बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
.षष्ठ : खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २२१
अनु०—जिस घर में अग्नि का आधान किया गया हो उसमें प्रवेश करते समय गायों के बीच में जाने पर, ब्राह्मणों के समीप, दैनिक स्वाध्याय के अवसर पर तथा भोजन के समय दाहिने हाथ को उठावे ॥ ३८ ॥
टि०—सूत्रस्थ 'च' शब्द से अन्य पवित्र स्थानों और शुभ अवसरों पर भी हाथ उठाने का नियम समझना चाहिए।
स्वाध्याये वर्तमाने भोजनेऽपि बाहोरुद्धरणं नमस्काररूपेण । चशब्दः प्रशस्तमङ्गल्यदेवायतनप्रज्ञातवनस्पत्यादिप्रदर्शनार्थः ॥ ३८ ॥
उत्तरं वासः कर्तव्यं पञ्चस्वेतेषु कर्मसु ।
स्वाध्यायोत्सर्गदानेषु भोजनाचमनयोस्तथा ॥ ३९ ॥
अनु०—इन पांच कामों में उत्तरीय वस्त्र अवश्य धारण करना चाहिए। स्वाध्याय, मूत्रमलत्याग, दान, भोजन तथा आचमन के समय ॥ ३९ ॥
तृतीयं वस्त्रमुपवीतवत् व्यतिषज्यते तदुत्तरीयम् । तत् स्नातकस्य प्राप्यम्-प्येषु कर्मस्ववश्यं कर्तव्यमित्युच्यते । उत्सर्गो मूत्रपुरीषकरणम् ॥ ३९ ॥
हवनं भोजनं दानमुपहारः प्रतिग्रहः ।
बहिर्जानु न कार्याणि तद्वदाचमनं स्मृतम् ॥ ४० ॥
अनु०—हवन क्रिया में भोजन करते समय, देवता गुरु आदि को बलि या उपहार देते समय तथा दान लेते समय दाहिने हाथ को घुटने से बाहर नहीं करना चाहिए और इसी प्रकार आचमन के विषय में भी नियम बताया गया है ॥ ४० ॥
जान्वोर्द्वयोरन्तरा दक्षिणं बाहुं विधायैतानि कार्याणीत्यर्थः । उपहारो बलिहरणम् । यद्वा—प्रसिद्ध एवोपहरो देवगुरुविषयः ॥ ४० ॥
अन्नदानं स्तूयते—
अन्ने श्रितानि भूतानि अन्नं प्राणमिति श्रुतिः ।
तस्मादन्नं प्रदातव्यमन्नं हि परमं हविः ॥ ४१ ॥
अनु०—प्राणी अन्न के ऊपर आश्रित होते हैं और अन्न ही प्राण है ऐसा श्रुति का वचन है अतः अन्न का दान करना चाहिए। अन्न ही सबसे उत्तम हवि है ॥ ४१ ॥
अन्ने श्रितानि अन्नावष्टम्भानि स्थावराणि जङ्गमानि च । 'अन्नं प्राणमन्नपान' मिति श्रुतिः । देवा अप्यन्नावष्टम्भा एव । हुतप्रहुतादयस्तेषामन्नानि तस्माद्यथाशक्त्या दातव्यम् ॥ ४१ ॥
२२२ | बौधायन-धर्मसूत्रम् | [ स्नातकधर्माः
हुतेन शाम्यते पापं हुतमन्नेन शाम्यति ।
अन्नं दक्षिणया शान्तिमुपयातीति नश्श्रुतिरिति ॥ ४२ ॥
इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने षष्ठः खण्डः ॥
अनु०—हवन करने से पाप शान्त हो जाता है, हवन भी अन्न दान से शान्त होता है। अन्न दक्षिणा द्वारा-शान्ति प्राप्त करता है, ऐसा हमें श्रुति से ज्ञात होता है ॥ ४२ ॥
हुतं होमः कूष्माण्डगणहोमादिलक्षणः । तेन पापं शाम्यते । हुतविषयं च न्यूनातिरिक्तमन्नदानेन शाम्यति । अन्नदानविषयं च न्यूनातिरिक्तमस्वादु-ताकृतं प्रियवचनाभावनिमित्तं च दक्षिणया शाम्यति । वक्ष्यति होतान्—
भोजयित्वा द्विजानान्ते पायसेन च सर्पिषा ।
गोभूतलहिरण्यानि मुक्तवद्भ्यः प्रदाय च ॥ इति ।
चशब्दोऽवधारणार्थः । सर्वत्राऽत्र प्रमाणमस्माकं श्रुतिरेवेत्यर्थः । सा च 'तस्मादन्नं ददत् सर्वाण्येतानि ददाती'त्येवमादिका ॥ ४२ ॥
इति बौधायनधर्मसूत्रविवरणे गोविन्दस्वामिकृते द्वितीयप्रश्ने तृतीयोऽध्यायः ॥
द्वितीयप्रश्ने चतुर्थोऽध्यायः
सप्तमः खण्डः
यथा स्नातकस्याऽन्नदानमवश्यं कर्तव्यम्, एवमुपनीतमात्रस्य सन्ध्योपासनं प्रत्यहमवश्यं करणीयमित्याह--
अथाऽतस्सन्ध्योपासनविधिं व्याख्यास्यामः ॥ १ ॥
अनु०—इस कारण अब हम सन्ध्योपासन विधि की व्याख्या करेंगे ॥१॥
टि०—सन्ध्या रात्रि ओर दिन की सन्धिवेला को कहते हैं। इस समय ॐकार तथा व्याहृतियों के साथ गायत्री मन्त्र का जप आदि मानसिक आराधना सभी कर्मों से अधिक मंगलतर बतायी गयी है ।
अथशब्दो मङ्गलार्थः । तस्मिन् खल्वर्थे स्मर्यते—
ओङ्कारश्चाऽथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातो तस्मान्माङ्गलिकावुभौ ॥ इति ।
सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२३
सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२३
तस्मादिति माङ्गल्यहेतुतामुपदर्शयति । सन्ध्योपासनं हि सर्वेभ्यः कर्मभ्यो मङ्गलतरम् । सन्ध्या नाम रात्रेर्वासरस्य चाऽन्तरालकालवर्ति सूर्योपासनम् । तत्र प्रणवव्याहृतिसहितस्तत्स वितुरिति मन्त्रोच्चारणजन्यस्तद्विषयस्सन्ततो मानसो व्यापारः । इदमेवाऽत्र प्रधानम् । यदन्यत्तदङ्गम् । तथा च ब्राह्मणम्- 'उद्यन्तमस्तं यन्तमादित्यमभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रमश्नुते' इति । कुर्वन् प्रदक्षिणं मन्त्रोच्चारणं वा । ब्राह्मणग्रहणं ऋणश्रुतिवत् । विधि-मनुष्ठानक्रमं वक्ष्याम इति सङ्ग्रहः कृतः । तत्र कालो वक्ष्यते—'सुपूर्वामपि-पूर्वामुपक्रम्य' (२-७-१२ ) इत्यत्र ॥ १ ॥
तीर्थं गत्वाऽप्रयतोऽभिषिक्तः प्रयतो वाऽनभिषिक्तः प्रक्षालित-पादपाणिरप आचम्य सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतिभिरन्यैश्च पवित्रैरात्मानं प्रोक्ष्य प्रयतो भवति ॥२॥
अनु०—पवित्र जलाशय पर जाकर अशुद्ध होने पर स्नान कर और शुद्ध होने पर बिना स्नान किये भी, पैरों और हाथों को धोकर, आचमन कर, 'सुरभि' शब्द से युक्त ऋग्वेद के मन्त्र का उच्चारण करते हुए, अप् देवता के मन्त्रों से, वरुण देवता के मन्त्रों से हिरण्यवर्ण इत्यादि मन्त्रों से, 'पवमानः सुवर्चनः' इस अनुवाक् से, व्याहृतियों से तथा अन्य पवित्र करने वाले मन्त्रों से अपने ऊपर जल छिड़के और शुद्ध होवे॥२॥
टि०—तीर्थं से नदी, पवित्र जलाशय से तात्पर्य है । विकल्प का नियम केवल स्नान के विषय में समझना चाहिए । हाथों और पैरों के धोने का नियम दोनों ही स्थितियों में होता है, चाहे स्नान किये हो या न किये हो ।
