भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५७

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५७

कठिनीकृताकृती । कचैः आचितौ कचाचितौ । अग्रे जातावगजौ धृतिश्च संयमश्च धृतिसंयमौ, तौ ॥३६॥

व्याकरणम्-विलोकतन्=वि+लोक+णिच्+लट्+शतृ । बाधितुम्=बाध्+तुमुन् । उत्सहसे = उद्+सह+लट् ॥३६॥

वाच्यान्तरम-वनान्तशय्याकठिनीकृताकृती विष्वक् कचाचितौ अगजौ गजौ एव एतौ यमौ विलोकयता त्वया कथं धृतिसंयमौ बाधितुं न उत्सह्यते ॥३६॥

कोषः - 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः। 'शय्यायां शयनीयवत् । शयनं मञ्चपर्यङ्कपल्याङ्का खट्‌वया समाः' इत्यमरः। 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' इत्यमरः। 'चिकुर कुन्तलो बालःकचः केशः शिरोरुहः' इत्यमरः। 'मतङ्गजो गजो नागः कुञ्जरो वारणः करी' इत्यमरः 'यमो दण्डधरे ध्वाङ्क्षे संयमे यमजेऽपि च' इत्यमरः। 'धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु' इति विश्वः॥३६॥

सारार्थः-कुसुमसुकुमारौ नकुलसहदेवौ भूमिशयनात्कर्कशशरीरौ विलोक्य अद्यापि त्वं धैर्यान्न विचलितोऽसि, नैतादृशधैर्यस्याधुनाऽऽवश्यकता । सर्वे ते भवन्ति ॥३६॥

भावार्थः-जङ्गल में बिना बिछौने के सोने से कडा हो गया है शरीर जिनका और बढ़े हुए केशों से चारों तरफ ढंके हुए बनैले हाथियों के जैसे इन दोनों यमल (नकुल, सहदेव) को देखते हुए अब तक भी आप धैर्य नहीं छोड़ते ॥३६॥

इमाम॒हं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः ।
विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥३७॥

इमामिति । इमां वर्त्तमानाम् । तवेमां तावकीं त्वदीयाम् । 'तस्येदम्' इत्यण्प्रत्ययः। 'तवक ममकावेकवचने' इति तवकादेशः । धियं त्वदपह्विष्यां चित्तवृत्तिमहं लटौ णलादेशः। न चात्मदृष्टान्तेनापन्नत्वाद् दुःखितमनुमातुं शक्यते। धीरादिष्यतै-कान्तिकत्वादित्याशयेनाह-चित्तवृत्तयो विचित्ररूपा धीराधीराद्यनेकप्रकाराः खलु।

किन्तु परामुत्कृष्टां भवदापदं विचिन्तयन्त्या भावयन्त्या मम चेतःचित्तम् । आधयो मनोव्यथाः 'उपसर्गे घोः किः' इति किंप्रत्ययः। प्रसभं प्रसह्य रुजन्ति भञ्जन्ति 'रुजो भङ्गे' इति धातोर्लट् । पश्यतामपि दुःसहा दुःखजननी त्वद्विपत्तिरनुमीयते

५ किरात प्र. सर्ग

५८ किरातार्जुनीयम् [प्रथमः

त्वां न विकरोतीति महच्चित्रमित्यर्थः। चेत इति। रुजार्थानां भाववचनानामज्वरेः इति षष्ठी न भवति। तत्र शेषाधिकाराच्छेषत्वस्य विवक्षितत्वादिति ॥३७॥

अन्वयः-अहम्, इमाम्, तावकीं, धियं, न वेद। चित्तवृत्तयः, विचित्ररूपाः, खलु। परां, भवदापदं, विचिन्तयन्त्याः, मम; आधयः, प्रसहं, चेतः रुजन्ति ॥३७॥

सुधा-अहम्=द्रोपदी, इमाम्=ईदृशीम्, तावकीम् = त्वदीयाम्=, धियम् = बुद्धिम् न वेद = न जानामि; चित्तवृत्तयः = मनोव्यापाराः, विचित्ररूपाः = भिन्नभिन्नप्रकाराः, खलु = किल भवन्तीति शेषः। पराम् =अत्यधिकाम्, भवदापदम् = भवद्विपत्तिम् :भवतामधोदशां दुर्दशामित्यर्थः। विचिन्तन्त्याः= विचारयन्त्याः मम = द्रौपद्याः, आधयः= मनोव्यथाः, प्रसहं = बलात्कारेण, सहसेत्यर्थः। चेतः= चित्तम्, रूजन्ति=भञ्जन्ति, इति भवतां दुर्दशामनुभवन्ती अहमपि दुःखेन परिभूये, भवांस्तु निर्विकार इव वर्तते इति सहृदयत्वं न सूचयति ॥३७॥

समासः-विचित्रं रूपं यस्यास्तां विचित्ररूपाम्। चित्तस्य वृत्तयश्चित्तवृत्तयः। भवतामापद् भवदापद् तां भवदापदम् ॥३७॥

व्याकरणम-वेद = विद् +लट्। रुजन्ति = रूज् +लट् ॥३७॥

वाच्यान्तरम्-मया इयं तावकी धीर्न विद्यते (न ज्ञायते)। चित्तवृत्तिभिर्वि- चित्ररूपाभिः (भूयते) परां भवदापदं विचिन्तयन्त्या मम आधिभिश्चेतः प्रसह्यं रूज्येत ॥३७॥

कोषः-'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतीः' इत्यमरः। 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः। 'पुंस्याधिर्मानसी व्यथा' इत्यमरः। 'विपत्त्यां विपदापदौ' इत्यमरः॥३७॥

सारार्थः-अहह ! सुखदुःखभेदविचारशून्या ईदृशी मतिस्तव कया दैवदुर्दशया समजनि, तन्मया न ज्ञातुं पार्यते क उपाय एवं स्याद्येन भवान् प्रकृतिस्था भविष्यति। किमधिकम्, भवदीयां दुर्दशामनुभूय ममापि मनो दुर्दशामग्नमिव प्रतिभाति ॥३७॥

भाषार्थः- हाय! आपकी इस दुर्मती को मैं नहीं समझ सकती, आदमियों की चित्तवृत्ति भी भिन्न-भिन्न होती है। आपकी इस विपत्ति को सोचते हुए मेरे चित्त को मनोव्यथा दुखाती है। किन्तु आपको तो जरा भी मालूम ही नहीं होता ॥३७॥

तदापदमेव श्लोकत्रयेणाह-

पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः।
तदद्यदर्भामधिशय्य स स्थलीं जहासि निद्रामशिवैः शिवारुतैः ।। ३८ ।।

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५९

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५९

पुरोति । यस्त्वं महाधनं बहुमूल्यं श्रेष्ठं । 'महाधनं महामूल्ये' इति विश्वः। शयनं शय्यामधिरूढःसन् । स्तुतयो गीतयश्च ता एव मङ्गलानि तैः करणैर्भूतैः पुरा विबोध्यसे वैतालिकैरिति शेषः पूर्वं बोधितः इत्यर्थः। 'परि लुङ् चास्मे' इति भूतार्थे लट् । स त्वमदभ्रदर्भां बहुकुशाम् । 'अस्त्री कुशं कुथो दर्भः' इति। 'अदभ्रं बहुलं बहु' इति चामरः । स्थलीमकृत्रिमभूमिम् । 'जानपद' इत्यादिना कृत्रिमार्थे ङीप् । एतेन दुःसहस्पर्शत्वमुक्तम् । 'अधिशीङ्स्यासां कर्म' इति कर्मत्वम् । अधिशय्य शयित्वा । 'अयङ् यि विङति' इत्ययङादेशः । अशिवैरमङ्गलैः शिवारुतैः क्रोष्टुवासितैः शिवा हरीतकी क्रोष्ट्री शमी नद्यामलक्युभे' इति वैजयन्ती निद्रां जहासि। अथेति शेषः॥३८॥

अन्वयः-पुरा, यः, (त्वं) महाधनं, शयनम्, अधिरूढः, (सन्) स्तुतिगीतिमङ्गलैः विबोध्यसे । सः त्वम्, अदभ्रां, स्थलीम्, अधिशय्य, अशिवैः, शिवारुतैः निद्रां जहासि ॥३८॥

सुधा-पुरा = पूर्वस्मिन् समये, राज्यारोहणावसरे इत्यर्थः। यः = महाराज्यो भवन्, त्वम् = युधिष्ठिरः, महाधनम् = बहुमूल्यं, शयनम् = पर्यङ्कम्, अधिरूढः = आरूढः शयितः सन्नित्यर्थः। स्तुतिगीतिमङ्गलैः = स्तोत्रगानादिमङ्गलैः, शब्दैर्वन्दिभिरिति शेषः। विबोध्यसे = विनिद्रो भाव्यसे, वैतालिकैरिति शेषः। स एवाधुना, त्वं = वनचरो भूत्वा, अदभ्रदर्भाम् = बहुकुशाम् कुशकण्टकव्याप्तामित्यर्थः। स्थलीम् = प्राकृतभूमिम्, अपरिष्कृतामित्यर्थः। अधिशय्य = शयित्वा, निद्रितो भूत्वा इत्यर्थः। अशिवैः = अमङ्गलैः, शिवारुतैः = शृगालीरवैः, शिवाया आर्तनादैरित्यर्थः। निद्राम् = शयनम्, जहासि ॥३८ ॥

