द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
द्रव्यगुणः । ५
मुच्यते । अत्र वदन्ति आपो रसानामाधारकारणम् अपां पृथिव्या- व्यामनुप्रवेशात् पृथिव्यपि आधारकारणमेव तेन जलक्षिती अपि तदाधारतया रसानामभिव्यक्तौ अभिव्यक्तेश्च मधुरादिरूपता- मन्तरेण असम्भवात् मधुरादिविशेषेऽपि कारणे भवतः । अग्न्या- दयस्तु त्रयो नौरसतया मधुरादिविशेषे निमित्तकारणं प्राधा- न्येन भवन्ति तद्व्यतिरेकेण अम्लादिरसाभावात् । रसाभि- व्यक्तेश्च अग्न्यादिभूतत्रयसन्निधानं विनानुपलब्धेरभिव्यक्तौ अपि कारणत्वमग्न्यादीनां भवति । तदुक्तं चरके रसनार्थो रसस्तस्य द्रव्यमापः क्षित्तिस्तथा । निर्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः ॥ अत्र हि चकारद्वयात् जलक्षित्योरपि विशेषे कारणत्वम् । तथा खादीनाञ्च निर्वृत्तौ अपि कारणत्वमुक्तं तेन मधुरे विशेषे- ऽपि अपां कारणत्वात् सुष्ठूक्तं पृथिव्यम्बुगुणबाहुल्यात् मधुर इति । एवं तोयाग्निगुणबाहुल्यात् अम्ल इत्यपि समाधेयम् । न च यथा भूमितोयाधिक्यात् मधुर एवं तोयवाय्वधिक्यात् भूम्याकाशा- धिक्यात् वा रसान्तरोत्पत्तिः कुतो न स्यादिति वाच्यम् । स्वभा- वस्यापर्यनुयोज्यत्वात् यतः पृथिव्यादिभूतानामेवायं स्वभावः यत् केनचिदेव भूताधिक्येन व्यवस्थिता रसविशेषोत्पादकाः न पुनर्यत्किञ्चिद्भूताधिक्येनेति । अतएव तोयाग्न्योः परस्पर- विरोधात् कथमेककार्यारम्भकत्वमित्यपि अपास्तमुक्तायुक्तेरेव । ननु च रसानां षड्विधत्वमनुपपन्नम् अन्तरिक्षजलादौ अव्य- क्तस्य सप्तमरसस्यापि विद्यमानत्वात् । नैवं मधुरादीनामेव षण्णां तत्र अन्तरिक्षजलादौ अव्यक्तीभावेन तस्य अव्यक्तरसस्य मधु- रादिभ्योऽभिन्नत्वात् । न च क्षारस्यापि रसत्वात् सप्तमत्वोप- पत्तिरिति वाच्यम् । तस्य क्रियागुणयोगेन द्रव्यत्वात् तदुक्तं चरके । क्षरणात् क्षारो नासौ रस इत्यादि । तत्सहचरितस्य लवण
६ द्रव्यगुणाः । मधुरो धातुविवर्द्धन आयुर्बलवर्णतृप्तिकृत्कण्ठ्यः । सन्धानकृन्मुखादिह्लादकरः स्निग्धगुरुशीतः ॥२॥ अम्लोरुचिदीप्तिकरो मन इन्द्रियबोधनो हृदयतर्पी । एवान्तर्भावो लवणवर्गपाठात् । एते च रसाः परस्परसंयोगात् सप्तपञ्चाशद्भवन्ति । ते पुनश्चरकसुश्रुतादौ अवगन्तव्याः । इह तु विस्तरभयान्नोक्ताः ॥ १ ॥ सम्प्रति रसेषु मध्ये आयुष्यत्वादिगुणयोगेन मधुरस्याद्यनि- र्हितत्वात् तद्गुणान् प्रथममभिदधते मधुर इति । सन्धान- कृदिति । उरःक्षतादीनां मुखादीति आदिशब्दात् घ्राण- जिह्वाकण्ठोष्ठग्रहणम् । स्निग्धगुरुशीत इत्यनेन वातपित्त- हन्तृत्वं बोध्यम् । एतच्च शीतत्वमौत्सर्गिकं तेन क्वचिन्मधुरस्य उष्णत्वमपि ज्ञेयम् । तदुक्तं चरके मधुरं किञ्चिदुष्णं स्याद् यथा चानूपमामिषमिति । यद्यपि गुणानां निर्गुणत्वेन रसेषु स्निग्धा- दयो गुणा न सन्त्येव तथाप्युपचाराद्द्रव्यगुणा एव रसेषु निर्दिश्यन्ते । तदुक्तम् गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये । रसेषु व्यपदिश्यन्ते साहचर्य्योपचारतः ॥ इति । साहचर्य्यमेकार्थसमवायः । उपचारस्य किं फलमिति चेद् ब्रूमः द्रव्यगुणकथने मधुरादिरसनिर्देशेनैव अनुक्ता अपि स्निग्धत्वादिगुणाः प्रायो मधुररससहचारिणो ज्ञेयाः । तेन मधुरत्वं निर्दिश्य पुनः स्निग्धत्वादि न वाच्यं साहचर्य्यलब्ध- त्वात् । यत्र वा उच्यते तत्रातिशयार्थं स्पष्टार्थञ्च ज्ञेयम् ॥ २ ॥ दीप्तिर्वह्नेर्बोधनम् प्रसादः । आर्ज्जवमनुलोमनम् अत्रापि
द्रव्यगुणः । ७ वाताऽर्जवकृद्दल्यः कण्ठदहः स्निग्धलघुरुष्णाः ॥ ३ ॥ लवणः क्लेदनः पाचनो दीपनो विच्छेदनः सरस्तीक्ष्णः । कफविष्यन्दी रुचिकृत् स्निग्धगुरूष्णो मुखविशोधी ॥ ४ ॥ अम्लस्योष्णत्वं प्रायिकं तेन आमलकस्याम्लस्यापि शीतत्वं न विरुद्धयते । तेन रसे गुणा विशेषाबाधेन ग्राह्या भवन्तीति निर्गलितार्थः ॥ ३ ॥ अत्रापि लवणस्योष्णत्वं प्रायिकमिति सैन्धवस्य शैत्यं न विरुद्धयते । अत्र केचित् सङ्गिरन्ते अम्बुतेजोबाहुल्यात् अम्लो रसो निष्पद्यते । तदत्र अम्बुतेजोभ्यामारब्धेऽम्ले किं तोयगुणा- धिक्यात् शैत्यं भवतु किंवा अग्निगुणाधिक्यात् उष्णत्वम् । एवं लवणेऽपि पृथिव्यग्निगुणारब्धे वाच्यम् । तौ पुनरम्ललवणौ वा आग्नेयौ एव परं सुश्रुतेन प्रतिपादितौ । यथा कट्वम्ललवणा आग्नेया इति । तदत्र वक्तव्यो हेतुविशेषः । येन परस्परविरुद्ध- गुणबहुलस्य केवलमाग्नेयत्वमेव स्यादिति । उच्यते अम्लरसादौ परस्परविरोधिभूतद्वयगुणबहुलेऽपि परस्यैव भूतस्य गुणाः पूर्व- भूतगुणानभिभूय स्वभावमुख्यत्वं दर्शयन्ति । कुत इति चेत् उष्ण- जलादौ प्रत्यक्षदृष्टत्वात् । यद्येवं रसेषु सर्वेषु एव लघुत्वप्रसङ्गः अग्निगुणाधिक्यादेव । न एतदस्ति उष्णत्वेन हि उष्णजलादौ शीतत्वमभिभूयमानं दृष्टं सुवर्णरजतलोहादिषु तु गुरुत्वमनभि- भूतमेव दृश्यते । तेन अम्लादिगुरुत्वे पूर्वभूतगुणा एव प्रधाना इति । भवति चात्र ।
१. प्रथम वर्ग: हरीतक्यादि वर्ग (हरीतकी, विभीतक, आमलकी, गुग्गुलु)
८ द्रव्यगुणः। कटुरास्यं शोधयति घ्राणाच्चिविरेचनः कृमीन् हन्ति। रसनोद्वेगकृदुष्णो लघुरूक्षः कुष्ठहारी च ॥ ५ ॥ तिक्तो न रोचते स्वयमरोचकघ्नो विषघ्नश्च । दीपनपाचनशोधनरुच्यः शीतो लघुश्चापि ॥६॥ तुवरो हिमगुरुरूक्षस्तम्भी शमनश्च पीतनो ग्राही । व्रणपाकार्त्तिक्लेदान्निहन्ति कण्ठञ्च बध्नाति ॥७॥ भूतद्वयगुणे मुख्ये मुख्यो गुणविशेषकृत । स्नेहगौरवयोः पूर्वः परः स्यादौष्णशैत्ययोः ॥ अत्र स्नेहगौरवयोरिविरोधिनोः रौक्ष्यलाघवयोर्ग्रहणमूह्यम् । वस्तुतस्तु भूतानामेव अयं स्वभावो यद्भूतद्वयसमारब्धेऽपि रसे कस्यचिद्भूतस्य कश्चिदेव गुणो व्यक्तत्वेनोपलभ्यते न सर्व इति । भूतस्वभावे च अदृष्टविशेष एव कारणमुन्नेयमिति ॥ ४ ॥ कटुरसगुणानाह । कटुरिति । अत्र लघुरूक्षत्वेनावृष्यत्वं कटोर्ज्ञेयं तदपि प्रायिकं तेन पिप्पलीनागरयोः कटुरसयोरपि वृष्यत्वमुपपन्नं भवति ॥ ५ ॥ तिक्तरसगुणानाह तिक्त इति । शोधन इति व्रणस्य स्तन्यस्य च । अत्र अर्कागुरुगुडूचीनां तिक्तानामप्यौष्ण्यं पूर्ववत् समर्थ- नीयम् ॥ ६ ॥ कषायरसगुणानाह तुवर इति । तुवर इति कषायः । ननु च रूक्षः शीतो लघुश्चेति चरकेणोक्तम् । अत्र च गुरुत्वमुक्तमिति विरोध इति चेन्नैवं तत्राप्यलघुरित्यकारप्रश्लेषाद्गुरुरित्यर्थ- ष्टीकाकृद्भिर्व्याख्यात इति । वाभटेऽप्युक्तं कषायः कफपित्तघ्नो गुरुर्वस्तिविशोधनः ।
द्रव्यगुणः । ८
शीतं कफमारुतकृद् वीर्यं गुरु पित्तनाशनं बल्यम् । उष्णं कफवातहरं पित्तकरं लघु वृष्यञ्च ॥ ८ ॥ इति । यत्तु सुश्रुते कषायो रसो लाघवाद्वातं वर्द्धयती- त्युक्तं तत्तस्य लघुपाकतयेति विरोधं परिहरन्ति । स्तम्भो स्तम्भनः । अत्रापि कषायस्य हिमत्वं स्तम्भित्वञ्चौत्सर्गिकं तेन हरीतक्यां कषायरसस्य उष्णत्वं भेदकत्वञ्चापवादतया सम- र्थनीयम् । शमन इति संगमनः पीतन इति व्रणस्य ॥ ७ ॥ सम्प्रति रसगुणाभिधानमनु वीर्य्यगुणा वाच्याः । तत्र वीर्य्य- स्वरूपमेव प्रथमं निरूप्यते । वीर्य्यं शक्तिः सा च पृथिव्यादीनां भूतानां यः सारभागस्तदतिशयरूपा बोध्या । सा च द्विविधा चिन्त्याचिन्त्यक्रियाहेतुत्वेन । तत्र चिन्त्यक्रियाहेतुर्या द्रव्यरसा- दीनां स्वस्वकर्माणि स्वभावसिद्धा शक्तिः । अचिन्त्यक्रियाहेतुश्च प्रभावापरपर्याया द्रव्याणां रसाद्यननुरूपकार्य्यकारणशक्तिः । उक्तञ्च भूतप्रसादातिशयो द्रव्ये पाके रसे स्थितः । चिन्त्याचिन्त्य- क्रियाहेतुर्वीर्य्यं धन्वन्तरेर्मतम् । एतेन द्रव्यरसपाकानां स्वस्व- कार्य्यकारणसामर्थ्यं वीर्य्यमित्यर्थः । यत्पुनश्चरके वीर्य्यन्तु क्रियते येन या क्रिया इत्यनेन रसादीनामपि वीर्य्यत्वमुक्तं तद्धर्म- धर्मिणोरभेदादेव समर्थनीयम् । न चैवं द्रव्यस्यापि वीर्य्यत्व- प्रसङ्गः । येनेति करणे तृतीया करणस्यैव शक्तित्वात् । द्रव्यस्य च कर्तृत्वात् एतेन द्रव्यकर्तृके रसादिकरणके कार्य्ये रसा- दीनामपि वीर्य्यत्वमित्यर्थः । सुश्रुतेऽप्युक्तं येन कुर्वन्ति तद्वीर्य्य- मिति । अत्र केचित् ननु यदि शक्तिरेव वीर्य्यं न तर्हि शीतो- ष्णादिलक्षणम् । अथ शीतोष्णादिलक्षणं न तदा शक्तिलक्षण- मिति । सत्यं परमार्थतः शक्तिरेव वीर्य्यं सा पुनर्बलवत्क्रिया निर्वर्त्तनक्षमा रसादिनानायोगाद्भिरुपाधिरिति । तस्याः शीतो-