हाथ को कलाई तक धोने का नियम है । आचमन मन्त्रोच्चारण के साथ होता है । सायंकाल आचमन का मन्त्र है 'अग्निश्च मा मन्युश्च' और प्रातःकालीन आचमन का मन्त्र है 'सूर्यश्च मा मन्युश्च' । स्नान भी 'हिरण्यशृङ्गम्' आदि मन्त्र से होता है । 'सुरभि' शब्द वाला मन्त्र 'दधिक्राव्णः' आदि है । 'आपो हि' इत्यादि तीन मन्त्र अब्दिङ्ग हैं । वरुण देवता के मन्त्र 'यच्चिद्धि ते' आदि तीन मन्त्र, अथवा कुछ लोगों के अनुसार 'अव ते हेड' ' इमं मे वरुण' मन्त्र है । 'हिरण्यवर्णाः' इत्यादि चार मन्त्र हैं । ये मन्त्र पूर्णतः इस प्रकार हैं”
अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यदह्ना पापम-कार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । अहस्तदवलुम्पतु यत्कि-ञ्च दुरितं मयि । इदमहं माममृतयोनौ । सत्ये ज्योतिषि जुहोमि स्वाहा ॥
सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यद्रात्र्या पापमकार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्पतु।
२२४ बौधायन-धर्मसूत्रम् [सन्ध्योपासनम्
यत्किञ्च दुरितं मयि । इदमह माममृतयोनौ । सूर्ये ज्योतिषि जुहोमि स्वाहा ॥ ( महा-नारायणोपनिषद् २४.२५)
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखात् कर प्रण आयूंषि तारिषत् ॥
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वःशिव-तमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः । तस्मा अरंगमामवो यस्य क्षयाय जिन्वथ आपो जनयथा च नः ।
यच्चिद्धि ते विशो यथा प्रदेव वरुण व्रतम् । मिनीमसि द्यवि द्यवि ॥ यत्किञ्चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि । अचित्ती यत्तव धर्मा युयोपिम । मा नस्त-स्मादेनसो देव रीरिषः ॥ कितवासो यद्रिपुर्नदीवि यद्वा घा सत्यमुत यन्न विद्म सर्वा तो विष्य शिथिरेव देवाऽथाते स्याम वरुण प्रियासः ॥
कर्तृसंस्कारोऽयम् । तीर्थं नदी देवखातादि बहिर्ग्रामाज्जलाशयः । तत्र गत-स्सन्प्रयतश्चेत् स्नायादेव । प्रयतश्चेन्न स्नायात् । स्नानास्नानयोर्विकल्पः । स च शक्त्यपेक्षः प्रक्षालितपादपाणिरित्यादि अभिषिक्तानभिषिक्तयोस्साधारणम् । प्रक्षालनं चाऽऽमणिबन्धात् । 'अभ्यर्हितं पूर्वम्' इति पाणेः^१ पूर्वनिपाताभावश्छां-न्दसः । अत्राऽपामाचमनं समन्त्रं वेदितव्यम् । मन्त्रश्च—^२'अग्निश्च मा मन्यु-श्चे'त्यनुवाकः सायङ्काले । ^३ 'सूर्यश्च' मा मन्युश्चेति प्रातः । प्रत्यहं हस्तपादादिभिः पापकरणस्याऽवश्यंभावित्वात्तदवलोपनसमर्थत्वाच्चैतयोः । स्नानप्रक्षालनाच-मनप्रोक्षणानि च बाह्याभ्यन्तरमलावलोपनार्थानीति गम्यते । प्रयतो भवतीति सूत्रान्ते निगमनात् । अत एव च स्नानमप्यत्र ^४ 'हिरण्यशृङ्ग' मित्येवमादिभि-भिस्समन्त्रकमेव द्रष्टव्यम् । वक्ष्यति सन्ध्योपासनफलप्रदर्शनवेलायां मान्त्रव-
^१. पूर्वनिपाते सिद्धेऽप्यपूर्वनिपातश्छान्दसः इति. ग. पु. ।
^२. अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यदह्ना पापमकार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । अहस्तदवलुम्पतु यत्किञ्च दुरितं मयि । इदमहं माममृतयोनौ । सत्ये ज्योतिषि जुहोमि स्वाहा ॥
^३. सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यद्रात्र्या पापमकार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । रात्रिस्तदवलुम्पतु । यत्किञ्च दुरितं मयि । इदमहं माममृतयोनौ । सूर्ये ज्योतिषि जुहोमि स्वाहा ॥ ( महानारायणोप० २४-२५ ) इति समग्रो मन्त्रो ।
^४. अनुवाकस्समग्रः पठनीयः स्नानकाले इति सम्प्रदायः। स च महानारायणो-पनिषदि द्रष्टव्यः ।
सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२५
सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२५
र्णिकमेव पापप्रमोचनम्-‘यदुपस्थकृतं पापम्’ ( ८-१८) इत्येवमादिना । वसि- ष्ठश्चैतमर्थमनुमोदमान उपलक्ष्यते-‘अथाऽऽचामेदग्निश्चेति सायं सूर्य- श्चेति प्रातः मनसा पापं ध्यात्वा निवदन्’ इति यद्यपि रहस्यप्रायश्चित्तप्रकरण इदं पठ्यते तथाऽपि वाक्यादविगानसमाचारादहरहरप्यवगन्तव्यम् । सुरभि- मती ‘दधिक्राव्णः’ इत्युक्त । अब्लिङ्गाः अब्देवल्यः ताश्च$^२$ ‘आपो हि’ इति तिस्रः । वारुण्यो वरुणदेवत्याः ताश्च$^३$ ‘यच्चिद्धि ते’ इति तिस्रः । केचित् ‘अव ते हेडः’ इति ‘इमं मे वरुण’ इति ऋचावपीच्छन्ति । ‘हिरण्यवर्णाः’ इति चतस्रः । पावमान्यः ‘पवमानः सुवर्चनः’ इत्यनुवाकः । अन्यानि पवित्राण्य- घमर्षणादीनि स्वयमेव वक्ष्यति-‘उपनिषदो वेदादयः’ (३.१०.१०) इति प्रक्रम्य ‘सावित्रीति चेति पावनानी’ त्यन्तेन । यद्वा-‘अघमर्षणं देवकृतम्’ (४.३.७.) इत्यत्र । प्रयत: पूतस्सन्योपासनयोग्यो भवति ॥ २ ॥
अथ स्नानप्रोक्षणयोर्व्यवस्थामाह—
अथाऽप्युदाहरन्ति— अपोऽवगाहनं स्नानं विहितं सार्ववर्णिकम् । मन्त्रवत्प्रोक्षणं चाऽपि द्विजातीनां विशिष्यते इति ॥ ३ ॥
अनु०—इस विषय में निम्नलिखित गाथा भी उद्धृत करते हैं—जल में डुबकी लगाना और स्नान करना सभी वर्णों के लिए विहित है; किन्तु मन्त्रों के उच्चारण के साथ प्रोक्षण का कर्म केवल द्विजाति वर्णों के लिए ही विशेष रूप से है ॥ ३ ॥
अपोऽवगाहनमिति वारुणं स्नानमाह । तच्च सार्ववर्णिकं सर्ववर्णसाधा- रणम् । मन्त्रवत्प्रोक्षणं पूर्वोक्तैर्मन्त्रैर्मार्जनं तच्च ब्राह्मणादित्रैवर्णिकानां विशिष्टं स्नानम् । एवं चाऽद्विजस्य वारुणमेव । द्विजातीनां पुनरुभयोरंसमुच्चयस्सति सम्भवे । असम्भवेऽपि तेषां मार्जनमवश्यंभावि ॥ ३ ॥
१. दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत् प्रण आयूँषि तारिषत् ॥ २. आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वश्शिव- तमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः । ३. यच्चिद्धि ते विशो यथा तदेव वरुण व्रतम् । मिनीमसि द्यविद्यवि ॥ यत्कि- ञ्चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि । अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥ कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न विद्म, सर्वा ता विष्य शिथिरेव देवाऽथाते स्याम वरुण प्रियासः ॥
