५ ॥
एतानि प्रसिद्धानि । इतिशब्दाद्रजतोपानच्छत्राण्यपि गृह्यन्ते ॥ १५ ॥
संवत्सरः षण्मासाश्चत्वारस्त्रयो द्वावेकश्चतुर्विंशत्यहो द्वादशाह-
-ष्षडहस्त्रयहोऽहोरात्रमेकाह इति कालाः ॥ १६ ॥
अनु०—एक वर्ष, छः मास, चार मास, तीन मास, दो मास, एकमास, चौबीस दिन, बारह दिन, छः दिन, तीन दिन, एक रात्रि-दिन, और एक दिन—ये तप के काल हैं ॥ १६ ॥
एक च तदहः एकाहः केवलम् । इतिशब्दात् केवलाऽपि रात्रिः ॥ १६ ॥
आनन्त्यात् पापानां प्रतिपापं प्रायश्चित्तोपदेशोऽप्यशक्य इति मत्वाऽऽह—
एतान्यनादेशे क्रियेरन्नेनस्सु गुरुषु गुरूणि लघुषु लघूनि ॥१७॥
अनु०—यदि किसी विशेष तप का निर्देश न किया गया हो तो इन्हों तपों को करना चाहिए । बड़े पाप होने पर बड़े तप और छोटे पाप वाले कर्मों के लिए छोटे तप करने चाहिए ॥ १७ ॥
विकल्पेनेति वाक्यशेषः । एतानि जपादीन्यनादेशे यानि प्रायश्चित्तान्य-न्यतोऽनुपदिष्टानि । यथाऽऽह—
‘अङ्घ्रि कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः’ इति ।
तत्र विकल्पेन तानि कर्तव्यानि-क्वचिज्जपः, क्वचित्तपः, क्वचिद्दानं क्वचित्स-र्वाणीति । गुरुत्वं चैनसोऽभिसन्ध्याद्यपेक्षया । आह चाऽऽपस्तम्बः—‘यः प्रमत्तो हन्ति प्राप्तं दोषफलम्, सह सङ्कल्पेन भूयः, एवमन्येष्वपि दोषवत्सु कर्मसु’ इत्यादि ॥ १७ ॥
‘कृच्छ्रातिकृच्छ्रौ चान्द्रायणमिति सर्वप्रायश्चित्तिः सर्वप्रायश्चित्तिः॥१८॥
प्रायश्चित्तानि० ॥
उक्तो वर्णधर्मश्चाऽऽश्रमधर्मश्च ॥ १० ॥ अथाऽतोऽनश्नत्पारायण-
१. एतत्खण्डस्थानि सूत्राणि गोतमीयेनैकोविंशाध्यायेनाऽक्षरशस्संवदन्ति । (See. चौ. सं. १९. अ. ) किं तत्र कारणमिति न विद्मः ॥
३६२ बौधायन-धर्मसूत्रम् [ विविधप्रायश्चित्तानि
विधिम् ॥ ९॥ अथाऽतश्चान्द्रायणस्य ॥८॥ अथ कूष्माण्डैर्जुहुयात् ॥७॥ अथ कर्माभिरात्मकृतैः ॥६॥ अथाऽतः पवित्रातिपवित्रस्य ॥ ५ ॥ अथ यदि ब्रह्मचर्यव्रत्यमिव चरेत् ॥ ४ ॥ अथ वानप्रस्थद्वैविध्यम् ॥ ३ ॥ यथो एतदृणिनिर्वर्तनोति ॥ २ ॥ अथ शालीनयायावरचकचराधर्मका- ङ्क्षिणाम् ॥ १ ॥
इति तृतीयप्रश्ने दशमः खण्डः ॥
**अनु०—**कृच्छ्र, अतिकृच्छ्र और चान्द्रायण सभी पापों के लिए प्रायश्चित्त होते हैं ॥ १८ ॥
अनादेश इत्यनुवर्तत इति केचित् । इतिकरणात्पराकोऽपि । पापगुरुल्लघुत्वापेक्षया एतेषां व्यस्तसमस्तकल्पना ॥ १८ ॥
इति श्रीगोविन्दस्वामिकृते बौधायनधर्मविवरणे तृतीयप्रश्ने दशमोऽध्यायः तृतीयप्रश्नस्समाप्तः ॥
अथ चतुर्थप्रश्ने
प्रथमोऽध्यायः
पुनरपि प्रायश्चित्तविषयैव कथा प्रस्तूयते—
प्रायश्चित्तानि वक्ष्यामो नानार्थानि पृथक्पृथक् ।
तेषु तेषु च दोषेषु गरीयांसि लघूनि च ॥ १ ॥
