बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
मिति निर्णीतवन्तः । ते च सूत्रकाराः क्षेत्रतत्त्वज्ञानं विनैव शुष्केष्ट्यादिभिः कथं कथमपि क्षेत्राद्यङ्कनप्रक्रियां निरूपितवन्त इति तेषामाशयः । अत्रोच्यते निरनुयोज्या एते सूत्रकाराः पाश्चात्त्यविद्वद्भिरुद्भावितस्य पर्यनुयोगस्येति अग्रे प्रतिपादयिष्यामः । अभ्युपेत्यापि ब्रूमः पाश्चात्त्यैर्विद्वद्भिः कल्पितात् पिथागोरसादीना- माविर्भावकालात् शतेभ्यो वर्षेभ्यः पूर्वं क्षेत्रतत्त्वज्ञानं विनैव बोधायनादीनामाचार्याणां यथार्थ- क्षेत्राद्यङ्कनसामर्थ्यं तेषां प्रतिभाया लोकोत्तरत्वमेव निःसंशयं प्रमाणयति । इदानीं पाश्चा- त्त्यैर्विद्वद्भिरुद्भावितस्यानुक्तितदुरुक्तिरूप-पर्यनुयोगस्यैवोद्धारः क्रियते । तत्र प्रथमतस्तावत् शुल्बसूत्राणां विषयनिरूपणमेव कर्त्तव्यम् । तेनैव च अनुक्त्यादेरुद्धारोऽपि भविष्यति । शुल्बं तावत् अग्निचयनोपयोगित्वेनोपादेयं शास्त्रमुच्यते । कर्मणां तावत् देशकालपात्रानु- विधायित्वं सर्ववादिसिद्धम् । कर्मोपयोगिदेशस्तु ब्राह्मणादौ विहितः । तादृशदेशसम्पादना- नुकूलव्यापारनिरूपणमेव शुल्बसूत्रादौ अधिकृतं वेदितव्यम् । अत एव प्रस्तुतग्रन्थस्य प्रथम- सूत्रस्थ-चयशब्दव्याख्यायां शुल्बमीमांसाकर्तृभिर्वेङ्कटदीक्षितैरुक्तम्— “चयशब्दस्य कल्पसूत्रप्रतिपाद्यमानमन्त्रकरणकेष्टकासाधनकक्रमविशेषस्थण्डिलनिर्वृ- त्त्यौपयिकव्यापारात्मकचयनोपयुक्तक्षेत्रविशेषोपधेयेष्टकाकरणश्येनाद्याकारपरिज्ञानोपायभूतव्या- पारपरत्वम्” इति । तथा च यथाविहितश्येनाद्याकारेण स्थण्डिलनिर्वृत्तिरेव शुल्बशास्त्रस्य मुख्यो विषयः । तत्र तादृशस्थण्डिलनिर्वृत्त्यौपयिकत्वेन श्येनादिरूपेण क्षेत्राङ्कनरूपोभूमेर्व्यवच्छेदः, व्यवच्छिन्ना- याञ्च तस्यां विहितसंख्याकानामिष्टकादीनामुपधानञ्च स्थण्डिलनिर्वृत्तिसाधकमिति तथो- र्विषयत्वमवगन्तव्यम् । एतेन शुल्बशास्त्रस्य क्षेत्रव्यवहारगणितोपजीवकत्वेऽपि न तादृश- व्यवहारगणितात्मकत्वमिति सुस्पष्टम् । तेन क्षेत्रव्यवहारगणित ( Mensuration ) रीत्या क्षेत्राणां तुल्यफलकत्वादिकथने उपपत्तिप्रदर्शनमावश्यकमिति पाश्चात्त्यविदुषामनुक्तिरूप- पर्यनुयोगोद्भावनमकाण्डताण्डवमेव । यच्च शुल्बसूत्रेषु उपदिष्टेन प्रकारेण सम्पाद्यमानानां वृत्तानां समचतुरश्राणां वा अयथार्थक्षेत्रफलजनकत्वं तेन च तेषु दुरुक्तिरूपपर्यनुयोगोद्भावनं पाश्चात्त्यानां तदपि शुल्बोपदिष्टप्रकाराणां क्षेत्रव्यवहारगणितप्रसिद्धसिद्धान्तमूलकत्वात् निर- नुयोज्यानुयोग एव । ननु तथापि शुल्बसूत्रोपजीव्यानां क्षेत्रव्यवहारगणितसिद्धान्तानां दुष्टत्वप्रवादः स्थास्य त्येवेति चेन्न तादृशगणितग्रन्थानां इदानीमनुपलब्धत्वेऽपि तदुपजीवकेभ्यः शुल्बसूत्रेभ्य एव तेषामनुमानसम्भवात् । अनुमिते च तादृशगणितग्रन्थे तत्रत्यानां सिद्धान्तानां सोपपत्तिकत्व- मपि अर्थादापद्यते । लौकिकं विषयमधिकृत्य प्रवर्त्तितेषु शास्त्रेषु प्रमाणैरभ्युपगतानामेव सिद्धान्तत्वम् । या च वृत्तक्षेत्रफलतुल्यफलकसमचतुरश्रकरणे अशुद्धफलोत्पत्तिः सापि वृत्तक्षेत्र-
( ग ) फलानयने उपकरणभूतस्य व्यासपरिध्योरनुपातस्यासन्नमानपरिग्रहजन्या। नहि व्यासपरि- ध्योरनुपातस्य यथार्थं मानं ज्ञातुं शक्यत इति तदासन्नमानेनैव सन्तोष्टव्यं पाश्चात्त्य- विद्वद्भिरपि। एवञ्च दिङ्निर्णयप्रस्तावे पूर्वापरदिशोरानयनार्थं यः खलु उपायः शुल्वसूत्रेषूपदिष्ट स्तदनुसरणेन या पूर्वापररेखा लभ्यते सा तु रवेः क्रान्तिशरस्य पूर्वाह्नापराह्वयोर्भिन्नत्वात् नैव- यथार्थपूर्वापरदिग्गामिनी भवतीति तादृशोपायस्यानुपादेयत्वमिति। तत्रोच्यते—द्वादशाङ्गुल शङ्कतुल्यत्रिज्यया वृत्तेऽङ्किते परिधिस्तावत् द्विसप्तत्यङ्गुलाधिको भवति। तस्य षष्ठ्युत्तर- त्रिशततमोभागः खलु अंशस्तुल्यो भवति। तथा च तादृशवृत्तेऽशस्य मानं अङ्गुल्याः पञ्च- मांशतुल्यं भवेत्। तस्य षष्टिभिर्भागे हृते कलामानं लभ्यते। क्रान्तिस्तावत् एकस्मिन् षष्ठि- घट्यात्मके दिने चतुर्विंशतिकलातोऽधिका नैव भवति। तथा त्रिंशद्घट्यात्मके दिनार्धे तु द्वादशकलात्मिका क्रान्तिरेव परमा भवेत्। छायाप्रवेशनिर्गमकालयोरन्तरं यदि पञ्चदश- घट्यात्मकं कल्प्यते तदा तादृशे कालान्तरे षट्कलातोऽधिका क्रान्तिर्न भवति। षण्णाञ्च कलानामङ्गुलिमानन्तु अङ्गुलीनां पञ्चाशत्तमभागतुल्यं तदा भवेत् यदि क्रान्ति- शरस्य वृद्धिः चतुर्विंशतिकलातुल्या परमा कल्प्यते। न च तथास्ति। अतः दिङ्निर्ण- यार्थं कृते वृत्ते पूर्वाह्नापराह्वयोः छायाप्रवेशनिर्गमकालयोरन्तरे रवेर्यः शरान्तरः वास्त विकस्तस्य वृत्तपरिधौ यथार्थं प्रदर्शनं यज्ञादौ प्रवृत्तानां कृते दुष्करत्वादनावश्यकमेव। ततश्च दिङ्निर्णयप्रकारस्य अवास्तवफलजनकत्वप्रवादोऽपि पाश्चात्त्यानां परोत्कर्षासहिष्णुत्वमेव द्योतयति। इदानीं शुल्वसूत्रोपदिष्टानां केषाञ्चित् विषयाणामालोचनं क्रियते। समचतुरश्रे दीर्घ- चतुरश्रे वा