आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
सप्तमः खण्डः] अनाविलोपेताम् । ३५
सप्तमः खण्डः] अनाविलोपेताम् । ३५
अग्निहोत्रधर्माणां सर्वेषां प्रसङ्गे परिसङ्घष्टे--
प्रादुष्करणहोमकालौ व्याख्यातौ ॥ ५ ॥
प्रादुष्करणं प्रज्वलनं 'अपराह्ने गार्हपत्यं प्रज्वाल्य' इति पूर्वोक्तं, प्रदोषान्तो होमकालः सङ्गवान्तः प्रातरिति<sup>१</sup> च ॥ ५ ॥
होम्यं च मांसवर्जम् ॥ ६ ॥
होमार्हं द्रव्यं होम्यं, तदप्यग्निहोत्रेण व्याख्यातम् । मांसवर्जं मांसं वर्जयित्वा । मांसप्रतिषेधाद् विज्ञायते शास्त्रान्तरविहितान्यपि द्रव्याणि गृह्यन्त इति ।
“पयो दधि यवागूश्च सर्पिरोदनतण्डुलाः ।
सोममांसं तथा तैलमापस्तानी दशैव तु ॥”
इति ॥ ६ ॥
कामं तु व्रीहियवतिलैः ॥ ७ ॥
कामं त्विति पूर्वोक्तद्रव्यालाभे व्रीह्यादीनां प्राप्त्यर्थम् । अतो व्रीहियवतिलैरिति न सूत्रितम् । तैश्च व्यस्तैर्होमः, न समस्तैः ॥ ७ ॥
अग्नये स्वाहेति सायं जुहुयात् सूर्याय स्वाहेति प्रातस्तूष्णीं द्वितीये उभयत्र ॥ ८ ॥
उभयत्र सायं प्रातश्च द्वितीये आहुती तूष्णीं जुहुयात् । मन्त्रानुपदेशादेव सिद्धे तूष्णीमिति प्रजापतिध्यानार्थम् ॥ ८ ॥
इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ
प्रथमाध्याये सप्तमः खण्डः ।
१. 'ति ॥' घ. पाठः.
३६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
अथाष्टमः खण्डः ।
अथ पार्वणः स्थालीपाकः ॥ १ ॥
अथशब्दोऽधिकारार्थः । पक्षसन्धिः पर्व तत्र कर्तव्यः पार्वणः । स्थाल्यां पच्यत इति स्थालीपाकः । इह तु तद्धविष्कं कर्म विवक्षितम् । पार्वणग्रहणं कालविधानार्थम् । अन्यथा पाणिग्रहणादिवचनादहरहः क्रियौ प्राप्नोति ॥ १ ॥
तस्य दर्शपूर्णमासाभ्यामुपवासः ॥ २ ॥
तस्य पार्वणस्य । दर्शपूर्णमासाभ्यामुपवासो व्याख्यातः । उपवासशब्दोऽयमभोजने प्रसिद्धः । इह तु रात्रावभोजने द्रष्टव्यः । 'न तस्य सायमश्नीयाद् येन प्रातर्यक्ष्यमाणः स्याद्' इत्यापस्तम्बः । प्रकृतत्वादेव सिद्धे तस्येति वचनं नियमार्थम् । तस्यैव पार्वणस्यायमुपवासविधिः स्यात्, तदतिदिष्टे मा भूदिति ॥ २ ॥
इध्माबर्हिषोश्च सन्नहनम् ॥ ३ ॥
सन्नहनं बन्धनं, तच्च दर्शपूर्णमासाभ्यां व्याख्यातम् । समन्त्रकममन्त्रकं वा शाखान्तरे दृष्टं पूर्वेद्युरिति ॥
देवताश्चोपांशुयाजेन्द्रमहेन्द्रवर्जम् ॥ ४ ॥
देवताश्च दर्शपूर्णमासाभ्यां व्याख्याताः । किमविशेषेण । नेत्याह — उपांशुयाजेन्द्रमहेन्द्रवर्जम्, उपांशुदेवतामिन्द्रं महेन्द्रं च वर्जयित्वा । तेन पौर्णमास्यामग्निरग्नीषोमौ च अमावास्यायामग्निरिन्द्राग्नी चं ॥ ४ ॥
१. 'हः प्रा' ख. ग. पाठः.
२. 'यां' ख. ग. घ. पाठः.
३. 'द्युः ॥' घ. पाठः.
