भारतकोश
संग्रह पर लौटें

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

अध्या०१ख०२(२१)] ऐतरेयारण्यकम् । ७३

अथ पूर्वयोः सूक्तयोरेकस्य शंसनानन्तरमेते अन्तरेणैतयोः “ वनेन वा ” [ ऋ० सं० म० १० सू० २९ ऋ० १ ] “यो जातः” [ ऋ० सं० म० २ सू० १२ ऋ० १ ] इति सूक्तयोर्मध्ये कासांचिदिन्द्रदेवताकानां त्रिष्टुब्जगत्याख्य-च्छन्दोद्वययुक्तानां स्वबुद्धिकौशलेन बृहतीत्वमापादितानामृचां मध्ये यावतीर्ऋच आवपेत्तावन्ति वर्षाणि कृप्ताच्छतसंवत्सरादायुष ऊर्ध्वं यजमाना जीवन्ति । एतेन-गार्वापनेनैवावश्यमायुः प्राप्यते । अत्र बुद्धिकौशलेन त्रिष्टुभां जगतीनां कथं बृहतीत्व-संपत्तिवश(?) उच्यते । तिसृषु बृहतीषु चतुष्टये(?) संपादिते सति* ।

सजनीयसूक्तस्य शंसने फलविशेषं दर्शयति—

प्रजां मे पशवोऽर्जयन्नित्येव सजनीयमनु शंसति, इति ।

मदीयां पुत्रादिरूपां प्रजां गवाश्वादयः +पशवो मार्जयन्नित्यभिप्रेत्याऽऽवपनमनु सजनीयसूक्तं शंसेत् ।

अथ—“ त्यमू षु ” [ ऋ० सं० म० १० सू० १७८ ऋ० १ ] इत्येतत्सूक्तं तृचरूपं विधत्ते—

तार्क्ष्यं शंसति स्वस्त्ययनं वै तार्क्ष्यः स्वस्ति-
तायै स्वस्त्ययनमेव तत्कुरुते , इति ।

तार्क्ष्यो गरुडः स एवैष देवो यस्य “ त्यमू षु ” इत्यादिसूक्तस्य तत्सूक्तं तार्क्ष्यं शंसेत् । तस्मिन्सूक्ते प्रतिपाद्यो यस्तार्क्ष्यः सोऽयं स्वस्त्ययनं वै क्षेमप्राप्तिमेव संपादयतीति शेषः । अतस्तत्सूक्तं स्वस्तितायै संपद्यते यस्मात्तस्मादयं होता तत्तेन शंसनेन स्वस्त्ययनमेव क्षेमप्राप्तिमेव कुरुते ।

तत ऊर्ध्वम्—“इन्द्रो विश्वं विराजति” इति । तस्या एकपदाया ऋचः शंसनं विधत्ते—

एकपदां शंसत्येकधेदं सर्वमसानीत्यथो
सर्वां छन्दस्कृतिमाप्नवानीति, [इति] ।

एकेनैव प्रयत्नेनेदं सर्वमसानि प्राप्तव्यं फलमाप्नवानीत्यभिप्रेत्य तामेकपदां शंसति । अपि च सर्वां छन्दस्कृतिं सर्वेषामपि च्छन्दसां संपादनं प्राप्तवानीत्येतां शंसेत् । न ह्येकपदाया अर्वाचीनं किंचिच्छन्दोऽस्ति । उत्तरेषु तु द्विपदादिषु सर्वेष्वपि च्छन्दःस्वेकपद्दम् ।


* एतदग्रे त्रुटितं किंचित् । + पशवोऽर्जयन्नित्येव पाठोऽपेक्षितः ।


१ क. ख. 'के मसूक्तो प्र° ।

१०

७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-

अथ—" इन्द्रं विश्वाः " [ ऋ० सं० म० १ सू० ११ ऋ० १ ] इत्यादिक- मष्टचं सूक्तं प्रयोगप्रकारविशेषयुक्तं विधत्ते—

इन्द्रं विश्वा अवीवृधन्निति पदानुषङ्गांस्ताः समानुषजति सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधात्यष्टमीं नानु- षजति वागष्टमी नेन्मे वाक्प्राणैरनुषक्ताऽसदिति तस्मादु सा वाक्समानायतना प्राणैः सत्यननुषक्ता, इति ।

" इन्द्रं विश्वाः " इत्यस्मिन्नष्टर्चे सूक्ते पादानां परस्परमनुषङ्गः कर्तव्यः । तत्र सूक्तस्य यः प्रथमोऽर्धर्चो यश्चान्तिमस्तावूभावर्धर्चौ यथाध्ययनमेव पठनीयौ न त्वनुषज-(ञ्ज)नीयौ । तयोर्मध्ये ये चतुर्दशार्धर्चास्तेष्वेकैकपादान्तरितत्वेन परस्परानुषङ्गः कर्तव्यः । तद्यथा—प्रथमायामृचि यस्तृतीयः पादस्तं द्वितीयस्यामृचि प्रथमपादेन संयोज्यैकोऽर्धर्चः कर्तव्यः । तथा प्रथमायामृचि यश्चतुर्थः पादः सोऽयं द्वितीयस्यामृचि द्वितीयपादेन संयोजनीयः । एतेनार्धर्चद्वयेनैका संपद्यते । अनेनैव प्रकारेण सूक्तस्याऽऽद्यन्तयोरर्धर्चयोर्मध्यगतास्ताः सप्तर्चः परस्परमनुषजेत् । शिरसि छिद्रगताः प्राणाः सप्तैव तेन सप्तानामनुषङ्गेण शिरस्येव प्राणान्संपादयति । अष्टमीशब्देन सूक्तस्य चरमोऽर्ध एको विवक्षितस्तस्यानुषङ्गो नास्ति । उपरितनपादस्य कतमस्याप्यभावात् । अत एव शौनकः पञ्चमे—" प्रथमायाः पूर्वमर्धर्चं शस्त्वा " [ ऐ० आ० ५ अ० ३ ख० १ ] इत्यादिना " प्रकृत्या शेषः " इत्यन्तेन ग्रन्थेन सूक्तगतयोराद्यन्तयोरर्धर्चयोर्यथापाठमभिधाय मध्यगतानामेव चतुर्दशानामर्धर्चानां पाद्व्यतिषङ्गमुक्तवान् । केनाभिप्रायेणाष्टम्या व्यतिषङ्गो नास्तीति चेद्येनेयमृगष्टमी सा वाग्रूपा । अत एव वाजसनेयिनश्चक्षुरादीन्द्रियेषु गौतमभरद्वाजर्षिध्यानमधीयानाः " वागष्टमी ब्रह्मणा संविदाना" इत्येवं वाचोऽष्टमीत्वमामनन्ति । ईदृगष्टमी मदीया वाक्प्राणैरन्यैरनुषक्ता सती व्यतिषक्ता भवेदिति भीत्या तामष्टमीं नानुषजेत् । नेदिति निपातो भयद्योतनार्थः । यस्मादेवमष्टमीं नानुषजति तस्मादेव कारणात्साऽष्टमी वागन्यैः प्राणैर्जिह्वात्वगादिभिः समानायतनैकाधारा सत्यपि स्वयमननुषक्ता तैः सह नैव संकीर्णा किंतु विविक्ता सती शब्दमुच्चारयति ।

अथ—"पिबा सोममिन्द्र" [ ऋ० सं० म० ७ सू २३ ऋ० १ ] इत्यादिकानां विराच्छन्दस्कानां शंसनं विधत्ते—

विराजः शंसत्यन्नं वै विराजोऽन्नाद्यस्यावरुद्ध्यै, इति ।

विराच्छन्दसोऽन्नहेतुत्वादन्नत्वं तस्मात्तच्छंसनमन्नप्राप्तये संपद्यते । यद्यपि—"पिबा


इन्द्रं विश्वा अवीवृधन्०—ऋ० सं० म० १ सू० ११ ऋ० १ ।

अध्या० १ ख० २ (२१)] ऐतरेयारण्यकम् । ७५

'सोमम्" [ ऋ० सं० म० ७ सू० २३ ऋ० १ ] इत्यादिकं नवर्चं सूक्तं तथाऽ- प्यन्तिमास्तिस्रः परित्यज्य प्राचीनाः षडेव पठेत् । अत एव शौनकः—"पिबा सोममिन्द्र मन्दतु त्वेति षट्" [ ऐ० आ० ५ अ० ३ ख० १ ] इत्याह ।

तत ऊर्ध्वं वसिष्ठदृष्टेन—"योनिष्ट इन्द्र सदने अकारि" [ ऋ० सं० म० ७ सू० २४ ऋ० १ ] इत्येतेन सूक्तेन निष्केवल्यशस्त्रस्य समापनं विधत्ते—

वासिष्ठेन परिदधाति वसिष्ठोऽसानीति, इति ।

अहं वसिष्ठः सर्वेषामतिशयेन निवासहेतुर्भवानीत्यभिप्रेत्य वासिष्ठसूक्तेन परिधानं कुर्यात् । परिधानं समापनम् ।

तत्र कंचिद्विशेषं विधत्ते—

एष स्तोमो मह उग्राय वाह इति महद्वत्या रूपसमृद्धया, इति ।

"योनिष्टे" [ ऋ० सं० म० ७ सू० २४ ऋ० १ ] इत्यादिकं षडर्चं सूक्तं तत्र षष्ठ्या परिधानं प्राप्तं तदपोह्य—"एष स्तोमः" [ ऋ० सं० म० ७ सू० २४ ऋ० ५ ] इत्यनया पञ्चम्या परिदध्यात् । सा च महद्वती मह उग्रायेति तत्र पठि- तत्वात्तस्मादियं रूपसमृद्धेति तया परिधानं न्याय्यम् । एतच्च शौनको विस्पष्टं दर्शयति—"योनिष्ट इन्द्र सदने अकारीत्येतस्य चतस्रः शस्त्वोत्तमामुपसंतत्योपोत्त- मया परिदधाति" [ ऐ० आ० ५ अ० ३ ख० १ ] इति ।