समासः-स्तुतश्च गीतिश्च मङ्गलञ्च स्तुतिगीतिमङ्गलानि तैः स्तुतिगीतिमङ्गलैः। अदभ्रो दर्भो यस्यां सा अदभ्रदर्भा तामदभ्रदर्भाम्। शिवाया रुतानि शिवारुतानि तैः शिवारुतैः॥३८॥

व्याकरणम्-अधिरूढः = अधि+रुह+क्तः। विबोध्यसे = वि + बुध् + यक्+लट् । अधिशय्य = अधि + शीङ् + क्त्वा + ल्यप् । जहासि = हा + लट् ॥३८॥

वाच्यान्तरम्-पुरा महाधनं शयनमधिरूढं यं त्वां स्तुतिगीतिमङ्गलैः विबोधयन्ति तेनैवाधुना अदभ्रदर्भां स्थलीमधिरूह्य अशिवैः शिवारुतैर्निद्रा हीयते ॥३८॥

कोषः- 'शयनं मञ्चपर्यङ्कपल्ल्यङ्काः खट्वया समा' इत्यमरः। 'अदभ्रं बहुलं बहु' इत्यमरः। 'शिवा हरीतकी क्रोष्ट्री शमी नद्यामलक्युभे' इति वैजयन्ती ।

६०किरातार्जुनीयम्[प्रथमः

स्यान्निद्राशयनं स्वापः स्वप्नः संवेश इत्यपि' इत्यमरः। 'स्त्रीं शिवा भूरिमायगोमा- युमृगधूर्त्तकाः' इत्यमरः॥३८॥

सारार्थः- अहह! पुरा यस्त्वं बहुमूल्यपर्यङ्के शयितः सन् उषस्युपस्थिते बन्दिमागधविहितनुतिगीतवन्दनैर्निद्रात्यागं कृतवान्; स एवाधुना कुशकाशाङ्कुरकण्टक- प्रभृतिपदार्थदुर्गभूमौ विनाऽऽस्तरणं शयितः सन् शृगालस्वार्त्तनादैः शयनं मुञ्चसीति दशाव्यत्यासं नानुभवसि किम्? भ्रातॄणां क्लेशस्तु दूरे तावत्स्वदुःखमपि नानुभवितुमधुना शक्नोषि ॥३८॥

भाषार्थः- पहले (जब कि महाराज सिंहासन पर थे) आप कीमती बिछौने से सजे हुए पलंग पर सोते थे और प्रातःकाल में बन्दी-भाट-मागध आदि जनों के स्तोत्रपाठ-गीत गान, सुस्वर बाजे आदि मंगल शब्दों से जगते थे। वही आप अब कुश, काश तथा कण्टकों से छाई हुई जमीन में सोए हुए, सियारों के अमङ्गल शब्दों से नींद को तजते हैं । हा ! कितना अन्तर हो गया, क्या आप इस हालत को समझते नहीं है?॥३८॥

पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा ।
तदद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥३९॥

पुरेति । हे नृप, यदेतत्पुरोवर्ति वपुः पुरा द्विजातिशेषेण द्विजमुक्तावशिष्टेनान्ध- साऽन्नेन । 'भिक्सा स्त्री भक्तमन्धेऽन्नम्' इत्यमरः। रमणीयस्य भावो रमणीयकं मनोहरत्वमुपनीतं प्रापितम्। नयतेर्द्विकर्मकत्वात्प्रधाने कर्मणि क्तः। 'प्रधान-कर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति वचनात् । अद्य वन्यफलाशिनस्ते तव तद्वपुर्यशसा समं परमतिमात्रं कार्श्यं परैति प्राप्नोति । उभयमपि क्षीयत इत्यर्थः । अत्र सहोक्तिरलंकारः तदुक्तं काव्यप्रकाशे-'सा सहोक्तिः सहार्थस्य बलादेक-द्विवाचकम्' इति ॥३९॥

अन्वयः- हे नृप ! पुरा, यत्, एतत्, (वपुः) द्विजातिशेषेण, अन्धसा, रामणीयकम्, उपनीतम्, तत् अद्य वन्यफलाशिनः, ते, वपुः, यशसा, समं, परम्, कार्श्यम्, परैति ॥३९॥

सुधा- हे नृप = राजन् ! पुरा = पूर्वम्, सिंहासनारूढदशायामित्यर्थः। यत्, एतत् = पुरोवर्त्तमानम्, वपुरिति शेषः। द्विजातिशेषेण = ब्राह्मणभोजनावशेषेण, अन्धसा = अन्नेन, रामाणीयकम् = दर्शनीयताम्, उपनीतम् = प्रापितम्, तत्, अद्य = वनवाससमये, वन्यफलाशिनः = विपिनजातफलमूलभोजिनः, ते = तव,

सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। ६१

सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। ६१

भवतो युधिष्ठिरस्येत्यर्थः। वपुः = शरीरम्, यशसा = कीर्त्या, समम् = सह, परम् = अत्यधिकम्, कार्श्यम् = खिन्नत्वम्, परैति = प्राप्नोति ॥३९॥

समासः- 'द्वाभ्यां (जन्मसंस्काराभ्यां) जायन्ते इति द्विजातयः' तेभ्यः शेषमिति द्विजातिशेषं,तेन द्विजातिशेषेण । रमणीयस्य भावो रामणीयकम् । वने भवानि वन्यानि, वन्यानि फलानि वन्यफलानि, तानि अश्नाति इति वन्यफलाशी, तस्य वन्यफलाशिनः॥३९॥

**व्याकरणम्-**उपनीतम् = उप+नी+क्तः। परैति=परि+इण्+लट् ॥३९॥

**वाच्यान्तरम्-**हे नृप! पुरा यद् एतद् (वपुः) द्विजातिशेषेण अन्धसा रामणीयकमुपनीतवत्, तेन वन्यफलाशिनस्ते वपुषा यशसा समं परं कार्श्यं परेयते ॥३९॥

कोषः- 'स्यात्प्रबन्धे चिरातीते निकटामिके पुरा' इत्यमरः। 'नृपो भूपोऽवनीशश्च नृपतिर्भूपतिर्मतः' इति कोषः 'दण्डविप्राण्डजा द्विज' इत्यमरः। 'यशःकीर्त्तिः समज्ञा च' इत्यमरः। 'गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः' इत्यमरः। 'भिक्षा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिवः' इत्यमरः॥३९॥

**सारार्थः-**पूर्वस्मिन् समये यस्त्वं ब्राह्मणगणान् सादरं नवनवव्यञ्जनसामग्रीभिर्भोजयित्वाऽवशेषेण स्वयं भोजनं विधाय शरीरं पोषितवान् स एवाधुना वने वनजकन्दमूलफलानि भुञ्जानः, यथा यशः स्वल्पं कृतवान्, तथैव शरीरमपि क्षीणं कृतवानसि ॥३९॥

**भाषार्थः-**हे राजन् ! पहले जो आप ब्राह्मण तथा अभ्यागतों को खिलाकर बाकी अन्न से अपनी देह को पाल-पोस कर सुन्दर बनाये रहते थे वही आपने आजकल जंगल के फल कन्द-मूल भक्षण करके उस मनोहर देह को दुर्बल बना लिया और उसके साथ ही यश को कम कर चुके हैं ॥३९॥

अनारतं यौ मणिपीठशायिनावराजयद्राजशिरःस्रजां रजः।
निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥४०॥

अनारतमिति । अनारतमजस्रं मणिपीठशायिनौ मणिमयपादपीठस्थायिनौ यौचरणौ राजशिरःस्रजां नमन्नृपालमौलिस्रजां रजः परागोऽरञ्जयत्। तौ ते चरणौ, मृगैर्द्विजैश्च तपस्विभिरालूनशिखेषु छिन्नाग्रेषु बर्हिषां कुशानाम् । 'बर्हिः कुशहुताशयोः' इति विश्वः। वनेषु निषीदतस्तिष्ठतः॥४०॥

६२ किरातार्जुनीयम् [प्रथमः

अन्वयः- राजशिरः स्रजां, रजः, अनारतं, मणिपीठशायिनौ, यौ, अरञ्जयत् तौ, ते, चरणौ, मृगद्विजालूनशिखेषु, बर्हिषां, वनेषु निषीदतः॥४०॥

सुधा- राजशिरः स्रजां = प्रणन्महीपमौलिमाल्यानाम्, रजः = परागः (कर्त्ता), अनारतम् = सततम्, मणिपीठशायिनौ = रत्नमयपादपीठस्थायिनौ, यौ = (चरणौ) अरञ्जयत् = रञ्जितवत, तौ = पूर्वशोभितौ, ते = तव, चरणौ = पादौ, मृगद्विजालूनशिखेषु= हरिणविप्रलुञ्चिताग्रेषु, बर्हिषाम् = कुशानाम् वनेषु = विपिनेषु निषीदतः तिष्ठतः॥४०॥

