भारतकोश
संग्रह पर लौटें

अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

Ashtadhyayi Sutrapatha of Maharshi Panini

महर्षि पाणिनि द्वारा

DevanagariSanskritpublished102 पृष्ठ

५८ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) १२६ ई३ चाक्रवर्मणस्य। १२७ दिव उत्। १२८ एतत्तदोः सुलोपोऽकोरनञ्- समासे हलि। १२९ स्यश्छन्दसि बहुलम्। १३० सोऽचि लोपे चेत्पादपूरणम्। १३१ सुट् कात्पूर्वः। १३२ सम्परिभ्यां करोतौ भूषणे। १३३ समवाये च। १३४ उपात्प्रतियत्नवैकृत- वाक्याध्याहारेषु। १३५ किरतौ लवने। १३६ हिंसायां प्रतेश्च। १३७ अपाच्चतुष्पाच्छकुनिष्वा- लेखने। १३८ कुस्तुम्बुरूणि जातिः। १३९ अपरस्पराः क्रियासातत्ये। १४० गोष्पदं सेवितासेवित- प्रमाणेषु। १४१ आस्पदं प्रतिष्ठायाम्। १४२ आश्चर्यमनित्ये। १४३ वर्चस्केऽवस्करः। १४४ अपस्करो रथाङ्गम्। १४५ विष्किरः शकुनौ वा। १४६ ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे। १४७ प्रतिष्कशश्च कशेः। १४८ प्रस्कण्वहरिश्चन्द्रावृषी। १४९ मस्करमस्करिणौ वेणुपरिव्राजकयोः। १५० कास्तीराजस्तुन्दे नगरे। १५१ पारस्करप्रभृतीनि च संज्ञायाम्। १५२ अनुदात्तं पदमेकवर्जम्। १५३ कर्षात्वतो घञोऽन्त उदात्तः। १५४ उच्चादीनां च। १५५ अनुदात्तस्य च यत्रोदात्तलोपः। १५६ धातोः। १५७ चितः। १५८ तद्धितस्य। १५९ कितः। १६० तिसृभ्यो जसः। १६१ चतुरः शसि। १६२ सावेकाचस्तृतीयादिर् विभक्तिः। १६३ अन्तोदात्तादुत्तरपदादन्य- तरस्यामनित्यसमासे। १६४ अञ्चेश्छन्दस्यसर्वनाम- स्थानम्। १६५ ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः। १६६ अष्टनो दीर्घात्। १६७ शतुरनुमो नद्याजादी। १६८ उदात्तयणो हल्पूर्वात्। १६९ नोड्धात्वोः। १७० ह्रस्वनुड्भ्यां मतुप्।

षष्ठाध्याये प्रथमः पादः ५९ १७१ नामन्यतरस्याम्। १७२ ङ्याश्छन्दसि बहुलम्। १७३ षट्त्रिचतुर्भ्यो हलादिः। १७४ झल्युपोत्तमम्। १७५ विभाषा भाषायाम्। १७६ न गोश्वसावर्णराडङ्क्रुङ्- कृद्भ्यः। १७७ दिवो झल्। १७८ नृ चान्यतरस्याम्। १७९ तित्स्वरितम्। १८० तास्यनुदात्तेन्ङिददुपदेशाल्ल- सार्वधातुकमनुदात्तमह्निवडोः। १८१ आदिः सिचोऽन्यतरस्याम्। १८२ स्वपादिहिंसामच्यनिटि। १८३ अभ्यस्तानामादिः। १८४ अनुदात्ते च। १८५ सर्वस्य सुपि। १८६ भीह्रीभृमदजनधनदरिद्रा- जागरां प्रत्ययात्पूर्व पिति। १८७ लिति। १८८ आदिर्णमुल्यन्यतरस्याम्। १८९ अचः कर्तृयकि। १९० थलि च सेटीडन्तो वा। १९१ ञ्नित्यादिर्नित्यम्। १९२ आमन्त्रितस्य च। १९३ पथि मथोः सर्वनामस्थाने। १९४ अन्तश्च तवै युगपत्। १९५ क्षयो निवासे। १९६ जयः करणम्। १९७ वृषादीनां च। १९८ सञ्ज्ञायामुपमानम्। १९९ निष्ठा च द्व्यजनात्। २०० शुष्कधृष्टौ। २०१ आशितः कर्ता। २०२ रिक्ते विभाषा। २०३ जुष्टार्पिते चच्छन्दसि। २०४ नित्यं मन्त्रे। २०५ युष्मदस्मदोर्ङसि। २०६ ङयि च। २०७ यतोऽनावः। २०८ ईडवन्दवृशंसदुहां ण्यतः। २०९ विभाषा वेण्विन्धानयोः। २१० त्यागरागहासकुहश्वथ- क्रथानाम्। २११ उपोत्तमं रिति। २१२ चङ्यन्यतरस्याम्। २१३ मतोः पूर्वमात्सञ्ज्ञायां स्त्रियाम्। २१४ अन्तोऽवत्याः। २१५ ईवत्याः। २१६ चौ। २१७ समासस्य। --०--

६० अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) द्वितीयः पादः १ बहुव्रीहौ प्रकृत्या पूर्वपदम्। २ तत्पुरुषे तुल्यार्थतृतीयासप्तम्युप- मानाव्ययद्वितीयाकृत्याः। ३ वर्णो वर्णेष्वनेते। ४ गाधलवणयोः प्रमाणे। ५ दायाद्यं दायादे। ६ प्रतिबन्धि चिरकृच्छ्रयोः। ७ पदेऽपदेशे। ८ निवाते वातत्राणे। ९ शारदेऽनार्तवे। १० अध्वर्युकषाययोर्जातौ। ११ सदृशप्रतिरूपयोः सादृश्ये। १२ द्विगो प्रमाणे। १३ गन्तव्यपण्यं वाणिजे। १४ मात्रोपज्ञोपक्रमच्छाये नपुंसके। १५ सुखप्रियोर्हिते। १६ प्रीतौ च। १७ स्वं स्वामिनि। १८ पत्यावैश्वर्ये। १९ न भूवाक्चिद्दिधिषु। २० वा भुवनम्। २१ आशङ्काबाधनेदीयःसु सम्भावने। २२ पूर्वे भूतपूर्वे। २३ सविधसनीडमर्यादसवश- सदेशेषु सामीप्ये। २४ विस्पष्टादीनि गुणवचनेषु। २५ श्रज्यावमकन्पापवत्सु भावे कर्मधारये। २६ कुमारश्च। २७ आदिः प्रत्येनासि। २८ पूगेष्वन्यतरस्याम्। २९ इगन्तकालकपालभगाल- शरावेषु द्विगो। ३० बह्वन्यतरस्याम्। ३१ दिष्टिवितस्त्योश्च। ३२ सप्तमी सिद्धशुष्कपक्व- बन्धेष्वकालात्। ३३ परिप्रत्युपापा वर्ज्यमानाहो- रात्रावयवेषु। ३४ राजन्यबहुवचनद्वन्द्वेऽन्धक- वृष्णिषु। ३५ सङ्ख्या। ३६ आचार्योपसर्जनश्चान्तेवासी। ३७ कार्तकौजपादयश्च। ३८ महान्व्रीह्यपराह्णगृष्टीष्वास- जाबालभारभारतहैलि- हिलरौरवप्रवृद्धेषु। ३९ क्षुल्लकश्च वैश्वदेवे। ४० उष्ट्रः सादिवाम्योः। ४१ गौः सादसादिसारथिषु। ४२ कुरुगार्हपत रिक्तगुर्वसूत-

५. पञ्चमोऽध्यायः (तद्धित विशेष प्रकरण पाद १-४)

षष्ठाध्याये द्वितीयः पादः ६१ जरत्यश्लीलदृढरूपा पारे- वडवा तैतिलकद्रूः पण्य- कम्बलो दासीभाराणां च। ४३ चतुर्थी तदर्थे। ४४ अर्थे। ४५ क्ते च। ४६ कर्मधारयेऽनिष्ठा। ४७ अहीने द्वितीया। ४८ तृतीया कर्मणि। ४९ गतिरनन्तरः। ५० तादौ च निति कृत्यतौ। ५१ तवै चान्तश्च युगपत्। ५२ अनिगन्तोऽञ्चतौ वप्रत्यये। ५३ न्यधी च। ५४ ईषदन्यतरस्याम्। ५५ हिरण्यपरिमाणं धने। ५६ प्रथमोऽचिरोपसम्पत्तौ। ५७ कतरकतमौ कर्मधारये। ५८ आर्यो ब्राह्मणकुमारयोः। ५९ राजा च। ६० षष्ठी प्रत्येनसि। ६१ क्ते नित्यार्थे। ६२ ग्रामः शिल्पिनि। ६३ राजा च प्रशंसायाम्। ६४ आदिरुदात्तः। ६५ सप्तमीहारिणौ धर्म्येऽहरणे। ६६ युक्ते च। ६७ विभाषाध्यक्षे। ६८ पापं च शिल्पिनि। ६९ गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे। ७० अङ्गानि मैरेये। ७१ भक्ताख्यास्तदर्थेषु। ७२ गोबिडालसिंहसैन्धवेषूपमाने। ७३ अके जीविकार्थे। ७४ प्राचां क्रीडायाम्। ७५ अणि नियुक्ते। ७६ शिल्पिनि चाकृञः। ७७ सञ्ज्ञायां च। ७८ गोतन्तियवं पाले। ७९ णिनि। ८० उपमानं शब्दार्थप्रकृतावेव। ८१ युक्तारोह्यादयश्च। ८२ दीर्घकाशतुषभ्राष्ट्रवटं जे। ८३ अन्त्यात्पूर्वं बह्वचः। ८४ ग्रामेऽनिवसन्तः। ८५ घोषादिषु च। ८६ छात्रादयः शालायाम्। ८७ प्रस्थेऽवृद्धमकर्क्यादीनाम्। ८८ मालादीनां च। ८९ अमहन्नवं नगरेऽनुदीचाम्। ९० अर्मे चावर्णं द्व्यच्त्र्यच्। ९१ न भूताधिकसञ्जीवमद्राश्म- कज्जलम्।

६२ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )

वामस्तम्भः (Left Column)

९२ अन्तः। ९३ सर्वं गुणकार्त्स्न्ये। ९४ सञ्ज्ञायां गिरिनिकाययोः। ९५ कुमार्यां वयसि। ९६ उदकेऽकेवले। ९७ द्विगो क्रतौ। ९८ सभायां नपुंसके। ९९ पुरे प्राचाम्। १०० अरिष्टगौडपूर्वे च। १०१ न हास्तिनफलकमार्देयाः। १०२ कुसूलकूपकुम्भशालं बिले। १०३ दिक्शब्दा ग्रामजनपदाख्यान- चानराठेषु। १०४ आचार्य्योपसर्जनश्चान्ते- वासिनि। १०५ उत्तरपदवृद्धौ सर्वं च। १०६ बहुव्रीहौ विश्वं सञ्ज्ञायाम्। १०७ उदराश्वेषुषु। १०८ क्षेपे। १०९ नदी बन्धुनि। ११० निष्षोपसर्गपूर्वमन्य- तरस्याम्। १११ उत्तरपदादिः। ११२ कर्णो वर्णलक्षणात्। ११३ सञ्ज्ञोपमयोश्च। ११४ कण्ठपृष्ठग्रीवाजङ्घं च। ११५ शृङ्गमवस्थायां च। ११६ नञो जरन्ममित्रमृताः।


दक्षिणस्तम्भः (Right Column)