**अनु०—**अब हम भिन्न-भिन्न दोषों के अनुसार बड़े और छोटे प्रायश्चित्तों का अलग-अलग विवेचन करेंगे ॥ १ ॥
नानार्थानि नानाप्रयोजनानि पृथक्पृथगनुष्ठातव्यानि न पुनर्देशकालादितन्त्रतया तन्त्रेणेति । न केवलं प्रयोजनानानात्वेन पृथगनुष्ठानम् । किं तर्हि गरीयस्सु गरीयांसि, न हि त्रिरात्रोपवासेनेव एकरात्रोपवासेन नश्यति । सोऽपि त्रिरात्रोपवासेनैव नाशयितव्य इत्यभिप्रायः ॥ १ ॥
यद्यत्र हि भवेद्युक्तं तद्धि तत्रैव निर्दिशेत् ।
भूयो भूयो गरीयस्सु लघुष्वल्पीयसस्तथा ॥ २ ॥
**अनु०—**जिस दोष के लिए जो प्रायश्चित्त उचित हो उस दोष के लिए उसी .
दशमः खण्डः ] चतुर्थप्रश्ने प्रथमोऽध्यायः ३६३
दशमः खण्डः ] चतुर्थप्रश्ने प्रथमोऽध्यायः ३६३
प्रायश्चित्त का निर्देश करना चाहिए। बड़े अपराधों के लिए अधिकाधिक प्रायश्चित्त करना चाहिए और छोटे अपराध के लिए हल्के प्रायश्चित्त करने चाहिए ॥ २ ॥
यद्यत्रेति देशकालवयश्शक्त्यादीनपेक्ष्य काचिन्नानार्थानां गुरुघूनामपि तन्त्रता भवतीत्येतदनेन कथ्यते ॥ २ ॥
लघुनोत्युक्तं तन्नाऽऽह— विधिना शास्त्रदृष्टेन प्राणायामान् समाचरेत् ॥ ३ ॥
अनु०—शास्त्र में बतायी गयी विधि के अनुसार ही प्राणायाम करने चाहिए । ३ ।
श्रुतिस्मृतिशिष्टागमादि शास्त्रं तत्र दृष्टो विधिः, स च प्राणायामेषु प्रतो-क्षितव्य इत्यर्थः ॥ ३ ॥
अधुना प्रायश्चित्तविषयानाह— यदुपस्थकृतं पापं पद्भ्यां वा यत्कृतं भवेत् । बाहुभ्यां मनसा वाचा श्रोत्रत्वग्घ्राणचक्षुषा ॥ ४ ॥
अनु०—जो पाप जननेन्द्रिय से किये गये हों या जो दुष्कर्म पैरों से किया गया हो, बाँहों से, मन से, वाणी, कानों, त्वचा, नासिका या नेत्रों से किये गये हों ( उनके लिए शास्त्र की विधि से प्राणायाम करना चाहिए ) ॥ ४ ॥
एतेषु समसंख्याकानेव प्राणायामान् चरेदि ^१त्यध्याहारः ॥ ४ ॥
ननु चक्षुश्श्रोत्रमनोभिरित्यसंयुक्तैरेव पापं कर्तुं शक्यते त्वक्पादबाहूपस्थ-घ्राणैस्त्वन्यसंयुक्तैरेव । वाचा' पापमितरण्यस्मिन् श्रुतवत्येव । अतो विषमसममी-करणमन्याय्यमिति मत्वाऽऽह—
अथ वाचा चक्षुश्श्रोत्रत्वग्घ्राणमनोव्यतिक्रमेषु त्रिभिः प्राणाया-मैश्शुद्ध्यति ॥ ५ ॥
अनु०—अथवा नेत्रों, कानों, त्वचा, नासिका और मन से जो पाप कर्म किये गये हों उनसे तीन प्राणायाम करने पर ही शुद्धि हो जाती है ॥ ५ ॥
एतेषु त्रिभिरितिवचनादुपस्थादिष्वाधिक्यं गम्यते । प्राणायामप्रवृत्तेनाऽपि पयोव्रततादयो नियमा अनुमरणीयाः ॥ ५ ॥
अथेमान्यपराणि प्राणायामनिमित्तानि— शूद्रान्नस्त्रीगमनभोजनेषु केवलेषु पृथक्पृथक् सप्ताहं सप्त सप्त प्राणायामान् धारयेत् ॥ ६ ॥
१. इत्यभिप्रायः इति, ग. पु. ।
३६४ | बौधायन-धर्मसूत्रम् | [शूद्रागमनादिप्रायश्चित्तम्
अनु०—शूद्रा का अन्न खाने, शूद्रा स्त्री से मैथुन करने का अपराध अलग-अलग करने पर सात दिनों तक प्रतिदिन सात-सात प्राणायाम करे ॥ ६ ॥