समासः- मणिभिः खचितं पीठं मणिपीठम्, मणिपीठे शायते इति मणिपीठ-शायिनौ । राज्ञां शिरांसि, राजशिरांसि तेषां स्रजो यास्ता राजशिरःस्रजस्तासां राजशिरःस्रजाम् । मृगाश्च द्विजाश्च मृगद्विजास्तैरालुना शिखा येषां ते मृगद्विजालूनशिखेषु ॥३२॥

व्याकरणम्- अरञ्जयत् = रञ्ज्+णिच्+लङ् । निषीदतः=नि+षद्+लट् ॥४०॥

वाच्यान्तरम्- राजशिरःस्रजां रजसा अनारतं यौ मणिपीठशायिनौ, अरज्येताम्, ते चरणाभ्यां मृगद्विजालूनशिखेषु बर्हिषां वनेषु निषद्यते ॥४०॥

कोषः- 'सततानारताश्रान्तसन्तताविरतानिशम्' इत्यमरः। 'रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च' इत्यमरः। 'रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः' इत्यमरः। 'पादाग्रं प्रपदं पादः पदडङ्घ्रिश्चरणोऽस्त्रियाम्' इत्यमरः। 'दन्तविप्राण्डजा द्विजाः' इत्यमरः। 'बर्हिः कुशहुताशयोः' इति विश्वः ॥४०॥

सारार्थः- यस्य भवतः पादौ पूर्वं सदैव मणिखचितपादुकास्थायिनौ आसाते, तथा च सततमुपहारदानार्थमागतानां नमन्महीपतिमौलिमाल्यानां धूलिभिरपि भूषितौ चासाते, तावेव तव चरणौ साम्प्रतं हरिण-विप्र-लुञ्चिताग्राणां कुशानां घने वने भ्रमत इत्यहो कष्टावसरः॥४०॥

भाषार्थ- हर समय रत्नजटित पादुकाओं पर रखे हुए आपके पाँव नजराना दने के लिये आये हुए राजाओं के मस्तक की मालाओं के पराग से सुशोभित होते थे, वे ही आजकल हरिण और ब्राह्मणों से नीचे हुए कुशों के वन में चलते हैं ॥४०॥

ननु सर्वप्राणिसाधारण्यामापदि का परिदे परिदेवनेत्यत्राह---

द्विषन्निमित्ता यदियं दशा ततः समूलमुन्मूलयतीव मे मनः।
परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम् ॥४१॥

सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ६३

सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ६३

द्विषदिति । यद्यतः कारणादियं दशाऽवस्था । 'दशा वर्तविवस्थायाम्' इति विश्वः। द्विषन्तो निमित्तं यस्या सा । 'द्विषोऽमित्रे' इति शतृप्रत्ययः। अतो मे मनः समूलं साशयमुन्मूलयतीवोत्पाटयतीव । दैविकी त्वापन्न दुः खायेत्याह-परैरिति ।

परैः शत्रुभिर्पर्यासिताऽपर्यावतिता वीर्यसम्पद्येषां तेषां मानिनां पराभवो विद्ध्युत्सव खेति वैधम्र्येणार्थान्तरन्यासः। मानहानिर्दुःसहा, न त्वापदिति भावः॥४१॥

अन्वयः-यत्, इयं, दशा; द्विषन्निमित्ता (तवास्ति), ततः, समूलं, मे मनः, उन्मूलयति, इव । परैः अपर्यासितवीर्यसम्पदां, मानिनां, पराभवः, अपि, उत्सवः, एव (भवति) ॥४१॥

सुधा-यत् = यस्मात्कारणात्, इयम् = वर्तमाना, वनतासरूपेति शेषः। दशा= अवस्था, द्विषन्निमित्ता = शत्रुहेतुकी, तव युधिष्ठिरस्य वर्तते, तत् = तस्मात्, समूलं साश्रयम्, मे = मम, द्रौपद्या इति शेषः। मन = चित्तम्, उन्मूलयति = उत्पाटयति, इव । परैः = शत्रुभिः, अपर्यासितवीर्यसम्पदाम् = अपर्यावर्तितपौरुषसम्पत्तीनाम्, अनवरुद्धवि- क्रमाणादित्यर्थः। मानिनाम्=मनस्विनाम्, पराभवः=पराजय इत्यर्थः। अपि, उत्सवः = उद्धवः, हर्षोदयः एव भवति ॥४१॥

समासः-द्विषन्तः निमित्तं यस्याः सा द्विषन्निमित्ता । मूलेन सह वर्तते इति समूलम् । न पर्यासिता अपर्यासिता, अपर्यासिता, वीर्यसम्पद् येषां ते अपर्यासित-वीर्यसम्पदस्तषाम् पर्यासितवीर्यसम्पदाम् ॥४१॥

व्याकरणम्-उन्मूलयति = उत्+मूल+णिच्+लट् ॥४१॥

वाच्यान्तरम्-यद् अनया दशया द्विषन्निमिततया भूयते, ततः समूलेन मे मनसा उन्मूल्यते इव । परैरपर्यासितवीर्यसम्पदां मानिनां पराभवेनापि उत्सवेन एव भूयते ॥४१॥

कोषः-'रिपौ वैरियसपत्लारिद्विषद्वेषणदुर्हृदः' इत्यमरः। 'हेतुर्निमित्तकारण-बीजनिदानानि हेतौ स्यः' इति। 'दशा वर्तविवस्तायाम्' इति विश्वः। 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः। 'पराभवः परिभवः पराजय इतीर्यते'। 'अथ क्षण उद्धर्षो मह उद्धव उत्सवः इत्यमरः॥४१॥

सारार्थः-यदिदं वर्तमानावस्था दैवहेतुकी भवेत्तदा न तथा मनोहानिः। यतो रिपुकृताऽवस्थेयमस्ति, अतो मम मन उन्मूलितमिवालम्बमनुभूयते । न हि एवं दशायां मादृशानां जनानां प्राणा मनांसि तिष्ठन्ति, यन्मम मनो नो स्फुटति, प्राणा न बहिष्पर्वन्ति, तत्केवलं दुःखभोगहेतवे एवेति ज्ञायते । परन्तु भवन्तो मानिनः सन्ति, अतः शत्रुभिरतुलितविक्रमाणां भवतां दैवात्पराजयोपि हर्षोदय इव भवति ॥

६४किरातार्जुनीयम्[प्रथमः

भाषार्थः-आपकी यह हालत शत्रुओं के कारण है, इसी से मेरा मन उखड़ा हुआ सा जान पड़ता है। शत्रुओं से अपराजित पौरुषसंपत्ति वाले मानी जन के लिये पराभव भी उत्सव ही के समान मालूम पड़ता है ॥४१॥

विहाय शान्ति नृप धाम तत्पुनः प्रसीद सन्धेहि वधाय विद्विषाम्।
व्रजन्ति शत्रूनवधूय निःस्पृहा शमेन सिद्धिं मुनयो न भूभृतः॥४२॥

विहायेति। हे नृप, शान्तिं विहाय तत्प्रसिद्धं धाम तेजो विद्विषां वधाय पुनः सन्धेह्यङ्गीकुरु प्रसीद। प्रार्थनायां लोट्। ननु शमेन कार्यसिद्धौ किं क्रोधेनेत्याह- व्रजन्तीति। निःस्पृहा मुनयः शमेन क्रोधवर्जनेन सिद्धिं व्रजन्ति। भूभृतस्तु शत्रूनवधूय निर्जित्य। कैवल्यकार्यं तु शान्तिसाध्यमित्यर्थः॥४२॥

अन्वयः-हे नृप, शान्तिं, विहाय, विद्विषां, वधाय; पुनः, यत्, धाम, सन्धेहि, प्रसीद। निःस्पृहाः, मुनयः शत्रून्, अवधूय, शमेन, सिद्धिं व्रजन्ति। (किन्तु) भूभृतः (तथा) न ॥४२॥

सुधा-हे नृप = राजन्, युधिष्ठिर ! शान्तिम् = क्षमाम्, सकलापमानदुःख-सहनशीलरूपामित्यर्थः, विहाय = त्यक्त्वा, विद्विषाम् = वैरिणाम्, दुर्योधनादीना-मित्यर्थः वधाय = नाशाय, पुनः = भूयः, तत् = स्वकीयं पौर्विकमित्यर्थं। धाम = तेजः, सन्धेहि = अङ्गीकुरु, प्रसीद। यतो न हि शान्त्याशत्रून् विजित्य सिद्धिं लभते कश्चिदित्याह-निःस्पृहाः = निरीहा, आकामा इति यावत् । मुनयः = संयमिनः, शत्रून = कामादीन्, अवधूय = तिरस्कृत्य, दूरीकृत्य, शमेन = शान्त्या, सिद्धिम् = अभिलाषपूर्तिम्; व्रजन्ति = यान्ति । भूभृतः = राजानः तथा शान्त्या न सिद्धिं व्रजन्तीति ॥४२॥

समासः-निर्गता स्पृहा येषां ते निःस्पृहाः। भुवं बिभ्रतीति भूभृतः॥४२॥

व्याकरणम्-विहाय = वि+हा+क्त्वा+ल्यप्। सन्धेहि = सम्+धा +लोट् । प्रसीद = प्र+सद्+लोट्। अवधूय = अव+धूञ्+क्त्वा+ल्यप् । व्रजन्ति = व्रज + लट् ॥४२॥