तस्याः परिधानीयाया द्वितीयपादे धुरीति पदं व्याचष्टे—

धुरी वात्यो न वाजयन्नधायीत्यन्तो वै धूरन्त एतदहरेतस्याह्नो रूपम् , इति ।

येयं धूः सेयं रथस्यान्तोऽश्वयोजनस्थानम् । अस्य(त्र) हि धूरशब्दे(धूःशब्द) वाच्ये रथस्यान्तभागे ते(तौ) युग्र्यौ योज्येते । एतन्महाव्रताख्यमहश्च संवत्सरसत्र- स्यान्त एतस्या ऊ(स्यो)र्ध्वमुदयनीयातिरात्रेणाह्नः समाप्यमानत्वात् । अतो धुरश्चा- न्तर(त्व)साम्याद्धूःशब्दयुक्तो मन्त्र एतस्याह्नः स्वरूपम् ।

तृतीयपादेऽर्कशब्दं प्रशंसति—

इन्द्र त्वाऽयमर्क ईट्टे वसूनामित्यर्कवत्या रूपसमृद्धया, इति ।

अर्कवाचकोऽयमर्कशब्दस्तच्छब्दयुक्तत्वादियमृग्रूपसमृद्धा, ततस्तया परिधानं युक्तम् ।


एष स्तोमो महे०—ऋ० सं० म० ७ सू० २४ ऋ० ५ । धुरी वात्यो न०— ऋ० सं० म० ७ सू० २४ ऋ० ५ । इन्द्र त्वाऽयमर्क ईट्टे०—ऋ० सं० म० ७ सू० २४ ऋ० ५ ।

चतुर्थपाद्युक्तं प्रशंसति—

७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

चतुर्थपाद्युक्तं प्रशंसति—

दिवीव द्यामधिनः श्रोमंतं धा इति यत्र ह क्व च ब्रह्मण्‍या
वागुद्यते तद्धास्य कीर्तिर्भवति यत्रैवं विद्वानेतया परि-
दधाति तस्मादेवं विद्वानेतयैव परिदध्यात् , इति ।
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये
द्वितीयः खण्डः ॥ २ ॥ ( २१ )

हे देव नोऽस्माकं श्रोमंतं श्रवणीयकीर्तिं दिवीव द्युलोके यथा संपादयसि तथा द्यामधि^१ द्युलोकस्योपरि सोमलोकादावपि धा निधेहि संपाद्येत्यर्थः । एतस्यै पादस्य पाठेन यत्र क्वापि वेदशास्त्रविद्बहुले देशे ब्रह्मण्‍या वागुद्यते वेदनसंबन्धि वाक्यं पठ्यते तत्रास्य यजमानस्य कीर्तिः प्रसवति । यत्र यस्मिन्महाव्रते य एवं विद्वा-न्कीर्तिहेतुमृचं विद्वानेतयर्चा परिधानं करोति तस्मिन्महाव्रते य(त)स्य यजमानस्य कीर्तिर्भवतीति पूर्वत्रान्वयः । यस्मादेवं तस्या ऋचो महिमा भूयांस्तस्मादेवं विद्वान्म-न्त्रमहिमानं जानन्पुमानेतयैवर्चा परिदध्यात् । निष्केवल्यं समापयेत् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-भाष्ये प्रथमारण्यके पञ्चमाध्याये द्वितीयः खण्डः ॥ २ ॥ ( २१ )


अथ तृतीयः खण्डः । ( द्वाविंशः )

माध्यंदिनसवने शस्त(शंसित)व्यं निष्केवल्यं समापितं तृतीयसवने शस्तव्य(शंसित)स्य वैश्वदेवशस्त्रस्यार्द्धयं विधत्ते—

तत्संवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्व-
देवस्य प्रतिपदनुचरावैकाहिकौ रूपसमृद्धौ, इति ।

प्रतिपद्यते प्राप्यते शस्त्रं येन तृचेन सोऽयं प्रतिपत्तत्संवितुरित्यादिकस्तृचस्तं तृचमनुचरति तदनन्तरं पद्य(ठ्य)त^२ इत्यनुचरोऽद्या नो देव सवितरित्यादिकस्तृचस्तावैतौ वैश्वदेवशस्त्रस्य प्रतिपदनुचरौ महाव्रतस्य प्रकृतिभूते विश्वजिदाख्य एकाहे तस्यापि मूलप्रकृतिभूतेऽग्निष्टोमाख्य एकाहे भवत इत्यैकाहिकावत एव स्वरूपेण समृद्धौ तस्मात्तौ कर्त्तव्यौ ।


दिवीव द्याम्०— ऋ० सं० म० ७ सू० २४ ऋ० ९ । तत्सवितुर्वृणीमहे०—
ऋ० सं० म० ५ सू० ८२ ऋ० १ । अद्या नो देव सवितः०— ऋ० सं० म० ५ सू० ८२ ऋ० ४ ।


^१ ख. ग. घ. ॰रि म(स्व)लोंका’ ।
^२ क. ॰स्य पाठे’ ।

अध्या० १ ख० ३(२२)] ऐतरेयारण्यकम् । ७७

अनिष्टशान्तिहेतुत्वेन तृचद्वयं प्रशंसति—

बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ।

पूर्ववद्व्याख्येयम् [ ऐ० आ० १—१—३ ] । प्रतिपदनुचरयोरूर्ध्वमेकं सूक्तं विधत्ते—

तद्देवस्य सवितुर्वार्थ महदिति सावित्रमन्तो वै महदन्त एतदहरेतस्याह्नो रूपम् , इति ।

तद्देवस्य ” इत्यादिकं सप्तर्चं सवितृदेवताकं सूक्तम् । सवितुर्देवस्य संबन्धि वार्यं सर्वैर्वरणीयं तत्तेजो महत्प्रौढम् । अस्मिन्पादे यन्महदित्युक्तं तदन्तो वै प्रार्थनीयस्य सर्वस्याप्यवसानभूमिः, न हि महत्त्वाद्ध्वं किंचित्प्रार्थनीयमस्ति । एतन्महाव्रतारूयमध्यहः संवत्सरसत्रस्यान्तोऽतोऽन्तत्वसाम्यादिदं सूक्तमेतस्याह्नः स्वरूपम् ।

सूक्तान्तरं विधत्ते—

कतरा पूर्वा कतराऽपराऽयोरिति द्यावापृथिवीर्यं समानोदर्कं समानो- दर्कं वा एतदहरेतस्याह्नो रूपम्, इति ।

कतरा ” इत्यादिकमेकादशचं सूक्तं द्यावापृथिवीदेवताकं शंसनीयम् । तच्च समानोदर्कं समान एकं उदकों यस्य सूक्तस्य तत्समानोदर्कं तस्मिन्हि सूक्ते बहुष्वृक्षु “ द्यावा रक्षतं पृथिवी नो अभ्वात् ” इत्ययमेव चतुर्थः पादः पठितोऽत एकविधः । एतन्महाव्रतारूपमहश्च समानोदर्कम् । अत्रोदर्क उत्तरकालभावि फलं तच्च सर्वेषां समानं सर्वेऽपि महाव्रतमनुष्ठाय ब्रह्म प्राप्नुवन्ति । अत एव शौनकेन—“ ब्रह्म भवति ” [ ऐ० आ० १ अ० ३ ख० ३ ] इत्युक्तम् । एवं च सति समानोदर्कसाम्यादेतत्सू[क्तमेतस्याह्नः स्वरूपम् ।

सू]क्तान्तरं विधत्ते—

अनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवम् , इति ।


तद्देवस्य सवितुर्वार्यं०—[ ऋ० सं० म० ४ सू० ५३ ऋ० १ । ] कतरा पूर्वा कतराऽपरा०—ऋ० सं० म० १ सू० १८५ ऋ० १ । अनश्वो जातो०—ऋ० सं० म० ४ सू० ३६ ऋ० १ ।


१ ख. ग. घ. ºक ऊर्ध्वोऽर्को ।

७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

“ अनश्वः ” इत्यादिकं नवर्चमृभुदेवताकं सूक्तं द्यामृभवः पृथिवीं यच्च पुष्यथेति तत्र स्वयमाभीत्वा(स्वयमेवाऽऽर्भवत्वा)त् । तत्सूक्तं शंसेत् ।

तत्र प्रथमायामृचि द्वितीयपादे त्रिशब्दं प्रशंसति—

रथस्त्रिचक्र इति पदे तन्त्रिवत्तदन्तो वै
त्रिवदन्त एतदहरेतस्याह्नो रूपम्, इति ।

“रथस्त्रिचक्रः परिवर्तते रजः” इति द्वितीयपादस्तस्मिन्पादे यदेतन्त्रिशब्दोपेतरथविशेषणं त्रिचक्र इत्येतत्पदं विद्यते त्रिशब्दोऽस्मिन्पदेऽस्तीति त्रिवत्पदं तच्चान्तं वा अवसानभूमिरेव । यस्य रथस्य चक्रद्वयेना(यम)निर्वाह्यं यत्र तस्य तृतीयं चक्रं संपाद्यते तावता निर्वाहो भवतीत्यभिप्रेत्य तन्त्रिवत्पदमन्त इत्युच्यते । अन्त एतदहरित्यादिकं पूर्ववत् [ ऐ० आ० १ अ० ५ ख० २ ] ।