१० द्रव्यगुणः । ण्यादयो गुणा उपाधित्वेनाङ्गीकृताः । ते तु द्रव्यसमवायिनो रसादिषु पुनरुपचरितवृत्तय इति । उक्तञ्च गुणाः कर्मव्यवस्थायै द्रव्याणां रसपाकयोः । शक्तेः कर्मसु शक्ता ये निरुपाधेरुपाधयः ॥ इत्याहुः । यत्पुनमृदु तीक्ष्णं गुरु लघु स्निग्धरूक्षोष्ण- शीतलं वीर्य्यमष्टविधं केचित् । केचिद्द्विविधमास्थिताः शीतोष्ण- मिति । मतभेदेनाष्टविधं द्विविधं वा वीर्य्यमिति । उक्तञ्चरकेण तत्पारिभाषिकवीर्य्यपुरस्कारेण । वैद्यके हि रसविपाकप्रभा- वातिरिक्ते प्रभूतकार्य्यकारिणि गुणे वीर्य्यमिति संज्ञा तेनाष्ट- विधवीर्य्यवादिमते पिच्छिलविशदादयो गुणा न रसादिविपरीतं कार्य्यं प्रायः कुर्व्वन्तीति तेषां रसाद्युपदेशेनैव ग्रहणं मृद्वादीनाम- ष्टानान्तु रसाद्यभिभावकत्वमस्ति । तथा पिप्पल्यां कटुरस- कार्य्यं पित्तकोपममभिभूय तद्गते मृदुशीतवीर्य्ये पित्तमेव शमयत इति । तथा कषाये तिक्तानुरसे महति पञ्चमूले तत्कार्य्यं वातकोपनमभिभूय उष्णेन वीर्य्येण तद्विरुद्धं वातशमनमेव क्रियते । तथा मधुरेऽपीक्षौ शीतवीर्य्यत्वेन वातवृद्धिरित्यादि । सुश्रुतेऽप्युक्तम् एतानि खलु वीर्य्याणि स्वबलगुणोत्कर्षाद्रसमभि- भूयात्मकर्म दर्शयन्तीति । शीतोष्णवीर्य्यवादिमतन्तु अग्नीषो- मीयत्वाज्जगतः शीतोष्णयोरेव प्राधान्याज्ज्ञेयम् । उक्तञ्च नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ । व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित् ॥ प्रथमवादिमते शक्तिमात्रं वीर्य्यं तद्योगात् रसादीनामपि वीर्य्यसंज्ञा । पारिभाषिकवीर्य्यवादिमते तु शक्तिविशेषो वीर्य्यं तद्योगात् मृदुतीक्ष्णादीनामेव वीर्य्यसंज्ञा नापरेषां गुणाना- मिति । शास्त्रे व्यवहारस्तु पारिभाषिकवीर्य्यनयेनैवेति । भवतिचात्र
द्रव्यगुणः । ११ शीतं वीर्येण यद्द्रव्यं मधुरं रसपाकयोः । तयोरम्लं यदुष्णञ्च यच्चोक्तं कटुकं तयोः ॥६॥ शक्तिमात्रन्तु वीर्य्यं स्यादिति केचिद्बुधा विदुः । तन्मते द्रव्यरसयोः पाकस्य च गुणस्य च । मृदादेः स्वक्रियोत्पादे शक्तिर्वीर्य्यमिति स्थितिः ॥ यदुक्तं चरके वीर्य्यं क्रियते येन या क्रिया । नावीर्य्यं कुरुते किञ्चित् सर्वा वीर्य्यवती क्रिया ॥ इत्यनेन रसादीनां वीर्य्यत्वं तदभेदतः । मृदादयो गुणा अष्टौ वीर्याणीत्यूचिरे परे ॥ यस्मात् सर्वगुणोत्कृष्टाः शक्त्युत्कर्षयुता अमी । व्यवहारोपयुक्ताश्च नेदृशास्त्वपरे गुणाः ॥ तस्मान्न ते वीर्य्यसंज्ञा इति शास्त्रविदां मतम् । अन्ये शीतोष्णभेदेन वीर्य्यं द्विविधमूचिरे ॥ अग्नीषोममयं विश्वं यत एतच्चराचरम् । यद्यपि अष्टविधमेव वीर्य्यं भवति तथापि तेषु एव शीतो- ष्णयोः प्राधान्यात् तद्गुणमेवाह शीतमिति ॥ ८ ॥ इदानीं रसद्वारेण द्रव्याणां वीर्य्यमाह शीतमिति । यद्- द्रव्यं रसे पाके च मधुरं तद्वीर्येण शीतं ज्ञेयम् । तथा तयोः रसपाकयोर्यदम्लं तद्वीर्येणोष्णं ज्ञेयम् । तथा यच्च द्रव्यं तयोः रसपाकयोः कटुकमुक्तं तदपि वीर्येणोष्णं ज्ञेयमिति शेषः । किंवा यच्चोष्णं कटुकं तयोरिति पाठः । प्रभावोऽचिन्त्यक्रिया- हेतुवोर्य्यमेवेति शक्तिविशेष एव प्रभाव इत्यभिधीयते । प्रभाव- सत्त्वे च चरके मानमप्युक्तम् यथा रसवीर्य्यविपाकानां सामान्यं यत्र लक्ष्यते । विशेषः कर्मणाञ्चैव प्रभावस्तस्य स स्मृतः ॥
१२ द्रव्यगुणः । कटुर्विपाकः शुक्रघ्नो बद्धविट्वातलो लघुः । इति । सामान्यमिति तुल्यता कर्मणां पुनर्विशेषो न तुल्य- तेत्यर्थः । एतेन द्रव्ययोर्द्वयोरसादिसाम्ये सत्यपि एकस्मिन् द्रव्ये जायते कार्य्यविशेषः । इतरत्र तु न जायत इत्यत्र यत्का- रणतया वाच्यं तदेव प्रभाव इत्यर्थः । एतदुदाहरणञ्च तेनैवोक्तम् । कटुकः कटुकः पाके वीर्य्योष्णश्चित्रको मतः । तद्दन्ती प्रभावात्तु विरेचयति मानवम् ॥ इति । तद्वदिति । चित्रकतुल्यरसवीर्य्यपाकाः । एतेन चित्र- कस्य रसाद्यैस्तुल्यायामपि दन्त्यां तद्विरेचकत्वरूपं विशिष्टं कर्म तत्स्वकारणं प्रभावमनुमापयतीति भावः । तथा रसादि साम्याभावेऽपि रसादिजन्यत्वेन यत्कार्य्यं न अवधारयितुं पार्य्यते तदपि प्रभावकृतमेव मन्तव्यम् । यथा मण्यादीनां विष- हरणादिकं कर्म । तदुक्तं चरके मणीनां धारणीयानां कर्म यद्विविधात्मकम् । तत्प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते ॥ विविधात्मकमिति विषहरणशूलहरणलौहाकर्षणादि ॥ ६ ॥ इदानीं विपाकगुणा वाच्याः । अतो विपाकस्वरूपं प्रथमं निरूप्यते अवस्थापाकापेक्षया विशिष्टः पाको विपाकः । विपाक- शब्देनेह लक्षणया विपाकाधेय आहारस्य रसविशेषो गौरवेण लाघवेन वा युक्तोऽभिधीयते । उक्तञ्च वाग्भटेन जाठरेणाग्निना योगाद्यदुदेति रसान्तरम् । रसानां परिणामान्ते स विपाक इति स्मृतः ॥ अत्र रसानां परिणामा मधुराम्लकटुरूपास्त्रयोऽवस्थापाकाः षड्रसस्यैवान्नस्य आमाशयादिस्थानसम्बन्धमहिम्ना जायन्ते । ते च चरके ग्रहणीचिकित्सिते
द्रव्यगुणः । १२ स्वादुर्गुरुः सृष्टमलो विपाकः कफशुक्रलः । पाकोऽम्लः सृष्टविण्मूत्रः पित्तकृत् शुक्रनुल्लघुः ॥१० अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः । इत्यादिना उक्ता अनुसन्धेयाः । तेषामन्तेऽवसाने पुनर्जाठ- राग्निसंयोगे सति यद्रसान्तरं रसविशेष उदेति स विपाक इत्यर्थः । इह केचिदाचक्षते प्रतिरसं पाकः अम्लोऽम्लस्य मधुरो मधुरस्य लवणो लवणस्य कटुकः कटुकस्य तिक्तस्तिक्तस्य कषायः कषायस्य इति षडेव विपाकाः । किमत्र प्रमाणमिति चेदुच्यते । यथा क्षीरमतिपच्यमानमपि मधुरमेव स्यात् । यथा वा शालियवादय उप्ताः प्ररूढाः फलिताश्च शाल्यादिस्वरूपा एव भवन्ति । तथा मधुरादयोऽपि निष्ठापाकेऽपि मधुरादि- स्वरूपा एव भवितुमर्हन्तीति । उक्तञ्च उप्ताः षष्टिकमाषाद्या बाह्यपकाश्च षड्रसाः । यान्ति नान्यत्वमित्येवं पाकः प्रतिरसं भवेत् ॥ इति । अन्येतु ब्रुवते रसा द्विविधा बलवन्तोऽबलवन्तश्च । बल- वत्त्वञ्च व्यक्तत्वेन मात्राबाहुल्येन वा अबलवत्त्वं पुनरेतद्विपर्य्य- येण । तत्र अल्पतया अबलवन्तो रसा बलवतां रसमायान्तीति । तेन निष्ठापाकेन बलवता रसेन दुर्बलरसाभिभवान्न रसप्रतिनिय- मेन मधुरस्य मधुर एव पाकोऽम्लस्य चाम्ल एवेत्यादि प्रतिनिय- माभावात् अनवस्थितः पाक इति । अनियतत्वपक्षेऽपि षट्क- त्वमेव कदाचित् कस्यचित् सम्भवादिति । बह्वोऽभिभवन्त्यल्पान् वह्निर्मिश्रीकृता रसाः । तेनानिश्चितमेवैके पाकमाहुर्मनीषिणः ॥ इति । अन्ये तु वातादिभ्यो दोषेभ्य एव त्रीन् पाकान् २
१४ द्रव्यगुणः । इच्छन्ति । कफात् वातकफात् मधुरः कफपित्तात् अम्लः वातात् पित्तात् वातपित्ताच्च कटुक इति । तदुक्तम् कफात् वातकफात् स्वादुरम्लः पित्तंकफोद्भवः । दोषैस्त्रयोऽनिलात् पित्तात् वातपित्तात् कटुर्मतः ॥ इति । तदेतत् मतत्रयं प्रमाणशून्यत्वात् उपेक्षणीयमेव । किञ्च प्रतिरसं रससदृशः पाकस्तथा बलवत्पराधीनता च पाकस्य रसद्वारप्रतिपाद्यमानकार्य्येणैव लभ्यते । तेनैतत् पक्षद्वय- मपि न निष्ठापाके चिन्तनीयं रसस्वरूपनिरूपणेनैवोक्तार्थत्वात् । दोषावस्थाजन्यश्च पाक उपपादकहेत्वभावात् आगमशून्यत्वाच्च प्रेक्षावद्भिरुपेक्षणीय इति । चरकेण तु त्रय एव विपाका अङ्गी- कृताः कट्वम्लमधुरभेदेन । अतस्तद्वचनमुपन्यस्यति । कटुतिक्तकषायाणां विपाकः प्रायशः कटुः । अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा ॥ प्रायश इति वचनात् पिप्पलीकुलत्थादीनाम् रसाननुगुण- पाकतां दर्शयति । पाकस्तु तेजःसंयोगरूपो रसेषु सम्भव- तीति । कट्वादिशब्दैस्तदाधारद्रव्याण्युच्यन्ते । एतेन यत् कैश्चि- दुच्यते अवस्थापाकावसाने षड्रसस्यैव अन्नस्य कटुरसत्वेन तदानीं तिक्तादिरसानामभावात् तेषां विपाको नोपपद्यत इति तदपि अपास्तम् । तिक्तादिरसानामभावेऽपि तदाश्रयद्रव्यस्य विद्य- मानत्वादिति । वस्तुतस्तु अवस्थापाकत्रयेण तत्तदामाशयादि- स्थानमहिम्ना मधुराम्लकटुरसा उद्भूताः परं क्रियन्ते न तु सर्वथा प्राक्तरसाभिभवः । अन्यथा अवस्थापाकेन प्राकृतानां मधुरादिरसानां सर्वथा अप्राकृतत्वात् तेषां कफादिजनकत्वा- भिधानं निरवकाशं स्यादिति । ननु चरके अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः । इत्यादिना षण्णामेव रसानामविशेषेण अवस्थापाकवशात्