१८ बौ०ध०
२२६ बौधायन-धर्मसूत्रम् [सन्ध्योपासनम्
किञ्च— सर्वकर्मणां चैवाऽऽरम्भेषु प्राक्सन्ध्योपासनकालाच्चैतेनैव पवित्र- समूहेनाऽऽत्मानं प्रोक्ष्य प्रयतो भवति ॥ ४ ॥
**अनु०—**जो व्यक्ति सभी धार्मिक क्रियाओं के प्रारम्भ में सन्ध्योपासन काल से पहले भी इन्हीं पवित्र करने वाले मन्त्रों के समूह से अपना प्रोक्षण करता है, वह शुद्ध हो जाता है ॥ ४ ॥
सर्वकर्माणि श्रुतिस्मृतिशिष्टागमसिद्धानि । सर्वकर्मग्रहणेनैव सिद्धे सन्ध्यो- पासनस्य पृथग्ग्रहणं तस्याऽत्यन्तप्राशस्त्यप्रतिपादनार्थम् । तच्च प्रदर्शितमस्मा- भिरथातश्शब्दयोरभिप्रायं वर्णयद्भिः । पवित्रसमूहेन सुरभिमत्यादीनां स्तोमे- नाऽऽत्मानं प्रोक्ष्याऽद्भिरेवाऽऽत्मानं परितोऽपि रक्षा कर्तव्या । अत ऊर्ध्वं गायत्र्याऽभिमन्त्रितेनाऽम्भसा हतानि रक्षांस्यात्मानमाह—मृत्युरिति । यच्च स्वाध्यायब्राह्मणे पठितम्-‘सन्ध्यायां, गायत्र्याऽभिमन्त्रिता आप ऊर्ध्वं विक्षिपन्ति’ ‘यत्प्रदक्षिणं प्रक्रमन्ति’ इति च । तदपि प्रसिद्धत्वादेव नोक्तमाचार्येण, ‘अग्निश्च’ इत्यादिमन्त्रद्वयवत् । स्मृतिरप्यस्ति—
कराभ्यां तोयमादाय सावित्र्या चाऽभिमन्त्रितम् । आदित्याभिमुखो भूत्वा प्रक्षिपेत् सन्ध्ययोर्द्वयोः ॥ इति ।
एतदुक्तं भवति—सन्ध्योपासनवेलायां कर्तव्येषु समन्त्रकाचमनप्रोक्षण- जलोत्क्षेपणप्रदक्षिणसावित्रोजपोपस्थानेष्वाचार्येण स्वशाखायामनुक्ता उक्ताः । उक्तास्तु नोक्ताः सिद्धत्वादेव । न केवलमुत्क्षेपणप्रदक्षिणे एव भवतः ॥ ४ ॥
अथाऽप्युदाहरन्ति— दर्भेष्वासीनो दर्भान् धारयमाणस्सोदकेन पाणिना प्रत्यङ्मुखस्सा- वित्रों सहस्रकृत्व आवर्तयेत् ॥ ५ ॥
**अनु०—**इस विषय में निम्नलिखित पद्य भी उद्धृत करते हैं— कुशों के ऊपर बैठकर अपने (दाहिने) हाथ में कुश लेकर, हाथ में जल लेकर, पश्चिम की ओर मुख कर एक सहस्र बार गायत्री मन्त्र का जप करे ॥ ५ ॥
**टि०—**पश्चिम की ओर मुख सायंकालीन सन्ध्या में किया जाता है । जप ऋषि, छन्द, देवता, विनियोग के साथ किया जाता है । प्रणव तथा व्याहृतियों के ऋषि वामदेव हैं । गायत्री छन्द है । ओंकार सभी का देवता है । सावित्री मन्त्र के ऋषि विश्वामित्र हैं । छन्द गायत्री है और देवता है सविता ।
सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२७
सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२७
दर्भेष्वग्रथितेष्वनन्तर्गर्भेषु ^१त्रिष्वासीनस्तादृशानेव दर्भान् सोदकेन पाणिना धारयमाणः। एकवचनाद्दक्षिणो ग्रहीतव्यः। सावित्रीं सवितृदेवत्यां 'तत्सवितुः' इत्येतामृचं प्रणवव्याहृतिसहिताम्। तथाहि—
एतदक्षरमेतां च जपन् व्याहृतिपूर्व्विकाम्।
सन्ध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥ इति।
ऋषिच्छन्दोदेवताविनियोगस्मरणपूर्वंको जपो द्रष्टव्यः। न ह्येतद्वज्ञानमृते श्रौतस्मार्त्तकर्मप्रसिद्धिरित्यभियुक्तोपदेशात्। तत्र प्रणवव्याहृतीनामृषिर्वामदेवः। देवी गायत्री छन्दः। ओङ्कारस्सर्वदेवत्यः ^२पारमेष्ठ्यः। व्यस्तानां व्याहृतीना-मग्निर्वायुस्सूर्य इति देवताः। सावित्र्या ऋषिः विश्वामित्रः गायत्री छन्दः सविता देवता। सन्ध्योपासने विनियोगः। यस्मिन् सर्वमोतं प्रोतं च भवतीति ओङ्का-रेण ब्रह्मोच्यते। तच्च सवितृमण्डलमध्यवर्ति। तथा च श्रुतिः—'आदित्यो ब्रह्मेत्यादेशः' इति। स एव च भूः भवतेस्सद्रूपं परं ब्रह्म। भुवः भावयतेः तदेव हि सर्वं भावयतीति। तदेव सुवः। तथा च यास्कः—'स्वरादित्यो भवति सु रणः सु ईरणः स्तुतो रसान् स्तुतो भासं ज्योतिषां स्तुतो भासेति'। यो देव-स्सविताऽस्माकं धियः कर्माणि पुण्यानि प्रति प्रेरयेत् तस्य यो भर्गः तपनहेतुः वरेण्यं वरणीयं वरदं वा मण्डलमभिचिन्तयाम उपास्महे इति मन्त्रार्थः ॥ ५ ॥
अथ स एव कल्पान्तरमाह—
प्राणायामशो वा शतकृत्वः ॥ ६ ॥
अनु०—अथवा प्राणायाम करते हुए सौ बार सावित्री मन्त्र का जप करे ॥६॥
टि०—श्वास रोककर यथाशक्ति तीन-चार या पाँच बार मन्त्र का जप कर श्वास छोड़ने का नियम है।
'सावित्रीमावर्तयेत्' इत्यनुवर्तते। प्राणायामश्च श्वासनिरोधनमात्रम्। न सव्याहृतोकामित्यादिकम्। प्रत्यावृत्ति श्वासनिरोधः। अथ वा यावच्छक्ति त्रिः चतुः पञ्चकृत्वः पठित्वा श्वासमुत्सृजेत् ॥ ६ ॥
उभयतःप्रणवां सप्तसव्याहृतिकां मनसा वा दशकृत्वः ॥ ७ ॥
अनु०—अथवा सावित्री मन्त्र के आरम्भ और अन्त में प्रणव और व्याहृतियों को जोड़ते हुए केवल दस बार जप करे ॥ ७ ॥
टि०—यहाँ सातों व्याहृतियों का आरम्भ और अन्त में प्रयोग अभिप्रेत है। पहले प्रणव फिर सात व्याहृतियाँ होती हैं ॐ भूः। ॐ भुवः। ॐ स्वः। ॐ महः।
१. त्रिष्विति नास्ति. ग. पु. ।
२. परमेष्ठी. इति ग. पु. ।
१२८ बौधायन-धर्मसूत्रम् [ सन्ध्योपासनम्
ॐ जनः । ॐ तपः । ॐ सत्यम् । ॐ तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ।
सावित्रीं प्राणायामश आवर्तत इत्यनुवर्तते । उभयतः प्रणवो यस्यास्तथा सप्त व्याहृतिभिस्सह वर्तत इति सैवोच्यते ।। सप्तव्याहृतयो भूरादयस्सत्यान्ताः । अत्रैवं क्रमः कल्प्यः—¹ प्रथमं प्रणवस्ततः सप्त व्याहृतयः ततस्सावित्रीसहिताश्च ध्यान्तः ( ? ) प्रणव इति । केचित्सावित्र्या एवोभयतः प्रणवमिच्छन्ति । न तु सप्तानामपि व्याहृतीनाम् । अपरे पुनरादितः प्रणवस्ततस्सप्तव्याहृतिकायाः सावित्र्या दशकृत्वोऽभ्यासः ततः प्रणव इति । एतौ पक्षौ विचारणीयौ । आद्यस्य तु सम्प्रदायोऽस्ति ॥ ७ ॥
त्रिभिश्च प्राणायामैस्तान्तो ब्रह्महृदयेन ॥ ८ ॥