क्षेत्रे सम्पाद्ये लम्बपातनप्रक्रियैव तावदादौ ज्ञेया। परस्परं लम्बभावेनावस्थितैः रेखाचतुष्टयैर्व्यवच्छिन्नस्य क्षेत्रस्यैव यथासम्भवं समचतुरश्रत्वं दीर्घचतुरश्रत्वं वा भवति। अतः प्रस्तुते शुल्वसूत्रे प्रथमतः पृष्ठ्यायाः (मध्यरेखायाः) अन्तद्वयं केन्द्रं कृत्वा पृष्ठ्यातुल्य- त्रिज्यया द्वे वृत्ते अङ्कनीय इत्युपदेशः। तेन च अङ्कितयोर्वृत्तयोः सम्पातजनितमत्स्यमुख- पुच्छयोः रेखया संयोजनेन तस्याः संयोजिकायाः रेखायाः पृष्ठ्योपरि लम्बत्वं, पृष्ठ्याया- श्चार्धितत्वं भवतीति प्रत्यक्षसिद्धम्। यूक्लीदेनापि सुबहोः कालानन्तरमपि लम्बपातने, कस्या- श्चित् सरलायाः रेखायाः तुल्ये विभागे वा कर्त्तव्ये यथायथम् अस्यैव प्रकारस्यानुसरणं कृतं वेदितव्यम्। अस्य च प्रकारस्य गणितज्ञाननिरपेक्षतया प्रथममुपदेशो बोधायनशुल्वे कृत इति मन्तव्यः। पृष्ठ्यां भूमि परिकल्प्य जात्यत्र्यस्रसम्पादनेनापि पृष्ठ्यान्तयोर्लम्बपातनं तत एव च समस्य दीर्घस्य वा चतुरश्रस्य सिद्धिरिति द्वितीयः प्रकारः। अस्मिंश्च प्रकारे मानार्थंरज्जु- ग्रहणं तत्र च न्यञ्छनादिचिह्नकरणं गणितज्ञानसाध्यमिति प्रक्रियालाघवे सत्त्वेऽपि गणितज्ञान-
( घ ) सापेक्षत्वात् अनन्तरमुपदेश इति मन्तव्यः । आपस्तम्बाचार्येण तु अस्यैव प्रकारस्योपदेशः प्रथमतया कृतो वर्त्तते । तट्टीकाकारेण करविन्दाधिपेनात्र रज्जुग्रहण, तस्यां रज्ज्वन्तरप्रक्षेपः, तत्र च न्यञ्छनादिचिह्नस्थानानाम् आनयनार्थं काचित् पाटीगणितप्रक्रिया ग्रन्थतात्पर्य्यमनु- सृत्य प्रदर्शिता । अनया च प्रक्रियया भूमेः (कोटेः), भुजकर्णयोः सङ्कलिते च ज्ञाते जात्य- त्र्यस्रोत्पादनार्थं भुजकर्णयोर्मानमानेतुं शक्यते । तत्र पृष्ठ्यैव भूमिः, कोटिर्वा, प्रमाण- रज्जुसंज्ञया उच्यते । भुजकर्णयोः सङ्कलिततुल्या प्रमाणरज्जवां प्रक्षिप्ता रज्जुरेव अभ्यस्तरज्जु- संज्ञया व्यवह्रियते । तथा च तद्वाक्यम्— “सर्वेष्वभ्यासेषु साम्यासस्य प्रमाणस्य आगन्तुपरिमिता यावन्तो भागाः सम्पद्यन्ते तावद्द्विगुणभागं आगन्तुं कृत्वा तस्मिन् भागेनैकेन हीने लक्षणकरणम्” इति । अत्र आगन्तु- शब्दस्य प्रमाणरज्ज्वां प्रक्षिप्ता अभ्यस्तरज्जुरेवार्थः । अद्यत्वे प्रसिद्धेन प्रकारेण न्यासे क्रियमाणे— आ (१) प्र + —————— = अक्ष्णया (कर्णः) प्र + आ २ —————— आ आ (२) आ - —————— = भुजः (पार्श्वमानी) प्र + आ २ —————— आ यद्यपि एकयैव प्रक्रियया कर्णोभुजश्चानेतुं शक्यते तथापि वैशद्यार्थम् अस्माभिः प्रक्रियाद्वयं पृथक् लिखितं ज्ञेयम् । अत्र प्र = प्रमाणम्, आ = आगन्तुरिति बोद्धव्यम् । अत्रोदाहरणन्तु—यद्येकस्य जात्यत्र्यस्रस्य भूमिः प्रमाणं वा ४ कल्प्यते, तादृशे जात्ये त्र्यस्रे भुजकर्णयोर्योगे ८ तुल्ये कल्पिते प्रमाणरज्ज्वां प्रक्षिप्ता अभ्यस्तरज्जुः ४ तुल्या कल्पिता । साम्यासस्य प्रमाणस्य मानं ८ तुल्यं भवति । परं न ज्ञायते कियति कर्णे, भुजे वा कल्पिते जात्यत्र्यस्रं सम्पत्स्यत इति । दृष्टं तावत् भूमिः ४ भुजकर्णयोर्योगः ८ इति । इदानीम् अनया प्रक्रियया न्यासे कृते । 4 | 4 | 4 1 | 4 + ————— = कर्णः = | 4 + ───── = | 4 + ──── = | 4 + 1 = 5 कर्णः 4 + 4 | 2 8 2 | 4 | 2 ───── | ─── | | 4 | 4 | | तथा च साम्यासस्य प्रमाणस्य ५ तुल्यो भागः कर्णः, शेषश्च ३ तुल्यो भुजो भवति । इति भुजः ३ कोटिः ४ कर्णश्च ५ तुल्यो जातस्तेन च जात्यत्र्यस्रं सम्पन्नम् ।
( ङ ) द्वितीयेनापि प्रकारेण— ४ ४ ४ १ ४ - ────── = भुजः | ४ - ──── = भुजः | ४ - ─── = भुजः २ ४+४ २ ८ २ ४ ─── ─── ४ ४ ४ - १ = ३ भुजः । शेषः ५ कर्णोभवति । एवं सर्वत्रानुसन्धेयम् । द्विसमं-त्रिसमं वा त्रिभुजं सम्पाद्य पृष्ठ्योपरि लम्बपतनं ततश्च समचतुरस्रादिकं सम्पादनीयमिति तृतीयः प्रकारः । पृष्ठ्यान्तयोः शङ्कू निहन्यात् । एकैकं शङ्कुमभितः तुल्येऽन्तराले पूर्वपश्चिमयोः शङ्कुद्वयं निक्षेपेम् । प्रमाणभूतां रज्जुम् उभयतःपाशां कृत्वा तन्मध्ये न्यञ्छनार्थं चिह्नं कर्त्तव्यम् । इदानीं पृष्ठ्यान्तशङ्कुमभितः निखातयोः शङ्क्वयोः रज्ज्वन्तपाशद्वयं निःक्षिप्य न्यञ्छनेन रज्जुं दक्षिणस्यामुत्तरस्यां वा दिशि आकर्षणयीम् । तेन द्विसमं त्रिसमं वा त्रिभुजं सम्पद्यते । तस्माच्च न्यञ्छनाख्यान्मध्यचिह्नात् पृष्ठ्यान्त- शङ्कोरुपरि रेखा कर्त्तव्या । सा च पृष्ठ्यान्ते लम्बिता भवति । ततः समं दीर्घं वा चतुरस्रं सम्पद्यते । एते उल्लिखिता उपायाः समकर्णस्य समचतुरस्रस्य तथाविधदीर्घचतुरस्रस्य वा सम्पादने उपयोगिनः । विषमकर्णचतुरस्रं तावदुभयतः प्रउगमित्युच्यते । तादृशञ्च क्षेत्रं प्रउग ( त्रिभुज ) क्षेत्रद्वयकल्पनेन विधेयमिति शुल़्वसूत्रकाराणां सम्प्रदाय इति मन्तव्यम् । प्रउगं नाम शकटमुखं, समद्विबाहुकं वा त्रिभुजं क्षेत्रमुच्यते । शकटमुखसादृश्यात् तादृशं क्षेत्रमपि तन्नाम्ना ख्यायते शुल्यसूत्रेषु । तथा च एकस्यां भूमौ यदि विपरीतदिशि समाद्वबाहुकं त्रिभुजं