११७ सोर्मनसी अलोमोषसी। ११८ क्रत्वादयश्च। ११९ आद्युदात्तं द्व्यच्छन्दसि। १२० वीरवीर्यौ च। १२१ कूलतीरतूलमूलशालाक्ष- सममव्ययीभावे। १२२ कंसमन्थशूर्पपाय्यकाण्डं द्विगो। १२३ तत्पुरुषे शालायां नपुंसके। १२४ कन्था च। १२५ आदिश्चहणादीनाम्। १२६ चेलखेटकटुककाण्डं गर्हायाम्। १२७ चीरमुपमानम्। १२८ पललसूपशाकं मिश्रे। १२९ कूलसूदस्थलकर्षाः सञ्ज्ञायाम्। १३० अकर्मधारये राज्यम्। १३१ वर्गादयश्च। १३२ पुत्रः पुम्भ्यः। १३३ नाचार्थ्याराजर्त्विक्संयुक्त- ज्ञात्याख्येभ्यः। १३४ चूर्णादीन्यप्राणिषष्ठ्याः। १३५ षट् च काण्डादीनि। १३६ कुण्डं वनम्। १३७ प्रकृत्या भगालम्। १३८ शितेर्नित्याबह्वज्बहुव्रीहाव- भसत्।

षष्ठाध्याये द्वितीयः पादः ६३ [वामभागः / प्रथमः स्तम्भः] १३९ गतिकारकोपपदात्कृत्। १४० उभे वनस्पत्यादिषु युगपत्। १४१ देवताद्वन्द्वे च। १४२ नोत्तरपदेऽनुदात्तादाव- पृथिवीरुद्रपूषमन्थिषु। १४३ अन्तः। १४४ थाथघञ्क्ताजबित्रकाणाम्। १४५ सूपमानात्क्तः। १४६ सञ्ज्ञायामनाचितादीनाम्। १४७ प्रवृद्धादीनां च। १४८ कारकाद् दत्तश्रुतयोरेवाशिषि। १४९ इत्थम्भूतेन कृतमिति च। १५० अनो भावकर्मवचनः। १५१ मन्क्तिन्व्याख्यानशयनासन- स्थानयाजकादिक्रीताः। १५२ सप्तम्याः पुण्यम्। १५३ ऊनार्थकलहं तृतीयायाः। १५४ मिश्रं चानुपसर्गमसन्धौ। १५५ नञो गुणप्रतिषेधे सम्पाद्यार्ह- हितालमर्थास्तद्धिताः। १५६ ययतोश्चातदर्थे। १५७ अच्चावशक्तौ। १५८ आक्रोशे च। १५९ सञ्ज्ञायाम्। १६० कृत्योकेष्णुच्चार्वादयश्च। १६१ विभाषा तृन्नन्नतीक्ष्ण- शुचिषु। [दक्षिणभागः / द्वितीयः स्तम्भः] १६२ बहुव्रीहाविदमेतत्तद्द्ब्यः प्रथमपूरणयोः क्रियागणने। १६३ सङ्ख्यायाः स्तनः। १६४ विभाषा छन्दसि। १६५ सञ्ज्ञायां मित्राजिनयोः। १६६ व्यवायिनोऽन्तरम्। १६७ मुखं स्वाङ्गम्। १६८ नाव्ययदिग्शब्दगोमहत्- स्थूलमुष्टिपृथुवत्सेभ्यः। १६९ निष्ठोपमानादन्यतरस्याम्। १७० जातिकालसुखादिभ्योऽ- नाच्छादनात्क्तोऽकृतमित- प्रतिपन्नाः। १७१ वा जाते। १७२ नञ्सुभ्याम्। १७३ कपि पूर्वम्। १७४ ह्रस्वान्तेऽन्त्यात्पूर्वम्। १७५ बहोर्नञ्वदुत्तरपदभूम्नि। १७६ न गुणादयोऽवयवाः। १७७ उपसर्गात्स्वाङ्गं ध्रुवमपर्शु। १७८ वनं समासे। १७९ अन्तः। १८० अन्तश्च। १८१ न निर्विभ्याम्। १८२ परेर्भितोभावि मण्डलम्। १८३ प्रादस्वाङ्गं सञ्ज्ञायाम्। १८४ निरुदकादीनि च।

६४ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) [ वामस्तम्भः ] १८५ अभेर्मुखम्। १८६ अपाच्च। १८७ स्फिगपूतवीणाञ्जोऽध्व- कुक्षीसीरनामनाम च। १८८ अधेरुपरिस्थम्। १८९ अनोरप्रधानकनीयसी। १९० पुरुषश्चान्वादिष्टः। १९१ अतेरकृत्यदे। १९२ नेर्निधाने। १९३ प्रतेरंश्वादयस्तत्पुरुषे। १९४ उपाद् द्व्यजजिनमगौरादयः। १९५ सोरवक्षेपणे। १९६ विभाषोत्पुच्छे। १९७ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ। १९८ सक्थं चाक्रान्तात्। १९९ परादिश्चन्दसि बहुलम्। --०-- तृतीयः पादः १ अलुगुत्तरपदे। २ पञ्चम्याः स्तोकादिभ्यः। ३ ओजःसहोऽम्भस्तमसस् तृतीयायाः। ४ मनसः सञ्ज्ञायाम्। ५ आज्ञायिनि च। ६ आत्मनश्च। ७ वैयाकरणाख्यायां चतुर्थ्याः परस्य च। [ दक्षिणस्तम्भः ] ८ हलदन्तात्सप्तम्याः सञ्ज्ञायाम्। ९ कारनाम्नि च प्राचां हलादौ। १० मध्याद् गुरौ। ११ अमूर्धमस्तकात्स्वाङ्गाद- कामे। १२ बन्धे च विभाषा। १३ तत्पुरुषे कृति बहुलम्। १४ प्रावृट्शरत्कालदिवां जे। १५ विभाषा वर्षक्षरशरवरात्। १६ घकालतनेषु कालनाम्नः। १७ शयवासवासिष्वकालात्। १८ नेन्सिद्धबध्नातिषु च। १९ स्थे च भाषायाम्। २० षष्ठ्या आक्रोश। २१ पुत्रेऽन्यतरस्याम्। २२ ऋतो विद्यायोनिसम्बन्धेभ्यः। २३ विभाषा स्वसृपत्योः। २४ आनङ् ऋतो द्वन्द्वे। २५ देवताद्वन्द्वे च। २६ ईदग्नेः सोमवरुणयोः। २७ इद् वृद्धौ। २८ दिवो द्यावा। २९ दिवसश्च पृथिव्याम्। ३० उषासोषसः। ३१ मातरपितरावुदीचाम्। ३२ पितरामातरा चच्छन्दसि। ३३ स्त्रियाः पुंवद् भाषितपुंस्कादनूङ्ः