**अनु०—**यदि ब्रह्महृदय ( 'ओं भूः ओं भुवः' इत्यादि ) अनुवाक से तीन बार प्राणायाम करने पर थक गया हो, तो सावित्री मन्त्र का जप करे ॥ ८ ॥
**टि०—**ब्रह्महृदय अनुवाक 'ओं भूः ओं भुवः' इत्यादि तैत्तिरीयसंहिता का है । प्रत्येक प्राणायाम में इस अनुवाक का तीन बार जप होता है । इस प्रकार तीन प्राणायामों में कुल नौ बार जप करना यहाँ अभिप्रेत है । व्याहृति, प्रणव तथा 'ओमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम्' का श्वास रोककर तीन बार जप करने पर प्राणायाम होता है ।
ब्रह्महृदयं 'ओं भूः । ओं भुवः' इत्यनुवाकः । अनेन नवकृत्वः पठित्वा एतान् त्रीन् प्राणायामान् सम्पाद्य तान्तः ग्लानिमापन्नस्सावित्रीमावर्तयेदिति सिंहावलोकनन्यायेन सम्बन्धः । स्मृतिशतसिद्धत्वात् । एवं हि प्राणायाम लक्षणं प्रसिद्धम्—
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामस्स उच्यते ॥ इति ।
²'ओमापो ज्योतिरि' त्यनुवाकशेषश्शिरः । तत्र प्रणवो गतः । व्याहृतित्रयं च । महः महतेः पूजाकर्मणो व्याप्तिकर्मणो वा ब्रह्म । जनो ब्रह्म जनेर्विपरी-तलक्षणात् न जायत इत्यर्थः । तपस्तपतेरभिजनकर्मणः । सत्यमिति धातुत्रय-निमित्तमेतत् । सर्वं ब्रह्मैवेत्युपसंहारार्थः । सावित्री गता । आपः आप्नोतेः ।
१. ॐ भूः । ॐ भुवः । ॐ सुवः । ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यम् । ॐ तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ।
२. ओमापो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् ।
सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२९
सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२९
ज्योतिः द्योततेः दीप्तिकर्मणः । रसः शब्दरूप हि तद्ब्रह्म । अमृतं अविनाशि हि तद्ब्रह्म । वृहतेर्वृद्धिकर्मणः परिवृढं भवति ॥ ८ ॥
वारुणीभ्यां रात्रिमुपतिष्ठत 'इमं मे वरुण' 'तत्त्वा यामी' ति 'द्वाभ्याम् ॥ ९ ॥
अनु०— सायंकालीन सन्ध्योपासना के समय 'इमं मे वरुण' तथा 'तत्त्वा यामि' वरुण देवता के इन दो मन्त्रों से सूर्य की प्रार्थना करे ॥ ९ ॥
इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ।
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशंस मा न आयुः प्रमोषीः ॥
'अहरेव मित्रः रात्रिर्वरुण' इति श्रुतेः रात्रिमिति कालनिर्देशः । उपस्थेयस्तु सविता तत्कालविशिष्टः । उपस्थानं चोपोत्थितेनैव कर्तव्यम्, न पुनरासीनेनैव । यच्च समयाचारप्रसिद्धं प्रदक्षिणादि तदप्यत्र कर्तव्यं 'वृत्तीयशिष्टागमः' इति लिङ्गात् ॥ ९ ॥
एवमेव प्रातः प्राङ्मुखस्तिष्ठन् ॥ १० ॥
अनु०— इसी प्रकार प्रातः काल पूर्व की ओर मुख कर सन्ध्योपासना करे॥१०॥
एवमिति 'तीर्थं गत्वा' इत्यादि सर्वमतिदिशति । प्रातरिति कालनिर्देशः । प्राङ्मुख इति प्रत्यङ्मुखनिवृत्त्यर्थम् । तिष्ठन्निति आसननिवृत्त्यर्थम् ॥ १० ॥
मैत्रीभ्यामहुरुपतिष्ठते "मित्रस्य चर्षणीधृतो' 'मित्रो जनान् यातयती'ति द्वाभ्याम् ॥११॥
अनु०— दिन में मित्र देवता के दो मन्त्रों 'मित्रस्य चर्षणीधृतः' तथा 'मित्रो जनान् यातयति' से सूर्य की प्रार्थना करे ॥११ ॥
टि०— मित्रस्य चर्षणीधृतश्रवो देवस्य सानसिम् । सत्यं चित्रश्रवस्तमम् ।
१. इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ।
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशंस मा न आयुः प्रमोषीः ॥
२. मित्रस्य चर्षणीधृतश्रवो देवस्य सानसिम् । सत्यं चित्रश्रवस्तमम् ॥
मित्रोजनान् यातयति प्रजानन् मित्रो दाधार पृथिवीमुत द्याम् ।
मित्रः कृष्टीरनिमिषाऽभिचष्टे सत्याय हव्यं घृतवद्विधेम ॥
२३० बौधायनधर्मसूत्रम् [ सन्ध्योपासनम्
अतिरोहितार्थमेतत् ॥ ११ ॥
सुपूर्वामपि पूर्वामुपक्रम्योदित आदित्ये समाप्नुयात् ॥१२॥
अनु०—प्रातःकालीन सन्ध्या सूर्य के उगने से पर्याप्त पहले आरम्भ करे और सूर्य के उगने पर समाप्त करे ॥ १२ ॥
सुपूर्वां नक्षत्रेषु दृश्यमानेषु पूर्वा सन्ध्यामुपक्रम्याऽदित्योदयोत्तरकाले समाप्नुयात् ॥ १२ ॥
अनस्तमित उपक्रम्य सुपश्चादपि पश्चिमाम् ॥१३॥
अनु०—सायंकालीन सन्ध्या सूर्य के अस्त होने के पूर्व आरम्भ करे और नक्षत्रों के दिखायी पड़ते ही समाप्त करे ॥ १३ ॥
सुपश्चात् यावन्नक्षत्रविभावनं तावति समाप्नुयादित्यर्थः ॥ १३ ॥
सायम्प्रातस्सन्ध्योपासनकर्तुरायुर्विच्छेदो न भवतीत्याह—
सन्ध्ययोश्च सम्पत्तावहोरात्रयोश्च सन्ततिः ॥१४॥
अनु०—प्रातः और सायंकालीन सन्ध्योपासना की सम्पूर्ति से ( यथोचित अनुष्ठान से ) जीवन में दिन और रात्रि की परम्परा अविच्छिन्न रहती है ॥ १४ ॥
सन्ध्योपासनकर्तुर्भवतीति शेषः । सम्पत्तिस्सम्पूर्णता । सा च सन्ध्योपासनेन यथाविध्यनुष्ठानेन भवति । तस्यां च सत्यामहोरात्रयोस्सन्ततिरविच्छेदो भवति । उपासितुरायुरविच्छिन्नं भवतीत्यर्थः । आह च—
ऋषयो दीर्घसन्ध्यत्वाद्वीर्घमायुरवाप्नुयुः ।
प्रज्ञां यशश्च कीर्तिं च ब्रह्मवर्चसमेव च ॥ इति ॥ १४ ॥
अथाऽनुपासितुर्दोषमाह—
अपि चाऽत्र प्रजापतिगीतौ श्लोकौ भवतः—
अनागतां तु ये पूर्वामनतीतां तु पश्चिमाम् ।
सन्ध्यां नोपासते विप्राः कथं ते ब्राह्मणास्मृताः ॥
सायं प्रातस्सदा सन्ध्यां ये विप्रा नो उपासते ।
कामं तान् धार्मिको राजा शूद्रकर्मसु योजयेदिति ॥१५॥
अनु०—इस विषय में प्रजापति द्वारा गाये गये दो श्लोक भी हैं—जो ब्राह्मण प्रातःकालीन और सायंकालीन सन्ध्याएँ उचित समय पर नहीं करते हैं, उन्हें
सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २३१
सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २३१
ब्राह्मण कैसे कहा जा सकता है ? जो द्विजाति व्यक्ति सायं और प्रातः सन्ध्योपासना नहीं करता उसे धार्मिक राजा शूद्र के कार्यों में लगावे ॥ १५ ॥
प्रजापतिग्रहणमादरार्थम् । अनागतामनतिक्रान्तामिति चोदितकालाभिप्रा- यम् । कथं ते ब्राह्मणा इति । विप्रग्रहणं च द्विजात्युपलक्षणार्थम् । अत एव शूद्रकर्मस्वित्युक्तम् । इतरथा क्षत्रियकर्मस्वित्यवक्ष्यत् आनन्त्यात् । आह च-
न तिष्ठति तु यः पूर्वामुपास्ते न च पश्चिमाम् ।
स शूद्रवद् बहिष्कार्यस्सर्वस्माद् द्विजकर्मणः ॥ इति ॥ १५ ॥
तथा कथम् ?