शूद्रान्नभोजने शूद्रस्त्रीगमने इति पदयोजना। शूद्रान्नशब्दश्शूद्राहृतस्य शूद्रस्पृष्टस्यान्नस्य चोपलक्षणार्थः। एवं च सति शूद्रस्त्रीगम(भोज)नेन सह बहुवचनोपपत्तिः केवलग्रहणात् प्रत्येकं प्रायश्चित्तम्। पृथग्ग्रहणादेकस्मिन्नपि प्रतिकर्माभ्यासः। ननु—'शूद्रान्नभोगमनभोजनेष्वब्लिङ्गाभिर्वारुणीभिरप उपस्पृशेत्' इत्युक्तम्। नैष दोषः, आतिदेशिकविषयत्वात्तस्य। किं तदातिदेशिकं शूद्रत्वम् ? इदं तत्—
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः॥ इति॥
'अश्रोत्रिया अननुवाक्या अनग्नयश्शूद्रसधर्माणो भवन्ति' इति च। तस्माददोषः॥ ६॥
अभक्ष्याभोज्यापेयानाद्यप्राशनेषु तथाऽपण्यविक्रयेषु मधुमांसघृततैलक्षारलवणावरान्नवर्जेषु यच्चान्यदप्येवं युक्तं द्वादशाहं द्वादश द्वादश प्राणायामान् धारयेत् ॥ ७ ॥
अनु०—अभक्ष्य अन्न का भोजन करने, निषिद्ध और अपेय पदार्थ का पान करने, मधु, मांस, घृत, तेल, मसाला, नमक, निम्नकोटि के अन्न को छोड़कर अन्य जिन वस्तुओं का विक्रय निषिद्ध है उनके बेचने तथा इसी प्रकार के अन्य अपराधों के लिए बारह दिन तक प्रतिदिन बारह-बारह प्राणायाम करे ॥ ७ ॥
अत्राऽनाद्यशब्दो व्रात्यीये अनग्नीये वा द्रष्टव्यः। यथाश्रुतार्थग्रहणे सत्यभक्ष्यशब्देन पुनरुक्तिप्रसङ्गात्। अपण्यान्यश्वादीनि मधुमांसादिवर्जितानि। घृतग्रहणं क्षीरादेरपि पर्युदासप्राप्त्यर्थम्। एतेषु हि दोषगरिमा विद्यते।
सद्यः पतति मांसेन लाक्षया लवणेन च।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात्॥
इति वसिष्ठवचनात्। यच्चाऽन्यदित्यप्रतिग्राह्यप्रतिग्रहादेरुपलक्षणार्थम्। एवंयुक्तं एवंविधमित्यर्थः॥ ७॥
पातकपतनीयोपपातकवर्जेषु यच्चाऽन्यदप्येवंयुक्तमर्धमासं द्वादश द्वादश प्राणायामान् धारयेत् ॥ ८ ॥
पातकपतनीयवर्जेषु यच्चाऽन्यदप्येवंयुक्तं द्वादश द्वादशाहान् द्वादश द्वादश प्राणायामान् धारयेत् ॥ ९ ॥
दशमः खण्डः ] चतुर्थप्रश्ने दशमोऽध्यायः ३६५
दशमः खण्डः ] चतुर्थप्रश्ने दशमोऽध्यायः ३६५
अनु०—पातक, वर्ण का लोप करने वाले पतनीय और उपपातकों को छोड़कर अन्य अपराधों के लिए आधे मास तक प्रतिदिन बारह-बारह प्राणायाम करे। पातक और पतनीय अपराधों को छोड़कर जो अन्य पाप कर्म हों उनके लिए बारह दिन की बारह अवधि तक अर्थात् एक सौ चौवालिस दिन प्रति दिन बारह-बारह प्राणायाम करे ॥ ८-९ ॥
पातकं ब्रह्महत्यादि पतनीयं तत्समानमुपपातकं गोवधादि तद्वर्जितेषु जातिभ्रंशकरादिषु एतत्प्रायश्चित्तम् ॥ ८,९ ॥
पातकवर्जेषु यच्चाऽन्यदप्येवं युक्तं द्वादशाऽर्धमासान् द्वादश द्वादश प्राणायामान् धारयेत् ॥ १० ॥
अनु०—पातक अपराधों को छोड़कर अन्य अपराधो के लिए अर्धमास की बारह अवधि तक (अर्थात् छः मास) प्रति दिन बारह-बारह प्राणायाम करे ॥ १० ॥