सूक्तान्तरं विधत्ते—

अस्य वामस्य पलितस्य होतुरिति वैश्वदेवं
बहुरूपं वा एतदहरेतस्याह्नो रूपम् , इति ।

“ अस्य वामस्य ” इत्यादिकं द्विपञ्चाशदृचं सूक्तं विश्वे(श्व)देवदेवताकं पठेत् तच्च बहुरूपं बह्वर्थप्रतिपादकत्वात् । तच्चानुक्रमणिकायां दर्शितम्—अस्य द्विपञ्चाशदल्पस्तवं त्वेतत्संशयोत्थापनप्रश्नप्रतिवाक्यान्यत्र प्रायेण ज्ञानमोक्षाक्षरप्रशंसा चेति वैदिकमन्त्रादिना लौकिकवृत्त्यादिना$^१$ च विवृतत्वादह्नो बहुरूपत्वमतः साम्यादुभयोरानुरूप्यम् ।

यथोक्तस्य कृत्स्नस्य सूक्तस्य प्रसक्तिं वारयितुं विशिनष्टि—

गौरीर्मिमाय सलिलानि तक्षतीत्येतदन्तम् , इति ।

ऋचां चत्वारिंशति(त)मतिक्रम्यानन्तरभाविनी “ गौरीः ” इत्यादिका तदन्तमे सूक्तभागं पठेन्न तूपरितनम् । अत एव शौनकः—“ एकचत्वारिंशेतम्$^२$ ” [ ऐ० आ० १ अ० ३ ख० २ ] इत्याह ।

सूक्तान्तरं विधत्ते—

आ नो भद्राः क्रतवो यन्तु विश्वत इति वैश्व-
देवं निविद्धानमैकाहिकं रूपसमृद्धम् , इति ।


रथस्त्रिचक्रः०—ऋ० सं० म० ४ सू० ३६ ऋ० १ । अस्य वामस्य०—ऋ० सं० म० १ सू० १६४ ऋ० १ । गौरीर्मिमाय०—ऋ० सं० म० १ सू० १६४ ऋ० ४१ । आ नो भद्राः—ऋ० सं० म० १ सू० ८९ ऋ० १ ।


$^१$ ख. ग. घ. ॰कनृत्यादि’ । $^२$ क. ख. ग. ॰शतिमि’ ।

अध्या०५ख०३(१२)] ऐतरेयारण्यकम् । ७९

“ आ नः ” इत्यादिकं दशर्चं विश्वे(श्व)देवदेवताकं सूक्तं पठेत् । अस्मिन्सूक्ते नवर्चः शस्त्वा दशमीमवशेष्य तन्मध्ये विश्वे देवाः सोमस्य मत्सन्नित्यादीनि निवित्पदानि धीयन्ते प्रक्षिप्यन्ते तस्मादेतन्निविद्धानं तच्च मूलप्रकृतावग्निष्टोम एकाहे समुत्पन्नत्वादैकाहिकं सूक्तं पठेत् । अत एव रूपसमृद्धम् ।

अरिष्टशान्तिहेतुत्वेन सूक्तं प्रशंसति—

बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते
शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव
तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य
एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ।

पूर्ववद्व्याख्येयम् [ ऐ०आ० १ अ० १ ख० ३ ] ।

वैश्वदेवशस्त्रपर्यन्तं समाप्याग्निमारुतशस्त्रस्य प्रारम्भे पञ्चदशर्चं सूक्तं विधत्ते—

वैश्वानराय धिषणामृतावृध इत्याग्निमारुतस्य प्रतिप-
दन्तो वै धिषणाऽन्त एतदहरेतस्याह्नो रूपम् , इति ।

अत्र या धिषणा सा बुद्धिः श्रूयते । सेयमन्तो वै पर्यवस्थानभूमिरेव । सर्वस्य व्यवहारस्य बुद्धयधीनत्वात् । अन्त एतदहरित्यादि पूर्ववत् । [ऐ० आ० १ अ० १ ख० २]

सूक्तान्तरं दशर्चं मरुद्देवताकं विधत्ते—

प्र यज्यवो मरुतो भ्राजदृष्टय इति मारुतं समा-
नोदर्कं समानोदर्कं वा एतदहरेतस्याह्नो रूपम्, इति।

अस्मिन्नपि सूक्ते बहुष्वृक्षु—“ शुभं यातामनुरथा अवृत्सत ” इत्यस्यैव चतुर्थपादस्य पठितत्वात्समानोदर्कत्वम् । अन्यत्पूर्ववद्व्याख्येयम् ।

अथ सूक्तात्मिकामेकामृचं विधत्ते—

जातवेदसे सुनवाम सोममिति जातवेदस्यां पुर-
स्तात्सूक्तस्य शंसति स्वस्त्ययनं वै जातवेदस्या
स्वस्तितार्यै स्वस्त्ययनमेव तत्कुरुते, इति ।

जातवेदोनामिका देवता यस्या ऋचः सा जातवेदस्या तामृचं विधास्यमानस्य “ इमं स्तोमम् ” [ ऋ० सं० म० १ सू० ९४ ऋ० १ ] इत्यादिसूक्तस्य पुरस्ताच्छंसेत् । सा च स्वस्त्ययनं क्षेमप्राप्तिहेतुरतः स्वस्तितार्यै, क्षेमप्राप्तये समर्था । तत्तेनर्क्पाठेन क्षेमप्राप्तिमेव संपादयति ।


वैश्वानराय धि०—ऋ० सं० म० ३ सू० २ ऋ० १ । प्र यज्यवो०—ऋ० सं० म० १ सू० ८७ ऋ० १ । जातवेदसे०—ऋ० सं० म० १ सू० ९९ ऋ० १ ।

८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-

सूक्तान्तरं विधत्ते—

इमं स्तोममर्हते जातवेदस इति जातवेदस्यं समानोदर्कं समानोदर्कं वा एतदहरेतस्याह्नो रूपमह्नो रूपम् , इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये तृतीयः खण्डः ॥ ३ ॥ ( २२ )
इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥
इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यकं समाप्तम् ॥ १ ॥

इममित्यादिकं षोडशर्चं जातवेदोदेवताकं सूक्तं पठेत् । तस्मिन्सूक्ते बहुष्वृक्षु “ अग्ने सख्ये मा रिषामा वयं तव ” इत्यस्य चतुर्थपादस्य पठितत्वात्समानोदर्कत्वम् अन्यत्पूर्ववद्व्याख्येयम् । द्विरभ्यासोऽध्यायसमाप्त्यर्थः प्रथमारण्यकसमाप्त्यर्थः कर्मकाण्डसमाप्त्यर्थः(श्चैश्व) ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके पञ्चमाध्याये तृतीयः खण्डः ॥ ३ ॥ ( २२ )

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्मणारण्यकाण्डभाष्ये प्रथमारण्यके पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरसायणामात्यकृतौ माधवीये वेदार्थप्रकाश ऐतरेयाऽऽरण्यकाण्डे प्रथमारण्यकं समाप्तम् ॥ १ ॥


( समष्ट्यङ्काः—आर० १ अध्या० ५ ख० २२ )


इमं स्तोम०—ऋ० सं० म० १ सू० ९४ ऋ० १ ।

अथ द्वितीयारण्यकम्।

प्रथमोऽध्यायः।

तत्र प्रथमः खण्डः।

यस्यै निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥ १ ॥
प्रथमारण्यके कर्म महाव्रतमुदीरितम्।
संवत्सराख्यसत्रस्य शेषः पूर्णोऽत्र तावता॥ २ ॥
तदीया विकृतिः सर्वा प्रोक्तैवेति मनीपया।
कर्मकाण्डं समाप्यैव वेदो ज्ञानं विवक्षति॥ ३ ॥
आरण्यकं द्वितीयं च तृतीयं च तदात्मकम्।
ज्ञानकाण्डं ततः सोपनिषदित्यभिधीयते॥ ४ ॥
करोम्युपनिषद्व्याख्यां शंकराचार्यवर्त्मना।
आचार्यस्य प्रसादेन संसारान्मुच्यतां बुधः॥ ५ ॥

उपनिषच्छब्दो ब्रह्मविद्यामाचष्टे। सा हि विवित्सुं पुरुषमुपेत्य नितरामविद्यां सीदति विशीर्णां करोति, यद्वा ब्रह्मतां गमयति, अथवा रागद्वेषाववसादयति शिथिलीकरोति। ततः “षदॢ विशरणगत्यवसादनेषु” [भ्वा० ग० प०] इति प्रोक्तं धातोरर्थत्रयं तस्मिन्नुपनिषच्छब्दो विद्यते। तार्थावधाया ब्रह्मविद्याया उत्पादकत्वाद्व्रन्थोऽप्युपनिषदित्युच्यते। तस्योपनिषद्व्रन्थस्य विषयप्रयोजनाधिकारिसंबन्धप्रामाण्यप्रमेयस्वरूपाणि निरूप्यन्ते। अद्वैतमात्मतत्त्वं विषयः। अनन्यलभ्यमानत्वात्। न हीदृशं तत्त्वमुपनिषदोऽन्येन केनापि प्रमाणेन लभ्यते। न तावच्चक्षुरादिजन्यं बाह्यं प्रत्यक्षं तत्त्वे प्रमाणम्। तत्त्वस्य रूपरसादिरहितत्वात्। नाप्यहं मनुष्य इति वा कर्ता भोक्ताऽहमिति वा मानसप्रत्यक्षं तत्त्वबोधकम्। तयोः क्रमेण स्थूलसूक्ष्मदेहविषयत्वात्। यत्त्वहं ब्रह्मेति मानसप्रत्यक्षं तच्छास्त्रजन्यत्वान्नोपनिषदो व्यतिरिक्तम्। नाप्यस्यानुमानं तत्त्वे प्रवर्तते, तद्व्याप्तस्य लिङ्गस्य कस्याप्यभावात्। न हि निर्धर्मके तत्त्वे किंचिल्लिङ्गं संभवति। शक्यमानस्य यस्य कस्यापि लिङ्गस्य पक्षधर्मत्वाभावेनासिद्धत्वप्रसङ्गात्। आगमेऽपि कर्मकाण्डे तत्त्वं न प्रतीयते। तस्मादुपनिषदेव परिशिष्यते। अत एव श्रुतिः प्रत्यक्षादिगम्यत्वं निराकृत्योपनिषदेकगम्यत्वं दर्शयति— “नावेदविन्मनुते तं बृहन्तम्”