अष्टमः खण्डः ] अनाविलेापेतम् । ३७
अष्टमः खण्डः ] अनाविलेापेतम् । ३७
काम्या इतराः ॥ ५ ॥
उक्ताभ्योऽन्या उपांशुयाजाद्या देवताः काम्या भवन्ति । कामे सति कर्तव्या इत्यर्थः । 'विष्णुं बुभूषन् यजेते'त्याद्यः काम्याः । 'अथ काम्यानां स्थाने काम्याश्चरव' इत्येव सिद्धे वचनमिदं कामसंयोगेन पर्वणि कथं प्रयोगः समानतन्त्रः स्यादिति । आज्येन चोपांशुमिच्छन्ति । अपर आह — पूर्वो योगः प्रधानदेवताविषयः । यास्त्वितरा अङ्गदेवताः, ता अपि काम्याश्चेत् कर्तव्या एव । 'अथ प्रजाकामो राकां सिनीवालीं कुहूमिति ॥ ५ ॥
तस्यै तस्यै देवतायै चतुरश्चतुरो मुष्टीन् निर्वपति ॥ ६ ॥
यस्मिन् यस्मिन् कर्मणि या या देवता चोद्यते तस्यै तस्यै । मुष्टिरिति परिमाणोपदेशः ॥ ६ ॥
पवित्रे अन्तर्धायामुष्मै त्वा जुष्टं निर्वपामीति ॥ ७॥
पवित्रे प्रागुक्ते । ते अन्तर्धाय मध्ये कृत्वा अमुष्मै त्वा जुष्टं निर्वपामीत्यनेन मन्त्रेण निर्वपति । तत्रामुष्मा इत्यस्य स्थाने देवतापदं चतुर्थ्यन्तं प्रयोक्तव्यम् — अग्नये त्वा अग्नीषोमाभ्यां त्वा इन्द्राग्निभ्यां त्वेति ॥ ७ ॥
अथैनान् प्रोक्षति यथानिरुप्तममुष्मै त्वा जुष्टं प्रोक्षामीति ॥ ८ ॥
अथशब्द आनन्तर्यार्थः । तेन सर्वेषु निरुप्तेषु निर्वापपदे समाप्तेऽनन्तरं प्रोक्षणम् । यथानिरुप्तमिति येन
१. 'माः' क. ख. घ. पाठः. २. 'श्चोद्यन्ते त' ग. पाठः. ३. 'सं ये' ख. पाठः,
| ३८ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः |
|---|
क्रमेण निर्वापः कृतः, तेन क्रमेण अग्नये त्वा जुष्टं प्रोक्षाम्य-
ग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामीति । केचिदाहुः — तस्यै तस्यै
चतुरश्चतुरः पवित्रे अन्तर्धायेते । सर्वोऽयं विधिर्यथानिरुप्त-
मित्यनेनातिदिश्यत इति ॥ ८ ॥
अवहतांस्त्रिः फलीकृतान् नाना श्रपयेत् ॥ ९ ॥
अवहननं तुषविमोचनम् । फलीकरणं कणविमोच-
नम् । प्रक्षालनमपि त्रिर्भवति आचारात् । नानेति पृथक्पात्रेषु
श्रपयेदित्यर्थः ॥ ९ ॥
समोप्य वा ॥ १० ॥
एकस्मिन् पात्रे समावापं कृत्वा वा श्रपयेत् ॥ १० ॥
नानाश्रपणे विशेषमाह —
यदि नाना श्रपयेद् विभज्य तण्डुलानभिमृशेदि-
दममुष्मा इदममुष्मा इति ॥ ११ ॥
यदा नाना श्रपणं तदा तण्डुलान् विभज्य पृथक्
कृत्वाभिमृशेद् दक्षिणेन हस्तेन इदमग्नये इदमग्नीषोमाभ्या-
मिति ॥ ११ ॥
समोप्यपक्षे विशेषमाह —
यद्यु वै समोप्य व्युद्धारं जुहुयात् ॥ १२ ॥
यद्युवै इति निपातौ वाक्यालङ्कारे । यदि समावापं
कृत्वा श्रपयेत, तदा व्युद्धारं व्युद्धृत्य नानापात्रे कृत्वा पूर्व-
१. 'त्वा', २. 'न् वा पा', ३. 'त्वा श्र' ख. पाठः.
अष्टमः खण्डः] अनाविलेपेतम् । ३९
अष्टमः खण्डः] अनाविलेपेतम् । ३९
वदभिमृश्य जुहुयात् । जुहुयादिति वचनं होमकाले व्युद्धारो यथा स्यादिति ॥ १२ ॥
श्रृतानि हवींष्यभिघार्योदगुद्वास्य बर्हिष्यासाद्ये- ध्ममभिघार्यायं त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्ध- स्व चेद्ध वर्धय चास्मान् प्रजया पशुभिर्ब्रह्मवर्चसेनान्ना- द्येन समेधय स्वाहेति ॥ १३ ॥
आदध्यादिति शेषः, वक्ष्यमाणं वापेश्यते । शृतानीति वचनान्नाश्रृतानि नापि विदग्धानि । उदगुद्वास्येति पाठः । उदङ्ङि¹ति पाठे कर्तुरुदङ्मुखत्वं प्राप्नोति । बर्हिष्यासाद्य² अस्मादेवानुवादाद् गम्यते अस्ति बर्हिषस्तरणमिति । तच्च पश्चा³दग्नेः । प्रादेशमात्रं बर्हिरिच्छन्ति । तस्मिन् हविरासाद्य । कल्पान्तरदर्शनात् प्रतिष्ठितमभिघारयति । खादिरः पालाशो वा एकविंशतिदारुरिध्मः त्रयः परिधयः स्थविष्ठो मध्यमः अणीयान् द्राघीयान् दक्षिणार्ध्योऽणिष्ठो ह्रसिष्ठ उत्तरार्ध्योऽरत्निमात्रे द्वे आधारसमिधावनूयाजसमिदेका । पञ्चदश होमार्थाः । मध्यमं परिधिमुपस्पृश्योर्ध्वे आधारसमिधावादधाति दक्षिणार्धपूर्वार्ध उत्तरार्धपूर्वार्धे च । ततः पञ्चदशसमिधो युगपद्दा⁴दधाति अयं त इति स्वाहान्तेन ॥ १३ ॥
१. 'अन्यथा चेत् कर्तुरुदङ्मुखत्वप्राप्तिः । ब' क. ख. पाठः.
२. 'ति । प' ग. पाठः.
३. 'ग्नेः । बर्हिश्च प्रादेशमात्रम् । आसन्नान्यभिघारयति प्रतिष्ठितमभिघारयति । न । कल्पान्तरदर्शनात् । तत इध्ममभिघारयति । स्वा' क. ख. पाठः.
४. 'द् जुहोति । तत्र मन्त्रः अयं त इध्म इति ॥' ग. घ. पाठः.
४० | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः
तूष्णीमाघारावाघार्याज्यभागौ जुहुयादग्नये स्वाहा सोमाय स्वाहेति ॥ १४ ॥
मन्त्रानुपदेशादेव सिद्धे तूष्णीमिति वचनाद् दर्शपूर्णमासयोर्मन्त्रव्यतिरिक्ता ये आघारधर्मास्ते भवन्ति । तेन पूर्वमाघारं स्रुवेण जुहोति । उत्तरं परिधिसन्धिमन्ववहृत्य प्रजापतिं मनसा ध्यायेन्¹ उत्तरं तु दक्षिणं परिधिसन्धिमन्ववहृत्य जुहुयाद् इन्द्रं मनसा ध्यायन् । ²स्थानाभिप्रायणे तु न भवतः कल्पान्तरे क्वचिदप्यदर्शनाद्, ‘आसीनो दर्वीहोमाञ्जुहोती’ति वचनाच्च । आज्यभागावित्युत्तरयोराहुत्योः संज्ञा³। प्रयोजनं ‘तथाज्यभागौ⁴ पाकयज्ञेष्वि’ति । उत्तरमाग्नेयं दक्षिणं सौम्यमिति वक्ष्यमाणत्वादमुष्मै⁵ स्वाहेति परिभाषयैव सिद्धे मन्त्रोपदेशः क्रमार्थः पूर्वमाग्नेयः पश्चात् सौम्य इति⁶ ॥ १४ ॥
उत्तरमाग्नेयं दक्षिणं सौम्यम्⁷ ॥ १५ ॥
अनयोरेष देशविधिः । अग्नेरुत्तरपार्श्वे होतव्यत्वादुत्तरः एवं दक्षिणः ॥ १५ ॥
तयोरेवंदेशत्वे कारणमाह —
विज्ञायते चक्षुषी वा एते यज्ञस्य यदाज्यभागौ तस्मात् पुरुषस्य प्रत्यङ्मुखस्यासीनस्य दक्षिणमक्ष्युत्तरं भवत्युत्तरं दक्षिणम् ॥ १६ ॥
१. ‘याद् उ’ ग. पाठः.
२. ‘स्व’ ख. पाठः.
३. ‘ज्ञा । ‘त’,
४. ‘गाविति प्रयोजनम् ॥’ क. ख. पाठः.
५. ‘ति जुहुयादिति प’ ग. घ. पाठः.
६. ‘ति । तयोर्देशविधिः । उ’,
७. ‘म् । अग्ने’ ग. घ. पाठः.
अष्टमः खण्डः] अनाविलोपेताम् । ४१
अष्टमः खण्डः] अनाविलोपेताम् । ४१
आज्यभागौ नाम यदेते यज्ञाख्यस्य पुरुषस्य चक्षुषी, तस्मादेवंदेशौ । अत एव हि यदा पुरुषः प्रत्यङ्मुख आसीनो भवति, तदा दक्षिणमक्ष्यत्तरं भवति आग्नेयं ^१चैतदुत्तरम् । सव्यं दक्षिणदिग्भागगतं भवति सौम्यं ^२चैतत् । तस्मादेवंदेशाविति । उत्तरमाग्नेयं दक्षिणं सौम्यमिति वचनादेवैवं देशत्वे सिद्धे ब्राह्मणवाक्यमनुकृ^३ष्यते — दक्षिणापवर्गेऽप्येवमेतौ होतव्याविति । तेनान्यत्रैवंजातीयके उदगप^४वर्ग^५ता भवति ॥ १६ ॥
मध्ये हवींषि ॥ १७ ॥ जुहुयादित्येव । सन्निधानादाज्यभागयोर्मध्ये प्रधानाहुतिं जुहुयात् ॥ १७ ॥
प्रत्यक्तरं वा ॥ १८ ॥ आज्यभागयोरेव प्रत्यक्तरं पश्चिमतरं वा प्रधानाहुतिं जुहुयात् ॥ १८ ॥
प्राक्संस्थान्युदक्संस्थानि वा ॥ १९ ॥ हवींषि जुहुयादित्येव, मध्ये हवींषीति वचनात् । उपर्युपरि होमे प्राप्ते वचनम् ॥ १९ ॥
उत्तरपुरस्तात् सौविष्टकृतम् ॥ २० ॥ उत्तरपूर्वे भागे अग्नावेव स्विष्टकृद्देवत्यामाहुतिं जुहुयात् ॥ २० ॥
मध्यात् पूर्वार्द्धाच्च हविषोऽवद्यति ॥ २१ ॥ हविषो मध्याच्च पूर्वार्द्धाच्चावद्यति, उपस्तरणाभिधारणे द्वे, एवं चतुरवत्तम् ॥ २१ ॥
१, २. 'च', ३. 'वक्ष्यते' क. ख. पाठः. ४. 'र्गो भ', ५. 'तीति ॥' घ. पाठः.
G
| ४२ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः |
|---|
मध्यात् पूर्वार्धात् पश्चार्धादिति पञ्चावत्तिनाम् ॥ २२ ॥
पञ्चावत्तिनो जमदग्नयः, तेषामयमवदानक्रमः । पश्चार्धाच्चेत्येतावत्युक्ते 'तस्य नित्याः प्राञ्चश्चेशा' इति प्राक्संस्थता प्राप्नोति । तस्मात् क्रमार्थं गुरुसूत्रकरणम् ॥ २२ ॥
उत्तरार्धात् सौविष्टकृतम् ॥ २३ ॥
सौविष्टकृतमवदानं हविष उत्तरार्धादवद्यति । एकवचनस्याविवक्षितत्वात् पञ्चावत्तिनो द्विरवदानम् । अभिघारणं तु सर्वेषां द्विर्भवति । एवमवदानसंपत्तिर्भवति । आपस्तम्बोऽप्याह—'सर्वेषां हविषामुत्तरार्धात् सकृत् सकृत् स्विष्टकृतेऽवद्यति । द्विःपञ्चावत्तिनो दैवतसौविष्टकृतैडचतुर्धाकरणकानामुत्तरमुत्तरं ज्यायो द्विरभिघार्ये'ति ॥ २३ ॥
नात्र हवींषि प्रत्यभिघारयति । स्विष्टकृतं द्विरभिघारयति ॥ २४ ॥
अत्र स्विष्टकृदवदाने हवींषि न प्रत्यभिघारयति । अत्रग्रहणेऽक्रियमाणे प्रधानावदाने प्रत्यभिघारणं न स्यात् ॥ २४ ॥
यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् ।
अग्निष्टत् स्विष्टकृद् विद्यात् सर्वं स्विष्टं सुहुतं करोतु मे ।
अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे सर्वान्नः कामान् समर्धय स्वाहा इति ॥ २५ ॥
सौविष्टकृतस्यैायं मन्त्रः ॥ २५ ॥
१. 'च्यमाने त', २. 'ति वचनात् प्रा' ग. घ. पाठः. ३. 'भिघारणेऽपि प्र' ग. पाठः. ४. 'स्य होमस्यायं 'ख. पाठः. ५. 'यं होमम- ग. घ. पाठः.
