अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
३. तृतीयोऽध्यायः (कृदन्त एवं धातु-प्रत्यय पाद १-४)
चतुर्थाध्याये द्वितीयः पादः ३३
१५८ वाकिनादीनां कुक् च। १५९ पुत्रान्तादन्यतरस्याम्। १६० प्राचां वृद्धात्फिन्बहुलम्। १६१ मनोजातावञ्यतौ ष्युक्च। १६२ अपत्यं पौत्रप्रभृति गोत्रम्। १६३ जीवति तु वंश्ये युवा। १६४ भ्रातरि च ज्यायसि। १६५ वान्यस्मिन्सपिण्डे स्थविरतरे जीवति। १६६ जनपदशब्दात्क्षत्रियादञ्। १६७ साल्वेयगान्धारिभ्यां च। १६८ द्व्यञ्मगधकलिङ्गसूरमसादण्। १६९ वृद्धेत्कोसलाजादाञ्ज्यङ्। १७० कुरुनादिभ्यो ण्यः। १७१ साल्वावयवप्रत्यग्रथकल- कूटाश्मकादिञ्। १७२ ते तद्राजाः। १७३ कम्बोजाल्लुक्। १७४ स्त्रियामवन्तिकुन्तिकुरुभ्यश्च। १७५ अतश्च। १७६ न प्राच्यभर्गादि- यौधेयादिभ्यः। -- ० -- द्वितीयः पादः १ तेन रक्तं रागात्। २ लाक्षारोचनाट् ठक्। ३ नक्षत्रेण युक्तः कालः। ४ लुब्विशेषे। ५ सञ्ज्ञायां श्रवणाश्वत्थाभ्याम्। ६ द्वन्द्वाच्छः। ७ दृष्टं साम। ८ वामदेवाड् ड्यड् ड्यौ। ९ परिवृतो रथः। १० पाण्डुकम्बलादिनिः। ११ द्वैपवैयाघ्रादञ्। १२ कौमारापूर्ववचने। १३ तत्रोद्धृतममत्रेभ्यः। १४ स्थण्डिलाच्छयितरि व्रते। १५ संस्कृतं भक्षाः। १६ शूलोखाद् यत्। १७ दध्नष्ठक्। १८ उदश्वितोऽन्यतरस्याम्। १९ क्षीराड् ढञ्। २० सास्मिन्पौर्णमासीति। २१ आग्रहायण्यश्वत्थाट् ठक्। २२ विभाषा फाल्गुनीश्रवणा- कार्त्तिकीचैत्रीभ्यः। २३ सास्य देवता। २४ कस्येत्। २५ शुक्राद् घन्। २६ अपोनप्तृपानप्तृभ्यां घः।
३४ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) २७ छ च। २८ महेन्द्राद् घाणौ च। २९ सोमाट् ट्यण्। ३० वाय्वृतुपित्रुषसो यत्। ३१ द्यावापृथिवीशुनासीर- मरुत्वदग्नीषोमवास्तोष्- पतिगृहमेधाच्च च। ३२ अग्नेर्ढक्। ३३ कालेभ्यो भववत्। ३४ महाराजप्रोष्ठपदाट् ठञ्। ३५ पितृव्यमातुलमातामह- पितामहाः। ३६ तस्य समूहः। ३७ भिक्षादिभ्योऽण्। ३८ गोत्रोक्षोष्ट्रोरभ्रराजन्यराज- पुत्रवत्समनुष्याजाद् वुञ्। ३९ केदाराद् यञ्ञ्च। ४० ठञ्कवचिनश्च। ४१ ब्राह्मणमाणववाडवाद् यन्। ४२ ग्रामजनबन्धुभ्यस्तल्। ४३ अनुदात्तादेरञ्। ४४ खण्डिकादिभ्यश्च। ४५ चरणेभ्यो धर्मवत्। ४६ अचित्तहस्तिधेनोष्ठक्। ४७ केशाश्वाभ्यां यञ्छावन्य- तरस्याम्। ४८ पाशादिभ्यो यः। ४९ खलगोरथात्। ५० इनित्रकट्यचश्च। ५१ विषयो देशे। ५२ राजन्यादिभ्यो वुञ्। ५३ भौरिक्याद्यैषुकार्यादिभ्यो विधलभक्तलौ। ५४ सोऽस्यादिरितिच्छन्दसः प्रगाथेषु। ५५ सङ्ग्रामे प्रयोजनयोद्धृभ्यः। ५६ तदस्यां प्रहरणमिति क्रीडायां णः। ५७ घञः सास्यां क्रियेति ञः। ५८ तदधीते तद् वेद। ५९ क्रतूकथादिसूत्रान्ताट् ठक्। ६० क्रमादिभ्यो वुन्। ६१ अनुब्राह्मणादिनिः। ६२ वसन्तादिभ्यष्ठक्। ६३ प्रोक्ताल्लुक्। ६४ सूत्राच्च कोपधात्। ६५ छन्दोब्राह्मणानि च तद्विषयाणि। ६६ तदस्मिन्नस्तीति देशे तन्नाम्नि। ६७ तेन निर्वृत्तम्। ६८ तस्य निवासः। ६९ अदूरभवश्च। ७० ओरञ्। ७१ मतोश्च बह्वजङ्गात्।
चतुर्थाध्याये द्वितीयः पादः ३५ ७२ बह्वचः कूपेषु। ९४ कत्र्यादिभ्यो ढकञ्। ७३ उदक् च विपाशः। ९५ कुलकुक्षिग्रीवाभ्यः ७४ सङ्कलादिभ्यश्च। श्वास्यालङ्कारेषु। ७५ स्त्रीषु सौवीरसाल्वप्राक्षु। ९६ नद्यादिभ्यो ढक्। ७६ सुवास्त्वादिभ्योऽण्। ९७ दक्षिणापश्चात्पुरसस्त्यक्। ७७ रोणी। ९८ कापिश्याः ष्फक्। ७८ कोपधाच्च। ९९ रङ्कोरमनुष्येऽण् च। ७९ वुञ्छण्कठजिलसेनिरढञ्ण्यय- १०० द्युप्रागपागुदक्प्रतीचो यत्। फविफजिञ्ञ्यकक्ठकोडीहण- १०१ कन्थायाष्ठक्। कृशाश्वर्श्यकुमुदकाशतृण- १०२ वर्णौ वुक्। प्रेक्षाश्मसखिसङ्काशबलपक्ष- १०३ अव्ययात्त्यप्। कर्णसुतङ्गमप्रगदिन्वराह- १०४ ऐषमोह्णःश्वसोऽन्यतरस्याम्। कुमुदादिभ्यः। १०५ तीररूप्योत्तरपदादञ्ञौ। ८० जनपदे लुप्। १०६ दिक्पूर्वपदादसञ्ज्ञायां ञः। ८१ वरणादिभ्यश्च। १०७ मद्रेभ्योऽञ्। ८२ शर्कराया वा। १०८ उदीच्यग्रामाच्च ८३ ठञ्छौ च। बह्वचोऽन्तोदात्तात्। ८४ नद्यां मतुप्। १०९ प्रस्थोत्तरपदपलद्यादिकोप- ८५ मध्वादिभ्यश्च। धादण्। ८६ कुमुदनडवेतसेभ्यो ड्मतुप्। ११० कण्वादिभ्यो गोत्रे। ८७ नडशादाड् ड्वलच्। १११ इजश्च। ८८ शिखाया वलच्। ११२ न द्व्यचः प्राच्यभरतेषु। ८९ उत्करादिभ्यश्छः। ११३ वृद्धाच्छः। ९० नडादीनां कुक् च। ११४ भवतष्ठक्छसौ। ९१ शेषे। ११५ काश्यादिभ्यष्ठञ्ञिठौ। ९२ राष्ट्रावारपाराद् घखौ। ११६ वाहीकग्रामेभ्यश्च। ९३ ग्रामाद् यखञौ। ११७ विभाषोशीनरेषु।
३६ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) ११८ ओर्देशे ठञ्। ११९ वृद्धात्प्राचाम्। १२० धन्वयोपधाद् वुञ्। १२१ प्रस्थपुरवहान्ताच्च। १२२ रोपधेतोः प्राचाम्। १२३ जनपदतदवध्योश्च। १२४ अवृद्धादपि बहुवचनविषयात्। १२५ कच्छाग्निवक्त्रगर्तोत्तर- पदात्। १२६ धूमादिभ्यश्च। १२७ नगरात्कुत्सनप्रावीण्ययोः। १२८ अरण्यान्मनुष्ये। १२९ विभाषा कुरुयुगन्धराभ्याम्। १३० मद्रवृज्योः कन्। १३१ कोपधादण्। १३२ कच्छादिभ्यश्च। १३३ मनुष्यतत्स्थयोर्वुञ्। १३४ अपदातौ साल्वात्। १३५ गोयवाग्वोश्च। १३६ गर्तोत्तरपदाच्छः। १३७ गहादिभ्यश्च। १३८ प्राचां कटादेः। १३९ राज्ञः क च। १४० वृद्धादकेकान्तखोपधात्। १४१ कन्थापलदनगरग्रामह्रदोत्तर- पदात्। १४२ पर्वताच्च। १४३ विभाषामनुष्ये। १४४ कृकणपर्णाद् भारद्वाजे। --०-- तृतीयः पादः १ युष्मदस्मदोरन्यतरस्यां खञ् च। २ तस्मिन्नणि च युष्माकास्माकौ। ३ तवकममकावेकवचने। ४ अर्धाद् यत्। ५ परावराधमोत्तमपूर्वाच्च। ६ दिक्पूर्वपदाट् ठञ् च। ७ ग्रामजनपदैकदेशादट्ठञौ। ८ मध्यान्मः। ९ अ साम्प्रतिके। १० द्वीपादनुसमुद्रं यञ्। ११ कालाट् ठञ्। १२ श्राद्धे शरदः। १३ विभाषा रोगातपयोः। १४ निशाप्रदोषाभ्यां च। १५ श्वसस्तुट् च। १६ सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्। १७ प्रावृष एण्यः। १८ वर्षाभ्यष्ठक्। १९ छन्दसि ठञ्। २० वसन्ताच्च। २१ हेमन्ताच्च। २२ सर्वत्राण्च तलोपश्च।
चतुर्थाध्याये तृतीयः पादः ३७ (वामस्तम्भः) २३ सायञ्चिरम्प्राह्णेप्रगेऽव्ययेभ्यष् ट्युट्युलौ तुट् च। २४ विभाषा पूर्वाह्णा- पराह्णाभ्याम्। २५ तत्र जातः। २६ प्रावृषष्ठप्। २७ सञ्ज्ञायां शरदो वुञ्। २८ पूर्वाह्णापराह्णार्द्रामूलप्रदोषाव- स्कराद् वुन्। २९ पथः पन्थ च। ३० अमावास्याया वा। ३१ अ च। ३२ सिन्ध्वपकराभ्यां कन्। ३३ अणञौ च। ३४ श्रविष्ठाफल्गुन्यनुराधास्वाति- तिष्यपुनर्वसुहस्तविशाखाषाढा- बहुलाल्लुक्। ३५ स्थानान्तगोशालखरशालाच्च। ३६ वत्सशालाभिजिदश्वयुक्तशत- भिषजो वा। ३७ नक्षत्रेभ्यो बहुलम्। ३८ कृतलब्धक्रीतकुशलाः। ३९ प्रायभवः। ४० उपजानूपकर्णोपनीवेष्ठक्। ४१ सम्भूते। ४२ कोशाड् ढञ्। ४३ कालात्साधुपुष्यत्पच्यमानेषु। (दक्षिणस्तम्भः) ४४ उप्ते च। ४५ आश्वयुज्या वुञ्। ४६ ग्रीष्मवसन्तादन्यतरस्याम्। ४७ देयमृणे। ४८ कलाप्यश्वत्थयवबुसाद् वुन्। ४९ ग्रीष्मावरसमाद् वुञ्। ५० संवत्सराग्रहायणीभ्यां ठञ्। ५१ व्याहरति मृगः। ५२ तदस्य सोढम्। ५३ तत्र भवः। ५४ दिगादिभ्यो यत्। ५५ शरीरावयवाच्च। ५६ दृतिकुक्षिकराशिश्रो- वस्त्यस्त्यहेर्ढञ्। ५७ ग्रीवाभ्योऽण् च। ५८ गम्भीराञ्ञ्यः। ५९ अव्ययीभावाच्च। ६० अन्तःपूर्वपदात् ठञ्। ६१ ग्रामात्पर्य्यनुपूर्वात्। ६२ जिह्वामूलाङ्गुलेश्छः। ६३ वर्गान्ताच्च। ६४ अशब्दे यत्खावन्यतरस्याम्। ६५ कर्णललाटात्कनलङ्कारे। ६६ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः। ६७ बह्वचोऽन्तोदात्तात् ठञ्।