१ क. ॰स्य निःश्व॰। २ ख. ग. ॰दीयवि॰। ३ ग. ॰विधत्र॰। ४ क. ॰व्याप्यस्य।
११

८२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-

[तै०ब्रा० ३।१२।९] इति। “तं त्वौपनिषदं पृच्छामि” [बृ० ३।९।२६] इति च। तथा सत्यनान्यलभ्यमौषधादिकं यथा चिकित्सादिशास्त्रस्य विषयस्तथा तत्त्वमद्वैतमुपनिषदो विषयः। प्रयोजनं चाऽऽत्मतत्त्वाविर्भावादिकम् । तत्र सर्वात्मकपरब्रह्मस्वरूपात्माविर्भावः प्रथमं फलम्। “आत्मनैवाऽऽत्मानं पश्यति” इति श्रुतेः। तत ऊर्ध्वमविद्याग्रन्थिर्विकीर्यते। “एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह नाम्यः” [मु० २।१।१०] इति श्रुतेः । निवृत्तायामावरणाविद्यायामन्तःकरणतादात्म्यग्रन्थिभेदश्चिद्रूपजडरूपत्वादिसंश- यच्छेदो भाविजन्महेतुकर्मक्षयश्च भवति । “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे” [मु० २।२।८] इति श्रुतेः ॥ इह लोकेऽपि हर्षशोकपरित्यागो भवति । “अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्ष शोकौ जहाति” [का० २।१।१२] इति श्रुतेः । तथा काम्यमानस्य सत्यत- त्त्वस्य प्राप्तत्वान्नियमितान्तःकरणत्वेन विषयदर्शनाभावाच्च कामविलयो भवति । “पर्या- प्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः” [मु० ३।२।२] इति श्रुतेः। तथा तस्य द्यूतादिस्थानिनी क्रीडाऽप्यात्मन्येव । संध्यावन्दनाग्निहोत्रादिरूपा क्रियाऽ- प्यात्मन्येव । “आत्मक्रीड आत्मरतिःक्रियावानेष ब्रह्मविदां वरिष्ठः” [मु० ३।१।४] इति श्रुतेः । ईदृशस्य लौकिकवैदिककर्मकर्तव्याभावादयं कृतकृत्यः । “यत्पूर्णानन्दै- कबोधं तद्ब्रह्माहमस्मीति कृतकृत्यो भवति” [परमहं० ३] इति श्रुतेः । “ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । नैवास्ति किंचित्कर्तव्यमस्ति चेन्मानसं तु तत्” इति स्मृतेश्च ॥ एतादृशस्य योगिनः सर्वदा मनसि *विद्यानिमित्त आनन्द आविर्भवति । “रसो वै सः । रसꣳ ह्येवायं लब्ध्वाऽऽनन्दी भवति” [तै० उ० २।७।१] इति श्रुतेः । सेयमुपनिषदः प्रयोजनपरम्परा द्रष्टव्या । संबन्धश्च कर्मकाण्डेन सह साध्यसाधनभावः । उपनिषदि साध्यं तत्त्वज्ञानं प्रतिपाद्यते । कर्मकाण्डे तु चित्तसंस्काराय पापक्षयेण वा विविदिषोत्पाद- नेन वा तानि साधनान्यग्निहोत्रादिकर्माणि प्रतिपादितानि । अत्रैतं यथोक्तसंबन्धमसह- मानाः प्रतिवादिनो बहुधोत्तिष्ठन्ति । तेषां मध्ये केचिद्रूक्षंज्ञाननैरपेक्ष्येणैव मोक्षं वर्ण- यन्ति । निषिद्धकाम्ययोः कर्मणोः सर्वात्मना परित्यागेन भाविनोरुत्तमाधमजन्मनोरसं- भवान्नित्यनैमित्तिकानुष्ठानेन प्रत्यवायानुदयात्प्रारब्धकर्मणो भोगेन विनाशाद्देहान्ते


* विभावित इति क. ख. पुस्तकयोः पाठान्तरम् ।


१ ग. ॰मप्रवि॰। २ क. ख. घ. ॰त्मनेव । ३ ख. ॰होत्ररू॰। ४ क. ख. ॰याऽध्यात्म॰ । ५ क. ख. ॰त्मप्रति॰ । ६ क. ख. वरिष्ठः । ७ क. ख. स्मृतेः । ए॰ । ८ ग. घ. ङ. तादृशस्य । ९ घ. 'दि हि सा' । १० ग. 'नि । तत्रैवं ।

अध्या० १। ख० १] ऐतरेयारण्यकम् । ८३

मुक्तिरेव परिशिष्यत इति । तदयुक्तम् । अनन्तयोर्निषिद्धकाम्ययोः सर्वात्मना परि- त्यागासंभवान्नित्यनैमित्तिकयोरपि फलसद्भावशङ्काज्जन्मान्तरकृतानां च बहुजन्महे- तूनां संभवान्नास्ति ज्ञानमन्तरेण मुक्तिः । अन्ये तु ज्ञानप्राधान्येन वा कर्म- प्राधान्येन वोभयप्राधान्येन वा ज्ञानकर्मणोः समुच्चयो मुक्तिहेतुरित्याहुः । तदयुक्तम् । परस्परविरुद्धयोः समुच्चयासंभवात् । निर्विकारात्मबुद्धिर्ज्ञानम्, अहं कर्ता ममेदं कुलमिति भ्रान्त्या कर्मप्रवृत्तिरिति तयोर्विरोधः । अपरे पुनर्शानस्यैव मुक्तिहेतुत्वेऽपि सोपानपङ्क्त्या हर्म्याधिरोहणन्यायेन संध्यावन्दनमारभ्य सह- स्रसंवत्सरसत्रान्तेषु वैदिकेषु, कर्मस्वनुष्ठितेषु पश्चाज्ज्ञानाधिकारमिच्छन्ति । तदप्य- युक्तम् । अल्पायुषां मनुष्याणां तदसंभवात् । अपरे पुनः प्रपञ्चप्रविलापनेन कर्मका- ण्डस्योपयोगमिच्छन्ति, स्वर्गकामो यजेतेत्युक्ते सत्यर्थाद्देहात्मभावस्य प्रविलाप्यमानत्वा- दिति तदसत् । बकबन्धनप्रयासप्रसङ्गात् । यथा बकबन्धनकामस्तत्समीपे गत्वा तदानीमबद्ध्वा शिरसि नवनीतं प्रक्षिप्पाऽऽतपेन विलीनस्य नवनीतस्य चक्षुष्प्रवेशे सति निमीलितचक्षुष्कं बकं पश्चाद्गृह्णाति तथाऽयं प्रपञ्चप्रविलापवादी साक्षाद्विलाप- कम्—"अस्थूलमणणु"[बृ० ३।८।८] इत्यादिकमुपनिषद्वाक्यमुपेक्ष्य विलापनस्यान- भिधायकेन स्वर्गकामपदेनार्थाद्विलापयतीति व्यर्थोऽयं प्रयासः । एके तु वेदोक्तकृ- त्स्नकर्मभिस्तत्तत्फलेषु भुक्तेषु कामे प्रलीने सति पश्चाज्ज्ञानाधिकार इति वर्णयन्ति । तदप्ययुक्तम् । भोगेन कामलयस्यासंभवात् ।

तथा च स्मर्यते—

"न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मव भूय एवाभिवर्धते" इति ॥
[ भा० आदि० अ० ८९ श्लो० १२ ]

तस्मान्मतान्तराणामयुक्तत्वाज्ज्ञानकर्मणोः साध्यसाधनरूपत्वात्तत्प्रतिपाद्यप्रतिपादक- त्वमेव तयोः संबन्धः । अधिकारी तत्र जिज्ञासुरेव न तु चिकीर्षुः । यश्च चिकीर्षोरधि- कारं मन्यते स प्रष्टव्यः । वेदान्ताधिकारी यत्कार्यं चिकीर्षति तत्किं कार्यसामान्यं किंवा कार्यविशेषः । नाऽऽद्यः । कार्यसामान्यस्य वेदान्तेष्वप्रतीतेः । सत्यज्ञानादि- वाक्येषु कुर्यादितिपदस्यादर्शनात् । विशेषपक्षेऽपि कोऽसौ कर्तव्यो विशेषः किं वासनानां निरोधः किंवा मनसो निरोध उत प्रतिपत्तिराहोस्वित्प्रसंख्यानम् । सर्वथाऽपि