क्षेत्रद्वयं सम्पद्यते तदा तस्य क्षेत्रस्य विषमकर्ण चतुरस्रत्वमर्थादापन्नं भवति । इष्टक्षेत्रफलतो द्विगुणं समचतुरस्रं, दीर्घचतुरस्रं वा क्षेत्रं सम्पाद्य ततो ग्रन्थोक्तक्रमेण उभयतः प्रउगक्षेत्रनिष्पत्तिरिति ज्ञेयम् । अथेदानीं चतुरस्रक्षेत्रयोः समासनिर्हारयोः प्रकार आलोच्यते । अयञ्च प्रकारः पाश्चात्त्येषु क्षेत्रव्यवहारगणित ( Mensutation ) ग्रन्थेषु नैव आलोचितो दृश्यते । समासो नाम द्वयोः चतुरस्रयोः क्षेत्रफलसङ्कलित-तुल्यक्षेत्रफलकचतुरस्रनिष्पत्तिरित्युच्यते । निर्हारश्च महतश्चतुरस्रादल्पचतुरस्रस्य निरसनमुच्यते । चतुरस्रशब्देन च समकर्ण- चतुरस्रस्यैव ग्रहणं सूत्रकृदभिमतम् । विषमकर्णसमचतुरस्रस्य तु उभयतः प्रउगक्षेत्रत्वं पूर्वमेवोक्तम् । विषमकर्णविषमचतुरस्रस्य श्रौतकार्येषु उपयोगाभावात् शुल्यसूत्रेष्वनधिकृतत्वं मन्तव्यम् । क्रियतेऽनयेति व्युत्पत्त्या करणीनां क्षेत्रफलजनकत्वं अर्थादापन्नम् । अनन्तर- करण्योर्गुणनफलं तावत् क्षेत्रफलमित्युच्यते । क्षेत्रयोः समासे क्षेत्रफलस्य वृद्धिः, निर्हारे च ह्रासः इति पूर्वमेवोक्तम् । क्षेत्रफलस्य ह्रासो वृद्धिवर्वा करणीनां यथायथं ह्रासवृद्धिसाध्यमिति
( च )
तु तयोः ( करणी-क्षेत्रफलयोः ) स्वरूपादेवावगम्यते । तस्मात् क्षेत्रयोः समासे कर्त्तव्ये उद्दिष्टक्षेत्रकरणीतः समस्तक्षेत्रकरणीनां वृद्धिः, निर्हारे च क्षेत्रकरणीनां ह्रासो भवतीति तात्पर्यम् । करणीनां वृद्धयर्थं न्यायस्तावत् ग्रन्थकृता “समचतुरश्रस्याक्षणया रज्जुर्द्विस्तावतीं भूमिं करोतीति; दीर्घचतुरश्रस्याक्षणया रज्जुः पार्श्वमानी तिर्यङ्मानी च यत् पृथग्भूते कुरुतस्तदुभयं करोतीति” सूत्राभ्यां प्रकाशितो वर्त्तते । उल्लिखिते प्रथमे सूत्रे “तावर्ती भूमिं द्विः करोति” इति वचनात् क्षेत्रफलस्य द्वैगुण्यसाधिका तावदक्षणयारज्जुमिता करणी ( पार्श्वमाणी ) समचतुरस्रे क्षेत्रे भवतीति लभ्यते । तदर्थश्च आलापविषयभूतस्य क्षेत्रस्य अक्षणया रज्ज्वा करणीभूतया यदि समचतुरस्रान्तरं क्रियते चेत् तदा तादृशक्षेत्रस्य फलम् आलापविषयभूतक्षेत्रस्य फलतो द्विगुणं भवेदिति । सर्वथा तुल्ययोः समचतुरस्रयोः समासस्थले क्षेत्रफलस्य वृद्धिस्तावत् उभयोः क्षेत्रफलयोः सङ्कलिततुल्या द्विगुणेति यावद् भवतीति गणितेन लभ्यते । इदानीं तादृशसङ्कलिततुल्यक्षेत्रफलजनिका करणी कियन्मिता भवेदिति जिज्ञासायाम् उक्तेन न्यायेन द्विगुणक्षेत्रफलजनकत्वं तु आलापविषय- भूतक्षेत्रस्याक्षणयारज्जुमितायाः करण्या एवेति ज्ञायते । तया करण्या क्षेत्रसम्पादनेन च द्विगुणक्षेत्रफललाभः सुकरः । अतुल्यसमचतुरस्रयोः समासे तु नायं न्यायः प्रवर्त्तते । क्षेत्रफलसङ्कलितस्य द्वैगुण्या- भावादिति तादृशं स्थलमुद्दिश्य दीर्घचतुरस्रस्येत्यादिवचनमवगन्तव्यम् । तदर्थंश्च आलाप- विषयभूतस्य दीर्घचतुरस्रस्याक्षणयारज्जुमितया करण्या यदि समचतुरस्रान्तरं क्रियते तदा तादृशसमचतुरस्रस्य क्षेत्रफलं तावत् उक्तस्य दीर्घचतुरस्रस्य, पार्श्वमान्या करणीभूतया सम्पादितस्य समचतुरस्रस्य, तिर्यङ्मान्या च करणीभूतया सम्पादितस्य समचतुरस्रस्य च क्षेत्रफलयोः सङ्कलिततुल्यं भवतीति । अतुल्यसमचतुरस्रयोः क्षेत्रफलसङ्कलितं तावत् तयोरेकस्य पार्श्वमान्या पार्श्वमानीभूतया, अन्यस्य च पार्श्वमान्या तिर्यङ्मानीभूतया सम्पादितस्य दीर्घ- चतुरस्रस्य अक्षणया करणीभूतया सम्पादितसमचतुरस्रस्य क्षेत्रफलतुल्यं भवतीति गणितयुक्त्या ज्ञायते । कर्णवर्गस्य भुजवर्ग-कोटिवर्गयोर्योगतुल्यत्वात् । भुजकोट्योरेव शुल्बसूत्रेषु पार्श्वमानी- तिर्यङ्मानीति कर्णस्य च अक्षणयेति पारिभाषिकी संज्ञा प्रसिद्धा । करणी तु वर्गमूलस्य वाचिकेति शुल्बसूत्रवित्सु बहुलम् । तस्मात् उक्तस्थले पार्श्वमान्या करणीभूतया सम्पादितसमचतुरस्रस्य क्षेत्रफलं तावद् पार्श्वमानीत्यपराख्यस्य भुजस्य मूलत्वेन करणीभूतस्य वर्गराशितुल्यं भवति । एवं तिर्यङ्मानीत्यपराख्यायाः कोटेर्मूलत्वेन करणीभूतायाः वर्गराशितुल्यमेव तिर्यङ्मान्यां करणीभूतया सम्पादितसमचतुरस्रस्य क्षेत्रफलं ज्ञेयम् । तयोर्वर्गराश्योर्योगतुल्यत्वमेव अक्षणयेत्यपराख्यस्य कर्णवर्गस्येति । तादृशदीर्घचतुरस्रस्य अक्षणया करणीभूतया सम्पादित- समचतुरस्रक्षेत्रस्य फलं उक्तयोः क्षेत्रयोः फलसङ्कलिततुल्यं भवेदिति । तस्मादतुल्यसमचतुरश्रयोः समासे कर्त्तव्ये द्वयोरतुल्ययोः समचतुरस्रयोरेकस्य पार्श्वमानीं पार्श्वमानीकृत्य, अपरस्य च पार्श्वमानीं तिर्यङ्मानीकृत्य दीर्घचतुरस्रमेकं सम्पाद्य