वाच्यान्तरम्-हे नृप ! शान्तिं विहाय विद्विषां वधाय पुनः तद् धाम (त्वया) सन्धीयताम्, प्रसद्यताम्, निःस्पृहैर्मुनिभिः शत्रून् अवधूय शमेन सिद्धिर्व्रज्यते । किन्तु भूभृद्भिस्तथा न सिद्धिर्व्रज्यते ॥४२॥

कोषः-‘शमनन्तु शमः शान्तिः’ इत्यमरः। गृह-देह-त्विट्-प्रभावा धामानि' इत्यमरः॥४२॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ६५

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ६५

सारार्थः—यतो हि प्रजापालनं राजसं कर्म, तत्सात्विक्या धिया न सम्पद्यते, सात्विक्या धिया तु योगसिद्धिः क्रियते योगिभिः। तेन भवता मुनियोग्यां शान्तप्रकृतिं दूरीकृत्य, तत्काले शत्रुशातनाय राजसमुग्रं तेजः संगृह्यताम्, येन स्वहस्तभ्रष्टराज्याधिगमः पुनः सम्भवेत्। अन्यथैवं मुनिवृत्त्या वनवाससुखमन्तरा नान्यत्तत्राधिपत्यादि सौभाग्यं लभ्यते ॥४२॥

भाषार्थः—हे महाराज ! युधिष्ठिर, आप इस सहनशीलता को छोड़कर (जैसी महाराज लोगों की होती है) शत्रुओं का संहार करने के लिए उस तेज को फिर धारण कीजिए। आप जो समझते हैं कि 'ऐसी ही प्रकृति अच्छी है, इसी से सब होगा' सो कभी नहीं। ऐसी प्रकृति से मुनि लोग अपने काम क्रोध आदि शत्रु को दूर कर योगसिद्धि करते हैं। राजा महाराज तो केवल क्षात्रधर्म (उग्रधर्म) से ही शत्रुओं को परास्त करके सिद्धि पाते हैं ॥४२॥

पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारमीदृशम् ।
भवादृशाश्चेदधिकुर्वते रतिं निराश्रया हन्त हता मनस्विता ॥४३॥

पुर इति । किं च धामवतां तेजस्विनाम्। परनिकायसहिष्णूनामित्यर्थः। पुरः सरतीति पुरःसरा अग्रेसराः। 'पुरोऽग्रतोऽग्रेषु सर्तेः' इति टप्रत्ययः। यशोधना भवादृशाः सुदुःसहमतिदुःसहमीदृशमुक्तप्रकारं निकारं पराभवं प्राप्य रतिं सन्तोषमधिकुर्वते स्वीकुर्वते चेत्तर्हि । हन्त इति खेदे । मनस्विताऽभिमानता निराश्रया सती हता । तेजस्विजनैकशरणत्वान्मनस्विताया इत्यर्थः । अतःपराक्रमितव्यमिति भावः। यद्यप्यत्र प्रसहनस्यासङ्गतेरधिपूर्वात्करोतेः 'अधेः प्रसहने' इत्यात्मनेपदं न भवति। 'प्रसहनं परिभवः' इति काशिका। तथाऽप्यस्याकर्त्रीप्रायविवक्षायामेव प्रयोजकत्वात्कर्त्रीभिप्राये 'स्वरितञितः-' इत्यात्मनेपदं प्रसिद्धम् ॥४३॥

अन्वयः—चेत्, धामवतां, पुरःसराः, यशोधनाः, भवादृशाः, (जनाः) सुदुःसहम्, ईदृशं निकारम्, प्राप्य, रतिम् अधिकुर्वते (तदा) हन्त ! मनस्विता, निराश्रया, (सती) हता ॥४३॥

सुधाचेद = यदि, धामवताम् = तेजोवताम्, तेजस्विनामिति भावः। पुरःसराः = अग्रगण्याः, यशोधनाः = कीर्तिवित्ताः, भवादृशाः, युधिष्ठिरोपमा महामहिमवन्तो राजान इति शेषः। सुदुःसहम् = अतिदुःसहम्, ईदृशम् = एवं विधम्, निकारम् = शत्रुकृततिरस्कारमिति भावः। प्राप्य = संप्राप्य, रतिं = तुष्टिम्, अधिकुर्वते = अङ्गीकुर्वन्ति, तदा = अङ्गीकारे कृते, हन्त ! खेदे, मनस्विता = स्वातन्त्र्यता,

६६ किरातार्जुनीयम् [प्रथमः

निराश्रया = निराधारा, सती, हता = मृतेति । मनस्विजनाभावात्क्व तिष्ठतु वराको मनस्विताऽत आश्रयाभावाद्विनष्टेति भावः॥४३॥

समासः- पुरः सरन्तीति पुरःसरा। धाम विद्यते येषां ते धामवन्तः तेषां धामवताम्। यशांसि एव धनानि येषां ते यशोधनाः। निर्गत आश्रयो यस्याः सा निराश्रया। मनस्विनो भावो मनस्विता ॥४३॥

व्याकरणम्- प्राप्य = प्र+आप+क्त्वा+ल्यप् । अधिकुर्वते = अधि + कृ+लट्+झि । पुरःसराः = पुरः+सृ=टः। सुदुःसहम् = सु+दुस्+सह+णमुल् । हता = हन्+क्तः+टाप् ॥४३॥

वाच्यान्तरम्- चेद् धामवतां पुरःसरैः यशोधनै भवादृशैः ईदृशं सुदुःसहं निकारं प्राप्य रतिः अधिक्रियते तदा हन्त, मनस्वितया निराश्रितया हतया भूयते ॥४३॥

कोषः- 'पुरःसरः अग्रगण्या धुरीणाश्च पुरोगमाः' इति कोषः। 'निकारो हि तिरस्कारोऽपमानश्च पराभवः' इति ॥४३॥

सारार्थः- येषां नहि विद्यते तेजः, नहि यशो लब्धुमिच्छा वर्तते, ते यद्येवं कर्णे तूलं तैलं च निक्षिप्य 'यद्भवतु, तद्भवतु, यो हि यथा करिष्यति स तादृक् फलं भोक्ष्यति' इत्थं स्वमनसि धृतिं कृत्वा शत्रोरप्यपमानं सम्मानमिव अनुभवन्ति, तेषां तद्युक्तमेव यतस्ते तेजोविहीनाः, यशोधना नहि सन्ति भवन्तस्तु तथा न, किन्तु ये जगति तेजस्विनस्तेषामग्रगण्याः यशोधनाश्च सन्ति, तदा कथमेव प्रकृतिप्रतिकूलं विचारं पालयन्ति भवन्तः। एवं चेत्तदा मनस्विता भूमौ त्वाश्रयविहीना सती स्वर्गमेव गमिष्यति ॥४३॥

भाषार्थः- अगर तेजस्वियों के आगे गिनने लायक, यशरूपी धनवाले आप लोगों के ऐसे महापुरूष इस तरह अत्यन्त दुःसह दुःख पाकर भी चुपचाप बैठे रहेंगे तो हाय ! मनस्विता बेचारी मानो निरवलम्ब होकर खत्म हो गई ॥४३॥

अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् ।
विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥४४॥

अथेति । अथ पक्षान्तरे । निरस्तविक्रमः सन् । चिराय चिरकालेनापि क्षमां क्षान्तिमेव । 'क्षितिक्षान्त्योः क्षमा' इत्यमरः। सुखस्य साधनं पर्येष्वगच्छसि तर्हिलक्ष्मीपतिलक्ष्म राजचिह्नं कार्मुकं विहाय । धरतीति धरः पचाद्यच् । जटानां धरो जटाधरः सत्रिह वने । पावकं जुहुधि पावके होमं कुर्वित्यर्थः। अधिकरणे कर्मत्वोपचारः विरक्तस्य किं धनुषेत्यर्थः। 'हुझल्भ्यो हेर्धिः॥४४॥

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् । ६७

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् । ६७

अन्वयः-अथ, निरस्तविक्रमः (सन्) चिराय, सुखस्य, साधनं, क्षमाम्, एव, पर्येषि, (तदा) लक्ष्मीपतिलक्ष्म कार्मुकं, विहाय, जटाधरः, सन्, इह पावकं, जुहुधि ॥४४॥

सुधा-अथ = यदि, निरस्तविक्रमः = उत्साहहीनः, सन्, त्वम्, चिरायः = चिरकालम्, सुखस्य = आनन्दस्य, साधनम् = सहायकम्, क्षमन् = शान्तिम्, एव = निश्चयेन, पर्येषि = अवगच्छसि, जानासीति भावः। तदा, लक्ष्मीपतिलक्ष्म = राजचिह्नम्, कार्मुकम् = धनुः, विहाय = परित्यज्य, जटाधरः=सम्बद्धकेशधारी सन्, इह = वने, पावकम् = अग्निम्, जुहुधि = होमं, कुरु, तव कार्यविरुद्धं देहलक्षणमस्ति । लक्षणन्तु राजार्हम्, कार्यन्तु योगियोग्यम् ॥४४॥