तत्र सायमतिक्रमे रात्र्युपवासः प्रातरतिक्रमेऽहरुपवासः ॥ १६ ॥
**अनु०—**यदि सायंकाल सन्ध्योपासना का समय सन्ध्योपासना किये बिना ही बीत जाय, तो रात्रि को उपवास करे और प्रातःकालीन सन्ध्योपासना का समय सन्ध्योपासना किये बिना ही बीतने पर दिन में उपवास करे ॥ १६ ॥
अतीतां तां सन्ध्यां कृत्वेति शेषः । उपवासोऽनशनम् ॥ १६ ॥
किञ्च—
स्थानासनफलमवाप्नोति ॥ १७ ॥
**अनु०—**इस प्रायश्चित्त से वह वही फल प्राप्त करता है जो सन्ध्योपासना में खड़े होकर तथा बैठकर प्राप्त किया जाता है ॥ १७ ॥
प्रायश्चित्तप्रशंसेषा ॥ १७ ॥
अथाऽप्युदाहरन्ति—
यदुपस्थकृतं पापं पद्भ्यां वा यत्कृतं भवेत् ।
बाहुभ्यां मनसा वाऽपि वाचा वा यत्कृतं भवेत् ।
सायं सन्ध्यामुपस्थाय तेन तस्मात्प्रमुच्यते ॥१८॥
**अनु०—**इस सम्बन्ध में भी निम्नलिखित पद्य उद्धृत करते हैं—
पुरुष जननेन्द्रिय से, पैरों से जो कुछ पाप कर्म किये रहता है, जो कुछ पाप बाहों से, अथवा मन से या वाणी से किये होता है, उन सभी पापों से सायंकालीन सन्ध्या करने पर मुक्त हो जाता है ॥ १८ ॥
**टि०—**जननेन्द्रिय विषयक दुष्कृत यहाँ स्वभार्या के ही संबन्ध में हैं, क्योंकि परदारगमन के प्रायश्चित्त विशेष रूप से बताये गये हैं। स्वभार्या का ऋतुकाल से भिन्न समय में संभोग अधर्म है। पैरों से दुष्कृत का तात्पर्य है निषिद्ध स्थान पर
२३२ बौधायन-धर्मसूत्रम् [ सन्ध्योपासनम्
अनजाने जाना। बाहुओं से दुष्कृत हिंसा, छेदन, भेदन आदि। दूसरों की वस्तुओं के प्रति लोभ बुद्धि रखना मानसिक दुष्कृत का उदाहरण है। अप्रिय और असत्य वाणी के दुष्कृत का उदाहरण है। अप्रिय और असत्य भाषण वाणी के दुष्कृत के अन्तर्गत आते हैं।
उपस्थकृतं परभार्या प्रति बहुशः प्रायश्चित्तस्याऽऽम्नानादिह स्वभार्याया-मेवाऽनृतकालाद्युपयोगेऽनाम्नाते। पद्भ्यां यदबुद्धिपूर्वप्रतिषेधगमनादि कृतम्। बाहुभ्यामपि हिंसाच्छेदनभेदनादि हस्तचापल्यं तत्। तथा मनसा परद्रव्यस्याऽ-भिध्यानादि। वाचा कृतं अवद्यवदनादि। यत्र यत्र वाङ्मनःकायकृते प्रायश्चित्ताम्नानविरोधो नास्ति, तत्र तत्रैतदेव प्रायश्चित्तमित्यभिप्रायः। सन्ध्यो-पासनप्रशंसा वैषा ॥ १८ ॥
किञ्च— रात्र्या चाऽपि सन्धीयते ॥ १९ ॥
अनु०—सन्ध्योपासना करने वाला आगामी रात्रि से सम्बद्ध हो जाता है॥१९॥
पुरुष इति शेषः। अभिसन्धानमभ्युदयः ॥ १९ ॥
न चैनं वरुणो गृह्णाति ॥ २० ॥
अनु०—वरुण देवता उसकी मृत्यु नहीं करते ॥ २० ॥
टि०—अर्थात् वह जल में डूबकर या जलोदर व्याधि से नहीं मरता—गोविन्द-स्वामी।
वरुणो नाम वृणातेः पापमप्सु मरणं जलोदरव्याधिर्वा ॥ २० ॥
एवमेव प्रातरुपस्थाय रात्रिकृतात् पापात् प्रमुच्यते ॥२१॥
अनु०—इसी प्रकार प्रातः सन्ध्योपासना कर रात्रि में किये गये पापों से पुरुष मुक्त हो जाता है ॥ २१ ॥
अर्थवादातिदेशः। फलातिदेशो वाऽयम्। रात्रावुपस्थादिभिः कृतादि-त्यर्थः। २१ ॥
अह्ना चाऽपि सन्धीयते ॥ २२ ॥
अनु०—उसका सम्बन्ध आगामी दिन के साथ हो जाता है ॥ २२ ॥
पूर्वैव व्याख्या ॥ २२ ॥
मित्रश्चैनं गोपायत्यादित्यश्चैनं स्वर्गं लोकङ्गमयतीति ॥२३॥
अनु०—मित्र देवता उसकी रक्षा करते हैं और आदित्य उसे स्वर्ग लोक को पहुँचाता है ॥ २३ ॥
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३३
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३३
इदमपि तथा ॥ २३ ॥
अथ संहृत्य स्तौति—
स एवमेवाऽहरहरहोरात्रयोः सन्धिषूपतिष्ठमानो ब्रह्मपूतो ब्रह्मभूतो ब्राह्मणः शास्त्रमनुवर्तमानो ब्रह्मलोकमभिजयतीति विज्ञायते ॥ ब्रह्मलोकमभिजयतीति विज्ञायते ॥ २४॥
इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने सप्तमः खण्डः ॥ ७ ॥
**अनु०—**जो ब्राह्मण इस विधि से प्रतिदिन प्रातः तथा सायंकाल सन्ध्योपासना करता है, वह ब्रह्म द्वारा पवित्र होकर ब्रह्म के साथ एकत्व प्राप्त कर लेता है । शास्त्रों के अनुसार आचरण करते हुए वह ब्रह्मलोक को प्राप्त करता है । ऐसा वैदिक परम्परा से जाना जाता है ॥ २४ ॥
ब्रह्मपूतः सावित्र्या पूतः । ब्रह्मभूतः शब्दब्रह्मप्रणवमापन्नः ॥
आह च—
योऽधीतेऽहन्यहन्येतान्त्रीणि वर्षाण्यतन्द्रितः ।
स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमानिति ॥
विज्ञायते इति श्रुतिसंसूचनम् ॥ २४ ॥
इति श्रीगोविन्दस्वामिविरचिते बौधायनधर्मविवरणे
द्वितीयप्रश्ने चतुर्थोऽध्यायः ॥
द्वितीयप्रश्ने पञ्चमोऽध्यायः
अष्टमः खण्डः
'प्रयतोऽभिषिक्त' इत्युक्तम् । प्रसङ्गात्तद्विधिमाह—
अथ हस्तौ प्रक्षाल्य कमण्डलुं मृत्पिण्डं च गृह्य तीर्थं गत्वा त्रिः पादौ प्रक्षालयते त्रिरात्मानम् ॥ १ ॥