द्रव्यगुणः । १५ कफादिजनकत्वमुक्तम् । तत्तथाच रसविशेषाणामेव दोषविशेष- जनकत्वम् । तदुक्तं यथा कटुतिक्तकषायाणां विपाकः प्रायशः कटुः । इत्यादिना च यो विपाक उक्तस्तत् सर्वं विरुध्यते अवस्था- पाकेनैव बाधितत्वादिति । नैवम् । न हि अवस्थापाकोऽयं रस- स्वभावं निष्ठापाकं बाधते । किञ्च अवस्थायां स्वकार्यं करोति तेन रसादयोऽपि स्वकार्यं कुर्वन्ति । अवस्थापाकोऽपि स्वीयं कार्यं करोति यथा मधुरतिक्ताद्यनेकरसे उपयुक्ते मधुरोऽपि स्वकार्यं करोति । तिक्तादयश्च स्वकार्यं कुर्वन्ति । अयन्तु विशेषो यदि मधुराख्यस्य अवस्थापाकस्य मधुरादयः श्लेष्म- जनका रसा अनुगुणा भवन्ति तदा स बहुश्लेष्माणं जनयति । यथा तु विपरीतकटुकादिपरिगृहीतो भवति तदा स्तोक- मात्रं कफं जनयति । एवं पित्तजनकावस्थापाकेऽपि वाच्यम् । कटुतिक्तकषायाणामित्यादिना उक्तश्च निष्ठापाको रसमल- विवेकसमकालो भिन्नकाल एवावस्थापाकैः सममिति न विरोधः । स च भिन्नकालोऽपि अवस्थापाकजन्यदोषानुगुण- तया अननुगुणतया वा अवस्थापाकाहितदोषाणां वर्द्धनं क्षपणं वा करोतीति निष्ठापाकाभिधानं शास्त्रे प्रयोजनवदेव । अन्ये तु ब्रुवते न तावत् षड्रसादप्यन्नात् सामान्येन अवस्थापाके- ऽपि कफोत्पत्तिः । किन्तु षड्रस एवान्ने मधुरो य आहारांशः स उद्रिक्तः सन् कफं जनयति । तथा पित्तदोषकोपको य आहारभागस्तस्माद्विदाहावस्थायामुद्भूतात् अम्लरसात् पित्त- मुत्पद्यते । एवं वायुरपि वायुजनकाहारांशात् कटुतावस्थायां भवतीति । एतच्च न सङ्गतम् अन्नस्य भुक्तमात्रस्य इत्यादि- ग्रन्थविरोधात् । यतोऽत्र षड्रसस्यैव अन्नस्य सामान्येन अव- स्थापाकात् कफादिजनकत्वं दर्शितं न तु कस्यचिदाहारां-
१६ द्रव्यगुणः। शस्येति। यदि पुनः षड्रसाहारगतो यः श्लेष्मजनको भागः स एव स्थानमहिम्ना उद्भूतः सन् सर्वमेवाहारमवस्थापाकसमये मधुरीकृत्य कफं जनयतीत्युच्यते तदानुमतमेव। अन्ये त्वाहुः। यन्नान्नस्याग्निसंयोगान्मधुराद्यवस्थितं भवति। किन्तु कफा- दिस्थानेषु मनुष्याणां स्वभावादेव मधुरादयो रसास्तिष्ठन्ति ते चान्नं स्वस्वभावं नीत्वा कफादीन् जनयन्ति। उक्तं हि तन्त्रा- न्तरे मधुरो हृदयादूर्द्धं रसः कोष्ठे व्यवस्थितः। ततः संवर्द्धते श्लेष्मा शरीरबलवर्द्धनः। नाभीहृदयमध्येन रसस्त्वम्लो व्यवस्थितः ॥ स्वभावेन मनुष्याणां तत्र पित्तं विवर्द्धते। अधो नाभ्यान्तु स त्वेकः कटुकोऽवस्थितो रसः ॥ प्रायः श्रेष्ठतमस्तत्र प्राणिनां वर्द्धतेऽनिलः। तस्माद्विपाकस्त्रिविधो रसानां नात्र संशयः॥ एतच्च तन्त्रान्तरं श्लेष्मपित्तगतमधुराम्लरसवायुप्राभाविक- कटुरसाभिप्रायेण वर्णनीयम्। ते च कफादिगता रसा अस्माक- मप्यग्न्याशयपाकसह्कारितया अनुमता एवेति। तस्माद्- यथोक्त एवार्थो न्याय्य इति। अयञ्च विपाकाधेयो रसविशेषो न रसनेन्द्रियग्राह्यः किन्तु तत्तत्कार्य्यैरेवोन्नीयते॥ यथा कटु- रसाया उष्णवीर्य्याया अपि शुण्ठ्या वृष्यत्वेन मधुरः पाकोऽनु- मीयते तथा लवणस्य सृष्टविण्मूत्रत्वेन मधुरः पाक उन्नी- यते। तथा तिक्तकषायोर्बद्धविण्मूत्रतया कटुपाक उन्नीयत इति। ननु लवणस्य मधुरपाकित्वे पित्तरक्तादिकर्तृत्वमनुप- पन्नम्। तथा तिक्तकषाययोः कटुपाकित्वेच पित्तहन्तृत्व- मनुपपन्नम्। नैवम्। सत्यपि लवणस्य मधुरपाकित्वे तत्र लवणे उष्णवीर्य्यं यदस्ति तेन तत्पित्तरक्तादिकारकत्वम्। विपा- कस्तु तत्र पित्तरक्तकरणलक्षणे कार्य्ये बाधितोऽपि सृष्टविण्मूत्रा-
दिलक्षणेन लक्ष्यत एव । तथा तिक्तकषाययोरपि कटुविपाको बलवता शीतवीर्येण बाधितत्वान्न पित्तजनकः । बद्धविण्मूत्र- तया तु लक्ष्यत एव । एतेन यदुच्यते लवणादिषु विपाको यदि रसवीर्य्याभ्यां बाधितः स्वकार्य्यकरो न स्यात् तत् किं तेनोपदि- ष्टेन इति तन्निरस्तं भवति । यतोऽस्त्येव सृष्टविण्मूत्रतादि तत्का- र्य्यमिति । अन्ये तु एतद्दोषभयात् लवणस्तथेत्यत्र तथाशब्देन विप्रकृष्टमम्लमाकृष्य लवणोऽम्लः पच्यते इति व्याख्यानयन्ति । तन्न कट्वादीनां कटुविपाकः अम्लोऽम्लस्य शेषयोर्मधुर इति जतूकर्णविरोधात् । न च त्रय एव विपाकाः कथं भवन्ति तिक्तादयोऽपि कुतो न स्युरिति