षष्ठाध्याये तृतीयः पादः ६५ समानाधिकरणे स्त्रियाम्- । ५३ हिमकाषिहतिषु च। पूरणीप्रियादिषु। । ५४ ऋचः शे। ३४ तसिलादिष्वाकृत्वसुचः। । ५५ वा घोषमिश्रशब्देषु। ३५ क्यङ्मानिनोश्च। । ५६ उदकस्योदः संज्ञायाम्। ३६ न कोपधायाः। । ५७ पेषंवासवाहनधिषु च। ३७ संज्ञापूरणयोश्च। । ५८ एकहलादौ पूरयितव्येऽन्य- ३८ वृद्धिनिमित्तस्य च तद्धितस्या- । तरस्याम्। रक्तविकारे। । ५९ मन्थौदनसक्तुबिन्दुवज्रभार- ३९ स्वाङ्गाच्चेतः। । हारवीवधगाहेषु च। ४० जातेश्च। । ६० इको ह्रस्वोऽङ्यो गालवस्य। ४१ पुंवत्कर्मधारयजातीय- । ६१ एक तद्धिते च। देशीयेषु। । ६२ ड्यापोः संज्ञाछन्दसोर्बहुलम्। ४२ घरूपकल्पचेलड्ब्रुवगोत्रमत- । ६३ त्वे च। हतेषु ङ्योऽनेकाचो ह्रस्वः। । ६४ इष्टकेषीकामालानां ४३ नद्याः शेषस्यान्यतरस्याम्। । चिततूलभारिषु। ४४ उगितश्च। । ६५ खित्यनव्ययस्य। ४५ आन्महतः समानाधिकरण- । ६६ अरुद्विषदजन्तस्य मुम्। जातीययोः। । ६७ इच एकाचोऽप्रत्ययवच्च। ४६ द्व्यष्टनः सङ्ख्यायामबहु- । ६८ वाचंयमपुरन्दरौ च। व्रीह्यशीत्योः। । ६९ कारे सत्यागदस्य। ४७ त्रेस्त्रयः। । ७० श्येनतिलस्य पाते जे। ४८ विभाषा चत्वारिंशत्प्रभृतौ । ७१ रात्रेः कृति विभाषा। सर्वेषाम्। । ७२ नलोपो नञः। ४९ हृदयस्य हल्लेखयदण्लासेषु। । ७३ तस्मान्नुडचि। ५० वा शोकहृद्रोगेषु। । ७४ नभ्राण्नपान्नवेदानासत्या- ५१ पादस्य पदाज्यातिगोपहतेषु। । नमुचिनकुलनखनपुंसक- ५२ पद् यत्यतदर्थे। । नक्षत्रनकनाकेषु प्रकृत्या।

६६ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) ७५ एकादिश्चैकस्य चादुक्। ७६ नगोऽप्राणिष्वन्यतरस्याम्। ७७ सहस्य सः सञ्ज्ञायाम्। ७८ ग्रन्थान्ताधिके च। ७९ द्वितीये चानुपाख्ये। ८० अव्ययीभावे चाकाले। ८१ वोपसर्जनस्य। ८२ प्रकृत्याशिषि। ८३ समानस्य छन्दस्यमूर्ध- प्रभृत्युदकेषु। ८४ ज्योतिर्जनपदरात्रिनाभिनाम- गोत्ररूपस्थानवर्णवयोवचन- बन्धुषु। ८५ चरणे ब्रह्मचारिणि। ८६ तीर्थे ये। ८७ विभाषोदरे। ८८ दृग्दृशवतुषु। ८९ इदङ्किमोरीश्की। ९० आ सर्वनाम्नः। ९१ विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये। ९२ समः समि। ९३ तिरसस्तिर्यलोपे। ९४ सहस्य सध्रिः। ९५ सध मादस्थयोश्छन्दसि। ९६ द्व्यन्तरुपसर्गेभ्योऽप ईत्। ९७ ऊदनोद्देशे। ९८ अष्ट्यष्ट्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्- सुकोतिकारकरागच्छेषु। ९९ अर्थे विभाषा। १०० कोः कत्तत्पुरुषेऽचि। १०१ रथवदयोश्च। १०२ तृणे च जातौ। १०३ का पथ्यक्षयोः। १०४ ईषदर्थे। १०५ विभाषा पुरुषे। १०६ कवं चोष्णे। १०७ पथि चच्छन्दसि। १०८ पृषोदरादीनि यथोपदिष्टम्। १०९ सङ्ख्याविसाय- पूर्वस्याह्नास्याहनन्यतरस्यां ङौ। ११० ढ्रलोपे पूर्वस्य दीर्घोऽणः। १११ सहिवहोरोदवर्णस्य। ११२ साढ्यै साढ्वा साढेति निगमे। ११३ संहितायाम्। ११४ कर्णे लक्षणस्याविष्ट्राष्टपञ्च- मणिभिन्नच्छिन्नच्छिद्रस्रुव- स्वस्तिकस्य। ११५ नहिवृतिवृषिव्यधिरुचि- सहितनिषु क्वौ। ११६ वनगिर्योः सञ्ज्ञायां कोटर- किंशुलकादीनाम्। ११७ वले।