१ क. ख. फलसाधनेन । २ क. ख. ॰जेयुरित्य' । ३ क. ख. ॰मीलव' । ४ ख. घ. ॰श्ववि- लयवां । ५ क. ख. ॰श्वात्साधि॰ । घ. ॰श्वात्सामाधिं । ६ क. ख. ॰गे कामफलस्या॰ । ७ ग. ॰त्तत्प्र- तिरूपत्वात्तत्तत्प्रतिपादकमे॰ । ८ क. ख. ॰पादक्रमे॰ । ९ ग. घ. ङ. ॰री तत्त्वजिं । १० ग. घ. ङ. यस्तु चिं । ११ क ख. ॰नासनिं । १२ ग. ॰स्वित्संख्या॰ ।

८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२द्वितीयारण्यके-

वेदान्तानां कार्यपरत्वं नोपपद्यते । सत्यज्ञानादिवाक्येषु यथोक्तवासनानिरोधादिविधे- रप्रतिभासात् । अनर्थनिवारकत्वेन सुषुप्त्यादौ दृष्टत्वाद्वासनामनोनिरोधावपेक्षिताविति चेत् । एवं तर्हि सुषुप्त्यादिदृष्टान्तेनान्वयव्यतिरेकसिद्धत्वादेतौ शास्त्रेण न विधा- तव्यौ । नापि तृतीयः पक्षः । कर्तुमकर्तुमन्यथा वा कर्तुमशक्यत्वेनापुरुषतन्त्रायाः प्रमाणैकजन्यायाः प्रतिपत्तेर्विध्यसंभवात् । नापि चतुर्थः । शब्दयुक्त्यावृत्तिरूपस्य प्रसंख्यानस्य साक्षात्कारहेतुत्वाभावात् । यथा प्रथमप्रवृत्ते शब्दयुक्ती साक्षात्कारं न जनयत एवमसकृदावृत्तेरपि । तस्मात्कार्यसामान्यस्य कार्यविशेषस्य वा वेदान्तैरप्रति- पाद्यत्वान्न चिकीर्षोरत्राधिकारः, किं तु सिद्धब्रह्मतत्त्वस्यैव प्रतिपाद्यत्वाज्जिज्ञासोरेवात्रा- धिकार इति स्थिरम् । ननु जिज्ञासोरपि वेदान्ताः प्रमिति न जनयन्ति तत्प्रामा- ण्यस्यैवाभावादिति चेत् । तत्र वक्तव्यम् । किं साधकाभावात्प्रामाण्याभाव आहो- स्विद्प्रमाणहेतुसद्भावात् । नाऽऽद्यः । स्वतः प्रामाण्याङ्गीकारेण साधकानपेक्षत्वात् । द्वितीयेऽपि किमबोधकत्वात्प्रामाण्यमुत बाधितत्वादथ वाऽनुवादकत्वात् । नाऽऽद्यः । “आत्मा वा इदमेक एवाग्र आसीत्” [ऐ० आ० २ अ० १ ख० १] इत्याद्यवान्त- रवाक्यानां(णां) “प्रज्ञानं ब्रह्म” [ऐ० २ । १ । ३] इत्यादिमहावाक्यानां च श्रवणमात्रेण बोधोपलम्भात् । कर्मकाण्डोक्तज्योतिष्टोमादिवाक्यवत्पदार्थानां संसर्ग एवात्रावबुध्यते न त्वखण्डार्थ इति चेन्मैवम् । “स एष नेति नेत्यात्मा” [बृहदा०] इत्यादित्वंपदा- र्थशोधकवाक्यैः “अस्थूलमनणु” [बृ० ३ । ८ । ८] इत्यादितत्पदार्थशोधकवाक्यैश्च शोधिततत्त्वंपदार्थस्य पुरुषस्याखण्डार्थत्वावबोधात् । नापि द्वितीयः । प्रत्यक्षानुमान- विधिनिषेधशास्त्रादीनां मायाकल्पितभेदमाश्रित्य चरितार्थानां वास्तवाद्वैतबोधि वेदान्त- बाधकत्वासंभवात् ।

अत एवान्यत्रोक्तम्— “वास्तवे ब्राह्मणे स्वप्ने कलिता शूद्रता यथा । न विरुद्धा तथा भेदो नाद्वैतेन विरुध्यते” [वा० बृ०] इति ॥

नापि तृतीयः । आत्मतत्त्वविषयस्य पुरोवादिनः प्रमाणान्तरस्याभावेनानुवादकत्वा- संभवात् । वेदान्तसिद्धान्तमजानद्भिर्वादिभिर्लौकिकैश्चाहं मनुष्य इत्यादिभिः प्रमाणैः स्वस्वात्मग्रहणादस्ति पुरोवादिप्रमाणमिति चेत् । न । तेषां देहादिविषयत्वेनाऽऽत्मतत्त्व- गोचरत्वं नास्तीति पूर्वमेवानन्यलभ्यं विषयं निरूपयद्भिरस्माभिः प्रतिपादितत्वात् । तस्मात्प्रामाण्यकारणाभावाद्यद्वेदान्तानां स्वतःसिद्धं प्रामाण्यं तत्सुस्थितम् । एवमप्या-


१ ख. 'र्थविचार' । २ ग. सुप्तादौ । ३ क. 'त्वेन परत' । ४ ग. 'विद्यमानत्वा' । ५ क. ख. 'तुलाभा' । ६ ग. 'त्वात्तज्जिज्ञा' । ७ क. ख. स्थितम् । ८ ख. ग. 'वत्तदर्था' । ९ ख. ग. घ. 'तप' । १० ग. 'र्थंतत्त्वाव' । ११ ख. ग. निषेधद्वि' ।

अध्या० १ ख० १] ऐतरेयारण्यकम् । ८५


त्मनः स्वप्रकाशत्वेन घटादिवत्प्रमेयत्वं नास्तीति चेत् । मैवम् । घटादिग्राहकेष्वपि वास्तवेषु ज्ञानेषु न्यायतो विचार्यमाणेष्वात्मन एव प्रमेयत्वात् । तथा हि—यत्प्रमातुमर्हं तत्प्रमेयं तदर्हत्वं चाज्ञातत्वादात्मन एव युज्यते न तु घटादेः । अज्ञानेनाऽऽवृतत्वमज्ञातत्वम् । घटादयस्त्वज्ञानकार्यत्वान्नाज्ञानेनाऽऽवृताः ।

अत एवान्यत्रोक्तम्—

“अज्ञातरज्जुकार्यस्य सर्पस्याज्ञातता न हि ।
अज्ञातब्रह्मकार्यस्य जडस्याज्ञातता कुतः ॥
रज्जुसर्पं न जानामि बोद्धुमिच्छामि मानतः ।
इति व्यवहृतिं प्राज्ञा नाङ्गी कुर्वन्ति केऽपि च ॥
किं चाज्ञातत्वतो लभ्यं तिरोधानं न चेतरत् ।
स्वयमेव तिरोभूते जडे काऽन्या तिरोहितिः ॥
आविर्भूते स्वरूपे तु चैतन्येऽज्ञाननिर्मिता ।
तिरोधानाद्विशेषोऽस्ति शुभ्रवस्त्रे मषी यथा ॥
चन्द्रं मलिनयेद्राहुर्नीलमेघं न तु क्वचित् ।
एवं चैतन्यमज्ञातं जडं त्वज्ञानदेहकम् ॥
अतोऽनुभव एवैको विषयो ज्ञानलक्षणः ।
अक्षादीनां स्वतः सिद्धो यत्र तेषां प्रमाणता ॥
अनुभूतिग्रहायैव प्रवृत्तान्यपि दृष्ट्या ।
सामग्र्याऽखिलमानानि गृह्णन्ति जडसंयुताम् ॥
शुक्तिकाग्रहणायैव प्रवृत्तमपि लोचनम् ।
गृह्णीते रजतोपेतं शुक्त्यंशं दोषयोगतः ॥
वेदान्तेतरसामग्री दृष्टैषा चक्षुरादिका ।
तज्जा धीरत्र गृह्णाति स्फूर्तिं रूपादिंसंयुताम् ॥
एवं च सति विभ्रान्तः कल्पिते रजते धियम् ।
प्रमाणं मनुते यद्वद्रूपाद्यौ मनुजस्तथा ॥
ब्रह्मण्यक्षादिमानत्वमिति न्यायविदां मतम् ।
रूपादावेव तन्मत्वमिति मूढधियो जगुः ” [वाक्यवृ०] इति ॥


१ क. ख. ॰मेयत्वार्हं तच्च ज्ञा॰ । २ क. ॰मल्पत्वत्वं । ३ क. ख. ॰यस्तु ज्ञा॰ । ४ क. ॰ज्ञानता । ५ क. ख. तु चेतनाऽन्येन नि॰ । ६ क. ॰धं तु न क्व॰ । ७ ग. ॰यो ज्ञप्तिल॰ । ८ क. ख. ॰ह्वते जडसंयुतान् । शु॰ । ग. ॰ह्वतेऽखिलसंयुतान् । शु॰। ९ क. प्रामाण्यं । १० क. ख. ॰प्यज्ञादि॰ । ११ ग. ॰न्मानमि॰ । घ. ॰न्मात्रमि॰ ।