समासः-निरस्तः विक्रमो येन सः, निरस्तविक्रमः। लक्ष्म्याःपतिः लक्ष्मीशस्तं, लक्ष्मीपतेः लक्ष्म यस्मिन् तत् लक्ष्मीपतिलक्ष्म । जटानां धरो घटाधरः॥४४॥

व्याकरणम्-पर्येषि=परि+इण्+लट्+सिप् । विहाय = वि+हा+क्त्वा+ल्यप् । जुहुधि = हु + लोट्-मध्यमपुरुषैकवचने ॥४४॥

वाच्यान्तरम्-अथ निरस्तविक्रमेण सता त्वया चिराय सुखस्य साधनम् क्षमा एव परीयते तदा लक्ष्मीपतिलक्ष्म कार्मुकं विहाय, जटाधरेण सता त्वया इह पावकः हूयताम् ॥४४॥

कोषः-'क्षितिक्षान्त्योः' क्षमा' इत्यमरः। 'चिराय चिररात्राय चिरस्याद्याः स्थिराथेकाः' इत्यमरः। 'स्यादानन्दथुरानन्दः' शर्मशातसुखानि च' इत्यमरः। 'शरासनं कार्मुकं च चापं धनुरपीर्यते' इति । 'आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः' इत्यमरः॥४४॥

सरार्थः-नो चेत् त्वं क्षमाऽवलम्बनेनैव स्वाभीष्टसंभविष्यतीति जानासि, तदा क्षमावलम्बनानुचितं क्षात्रतेजोधरोचितमिदं लुलद्धनुस्त्यज । प्रत्युत, क्षमावलम्बनौचितं जटां धृतवा, सर्वं राजचिह्नं विहाय वनेऽग्निहोत्री भव, नहि शान्तिमतो धनुर्ध्रियसे केनापीति ॥४४॥

भाषार्थः-अगर आप पराक्रम को दूर कर केवल शान्ति को ही सुख का साधन (सहायक) समझते हैं, तो आप राजचिह्नस्वरूप इस धनुष को दूर कर और जटा बढ़ा करके अग्नि में हवन कीजिये ॥४४॥

अथ समयोल्लङ्घनाद् बिभेषि तदपि न कश्चिदित्याह-

न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः।
अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि सन्धिदूषणानि ॥४५॥

६८किरातार्जुनीयम्[प्रथमः

नेति। परेषु शत्रुशु। निकृतिः परं प्रधानं येषु तेषु तथोक्तेष्वपकारतत्परेषु सत्सु भूरिधाम्नो महौजसः प्रतीकारक्षमस्य ते तव समयस्त्रयोदशसंवत्सरान् वने वत्स्या- मीत्येवंरूपा संवित्। 'समयाः' शपथाचारकालसिद्धान्तसंविदः' इत्यमरः। तस्य परिरक्षणं प्रतीक्षणं न क्षमं युक्तम्। 'युक्तं क्षमं शक्ते हिते त्रिषु' इत्यमरः। हि यस्माद्विजयार्थिनो विजिगीषवः क्षितीशा अरिषु विषये सोपधि सकपटं यथा तथा। कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः। सन्धिदूषणानि विदधति। केनचिद्व्याजेन दोषमापाद्य सन्धि दूषयन्ति। विघटयन्तीत्यर्थः। शक्तस्य हि विजिगीषोः सर्वथा कार्यसाधनं प्रधानमन्यत्समयरक्षणादिकमशक्तस्येति भावः। अर्थान्तरन्यासोऽलङ्कारः। पुष्पिताग्रा वृत्तम्॥४५॥

अन्वयः-निकृतिपरेषु, परेषु भूरिधाम्नः ते समयपरिरक्षणं न, क्षमम्। हि विजयार्थिनः, क्षितीशाः, अरिषुः, सोपधि, सन्धिदूषणानि, विदधति ॥४५॥

सुधा-निकृतिपरेषु = निराकरणतत्परेषु, अपकारकेष्वित्यर्थः। परेषु = शत्रुपु, भूरिधाम्नः = बहुतेजसः, ते = तव, युधिष्ठिरस्येत्यर्थः। समयपरिरक्षणं = कालप्र- तीक्षाकरणम्, त्रयोदशवर्षाणि घने वत्स्यामीत्येवं रूपमित्यर्थः। न = नहि, क्षमम् = युक्तम्, नोचितमित्यर्थः। हि = यतः, यस्मात्, विजयार्थिनः = शत्रुपरजयकार्मुकाः, क्षितीशाः मेदिनीपतयः, राजान इत्यर्थः। अरिषु = शत्रुपु, सोपधि = सव्याजम्, छलेन सहितमिति यावत्; सन्धिदूषणानि = मैत्रीच्छिद्राणि, विदधति = कुर्वन्ति, केनापि कपटेन सन्धि भेदयन्तीति भावः॥४५॥

समासः-निकृतिः परं येषां ते निकृतिपराः, तेषुः निकृतिपरेषु। भूरि धाम यस्य तस्य भूरिधाम्नः। समयस्य परिरक्षणं समयपरिरक्षणम्। विजयस्यार्थः प्रयोजनं अस्त्येषां ते विजयार्थिनः क्षितेःईशाः क्षितीशाः। सन्धेर्दूषणानि सन्धिदूषणानि, तानि ॥४५॥

व्याकरणम्-विदधति=वि+धा+लट्+झि ॥४५॥

वाच्यान्तरम्-निकृतिपरेषु परेषु भूरिधाम्नः ते तव समयपरिरक्षणेन नहि क्षमेण भूयते। हि विजयार्थिभिः क्षितीशैररिषु सोपधि सन्धिदूषणानि विधीयन्ते ॥४५॥

कोषः-'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे।' 'कुसृतिर्निकृतिः शाठ्यम्' इति चामरः। 'युक्तंक्षमं शक्ते हिते त्रिषु' इत्यमरः। 'समयाः शपथाचारकाल सिद्धान्तसंविदः' इत्यमरः। 'पुरुहू पुरू भूयिष्ठं स्फारं भूयश्च भूरि च' इत्यमरः॥४५॥

सारार्थः-द्यूतपराजितस्य भवतः त्रयोदशवर्षात्मके काले वने निवासस्तदैवोचितो, यदि स दुर्योधनो न्यायवेता, परन्तु स च महान् कपटपटुः, सततं भवतां छिद्रमन्विष्यन्

सर्गः १ ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ६१

सर्गः १ ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ६१

हन्तुं यतते। एवम्भूते शत्रौ कालप्रतीक्षाकरणं महदनुचितम्, यदि कोऽपि दुर्बलो वैरिकृतापराधप्रतीकारेक्षमः शत्रुत: शङ्कितो भवेत् तस्योचितमेव, भवन्तस्तु तत्प्रतीकारकरणसमर्थाः सन्ति । ईदृशदशायां कपटिषु वैरिषु कपटमेव विधाय सहसा सन्धिर्भेद्व्यः। 'शठे शाठ्यं समाचरेत्' ॥४५॥

**भाषार्थः—**सदा कपट (दगा) करने वाले दुश्मनों से समय की प्रतीक्षा करते रहना ठीक नहीं; क्योंकि जय की इच्छा रखने वाले राजा लोग छल से दुश्मनों की सन्धि तोड़कर सत्यानाश करते हैं। आप तो निश्चिन्त हैं, यह ठीक नहीं है ॥४५॥

उक्तमर्थमाशीर्वादपूर्वकमुपसंहरति—

विधिसमयनियोगाद्दीप्तिसंहारजिह्मं शिथिलवसुमगाधे मग्नमापत्पयोधौ। रिपुतिमिरमुदस्योदीयमानंदिनादौ दिनकृत मिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये प्रथम सर्गः ॥१॥

**--**

विधीति । विधिर्दैवम् । 'विधिर्विधाने दैवेच' इत्यमरः। समयः कालस्तयोर्नि- योगात्रियमनाद्धेतोः। तयोर्दुरतिक्रमत्वादिति भावः। अगाधे दुस्तरे । आपत्पयोधिरिवेत्यु- पमितसमासः। दिनकृतमिवेति । वक्ष्यमाणानुसारात्तस्मिन्नापत्पयोधौ भग्नम्। सूर्योऽपि सायं सागरे मज्जति परेद्युरुन्मज्जतीत्यागमः। दीप्तिः प्रताप आतपश्च तस्याः संहारेण जिह्ममप्रसन्नम् । शिथिलवसुं शिथिलधनमन्यत्र शिथिलरश्मिम् । 'वसुर्देवेऽग्रौ रश्मौ न वसु तोये धने मणौ' इति वैजयन्ती । 'शिथिलबलम्' इति पाठे तूभयत्रापि शिथिल- शक्तिकमित्यर्थः। रिपुस्तिमिरमिवेति रिपुतिमिरमुदस्य निरस्योदीयमानमुद्यन्तम् । 'इण् गतौ' इति धातो दैवादिकात्कर्तरिशानच् । त्वां दिनादौ दिनकृतमिव लक्ष्मीर्भूयः समभ्येतु भजतु । 'आशिषि लिङ्लोटौ' इति लाट् । चमत्कारकारितया मङ्गलाचरण- रूपतया च सर्गान्त्यश्लोकेषु लक्ष्मीशब्दप्रयोगः। यथाह—