३८ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) ६८ ऋतुयज्ञेभ्यश्च। ६९ अध्यायेष्ववर्षेः। ७० पौरोडाशपुरोडाशात्ष्ठन्। ७१ छन्दसो यदणौ। ७२ द्व्यज्यूर्ध्वब्राह्मणार्कप्रथमाध्वर- पुरश्चरणनामाख्याताट् ठक्। ७३ अणूगयनादिभ्यः। ७४ तत आगतः। ७५ ठगायस्थानेभ्यः। ७६ शुण्डिकादिभ्योऽण्। ७७ विद्यायोनिसम्बन्धेभ्यो वुञ्। ७८ ऋतष्ठञ्। ७९ पितुर्यच्च। ८० गोत्रादङ्कवत्। ८१ हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः। ८२ मयट् च। ८३ प्रभवति। ८४ विदूराञ्ञ्यः। ८५ तद् गच्छति पथिदूतयोः। ८६ अभिनिष्क्रामति द्वारम्। ८७ अधिकृत्य कृते ग्रन्थे। ८८ शिशुकन्दनयमसभाद्वन्द्वेन्द्र- जननादिभ्यश्छः। ८९ सोऽस्य निवासः। ९० अभिजनश्च। ९१ आयुधजीविभ्यश्छः पर्वते। ९२ शण्डिकादिभ्यो ञ्यः। ९३ सिन्धुतक्षशिलादिभ्योऽणञौ। ९४ तूदीशलातुरवर्मतीकूचवाराड् ढक्छण्ढञ्यकः। ९५ भक्तिः। ९६ अचित्ताद्देशकालाट् ठक्। ९७ महाराज्ञाट् ठञ्। ९८ वासुदेवार्जुनाभ्यां वुन्। ९९ गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्। १०० जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने। १०१ तेन प्रोक्तम्। १०२ तित्तिरिबरतन्तुखण्डिकोखाच् छण्। १०३ काश्यपकौशिकाभ्यामृषिभ्यां णिनिः। १०४ कलापिवैशम्पायनान्ते- वासिभ्यश्च। १०५ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु। १०६ शौनकादिभ्यश्छन्दसि। १०७ कठचरकाल्लुक्। १०८ कलापिनोऽण्। १०९ छगलिनो ढिनुक्। ११० पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः। १११ कर्मन्दकृशाश्वादिनिः।
चतुर्थाध्याये तृतीयः पादः ३९
११२ तेनैकदिक्। ११३ तसिश्च। ११४ उरसो यच्च। ११५ उपज्ञाते। ११६ कृते ग्रन्थे। ११७ सञ्ज्ञायाम्। ११८ कुलालादिभ्यो वुञ्। ११९ क्षुद्राभ्रमरवटरपादपादञ्। १२० तस्येदम्। १२१ रथाद् यत्। १२२ पत्रपूर्वादञ्। १२३ पत्राध्वर्युपरिषदश्च। १२४ हलसीराट् ठक्। १२५ द्वन्द्वाद् वुन्वैरमैथुनिकयोः। १२६ गोत्रचरणाद् वुञ्। १२७ सङ्घाङ्कलक्षणेष्वञ्- यञिञामण्। १२८ शकलाद् वा। १२९ छन्दोगौक्थिकयाज्ञिकबह्वृच- नटाञ्ञ्यः। १३० न दण्डमाणवान्तेवासिषु। १३१ रैवतिकादिभ्यश्छः। १३२ तस्य विकारः। १३३ अवयवे च प्राण्योषधि- वृक्षेभ्यः। १३४ बिल्वादिभ्योऽण्। १३५ कोपधाच्च।
१३६ त्रपुजतुनोः षुक्। १३७ ओरञ्। १३८ अनुदात्तादेश्च। १३९ पलाशादिभ्यो वा। १४० शम्याष्ट्लञ्। १४१ मयड् वैतयोर्भाषायां- भक्ष्याच्छादनयोः। १४२ नित्यं वृद्धशरादिभ्यः। १४३ गोश्च पुरीषे। १४४ पिष्टाच्च। १४५ सञ्ज्ञायां कन्। १४६ व्रीहेः पुरोडाशे। १४७ असञ्ज्ञायां तिल- यवाभ्याम्। १४८ द्व्यचश्छन्दसि। १४९ नोत्वदूर्ध्वबिल्वात्। १५० तालादिभ्योऽण्। १५१ जातरूपेभ्यः परिमाणे। १५२ प्राणिरजतादिभ्योऽञ्। १५३ ञितश्च तत्प्रत्ययात्। १५४ क्रीतवत्परिमाणात्। १५५ उष्ट्राद् वुञ्। १५६ उमौर्णयोर्वा। १५७ एण्या ढञ्। १५८ गोपयसोर्यत्। १५९ द्रोश्च। १६० माने वयः।
४० अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) १६१ फले लुक्। १६२ प्लक्षादिभ्योऽण्। १६३ जम्ब्वा वा। १६४ लुप् च। १६५ हरीतक्यादिभ्यश्च। १६६ कंसीयपरश्वयोर्यञ्ञौ लुक्च। --०-- चतुर्थः पादः १ प्राग्वहतेष्ठक्। २ तेन दीव्यति खनति जयति जितम्। ३ संस्कृतम्। ४ कुलत्थकोपधादण्। ५ तरति। ६ गोपुच्छाट् ठञ्। ७ नौद्व्यचष्ठन्। ८ चरति। ९ आकर्षात्ष्वन्। १० पर्पादिभ्यः ष्ठन्। ११ श्वगणाट् ठञ्च। १२ वेतनादिभ्यो जीवति। १३ वस्नक्रयविक्रयाट् ठन्। १४ आयुधाच्छ च। १५ हरत्युत्सङ्गादिभ्यः। १६ भस्त्रादिभ्यः ष्ठन्। १७ विभाषा विवधात्। १८ अण् कुटिलिकायाः। १९ निर्वृत्तेऽक्षद्यूतादिभ्यः। २० त्रेर्मन्नित्यम्। २१ अपमित्ययाचिताभ्यां कक्कनौ। २२ संसृष्टे। २३ चूर्णादिनिः। २४ लवणाल्लुक्। २५ मुद्गादण्। २६ व्यञ्जनैरुपसिक्ते। २७ ओजःसहोऽम्भसा वर्तते। २८ तत्प्रत्यनुपूर्वमीपलोमकूलम्। २९ परिमुखं च। ३० प्रयच्छति गर्ह्यम्। ३१ कुसीद्दशैकादशात्ष्ठन्ष्ठचौ। ३२ उञ्छति। ३३ रक्षति। ३४ शब्ददर्दुरं करोति। ३५ पक्षिमत्स्यमृगान् हन्ति। ३६ परिपन्थं च तिष्ठति। ३७ माथोत्तरपदपदव्यनुपदं धावति। ३८ आक्रन्दात् ठञ्च। ३९ पदोत्तरपदं गृह्णाति। ४० प्रतिकण्ठार्थललामं च। ४१ धर्मं चरति। ४२ प्रतिपथमेति ठंश्च। ४३ समवायान्समवैति।
चतुर्थाध्याये चतुर्थः पादः ४१ ४४ परिषदो ण्यः। ४५ सेनाया वा। ४६ सञ्ज्ञायां ललाटकुकुट्यौ पश्यति। ४७ तस्य धर्म्यम्। ४८ अण्महिष्यादिभ्यः। ४९ ऋतोऽञ्। ५० अवक्रयः। ५१ तदस्य पण्यम्। ५२ लवणाट् ठञ्। ५३ किशरादिभ्यः ष्ठन्। ५४ शलालुनोऽन्यतरस्याम्। ५५ शिल्पम्। ५६ मड्डुकझर्झरादण्यतरस्याम्। ५७ प्रहरणम्। ५८ परश्वधाट् ठञ्च। ५९ शक्तियष्ट्योरीकक्। ६० अस्तिनास्तिदिष्टं मतिः। ६१ शीलम्। ६२ छत्रादिभ्यो णः। ६३ कर्माध्ययने वृत्तम्। ६४ बह्वच्पूर्वपदाट् ठञ्। ६५ हितं भक्षाः। ६६ तदस्मै दीयते नियुक्तम्। ६७ श्राणामांसौदनाट् टिठन्। ६८ भक्तादण्यतरस्याम्। ६९ तत्र नियुक्तः। ७० अगारान्ताट् ठन्। ७१ अध्यायिन्यदेशकालात्। ७२ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति। ७३ निकटे वसति। ७४ आवसथात्ष्ठल्। ७५ प्राग्घिताद् यत्। ७६ तद् वहति रथयुगप्रासङ्गम्। ७७ धुरो यड्ढकौ। ७८ खः सर्वधुरात्। ७९ एकधुराल्लुकच। ८० शकटादण्। ८१ हलसीराट् ठक्। ८२ सञ्ज्ञायां जन्याः। ८३ विध्यत्यधनुषा। ८४ धनगणं लब्धा। ८५ अन्नाण्णः। ८६ वशं गतः। ८७ पदमस्मिन्दृश्यम्। ८८ मूलमस्याबर्हि। ८९ सञ्ज्ञायां धेनुष्या। ९० गृहपतिना संयुक्ते ञ्यः। ९१ नौवयोधर्मविषमूलमूलसीता- तुलाभ्यस्तार्यतुल्यप्राप्यवध्या- नाम्यसमसमितसम्मितेषु। ९२ धर्मपथ्यर्थन्यायादनपेते। ९३ छन्दसो निर्मिते।
४२ अष्टाध्यायीसूत्रपाठः (यतिबोधसहितः) ९४ उरसोऽण्च। | १२० दूतस्य भागकर्मणी। ९५ हृदयस्य प्रियः। | १२१ रक्षोयातूनां हननी। ९६ बन्धने चर्षौ। | १२२ रेवतीजगतीहविष्याभ्यः ९७ मतजनहलात्करणजल्पकर्षेषु। | प्रशस्ये। ९८ तत्र साधुः। | १२३ असुरस्य स्वम्। ९९ प्रतिजनादिभ्यः खञ्। | १२४ मायायामण्। १०० भक्ताण्णः। | १२५ तद्भानासामुपधानो मन्त्र १०१ परिषदो ण्यः। | इतीष्टकासु लुक्च मतोः। १०२ कथादिभ्यष्ठक्। | १२६ अश्विमानण्। १०३ गुडादिभ्यष्ठञ्। | १२७ वयस्यासु मूर्ध्नो मतुप्। १०४ पथ्यतिथिवसतिस्वपतेर्डञ्। | १२८ मत्वर्थे मासतन्वोः। १०५ सभाया यः। | १२९ मधोर्ज च। १०६ ढश्छन्दसि। | १३० ओजसोऽहनि यत्खौ। १०७ समानतीर्थे वासी। | १३१ वेशोयशआदेर्भगाद् यल्। १०८ समानोदरे शयित ओ | १३२ ख च। चोदात्तः। | १३३ पूर्वैः कृतमिन्यौ च। १०९ सोदराद् यः। | १३४ अद्भिः संस्कृतम्। ११० भवे छन्दसि। | १३५ सहस्रेण सम्मितौ घः। १११ पाथोनदीभ्यां ड्यण्। | १३६ मतौ च। ११२ वेशन्तहिमवद्भ्यामण्। | १३७ सोममर्हति यः। ११३ स्रोतसो विभाषा ड्यड्ढ्यौ। | १३८ मये च। ११४ सगर्भसयूथसनुताद् यन्। | १३९ मधोः। ११५ तुग्राद् घन्। | १४० वसोः समूहे च। ११६ अग्राद् यत्। | १४१ नक्षत्राद् घः। ११७ घच्छौ च। | १४२ सर्वदेवात्तातिल्। ११८ समुद्राभ्राद् घः। | १४३ शिवशमरिष्टस्य करे। ११९ बर्हिषि दत्तम्। | १४४ भावे च।
पञ्चमाध्याये प्रथमः पादः ४३ पञ्चमोऽध्यायः