वाच्यम् । भूतस्वभावस्यापर्य्यनु- योज्यत्वात् । ननु यत्र रसविपरीत: पाको यथा लवणस्य मधुरः तिक्तकषाययोश्च कटुः स उच्यतां यस्तु समानगुणो मधु- रस्य मधुरः अम्लस्याम्लः कटुकस्य कटुकः तत्कथनेन किं प्रयो- जनम् । यतो रसगुणैरेव तत्र विपाकगुणोऽपि ज्ञास्यते । नैवम् । लवणादिवद्विसदृशरसान्तरोत्पादशङ्कानिरासार्थमपि तत्रानु- गुणोऽपि विपाको वक्तव्य एव । तथा यत्र समानगुणो विपाक- स्तत्र बलवत्कार्य्यं भवति । विपर्य्यये तु दुर्बलमिति ज्ञेयम् । सुश्रु- तेन द्विविध एव विपाकोऽङ्गीकृतः मधुरः कटुकश्चेति । द्वैविध्ये च भूतानां गुरुलाघवेन द्वैविध्यमेव हेतुः । यदुक्तं तेनैव तत्र पृथिव्यप्तेजोवायूकाशानां द्वैविध्यं भवति तद्गुणसाधर्म्यात् । तत्र पृथिव्यापश्च गुर्व्यः । शेषाणि च लघूनि । तस्माद् द्विविध एव विपाको भवति । तद्गुणसाधर्म्याच्च गुरुता लघुता ज्ञेत्यर्थः । अत्रापि सुश्रुतमते यद्यप्यम्ललवणौ मधुरविपाकौ तथापि तयोर्वातहरत्वे सृष्टविण्मूत्रतायाञ्च मधुरकार्य्यकरत्वं न पुनः पित्तहरत्वे । तथा तिक्तकषाययोः कटुविपाकयोरपि वातकर्त्तृत्वे बद्धविण्मूत्रतायाञ्च कटुकार्य्यकरत्वं न पुनः
१८ द्र्व्यगुणः । पित्तकर्तृत्वे अचिन्त्यत्वात् प्रभावस्य । एतदेवोक्तं माधवे- नापि । स्वादादीनां स्वादुपाकः सुश्रुताचार्य्यसम्मतः । तत्कथं पित्तजननौ स्यातामम्लकट्टू रसौ ॥ कटुपाकौ कथं पित्तनाशनौ तिक्ततूवरौ ॥ सिद्धान्तोऽपि । अम्लपट्वोः फलं दद्यात् स्वादुपाकः कटुः पुनः । कषायतिक्तयोरित्थं सुश्रुताचार्य्यसम्मतः ॥ इति । ननु पञ्चभूतात्मके देहे आहारः पाञ्चभौतिकः । विपक्कः पञ्चधा सम्यक् स्वान् गुणानभिवर्द्धयेत् ॥ इत्यनेन पञ्चधापि विपाकस्तेनैवोक्तः । तत्कथं न विरोध इति चेन्नैवम् । उपाधिभेदेन विरोधाभावात् । तत्र हि भूत- भेदमवलम्ब्य पञ्चधात्वम् । अत्र तु लाघवगौरवरूपं भूतगुण- द्वैविध्यमाश्रित्य द्वैविध्यमुक्तमिति न विरोधः । यथा पञ्चभूता- त्मकत्वेऽपि द्रव्याणां सौम्याग्नेयत्वाद्वैविध्यमिति । यत् पुनः सुश्रुतेनाम्लपाको न मन्यते तच्चरकमतानुयायिनो न सहन्ते । यतोऽम्लपाकतयैव व्रीहिकुलत्थादीनां पित्तकर्त्तृत्वमुपपद्यते । अथ मन्यसे व्रीह्यादेरुष्णवीर्य्यत्वेन तत्र पित्तकर्त्तृत्वम् । तदसत् । मधुरस्य व्रीहेस्तन्मते मधुरविपाकस्य उष्णवीर्य्यतायामपि सत्यां न पित्तकर्त्तृत्वमुपपद्यते । रसविपाकाभ्यामेकस्य वीर्य्यस्य बाध- नीयत्वात् । किञ्च अम्लपाकत्वाद् व्रीह्यादेः पित्तमम्लगुणमुत्प- द्यते । यदि तु उष्णवीर्य्यताकृतं स्यात् तदा कटुगुणभूयिष्ठं पित्तं स्यात् । दृश्यते च व्रीहिभक्षणादम्लोद्गारादिना अम्लगुण- भूयिष्ठतैवेति । किञ्च पृथिवीसोमगुणातिरेकान्मधुरः पाको भवति वाय्वग्न्याकाशातिरेकाच्च कटुर्भवतीति पक्षे यदा व्यामिश्र- गुणातिरेको भवति । तदा सोमाग्न्यात्मकस्याम्लस्य उत्पादकः
द्रव्यगुणः । १८ शालयो मधुराः शीता लघुपाका बलप्रदाः । पित्तघ्नाल्पानिलकफाः स्निग्धबद्धाल्पवर्चसः ॥११॥ कथं प्रतिक्षेपणीयः । अथवा तन्त्रकारयोः किमनयोरनेन वचनमात्रविरोधेन कर्त्तव्यम् । यतो यदम्लपाकं चरके ब्रूते तत् सुश्रुतेन वीर्य्योष्णमिति कृत्वा समाधीयते । अनेन न कश्चित् द्रव्यगुणे विरोधः । यत्तु सुश्रुते अम्लपाकनिरासार्थं दूषणमुच्यते । पित्तं हि विदग्धमम्लतामुपैति इत्यादिना तद- नभ्युपगमादेव निरस्तमिति । विपाकगुणानाह कटुरित्यादि ॥ १० ॥ सम्प्रति द्रव्याणां गुणे वक्तव्ये द्रव्येषु चान्नस्य प्राधान्यात् अन्नेषु च शूकधान्यानां शूकधान्येषु च शालीनाम् । अतः प्रथमं तेषां सामान्यगुणानाह शालय इत्यादि । अत्र शालिशब्देन हैमन्तिकं धान्यमुच्यते । यत्तु अकण्डितशुक्लत्वेन शालित्वमुच्यते ॥ तद्ग्रैष्मिकेषु षष्टिकादिषु शारदेषु व्रीहिषु च गतत्वात् सकलशाल्यव्यापकत्वाच्च न युक्तम् । लघु शीघ्रं पाको येषां ते लघुपाका लघुगुणयोगात् शीघ्रपाका इत्यर्थः । तन्त्रान्तरे- ऽप्युक्तम् । अन्नपानविधावुक्तं यद्द्रव्ये गुरुलाघवम् । अग्निना तद्विजानीयात् पचनेन चिराचिरम् ॥ इति । न तु लघुगुणयुक्तः पाको येषामित्यर्थः । यतस्तादृशः पाकः कटुरेव भवति । तथा सति स्निग्धत्वं बलावहत्वञ्चानुप- पन्नं स्यात् । नन्वेवं बद्धाल्पवर्चस्त्वं मधुरपाके चानुपपन्नम् । यदुक्तम् । स्वादुर्गुरुः सृष्टमलो विपाकः कफशुक्रलः । इति । नैष दोषः । शालीनां मधुरपाकित्वेऽपि बद्धाल्पवर्चस्त्वं