भगवान्भाष्यकारः—'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषकाण्यायुष्मत्पुरुषकाणि च भवन्त्यध्येतारश्च प्रवक्तारो भवन्ति' इति पूर्णोपमेयम् । मालिनी वृत्तम् । सर्गान्तत्वाद्वृत्तभेदः। यथाह दण्डी 'सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः । सर्वत्र भिन्नवृत्तान्तरुपेतं लोकरञ्जनम् ॥' इति ।

अथ कविः काव्यवर्णनीयाख्यानपूर्वकं सर्गपरिसमाप्तिं कथयति-इतीत्यादि ।

७०किरातार्जुनीयम्[प्रथमः

इतिशब्दः परिसमाप्तौ । भारविकृताविति कविनामाकथनम् । महाकाव्य इति महच्छब्देन लक्षणसम्पत्तिः सूचिता । किरातार्जुनीयः इति काव्यवर्णनीययोः कथनम् ।

प्रथमः सर्गः समाप्त इति शेषः। एवमुत्तरत्रापि द्रष्टव्यम् । किराताजुनावधिकृत्य कृतोग्रन्थः किरातार्जुनीयम् । 'शिशुक्रन्दयमसभाद्वन्द्वेन्द्रजननादिभ्यश्छः' इति द्वन्द्वाच्छ-प्रत्ययः। राघवपाण्डवीयमितिवत् । तथा ह्यर्जुन एवात्र नायकः। किरातास्तु तदुत्कर्षाय प्रतिभटतया वर्णितः। यथाह दण्डी 'वंशवीर्यप्रतापादि वर्णयित्वा रिपोरपि तज्जयान्नय-कोत्कर्ष कथनं च धिनोति नः' इति । अथात्र सङ्ग्रहः। 'नेतामध्यमपाण्डवो भगवतो नारायणस्यांशजस्तस्योत्कर्षकृते त्ववर्णयततरां दिव्यः किरातः पुनः। शृङ्गारादिरसोऽङ्गमत्र विजयी वीरः प्रधानो रसः शैलाद्यानि च वर्णितानि बहुशो दिव्यास्त्रलाभः। फलम्' इति ।।४६।।

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीय काव्य-व्याख्यायां घण्टापथसमाख्यायां प्रथमः सर्गः समाप्तः॥१॥

अन्वयः-लक्ष्मी (कर्त्री) विधिसमयनियोगात् दीप्तिसंहारजिह्मम्, शिथिलवसुम्, अगाधे, आपत्पयोधौ, मग्नम्, दिनादौ रिपुतिमिरम्, उदस्य उदीयमानं, दिनकृतम्, इव, त्वाम्, भूयः समभ्येतु ।।४६।।

सुधा-लक्ष्मीः = राजलक्ष्मीः, पक्षान्तरे, तेजः श्री विधिसमयनियोगात् = दैवकालानुरोधात् दुर्भाग्यदुःसमयप्रभावादित्यर्थः। वा दैवसमयानतिक्रमणात्, दीप्तिसंहारजिह्मम्=कान्तिहानिखिन्नम् पक्षान्तरे तेजोविनाशशिथिलम् । शिथिलवसुम्=मन्दतेजसम् । पक्षान्तरे क्षीणधनम्, अगाधे=अतलस्पर्शे, दुस्तरे इत्यर्थः। पक्षान्तरे अपरिमेये, आपत्पयोधौ = विपत्समुदे, पक्षान्तरे विपद्रूपकेऽर्णवे, मग्नम् = निमज्जमानम् दिनादौ = प्रभाते, पक्षान्तरे शुभसमयसमागमे, रिपुतिमिरम् = वैरीरूपान्धकारम्, उदस्य = निरस्य, संहृत्येत्यर्थः। उदीयमानम् = उद्यन्तम्, पक्षान्तरे उन्नत्यभिमुख- गमनशीलम् दिनकृतम् = सूर्यम्, इव त्वाम् = भवन्तम् युधिष्ठिरम्, भूयः = पुनः, समभ्येतु = भजतु, गच्छतु इति भावः॥४६॥

समासः--विधिश्च समयश्च विधिसमयौ, तयोः विधिसमयोनियोगः, विधिसमयनियोगस्तस्माद्विधिसमयनियोगात् । वा विधेः समयः (सिद्धान्तः) विधिसमयस्तस्य नियोगस्तस्मात् । दीप्तेः संहारो दीप्तिसंहारस्तेन जिह्म इति दीप्तिसंहारजिह्मस्तं दीप्तिसंहारजिह्मम् । शिथिलं वसु यस्य सः शिथिलवसुस्तं शिथिलवसुम् । आपत्

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ७१

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ७१

पयोधिरिवेत्यापत्पयोधिः तस्मिन् आपत्पयोधौ। रिपुस्तिमिरमिव इति रिपुतिमिरम्। दिनस्यादिर्दिनादिस्तस्मिन् दिनादौ ॥४६॥

व्याकरणम्—मग्नम् = मसज् + क्तः। उदस्य = उत् + असु + क्त्वा + ल्यप् । उदीयमानम् = उदीयतेः शानच् । समभ्येतु = सम् + अभि + इण् + लोट् ॥४६॥

वाच्यान्तरम्—लक्ष्म्या विधिसमयनियोगात् दीप्तिसंहारजिह्मः शिथिलवसुः, अगाधे आपत्पयोधौ मग्नः, रिपुतिमिरमुदस्य दिनादावुदीयमानस्त्वं दिनकृत् इव, समभीयस्व ॥४६॥

कोषः—‘विधिर्दैवे विधाने च’ इत्यमरः। ‘वगुर्देवेऽग्नौ रश्मौ च वसु तोये घने मणौ’ इति वैजयन्ती। ‘अगाधमतलस्पर्शं’ इत्यमरः। स्युः प्रभा रुग्रुचिस्त्विड्भाभा- श्छविद्युतिदीप्तयः’ इत्यमरः। ‘अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरः तमः’ इत्यमरः ॥४६॥

सारार्थः—यथा सन्ध्यासमये समागते सूर्यो दैवसमयप्रभावेण किरणसंहरणकारणेन खिन्नः समुद्रे निमग्नः, तेजोविहीनो भवति, यथा च प्रभाते उपस्थितेऽन्धकारं संहृत्योदयं प्राप्नोति तथैव द्यूतक्रीडावसाने दुर्देवकालानुसारेण संहृतसर्वस्वः, कान्तिहीनः अपारविपत्समुद्रेऽधुनावधि निमग्नोऽसि। अतः परं सुदिने प्राप्ते झटिति दुर्योधन- प्रभृतिवैरिगणान् संहृत्य स्वकीयपूर्वजाश्रितां राजलक्ष्मीं लभस्व ॥

भाषार्थः—जैसे विधि और समय के प्रभाव से कान्ति को नाश होने के कारण खिन्न और किरणहीन, शाम को विपत्तिरूप महासागर में डूबकर, सुबह फिर अन्धकाररूपी दुश्मन को चौपट कर उदय होते हुए सूर्य को शोभा अपनाती है, वैसे ही पहले जुआ में दैव और काल की प्रेरणा में अपने विचार और तेज के अभाव से दुर्दशा को प्राप्त आपदरूप महार्णव में डूबे हुये फिर भी अपने दुश्मनों को मारकर अभ्युदय की इच्छा रखने वाले आपको राजलक्ष्मी अपनावे ॥४६॥

सुधा—इतिशब्दः सर्गपरिसमाप्तिसूचकः भारविकृतावनेन ग्रन्थकारेण स्वना- मोल्लेखनं कृतं महाकाव्यमितिशब्देन इदं प्रारभ्यमानं महद्भविष्यति। किरातार्जुनीयः इति-काव्यवर्णनीययोः पात्रयोः प्रधानतया नामपरिचयः। शेषं सुगमम्। किरातार्जुनावधि-


( १ ) संद्वंश क्षत्रियो वापि धीरोदात्तगुणान्वितः।
शृङ्गारवीरशान्तानामेकोऽङ्गीरस इष्यते क्वचिन्निन्दा खलादीनां सतां च गुणकीर्त्तनम् ॥
नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह । नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते ॥

७२किरातार्जुनीयम्[प्रथमः

कृत्य कृतो ग्रन्थः किरातार्जुनीयम् । प्रतिसर्गान्तेसर्गान्तःपातिपद्येभ्यो भिन्नपद्यस्य निवेशः काव्यलक्षणसूचकः यथोक्तम् 'एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः। पद्यमेतन्मालिनीनामकम्, यथोक्तं छन्दोमञ्जर्यान् 'ननमयययुतेयं मालिनीभोगिलोकैः।' अनेन लक्षणमुदाहरणञ्चैतदुभयमपि तत्र निगदितम् । तत्र तावद् 'गण' शब्देन वर्णत्रयं गृह्यते, यथा-विमलं कमलं बराकी सिंहनी, जरठो वृषभ इत्यादि ॥ अत्र वर्णत्रये यदि सर्वं गुरुवस्तदा 'मगणः' प्रोच्यते, सा यथा, राजानः, देवेशाः, गौरीशाः, मान्धाता । तत्र गुरूबाधकम् = ऽ, लघुबाधकम् = । मगणः = ऽऽऽ, यथा कालिन्दी, यत्रादिमो लघुर्मध्यान्त्यौ गुरू, स यगणः = । ऽऽ, इत्यादि, एषां सोदाहरणनामानि प्रदर्श्यन्ते--