**अनु०—**दोनों हाथों को धोकर, कमण्डलु तथा मिट्टी का पिण्ड लेकर तीर्थ पर जाकर तीन बार दोनों पैरों को ( मिट्टी का अंश लेकर कमण्डलु के जल से ) धोवे तथा तीन बार अपने शरीर का प्रक्षालन करे ॥ १ ॥
| २३४ | बौधायन-धर्मसूत्रम् | [ स्नानविधिः |
|---|
टि०—तीर्थ से यहाँ पवित्र जलाशय से तात्पर्य है। गोविन्दस्वामी ने इस संबन्ध में श्लोक उद्धृत किया है जिसमें नदी, देवखात, तटाक, सरोवर पर स्नान करना वाञ्छनीय बताया गया है। सूत्र में मृत्पिण्ड के साथ प्रयुक्त 'च' शब्द से गोविन्द-स्वामी गेरुवर, दूब, दर्भ आदि के ग्रहण का भी अर्थ लेते हैं।
अथ स्नानविधिरुच्यते इति शेषः। तत्राऽऽरम्भे हस्तयोः प्रक्षालनम्। यद्वा तीर्थे गत्वा हस्तौ प्रक्षाल्येति सम्बन्धः। चशब्दात् गोमयदूर्वार्दभदि च। अन-पूर्वे हि समासे क्त्वो ल्यप् भवति, इह तु छान्दसो गृह्येति ल्यबादेशः। तीर्थम्।
नदीषु देवखातेषु तटाकेषु सरस्सु च।
स्नानं समाचरेन्नित्यमुत्स¹प्रस्रवणेषु च ॥ इति
तथा—
सति प्रभूते पयसि नाऽल्पे स्नायात् कथंचन।
इत्येवञ्जातीयकम्। तत्र गत्वा मृत्पिण्डैकदेशेन कमण्डलूदकेन चैकैकं पादं त्रिस्त्रिः प्रक्षालयते। एवमात्मानमपि।² आनर्थक्यदतदङ्गन्यायेनाऽऽत्मन-श्शरीरं प्रक्षालयेदिति गम्यताम् ॥ १ ॥
अथेदानीं प्रक्षालितपादेनैव प्रवेष्टव्यान् देशानाह--
अथ हैके ब्रुवते—श्मशानमापो देवगृहं गोष्ठं यत्र च ब्राह्मणा अप्र-क्षाल्य पादौ तन्न प्रवेष्टव्यमिति ॥ २ ॥
**अनु०—**कुछ लोग कहते हैं कि श्मशान में, जल में, मन्दिर में, गायों के गोष्ठ में तथा जिस स्थान पर ब्राह्मण हों वहाँ पैरों को धोए बिना प्रवेश नहीं करना चाहिए ॥ २ ॥
श्मशानादयः प्रथमान्ताश्शब्दा निर्देशफलाः। प्रातिपदिकार्थे हि प्रथमां स्मरति पाणिनिः। तेषां कर्मत्वख्यापनार्थं तच्छब्दप्रयोगः। द्वौ नञौ प्रकृत-मर्थं सूचयतः। तस्मात्प्रक्षाल्यैव प्रवेष्टव्यं श्मशानादीति वाक्यार्थः। 'अर्हे कृत्य-तृचश्च' इति स्मरणेन तव्यप्रत्ययादर्हार्थो गम्यते न तु कर्मत्वम्, प्रक्षाल्यैव प्रवेष्टुमर्हतीत्यर्थः ॥ २ ॥
१. गर्त्तस्रवणेषु चेति. ग. पु.
२. यत्र प्रधाने विहितं कार्यं तत्र कर्तुमशक्यत्वादनर्थकं भवत् तत्परिहाराय तदङ्गेऽनु-ष्ठीयते स आनर्थक्यदतदङ्गन्यायः। प्रकृते चाऽऽत्मनोऽमूर्तत्वात् तत्र प्रक्षालनक्रियादेरस-म्भवात् तदङ्गभूतस्य शरीरस्य प्रक्षालनं वेदितव्यमिति।
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३५
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३५
अथाऽपोऽभिप्रपद्यते— हिरण्यशृङ्गं वरुणं प्रपद्यते तीर्थं मे देहि याचितः । यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥ यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् । तन्म इन्द्रो वरुणो बृहस्पतिस्सविता च पुनन्तु पुनः पुनरिति ॥
अनु०—पैरों को धोने के बाद इस मन्त्र का पाठ करते हुए जल में प्रवेश करे— मैं सुवर्ण की सींगवाले वरुण की शरण में जाता हूँ । हे वरुण, मेरी प्रार्थना सुनकर मुझे स्नान योग्य पवित्र जल दो । अपवित्र जनों का जो अन्न मैंने खाया हो अथवा पापी जनों से जो कुछ दान लिया हो, मन से, वाणी से और कर्म से मैंने जो कुछ पाप किया हो, उसे इन्द्र, वरुण, बृहस्पति और सविता मुझ से दूर कर मुझे बार-बार पवित्र करे ॥ ३ ॥
टि०—'हिरण्यशृङ्ग' इत्यादि तैत्तिरीय आरण्यक १०. १. १२ में प्राप्त ऋचा वामदेव ऋषि की बतायी गयी है, प्रथम पद्य पुरस्ताद्बृहती छन्द में और दूसरा पंक्ति छन्द में है ।
अथशब्दात्प्रक्षालनानन्तर्यमाह । अत्र गन्धद्वारामित्यृचा गोमयेनात्मान-मालेप्यं$^१$ केचिदिच्छन्ति । हिरण्यशृङ्गमिन्यूचोवामदेव ऋषिः । काण्डर्षयो वा विश्वेदेवाः । प्रथमा पुरस्ताद् बृहती, द्वितीया पंक्तिः । उभे अपि लिङ्गोक्तदैवते । तत्र द्वयोरप्ययमर्थः--हिरण्यशृङ्गं हिरण्मयशृंगं वरुणं प्रपद्ये त्वां शरणं इत्य-ध्याहारः । मया याचितस्त्वं मम स्नानाय तीर्थं जलाशय देहि । वरुणो ह्यपां राजा 'यासां राजा वरुणः' लिङ्गात् । किमतो यदाज्ञया तुभ्यं तीर्थमिति ? आह--यन्मयेति । असाधूनामभोज्यान्नानां अन्नं यन्मया भुक्तम्, यो वा मया पापकर्मभ्यः प्रतिग्रहः कृतः, यच्च मया मनोवाक्कायकर्मभिः दुष्कृतं, तत्सर्वं जलाशयेस्नानेन, इन्द्रादयः पुनन्विति यन्मया पुनः पुनः प्रार्थयितुं शक्यते इत्येतदतो भवति ॥ ३ ॥
अथाऽञ्जलिना उपहन्ति 'सुमित्रा न आप ओषधयस्सन्व'ति ॥४॥
अनु०--इसके अनन्तर अञ्जलि से 'सुमित्रा न आप ओषधयस्सन्तु' (जल और ओषधियाँ मेरे लिए सुखदायी होंवे) कहते हुए जल ग्रहण करे ॥ ४ ॥
द्विहस्तसंयोगोऽञ्जलिः तेनाऽञ्जलिना$^२$ जलप्रपद्नानन्तरमुपहन्ति
१. 'गोमयेनानुपलेपनं' इति, घ. पु. २. जलप्रवेशादन्तरं इति. घ पु.