षष्ठाध्याये चतुर्थः पादः ६७ [वाम स्तम्भः] ११८ मतौ बह्वचोऽनजिरादीनाम्। ११९ शरादीनां च। १२० इको वहेऽपीलोः। १२१ उपसर्गस्य घञ्यमनुष्ये बहुलम्। १२२ इकः काशे। १२३ दस्ति। १२४ अष्टनः सञ्ज्ञायाम्। १२५ छन्दसि च। १२६ चितेः कपि। १२७ विश्वस्य वसुराटोः। १२८ नरे सञ्ज्ञायाम्। १२९ मित्रे चर्षौ। १३० मन्त्रे सोमाश्वेन्द्रियविश्व- देव्यस्य मतौ। १३१ ओषधेश्च विभक्ताव- प्रथमायाम्। १३२ ऋचि तुनुघमक्षुतङ्कु- त्रोरुष्याणाम्। १३३ इकः सुञि। १३४ द्व्यचोऽतस्तिङः। १३५ निपातस्य च। १३६ अन्येषामपि दृश्यते। १३७ चौ। १३८ सम्प्रसारणस्य। --०-- [दक्षिण स्तम्भः] चतुर्थः पादः १ अङ्गस्य। २ हलः। ३ नामि। ४ न तिसृचतसृ। ५ छन्दस्युभयथा। ६ नृ च। ७ नोपधायाः। ८ सर्वनामस्थाने चासम्बुद्धौ। ९ वा षपूर्वस्य निगमे। १० सान्तमहतः संयोगस्य। ११ अप्प्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृ- क्षत्तृहोतृपोतृप्रशास्तॄणाम्। १२ इन्हन्पूषार्यम्णां शौ। १३ सौ च। १४ अत्वसन्तस्य चाधातोः। १५ अनुनासिकस्य क्विझलोः क्ङिति। १६ अज्झनगमां सनि। १७ तनोतेर्विभाषा। १८ क्रमश्च क्त्वि। १९ च्छ्वोः शूडनुनासिके च। २० ज्वरत्वरस्त्रिव्यविमवामुप- धायाश्च। २१ राल्लोपः। २२ असिद्धवदत्राभात्। २३ श्नान्नलोपः।

६८ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )


[वामभागः / Left Column]

२४ अनिदितां हल उपधायाः क्ङिति। २५ दंशसञ्जस्वञ्जां शपि। २६ रञ्जेश्च। २७ घञि च भावकरणयोः। २८ स्यदो जवे। २९ अवोदैधोद्गप्रश्रथहिमश्रथाः। ३० नाञ्चेः पूजायाम्। ३१ क्त्वि स्कन्दिस्यन्दोः। ३२ जान्तनशां विभाषा। ३३ भञ्जेश्च चिणि। ३४ शास इदङ्हलोः। ३५ शा हौ। ३६ हन्तेर्जः। ३७ अनुदात्तोपदेशवनति- तनोत्यादीनामनुनासिक लोपो झलि क्ङिति। ३८ वा ल्यपि। ३९ न क्तिचि दीर्घश्च। ४० गमः क्वौ। ४१ विड्वनोरनुनासिकस्यात्। ४२ जनसनखनां सञ्झलोः। ४३ ये विभाषा। ४४ तनोतेर्यकि। ४५ सनः क्तिचि लोपश्चास्यान्- तरस्याम्। ४६ आर्धधातुके।


[दक्षिणभागः / Right Column]

४७ भ्रस्जो रोपधयो रमन्यतरस्याम्। ४८ अतो लोपः। ४९ यस्य हलः। ५० क्यस्य विभाषा। ५१ णेरनिटि। ५२ निष्ठायां सेटि। ५३ जनिता मन्त्रे। ५४ शमिता यज्ञे। ५५ अयामन्ताल्वाय्येत्विष्णुषु। ५६ ल्यपि लघुपूर्वात्। ५७ विभाषापः। ५८ युप्लुवोर्दीर्घश्छन्दसि। ५९ क्षियः। ६० निष्ठायामण्यदर्थे। ६१ वाक्रोशदैन्ययोः। ६२ स्यसिच्सीयुट्तासिषु भाव- कर्मणोरुपदेशेऽज्झनग्रह- दृशां वा चिण्वदिट् च। ६३ दीङो युडचि क्ङिति। ६४ आतो लोप इटि च। ६५ ईद् यति। ६६ घुमास्थागापाजहातिसां हलि। ६७ एर्लिङि। ६८ वान्यस्य संयोगादेः। ६९ न ल्यपि। ७० मयतेरिदन्यतरस्याम्।

षष्ठाध्याये चतुर्थः पादः ६९ ७१ लुङ्लङ्‌लृङ्क्ष्वडुदात्तः। ९६ छादेर्घेऽद्व्युपसर्गस्य। ७२ आडजादीनाम्। ९७ इस्मन्त्रन्क्विषु च। ७३ छन्दस्यपि दृश्यते। ९८ गमहनजनखनघसां लोपः ७४ न माङ्योगे। क्ङित्यनङि। ७५ बहुलं छन्दस्यमाङ्योगेऽपि। ९९ तनिपत्योश्छन्दसि। ७६ इरयो रे। १०० घसिभसोर्हलि च। ७७ अचि श्नुधातुभ्रुवां १०१ हुझल्भ्यो हेर्धिः। य्वोरियङुवङौ। १०२ शृशृणुपृकृवृभ्यश्छन्दसि। ७८ अभ्यासस्यासवर्णे। १०३ अडितश्च। ७९ स्त्रियाः। १०४ चिणो लुक्। ८० वाम्शसोः। १०५ अतो हेः। ८१ इणो यण्। १०६ उतश्च प्रत्ययादसंयोगपूर्वात्। ८२ एरनेकाचोऽसंयोगपूर्वस्य। १०७ लोपश्चास्यान्यतरस्यां म्वोः। ८३ ओः सुपि। १०८ नित्यं करोतेः। ८४ वर्षाभ्वश्च। १०९ ये च। ८५ न भूसुधियोः। ११० अत उत्सार्वधातुके। ८६ छन्दस्युभयथा। १११ श्नसोर्हल्लोपः। ८७ हुश्नुवोः सार्वधातुके। ११२ श्नाभ्यस्तयोरातः। ८८ भुवो वुग्लुङ्लिटोः। ११३ ई हल्यघोः। ८९ ऊदुपधाया गोहः। ११४ इद् दरिद्रस्य। ९० दोषो णौ। ११५ भियोऽन्यतरस्याम्। ९१ वा चित्तविरागे। ११६ जहातेश्च। ९२ मितां ह्रस्वः। ११७ आ च हौ। ९३ चिण्णमुलोर्दीर्घोऽन्य- ११८ लोपो यि। तरस्याम्। ११९ घ्वसोरेद्धावभ्यासलोपश्च। ९४ खचि ह्रस्वः। १२० अत एकहल्मध्येऽ- ९५ ह्लादो निष्ठायाम्। नादेशादेर्लिटि।

७० अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) १२१ थलि च सेटि। १४८ यस्येति च। १२२ तृफलभजत्रपश्च। १४९ सूर्यतिष्यागस्त्यमत्स्यानां य १२३ राधो हिंसायाम्। उपधायाः। १२४ वा जृभ्रमुत्रसाम्। १५० हलस्तद्धितेस्य। १२५ फणां च सप्तानाम्। १५१ आपत्यस्य च तद्धितेऽनाति। १२६ न शसददवादिगुणानाम्। १५२ क्यच्य्वोश्च। १२७ अर्वणस्त्रसावनञः। १५३ बिल्वकादिभ्यश्छस्य लुक्। १२८ मघवा बहुलम्। १५४ तुरिष्ठेमेयःसु। १२९ भस्य। १५५ टेः। १३० पादः पत्। १५६ स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां १३१ वसोः सम्प्रसारणम्। यणादिपरं पूर्वस्य च गुणः। १३२ वाह ऊठ्। १५७ प्रियस्थिरस्फिरोरुबहुलगुरु- १३३ श्वयुवमघोनामतद्धिते। वृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थ- १३४ अल्लोपोऽनः। स्फवबंहिगर्वर्षित्रबद्रघिवृन्दाः। १३५ षपूर्वह्नधृतराज्ञामणि। १५८ बहोलोंपो भू च बहोः। १३६ विभाषा ङिःश्योः। १५९ इष्ठस्य यिट् च। १३७ न संयोगाद् वमन्तात्। १६० ज्यादादीयसः। १३८ अचः। १६१ र ऋतो हलादेर्लघोः। १३९ उद ईत्। १६२ विभाषार्जोश्छन्दसि। १४० आतो धातोः। १६३ प्रकृत्यैकाच्। १४१ मन्त्रेष्वाङ्यादेरात्मनः। १६४ इनण्यनपत्ये। १४२ ति विंशतेर्डिति। १६५ गाथिविदथिकेशिगणि- १४३ टेः। पणिनश्च। १४४ नस्तद्धिते। १६६ संयोगादिश्च। १४५ अह्नष्टखोरेव। १६७ अन्। १४६ ओर्गुणः। १६८ ये चाभावकर्मणोः। १४७ ढे लोपोऽकद्र्वाः। १६९ आत्माध्वानौ खे।

सप्तमाध्याये प्रथमः पादः ७१ १७० न मपूर्वोऽपत्येऽवर्मणः। १७१ ब्राह्मोऽजातौ। १७२ कार्मस्ताच्छील्ये। १७३ औक्षमपत्ये। १७४ दाण्डिनायनहास्तिनायनाथर्वणिक- जैह्माशिनेयवाशिनायनि- भ्रौणहत्यधैवत्यसारवैश्कवाक- मैत्रेयहिरण्मयानि। १७५ ऋत्य्वास्त्व्यवास्त्वमाध्वी- हिरण्ययानिच्छन्दसि। सप्तमोऽध्यायः प्रथमः पादः १ युवोरनाकौ। २ आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्। ३ झोऽन्तः। ४ अदभ्यस्तात्। ५ आत्मनेपदेष्वनतः। ६ शीङो रुट्। ७ वेत्तेर्विभाषा। ८ बहुलं छन्दसि। ९ अतो भिस ऐस्। १० बहुलं छन्दसि। ११ नेदमदसोर्कोः। १२ टाङ्सिङसामिनात्स्याः। १३ ङेर्यः। १४ सर्वनाम्नः स्मै। १५ ङसिङ्योः स्मात्स्मिनौ। १६ पूर्वादिभ्यो नवभ्यो वा। १७ जसः शी। १८ औङ आपः। १९ नपुंसकाच्च। २० जश्शसोः शिः। २१ अष्टाभ्य औश्। २२ षड्भ्यो लुक्। २३ स्वमोर्नपुंसकात्। २४ अतोऽम्। २५ अद्ड् डतरादिभ्यः पञ्चभ्यः। २६ नेतराच्छन्दसि। २७ युष्मदस्मद्भ्यां ङसोऽश्। २८ ङे·प्रथमयोरम्। २९ शसो न। ३० भ्यसो भ्यम्। ३१ पञ्चम्या अत्। ३२ एकवचनस्य च। ३३ साम आकम्। ३४ आत औ णलः। ३५ तुह्योस्तातङाशिष्यन्य- तरस्याम्।

७२ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) ३६ विदेः शतुर्वसुः। ३७ समासेऽनञ्पूर्वे क्त्वो ल्यप्। ३८ क्त्वापिच्छन्दसि। ३९ सुपां सुलुकपूर्वसवर्णाच्छेयाडा- ड्यायाजालः। ४० अमो मश्। ४१ लोपस्त आत्मनेपदेषु। ४२ ध्वमो ध्वात्। ४३ यजध्वैनमिति च। ४४ तस्य तात्। ४५ तप्तनप्तनथनाश्च। ४६ इदन्तो मसि। ४७ क्त्वो यक्। ४८ इष्ट्वीनमिति च। ४९ स्नात्यादयश्च। ५० आज्जसेरसुक। ५१ अश्वक्षीरवृषलवणानामात्म- प्रीतौ क्यचि। ५२ आमि सर्वनाम्नः सुट्। ५३ त्रेस्त्रयः। ५४ ह्रस्वनद्यापो नुट्। ५५ षट्चतुर्भ्यश्च। ५६ श्रीग्रामण्योश्छन्दसि। ५७ गोः पादान्ते। ५८ इदितो नुम्धातोः। ५९ शे मुचादीनाम्। ६० मस्जिनशोर्झलि। ६१ रधिजभोरचि। ६२ नेट्यलिटि रधेः। ६३ रभेरशब्लिटोः। ६४ लभेश्च। ६५ आङो यि। ६६ उपात्प्रशंसायाम्। ६७ उपसर्गात्खल्घञोः। ६८ न सुदुर्भ्यां केवलाभ्याम्। ६९ विभाषा चिण्णमुलोः। ७० उगिदचां सर्वनामस्थानेऽ- धातोः। ७१ युजेरसमासे। ७२ नपुंसकस्य झलचः। ७३ इकोऽचि विभक्तौ। ७४ तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य। ७५ अस्थिदधि- सक्थ्यक्ष्णामनङुदात्तः। ७६ छन्दस्यपि दृश्यते। ७७ ई च द्विवचने। ७८ नाभ्यस्ताच्छतुः। ७९ वा नपुंसकस्य। ८० आच्छीनद्योर्नुम्। ८१ शप्श्यनोर्नित्यम्। ८२ सावनडुहः। ८३ दृक्स्ववःस्वतवसां छन्दसि। ८४ दिव औत्।