८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

नन्वेवं सति विषयत्वनिरूपणाय पूर्वोक्तमनन्यलभ्यत्वं विपर्येतीति चेत् । न । मूढान्प्रत्यनन्यलभ्यत्वोपन्यासात् । ब्रह्मविद्दृष्ट्या तु सर्वैरपि प्रमाणैर्ब्रह्मैव प्रमीयते । अतः प्रमेयत्वं तस्य युक्तम् । किंचाऽऽनन्दस्वरूपत्वेन पुरुषार्थत्वादपि प्रमेयत्वं युक्तम् । तदेवं विषयप्रयोजनसंबन्धाधिकारिप्रमाणप्रमेयाणां सद्भावाद्याख्यातं योग्ये- त्युपनिषद्याख्या प्रारभ्यते । तत्राऽऽदौ परमपुरुषार्थकामिनां श्रोतॄणां तत्साधनरूपं मार्गमुपदिशति—

एष पन्था एतत्कर्मैतद्ब्रह्मैतत्सत्यम् , इति ।

एतच्छब्दः संनिहितमर्थं परामृशति । स च द्विविधोऽतीत आगामी चेति । एष उभयविधोऽपि पन्थाः पुरुषार्थस्य मार्गः । साधनमित्यर्थः । कोऽयमतीतः कश्चाऽऽ- गामीत्यपेक्षायां तदुभयं विस्पष्टं निर्दिश्यते । “ अग्निमीळे ” [ ऋ० सं० म० १ सू० १ ऋ० १ ] इत्यारभ्य “अह्नो रूपमह्नो रूपम् ” [ ऐ० आ० १ अ० ५ ख० ३ ] इत्यन्तेनातीतसंनिहितग्रन्थेन यत्प्रतिपादितं तदेतत्कर्म “ उक्थमुक्थमिति वै प्रजा वदन्ति ” [ ऐ० आ० २ अ० १ ख० २ ] इत्यारभ्य “ आचार्या आचार्याः ” [ ऐ० आ० ३ अ० २ ख० ६ ] इत्यन्तेन संनिहितेनाऽऽरण्यकद्वय- रूपेणोत्तरग्रन्थेन प्रतिपादितं यत्सगुणं निर्गुणं च तदेतद्ब्रह्मैतदुभयमपि पुरुषार्थसाध- नम् । तत्र कर्मशब्देन तद्विषयज्ञानपूर्वकमनुष्ठानं विवक्षितम् । ब्रह्मशब्देन तु तद्विषय- ज्ञानमात्रम् । अत एव मीमांसाभाष्ये भाष्यकारा आहुः—“अभ्युदयफलं धर्मज्ञानं तच्चानुष्ठानापेक्षं निःश्रेयसफलं तु ब्रह्मज्ञानं न चानुष्ठानान्तरापेक्षम्” इति । अतीतानागत- ग्रन्थस्थयोः कर्मब्रह्मणोरुभयोरपि पुरुषार्थहेतुत्वे कुतः काण्डभेद इत्याशङ्क्य वैलक्षण्यं विषयभेदादित्युच्यते । यदेतदुत्तरकाण्डप्रतिपाद्यं ब्रह्म तदेत्सत्यमबाध्यम् । न हि तस्यान्यद्बाधकं प्रमाणं पश्यामः । पूर्वकाण्डोक्तं तु कर्म मिथ्यात्वाद्बाध्यम् । बाधकप्रमाणं च नेह नानाऽस्ति” [बृ० ४ । ४ । १६] इत्यादिकं बहुलमुपलभ्यते । मिथ्यात्वेऽपि धीशुद्धिहेतुत्वादुपादेयमेव ।

यथोक्तस्योभयस्य मार्गत्वं द्रढयितुमयोगव्यावृत्तिमन्ययोगव्यावृत्तिं च विधत्ते—

तस्मान्न प्रमाद्येत्तन्नातीयात् , इति ।

तस्मादुभयविधादाम्नायमार्गात्प्रमादं न कुर्यात् । कर्मानुष्ठानब्रह्मज्ञानयोरसंपादनं प्रमादः । तथा संपादयितुं प्रवृत्तेनाप्यालस्यादिना तत्परित्यागोऽपि प्रमाद एव । तदुभयं न कुर्यात् । अनेनायोगव्यावृत्तिरुक्ता । कृषिवणिज्यादौ वा शास्त्रान्तरसिद्धे चैत्यवन्दनादौ वा पुरुषार्थसाधनत्वबुद्ध्या प्रवृत्तिस्तस्य पूर्वोक्तमार्गतः सोऽयमन्य- योगः, तद्व्यावृत्तिस्तन्नातीयादित्यनेनोच्यते । तत्पूर्वोक्तमार्गरूपमुभयं नातिक्रामेत् ।


१ क. ख. ग. ॰रिप्रमाणप्रप॰ । २ क. ख. ॰तीतो यश्चाऽऽ॰ । ३ क. ख. ॰त्सत्यं न बा॰ ।
४ क. ॰पि बार्थासिद्धि॰ । ख. ॰पि दुर्बोधासिद्धि॰ । ग. ॰पि बाधासिद्धि॰ ।

अध्या० १ ख० १] ऐतरेयारण्यकम् । ८७

तमेवानतिक्रमं स्वपक्षसाधनपरपक्षदूषणाभ्यां द्रढयति— न ह्यत्यायन्पूर्वे येऽत्यायंस्ते परा बभूवुः, इति । पूर्वे महर्षयो व्यासवसिष्ठादयस्तमुक्तं पन्थानं नैवात्यायन्नात्यक्रामन् । ये तु नास्तिका अत्यक्रामंस्ते पराबभूवुः पराभूताः पुरुषार्थाद्भूष्टाः । ब्राह्मणेनोक्तस्यार्थस्य दाढर्याय मन्त्रमुदाहरति— तदुक्तमृषिणा प्रजा ह तिस्रो अत्यायमीयु- र्न्य१न्या अर्कमभितो विविश्रे । बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेशेति, इति । तत्पूर्वोक्तमार्गातिक्रमानतिक्रमयोर्बाधाबाधावित्येतदर्थजातमृषिणा केनचिन्मन्त्रद- र्शिना पुरुषेण तन्मन्त्ररूपया वाचा कयाचिदुक्तम्२ । “प्रजा ह” [ ऋ० सं० म० ८ सू० १०१ ऋ० १४ ] इत्यादिको मन्त्रः । ब्राह्मणक्षत्रियविट्शूद्राः प्रजास्तासां भागचतुष्टयेन भागत्रयवर्तिन्यस्तिस्रः प्रजा वैदिकमार्गश्रद्धारहिताः सत्यो यथो- क्तस्य मार्गस्यात्यायमतिक्रममीयुः प्राप्ताः । लोके३ हि गुरुशास्त्रोपदेशरहितानां बाहु- ल्यमुपलभ्यते तत्प्रसिद्धिज्योतनार्थो हशब्दः । चतुर्थभागेऽवस्थितानां प्रजानां मध्येऽ- न्याः काश्चित्प्रजा अर्कमर्चनीयमग्निमभितो निविविश्रे निविष्टास्तदुपासने प्रवृत्ता इत्यर्थः । भुवनेष्वन्तः सर्वेषु लोकेषु मध्ये बृहत्प्रौढं सर्वजगत्प्रकाशकं ह प्रसिद्ध- मादित्यमण्डलं तस्थौ, तन्मण्डलवर्तिनमप्यन्याः काश्चित्प्रजा अभितो निविष्टा इत्य- न्वयः । पवमानो जगतः शुद्ध्यर्थं सर्वदा संचरन्वायुर्हरितः सर्वा दिश आ विवेश । तमप्यन्या अभितो निविष्टा इत्यन्वयः । इति शब्दो मन्त्रसमाप्त्यर्थः ।

तस्या ऋचः प्रथमपादं व्याचष्टे— प्रजा ह तिस्रो अत्यायमीयुरिति या वै ता इमाः प्रजास्तिस्रो अत्यायमायंस्तानी- मानि वयांसि वङ्गावगधाश्चेरपादाः, इति । ताः पूर्वमन्त्रोक्ता इमा अस्माभिर्द्दिश्यमानाः श्रद्धारहितास्त्रिविधाः प्रजा याः काश्चिद्वैदिकस्यातिक्रमं प्राप्तास्तानि तथाविधप्रजानां शरीराणि तद्दोषफलं भोक्तुं प्रवृ- त्तानीमान्यस्माभिर्द्दिश्यन्ते । सामान्यतः प्रोक्तानां पुनर्वयांसीत्यादिना विशेषनि- र्देशः । वयांसि पक्षिणः काकगृध्रादय आकाशे दृश्यन्ते । सोऽयं पक्षिसंघस्त्रिविधानां


प्रजा ह तिस्रो०—ऋ० सं० म० ८ सू० १०१ ऋ० १४ ।


१ ग. घ. ॰वाति । २ ग. घ. ङ. ॰चित्प्रोक्तं । ३ ग. ॰केऽपि हि । ४ क. घ. ङ. पूर्वोक्त ।

८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

प्रजानामेको भागः । वङ्गा वनगता वृक्षा अवगधा अवन्ति मनुष्यादीन्रक्षन्ति तैर्गृ- ध्यन्तेऽभिकाङ्क्ष्यन्त इति व्रीहियवाद्या ओषधयोऽवगधाः । "गृधु अभिकाङ्क्षा- याम्" इति धातोर्गधशब्दनिष्पत्तिः । सोऽयमोषधिवनस्पतिरूपः प्रजानां द्वितीयो राशिर्भूमौ वर्तते । ईरपादा उर(रः)पादाः सर्पा भूबिलवासिनः सोऽयं तृतीयो राशिः । तदेतत्प्रजात्रयं वैदिकातिक्रमदोषजन्यं नरकमनुभवति ।

द्वितीयपादं व्याचष्टे—

न्य१न्या अर्कमभितो विविश्र इति ता इमाः प्रजा अर्कमभितो निविष्टा इममेवाग्निम्, इति ।