यच्चाऽन्यदपीत्यनृतगमनाभ्यासो गृह्यते । तच्च महापातकातिदेशिकं कर्म । द्वादशाऽर्धमासाः षण्मासाः । सर्वत्र गुरुलघुनोस्सहोपादाने गुरुलघुनोरभ्यासापेक्षयैव मतिपूर्वाद्यपेक्षया वा निमित्तं द्रष्टव्यम् । अन्यथा विषमसमीकरणप्रसङ्गात् ॥ १० ॥
अथ पातकेषु संवत्सरं द्वादश द्वादश प्राणायामान् धारयेत् ॥ ११ ॥
अनु०—पातक अपराधों के लिए एक वर्ष तक प्रति दिन बारह-बारह प्राणायाम धारण करे ॥ ११ ॥
योगनिष्ठस्याऽमात्यान्तनिर्गुणब्राह्मणवधादावेव महापातकानि प्रसक्तानि । तेष्वेव भ्रूणहत्याऽप्यन्तर्भवति ॥ ११ ॥
ऋतुमत्याः कन्याया अप्रदाने भ्रूणहत्यातुल्यदोषो भवतीत्येतद्वक्तुकामः कन्यादानप्रकरणमारभते—
दद्याद्गुणवते कन्यां नग्निकां ब्रह्मचारिणे । अपि वा गुणहीनाय नोपरुन्ध्याद्रजस्वलाम् ॥ १२ ॥
अनु०—कन्या जब नंगी ही घूमती हो (अर्थात् लज्जा भाव से शून्य अत्यन्त अल्प अवस्था में हो) तभी गुणवान् ब्रह्मचारी को विवाह में देनी चाहिए अथवा गुणहीन व्यक्ति को भी विवाह में दे देना उचित है किन्तु उसके रजस्वला होने पर अपने घर में रखना उचित नहीं ॥ १२ ॥
गुणवते विद्याचारित्रबन्धुशीलसम्पन्नाय नग्निका वस्त्रपरिधानाभावेऽपि
३६६ बौधायन-धर्मसूत्रम् [समये कन्याऽदाने दोषः, स्वयंवरश्च
लज्जाशून्या, गुणहीनाय सर्वगुणाभावेऽपि कतिपयगुणसंपन्नाय, नोपरुन्ध्या- दिति रजोदर्शनात्प्रागेव दद्यादित्यर्थः ॥ १२ ॥
तदतिक्रमे दोषमाह—
त्रीणि वर्षाण्यृतुमतीं यः कन्यां न प्रयच्छति ।
स तुल्यं भ्रूणहत्यायै दोषमृच्छत्यसंशयम् ॥ १३ ॥
अनु०— जो पिता ऋतुमती कन्या को तीन वर्ष के भीतर विवाह नहीं कर देता, वह निश्चय ही भ्रूणहत्या के समान पाप का भागी होता है ॥ १३ ॥
यतश्चैतदेवं तत ऋतुमत्ययाः प्रागेव दद्यादित्यभिप्रायः ॥ १३ ॥
किं सर्वत्रैतावदेव ? नेत्याह—
न याचते चेदेवं स्याद्याचते चेत्पृथक् यक्।
एकैकस्मिन्नृतौ दोष पातकं मनुरब्रवीत् ॥ १४ ॥
अनु०— इसी प्रकार यदि कोई व्यक्ति उसे विवाह के लिए नहीं मांगता अथवा विवाह के लिए माँगता है, तब भी पिता को वही दोष होता है क्योंकि मनु ने कहा है कि अविवाहिता कन्या का प्रत्येक ऋतुकाल पिता के लिए पातक उत्पन्न करता है।१४।
न याचते न प्रार्थयते चेत् कश्चिदपि ॥ १४ ॥
तत्र प्रसङ्गादिदमन्यदुच्यते—
'त्रीणि वर्षाण्यृतुमती कांक्षेत पितृशासनम् ।
ततश्चतुर्थे वर्ष तु विन्देत सदृशं पतिम् ॥ १५ ॥
अनु०— ऋतुमती कन्या तीन वर्षतक पिता की आज्ञा की प्रतीक्षा करे । उसके बाद चौथे वर्ष में अपने योग्य गुणवान् पति का स्वयं वरण करे ॥ १५ ॥
सादृश्यं जातिगुणादिभिः ॥ १५ ॥
अत एवाऽऽह—
अविद्यमाने सदृशे गुणहीनमपि श्रयेत् ॥ १६ ॥
अनु०— यदि जाति और गुण में समान पुरुष न मिले तो गुणहीन पुरुष को भी पति के रूप में वरण करे ॥ १६ ॥
गुणा अभिजननादयो न जातिः ॥ १६ ॥
१. cf म. स्मृ. ९. ९०.