अष्टमः खण्डः ] अनाविलोपे तम् । ४३
अष्टमः खण्डः ] अनाविलोपे तम् । ४३
बर्हिषि पूर्णपात्रं निनयेत् ॥ २६॥
यदपां पूर्णं प्रणीतापात्रं तद् हविरासादनार्थं स्तीर्णै बर्हिषि निनयेत् निषिञ्चेत् । अस्मादेव प्रतिपत्तिविधानाद् गम्यते अस्ति पाकयज्ञेषु प्रणीताप्रणयनमिति । तत्र पात्रे प्रोक्षणानन्तरमापस्तम्बः — ‘अपरेणाग्निं पवित्रान्तर्हिते पात्रेऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूय समं प्राणैर्हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैः प्रच्छाद्ये’ति ॥ २६ ॥
एषोऽवभृथः पाकयज्ञानाम् ॥ २७ ॥
यदिदं पूर्णपात्रनिनयनमेष पाकयज्ञानामवभृथो वेदितव्यः । अनवभृथेऽवभृथवचनम् अवभृथधर्मा यथा स्युरिति । के पुनस्ते । कालश्चाभ्युक्षणं च । कः पुनरवभृथस्य कालः । ऊर्ध्वं सर्वप्रायश्चित्तेभ्यः प्राक् संस्थाजपात् । अभ्युक्षणं च भवति । कर्तुः संस्कार्यस्य चोपनयनादौ प्रतिदिशमुक्षणं चाचरन्ति । पाकयज्ञानामित्यनुच्यमाने प्रकरणात् स्थालीपाकेष्वेव स्यात् । पाकयज्ञग्रहणात्तु सर्वेषु पाकयज्ञेषु भवति । सर्वप्रायश्चित्तानि च ब्रह्मण इति केचित् । अन्ये त्वनित्यत्वाद् ब्रह्मणः प्रायश्चित्तस्यावश्यंभावित्वात् कर्तुरिति ॥ २७ ॥
एतत् तन्त्रम् ॥ २८॥
पाकयज्ञानामित्युभयत्रापि सम्बध्यते । पुरस्ताच्चोपरिष्टाच्च यदङ्गजातं तत्तन्त्रम् ॥ २८ ॥
१. 'अनभ्यु', २. 'ति स्थितम् ।।' घ. पाठः.
| ४४ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः |
|---|
हविरुच्छिष्टं दक्षिणा ॥ २९ ॥
हविषो यद्धुतशिष्टं, सा दक्षिणा । अस्मादेव दक्षिणा- विधानादन्यः कर्तेति गम्यते । तन्त्रव्यपदेशे कृते सत्युत्तर- कालविधानाद् दक्षिणायाः पूर्वसूत्रेषु सर्वेषु पाकयज्ञेषु प्रवृत्ति- र्न भवति, किं तर्हि पार्वण एव स्थालीपाके । सर्वेषु स्थाली- पाकेष्वित्यन्ये ॥ २९ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये अष्टमः खण्डः ।
अथ नवमः खण्डः ।
अथ पशुकल्पः ॥ १ ॥
अथशब्दोऽधिकारार्थः । इत उत्तरं पशुकल्पोऽधिकृतो वेदितव्यः । कल्पग्रहणं किमर्थम् । अथ पशुरित्युच्यमाने योऽयं त्रेतायां पशुर्विहितः स षाण्मास्यः सांवत्सरो वेति, तस्य स्थाने गृह्येऽग्नौ पशुर्विधीयत इति विज्ञायते । कल्पग्रहणात्तु योऽस्मिन् गृह्येऽन्यत्र चोदितः पशुरष्टकायां शूलगवे आतिथ्ये मधुपर्के, अथ काम्यानां स्थाने काम्या इत्यत्र च, तस्य पशोः कल्पमा- त्रमत्र विधीयत इत्यर्थो भवति ॥ १ ॥
उत्तरतोऽग्नेः शामित्रस्यायतनं कृत्वा पाययित्वा पशुमाप्लाव्य पुरस्तात् प्रत्यङ्मुखमवस्थाप्याग्निं दूतमिति द्वाभ्यां हुत्वा सपलाशयार्द्रशाखया पश्चादुपस्पृशेद- मुष्मै त्वा जुष्टमुपाकरोमीति ॥ २ ॥
नवमः खण्डः] अनाविलोपेताम् । ४५
नवमः खण्डः] अनाविलोपेताम् । ४५
यस्मिन्नग्नौ पशुः श्रप्यते स शामित्रः । तस्यायतनं करोति । क । उत्तरतोऽग्नेरौपासनस्य कृत्वायतनं पशुं पाययैति उदकपानं कारयति । पाययित्वा तत आप्लावयति स्नापयति । ततोऽग्नेः पुरस्तात् प्रत्यङ्मुखमवस्थापयति । ततोऽग्निं दूतमिति द्वाभ्यां हुत्वा सपलाशया सपर्णायार्द्रशाखया अशुष्कशाखया पश्चात् पृष्ठभागे पशुमुपस्पृशेद् अन्वारभेत अमुष्मै त्वेति मन्त्रेण । अदःशब्दस्य स्थाने देवतानिर्देशश्चतुर्थ्या । 'अग्निं दूतं वृणीमहे' 'अग्निं दूतं पुरो दधे' 'अग्निं दूतं प्रति यदब्रवीत ने'त्यनेकसंभवेऽपर्याद्यस्य ग्रहणं हीनपादग्रहणात् । सूक्तादौ हीनपादग्रहणं दृष्टम् । यद्येवं द्वाभ्यां सूक्ताभ्यां होमः प्राप्नोति । भविष्यति । यत्र सूक्तादिग्रहणेनैकं सूक्तमिच्छति, करोति तत्र यत्नम् । तद्यथा—'उपप्रयन्त' इति सूक्ते 'इमे विप्रस्ये'ति सूक्ते इति । तस्मादृग्भ्यां द्वाभ्यां होमः ॥ २ ॥
व्रीहियवमतीभिरद्भिः पुरस्तात् प्रोक्षत्यमुष्मै त्वा जुष्टं प्रोक्षामीति ॥ ३ ॥
व्रीहीन् यवांश्चाप्सु प्रक्षिप्य ताभिरद्भिः पुरस्तादग्रतः प्रोक्षति मन्त्रेणोद्दिष्टदेवतेन ॥ ३ ॥
१. 'शामित्रो नामाग्निः यस्मिन् पशुः श्रप्यते । तस्या' ग. घ. पाठः.