कतुल्येऽन्तरे चिह्नं कृत्वा रेखया Wait, "पूर्वान्तादेकतुल्येऽन्तरे" - let's check spacing: पूर्वान्तादेकतुल्येऽन्तरे or पूर्वान्ताद् एकतुल्येऽन्तरे? It's written connected: "पूर्वान्तादेकतुल्येऽन्तरे". अभिमुखानां चिह्नानां योजनं कार्यम् । तेन महतश्चतुरस्रस्य मध्ये पूर्वदक्षिणकोणे एकं स्वल्पं समचतुरस्रं एकतुल्यक्षेत्रफलकमन्यच्च चतुष्षष्टितुल्यक्षेत्रफलं अष्टमितपार्श्वमानीकं महत् समचतुरस्रं स्वल्पसमचतुरस्रस्य पश्चिमोत्तरकोणे सक्तपूर्वदक्षिणास्रं लप्स्यते । अथवा तस्य महतः समचतुरस्राद्दक्षिणस्यां दिशि एकतिर्यङ्मानीकं नवपार्श्वमानीकञ्च दीर्घचतुरस्रं सम्पत्स्यते । तत्र पूर्वदक्षिणकोणस्थस्य एकतुल्यक्षेत्रफलकस्य स्वल्पसमचतुरस्रस्य निर्हारेण Wait, in L26, is it निर्हारेण or निर्हारिण? Let's check the letters: नि र् हा रे ण. It's निर्हारेण or निर्हारि
( ज ) भूतया यत् क्रियते तदुभयं करोतीति नवमिताया अक्ष्णयायाः समचतुरस्रे कृते एकाशीति तुल्यं क्षेत्रफलं भवति । तस्मात् एकाशीतिमितात् क्षेत्रफलाद् यदि एकमितायास्तिर्यङ्मान्या कृतस्य क्षेत्रस्य फलम् एकमितं निरस्यते तदा अशीतिरेवावशिष्यते । तदेव तादृशदीर्घ- चतुरस्रस्याक्ष्णतया पार्श्वमान्या कर्तुं योग्यस्य समचतुरस्रस्य क्षेत्रफलमर्थादापन्नमिति । सैव पार्श्वमानी अशीतिकरणी ज्ञेया । दीर्घचतुरस्रस्य समचतुरस्रीकरणेऽपि तुल्यो न्यायः प्रयोक्तव्यः । तद्यथा इष्टस्य दीर्घचतुरस्रस्य ह्रस्वेन भुजेन तदन्तः समचतुरस्रं निष्पाद्य शेषं क्षेत्रं समं द्वेधा विभजेत् । तथा विभक्तयोरेकं पूर्वनिष्पन्नसमचतुरस्रसंलग्नं विहायापरं तत्समीपस्थे समचतुरस्रपार्श्वे योजनीयम् । एवं कृते इष्टस्य दीर्घचतुरस्रस्य पश्चिमभागे यदि तत्तिर्यङ्मान्या समचतुरस्रं कृतं तदा तत्पूर्वभागस्थितं क्षेत्रं समं द्विधा भिन्नं सत् भिन्नयोः सतोः पश्चिमभागस्थं तत्रैव हित्वा पूर्वभागस्थं क्षेत्रं समचतुरस्रस्य दक्षिणपार्श्वे संस्थापितं भवेत् । तेन च समचतुरस्रस्य पूर्वभागे दक्षिणभागे च क्षेत्रद्वयसंयोजनात् तस्य पूर्वदक्षिणदिशि यत् खण्डमवशिष्टं तस्य पूरणम् अधिकक्षेत्रसंयोजनेन कर्तव्यम् । तेन समचतुरस्रसिद्धिः । अस्य च अधिकस्य क्षेत्रस्य निर्हारः पूर्ववत् कर्तव्यः । तेन इष्टस्य दीर्घचतुरस्रस्य समचतुरस्रत्वं सम्पन्नम् । अन्ये च क्षेत्र- सम्पादनप्रकाराः प्रस्तुतग्रन्थे यथास्थानं सूत्रकृद्भीरुपदिष्टाः बाहुल्यभयेन नात्रालोच्यन्ते । इदानीं शुल्बसूत्रस्य स्थण्डिलनिर्वृत्त्यौपयिक इष्टकोपधानरूपो विषय एवालोच्यते । स च प्रकारो लौकिकवास्तुशास्त्रीयेष्टकोपधानप्रकारतो भिन्न इति तत्प्रकारस्य शुल्बसूत्र- विषयत्वम् । तत्र विहितक्षेत्रनिष्पत्तेरनन्तरं तस्मिन् इष्टकानां यथाविधि स्थापनमेवोपधान- मित्युच्यते । तदर्थं आदौ इष्टका एव विहितस्वरूपाः सम्पादनीयाः । इष्टकाः तावत् प्रथमतः इष्टस्वरूपसम्पादनोपयोगिना काष्ठनिर्मितेन करणाख्येन उपकरणेन सम्पादनीयाः । इष्टकानां स्वरूपं तावत् स्थण्डिलस्याकारविशेषानुविधायि सूत्रेषु यथायथमुपदिष्टम् । सम्पन्नानामिष्ट- कानाम् आर्द्रत्वात् शोषपाकाभ्यां ह्रासो भवतीति यथाप्रमाणमिष्टकानां सम्पादनार्थं किञ्चिद- धिकप्रमाणा आर्देष्टकाः कार्या इति कात्यायनः । हसते पाकशोषाभ्यां द्वात्रिंशद्भागमिष्टकाः । तस्मादार्द्रप्रमाणन्तु कार्यं मानाधिकं बुधैरिति । महीधरधृत श्लोकादवगम्यते । तथा च आर्देष्टकास्तु विहितप्रमाणतो द्वात्रिंशद्- भागेनाधिकाः कार्याः । करणमपि तथैवाधिकप्रमाणकं कार्यमिति । बौधायने तु—२।२८ सूत्रे "यच्छोषपाकाभ्यां प्रतिह्रसेत पुरीषेण तत्संपूरयेद्" इति करणानां विहितेष्टकाप्रमाणत्वमेवो- पदिष्टम् । इष्टकानाम्पुर्ध्वप्रमाणं तावत् जानोः पञ्चमांशतुल्यमिति तेन ६३२ अङ्गुलमूर्ध्वप्रमाणं, पृथुत्वमित्यर्थः, इष्टकानाम् आयामविस्तारौ तु यथास्थण्डिलं भिद्यत इति तत्तच्चितौ तेषां
प्रमाणं द्रष्टव्यम् । तासां सामान्यतः समचतुरस्राकृतीनामिष्टकानां नामानि तु तृतीया, चतुर्थी पञ्चमी षष्ठीत्याद्यानि बोद्धव्यानि । एतासामेवेष्टकानाम् अर्ध-पादादिप्रमाणेष्टका अर्ध्याः पाद्याः इत्यादिभिर्नामभिरभिधीयत इति तत्रानुसन्धेयम् । यद्यपि लौकिके वास्तुशास्त्रे इष्टकानां उपधानकाले यथावश्यकं खण्डिताभिरिष्टकाभिः स्थानपूरणमप्रतिषिद्धमिति इष्टककरणानां एकरूपत्वमेव दृश्यते तथापि वैदिके शुल्वसूत्रे तु खण्डितानां भिन्नानां, जीर्णानां, पाकातिशयेन कृष्णानां दारुपाषाणादिना चिह्नयुक्तानां वा इष्टकानामुपधानायोग्यत्वकथनात् स्थण्डिल- निर्वृत्तावुपयोगिनीनां सर्वासामेवेष्टकानां करणभेदेन सम्पादितानामेवोपयोगो भवेदिति मन्तव्यम् । तदर्थं तत्तत्स्थण्डिलोपयोगिनीनाम् अर्ध्यापाद्यादीनामपि स्वातन्त्र्येणोपदेशः शुल्वसूत्रेषु भवति । सम्पन्नानामिष्टकानां सूत्रकृदुपदिष्टेन प्रकारेण स्थण्डिलाकारसम्पादकं स्थापनमुपधान- मित्युच्यते । यथादिशम् अव्यवधानेन स्थापितानामिष्टकानां श्रेणी रीतिरित्युच्यते । यथो- पदिष्टामु रीतिषु स्थापिता इष्टकाः स्थण्डिलस्य श्येनाद्याकारातां सम्पादयन्ति । सम्पादितायामपि स्थण्डिलस्य श्येनाद्याकारतायां स्थण्डिलस्य विहितमूर्द्धप्रमाणन्तु न लभ्यत इति इष्टका उपर्युपरि तथैव स्थापनीया यावद् विहितोर्ध्वप्रमाणं स्थण्डिलं स्यादिति । तथा कर्त्तव्ये चाधःस्थानामिष्टकानां