दशमः खण्डः ] चतुर्थप्रश्ने दशमोऽध्यायः ३६७
दशमः खण्डः ] चतुर्थप्रश्ने दशमोऽध्यायः ३६७
एवं स्वयंवरं परिसमाप्याऽधुना कन्यादानविषय एवाऽऽशङ्कानिवृत्त्यर्थमन्यदुच्यते—
बलाच्चेत्प्रहृता कन्या मन्त्रैर्यदि न संस्कृता ।
अन्यस्मै विधिवद्देया यथा कन्या तथैव सा ॥ १७ ॥
अनु०— यदि कोई कन्या बलपूर्वक भगायी गयी हो और उससे मन्त्रों के साथ विधिवत् विवाह न किया गया हो तो, उसका विवाह विधिपूर्वक दूसरे पुरुष के साथ किया जा सकता है। वह कुमारी कन्या के समान ही होती है ॥ १७ ॥
प्रहरणं मैथुनार्थमाकर्षणम् । न तु क्षतयोनित्वापादनम् , तथा च सति संस्कार एव नाऽस्ति ॥ १७ ॥
निसृष्टायां हुते वाऽपि यस्यै भर्त्ता म्रियेत सः ।
सा चेदक्षतयोनिस्याद्गतप्रत्यागता सती ॥
पौनर्भवेन विधिना पुनस्संस्कारमर्हति ॥ १८ ॥
अनु०— यदि कन्या का संकल्पपूर्वक विवाह में दान कर दिया गया हो और वैवाहिक होम कर्म संपन्न हो गया हो और उसके बाद पति की मृत्यु हो जाय और उस कन्या का पति के साथ मैथुन संबन्ध न हुआ हो तो पति के घर जाकर भी वहाँ से पुनः पिता के घर आने पर उसका पुनर्भू (दूसरी बार विवाह करने वाली स्त्री) के विवाह की विधि से विवाह हो ॥ १८ ॥
निसृष्टा उदकपूर्वं प्रदत्ता । हुते वाऽपि होमेऽपि निर्वृत्ते भर्ता वोढा यदि म्रियेत, सा चेत् भार्या अक्षतयोनिः अस्पृष्टमैथुना स्यात् गतप्रत्यागता ॥ १८ ॥
भर्तृविषय एव किञ्चिदुच्यते—
त्रीणि वर्षाण्यृतुमतीं यो भार्यां नाऽधिगच्छति ।
स तुल्यं भ्रूणहत्यायै दोषमृच्छत्यसंशयम् ॥ १९ ॥
अनु०— जो व्यक्ति ऋतुमती पत्नी से तीन वर्ष तक मैथुन नहीं करता वह भ्रूणहत्या के पाप का भागी होता है, इसमें कोई सन्देह नहीं ॥ १९ ॥
यथा गर्भप्रध्वंसने भ्रूणहत्या भवति तथा तत्प्रागभावेऽपि, अविशेषादित्यभिप्रायः ॥ १९ ॥
ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति ।
पितरस्तस्य तन्मासं तस्मिन् रजसि शेरते ॥ २० ॥
| ३६८ | बौधायन-धर्मसूत्रम् | [ ऋतुगमनातिक्रमनिन्दा |
|---|
अनु०—जो पुरुष ऋतुस्नान करने वाली पत्नी के निकट रहते हुए भी उससे मैथुन रत नहीं होता उसके पूर्वज उस मास में उसकी पत्नी के रजस्राव में ही पड़े रहते हैं ॥ २० ॥
ऋतुगमनातिक्रमनिन्दैषा ॥ २० ॥
ऋतौ नोपैति यो भार्यामनृतौ यश्च गच्छति ।
तुल्यमाहुस्तयोर्दोषमयोनौ यश्च सिञ्चति ॥ २१ ॥
अनु०—जो पुरुष ऋतुकाल में पत्नी से मैथुन नहीं करता, जो ऋतुकाल से भिन्न समय में पत्नी से मैथुन करता है, और जो पत्नी की योनि से भिन्न स्थान में अप्राकृतिक मैथुन द्वारा वीर्यपात करता है, इन सभी के दोष समान रूप से घोर होते हैं ॥ २१ ॥