२. 'तन्त्रगं प' क. पाठः.
३. 'यित्वा उ' ग. पाठः
४. 'ति पानीयं तत्राप्ला' ख. पाठः.
५. 'त्वा पशुमाप्ला' ग. पाठः.
६. 'ति । अवस्थाप्य ततोऽग्निं',
७. भ्यां जुहोति । हु' ग. घ. पाठः.
८. 'प्यन्यस्याग्र' घ. पाठः.
९. 'ति अमुष्मै त्वा जुष्टं प्रोक्षामीत्यनेन मन्त्रेण । नामनिर्देशः पूर्ववत् ॥' क. ख. पाठः.
४६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
तासां पाययित्वा दक्षिणमनु बाहुं शेषं निनयते ॥ ४ ॥
तासामपां किञ्चित् पाययित्वा तस्य पशोर्दक्षिणं बाहुमनु दक्षिणे बाहौ निनयेत् निषिञ्चेत् । तासामित्यक्रियमाणे प्रोक्षणावशिष्टाना मपां पायनं स्यात् ³। प्रोक्षणाभावे न स्यात् । तासांग्रहणात्तु प्रोक्षणाभावेऽपि 'प्रोक्षणोपाकरणवर्जमि'त्यत्रापि पायनं स्यात् । केचित्तु असति तासांग्रहणे यासां कासाञ्चिदपां पायनं स्यात् । तच्छेषस्य निनयनम् । तासांग्रहणे ⁴ तु प्रोक्षणावशिष्टानामेव पायनं निनयनं चेति । नेति वयम् । यद्येतदस्य प्रयोजनं शेषग्रहणमेव पुरस्तात् कर्तव्यं शेषं पाययित्वेति ॥ ४ ॥
आवृतैव पर्यग्निकृत्वोदञ्चं नयति ॥ ५ ॥
समन्त्रकेऽनुष्ठानप्रकारेऽन्यत्र विहिते तस्यैव मन्त्रवर्जितस्य ⁵ वचनमावृदिति । तेन श्रौते पशौ यः पर्यग्निकरणप्रकारः तेनैव मन्त्रवर्जं पर्यग्नि करोति । केन कथम् , आहवनीयादुल्मुकमादायाग्नीध्रः परिवाजपतिः कविरिति त्रिः प्रदक्षिणं पर्यग्नि करोति । पशुं यूपमाहवनीयं शामित्रदेशं चात्वालमाज्यानि चेत्येके । 'प्रत्यपिसृज्योल्मुकं त्रिः प्रतिपर्येती'त्यापस्तम्बः । एवं पर्यग्निकृत्वा पशुमुदञ्चं नयन्ति यजमानस्य पुरुषाः ॥ ५ ॥
१. 'पां शेषं कि', २. 'सांग्रहणेऽक्रि', ३. 'नं भवति । अपर आह अ', ४. 'णात् तु', ५. 'न्त्रस्याव' क. ख. पाठः.
नवमः खण्डः] अनाविलोपेष्टम् । ४७
नवमः खण्डः] अनाविलोपेष्टम् । ४७
तस्य पुरस्तादुल्मुकं हरन्ति ॥ ६ ॥
तस्य नीयमानस्य पशोः पुरस्तात् अग्रतः उल्मुकं दीप्ताग्रं काष्ठम् । हरन्ति त एव । तस्येति वचनात् पुरस्ताच्छब्दोऽग्रवाची, अन्यथा प्रथमवाची दिग्वाची वा सम्भाव्यते ॥ ६ ॥
शामित्र एष भवति ॥ ७ ॥
एष उल्मुकाग्निः शामित्रो भवति । तस्मिन्नायतने तस्य प्रतिष्ठापनम् ॥ ७ ॥
वपाश्रपणीभ्यां कर्ता पशुमन्वारभते ॥ ८ ॥
कार्ष्मर्यमय्यौ वपाश्रपण्यौ ‘द्विशूलामेकशूलां चे’ति शास्त्रान्तरे । तयोरिह ग्रहणं प्रसिद्धवदुपदेशात् । ताभ्याम् । कर्ता पशुमन्वारभते । कः पुनः कर्त्ता, यः कश्चित् समर्थः । अध्वर्युरित्यन्ये ॥ ८ ॥
कर्तारं यजमानः ॥ ९ ॥
अन्वारभत इत्येव ॥ ९ ॥
पश्चाच्छामित्रस्य प्राक्छिरसं प्रत्यक्छिरसं वोदक्पादं संज्ञप्य पुरा नाभेस्तृणमन्तर्धाय वपामुत्खिद्य वपामवदाय वपाश्रपणीभ्यां परिगृह्याद्भिरवसिच्य शामित्रे प्रताप्याग्रेणैतमग्निं हृत्वा दक्षिणत आसीनः श्रपयित्वा परीत्य जुहुयात् ॥ १० ॥
१. 'ष्टम', २. 'ण्यो एका विशाखा अपरा सशाखेति शा-क. ख. पाठः.