योऽग्निरहवनीयादिरूपो दृश्यतेऽयमेवार्चनीयत्वादर्क इत्यर्थः ।

तृतीयपादं व्याचष्टे—

बृहद्ध तस्थौ भुवनेष्वन्तरित्यद उ एव बृहद्भुवनेष्वन्तरसावादित्यः, इति ।

बृहच्छब्देनाऽऽकाशे दृश्यमानमदस्तजोमण्डलमेव विवक्षितम् । सर्वजगत्प्रकाशक- त्वेन प्रौढत्वात् । तेन च मण्डलेन तत्रावस्थितोऽसावादित्य उपलक्षितः ।

चतुर्थपादं व्याचष्टे—

पवमानो हरित आ विवेशेति वायुरेव पवमानो दिशो हरित आविष्टा, इति ॥

इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये प्रथमः खण्डः ॥१॥

पादप्रक्षालननिष्ठिवनादिप्रदेशस्य शोषणेन शुद्धिहेतुत्वादयं वायुरेव पवमान इत्यु- च्यते । प्राच्यादिदिशस्तत्तत्कर्मसु विहिताः सत्योऽनुष्ठानवैकल्यं हरन्तीति हरिच्छब्दे- नोच्यन्ते । वायोर्दिक्षु संचारात्तत्राऽऽविष्टत्वम् । वैदिकातिक्रमं कृतवत्यः प्रजास्त्रिविधा अपि पक्ष्यादिरूपेण नरकजन्मानुभवन्ति, चतुर्थभागवर्तिन्यश्च श्रद्धायुक्ताः सत्य उत्त- मलोकप्राप्त्यर्थमग्निवाय्वादिदेवता उपासत इत्येवं हानिवृद्ध्योर्मन्त्रेणोक्तत्वाद्वैदिकमेतं पन्थानं सर्वथा नातिक्रामेदित्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥


न्यन्या१ अर्कमभितो०—ऋ० सं० म० ८ सू० १०१ ऋ० १४ । बृहद्ध तस्थौ०—ऋ० सं० म० ८ सू० १०१ ऋ० १४ । पवमानो हरित आविवेश०— ऋ० सं० म० ८ सू० १०१ ऋ० १४ ।


१ घ. ङ. वनगा । २ ग. ईरपादा । ३ ख. ग. ॰क्रमे दो॰ । ४ क. ॰वं ज्ञानिवृद्धैर्मै॰ । ग. ॰वं ज्ञानवृद्धैर्मै॰ ।

अध्या० १।ख० २] ऐतरेयारण्यकम् । ८९

अथ द्वितीयः खण्डः ।


पूर्वोत्तरकाण्डार्थरूपो द्विविधो मार्ग उपदिष्टः । तत्र “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन” [ बृ० उ० ६ । ४ । २२ ] इत्येवं विविदिषाहेतुत्वश्रवणात्प्रथममनुष्ठेयत्वेन पूर्वकाण्डे यज्ञादीनि कर्माण्युक्तानि । तैः कर्मभिरुत्पन्नायामपि विविदिषायाम् “दृश्यते त्वग्र्यया बुद्ध्या” [काठ० ३ । १२] इति श्रुतेरेकाग्रचित्तस्यैव ब्रह्मदर्शने हेतुत्वात्तदैकाग्र्यसिद्ध्यर्थमस्मिन्काण्डे प्रथममुपासनमभिधीयते । तच्चोपासनं द्विविधम् । ब्रह्मोपासनं प्रतीकोपासनं चेति । ब्रह्मण एव गुणविशिष्टत्वेन चिन्तनं ब्रह्मोपासनम् । प्रबललौकिकपदार्थवासनोपेतस्य तत्परित्यागेन ब्रह्मणि चित्तस्याप्रवेशाद्ब्रह्मभावनया लौकिकवस्तुचिन्तनं प्रतीकोपासनम् । तच्च प्रतीकं द्विविधम् । यज्ञाद्बहिर्भूतं यज्ञाङ्गं चेति । तत्र महाव्रतान्तबहुविधयज्ञाङ्गवासनावासितस्य यज्ञाङ्गे सहसा चित्तं प्रविशतीति मत्वा “उक्थमुक्थम्” इत्यादिनाऽङ्गावबद्धमुपासनमुच्यते । एतेष्वङ्गावबद्धेषूपासनेषु पञ्च विचारा मीमांसायां प्रवृत्ताः । ऋत्विज एवात्राधिकारो न यजमानस्येत्येको विचारः । कर्माङ्गेषु प्रतीकेष्वेव पृथिव्यादिदेवतादृष्टिर्न तु देवतायामङ्गदृष्टिरिति द्वितीयः । यस्यां शाखायां यद्ध्यानं विहितं तच्छाखागत एवाङ्गे तदिति नास्ति नियमः किंतु शाखान्तरगतेऽप्यङ्ग इति तृतीयः । यावन्त्यङ्गावबद्धान्युपासनानि सन्ति तावन्ति सर्वाण्यनुष्ठेयानीति नास्ति नियमः किं त्वेकं बहूनि वा स्वेच्छयेति चतुर्थः । कर्मानुष्ठानकालेऽङ्गावबद्धोपासनान्यवश्यमनुष्ठेयानीति नास्ति नियमः किंतु स्वेच्छया तदनुष्ठानमिति पञ्चमः ।

तत्र प्रथमो विचारस्तृतीयाध्यायस्य चतुर्थपादेऽभिहितः—

“अङ्गध्यानं याजमानमार्त्विज्यं वा यतः फलम् ।
ध्यात्तुरेव श्रुतं तस्माद्याजमानमुपासनम् ।
ब्रूयादेवंविदुद्गातेत्यार्त्विज्यं तु स्फुटं श्रुतम् ।
क्रीतत्वादृत्विजस्तेन कृतं स्वामिकृतं भवेत् ।

अङ्गावबद्धेषूपासनेषु यजमान एवानुष्ठाता नर्त्विक्, ध्यातुः फलश्रवणात् । फलं तु यजमानस्यैवोचितं स्वामित्वात् । तस्मात्फलिनो यजमानस्यैव ध्यातृत्वमिति प्राप्ते ब्रूमः । एवं विदुद्गाता ब्रूयादिति वाक्यशेषादुद्गातुरुपासकत्वं स्पष्टं श्रूयते । युक्तं चैतत् । ऋत्विजामशेषकर्तव्यानुष्ठानाय यजमानेन क्रीतत्वात् । तस्मादृत्विक्कृतमपि यजमानेनैव कृतमिति फलितत्वोपपत्तेरुपासनमृत्विजां कर्म । ”


१ ख. ॰स्तुतन्श्चिन्तं । २ ख. ग. तत्र । ३ ख. ॰र्त्विज्यत्वफलं श्रु॰ । घ. ङ. ॰र्त्विज्यत्वं स्फु॰ ।
४ क. तु फलं श्रु॰ । ५ ग स्मृतम् । ६ क. ख. ग. ॰ते । तस्य यु॰ । ७ घ. ङ. ॰र्तव्यतानुज्ञाना॰ ।

द्वितीयो विचारश्चतुर्थाध्यायस्य प्रथमपादे दर्शितः-

९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-

द्वितीयो विचारश्चतुर्थाध्यायस्य प्रथमपादे दर्शितः- “आदित्यादवाऽङ्गदृष्टिरङ्गे रव्यादिधीरूत । नोत्कर्षो ब्रह्मजत्वेन द्वयोस्तेनैष्ठि(च्छि)की मतिः । आदित्यादिधियाऽङ्गानां संस्कारे कर्मणः फले । युज्यतेऽतिशयस्तस्मादङ्गेष्वर्कादिदृष्टयः ॥

“ य एवासौ तपति तमुद्गीथमुपासीत ” इत्यादित्यदेवतां प्रतीकं कृत्वा कर्माङ्ग- भूतोद्गीथदृष्टिः कर्तव्या । विपर्ययेण वा कर्माङ्ग आदित्यदृष्टिः । आदित्योद्गीथयोरुभयो- र्ब्रह्मकार्यत्वेन पूर्वाधिकरणोक्तोत्कर्षन्यायावतारेण नियामकाभावात् । इति प्राप्ते ब्रूमः— आदित्यदृष्ट्या कर्माङ्गं संस्कर्तव्यम् । तथा सति दृष्टिभिः संस्कृतस्य कर्मणः फलाति- शयसंभवात् । विपर्यये तु कर्माङ्गैर्रादित्यदेवतायां संस्कृतायां किं तत्करिष्यति । न ह्यक्रियात्मिका देवता फलस्य साधनं भवति, अन्यथा देवतायाः साधारणत्वेन यज- मानायजमानयोः फलसाम्यप्रसङ्गात् । तस्मादङ्गेष्वादित्यादिदृष्टयः कर्तव्याः ” ।

तृतीयो विचारस्तृतीयाध्यायस्य तृतीयपादे दर्शितः -- “उक्थादिधीः स्वशाखाङ्गेष्वेवान्यत्रापि वा भवेत् । सांनिध्यात्स्वस्वशाखाङ्गेष्वेवासौ व्यवतिष्ठते ॥ उक्थोद्गीथादिसामान्यं तत्तच्छब्दैः प्रतीयते । श्रुत्या च संनिधेर्बाधस्ततोऽन्यत्रापि यात्यसौ ॥