प्रथमः पादः १ प्राक्क्रीताच्छः। २ उगवादिभ्यो यत्। ३ कम्बलाच्च सञ्ज्ञायाम्। ४ विभाषा हविरपूपदिभ्यः। ५ तस्मै हितम्। ६ शरीरावयवाद् यत्। ७ खलयवमाषतिलवृषब्रह्मणश्च। ८ अजाविभ्यां थ्यन्। ९ आत्मन्विश्वजनभोगोत्तरपदात्खः। १० सर्वपुरुषाभ्यां णढञौ। ११ माणवचरकाभ्यां खञ्। १२ तदर्थं विकृतेः प्रकृतौ। १३ छदिरुपधिबलेर्ढञ्। १४ ऋषभोपानहोज्र्यः। १५ चर्मणोऽञ्। १६ तदस्य तदस्मिन्स्यादिति। १७ परिखाया ढञ्। १८ प्राग्वतेष्ठञ्। १९ आर्हाद्गोपुच्छसङ्ख्यापरिमाणाट् ठक्। २० असमासे निष्कादिभ्यः। २१ शताच्च ठन्यतावशते। २२ सङ्ख्याया अतिशदन्तायाः कन्। २३ वतोरिड् वा। २४ विंशतित्रिंशद्भ्यां ड्वुन्नसञ्ज्ञायाम्। २५ कंसाट् टिट्ठन्। २६ शूर्पादजन्यतरस्याम्। २७ शतमानविंशतिकसहस्रवसनादण्। २८ अध्यर्धपूर्वद्विगोर्लुगसञ्ज्ञायाम्। २९ विभाषा कार्षापणसहस्राभ्याम्। ३० द्वित्रिपूर्वान्निष्कात्। ३१ बिस्ताच्च। ३२ विंशतिकात्खः। ३३ खार्या ईकन्। ३४ पणपादमाषशताद् यत्। ३५ शाणाद् वा। ३६ तेन क्रीतम्। ३७ तस्य निमित्तं संयोगोत्पातौ। ३८ गोद्व्यचोऽसङ्ख्यापरिमाणाश्वादेर्यत्। ३९ पुत्राच्च च। ४० सर्वभूमिपृथिवीभ्यामणञौ।
४४ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) [प्रथमः स्तम्भः / बायाँ स्तम्भ] ४१ तस्येश्वरः। ४२ तत्र विदित इति च। ४३ लोकसर्वलोकाट् ठञ्। ४४ तस्य वापः। ४५ पात्रात्ष्ठन्। ४६ तदस्मिन्वृद्ध्यायलाभ- शुल्कोपदा दीयते। ४७ पूरणार्धाट् ठन्। ४८ भागाद् यच्च। ४९ तद्धरति वहत्यावहति भाराद् वंशादिभ्यः। ५० वस्त्रद्रव्याभ्यां ठन्कनौ। ५१ सम्भवत्यवहरति पचति। ५२ आढकाचितपात्रात्खोऽन्य- तरस्याम्। ५३ द्विगोः ष्ठंश्च। ५४ कुलिजाल्लुक्खौ च। ५५ सोऽस्यांशवस्त्रभृतयः। ५६ तदस्य परिमाणम्। ५७ सङ्ख्यायाः सञ्ज्ञासङ्घ- सूत्राध्ययनेषु। ५८ पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्- पञ्चाशत्षष्टिसप्तत्यशीति- नवतिशतम्। ५९ पञ्चद्दशतौ वर्गे वा। ६० सप्तनोऽच्छन्दसि। [द्वितीयः स्तम्भः / दायाँ स्तम्भ] ६१ त्रिंशच्चत्वारिंशतोर्ब्राह्मणे सञ्ज्ञायां डण्। ६२ तदर्हति। ६३ छेदादिभ्यो नित्यम्। ६४ शीर्षच्छेदाद् यच्च। ६५ दण्डादिभ्यो यत्। ६६ छन्दसि च। ६७ पात्राद् घंश्च। ६८ कडङ्करदक्षिणाच्च च। ६९ स्थालीबिलात्। ७० यज्ञर्त्विग्भ्यां घखञौ। ७१ पारायणतुरायणचान्द्रायणं वर्त्तयति। ७२ संशयमापन्नः। ७३ योजनं गच्छति। ७४ पथः ष्कन्। ७५ पन्थो ण नित्यम्। ७६ उत्तरपथेनाहृतं च। ७७ कालात्। ७८ तेन निर्वृत्तम्। ७९ तमधीष्टो भृतो भूतो भावी। ८० मासाद् वयसि यत्खञौ। ८१ द्विगोर्यप्। ८२ षण्मासाण्ण्यच्च। ८३ अवयसि ठंश्च। ८४ समायाः खः। ८५ द्विगोर्वा।
पञ्चमाध्याये प्रथमः पादः ४५
[वाम स्तम्भः] ८६ रात्र्यहःसंवत्सराच्च। ८७ वर्षाल्लुक्च। ८८ चित्तवति नित्यम्। ८९ षष्टिकाः षष्टिरात्रेण पच्यन्ते। ९० वत्सरान्ताच्छश्छन्दसि। ९१ सम्परिपूर्वात्ख च। ९२ तेन परिजय्यलभ्यकार्य- सुकरम्। ९३ तदस्य ब्रह्मचर्यम्। ९४ तस्य च दक्षिणा यज्ञाख्येभ्यः। ९५ तत्र च दीयते कार्यं भववत्। ९६ व्युष्टादिभ्योऽण्। ९७ तेन यथाकथाचहस्ताभ्यां णयतौ। ९८ सम्पादिनि। ९९ कर्मवेषाद् यत्। १०० तस्मै प्रभवति सन्तापादिभ्यः। १०१ योगाद् यच्च। १०२ कर्मण उकञ्। १०३ समयस्तदस्य प्राप्तम्। १०४ ऋतोरण्। १०५ छन्दसि घस्। १०६ कालाद् यत्। १०७ प्रकृष्टे ठञ्। १०८ प्रयोजनम्। १०९ विशाखाषाढादण्मन्थ- दण्डयोः।
[दक्षिण स्तम्भः] ११० अनुप्रवचनादिभ्यश्छः। १११ समापनात्पूर्वपदात्। ११२ ऐकागारिकट् चौरे। ११३ आकालिकडाद्यन्तवचने। ११४ तेन तुल्यं क्रिया चेद् वतिः। ११५ तत्र तस्येव। ११६ तदर्हम्। ११७ उपसर्गाच्छन्दसि धात्वर्थे। ११८ तस्य भावस्त्वतलौ। ११९ आ च त्वात्। १२० न नञ्पूर्वात्तत्पुरुषादचतुर- सङ्गतलवणवटयुधकत्त- रसत्सेभ्यः। १२१ पृथ्वादिभ्य इमनिज्वा। १२२ वर्णदृढादिभ्यः ष्यञ् च। १२३ गुणवचनब्राह्मणादिभ्यः कर्मणि च। १२४ स्तेनाद् यन्नलोपश्च। १२५ सख्युर्यः। १२६ कपिज्ञात्योर्ढक्। १२७ पत्यन्तपुरोहितादिभ्यो यक्। १२८ प्राणभृज्जातिवयोवचनोद्- गात्रादिभ्योऽञ्। १२९ हायनान्तयुवादिभ्योऽण्। १३० इगन्ताच्च लघुपूर्वात्। १३१ योपधाद् गुरूपोत्तमाद् वुञ्। १३२ द्वन्द्वमनोजादिभ्यश्च।