| ४८ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः |
|---|
शामित्रस्य पश्चिमे देशे बर्हिरास्तीर्य तत्र पशुं संज्ञपयति मारयति कर्ता । ‘अमायुं कृण्वन्तम’िति कल्पान्तरे । संज्ञपनकाले च प्राक्शिरा वा प्रत्यक्शिरा वा पशुः कार्यः । ऊर्ध्वशिरा वा माभूदित्येवमर्थमिदम्, उदक्पादवचनादेव सिद्धत्वात् । एवं संज्ञप्य पुरा नाभेरिति वपास्थाननिर्देशः । नाभेरर्वागित्यर्थः । तृणमन्तर्धाय वपामुत्खिदति । उत्खिद्य उत्पाट्य वपामवद्यति खण्डयति । पुनर्वपाग्रहणं कृत्स्नावदानार्थम् । तेन हृदयादिष्वेकदेशावदानं भवति । अवदाय वपाश्रपणीभ्यां परिगृह्णाति । परिगृह्या^१द्भिरवसिञ्चति क्षालयति । अवसिच्य शामित्रेऽग्नौ प्रतापयति । धर्ममात्रमिदं प्रतापनम्, उत्तरत्रे^२ वपाश्रपणविधानात् । प्रताप्याग्रेणैतमग्निं हृत्वा अग्रेण पूर्वेणेत्यर्थः । एतमग्निमित्यौपासनस्य निर्देशः प्रधानत्वाद्, इतरस्य शामित्रशब्देनैव सर्वत्र व्यवहारात्, हृत्वा तस्यैवाग्नेर्दक्षिणत आसीनः श्रपयति घृतपरिषेकश्च भवति सम्यक्पाकार्थम् । श्रपयित्वा परीत्य जुहुयात् । उभावप्यग्नी पर्यावर्तते । अमुष्मै स्वाहेति मन्त्रः । अत्र प्रधानहोमविधानादाज्यभागान्ते पाशुक^३स्य कर्मण आरम्भः कुम्भीस्वधित्यादीनां च पात्रैः सह सादनम् ॥ १० ॥
एतस्मिन्नेवाग्नौ स्थालीपाकं श्रपयन्ति ॥ ११ ॥
एतस्मिन्निति श्रपणार्थमुत्पन्ने शामित्रे माभूत् । पशुपुरोडाशस्थानीयश्चायं स्थालीपाकः । यद्देवतयः पशुः तद्देवतो भवति ॥ ११ ॥
१. ‘ति । ततोऽद्भिरवसिच्य प्रक्षाल्य शा’, २. ‘त्र थ’ क, ख. पाठः. ३. ‘कर्म’ ग. पाठः.
नवमः खण्डः] अनाविलेापेतम् । ४९
नवमः खण्डः] अनाविलेापेतम् । ४९
एकादश पशोरवदानानि ॥ १२ ॥
पश्वधिकारे पुनः पशुग्रहणं श्रौतपरिग्रहार्थम् । श्रौतस्य पशोर्यान्यवदानानि तान्यत्र ग्राह्याणीति । तानि च कल्पान्तरादौ¹गमयितव्यानि । तत्रापस्तम्बः — ‘हृदयं जिह्व वक्षो यकृद्वृक्यौ सव्यं दोरुभे पार्श्वे दक्षिणा श्रोणिर्गुदत्तृतीयमिति दैवतानि’ ॥ १२ ॥
सर्वाङ्गेभ्योऽवदाय शामित्रे श्रपयित्वा हृदयं शूले प्रताप्य स्थालीपाकस्याग्रतो जुहुयात् ॥ १३ ॥
इदं विप्रतिषिद्धं यद्ये²कादशावदानानि³ सर्वाङ्गेभ्योऽवदाय⁴ कथमकादशावदानानीति । नास्ति विप्रतिषेधः । नेदं होमार्थमवदानं चोद्यते, तस्य वक्ष्यमाणत्वात् ‘एकैकस्यावदानस्य द्विर्द्विरवद्यती’ति । किं तर्ह्यनेनोच्यते । यद्यप्येकादशावदानानि, तथापि सर्वाण्यैवे⁵खण्ड्य शामित्रे श्रपयितव्यानीति । तानि च ‘दक्षिणं दोः सव्या श्रोणिर्गुदत्तृतीयमिति सौविष्टकृतानि । क्लोमानं प्लीहानं पुरीततं वॅ⁶निष्ठुमथ्युद्धिं मेदो जाघनीमि’त्यापस्तम्बोक्तानि । तेन च सौविष्टकृतानामत्रापि स्विष्टकृत्येव विनियोगः इतरेषां हुतशिष्टानां च ब्राह्मणभोजनादाविति । तत्र सर्वाङ्गेभ्य इति द्वितीयार्थे पञ्चमी । हृदयं शूले प्रताप्य स्थालीपाकस्याग्रतो जुहुयात्
१. ‘दवगन्तव्यानि’ क. पाठः.
२. ‘द्येवमेका’,
३. ‘नि कथं स’,
४. ‘दायदि सर्वाङ्गेभ्योऽवदाय क’,
५. ‘प्यङ्गाव’ ग. पाठः.
६. ‘वि’ क. पाठः.
५० आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
हृदयं शूले प्रोतं शामित्र एव प्रतापयेति । ततः स्थालीपाक- स्याग्रतो जुहोति । द्वितीयार्थे षष्ठी । स्थालीपाकस्य वा एक- देशमवदानमात्रम् । अग्रतः अवदानेभ्यः प्राग् जुहोति । ततो- ऽवदानानि । अस्मिन्नपि पक्षे स्विष्टकृदपि विद्यत^२ इत्याहुः ॥
अवदानैर्वा सह ॥ १४ ॥
जुहोति स्थालीपाकं, नाग्रतोऽवदानानाम् ॥ १४ ॥
एकैकस्यावदानस्य द्विर्द्विरवद्यति ॥ १५ ॥
यानि तान्येकादशावदानानि तेषामेकैकस्यार्थाय तत- स्ततः प्रदेशाद् द्विर्द्विरवद्यति । द्विर्द्विरिति ग्रहणात् पञ्चाव- त्तिनामपि द्विरेवेति केचित् । नेत्यन्ये, प्रदर्शनार्थत्वाद् द्वि- र्ग्रहणस्य । यद्येवमपार्थकं द्विर्ग्रहणं तत् क्रियते अवदानधर्मेषु द्विर्ग्रहणमेव यथा स्याद् देशादिनियमो मा भूदिति ॥ १५ ॥
आवृतैव हृदयशूलेन चरन्ति ॥ १६ ॥
आवृन्नाम मन्त्रवर्जिता क्रियापरिपाटी । अनुपदेशा- देव मन्त्राभावे सिद्धे^३ तत्प्रतिषेधोऽन्येषां धर्माणां प्राप्त्यर्थः । के^४ ते । आहापस्तम्बः — 'अनुपस्पृशन् हृदयशूलमुदङ्परे- त्यासञ्चरेऽप उपनिनीय शुष्कार्द्रयोः सन्धावुद्वासयती'ति । अस्माकमपि 'हृदयशूलमुपोयमानमि^५त्यादि ॥ १६ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये नवमः खण्डः ।
१. 'यति ततोऽवदाना' ग. पाठः. २. 'विभिद्य' क. पाठः.
३. 'द्धेऽपि त', ४. 'के पुनस्ते आ', ५ 'मनुमन्त्रयेदि ॥' ग. पाठः.
दशमः खण्डः] अनाविलोपेताम् । ५१
दशमः खण्डः] अनाविलोपेताम् । ५१
अथ दशमः खण्डः ।
चैत्ययज्ञे प्राक् स्विष्टकृतश्चैत्याय बलिं हरेत् ॥ १ ॥
इह कश्चित् केनचिदर्थेनार्थी, या एताः प्रतिजनपदमायतनेषु देवताः पूज्यन्ते तासां मध्ये यां च भजते यां च परं मन्यते तस्यै प्रतिशृणोति पशुना स्थालीपाकेनाज्येन वा यच्चान्यदेवं युक्तं तेन त्वा यक्ष्य इति । स तस्मिन्नर्थे सिद्धे तां देवतां तेन हविषो यजते तस्मिन् विषय इदमुच्यते । चैत्यमायतनम् इह तात्स्थ्यात् ताच्छब्धं चैत्यस्थस्य दैवतस्य यज्ञश्चैत्ययज्ञः । अपर आह — यत्र द्रव्यं देवता काम इति सर्वं चित्तपरिकल्पितं स चित्ते भवश्चैत्यः । ‘गम्भीराञ्ञ्यः’ । ‘अव्ययीभावाच्चे’त्यत्र परिमुखादेर्ग्रहणम् । तेषु चित्तशब्दः पठितव्यः । चैत्यश्चासौ यज्ञश्चेति चैत्ययज्ञ इति । तस्मिन् सङ्कल्पितेन हविषाज्यभागान्ते हुत्वा स्विष्टकृतः प्राक् तस्मै चैत्याय तदेव हविर्बलिं हरेत् प्रत्यक्षेण निवेदयेत् । पश्चात् स्विष्टकृत् । तस्याप्यवदानं पूर्वमेव । तदायतनवासिनेऽमुष्मै स्वाहेति प्रधानहोमः । पुनश्चैत्यायेति वचनं प्रत्यक्षहरणार्थम् । सर्वेष्वेव कर्मसु आगन्तुकानि प्राक् स्विष्टकृतः । प्राक् स्विष्टकृत इति वचनमस्मिन् कर्मणि होमोऽस्तीति प्रदर्शनार्थम् । अन्यथा बलिहरणमात्रमेव स्याद् यज्ञशब्दस्य तावत्यपि दृष्टत्वाद् यथा भूतयज्ञ इति ॥ १ ॥
यद्यु वै विदेशस्थम् ॥ २ ॥
१. ‘प्रा स्विष्टकृतः प्रोक्तस्मै च चेत्याय तदेव बलिं हरे य’ ग. पाठः.
५२ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
यजेतेति शेषः । उवै इति निपातौ वाक्यालङ्कारे विप्रकृष्टो देशो विदेशः ॥ २ ॥
यदि विदेशस्थं चैत्यं यजेत यदा चोलेषु स्थितः सोमनाथं, तदा प्रत्य- क्षहरणाद्योगात् किं कर्तव्यं तदाह —
पलाशदूतेन ॥ ३ ॥
हारयेदिति शेषः । पलाशवृक्षेण दूतं कारयित्वा तेन हारयेत् ॥ ३ ॥
यत्र वेत्थ वनस्पत इत्येतयर्चा द्वौ पिण्डौ कृत्वा वीवधेऽभ्याधाय दूताय प्रयच्छेत् ॥ ४ ॥
पादग्रहणादेव सिद्धे एतयर्चेति वचनं पिण्डकरणे अभ्याधाने प्रदाने चाभ्यासार्थम् । यत्र वेत्थ वनस्पत इति द्वौ पिण्डौ कृत्वा एतयर्चा अभ्याधाय एतयर्चा प्रयच्छे- दिति । पिण्डयोरेकश्चैत्याय अपरो दूताय पाथेयरूपः । वी- वधो नाम स्कन्धवाह्य उभयतोबद्धशिक्यः काष्ठविशेषः त- स्मिन् पिण्डावभ्याधाय दूताय प्रयच्छेत् तस्य स्कन्धे नि- दध्यात् ॥ ४ ॥
इमं तस्मै बलिं हरेति चैनं ब्रूयात् ॥ ५ ॥
यश्चैत्याय परिकल्पितः तमभिमृश्य । तस्मा इत्यस्य स्थाने चैत्यस्य चतुर्थ्या नामनिर्देशः ॥ ५ ॥
अयं तुभ्यमिति यो दूताय ॥ ६ ॥
यो दूताय परिकल्पितः पिण्डः तमभिमृश्यायं तुभ्य- मिति ब्रूयात् ॥ ६ ॥
१. 'यदूतः रू' क. ख. पाठः.