सन्धयस्तु प्रच्छादनीया भवन्ति । तदेव शुल्वसूत्रेषु भेदवर्जनमित्युच्यते । एतदर्थमेव तत्र अर्ध्यानां, पाद्यानां दीर्घपाद्यानां, शूलपाद्यानां हंसमुखीनां प्रयोगः शुल्वसूत्रेषु दृश्यते । यथावसरमेतासां नानाविधानामिष्टकानामुपधानेन सम्पाद्ये स्थण्डिलादौ सर्वत्र इष्टकानां सन्धयः प्रच्छादिता भवन्ति । लौकिके वास्तुनि पुनर्भेदवर्जनार्थमेकरूपाया एवेष्ट- कायाः खण्डनेनैव अर्ध्यादीनां यथावश्यकं लाभः क्रियते । न च शुल्वसूत्रेभ्योऽपि प्राचीनतरं डोरिक् आयोनिकादि यावनभाषासु लिखितं ग्रन्थमुपलभामहे यत्र इष्टकानिर्माणं तासामुपधानप्रकारश्च वर्णितो वर्त्तते । वस्तुतस्तु इश- वीयाब्दस्य काल्पनिकात् प्रवर्त्तनकालात् प्रायः पञ्चाशद्वर्षेभ्यः पूर्वं वित्रुव्युः ( Vitruvius ) नामकेन केनचिद् रोमकेन वास्तुशास्त्रमधिकृत्य ग्रन्थ एको विरचितः । अस्मिंश्च ग्रन्थे तेन षष्ठेऽध्याये प्रायः द्वादशानां यावनवास्तुशिल्पविदाम् उल्लेखः कृतो वर्त्तते । परं तेषु ग्रन्थेषु केवलं तत्तद्वास्तुशिल्पिभिः कलितानां निर्मितानाञ्च वस्तूनां वर्णनमेव विद्यत इति तत्रैवोल्लिखितम् । ( द्रष्टव्यम् Greek Science Vol. II P. 120-121 ) एतेन सुस्पष्टमिदं यत् बोधायनादीनाम् आचार्याणां ग्रन्थरचनायाः पूर्वम् आयोनिक् डोरिक् आदिसंज्ञकां यवनानां वास्तुशास्त्रीयं सिद्धान्तम् अधिकृत्य नासीत् कोऽपि ग्रन्थ इति । बौधायनशुल्वसूत्रादीनां रचनायाः पश्चादपि प्रायः सप्तशतवर्षपर्यन्तं केवलं वास्तुसम्बन्धि- भूतार्थज्ञापकं वर्णनपरं रचनाजातमेव प्रणीतवन्तो यवना इति ।
( ञ ) यथा तथा वा भवतु बौधायनशुल्बसूत्रादिकन्तु निर्विवादं भारतीयानां प्रतिभाया द्योतकमित्यत्र नास्ति सन्देहलेशोऽपि । एतादृशस्य ग्रन्थस्याध्ययनादिकमपि परमावश्यकम् । सुदुर्लभस्यास्य ग्रन्थस्य प्रकाशनं श्रेयस्करमिति मत्वा संस्कृतविश्वविद्यालयाधिकारिभिरादिष्टो- ऽभवमस्य ग्रन्थस्य सम्पादनार्थम् । तदर्थं टीकान्तरमन्विष्यता मया शुल्बमीमांसाख्यायाः बौधायनशुल्बसूत्रस्य व्यङ्कटेशदीक्षितविरचिताया व्याख्यायाः भण्डारकर ओरिएण्टल रिसर्च इन्स्टिट्यूट् ग्रन्थालयतः एका प्रतिलिपिरासादिता । इयं प्रतिलिपिस्तावत् प्रायशः शुद्धेति कादाचित्काया अशुद्धेः परिमार्जनार्थं मत्कल्पिताः पाठाः बन्धनीमध्यगताः प्रश्नचिह्नयुता कृताः । छेद्यकानां प्रतिरूपन्तु कस्यचिदज्ञातस्य पुरुषस्याज्ञया ग्रन्थाकृतितो विपुलं निर्मितमिति चितीनां छेद्यकन्तु प्रतिरूपनिर्माणार्थं प्रदत्तमपि नष्टम् । चक्षुरोगवशात् सूक्ष्मवस्तुनि दृष्टि- पातस्य चिकित्सकैः प्रतिषिद्धत्वात् पुनः तन्निर्माणेऽशक्तोऽहमिति पाठकैः क्षन्तव्योऽहम् । विदुषामनुचरः विभूतिभूषणभट्टाचार्यः
बौधायनशुल्बसूत्रस्य विषयसूचिका पृष्ठसंख्या १—रेखामानपरिभाषा ( १-१६ सू० ) १-१० २ समचतुरश्रकरणोपायः ( २०-२७ ) १०-१४ ३—दीर्घचतुरश्रकरणोपायः ( २८-३० ) १४-१५ ४ - एकतोऽणिमद्दीर्घचतुरश्रकरणोपायः ( ३१ सू० ) १५ ५—प्रकारान्तरेण दीर्घचतुरश्रैकतोऽणिमद्दीर्घचतुरश्रकरणम् ( ३२-३३ ) १५-१६ ५—द्विकरण्यानयनम् ( ३४ सू० ) १६ ७—त्रिकरणी-तृतीयकरण्योरानयनम् ( ३५-३६ ) ६७ ८—अन्यासामिष्टकरणीनामानयनम् ( ३७-३८ ) १७-१६ ६—समचतुरश्रयोः समासः ( ३९ सू० ) १६-२० १०—महाचतुरश्रादल्पचतुरश्रापोद्धारप्रकारः ( ४० सु० ) २० ११—समचतुरश्रस्य दीर्घचतुरश्रकरणोपायः ( ४१ सू० ) २१ १२-तत्रैव प्रकारान्तरम् ( ४२ सू० ) २१-२२ १३—दीर्घचतुरश्रस्य समचतुरश्रकरणम् ( ४३ सू० ) २२ १४—समचतुरश्रस्यैकतोऽणिमत् करणम् ( ४४ सू० ) २२-२३ १५-चतुरश्रस्य प्रउगकरणम् ( ४५ सू० ) २३ १६-चतुरश्रस्योभयतः प्रउगकरणम् ( ४६ सू० ) २३-२४ १७—चतुरश्रस्य मण्डलकरणम् ( ४७ सू० ) २४-२५ १८-मण्डलस्य चतुरश्रकरणम् ( ४८-४९.सू० ) २५-२६ १६—गणितेन द्विकरण्यानयनम् ( ५० सू० ) २६-२७ २०—गार्हपत्यदक्षिणाहवनीयाग्नीनां स्थानानयनम् ( ५१-५७ सू० ) २७-३० २१-उत्करस्थानानयनम् ( ५८ सू० ) ३० २२—दार्शिक्या वेदेर्विहरणम् ( ५६ सू० ) ३०-३२ २३—पाशुकबन्धिकवेदि विहरणम् ( ६०-६२ सू० ) ३२-३३ २४—उत्तरवेदि विहरणम् ( ६३ सू० ) ३३ २५—पैतृक्यावेदेर्विहरणम् ( ६४-६६ सू० ) ३३-३५ २६—सौत्रामणीवेदि विहरणम् ( ६७ सू० ) ३५-३६ २७—अग्निष्टोमवेदि विहरणम् ( ६८ सू० ) ३६-३७ २८—सौमिकमहावेदि विहरणम् ( ६६ सू० ) ३७-३८ २६—सदसो विहरणम् ( ७० सू० ) ३८