४६ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) १३३ गोत्रचरणाच्छ्लाघात्या- कारतद्वेतेषु। १३४ होत्राभ्यश्छः। १३५ ब्रह्मणस्त्वः। --०-- द्वितीयः पादः १ धान्यानां भवने क्षेत्रे खञ्। २ व्रीहिशाल्योर्ढक्। ३ यवयवकषष्टिकाद् यत्। ४ विभाषा तिलमाषोमा- भङ्गाणुभ्यः। ५ सर्वचर्मणः कृतः खखञौ। ६ यथामुखसम्मुखस्य दर्शनः खः। ७ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति। ८ आप्रपदं प्राप्नोति। ९ अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु। १० परोवरपरम्परपुत्रपौत्रमनु- भवति। ११ अवारपारात्यन्तानुकामं गामी। १२ समांसमां विजायते। १३ अद्यश्वीनावष्टब्धे। १४ आगवीनः। १५ अनुगवलङ्गामी। १६ अध्वनो यत्खौ। १७ अभ्यमित्राच्छ च। १८ गोष्ठात्खञ्भूतपूर्वे। १९ अश्वस्यैकाहगमः। २० शालीनकौपीने अधृष्टाकार्ययोः। २१ व्रातेन जीवति। २२ साप्तपदीनं सख्यम्। २३ हैयङ्गवीनं सञ्ज्ञायाम्। २४ तस्य पाकमूले पील्वादि- कर्णादिभ्यः कुणब्जाहचौ। २५ पक्षात्तिः। २६ तेन वित्तश्चुञ्चुप्चणपौ। २७ विनञ्भ्यां नानाञौ न सह। २८ वेः शालच्छङ्कटचौ। २९ सम्प्रोदश्च कटच्। ३० अवात्कुटारच्च। ३१ नते नासिकायाः सञ्ज्ञायां टीटञ्नाटञ्भ्रटचः। ३२ नेर्बिडञ्बीरीसचौ। ३३ इनचिटच्चिकचि च। ३४ उपाधिभ्यां त्यकन्नासन्ना- रूढयोः। ३५ कर्मणि घटोऽठच्। ३६ तदस्य सञ्जातं तारकादिभ्य इतच्। ३७ प्रमाणे द्वयसज्दघ्नञ्मात्रचः। ३८ पुरुषहस्तिभ्यामण्च। ३९ यत्तदेतेभ्यः परिमाणे वतुप्।
४. चतुर्थोऽध्यायः (स्त्रीप्रत्यय एवं तद्धित सामान्य पाद १-४)
पञ्चमाध्याये द्वितीयः पादः ४७ ४० किमिदम्भ्यां वो घः। | ६३ तत्र कुशलः पथः। ४१ किमः सङ्ख्यापरिमाणे डति च। | ६४ आकर्षादिभ्यः कन्। ४२ सङ्ख्याया अवयवे तयप्। | ६५ धनहिरण्यात्कामे। ४३ द्वित्रिभ्यां तयस्यायज्वा। | ६६ स्वाङ्गेभ्यः प्रसिते। ४४ उभादुदात्तो नित्यम्। | ६७ उदराट् ठगाद्यूने। ४५ तदस्मिन्नधिकमिति | ६८ सस्येन परिजातः। दशान्ताड् डः। | ६९ अंशं हारी। ४६ शदन्तविंशतेश्च। | ७० तन्त्रादचिरापहृते। ४७ सङ्ख्याया गुणस्य निमाने | ७१ ब्राह्मणकोष्णिके सञ्ज्ञायाम्। मयट्। | ७२ शीतोष्णाभ्यां कारिणि। ४८ तस्य पूरणे डट्। | ७३ अधिकम्। ४९ नान्तादसङ्ख्यादेर्मट्। | ७४ अनुकाभीकाभीकः कमिता। ५० थट् च छन्दसि। | ७५ पार्श्वेनान्विच्छति। ५१ षट्कतिकतिपयचतुरां थुक्। | ७६ अयःशूलदण्डाजिनाभ्यां ५२ बहुपूगगणसङ्घस्य तिथुक्। | ठक्ठञौ। ५३ वतोरिथुक्। | ७७ तावतिथं ग्रहणमिति लुग्वा। ५४ द्वेस्तीयः। | ७८ स एषां ग्रामणीः। ५५ त्रेः सम्प्रसारणं च। | ७९ शृङ्खलमस्य बन्धनं करभे। ५६ विंशत्यादिभ्यस्तमडन्य- | ८० उत्क उन्मनाः। तरस्याम्। | ८१ कालप्रयोजनाद् रोगे। ५७ नित्यं शतादिमासार्धमास- | ८२ तदस्मिन्नन्नं प्राये सञ्ज्ञायाम्। संवत्सराच्च। | ८३ कुल्माषादञ्। ५८ षष्ट्यादेश्चासङ्ख्यादेः। | ८४ श्रोत्रियश्छन्दोऽधीते। ५९ मतौ छः सूक्तसाम्नोः। | ८५ श्राद्धमनेन भुक्तमिनिठनौ। ६० अध्यायानुवाकयोर्लुक्। | ८६ पूर्वाद्दिनिः। ६१ विमुक्तादिभ्योऽण्। | ८७ सपूर्वाच्च। ६२ गोषदादिभ्यो वुन्। | ८८ इष्टादिभ्यश्च।