सप्तमाध्याये द्वितीयः पादः ७३ ८५ पथिमन्युभुक्षामात्। ६ ऊर्णोतेर्विभाषा। ८६ इतोऽसर्वनामस्थाने। ७ अतो हलादेर्लघोः। ८७ थो न्थः। ८ नेड् वशि कृति। ८८ भस्य टेर्लोपः। ९ तितुत्रथसिसुसरकसेषु च। ८९ पुंसोऽसुङ्। १० एकाच उपदेशेऽनुदात्तात्। ९० गोतो णित्। ११ श्रूयुकः किति। ९१ णलुत्तमो वा। १२ सनि ग्रहगुहोश्च। ९२ सख्युरसम्बुद्धौ। १३ कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि। ९३ अनङ् सौ। १४ श्व्यिदितो निष्ठायाम्। ९४ ऋदुशनस्पुरुदंसोऽनेहसां च। १५ यस्य विभाषा। ९५ तृज्वत्क्रोष्टुः। १६ आदितश्च। ९६ स्त्रियां च। १७ विभाषा भावादिकर्मणोः। ९७ विभाषा तृतीयादिष्वचि। १८ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्ट- ९८ चतुरनडुहोरामुदात्तः। विरिब्धफाण्टबाढानि ९९ अम्सम्बुद्धौ। मन्थमनस्तमःसक्ताविस्पष्ट- १०० ऋत इद्धातline:तोः। स्वरानायासभृशेषु। १०१ उपधायाश्च। १९ धृषिशसी वैयात्ये। १०२ उदोष्वपूर्वस्य। २० दृढः स्थूलबलयोः। १०३ बहुलं छन्दसि। २१ प्रभौ परिवृढः। --०-- २२ कृच्छ्रगहनयोः कषः। द्वितीयः पादः २३ घुषिरविशब्दे। १ सिचि वृद्धिः परस्मैपदेषु। २४ अर्देः संनिविभ्यः। २ अतो ल्रान्तस्य। २५ अभेश्चाविदूर्र्ये। ३ वदव्रजहलन्तस्याचः। २६ णेरध्ययने वृत्तम्। ४ नेटि। २७ वा दान्तशान्तपूर्णदस्तस्पष्टच्छ- ५ ह्यन्तक्षणश्वसजागृणि- न्नसञ्जप्ताः। श्वेदिताम्। २८ रुष्यम्त्वरसङ्घुषास्वनाम्।

७४ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) २९ हृषेर्लोमसु। ५० क्लिशः क्त्वानिष्ठयोः। ३० अपचितश्च। ५१ पूङश्च। ३१ हृ हरेश्छन्दसि। ५२ वसतिservधोरिट्। ३२ अपरिह्विताश्च। ५३ अञ्जेः पूजायाम्। ३३ सोमे हरितः। ५४ लुभो विमोहने। ३४ ग्रसितस्कभितस्तभितोत्तभित- ५५ जृव्रश्च्योः क्त्वि। चतविकस्ता विशस्तृशंस्तृ- ५६ उदितो वा। शास्तृतस्तृतस्तृत्वरुत्वरूत्- ५७ सेडूसिचि कृतचृतच्छृदतॄद- वरूत्रीरुज्ज्वलितिक्षरिति- नृतः। क्षमितिवमित्यमितीति च। ५८ गमेरिट् परस्मैपदेषु। ३५ आर्धधातुकस्येड् वलादेः। ५९ न वृद्भ्यश्चतुर्भ्यः। ३६ स्नुक्रमोरनात्मनेपदनिमित्ते। ६० तासि च क्लृपः। ३७ ग्रहोऽलिटि दीर्घः। ६१ अचस्तास्वत्थल्यनिटो ३८ वृतो वा। नित्यम्। ३९ न लिङि। ६२ उपदेशेऽत्वतः। ४० सिचि च परस्मैपदेषु। ६३ ऋतो भारद्वाजस्य। ४१ इट् सनि वा। ६४ बभूथाततन्थजगृम्भववर्थेति ४२ लिङ्-सिचोरात्मनेपदेषु। निगमे। ४३ ऋतश्च संयोगादेः। ६५ विभाषा सृजिदृशोः। ४४ स्वरतिसूतिसूयतिधूञूदितो ६६ इडत्यर्तिव्ययतीनाम्। वा। ६७ वस्वेकाजाद्धसाम्। ४५ रधादिभ्यश्च। ६८ विभाषा गमह्नविद्विशाम्। ४६ निरः कुशः। ६९ सनिंससनिवांसम्। ४७ इणिनिष्ठायाम्। ७० ऋद्धनोः स्ये। ४८ तीषसहlubhruषरिशः। ७१ अञ्जेः सिचि। ४९ सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृ- ७२ स्तुसुधूंभ्यः परस्मैपदेषु। यूर्णुभरज्ञपिसनाम्।

६. षष्ठोऽध्यायः (प्रक्रिया, स्वर एवं सन्धि पाद १-४)