( २ ) ३०—हविर्धानविहरणम् ( ७१-७२ सू० ) ३८-३९ ३१—सौमिकोत्तरवेदिविहरणम् ( ७३ सू० ) ३९-४० ३२—चात्वालोपरवयोर्विहरणम् ( ७४-७५ सू० ) ४०-४१ ३३—धिष्ण्यानां विहरणम् ( ७६ सू० ) ४१ ३४—आग्नीध्रमार्जालीयागारविहरणम् ( ७७-७८ सू० ) ४१-४२ ३५—प्रक्रमादिविशेषनिर्णयः ( ७९-८३ सू० ) ४२-४४ द्वितीयाध्याये ३६—प्रथमद्वितीयाद्यग्नीनां प्रमाणक्षेत्रमानम् ( १-५ सू० ) ४५-५२ ३७—(१) उक्तानामग्नीनामूर्ध्वप्रमाणकथनम् ( ६ सू० ) ५२-५६ (२) केषाञ्चिदाचार्याणां मतदूषणम् ( ६ सू० ) (३) इष्टकचितीनां प्रकृतिविकृतिप्रतिपादनम् ( ६ सू० ) (४) अग्निचयने नियमः ( ६ सू० ) ३८—स्वमते श्येनचितः सपक्षपुच्छतादिप्रतिपादनम् ( ७-८ सू० ) ५६-५७ ३९—अग्निकर्मादिकथनम् ( ६-२८) ५७-७० (१) भेदवर्जनम् ( ९ सू० ) (२) प्रथमचयने इष्टकसंख्यादिकथनम् ( १० सू० ) (३) अग्नीनां पशुधर्मत्वकथनम् ( ११ सू० ) (४) रेखावशाद् इष्टकानामुपधानप्रकारः ( १२ सू० ) (५) मध्यस्थेष्टकानामुपधानप्रकारः ( १३ सू० ) (६) अग्नेः पशुधर्मत्वप्रदर्शकं ब्राह्मणम् ( १४ सू० ) (७) अग्नीनामन्तस्तन्ववहिस्तन्वभेदात् चयनप्रकारः ( १५ सू० ) (८) चिताविष्टकानां प्रयोगे विशेषकथनम् ( १६-१७ सू० ) (९) इष्टकोपधानात् प्राक्कर्त्तव्यम् ( १८ सू० ) (१०) मण्डलाद्येष्टकानां परिभाषा ( १९ सू० ) (११) इष्टकोपधाने मन्त्राणां प्रयोगप्रकारः ( २०-२२ सू० ) (१२) इष्टकोपधाने रीत्यादिनिर्णयः ( २३ सू० ) (१३) उपयोगानर्हा इष्टकाः स्वयमातृण्णाश्च ( २४-२५ सू० ) (१४) इष्टकानामूर्ध्वप्रमाणकथनम् ( २६-२७ सू० ) (१५) उपहिताविष्टकासु शर्कराप्रयोगविधिः ( २८ सू० ) ४०—गार्हपत्यचितेराकारप्रमाणादिकम् ( २६-३० सू० ) ४१—चतुरश्रगार्हपत्यचित्तौ प्रयुज्यमानानामिष्टकानां करणम् ( ३१-३२ सू० ) ४२—तत्रेष्टकोपधानप्रकारः ( ३३-३४ सू० )
( ३ ) ४३-परिमण्डल गार्हपत्यचित्युपधानम् ( ३५-३६ सू० ) ४४-धिष्ण्याणामुपधानम् ( ३७-४१ सू० ) ४५-इष्टकानिर्माणे विशेषः ( ४२ सू० ) ४६-चयने नियमः ( ४३ सू० ) तृतीयाध्याये ४७-श्येनचिदाकारनिरूपणम् ( १-६ सू० ) ७८-८० ४८-चतुरश्रश्येने इष्टकाप्रमाणम् ( ७ सू० ) ८० ४६-चतुरश्रश्येनाग्निमानम् ( ८-१० सू० ) ८१-८३ ५०-तत्रेष्टकोपधानप्रकारः ( ११-२७ सू० ) ८३-८६ ५१-वक्रपक्ष (पञ्चपत्र) व्यस्तपुच्छश्येनचिद्विमानोपधाने ( २८-४५ सू० ) ८६-६८ ५२-वक्रपक्ष ( षट्पत्र ) व्यस्तपुच्छश्येनचिद्विमानोपधाने ( ४६-६७ सू० ) ६६-१०७ ५३-कङ्कचिद्विमानोपधाने ( ६८-७७ सू० ) १०७-१११ ५४-अलजचिद् विमानोपधाने ( ७८-८० सू० ) १११-११४ ५५-प्रउगचिद् विमानोपधाने ( ८१-८४ सू० ) ११४-११६ ५६-उभयतः प्रउगचिद्विमानोपधाने ( ८५-८८ सू० ) ११६-११८ ५७-सार-प्रधियुक्त-रथचक्रचिद्विमानोपधाने ( ८६-१०७ सू० ) ११८ १२६ ५८-चतुरश्र-परिमण्डल-द्रोणचिद्विमानोपधाने ( १०८-११७ सू० ) १२९-१४० ५६-समूह्यपरिचाय्यचितोर्विमानोपधाने ( ११८-१२२ सू० ) १४०-१४३ ६०-श्मशानचिद्विमानोपधाने ( १२३-१२८ सू० ) १४३-१५१ ६१-कूर्म (वक्राङ्ग-परिमण्डल ) चिद्विमानोपधाने ( १२६-१४१ सू० ) १५१-१६४ ६२-एकविधादिषड्विधपर्यन्तचितीनामाकारादिनिरूपणम् (१४२-१४४ सू०) १६४-१६५ ६३-आश्वमेधिकाग्नेरभ्यासे विशेषः ( १४५-१४६ सू० ) १६५-१६६
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
(पृष्ठेऽस्मिन् किमपि मुद्रितं संस्कृतमूलपाठजातं नोपलभ्यते / This page contains no printed Sanskrit/Devanagari text.)
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
श्रीगणेशाय नमः । बौधायनीयं शुल्बसूत्रम् टीकाद्वयोपेतम् अथ शुल्बमीमांसा कान्तामुखं सन्ततमन्तिकस्थं यस्यावतंसेन्दुरवेक्ष्यमाणः । अवाप कार्श्यं किमु पाण्डुताञ्च ददातु देवः स सदा मुदं वः ॥ १ ॥ यस्याङ्गकान्तिप्रकरात् स्वकीयभासोऽभिभूतिं यदि शङ्कमानः । शिरस्पदं शीतमरीचिरागाच्छ्रेयोऽभिवृद्धिं शिव एष दद्यात् ॥ २ ॥ सौवनीलतनुकान्तिसङ्गमाद् इन्दिरामनयदेव कृष्णताम् । तत्सुवर्णतनुकान्तिसङ्गतैर्योजयामि हरिमाश्रयामि तम् ॥ ३ ॥ येनेन्दुसूर्यौ नयनीकृतौ किं हिरण्यगर्भस्य सुरक्षणाय । स्थितस्य नाभीकमलान्तराले निःश्रेयसायास्तु निरन्तरं सः ॥ ४ ॥ पारावारात् प्रोद्धृते चन्द्रलक्ष्म्यौ याभ्यां शश्वन्मौलिवक्षोविभूषे । सर्वैर्लोकैः पूजिते सङ्गृहीते वन्दे देवौ वामदेवाच्युतौ तौ ॥ ५ ॥ अबोधकत्वं निखिलेषु वेदेष्वपास्य ये विष्टपमन्वगृह्णन् । सूत्रैर्विचित्रार्थचमत्कृतैस्तान् बोधायनाचार्यवरान् भजामः ॥ ६ ॥ भट्टोक्ततन्त्रोद्धरणप्रवीणानद्वैतविद्यापरिपालने च । नमामि गोविन्दमखि प्रवेकान् भक्त्या मुहुः सम्प्रति तातपादान् ॥ ७ ॥ सर्वेषु तन्त्रेषु समं स्वतन्त्रः श्रीयज्ञनारायणदीक्षितेन्द्रः । अध्यापयद् यो बहुधानवद्यां विद्यामशेषामनुजं यथावत् ॥ ८ ॥ बोधायनोक्तसूत्रं, बुद्ध्वा बहुशो विचार्य नयरीत्या । श्रीवेङ्कटेश्वरमखी सुगमां तनोति शुल्बमीमांसाम् ॥ ९ ॥