गणनामलक्षणंउदाहरणम्
मगणःऽऽऽमान्धाता
यगणः।ऽऽभवानी, हिमानी, सुशीला, सलीला,
रगणःऽ।ऽशैलजा, कालिका, तारिणी, जानकी,
सगणः।।ऽगिरिजा, दयिता, विधिना, मुनिना
तगणःऽऽ।देवेश, गौरिश,
जगणः।ऽ।कदापि, गणेश महेश, उमेश,
भगणःऽ।।पादप, नारद, यादव, भारत,
नगणः।।।नयन, कमल, अमल, परम,

तत्र पूर्वोक्तलक्षणेन यत्र पद्यपादे नयनमयया गणः, तयाऽष्टभिस्ततः सप्तभिर्वर्णविश्रामस्तन्मालिनीसंज्ञम् ।

यथाऽत्र तल्लक्षणे एव गणान् विरच्य प्रदर्श्यते--

। । ।। । ।ऽ ऽ ऽ। ऽ ऽ। ऽ ऽ

'न न म य य युतेयं मालिनी भोगिलोकैः' स्वरूपदर्शनेन गणविन्यासः स्फुटः। तथा च 'ननमयययुतेयम्' एतावन्तो वर्णा एकहेल्योच्चार्यन्ते, तदा तदन्ते विश्राम उचित एव । ततः पादान्तं यावदेकहेलयाऽष्टभिः पूर्वं पश्चात्सप्तभिर्विश्राम इति स्फुटमस्ति । एवं सर्वेषा छन्दसां लक्षणं ज्ञातव्यमिति ॥४६॥

श्रीगङ्गाधरशर्मणा विरचितया सुधाभिधया व्याख्यया विभूषिते
किरातार्जुनीयकाव्ये प्रथमः सर्गः समाप्तः।

अथ द्वितीयः सर्गः

विहितां प्रियया मनःप्रियामथ निश्चित्य गिरं गरीयसीम् ।
उपपत्तिमदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः ॥ १ ॥

विहितामिति—अथ वृकोदरो भीमः प्रियया द्रौपद्या । प्रियाग्रहणमस्या हितोपदेशतात्पर्यसूचनार्थम् । विहिताम् अभिहितामित्यर्थः । विपूर्वस्य दधातेः क्रियासामान्यवाचिनो योग्यविशेषपर्यवसानात् । मनःप्रियामभिमतार्थयोगान्मनोहराम् । विशेषणद्वयेनापि गिरो ग्राह्यत्वमुक्तम् । गिरं गरीयसीं सारवत्तरां निश्चित्य नृपं धर्मराजमुपपत्तिमद्युक्तियुक्तमूर्जिताश्रयमुदारार्थं वचनमूचे उक्तवान् । कर्तरि लिट् । ब्रुवो वचिरादेशः 'ब्रुविशासु—' इत्यादिना द्विकर्मकत्वम् । 'अकथितं च' इति नृपस्य कर्मत्वम् ॥ १ ॥

अन्वयः—अथ, वृकोदरः, प्रियया, विहिताम्, मनःप्रियाम्, गरीयसीम्, निश्चित्य, नृपम्, उपपत्तिमत्, ऊर्जिताश्रयम्, वचनम्, ऊचे ॥ १ ॥

सुधा—अथ = द्रौपदीवाक्यपर्य्यन्तरम्, वृकोदरः = भीमः, द्वितीयपाण्डव इति यावत् । प्रियया = दयितया, द्रौपद्येति भावः । अत्र प्रियेति पदं मनोनुकूलकर्त्तव्यकारित्वं तस्याः सूचयति । अर्थात् द्रौपदीवाक्यं श्रुत्वा भीमोऽतिसन्तुष्ट इति भावः । विहिताम् = उक्ताम्, प्रतिपादिताम् इति यावत् । मनःप्रियाम् = मनोहरम्, गिरम् = वाणीम्, गरीयसीम् = अर्थबहुलाम्, निश्चित्य = स्थिरीकृत्य, नृपम् = युधिष्ठिरम् = उपपत्तिमत् = युक्तियुक्तम्, ऊर्जिताश्रयम् = उदारार्थम्, वीररसान्वितमित्यर्थः । वचनम् = वचः ऊचे = उक्तवान् । अस्मिन् सर्गे वियोगिनीनाम् वृत्तम् । तल्लक्षणञ्च 'विषमे यदि सौ जगौ समे सभराः स्यात् तदा वियोगिनी' इति । कविवरैराविप्रकटनमेतत्तदृष्ट्यैव क्रियते-यथा कुमारे रतिविलापः, रघुवंशे-अजविलाप आदि ॥

समासः—मनसः प्रिया मनःप्रिया, तां मनःप्रियाम् ॥ १ ॥

व्याकरणम्—विहिताम् = वि + धा + क्तः । निश्चित्य = निर् + चि + क्त्वा + ल्यप् । ऊचे = लिट् ॥ १ ॥

वाच्यान्तरम्—अथ, वृकोदरेण, प्रियया, विहिताम्, मनःप्रियाम्, गिरम्, गरीयसीम्, निश्चित्य, उपपत्तिमत्, ऊर्जिताश्रयम्, वचनम्, नृपः ऊचे ॥ १ ॥

कोशः—'ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती' इत्यमरः । 'व्याहार उक्तित्लपितं भाषितं वचनं वचः' इत्यमरः ॥ १ ॥

सारार्थः—अथ भीमसेनः स्वसम्मान्यनुकूले द्रौपदीवचनं विचार्य जातोत्साहः सन् युक्तं वचनं युधिष्ठिरं प्रत्यूचे ॥ १ ॥

साधार्थः—द्रौपदी की बात अपनी रुचि के अनुकूल सुनकर भीमसेन बड़े भाई (युधिष्ठिर) से उचित और वीररस-युक्त बातें कहने लगे ।

६६ किरातार्जुनीयम्। [द्वितीयः

किं तद्वचनं तदाह—

यदवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा।
अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥ २ ॥

यदिति। मानिनी क्षत्रियकुलाभिमानवती द्रौपदी स्नेहमयेन स्नेहप्रचुरेण। ‘तत्प्रकृतवचने मयट्’ चक्षुषा ज्ञानचक्षुषा। एतेनाप्तत्वमुक्तम्। परितो वीक्ष्य समन्ततो विविच्य यद्वचनमवोचत ब्रुवो वक्तेर्वा लुङ्। ‘वच उम्’ इत्युमागमः। वागधिपस्य बृहस्पतेरपि दुर्वचं वक्तुमशक्यम्। शेषे षष्ठीयम्, न कृद्योगलक्षणा। अतो ‘न लोक—’ इत्यादिना षष्ठीप्रतिषेधो नास्ति। तद्वचनं विस्मयं विदधीत। सर्वस्यापीति शेषः अथवा वागधिपस्यापि विस्मयं विदधीतेति सम्बन्धः। दुर्वचम्। केनापीति शेषः। यतः क्षोदामपि शास्त्रमनुगच्छि हितं चानुबध्नाति। अतो विस्मयकरं ग्राह्यं चैतद्वचनमिति तात्पर्यार्थः ॥ २ ॥

अन्वयः—मानिनी, स्नेहमयेन, चक्षुषा, परितः वीक्ष्य, यत्, अवोचत, वागधिपस्य, अपि दुर्वचं, तत्, वचनं, विस्मयं विदधीतेति ॥ २ ॥

सुधा—मानिनी = मनस्विनी, निजकुलाभिमानवतीत्यर्थः द्रौपदीति शेषः। स्नेहमयेन = प्रेमपूर्णेन; चक्षुषा = ज्ञाननयनेन, परितः = चतुर्दिक्षु, वीक्ष्य = आलोच्य; यत् = यादृक्, वचनमिति शेषः। अवोचत = उक्तवती, तत् = पूर्वप्रसंगवितथम्, वागधिपस्य = वागीशस्य, बृहस्पतेरित्यर्थः। अपि, दुर्वचनम् = दुष्प्रयोज्यम्, वक्तुमशक्यमित्यर्थः। अन्यस्य कथेव का, एवम्भूतं, वचनम् = वाक्यं, विस्मयम् = आश्चर्यम्, विदधीत = कुर्यात्। वा तद्वचनं वागधिपस्यापि विस्मयं विदधीत इति योज्यम् ॥ २ ॥

समासः—अधिकृत्य पातीति अधिपः। वाचामधिपो वागधिपस्तस्य वागधिपस्य।

व्याकरणम्—वीक्ष्य = वि + ईक्ष् + क्त्वा + ल्यप्। अवोचत = अ + वच् = लुङ्, विदधीत = वि + धा + विधिलिङ् ॥ २ ॥

वाच्यान्तरम्—मानिन्या (द्रौपद्या) स्नेहमयेन चक्षुषा वीक्ष्य यदवोचि, तेन दुर्वचेन वचनेन वागधिपस्यापि विस्मयो विधीयेत ॥ २ ॥