२३६ बौधायन-धर्मसूत्रम् [ स्नानविधिः
गृह्णाति । नः अस्माकं आपश्चौषधयश्च तदुत्पादितास्सुमित्राः सुखहेतवस्स- न्त्विति मन्त्रार्थः ॥ ४ ॥
अथैना अपः—
तां दिशं निरुक्षति यस्यामस्य दिशि द्वेष्यो भवति "दुर्मित्रास्त- स्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्म" इति ॥ ५ ॥
अनु०—उस जल को 'दुर्मित्रास्तस्मै भूयासुः योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ( जो मुझसे द्वेष करता है और जिससे हम द्वेष करते हैं। उसके लिए यह जल नाश करने वाला हो) कहकर उस दिशा की ओर गिरावे जिस दिशा में उसका कोई शत्रु निवास करता हो ॥ ५ ॥
अस्य स्नातुः द्वेष्यो यस्यां दिशि अस्ति तां दिशं अपोऽभ्युक्षति । यः पुरुषः अस्मान् द्वेष्टि यं वा वयं द्विष्मः तस्मै दुर्मित्रा दुःखहेतवः आपो भूयासुरिति मन्त्रार्थः ॥ ५ ॥
अथाऽप उपस्पृश्य त्रिः प्रदक्षिणमुदकमावर्तयति "यदपां क्रूरं यदमेध्यं यदशान्तं तदपगच्छता" दिति ॥ ६ ॥
अनु०—जल से आचमन कर तीन बार प्रदक्षिणा करते हुए और "यदपां क्रूरं यदमेध्यं यदशान्तं तदपगच्छतात्" ( जल में जो कुछ कष्टदायी, अपवित्र और अशुभ हो वह निकल जाय ) कहते हुए अपने चारो ओर जल में आवर्त उत्पन्न करे ॥ ६ ॥
उपस्पर्शनं पाणिप्रक्षालनं आवर्तयति परिभ्रामयति, क्रूरं यदमेध्यं मूत्रादि अशान्तं व्याधिरूपं यदेवञ्जातीयकं अप्सम्बन्धि तत्सर्वमपगच्छतादिति मन्त्रा- भिप्रायः ॥ ६ ॥
अप्सु निमज्ज्योन्मज्ज्य ॥ ७ ॥ नाऽप्सु सतः प्रयमणं विद्यते न वासः प्रक्षूलनं नोपस्पर्शनम् ॥ ८ ॥
अनु०—जल में डुबकी लगाकर और निकलकर ( पुनः आचमन करे ) ॥७॥ अनु०—जल में रहकर शरीर की सफाई ( शौचादि कर्म ), वस्त्रों को हाथ से रगड़ कर धोने तथा आचमन का कार्य न करे ॥ ८ ॥
उन्मज्ज्याऽऽचान्तः पुनराचामेदिति सम्बन्धः। निमज्जनमद्भिरात्मनः प्रच्छा- दनम् उन्मज्जनं ताभ्य आविर्भावः। अत्रोन्मज्जनानन्तरभाविनीं क्रियामनुक्त्वा मनस्याविर्भूतं प्रतिषेधं विस्मरणभयादाचार्य उपदिशति स्म—नाप्सु सत इति।
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३७
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३७
प्रथमणं शौचं मूत्रपुरीषोद्यपनयनलक्षणं पल्पूलनं मलापनयनाय पाणिभ्याम- वस्फोटनं, उपस्पर्शनं आचमनम् । एतत्त्रयमप्सु सता न कर्तव्यमित्यर्थः॥७-८॥
यद्युप॒रुद्धा॑स्स्यु॒रेतेनोप॑तिष्ठते "नमो॑ऽग्नये॒ऽप्सुमते॒ नम॒ इन्द्रा॑य नमो॒ वरु॑णाय॒ नमो वारु॑ण्यै॒ नमो॒ऽद्भ्य” इति ॥ ९ ॥ उत्तीर्याऽऽचम्याऽऽचान्तः पुनराचामेत् ॥ १० ॥
अनु—यदि स्नान के लिए प्रयुक्त जल चारो ओर से घिरा हो (जैसे कूप में) तो "नमोऽग्नयेऽप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽद्भ्यः" इस मन्त्र से उसकी प्रार्थना करे । मन्त्रार्थ—जल के स्वामी अग्नि को नमस्कार, जल को नमस्कार ॥ ९ ॥
अनु०—जल से बाहर निकलकर और आचमन कर पुनः आचमन करे ॥१०॥
'तपस्यमवगाहनम्' ( २. ३. १.) इत्यस्मिन्नध्याये 'स्रवन्तीष्वनिरुद्धासु' इति निरुद्धास्वप्सु स्नानप्रतिषेध उक्तः। तस्येदानीं प्रायश्चित्तमाह—यद्युपरुद्धास्स्यु- रेतेनोपतिष्ठते 'नमोऽग्नय' इति । नात्र मन्त्रे विरोहितं किञ्चिदस्ति । जलाश- यादुत्तीर्य प्राङ्मुख उदङ्मुखो वा आचामेत् । अप आचम्याऽऽचामेदित्येव सिद्धवे आचान्तः पुनरिति चोक्तम् । तस्याऽयमभिप्रायः—मन्त्राचमनं सर्वत्रा- ऽऽचान्त एव कुर्यादिति ॥ ९-१० ॥
आपः॑ पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् । पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पूता पु॑नातु॒ माम् ॥ यदु॑च्छि॒ष्टमभो॑ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनन्तु॒ मामापोऽस॑तां च प्रति॒ग्रहं॒ स्वाहेति॑ ॥ ११ ॥
अनु०—( इसके साथ निम्नलिखित मन्त्रों का जप करे ) जल पृथिवी को पवित्र करे । पवित्र पृथिवी मुझे पवित्र करे । ब्रह्मणस्पति पवित्र करे । ब्रह्मा पवित्र करे । जो कुछ उच्छिष्ट अभोज्य खाकर मैंने पाप किया है अथवा मैंने जो दुष्कर्म किये हैं तथा अयोग्य लोगों का जो दान ग्रहण किया है उसे जल पवित्र करे ।
वामदेव ऋषिः, विश्वेदेवा वा ऋषयः। द्वे अप्येते अनुष्टुभौ आपः प्रार्थ्यन्ते । आपश्शोधयन्तु । इह पृथिवीशब्देन तन्मयं शरीरमुच्यते । ताभि- रद्भिः पूतं शरीरं मां पुनातु । पुनन्तु ब्रह्मणस्पतिरिति एकस्मिन् पूजायां बहुवच- नमेतत् , वैष्णवान् खनामि' इति यथा । ब्रह्मणस्पतिः पृथिवी पुनात्वित्यर्थः । ब्रह्मपूता बृहस्पतिपूतं शरीरम् , यदुच्छिष्टमन्यत् यदभोज्यं मया भुक्तं यद्वा दुश्चरितं मम सम्बन्धीति शेषः। सर्वं पुनन्तु मां, सर्वस्मादस्मात् मामापः पुन-
२३८ | बौधायन-धर्मसूत्रम् | [ स्नानविधिः
न्तु मामापोऽसतां च प्रतिग्रहम्। असन्तश्शूद्राः पापकर्माणो वा तत्प्रतिग्रह- जातादेनो मामापः पुनन्त्विति। स्वाहेति प्रदानप्रतिपादकश्रवणार्थेयमित्य- वेहि ॥ ११ ॥
मन्त्राचमनानन्तरम्— पवित्रे कृत्वाऽद्भिर्मार्जयति 'आपो हिष्ठा मयोभुव इति तिसृभिः "२हिरण्यवर्णाश्शुचयः पावका" इति चतसृभिः "३पवमानस्सुवर्चन" इत्येतेनाऽनुवाकेन मार्जयित्वाऽन्तर्जलगत्तोऽघमर्षणेन त्रीन् प्राणायामान् धारयित्वोत्तीर्य वासः पीडयित्वा प्रक्षालितोपवातान्यक्लिष्टानि वासांसि परिधायाऽप आचम्य दर्भेष्यासीनो दर्भान् धारयमाणः प्राङ्मुखस्सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा दशावरम् ॥ १२ ॥