२ शुल्बसूत्रम् [ प्रथममो- इह खलु भगवान् बोधायनाचार्यं अग्निचयान् व्याख्यास्यन् शिष्टा- चारपरिप्राप्तमथशब्दोच्चारणं मङ्गलं कुर्वन् शिष्यावधानार्थं वक्ष्यमाणार्थं प्रतिजानीते— अथेमेऽग्निचयाः ॥ १ ॥ अथेम इति । अयीनां श्येनाद्याकारविशिष्टस्थण्डिलविशेषाणां, चया- श्चयनप्रकाराः प्रदर्श्यन्त इति शेषः । ननु चयनशब्दो मन्त्रकरणकेष्टकासाधनकस्थण्डिलनिर्वृत्त्यौपयिक- व्यापारविशेषवाची । स च व्यापारो नात्र व्युत्पाद्यते, किन्तु सूत्र एव “पुरुषमात्रेण वेणुना सपक्षपुच्छं१” मित्यारभ्य “कार्ष्णाजिनीरुपानह उपमुच्यते२। कृषति लाङ्गलं पवीरवं “शुनं नः फला”३ इति द्वाभ्याम्४। अथैतामैन्द्रीमिष्टकामाक्रमणं प्रत्युपदधाति५। पूर्वामुप- दधाति । दक्षिणे विभक्तिमुपदधाति६। मध्ये हिरण्मयं पुरुषमुपदधाति७। सुचावुपदधाति८। अथैता दशस्कन्ध्याः प्राचीरायातयति९। अवकामानू- पदधाति१०। मण्डलेष्टकामुपदधाति११। मध्ये प्राणभृत उपदधाति१२। संयत उपदधाति१३। अथाग्नेरङ्गान्युपदधाति१४। अथाग्नि सर्वतोमुखं १. बौ. श्रौ. सू. ( प्रश्न. १०; खं. १६ : अध्या ६ : पृ. १७ ) २. ,, ,, ,, प्र. १०।२३; पृ. २१, १०।३६, पृ. ३७ ) ३. ,, ,, ,, ( तै. सं ४. २. ५. १८-१६ ) ४. ,, ,, ,, ( प्र. १०।२५; पृ. २४ ) ५. ,, ,, ,, ( प्र. १०।२४; पृ. २३ ) ६. ,, ,, ,, ( प्र. १०।३६; पृ. ३७. पृ. २३ ) ७. ,, ,, ,, ( प्र. १०।३०; पृ. २८ ) ? ८. ,, ,, ,, ( प्र. १०।३०; पृ. २८) ९. ,, ,, ,, ( प्र. १०।४०; पृ. ३८) १०।३२ पृ. २६ १०. ,, ,, ,, ( प्र. १०।४०; पृ. ३८) १०।३२ पृ. २६ ११. ,, ,, ,, ( प्र. १०।३१; पृ. २६) १२. ,, ,, ,, ( प्र०१०।४०; पृ. ३८ ) १३. ,, ,, ,, ( प्र. १०।३५; पृ. ३२ ) १४. ,, ,, ,, ( प्र. १०।३६; पृ. ३३ )
१. प्रथम अध्याय: शुल्ब-परिभाषा, मान-प्रमाण, दीर्घचतुरस्र (पाइथागोरस प्रमेय मूल) एवं रज्जु-गणित
ऽध्यायः ] बौधायनीयं ३ चिनुते १५। अथ प्राजापत्यामुपदधाति १६। अथापस्या उपदधाति १७। अथैताः पञ्चस्कन्ध्याः प्राचीरायातयति १८। अथाश्विनीरुपदधाति "ध्रुव- क्षितिर्ध्रुवयोनिरि"ति पञ्च १९। अथ वालखिल्या उपदधाति २०। अथाक्ष्णया स्तोमीया उपदधाति २१। अथासपन्ना उपदधाति २२। अथ द्वाभ्यां शताभ्यां प्रोक्षति। अथाग्निमभिमृशति अग्निरसि वैश्वानरोऽसी- त्यादिभिः प्रतिपादितम्। तथा च कथमिह प्रतिज्ञा "अथेमे अग्निचया" इति चेत् ? सत्यम्; तथाप्यत्र चयशब्देन कल्पसूत्रप्रतिपाद्यमान-मन्त्रकरणके- ष्टकासाधनक्रमविशेषस्थण्डिलनिर्वृत्त्यौपयिकव्यापारात्मकचयनोपयुक्तक्षेत्र- विशेषोपधेयेष्टकाकरणश्येनाद्याकारपरिज्ञानोपायभूतो व्यापारो विवक्षितः। स चेहैव व्युत्पाद्यते नान्यत्रेति युक्तैव प्रतिज्ञा। ननूक्तरीत्या चयनशब्दोपपत्तिः। तथापि ज्वलनवाचिनोऽग्निशब्दस्य कथं श्येनाद्याकारविशिष्टस्थण्डिलविशेषपरत्वमिति चेत्, उच्यते—यद्यपि ज्वलनरूढोऽग्निशब्दः तथापि अग्निसंस्कारचयननिवृत्ते अग्न्याधारस्थ- ण्डिलेऽपि लक्षणया अग्निशब्दः प्रयुज्यते। अत एव नवमे २३ अग्निशब्दस्य स्थण्डिलविशेषपरत्वमभ्युपगम्य विचारितम्। तथा हि "हिरण्यशकलै- रग्निं प्रोक्षतीति २४" श्रूयते।
१५. बौ. श्रौ. सू. (प्र. १०।४०; पृ. ४९) १६. ,, ,, ,, (प्र. १०।३६; पृ. ३४) १७. ,, ,, ,, (प्र. १०।३५; पृ. ३२) १८. ,, ,, ,, (प्र. १०।३८; पृ. ३५) १९. ,, ,, ,, (प्र. १०।३८; पृ. ३५) तै. सं. ४.३.४.१-५ २०. ,, ,, ,, (प्र. १०।४०; पृ. ३६) २१. ,, ,, ,, (प्र. १०।४२; पृ. ४०) २२. ,, ,, ,, (प्र. १०।५५; पृ. ४२) २३. पू. मी. ६.१.७। २४. बौ. श्रौ. सू. (प्र० १०।४७)
तत्र सन्देहः किं प्रोक्षणं प्रतीष्टकं कर्त्तव्यम् ? उत सकृदेवेति । तदर्थं किमग्निरवयवीष्टकाव्यतिरिक्तो नास्तीति उतास्तीति । यदि नास्ति तदा इष्टकानामेव संभृतानामग्निशब्दवाच्यत्वात् तासाञ्च संस्कार्याणां बहुत्वात् प्रतिप्रधानं गुणावृत्ति१रिति प्रतीष्टकं प्रोक्षणं कर्त्तव्यम् । यद्यन्योऽवयव्यस्ति तदा तस्यैकत्वात् सकृदेव प्रोक्षणं कर्त्तव्यमिति । तत्र देवदत्तघटादौ एकावयवाकर्षणे अवयवान्तराकर्षणदर्शनात् अवयव- सन्धिदर्शनाच्चास्त्यन्योऽवयवी । इह तु एकेष्टकाकर्षणे अन्यङ्गा- नाकर्षणात् सन्धिदर्शनाच्च नान्योऽवयवी । यद्यपि पुरीषच्छन्नतया न सन्धिदर्शनं तथाप्यनुमानेनावगम्यते सन्धिरिति नान्योऽवयवी । किञ्च पक्वैरामैश्चावयवैरन्योऽवयव्यारभ्यत इति काश्यपीयैर्दर्शित- त्वाच्च । अतो नान्योऽवयवीति प्रतीष्टकं प्रोक्षणमिति प्राप्तेऽभिधीयते देशकालभेदेऽप्यबाधिता एकत्वबुद्धिरेव हि अवयविसद्भावे प्रमाणम् । सा चेहाप्यस्तीत्यस्त्यवयवी । भागान्तरावकर्षणं वृक्षादावनैकान्तिकं, सन्धिदर्शनञ्च पटादावनैकान्तिकमिति प्रमाणबलात् पक्वामैरप्यवयवैर- वयव्यारभ्यत इति तस्यैकत्वात् सकृदेव प्रोक्षणमिति । नन्वग्निसंस्कारचयनमेवाप्रसिद्धम्, अस्त्येव चयनविधिः । “य एवं विद्वानग्निं चिनुत” इति । ननु तत्र अग्निशब्दो यागनामधेयम् । न च प्रत्यक्षयजेरश्रवणाद् यागनामत्वं नास्तीति वाच्यम् । प्रत्यक्षयज्यश्रवणेऽपि “अग्निं कुर्या- दिति तावत्संज्ञयैव कर्मान्तरेऽवधारिते “अथातोऽग्निमग्निष्टोमेनानु- यजन्ति यदग्निमनुयजन्ति तदग्निष्टोमेनेति” संस्थाविधिपरैर्वाक्यैर्याज- नाग्न्यनुवादात्तावदग्निशब्दो यागवचन इति गम्यते । अस्य वाक्यस्य संस्थाविधायकत्वाभावेऽपि “अग्निमनु अग्निष्टोमेन यजन्ती” त्युक्त्याग्ने-
१. मीमांसान्यायः ।