कोषः—‘समन्तस्तु परितः सर्वतो दिग्विगित्यपि’ इत्यमरः। ‘लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी’ इत्यमरः। ‘विस्मयोऽद्भुतमाश्चर्यं चित्रम्’ इत्यमरः ॥ २ ॥

सारार्थः—कुलाभिमानवती द्रौपदी पूर्वापरं सर्वं वृत्तान्तं स्नेहदृष्टया समालोच्य बृहस्पतेरपि महाश्चर्यकरं वचनं युधिष्ठिरं प्रति कथितवतीति ॥ २ ॥

भाषार्थः—अपने वंश की लाज रखने वाली द्रौपदी ने प्रेमपूर्वक सब बातों का विचार करके सबको आश्चर्य में डाल देनेवाली जो बात कही है वह बृहस्पति को भी विस्मित कर देगी या वह बात बृहस्पति भी प्रयोग न कर सकेंगे ॥ २ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ६३

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ६३

विस्मयकरत्वे हेतुमाह—

विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः ।
स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः ॥ ३ ॥

विषम इति । विषमोऽपि दुर्बोधोऽपि । अन्यत्र दुष्प्रवेशोऽपि । नयो नीतिशास्त्रम् । पयसामाशयो हृद इव । कृततीर्थः कृताभ्यासोपायः सन् । ‘तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमान्त्रिषु’ इति विश्वः । अन्यत्र कृतजलावतारः सन् । ‘तीर्थं योनौ जलावसारे च’ इति हलायुधः । विगाह्यते गृह्यते प्रविश्यते वा। किन्तु तत्र नये जलाशये च स तादृशः पुरुषो विशेषदुर्लभोऽत्यन्तदुर्लभो यः कृत्यं सन्धिविग्रहादि कार्यं स्नानादिकं च तस्य वर्त्म सत्साधु देशकालाद्यविरुद्धं यथा तथा। अन्यत्र गर्तग्राहपाषाणादिरहितम् । तथा चयोपन्यस्यत्युदाहरति । ‘उपन्यासस्तु वाङ्मुखम्’ । ‘उपोद्घात उदाहारः’ । यथा केचित्कृततीर्थे पयसि गम्भीरेऽपि प्रवेष्टारः सन्ति तीर्थकरस्तु विरलः । तद्वन्नीतावपि गूढमपि तत्त्वं वक्तरि सति बोद्धारः सन्ति । वक्ता तु न सुलभा। अत इयमपठितापि साधु वक्तीति युज्यते विस्मय इत्यर्थः ॥ ३ ॥

अन्वयः—विषमः, अपि, नयः, पयसाम्, आशयः इव कृततीर्थः (सन्), विगाह्यते । (किन्तु) तत्र, तु, यः, सत्, कृत्यवर्त्म, उपन्यस्यति, सः, विशेषदुर्लभः अस्ति ॥ ३ ॥

सुधा-विषमः=दुर्ज्ञेयः, जलाशयपक्षे=दुष्प्रवेशः, अपि, नयः=नीतिशास्त्रम्, पयसाम्=जलानाम्, आशयः=ह्रदः, जलाशय इत्यर्थः । इव, कृततीर्थः=कृताभ्यासादिप्रपञ्चः सन् वा पक्षान्तरे—कृतजलावतारः सन्, विगाह्यते=गृह्यते, अन्यत्र, प्रविश्यते । तत्र = नये, वा जलाशये, यः=कश्चित् जनः, कृत्यवर्त्म=कार्यमार्गम्, राजनीतिः कृत्यं सन्धिविग्रहायानादि, पक्षे जलाशयस्य कृत्यम् = सुखावगाहनाय सोपानादिविधानम्, उपन्यस्यति=उपदिशति, नीतिपक्षे, निवेशयति जलाशयपक्षे, सः=तादृशः, जनः=लोकः, विशेषदुर्लभः=अत्यन्तदुर्लभः, भवतीति शेषः । अर्थात् यथा सोपानादिप्रवेशसुकरे जलाशये प्रवेष्टारोऽनेके भवन्ति, परन्त्वगाधजले सर्वप्रथमं सोपानादिविधाता जनोऽतिदुर्लभस्तथैव नीतिशास्त्रे प्रवृद्धेविसज्ज्ञानारो भवितुमर्हन्ति बहवः किन्तु पूर्वं नीतिनिर्माता वक्ता सहस्रेष्वपि प्राप्यः कश्चित् । सतो द्रौपद्या यदुक्तं तदभिनव्यं परिणामसुखं साधु वक्ता तवत्सदृशं प्राज्ञस्य नहि शोधिवा हेयमित्यर्थः ॥ ३ ॥

समासः—कृते विहितम् तीर्थम् यस्मिन् सः कृततीर्थः । विशेषेण दुर्लभः इति विशेषदुर्लभः । कृत्यवर्त्म ॥ ३ ॥

रूपाख्यानम्—उपन्यस्यति = उप + नि + अस् + लट् । विगाह्यते = वि + गाह् + लट् ॥

६८ | किरातार्जुनीयम् । | [ द्वितीयः

वाच्यान्तरम्—लोका विषमपि नय कृततीर्थं पयसामाशयमिव विगाहन्ते, तद्येन सात्कृत्यर्थम् उपन्यस्यते तेन विशेषदुर्लभेन भूयते ॥ ३ ॥

कोषः—'तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्याय मन्त्रिषु' इति विश्वः। 'तीर्थं तोये जलावतारे च' इति हलायुधः। 'अभिप्रायश्छन्द आशयः' इत्यमरः। 'अयनं वर्त्म, मार्गोध्वपन्थानः पदवी सृतिः' इत्यमरः ॥ ३ ॥

सारार्थः—यथा प्राकृतो जलाशयः क्व नीचं क्षोदवं, क्व पिच्छिलमस्तीति विचारेण दुरवगाह एव नहि, प्रत्युत दुष्प्रवेशोऽपि भवति, तत्र यदि कश्चित्कथामिज्ञो जनः सुखप्रवेशाय सोपानादिक्रमान्निम्नावतरणं निर्माति, तदा स एव सहजेनाव्येकोऽतिसुलभः परन्तु सम्पत्रे सोपानादावुपाये काणकुब्जान्धा अपि शनैः प्रविशन्त्येव; न दुर्लभा भवन्ति । एवं दुवैवदुर्वशाधीनस्य न किमपि संसारक्षेत्रे स्फुरति, इति केनापिउपदेशकेन कथिते नीतिमार्गे पश्चाद्विज्ञोऽस्यै करोत्यपि कमप्युपायं तदा न तस्य तन्माहात्म्यं, किन्तु येनोपदिष्टं तन्नीतिविधानं स एवाति दुर्लभः। अर्थात्वेनाप्यपाठिताऽपि द्रौपदी पठितेवापूर्वां नीतिरीतिमुपदिशति, एतन्महदाश्चर्यकरम् ॥

सारार्थः—जैसे गहरा और कीचड़ वगैरह से घुसने के लायक में जो जलाशय नहीं है, उसमें अगर कोई सीढ़ी वगैरह उतरने के लिये बना दे, तो उसमें स्नानाचे घुसने वाले को कुछ भी तकलीफ नहीं होती। ऐसी ही जो नीति समझने के लायक भी नहीं है, अगर वह किसी अध्यापक से पढ़कर याद कर ली गई हो तो समझ सकते हैं लेकिन जलाशय में जैसे सीढ़ी बनानेवाला मिलना मुश्किल है, ऐसे ही कठिन राजनीति समझाने वाले भी कम हैं। लेकिन बिना पढ़ाई गई भी द्रौपदी जो कह गई है, वह बड़ा ही आश्चर्यजनक है।

अथ ग्राह्यत्वे हेतुमाह—

परिणामसुखे गरीयसि व्यथकेऽस्मिन्वचसि क्षतौजसाम्।
अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः॥ ४ ॥

परिणामेति—परिणामः फलकालः परिपाकावस्था च तत्र सुखे हिते। 'स्वस्तं चाय त्रिषु मध्ये पापं पुण्यं सुखादि च' इति सुखशब्दस्य विशेष्यलिङ्गत्वम्। गरीयसि भूयिष्ठे श्रेष्ठे च। क्षतौजसामुभयत्रापि क्षीणशक्तीनां व्यथके पुष्टोत्साहकत्वाज्जयङ्करे। अन्यत्रासौ संशयाविदुःखजनके। अल्पीयस्यल्पाक्षरेऽल्पमात्रे च। उक्तं च—'स्वल्पा च मात्रा बहुको गुणश्च' इति। अस्मिन्वचसि द्रौपदीवाक्ये। अतिवीर्यवत्यत्यन्तसामर्थ्यवति भेषज औषध इव। 'भेषजौषधभैषज्यानि' इत्यमरः। बहुरनेको गुणो मालत्राणराज्यलाभाविशारोग्यबलोपचयश्चि दृश्यते। अतो ग्राह्यमस्या बचनमिति भावः॥ ४ ॥

अन्वयः—परिणामसुखे, गरीयसि, क्षतौजसां, व्यथके, अस्मिन्, वचसि अतिवीर्यवति, अल्पीयसि, भेषजे, इव, बहुः, गुणः, दृश्यते ॥ ४ ॥