त्रयाणामपि भ्रूणहत्यादोषस्तुल्यः सत्पुत्रोत्पत्तिनिरोधात् ॥ २१ ॥
भर्तुः प्रतिनिवेशेन या भार्या स्कन्दयेदृतुम् ।
तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं निर्धमेदगृहात् ॥ २२ ॥
अनु०—जो पत्नी पति की इच्छा होने पर भी मैथुन से विरत रहती है और (ओषधि आदि द्वारा $^१$ रजोहानि कर सन्तानोत्पत्ति में बाधा पहुँचाती है, उसे गाँव के लोगों के समक्ष भ्रूणघ्नी घोषित कर घर से निकाल दे ॥ २२ ॥
प्रतिनिवेशः प्रतिकूलता अनिच्छा वा । स्कन्दयेत् गमयेत् शोषयेद्वा भर्तुर्द्वेषाद्रज औषधादिभिश्चाशोषयन्तीमित्यर्थः । ग्राममध्ये जनसन्निधौ निर्धमेत् प्रस्थापयेत् त्यजेत् । ऋत्वतिक्रमे भर्तुर्यथा भ्रूणहत्या तथाऽस्या अपीति निन्दैषा ॥ २२ ॥
ऋतुगमनातिक्रमे प्रायश्चित्तमाह—
ऋतुस्नातां न चेद्गच्छेन्नियतां धर्मचारिणीम् ।
नियमातिक्रमे तस्य प्राणायामशतं स्मृतम् ॥ २३ ॥
अनु०—जो पति मासिक धर्म के बाद स्नान करने वाली और धर्म पूर्ण आचरण करने वाली पत्नी से मैथुन के नियम का उल्लंघन करता है, उसके लिए प्रायश्चित्त के लिए सो प्राणायाम करने का विधान है ॥ २३ ॥
नियमातिक्रमः ऋतुगमनातिक्रमः । ऋत्वतिक्रमो वा । ऋज्वन्यत् ॥ २३ ॥
१. एतत्प्रकरणस्थानि १७–१८, २०, २३ सूत्राणि मानववासिष्ठैः संवदन्ति ।
प्रथमः खण्डः ] चतुर्थप्रश्ने प्रथमोऽध्यायः ३६९
प्रथमः खण्डः ] चतुर्थप्रश्ने प्रथमोऽध्यायः ३६९
प्राणायामान् पवित्राणि व्याहृतीः प्रणवं तथा ।
पवित्रपाणिरासीनो ब्रह्म नैत्यकमभ्यसेत् ॥ २४ ॥
**अनु०—**प्राणायाम, पुरुष सूक्त आदि पवित्र करने वाले मन्त्र और सूक्त, व्याहृतियाँ और प्रणव तथा वेद के अंश का प्रतिदिन हाथ में कुश लेकर और बैठकर जप करे ॥ २४ ॥
पवित्राणि पुरुषसूक्तादीनि । शरीरस्याऽहर्निशं पापसंचयोऽवश्यं भवतीति मत्वा नैत्यकं ब्रह्माऽभ्यसेदित्युक्तम् ॥ २४ ॥
किञ्च—
आवर्तयेत्सदा युक्तः प्राणायामान् पुनः पुनः ।
आकेशान्तान्नखाग्राच्च तपस्तप्यत उत्तमम् ॥
निरोधाज्जायते वायुर्वायोरग्निश्च जायते ।
तापेनाऽऽपोऽधिजायन्ते ततोऽन्तश्शुद्ध्यते त्रिभिः ॥
अनु० योगाभ्यास में लगकर सदैव बार-बार प्राणायाम की आवृत्ति करे । इससे वह केशों के अन्त तक और नखों के अग्र भाग तक उत्तम तप के आचरण से युक्त हो जाता है । प्राणवायु के निरोध से वायु उत्पन्न होता है और वायु से अग्नि उत्पन्न होता है । अग्नि से जल उत्पन्न होता है, तब इन तीनो से सूक्ष्म शरीर या अन्तरात्मा शुद्ध हो जाता है ॥ २५ ॥