र्यागत्वमवगम्यते । यथा देवदत्तमनुगच्छति यज्ञदत्त इत्युक्ते देवदत्तोऽपि गच्छतीति गम्यते । एवमिहाप्यनुयाजनवशादेवाग्नेर्यागत्वमवगम्यत इति । चयनम् अप्रमाणकमिति चेत्, अत्राभिधीयते—अग्निशब्दस्य वह्नौ रूढत्वाद् यागवाचित्वं नोपपद्यते । न चात्र "चित्रया यजेत पशुकामः" "आज्यैः स्तुवत" इत्यादाविव वाक्यभेदः । नापि "समिधो यजती"त्यादा- विव तत्प्रख्यत्वम् । न वा "श्येनेनाभिचरन् यजेते"त्यादाविव तद्व्यप- देशोऽस्ति येन नामत्वं स्यात् । तस्माज्ज्वलनरूपस्याग्नेरेव संस्कारो विधीयते । तस्य च क्रतुसम्बन्धबोधकानि "अथातोऽग्नि"मित्यादीनि । न चाग्निष्टोमादीनाम् अग्निपश्चाद्भावमात्रप्रतीतेः कथं ततः संस्कार- स्य क्रतुसम्बन्धसिद्धिरिति वाच्यम् ? प्रकरणात्, अग्निशब्दस्य चयन- संस्कारविशिष्टाग्निपरतया तत्संबन्धे बोध्यमाने विशेष्यभूताग्निसम्बन्धस्य यदाहवनीयवाक्येनैव सिद्धतया लोहितोष्णीषादिवद् विशेषणीभूतसंस्कार- सम्बन्धविधिपरत्वस्यावश्यं भावात् । अत एवाग्निशब्दस्य द्रव्य- वचनतयाऽनुशब्दस्य क्रियापश्चाद्भावप्रतिपादकस्यानुपपत्तिरित्यपास्तम् । उक्तरीत्याग्निशब्दस्य चयनपरत्वाग्निपरत्वे विशेषणीभूतचयनक्रियापेक्षया पश्चाद्भावप्रतिपादकत्वोपपत्तेः । तदयमत्र "अथातोऽग्नि" मित्यादि- वाक्यस्य निर्गलितोऽर्थः । चयननिर्वृत्तस्थण्डिलस्थापनसंस्कृतेऽग्नावग्निष्टोमा- दिभिर्यजेतेति । न च तुल्यरूपाणामेव पौर्वापर्यंनियमः । पाकमनुभुङ्क्त इति विजा- तीयानामपि तद्दर्शनात् । तस्मादस्त्यग्नेश्चयनलक्षणः संस्कारः क्रत्वङ्गभूत इति तन्निरूपणप्रतिज्ञोपपन्नैवेति । नन्वेवमपीयं प्रतिज्ञाऽनुपपन्ना । यतो "अथेमे अग्निचया" इति अग्निचयनप्रदर्शनं प्रतिज्ञाय चतुरस्रपरिमण्डलादिकरणमादावुच्यते । न च चतुरस्रादीनामग्निचयनोपयोगितया नासंगतिरिति वाच्यम् । तस्य वेद्यादिसाधारणत्वेन वेद्या अपि प्रतिपादनस्यादौ प्रतिज्ञाप्रसङ्गात् । अग्निचयनस्य वेद्युत्तरमेव प्रतिपादनेन तत्प्रतिज्ञायाश्चैवोचितत्वा-
६ शुल्वसूत्रम् [ प्रथमो- दिति चेन्न । इहाग्निप्रतिपादनस्यैव भूयस्तया प्राधान्यात्तदानुषङ्गिका- नामन्येषामपि पूर्वं प्रतिपादनेऽपि न तेषामिह प्रतिज्ञा । यथा जैमिनिना कृत्स्नवेदस्य धर्मे प्रामाण्येऽपि चोदनायाः प्राधान्यात् "चोदनालक्षणोऽर्थो धर्म" इति निर्देशः कृतः । नन्वर्थवादादीनां सिद्धबोधकत्वेनाप्रामाण्यादेव चोदनाया एव प्रामाण्यमुक्तम्, न तु प्राधान्यादिति चेन्न । “स्वाध्यायोऽध्येतव्य” इत्य- ध्ययनविधेः कृत्स्नस्वाध्यायाध्ययनविधायिनः प्रयोजनवदर्थपरतामन्त- रेणानुपपत्तेः । अर्थवादादीनामपि विधिवाक्यैकवाक्यतया धर्मप्रमितिजन- कत्वेन प्रामाण्यस्यार्थवादाधिकरणे व्युत्पादितत्वात् । यथा वा प्रमाणादि- षोडशपदार्थप्रतिपादकस्यापि शास्त्रस्यानुमानप्रधानत्वाद्वनुमानवाचकन्यायप- देनैव न्यायशास्त्रमिति व्यपदेशः । यथा लोके मल्लप्रचुरे ग्रामे मल्लग्राम इति व्यवहारः ॥ १ ॥ अथ शुल्बदीपिका बौधायनीयशुल्वस्य प्रव्याख्याः प्रेक्ष्य यज्वना । टीका भट्टात्मजेनेयं क्रियते शुल्बदीपिका ॥ अथेति । अथ गृह्यानन्तरम् । अग्निचयग्रहणं वेद्या अप्युपलक्षणार्थम् ॥ १ ॥ तेषां भूमेः परिमाणविहारान् व्याख्यास्यामः ॥ २ ॥ तेषामिति । तेषामग्नीनाम् । भूमेः क्षेत्रस्य । परिमाणविहारान् परिमाणानि विहाराश्च परिमाणविहारा इति इतरेतरयोगे द्वन्द्वः । परि- माणशब्देन अङ्गुल-क्षुद्रपद-प्रादेशादीनां ग्रहणम् । विहारशब्देन भूमे- श्चतुरस्रादिरूपेण करणस्य ग्रहणम् ॥ २ ॥ तेषामिति । परिमाणविशेषान् विहारान् । विहरणं नाम चतुरस्रादिरूपेण भूमेः करणम् ॥ २ ॥ अथाङ्गुलप्रमाणं चतुर्दशाणवः ॥ ३ ॥ अङ्गुलस्य सर्वशेषित्वादौ तद्दर्शयति अथाङ्गुलेति । अणवो धान्य- विशेषा अन्योन्यदीर्घाकारसंश्लिष्टाश्चतुर्दश अङ्गुलप्रमाणं अङ्गुल्याख्यं प्रमाणं वेदितव्यम् ॥ ३ ॥
ऽध्यायः ] बौधायनीयं ७ अथेति । सर्वप्रमाणशेषत्वादङ्गुलप्रमाणमुच्यत इति शेषः । चतुर्दशेति । अणुर्धान्य- विशेषः । परस्परसंश्लिष्टाश्चतुर्दशाणवो यावत्प्रमाणं तावदङ्गुलप्रमाणमित्यर्थः ॥ ३ ॥ चतुस्त्रिंशत्तिलाः पृथुसंश्लिष्टा इत्यपरम् ॥ ४ ॥ चतुस्त्रिंशदिति । कोशे यथावत् स्थितास्तथा संश्लिष्टा ( चतु- स्त्रिशत् तिलाः ) अङ्गुलप्रमाणमित्यपरं मतमित्यर्थः ॥ ४ ॥ चतुस्त्रिंशदिति । कोशसंस्थानवत् पृथुप्रदेशेन संश्लिष्टाश्चतुस्त्रिंशत्तिला अङ्गुल- प्रमाणमित्यपरं मतम् ॥ ४ ॥ दशाङ्गुलं क्षुद्रपदम् ॥ ५ ॥ दशाङ्गुलमिति । दशानामङ्गुलानां समाहारो दशाङ्गुलम् । पात्रादि- त्वान्न ङीप् । ( दशाङ्गुलं ? ) “द्वादशप्रत्यञ्चि क्षुद्रपदानि ( बौ. श्रौ सू. ६।२२ ) इत्यादिषु ( दशाङ्गुलं ) क्षुद्रपदमिति वेदितव्यमित्यर्थः ॥ ५ ॥ दशेति । द्वादश प्रत्यञ्चि क्षुद्रपदानि ( बौ० श्रौ० सू० ६।२२ ) इत्येवमादिषु दशाङ्गुलं क्षुद्रपदं विद्यात् ॥ ५ ॥ द्वादशः प्रादेशः ॥ ६ ॥ द्वादश इति । “तमवस्ताद् प्रादेशेन वर्धयेत्” ( बौ. शु. सू. ३।१० ) इत्यादिषु द्वादशाङ्गुलम् इति पूर्ववत्समाहारः । ( तत् ? ) प्रादेशमिति वेदितव्यमित्यर्थः ॥ ६ ॥ द्वादशेति । तमवस्तात् प्रादेशेन वर्धयेत् ( बौ० शु० सू० ३।१० ।) इत्येव- मादिषु द्वादशाङ्गुलः प्रादेश इति विद्यात् ॥ ६ ॥ पृथोत्तरयुगे त्र