४८ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) ८९ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि। | १११ काण्डाण्डादीर्नीरचौ। ९० अनुपद्यन्वेष्टा। | ११२ रजःकृष्यासुतिपरिषदो वलच्। ९१ साक्षाद् द्रष्टरि सञ्ज्ञायाम्। | ११३ दन्तशिखात्सञ्ज्ञायाम्। ९२ क्षेत्रियच्परक्षेत्रे चिकित्स्यः। | ११४ ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विनूर्जस्वलगोमिन्मलिममलीमसाः। ९३ इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा। | ११५ अत इनिठनौ। ९४ तदस्यास्त्यस्मिन्निति मतुप्। | ११६ व्रीह्यादिभ्यश्च। ९५ रसादिभ्यश्च। | ११७ तुन्दादिभ्य इलच्च। ९६ प्राणिस्थादातो लजन्यतरस्याम्। | ११८ एकगोपूर्वाट् ठञ्नित्यम्। ९७ सिध्मादिभ्यश्च। | ११९ शतसहस्रान्ताच निष्कात्। ९८ वत्सांसाभ्यां कामबले। | १२० रूपादाहतप्रशंसयोर्यप्। ९९ फेनादिलच्च। | १२१ अस्मायामेधास्रजो विनिः। १०० लोमादिपामादिपिच्छादिभ्यः शनेलचः। | १२२ बहुलं छन्दसि। १०१ प्रज्ञाश्रद्धार्चाभ्यो णः। | १२३ ऊर्णाया युस्। १०२ तपःसहस्राभ्यां विनीनी। | १२४ वाचो ग्मिनिः। १०३ अण्च। | १२५ आलजाटचौ बहुभाषिणि। १०४ सिकताशर्कराभ्यां च। | १२६ स्वामिन्नैश्वर्ये। १०५ देशे लुबिलचौ च। | १२७ अर्शआदिभ्योऽच्। १०६ दन्त उन्नत उरच्। | १२८ द्वन्द्वोपतापगर्ह्यात्प्राणिस्थादिनिः। १०७ ऊषसुषिमुष्कमधो रः। | १२९ वातातीसाराभ्यां कुक्च। १०८ द्युद्रुभ्यां मः। | १३० वयसि पूरणात्। १०९ केशाद् वोऽन्यतरस्याम्। | १३१ सुखादिभ्यश्च। ११० गाण्ड्यजगात्सञ्ज्ञायाम्। | १३२ धर्मशीलवर्णान्ताच। | १३३ हस्ताज्जातौ। | १३४ वर्णाद् ब्रह्मचारिणि।
पञ्चमाध्याये तृतीयः पादः ४९ १३५ पुष्करादिभ्यो देशे। १३६ बलादिभ्यो मतुबन्यतरस्याम्। १३७ सञ्ज्ञायां मन्माभ्याम्। १३८ कंशम्भ्यां बभयुस्तितुतयः। १३९ तुन्दिबलिवटेर्भः। १४० अहंशुभमोर्युस्। --०-- तृतीयः पादः १ प्राग्दिशो विभक्तिः। २ किंसर्वनामबहुभ्योऽद्व्यादिभ्यः। ३ इदम इश्। ४ एतेतौ रथोः। ५ एतदोऽन्। ६ सर्वस्य सोऽन्यतरस्यां दि। ७ पञ्चम्यास्तसिल्। ८ तसेश्च। ९ पर्यभिभ्यां च। १० सप्तम्यास्त्रल्। ११ इदमो हः। १२ किमोऽत्। १३ वा ह चच्छन्दसि। १४ इतराभ्योऽपि दृश्यन्ते। १५ सर्वैकान्यकिंयत्तदः काले दा। १६ इदमो र्हिल्। १७ अधुना। १८ दानीं च। १९ तदो दा च। २० तयोर्दाहिलौ चच्छन्दसि। २१ अनद्यतने र्हिलन्यतरस्याम्। २२ सद्यःपरुत्परार्यैषमःपरेद्य्वद्य- पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युर- परेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः। २३ प्रकारवचने थाल्। २४ इदमस्थमुः। २५ किमश्च। २६ था हेतौ चच्छन्दसि। २७ दिक्शब्देभ्यः सप्तमीपञ्चमी- प्रथमाभ्यो दिग्देश- कालेष्वस्तातिः। २८ दक्षिणोत्तराभ्यामतसुच्। २९ विभाषा परावराभ्याम्। ३० अञ्चेलुक्। ३१ उपर्युपरिष्टात्। ३२ पश्चात्। ३३ पश्च पश्चा चच्छन्दसि। ३४ उत्तराधरदक्षिणादातिः। ३५ एनबन्यतरस्यामदूरेऽपञ्चम्याः। ३६ दक्षिणादाच्। ३७ आहि च दूरे। ३८ उत्तराच्च। ३९ पूर्वाधरावराणामसि पुरधवश्चैषाम्।
५० अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
४० अस्ताति च। ४१ विभाषावरस्य। ४२ सङ्ख्याया विधार्थे धा। ४३ अधिकरणविचाले च। ४४ एकाद् धो ध्यमुञन्यतरस्याम्। ४५ द्वित्र्योश्च धमुञ्। ४६ एधाच्च। ४७ याप्ये पाशप्। ४८ पूरणाद् भागे तीयादन्। ४९ प्रागेकादशभ्योऽच्छन्दसि। ५० षष्ठाष्टमाभ्यां ञ च। ५१ मानपश्वङ्गयोः कन्लुका च। ५२ एकादाकिनिच्चासहाये। ५३ भूतपूर्वे चरट्। ५४ षष्ठ्या रूप्य च। ५५ अतिशायने तमबिष्ठनौ। ५६ तिङश्च। ५७ द्विवचनविभज्योपपदे तरबीयसुनौ। ५८ अजादौ गुणवचनादेव। ५९ तुश्छन्दसि। ६० प्रशस्यस्य श्रः। ६१ ज्य च। ६२ वृद्धस्य च। ६३ अन्तिकबाढयोर्नेदसाधौ। ६४ युवालपयोः कनन्यतरस्याम्। ६५ विन्मतोर्लुक्।