अङ्गावबद्धोपासनेषूक्थशस्त्रस्य कर्माङ्गे पृथिव्यादिदृष्टिरैतरेयोपनिषदि श्रूयते । उक्थं तु कौषीतक्यादिशाखान्तरेष्वपि विहितम् । तत्र पृथिवीदृष्टिरैतरेयगतोक्थ एव व्यवतिष्ठत उत कौषीतक्यादिष्वनुवर्तत इति संदेहे सति संनिहितत्वात्स्वशाखायामेव व्यवस्थितेति प्राप्ते ब्रूमः । उक्थशब्दस्तावन्मुख्यया वृत्त्या सर्वशाखागतमुक्तसामान्य- माचष्टे । तत उक्थश्रुतिवशात्सर्वशाखागतोक्थेष्वनुवृत्तिः प्राप्ता । श्रुतिः संनिधेर्बली- यसी, तस्मात्काचिद्विहिता धीः शाखान्तरेष्वनुगच्छति” ।

चतुर्थो विचारस्तत्रैव दर्शितः— “समुच्चयोऽङ्गबद्धेषु याथाकाम्येन वा मतिः । समुच्चितत्वादङ्गानां त्व(त)द्बद्धेषु समुच्चयः ॥ ग्रहं गृहीत्वा स्तोत्रस्याऽऽरम्भ इत्यादिवन्न हि । श्रूयते सहभावोऽत्र याथाकाम्यं ततो भवेत् ॥

द्विविधानि प्रतीकानि, लौकिकानि कर्माङ्गानि च । तत्र लौकिकेषु प्रतीकेषु


१ ख. ॰र्भीरदृष्टेरा॰ । २ घ. ङ 'ध्यातु स्वशा॰ । ३ घ. ङ. ॰मर्द्दिः पृ॰ । ४ ख. ग. घ. ङ. ॰त्वात्तु स्वशां । ५ क. ॰नां संबन्धेषु । ख. ग. ॰नां तद्वाधेषुः ।

पञ्चमो विचारस्तत्रैव दर्शितः—

अध्या० १। ख० २] ऐतरेयारण्यकम् । [९१

निर्णयः पूर्वोक्तः । अत्र कर्माङ्गेषु समुच्चययथाकाम्ये विचार्येते । तत्र कर्माङ्गानि समुच्चित्यैवानुष्ठेयतया प्रयोगविधिप्रापितानि । तथा चाङ्गतन्त्रत्वादङ्गावबद्धोपासनानामपि समुच्चयनियम इति प्राप्ते ब्रूमः—"ग्रहं¹ वा गृहीत्वा चमसं² वोन्नीय स्तोत्रमुपाकुर्यात्” “स्तुतमनुशंसति” इत्यादौ यथा ग्रहस्तोत्रशंसनादीनां नियतपौर्वापर्येण सहभावः श्रुतो न तथोपासनेषु श्रूयते । तस्माद्विकल्पसमुच्चययोर्यथाकाम्यम् ।

पञ्चमो विचारस्तत्रैव दर्शितः—

“नित्या अङ्गावबद्धाः स्युः कर्मस्वनियता उत ।
पर्णवत्क्रतुसंबन्धो वाक्यान्नित्यास्ततो मताः ॥
पृथक्फलश्रुतेर्नैता नित्या गोदोहनादिवत् ।
उभौ कुरुत इत्युक्तेः कर्मोपास्यनुपासिनोः ॥

उद्गीथादिषु कर्माङ्गेषु प्रतिमादिवत्³प्रतीकभूतेषु विधीयमाना देवतोपास्तयोऽङ्गावबद्धाः । ताश्च कर्मस्वनुष्ठीयमानेषु कर्माङ्गवन्नियमेनानुष्ठातव्याः । कर्मप्रकरणमारभ्याध्ययनाद्भावेऽपि⁴ वाक्यात्क्रतुसंबन्धोपपत्तेः । यथा—“यस्य पर्णमयी जुहूर्भवति” इत्यनारभ्याधीतस्याव्यभिचरितजुहूद्वारा वाक्यात्क्रतुसंबन्धः, तथा—“य एवं विद्वानुद्गायति” “एवं विद्वान्साम गायति” इत्यादिष्वव्यभिचरिततत्क्रतुसंबन्धिसाम्नो(द्गी)थादिद्वारा तदुपासनानां क्रतुसंबन्धः प्रतीयते । तस्मात्कर्मसु नियता उपास्तय इति प्राप्ते ब्रूमः—गोदोहनादिवदनियता उपास्तयः । यथा “चमसेनापः प्रणयेत्” “गोदोहनेन पशुकामस्य” इत्यत्राप्रणयनमाश्रित्य विधीयमानमपि गोदोहनमक्रत्वर्थत्वादैच्छिकं न तु प्रणयनादिवन्नियतं तथा कर्माङ्गाण्याश्रित्य विधीयमाना उपास्तयो न क्रत्वर्थाः किंतु पुरुषार्थाः । कर्मफलात्पृथक्फलश्रवणात् । “वर्षति हास्मै” इति पञ्चविधे सामनि वृष्टिदेवतामुपासीनस्य कामवृष्टिः क्रतुफलात्पृथक्फलत्वेन श्रूयते । किंच “तावुभौ कुरुतो यश्चैवं वेद यश्च न वेद” इत्यास्मिन्नङ्गावबद्धोपास्तिवाक्यशेष उपासकानुपासकयोरुपास्त्याधारभूतेन तेनाङ्गेन कर्मानुष्ठानं विस्पष्टमाम्नायते । तस्मात्कर्मस्वनियता उपास्तयः” तदेतैः पञ्चभिर्विचारैर्निर्णीतमङ्गावबद्धोपासनं नानाविधविशेषणविशिष्टम्—“उक्थमुक्थम्” इत्यारभ्य “आत्मा वा इदम्” इत्यतः प्राक्तनेन ग्रन्थेन प्रतिपाद्यते । तत्राऽऽदौ महाव्रताङ्गभूते निष्केवल्याख्यशस्त्रे पृथिव्याद्याधिदैविकदेवतादृष्टिं वागाद्याध्यात्मिकदेवतादृष्टिं च क्रमेण विधित्सुः पृथिवीध्यानं दर्शयति—

उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थमियमेव


१ क. ॰हं गृ० । २ ग. ॰सं चोन्नीयँ । ३ क. ॰दित्तत्प्र० । ख. ग. घ. ॰दिषु तत्प्र० । ४ क. ख. ॰भावे सति वाँ ।

९२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किंच, इति ।

उक्थं शस्त्रम्, उत्तिष्ठत्यनेन देवताप्रसाद इति व्युत्पत्तेः । तत्र यज्ञं निष्पादयन्तो होतुर्यजमानादयः प्रजास्तत्तच्छस्त्रे ध्यातव्यं रहस्यं स्वरूपमज्ञात्वा केवलं नाममात्रेणोक्थमुक्थमित्येव व्यवहरन्ति । तद्रहस्यं त्वभिधीयते—तदुक्थस्वरूपमिदमेव वक्ष्यमाणं येयं पृथिवी दृश्यते सैव तद्रूपम् । इतो हि पृथिव्याः सकाशादिदं स्थावरजङ्गम break: मरूपं सर्वं जगदुत्तिष्ठति तस्मात्पृथिव्या उक्थत्वं युक्तम् । उक्थे पृथिवीदृष्टिः कर्तव्येत्यर्थः ।

तेन शस्त्रेणार्चनीये देवेऽग्निदृष्टिं शस्त्रसंबन्धिनीषु गायत्र्यादितृचाशीतिष्वन्नदृष्टिं च विधत्ते—

तस्याग्निरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति ।

तस्य शस्त्रस्य संबन्धी योऽयमर्कोऽर्चनीयो देवः सोऽयमग्निस্বরূপः । याश्च गायत्र्यूबृहत्युष्णिच्छन्दस्कास्तृचानामशीतयस्त्रिविधास्ताः सर्वा अन्नस्वरूपाः । तस्मात्कारणल्लौकिकः पुरुषोऽन्नेनेदं सर्वं प्राणिजातमश्नुते व्याप्नोति । अन्नवन्तं पुरुषं सर्वे जनास्तल्लाभाय सेवन्ते ।

पूर्वोक्तपृथिव्यादिवदुक्थदेवताशीतिष्वन्तरिक्षवाद्यन्नदृष्टिं विधत्ते—

अन्तरिक्षमेवोक्थमन्तरिक्षं वा अनु पतन्त्यन्तरिक्षमनु धावयन्ति तस्य वायुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति ।

पक्षिणः सर्वेऽप्यन्तरिक्षमनुसृत्योपरि पतन्ति संचरन्ति, मनुष्याश्च भूमेरुपर्यन्तरिक्षमवकाशमनुसृत्यैवाश्ववलीवर्दादीन्धावयन्ति, तस्मादन्तरिक्षस्योक्थत्वं युक्तम् ।

द्युलोकादिदृष्टिं विधत्ते—

असावेव द्यौरुक्थममुतःप्रदानाद्धीदं सर्वमुत्तिष्ठति यदिदं किंच तस्यासावादित्योऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते , इति ।

अमुतो द्युलोकाद्भूमो प्रदीयते यद्वृष्टिजलं तस्माज्जलप्रदानादिदं सर्वमोषधिवनस्पत्यादिकं यत्किंचिदस्ति तदुत्तिष्ठति तस्माद्द्युलोकस्योक्थत्वं युक्तम् ।

नृपशोर्बुद्धिसमाधानायोक्तवक्ष्यमाणयोर्ध्यानयोर्विभागं दर्शयति—

इत्यधिदैवतमथाध्यात्मम्, इति ।

दैवतानि पृथिव्यादीन्यधिकृत्य प्रवृत्तं ध्यानमधिदैवतम् । तच्चेत्युक्तप्रकारेण