अनु०— कुश के दो पवित्र बनाकर जल से 'आपो हिष्ठा मयोभुवः' (तै० सं० ४. १. ५.१) इन तीनों मन्त्रों से तथा 'हिरण्यवर्णाश्शुचयः' (तै० सं० ५. ६ १) आदि चार मन्त्रों से तथा 'पवमानस्सुवर्चन' (तै० ब्रा० १.४.८) अनुवाक से मार्जन कर, पुनः जल में जाकर 'ऋतं च सत्यं च' तीन ऋचाओं के अघमर्षण मन्त्र से तीन बार प्राणायाम करे तब किनारे आकर वस्त्रों को निचोड़कर धोए हुए, वायु में सुखाये गये तथा पहनने योग्य छिद्रादिरहित वस्त्र पहन कर जल से आचमन करे कुशों पर बैठकर हाथ में कुश लेकर पूर्व की ओर मुख कर एक सहस्र बार या सौ बार अथवा अनिश्चित बार अथवा कम से कम दस बार सावित्री मन्त्र का जप करे।
ऋतं च सत्यं चाऽभीद्धात्तपसोऽध्यजायत। ततो रात्रिरजायत ततस्समुद्रो अर्णवः ॥ समुद्रादर्णवादधि संवत्सरो अजायत। अहोरात्राणि विदधद्विश्वस्य मिषतो वशी। सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्। दिवं च पृथिवीं चाऽन्तरिक्षमथो सुवः ॥ १२ ॥
पवित्रे इति द्विवचनाद् द्वाभ्यां दर्भाभ्यां मार्जनम्। अन्तर्जलं जलमध्यम्।
१. मन्त्रत्रयमिदं १५९. पृष्ठे टिप्पण्यां द्रष्टव्यम्। २. हिरण्यवर्गाश्शुचयः पावका इति मन्त्रचतुष्टयं तै. सं. ५. ६. १ द्रष्टव्यम्। ३. पवमान इत्यनुवाकः तै. ब्रा. १. ४. ८. द्रष्टव्यः।
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३९
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३९
तेनैव सिद्धे गतग्रहणं जलेनैव सर्वाङ्गीणाच्छादनार्थम्। अघमर्षणं नाम "ऋतं च सत्यं च' इति तृचम्। तेन त्रिः पठितेन एकः प्राणायामो भवति। एवं त्रयः प्राणायामाः। वासःपीडनमिह पितॄणां तृप्त्यर्थम्। उपवातं शोषितम्। अक्लिष्टमच्छिद्रम्। बहुवचनादन्तर्वाससो बहिर्वासस उत्तरीयस्य च ग्रहणम्। आचमनं मध्याह्नसन्ध्याग्राह्कम्। आचमनानन्तरं च सावित्र्याऽभिमन्त्रिता- नामपामदित्याभिमुखं प्रक्षेपणं सदाचारसिद्धं द्रष्टव्यम्। अपरिमितं उक्त- संख्यातोऽधिकम् ॥ १२ ॥
अथाऽऽदित्यमुपतिष्ठते$^२$—"उद्वयं तमसस्परि। ऽउदु त्यम्। चित्रम्। तच्चक्षुर्देवहितम्। य उदगा" दिति ॥ १३ ॥
अनु०—इसके अनन्तर "उद्वयं तमसस्परि। उदुत्यम्। चित्रम्। तच्चक्षुर्देव- हितम्। य उदगात्" मन्त्रों से सूर्य की प्रार्थना करे ॥ १३ ॥
उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम्। देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ उदुत्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम् ॥ चित्रं देवानामुदगादनीकं चक्षुमित्रस्य वरुणस्याग्नेः। आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च। तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्। पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शतं शृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं ज्योक् च सूर्यं दृशे ॥ य उदगान्महतोऽर्णवाद्दिभ्राजमानस्सरिरस्य मध्यात् समावृषभो लोहिताक्ष- स्सूर्यो विपश्चिन्मनसा पुनातु ॥ ऋग्वेतत् ॥ १३ ॥
१. ऋतं च सत्यं चाऽभीद्धात्तपसोऽध्यजायत । ततो रात्रिरजायत ततस्समुद्रो अर्णवः ॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥ सूर्य्याचन्द्रमसो धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चाऽन्तरिक्षमथो स्वः ॥ २. उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ चित्रं देवानामुद- गादनीकं चक्षुमित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्ष सूर्य आत्मा जगतस्तस्थुषश्च ॥ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शतं शृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं ज्योक् च सूर्यं दृशे ॥ य उदगान्महतोऽर्णवा- द्विभ्राजमानस्सरिरस्य मध्यात् समावृषभो लोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु ॥
२४० बौधायन-धर्मसूत्रम् [ नित्यतर्पणविधिः
अथाऽप्युदाहरन्ति— प्रणवो व्याहृतयस्सावित्री चेत्येते पञ्च ब्रह्मयज्ञा अहरहर्ब्राह्मणं किल्बिषात् पावयन्ति ॥ १४ ॥ **अनु०—**इस विषय में निम्नलिखित उद्धृत करते हैं— प्रणव, व्याहृतियां, सावित्री मन्त्र—ये पांच ब्रह्मयज्ञ प्रतिदिन ब्राह्मण को पाप से मुक्त करते हैं ॥ १४ ॥
यज्ञशब्देन जपो लक्ष्यते । आह च प्रणवादीन् प्रक्रम्य— विधिद्यज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः । उपांशु स्याच्छतगुणं साहस्रो मानसः स्मृतः ॥ इत्यादि । तुल्यवत्प्रसंख्यानात् प्रणवव्याहृतीनामपि सावित्र्याः पुरस्तात् प्रयोगोऽवगम्यते । अहरहरिति नित्यस्नानार्थतामाह । किल्बिषं पापम् ॥१४॥
पूतः पञ्चभिर्ब्रह्मयज्ञैरथोत्तरं देवतास्तर्पयति ॥ १५ ॥ **अनु०—**इन पांच ब्रह्मयज्ञों से पवित्र होकर उसके बाद वह देवताओं का तर्पण करता है ॥ १५ ॥ अतिरोहितार्थमेतत् ॥ १५ ॥
इति बौधायनीयधर्मसूत्रे द्वितीयप्रश्नेऽष्टमः खण्डः ।
नवमः खण्डः
अग्निः प्रजापतिस्सोमो रुद्रोऽदितिर्बृहस्पतिस्सर्पा इत्येतानि प्राग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरत्राणि समुहूर्तानि तर्पयामि ॥ ओं वसूंश्च तर्पयामि ॥ १ ॥ **अनु०—**अग्नि, प्रजापति, सोम, रुद्र, अदिति, बृहस्पति-पूर्वं द्वार के इन सभी देवताओं का नक्षत्रों, ग्रहों, दिन और रात्रियों तथा मुहूतों के साथ तर्पण करता हूं । वसुओं का तर्पण करता हूं ॥ १ ॥
पितरोऽर्यमा भगस्सविता त्वष्टा वायुरिन्द्राग्नी इत्येतानि दक्षिण-