दशमः खण्डः] अनाविलेापेतम् । ५३
दशमः खण्डः] अनाविलेापेतम् । ५३
प्रतिभयं चेदन्तरा शस्त्रमपि किञ्चित् । ॥
अन्तरा कर्तुश्चैत्यस्य मध्ये प्रतिभयं भयङ्करं कान्तारादिकं स्याच्चेत् तदा दूतस्य भयनिवृत्त्यर्थं शस्त्रं खड्गादिकमपि किञ्चित् प्रयच्छेत् ॥ ७ ॥
नाव्या चेन्नद्यन्तरा प्लवरूपमपि किञ्चिदनेन तरितव्यमिति ॥ ८ ॥
तयोरेव मध्ये नाव्या नौतार्या नदी चेद् भवति तदा दूतस्य तरणार्थं प्लवरूपमपि किञ्चिद् अलाबुपात्रादिकं प्रयच्छेत् । अनेन तरितव्यमिति च दूतं ब्रूयात् ॥ ८ ॥
धन्वन्तरियज्ञे ब्रह्माणमग्निं चान्तरा पुरोहित1याग्रे बलिं हरेत् ॥ ९ ॥
धन्वन्तरिर्नाम चैत्यम् । वैश्रवण इत्येके । अमृतोद्भवश्चिकित्सितस्योपदेष्टेत्यायुर्वेदे प्रसिद्धः । तत्र द्वितीयः स्वरोऽपि ह्रस्वः प्रसिद्धः । तस्य यज्ञे योऽस्मिन् कर्मणि दक्षिणत आसीनो ब्रह्मा तमग्निं चान्तरा तयोर्मध्ये यो धन्वन्तरेः पुरोहितः तस्मै अग्रे प्रथमं बलिं हरेत् पश्चाद् धन्वन्तरये । होमस्तु धन्वन्तरय एव । यदा त्वयं विदेशस्थः तदास्मै सपुरोहितायैकः पिण्डः दूताय द्वितीयः । इमं धन्वन्तरिपुरोहिताभ्यां बलिं हरेदिति द्विवचनेनोहः । अन्ये तु
Footnotes
-
१. 'ध्ये पुरोहिताय धन्वन्तरेर्यः पुरोहितः तस्मै अग्रे प्रथमं बलिं हरेत् । पश्चाद् धन्वन्तरये होमस्तु धन्वन्तरय एव । यदा विदेशस्थो धन्वन्तरिः तदा धन्वन्तरिपुरोहिताभ्यामेकः पिण्डः दूताय द्वितीयं तस्मा इत्यस्यापि द्विवचनेनोहः इमं धन्वन्तरिपुरोहिताभ्यां बलिं हरेति अन्ये' ग. पाठः. ↩
| ५४ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः |
|---|
पुरोहिताय क्वचिदपि प्रत्यक्षहरणाभावाद्दिग्देशस्थेऽपि धन्वन्तरौ ब्राह्मणमग्निं चान्तरा पुरोहिताय बलिं हरन्ति ॥ ९ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये दशमः खण्डः ।
अथैकादशः खण्डः ।
उपनिषदि गर्भालम्भनं पुंसवनमनवलोभनं च ॥ १ ॥
गर्भो येन लभ्यते निषिक्तं वीर्यममोघं भवति तद् गर्भालम्भनम् । येन स गर्भः पुमान् भवति तत् पुंसवनम् । येन स गर्भो न लुभ्यति न स्रवति तदनवलोभनम् । एतानि त्रीणि कर्माणि उपनिषद्याम्नातानि तथैव कर्तव्यानि । शाखान्तरोपनिषद्याम्नातानामप्यागमय्यानुष्ठानार्थं वचनम् ॥ १ ॥
यदि नाधीयात् तृतीये गर्भमासे तिष्येणोपोषितायाः सरूपवत्साया गोर्दधनि द्वौ द्वौ माषौ यवं च दधि प्रसृतेन प्राशयेत् ॥ २ ॥
यदि नाधीयात् व्यत्ययेन परस्मैपदम् । स्मरणार्थो वा धातुः । यदि तामुपनिषदं नाधीयीत न स्मरेद्वा तदो किं कर्तव्यम् । तदुच्यते । तृतीये गर्भमासे तिष्येणोपोषितायाः सरूपवत्साया गोर्दधनि द्वौ द्वौ च माषौ यवं च दधि प्रसृतेन प्राशयेत् । तत्र गर्भालम्भनं गृह्यान्तरेषु बहुषु प्रसिद्धम् । तत्रापस्तम्बः — 'रजसः प्रादुर्भावात् स्नातामृतुसमावेशन उत्तराभिरभिमन्त्रयते', 'चतुर्थीप्रभृत्या षोडशीमुत्तरामुत्तरां
१. 'ब्राह्मणमग्निं चेत्यादि ब' क. ख. पाठः.
२. 'दा एवम् । तु' ख. पाठः.
३. 'व्यं तु' ग. पाठः.