सप्तमाध्याये तृतीयः पादः ७५ ७३ यमरमनमातां सक् च। ७४ स्मिपूङ्रञ्ज्वशां सनि। ७५ किरश्च पञ्चभ्यः। ७६ रुदादिभ्यः सार्वधातुके। ७७ ईशः से। ७८ ईडजनोध्वे च। ७९ लिङः सलोपोऽनन्त्यस्य। ८० अतो येयः। ८१ आतो ङितः। ८२ आने मुक्। ८३ ईदासः। ८४ अष्टन आ विभक्तौ। ८५ रायो हलि। ८६ युष्मदस्मदोर्नादेशे। ८७ द्वितीयायां च। ८८ प्रथमायाश्च द्विवचने भाषायाम्। ८९ योऽचि। ९० शेषे लोपः। ९१ मपर्यन्तस्य। ९२ युवावौ द्विवचने। ९३ यूयवयौ जसि। ९४ त्वाहौ सौ। ९५ तुभ्यमह्यौ ङयि। ९६ तवममौ ङसि। ९७ त्वमावेकवचने। ९८ प्रत्ययोत्तरपदयोश्च। ९९ त्रिचतुरोः स्त्रियां तिसृचतसृ। १०० अचि र ऋतः। १०१ जराया जरसन्यतरस्याम्। १०२ त्यदादीनामः। १०३ किमः कः। १०४ कु तिहोः। १०५ क्वाति। १०६ तदोः सः सावनन्त्ययोः। १०७ अदस औ सुलोपश्च। १०८ इदमो मः। १०९ दश्च। ११० यः सौ। १११ इदोऽय्पुंसि। ११२ अनाप्यकः। ११३ हलि लोपः। ११४ मृजेर्वृद्धिः। ११५ अचो ञ्णिति। ११६ अत उपधायाः। ११७ तद्धितेष्वचामादेः। ११८ किति च। --०-- तृतीयः पादः १ देविकाशिंशपादित्यवाड्- दीर्घसत्रश्रेयसामात्। २ केकयमित्रयुप्रलयानां यादेरियः।

७६ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) ३ न स्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्। ४ द्वारादीनां च। ५ न्यग्रोधस्य च केवलस्य। ६ न कर्मव्यतिहारे। ७ स्वागतादीनां च। ८ श्वादेरिरिञ्। ९ पदान्तस्यान्यतरस्याम्। १० उत्तरपदस्य। ११ अवयवाद् ऋतोः। १२ सुसर्वार्द्धाज्जनपदस्य। १३ दिशोऽमद्राणाम्। १४ प्राचां ग्रामनगराणाम्। १५ सङ्ख्यायाः संवत्सरसङ्ख्यस्य च। १६ वर्षस्याभविष्यति। १७ परिमाणान्तस्यासञ्ज्ञाशाणयोः। १८ जे प्रोष्ठपदानाम्। १९ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च। २० अनुशतिकादीनां च। २१ देवताद्वन्द्वे च। २२ नेन्द्रस्य परस्य। २३ दीर्घाच्च वरुणस्य। २४ प्राचां नगरान्ते। २५ जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम्। २६ अर्द्धात्परिमाणस्य पूर्वस्य तु वा। २७ नातः परस्य। २८ प्रवाहणस्य ढे। २९ तत्प्रत्ययस्य च। ३० नञः शुचीश्वरक्षेत्रज्ञ- कुशलनिपुणानाम्। ३१ यथातथयथापुरयोः पर्यायेण। ३२ हनस्तोऽचिण्णलोः। ३३ आतो युक्चिण्कृतोः। ३४ नोदात्तोपदेशस्य मान्तस्यानाचमेः। ३५ जनिवध्योश्च। ३६ अर्त्तिह्रीव्लरीक्नूयीक्ष्माय्यातां पुङ्णौ। ३७ शाच्छासाह्व्यावेपां युक्। ३८ वो विधूनने जुक्। ३९ लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने। ४० भियो हेतुभये षुक्। ४१ स्फायो वः। ४२ शदेरगतौ तः। ४३ रुहः पोऽन्यतरस्याम्। ४४ प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः। ४५ न यासयोः। ४६ उदीचामातः स्थाने यकपूर्वायाः। ४७ भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि।

सप्तमाध्याये तृतीयः पादः [Page: ७७]


[वाम-स्तम्भः]

४८ अभाषितपुंस्काच्च। ४९ आदाचार्याणाम्। ५० ठस्येकः। ५१ इसुसुक्तान्तात्कः। ५२ चजोः कु घिण्ण्यतोः। ५३ न्यङ्क्वादीनां च। ५४ हो हन्तेर्णिन्नेषु। ५५ अभ्यासाच्च। ५६ हेरचङि। ५७ सन्लिटोर्जेः। ५८ विभाषा चेः। ५९ न क्वादेः। ६० अजिव्रज्योश्च। ६१ भुजन्युब्जौ पाण्युपतापयोः। ६२ प्रयाजानुयाजौ यज्ञाङ्गे। ६३ वज्र्येर्गतौ। ६४ ओक उचः के। ६५ ण्य आवश्यके। ६६ यजयाचरुचप्रवचर्चश्च। ६७ वचोऽशब्दसञ्ज्ञायाम्। ६८ प्रयोज्यनियोज्यौ शक्यार्थे। ६९ भोज्यं भक्ष्ये। ७० घोर्लोपो लेटि वा। ७१ ओतः श्यनि। ७२ क्सस्याचि। ७३ लुग्वा दुहदिहलिहगुहामात्मने- पदे दन्त्ये।


[दक्षिण-स्तम्भः]

७४ शमामष्टानां दीर्घः श्यनि। ७५ ष्ठिवुक्लमुचां शिति। ७६ क्रमः परस्मैपदेषु। ७७ इषुपगमियमां छः। ७८ पाघ्राध्मास्थाम्नादाण्दृश्यर्त्ति- सर्त्तिशदसदां पिबजिघ्रधम- तिष्ठमनयच्छपश्यर्च्छधौ- शीयसीदाः। ७९ ज्ञाजनोर्जा। ८० प्वादीनां ह्रस्वः। ८१ मीनातेर्निगमे। ८२ मिदेर्गुणः। ८३ जुसि च। ८४ सार्वधातुकार्धधातुकयोः। ८५ जाग्रोऽविचिण्णल्ङित्सु। ८६ पुगन्तलघूपधस्य च। ८७ नाभ्यस्तस्याचि पिति सार्वधातुके। ८८ भूसुवोस्तिङि। ८९ उतो वृद्धिलुकि हलि। ९० ऊर्णोतेर्विभाषा। ९१ गुणोऽपृक्ते। ९२ तृणह इम्। ९३ ब्रुव ईट्। ९४ यङो वा। ९५ तुरुस्तुशम्यमः सार्वधातुके। ९६ अस्तिसिचोऽपृक्ते।