कोष्ठे वायुर्जायते । वायोरग्निः । अग्नेरापः तैस्त्रिभिरन्तस्सूक्ष्मशरीरं शुद्ध्यति ॥ २५ ॥
आवर्तयेत् सदा युक्त इत्युक्तम् , तत्प्रसङ्गादिदमाह--
योगेनाऽऽवाप्यते ज्ञानं योगो धर्मस्य लक्षणम् ।
योगमूला गुणास्सर्वे तस्माद्युक्तस्सदा भवेत् ॥ २६ ॥
**अनु०—**योग से तत्त्वज्ञान की प्राप्ति होती है । योग ही धर्म का सार है । सभी गुण योग से ही उत्पन्न होते हैं । अतएव सदैव योग का अभ्यास करना चाहिए ॥ २६ ॥
योगश्चित्तवृत्तिनिरोधः, तथोक्तम्—
प्राणायामास्तथा ध्यानं प्रत्याहारोऽथ धारणा ।
तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥ इति ॥
२७ बौ०ध०
३७० बौधायन-धर्मसूत्रम् [प्रणवव्याहृतीनां प्रशंसा
स एव धर्मस्य लक्षणं हेतुः धर्मोऽपूर्वम्। योगमूलाः योगकारणकाः गुणरूपादयः ॥ २६ ॥
अथ प्राणायामावयवभूतानां प्रणवव्याहृतीनां प्रशंसा—
प्रणवाद्यास्तथा वेदाः प्रणवे पर्यवस्थिताः।
प्रणवो व्याहृतयश्चैव नित्यं ब्रह्म सनातनम् ॥
प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु।
त्रिपदायां च गायत्र्यां न भयं विद्यते क्वचित् ॥ २७ ॥
**अनु०—**वेद प्रणव से ही आरम्भ होते हैं। उनका अन्त भी प्रणव अर्थात् 'ओम्' से होता है। प्रणव और व्याहृतियाँ नित्य और सनातन ब्रह्म हैं। जो व्यक्ति नित्य ही ओंकार, सात व्याहृतियों तथा त्रिपदा गायत्री के उच्चारण में लगा हुआ है, उसके लिए कोई भी भय नहीं रह जाता ॥ २७ ॥
पर्यवस्थिताः परिसमाप्ताः व्याहृतयस्सप्त ॥ २७ ॥
एवमवयशः प्राणायामांस्तुत्वा तस्य सङ्क्षेपतो लक्षणं करोति —
सव्याहृतिकां सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामस्स उच्यते ॥ २८ ॥
**अनु०—**यदि प्राणवायु को रोककर व्याहृतियों, ओंकार तथा शिरस् के साथ गायत्री मन्त्र का तीन बार जप करे तो एक प्राणायाम होता है ॥ २८ ॥
अनिर्दिष्टविषये प्राणायामोऽपि प्रायश्चित्तमुच्यत इत्याह—
सव्याहृतिकासप्रणवाः प्राणायामास्तु षोडश ।
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ॥ २६ ॥
**अनु०—**प्रतिदिन व्याहृतियों और ओंकार के साथ सोलह बार प्राणायाम करने पर एक मास में विद्वान् ब्राह्मण की हत्या का पाप करने वाला भी पवित्र हो जाता है ॥ २९ ॥
अपिशब्दात्किं पुनरन्यानीति गम्यते ।
एतदाद्यं तपश्श्रेष्ठमेतद्धर्मस्य लक्षणम् । सर्वदोषोपघातार्थमेतदेव विशिष्यते एतदेव विशिष्यत इति ॥ ३० ॥
इति चतुर्थे प्रथमः खण्डः ॥