२० द्रव्यगुणः ।
द्रव्यप्रभावात् । नन्वेवं कटुपाकत्वेऽपि स्नेहादयो द्रव्यप्रभावा- देव भविष्यन्तीति चेन्नैतदस्ति शालिनां कटुपाकाङ्गीकारे बहु- तन्त्रविरोधप्रसङ्गात् । तथाच चरकः शीता रसे विपाके च मधुराः स्वल्पमारुताः । बद्धाल्पवर्चसः स्निग्धा बृंहणाः शुक्रमूत्रलाः ॥ इति । तथा वाग्भटोऽपि । स्वादुपाकरसाः स्निग्धा इत्यादि- मधुरपाकत्वेऽपि शालीनां शीघ्रपाकित्वं प्रकृतिलघुत्वात् । अत- एव मात्राशितीये । शालिषष्टिकशशशशखरादीन्याहारद्रव्याणि प्रकृतिलघून्यपि मात्रामेवापेक्षन्त इत्यनेन लघुत्वं शीघ्रपाक- कारणमुक्तम् । अन्ये पुनरत्र पाकद्वयमङ्गीकृत्य सुश्रुतचरकयो- रविरोधं मन्यन्ते । तत्रैको रसपाकोऽन्यश्च द्रव्यपाको यदाह विश्वामित्रः पूर्वं रसा विपच्यन्ते पश्चात् द्रव्यं विपच्यते । पूर्वस्तत्र तु भाक्तः स्यादुत्तरः पारमार्थिकः ॥ इति । तेन रसपाकमाश्रित्य मधुररसपाकित्वेन शालिनां गुरुपाकित्वं चरकेणाङ्गीकृतम् । पुनस्तेनैव निष्ठापाकमभि- प्रेत्य मात्राशितीये शालिषष्टिक इत्यादिना लघुपाकित्वमप्यङ्गी- कृतम् । सुश्रुतेनापि निष्ठापाकमभ्युपेत्य शालिनां लघुपाकि- त्वमुक्तम् । स्निग्धत्वं बलावहत्वञ्च रसपाकमभ्युपेत्य उक्तमिति न विरोधः । तन्तु न सम्यक् रसपाकस्य पूर्वमेव निराकृत- त्वात् । अवस्थापाकेन सर्वस्यैव रसस्य कटुपाकित्वे तदानीं मधुरादिरसासम्भवादिति तेजःसंयोगरूपः पाको रसेन सम्भव- त्येवेति पूर्वमेवोक्तमिति । यदप्युक्तं विश्वामित्रेण तदप्याहार- स्यामपच्यमानपक्वावस्थाभिर्गुणीभूताहारपरिणामेन गुणभूत- स्वरूपरसपरिणामाङ्गीकारः । पुनरामविदग्धपक्वावस्थासु प्रत्य- नीकरसानामपि कफपित्तवातकारित्वविधानार्थम् । तथाहि
द्रव्यगुणः । २१ रक्तशालिस्त्रिदोषघ्नश्चक्षुष्यः शुक्रमूत्रलः । तृष्णाघ्नो वलकृत् स्वर्य्यो हृद्यस्तदनु चापरे ॥ १२ ॥ षष्टिको मधुरः शीतो लघुर्वृष्यस्त्रिदोषहा ॥ १३ ॥ मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः । वहुमूत्रपुरीषोष्मा त्रिदोषस्त्वेव पाटलः ॥ १४ ॥ अवस्थायां कटुतिक्तकषाया अपि आमाशयस्थानमहिम्ना प्राप्त- मधुरभावाः कफं कुर्युः । विदाहे पुनरम्लभावेनाशयप्रभावजेन मधुरतिक्तकषाया अपि पित्तमावहन्ति । एवं पक्वाशयप्रभावो- पहंहितेन पाकनिःसारभावरौक्ष्येण मधुराम्ललवणा अपि वात- कारिण इति । तदेतद्विस्तरेण चरके ग्रहणीचिकित्सितेऽभि- हितम् । वास्तवस्तु द्रव्याणामेव पाकः स च सम्यक् धातुरस- मलविरेकान्तलक्षण एव निष्ठापाक इत्यभिधीयते । विश्वा- मित्रेणापि भाक्त इति वदता रसपाकानामभाव एव सूच्यते न पुनरुभयसम्भव इति ॥ ११ ॥ अनुशब्दो हीनार्थः । तेन रक्तशालिमपेक्ष्य अपरे शालयः किञ्चिद्धीनगुणा इत्यर्थः । एतेन शेषशालीनामप्यतिदेशेन गुणा उक्ताः ॥ १२ ॥ यद्यपि षष्टिकादयो बहवो भवन्ति ग्रैष्मिकास्तथापि तेषु मध्ये प्रधानस्य षष्टिकस्य गुणमाह षष्टिक इति । ननु चरके शीतः स्निग्धो गुरुः खादुरित्यनेन षष्टिकस्य गुरुत्वमुक्तमिह कथं लघुरिति पठ्यते । नैवमवागुरुरित्यकार- प्रश्लेषाल्लघुत्वमेवार्थः । अतएव मात्राशितीये लघुरित्युक्तम् ॥ १३ ॥ व्रीहिसंज्ञकस्य शारदाशुकधान्यस्य गुणमाह मधुर इति । पाटलो व्रीहिविशेषः ॥ १४ ॥
२२ द्रव्यगुणः।