६६ प्रशंसायां रूपप्। ६७ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः। ६८ विभाषा सुपो बहुच्पुरस्तात्। ६९ प्रकारवचने जातीयर्। ७० प्रागिवात्कः। ७१ अव्ययसर्वनाम्नाकच्प्राक्तेः। ७२ कस्य च दः। ७३ अज्ञाते। ७४ कुत्सिते। ७५ सञ्ज्ञायां कन्। ७६ अनुकम्पायाम्। ७७ नीतौ च तद्युक्तात्। ७८ बह्वचो मनुष्यनाम्नष्ठज्वा। ७९ घनिलचौ च। ८० प्राचामुपादेरड्वुचौ च। ८१ जातिनाम्नः कन्। ८२ अजिनान्तस्योत्तरपदलोपश्च। ८३ ठाजादावूर्ध्वं द्वितीयादचः। ८४ शेवलसुपरिविशाल- वरुणार्यमादीनां तृतीयात्। ८५ अल्पे। ८६ ह्रस्वे। ८७ सञ्ज्ञायां कन्। ८८ कुटीशमीशुण्डाभ्यो रः। ८९ कुत्वा डुपच्। ९० कासूगोणीभ्यां ष्ट्रच्।
पञ्चमाध्याये चतुर्थः पादः ५१ ९१ वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे। ९२ किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच्। ९३ वा बहूनां जातिपरिप्रश्ने डतमच्। ९४ एकाच्च प्राचाम्। ९५ अवक्षेपणे कन्। ९६ इवे प्रतिकृतौ। ९७ सञ्ज्ञायां च। ९८ लुम्मनुष्ये। ९९ जीविकार्थे चापण्ये। १०० देवपथादिभ्यश्च। १०१ वस्तेर्ढञ्। १०२ शिलाया ढः। १०३ शाखादिभ्यो यत्। १०४ द्रव्यं च भव्ये। १०५ कुशाग्राच्छः। १०६ समासाच्च तद्विषयात्। १०७ शर्करादिभ्योऽण्। १०८ अङ्गुल्यादिभ्यष्ठक्। १०९ एकशालायाष्ठञन्यतरस्याम्। ११० कर्कलोहितादीकक्। १११ प्रत्नपूर्वविश्वेमात्थाल्छन्दसि। ११२ पूगाञ्ञ्योऽग्रामणीपूर्वात्। ११३ व्रातच्छञोरस्त्रियाम्। ११४ आयुधजीविसङ्घाञ्ञ्यङ् वाहीकेष्वब्राह्मणराजन्यात्। ११५ वृकाट् टेण्यण्। ११६ दामन्यादित्रिगर्तषष्ठाच्छः। ११७ पर्श्वादि- यौधेयादिभ्यामणञौ। ११८ अभिजिद्विद्भृच्छालावच्- छिखावच्छमीवदूर्णावच्- छूरूमदणो यञ्। ११९ ज्यादयस्तद्राजाः। --०-- चतुर्थः पादः १ पादशतस्य सङ्ख्यादेर्वीप्सायां वुन्लोपश्च। २ दण्डव्यवसर्गयोश्च। ३ स्थूलादिभ्यः प्रकारवचने कन्। ४ अनत्यन्तगतौ क्तात्। ५ न सामिवचने। ६ बृहत्या आच्छादने। ७ अषडक्षाशितङ्ग्वलङ्- कर्मालम्पुरुषाध्युत्तरपदात्खः। ८ विभाषाञ्चेरदिक्स्त्रियाम्। ९ जात्यन्ताच्छ बन्धुनि। १० स्थानान्ताद् विभाषा सस्थानेनेति चेत्। ११ किमेत्तिङ्व्ययघादाम्बद्रव्य- प्रकर्षे। १२ अमु चच्छन्दसि। १३ अनुगादिनष्ठक्।
५२ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
[वाम-स्तम्भः]
१४ णचः स्त्रियामञ्। १५ अणिणुनः। १६ विसारिणो मत्स्ये। १७ सङ्ख्यायाः क्रियाभ्यावृत्ति- गणने कृत्वसुच्। १८ द्वित्रिचतुर्भ्यः सुच्। १९ एकस्य सकृच्च। २० विभाषा बह्वोर्धाविप्रकृष्टकाले। २१ तत्प्रकृतवचने मयट्। २२ समूहवच्च बहुषु। २३ अनन्तावसथेतिहभेषजाञ् ञ्यः। २४ देवतान्तात्तादर्थ्ये यत्। २५ पादार्घाभ्यां च। २६ अतिथेर्य्यः। २७ देवात्तल्। २८ अवेः कः। २९ यावादिभ्यः कन्। ३० लोहितान्मणौ। ३१ वर्णे चानित्ये। ३२ रक्ते। ३३ कालाच्च। ३४ विनयादिभ्यष्ठक्। ३५ वाचो व्याहृतार्थायाम्। ३६ तद्युक्तात्कर्मणोऽण्। ३७ ओषधेर्जातौ। ३८ प्रज्ञादिभ्यश्च। ३९ मृदस्तिकन्।
[दक्षिण-स्तम्भः]
४० सस्नौ प्रशंसायाम्। ४१ वृकज्येष्ठाभ्यां तिल्तातिलौ चच्छन्दसि। ४२ बह्वल्पार्थाच्छस्कारकादन्य- तरस्याम्। ४३ सङ्ख्यैकवचनाच्च वीप्सायाम्। ४४ प्रतियोगे पञ्चम्यास्तसिः। ४५ अपादाने चाहीयरुहोः। ४६ अतिग्रहव्यथनक्षेपेष्वकर्तरि तृतीयायाः। ४७ हीयमानपापयोगाच्च। ४८ षष्ठ्या व्याश्रये। ४९ रोगाच्चापनयने। ५० कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः। ५१ अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च। ५२ विभाषा साति कार्त्स्न्ये। ५३ अभिविधौ सम्पदा च। ५४ तदधीनवचने। ५५ देये त्रा च। ५६ देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्। ५७ अव्यक्तानुकरणाद् द्व्यजवरार्धादनितौ डाच्। ५८ कृञो द्वितीयतृतीयशम्ब- बीजात्कृषौ।