धान्यं शरद्ग्रीष्मभवं पाकेऽम्लं पित्तकृद्गुरु ॥१५॥ धान्यं सर्वं समातीतं पथ्यं लघ्वन्यथा नवम् । ततः परं लघुतरं रूक्षं वातप्रकोपणम् ॥ १६ ॥ अनुक्तानां शारदग्रैष्मिकधान्यानां सामान्यगुणमाह धान्य- मिति । ननु शाल्यादीनामुपयोगस्तण्डुलभक्तपेयादिप्रकारेण परं भवति ते च तण्डुलादयः पृथगेव गुणतो निर्देष्टव्याः ॥ अतस्तत्प्रकृतिगुणाभिधानं व्यर्थं तद्विकृतिगुणेनैव कार्य्य- करत्वात् । नैव द्रव्याणां हि प्रकृतिगुणसहिता एव विकृति- गुणाः कार्य्यकराः । यतस्तण्डुलभक्तपेयादयो रक्तशाल्यादि- प्रकृतिगुणानुगता एव । नहि रक्तशालिकृतभक्तपेया लाजादयो यथा लघ्वादिगुणास्तथा व्रीहिकृतभक्तपेया लाजादयः । किन्तु प्रकृतिगुणानुगतरक्तशालिकृतभक्ताद्यपेक्षया गुरव एव । तेन यत्र प्रकृतिगुणसमानो विकृतिगुणस्तत्र गुणोत्कर्षः । यत्र प्रकृतिगुणविपरीतो विकृतिगुणस्तत्र गुणापकर्षः । यथा व्रीहे- र्गुरोर्लघवो लाजाः । अत्र लाजकरणेनाल्पमेव लघुत्वं क्रियते । यत्र प्रकृतिगुणैर्न समानो नापि विपरीतो विकृतेर्गुणः । तत्र द्वयोरपि प्रकृतिविकृतिगुणयोः पृथगेव कार्य्यकारित्वमुत्सर्गत्तः । कचित्तु यद्विकृतेर्बलीयस्त्वेन प्रकृतिगुणाभिभावकत्वं यथा शुक्तासुतार्द्रककरीरादिषु तत्तदासुतं तदितिविशेषागमादेव- प्रतीयते । तेन तत्र प्रकृतिगुणानां दुर्बलत्वम् । यदपि प्रकृति- गुणोपमर्द्देन तद्विरुद्धकार्य्यकर्तृत्वं विकृतेः यथा कांस्यभाजने दशरात्रस्थितस्य सर्पिषो मारकत्वमित्यादि । तदप्यपवादरूप- मागमवेद्यमेव । तेन यत्रोत्सर्गभूतशास्त्रार्थापवादस्तत्रोपदेशं शास्त्रकारः करोत्येवेति प्रकृतिविकृत्योः पृथग्गुणाभिधानं युक्त- मिव । अयञ्च न्याय एवञ्जातीयेषु मांसादिषु ज्ञेयः ॥ १५ ॥
द्रव्यगुणः । २३ दग्धायामवनौ जाताः शालयो लघुपाकिनः । कषाया बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षिणः ॥१७॥ स्थलजाः कफपित्तघ्नाः कषायाः कटुकानुगाः । किञ्चित् सतिक्तमधुराः पवनानलबर्द्धनाः ॥ १८ ॥ रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः । अदाहिनो दोषहरा वल्या मूत्रविवर्द्धनाः ॥१९॥ इदानीं धान्यानां कालविशेषेण क्रियाविशेषेण च गुण- विशेषमाह धान्यमिति । ततः परमिति वर्षद्वयात् परमि- त्यर्थः ॥ १६ ॥ लघुपाकिन इति शीघ्रपाकाः । अन्ये तु कटुपाकिन इत्याहुः ॥ १७ ॥ स्थलजा इति जाङ्गलभूमिसम्भवाः । अत्र सतिक्तमधुरा इत्यत्र ईषदर्थेन सहशब्देन सम्बन्धात् किञ्चिदर्थे लब्धे किञ्चि- दितिपदं पुनरुक्तमिति मन्यमानाः पवनानलबर्द्धना इत्यत्र योजयन्ति केचित् कैदारा मधुरा हृद्या बल्याः पित्तनिवर्हणाः । ईषत्कषायाल्पमला गुरवः कफशुक्रलाः ॥ कैदारा इत्यनूपदेशजाः जलसमीपभूमिभागजाता इत्यर्थः ॥ १८ ॥ एकवारमुत्पाट्य येऽन्यत्र रोप्यन्ते ते रोप्या अतिरोप्यास्तु एकवारमुत्पाट्य रोपयित्वा पुनरुत्पाट्य रोपिताः तेन वारद्वयं रोपिता इत्यर्थः । एतेन प्रथमं यत्रोप्तास्तत्रैव ये पच्यन्ते तदपेक्षया उत्खातरोपिता लघवस्ततोऽपि रोप्यातिरोप्या
२४ द्रव्यगुणः। शालयश्छिन्नरूढा ये रूक्षास्ते बद्धवर्चसः । तिक्ताः कषायाः पित्तघ्ना लघुपाकाः कफापहाः॥२०· गोधूमः स्थैर्य्यकृद्वृष्यः स्निग्धशीतः सरो गुरुः। सन्धाता बृंहणो बल्यो जीवनो वातपित्तहा ॥२१॥ लघव इत्युपदर्शितम् । शीघ्रपाका इति शीघ्रं जठराग्निना पच्यन्ते । लघव इत्यनेन लघुपाकित्वमुक्तमिति केचित् ॥ १६ ॥ छिन्नरूढ़ा इति । प्रथमं छिन्नाः पश्चात् रूढ़ाः। अत्र केचिच्चोद- यन्ति ननु च दग्धायामवनौ जाता इत्यादिना उक्तशाल्यादीनां यदि पुरोक्तगुणविरोधेन गुणान्तरोत्पत्तिरुच्यते तदा पूर्वगुण- वर्णनमनर्थकम् तद्विरोधेनेति चेत् तदा पूर्वापरविरोधः । तथा हि तेषां शालीनां स्निग्धत्वमुक्तं दग्धावनिसम्भूतानान्तु तेषामेव रौक्ष्यमपीति । तन्न उत्सर्गापवादभेदेनाविरोधात् । एतच्च पूर्वमुक्तमेव ॥ २० ॥ गोधूमगुणमाह गोधूम इति । अत्र गोधूमस्य स्वादुशीत- स्निग्धादिगुणयोगात् श्लेष्मकर्तृत्वं ज्ञेयम् अतएव सुश्रुते श्लेष्मकर इत्युक्तम् । अन्ये तु “चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजन” इति वसन्ते गोधूमस्य विधानात् श्लेष्मकारित्वमस्यायुक्तमिति मन्य- मानाः सुश्रुते श्लेष्मकर इत्यस्य स्थाने शोफकर इति पठन्ति । तन्न सम्यक् गोधूमगुणपर्य्यालोचनया कफकर्तृत्वस्यैव युक्तत्वात् वसन्तस्यादानमध्यत्वेन वातपित्तानुबन्धात् स्निग्धशीतस्यापि गोधू- मस्य तत्रोपयोगोऽपि न विरुध्यते । किंवा गोधूमोऽत्र पुराणो- ऽभिहितः स च न कफकरः । यदुक्तम् मधुरं श्लेष्मलं प्रायो जीर्णाच्छा लियवादृते । मुद्गाद् गोधूमतः क्षौद्रात् सिताया जाङ्गलामिषात् ॥