भारतकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१३४ । दशकुमारचरितम् । [ उत्तरपीठिकायां

१३४ । दशकुमारचरितम् । [ उत्तरपीठिकायां

पूर्वसंगृहीतैर्ग्राह्यवाग्भिः सिद्धिलम्भनं दिङ्मुखेषु तत्तच्छिल्पवित्तकैर्य- शःप्रख्यापनम्, कार्त्तान्तिकादिभिः कल्याणलक्षणोद्घोषणम् पीठमर्दविट- विदूषकैर्भिक्षुक्यादिभिश्च नागरिकपुरुषसमवायेषु रूपशीलशिल्पसौन्दर्य- माधुर्यप्रस्तावना, युवजनमनोरथलद्यभूतायाः प्रभूततमेन शुल्केनाव-

केनचित्प्रसङ्गेन कार्यविशेषेण वा संजातायाश् । पूर्वसंगृहीतैः-प्रागेव धनादिना स्वायत्तीकृतैः ग्राह्यवाग्भिः । ग्राह्या सर्वैः स्वीकार्या वाक् येषा तैः । सिद्धिलम्भनं कार्येषु सिद्धिलाभः । दिङ्मुखेषु दिगन्तरेषु तत्तच्छिल्पवित्तकैः प्रसिद्धकलाशास्त्र- निष्णातैर्वैणिकमार्दङ्गिकादिभिः यशःप्रख्यापनं स्वकीर्त्तिसमुद्घोषणम् । कार्त्तान्तिको लक्षणज्ञः । कल्याणेति-अस्यां गणिकायां सर्वाणि शरीरलक्षणानि कल्याणसूचकानी- त्यादिष्यापनम् । पीठमर्दो नायकप्रधानसहायः । विटो विदूषकश्च नायकस्य शृङ्गार- सहायौ । शृङ्गारेऽस्य सहाया विटचेटविदूषकाद्याः स्युरिति साहित्यदर्पणः । भिक्षुकी परिव्राजिका। नागरिकपुरुषसमवायेषु चतुरजनसमाजेषुः। रूपं वर्णः, शीलं स्वभावः, सौन्दर्यं लावण्यं, माधुर्यं मनोहरत्वं तेषां प्रस्तावना प्रसङ्गः प्रख्यापनमिति यावत् । युवजनेत्यादिगणिकाया विशेषणम् । प्रभूततमेन प्रचुरतरेण । शुल्केन पणेन । अवस्थापनं युवकस्य समीपे स्थापनम् । स्वतः स्वयमेव रागान्धाय अनु- रागवशीभूताय । तद्भावेति-तस्य गणिकाया भावस्य विलासादेर्दर्शनेनावलोक- नेन उन्मादिताय उन्मत्तीकृताय । जातीति-जातिर्ब्राह्मणत्वादिः, रूपं लावण्यं, वयो यौवनं, अर्थो धनं, शक्तिः सामर्थ्यं, त्यागो दानं, दाक्ष्यं नैपुण्यं, दाक्षिण्यं, सरलता, शिल्पं कलाचातुर्यं, शीलं चारित्रं, माधुर्यं जनमनोरञ्जकत्वं एतैरुपपन्नाय युक्ताय । स्वतन्त्राय स्वाधीनाय नत्वन्यपरतन्त्रायेत्यर्थः । प्रदानमर्पणं गणिकाया इति शेषः । अधिकगुणाय अधिकगुणशालिने अस्वतन्त्राय पराधीनाय । प्राज्ञ- तमाय विद्वत्तमाय । अल्पेन, अल्पधनेन, अल्पं गृहीत्वापीत्यर्थः, बहुव्यपदेशेन

मित्र, विट, विदूषक, और भिक्षुकी आदिके द्वारा नागरिकोंके समवाय में अपनी कन्याके रूप, शील, कौशल, सौन्दर्य और माधुर्यका बखान करावे । युवकोंके मनोरथकी लक्ष्यभूमि बना करके कन्याका अधिकसे अधिक मूल्य निर्धारित करे । यदि स्वतः रागान्ध अथवा कन्याके हाव-भावसे उन्मत्त, जाति, रूप, वय, धन, शक्ति, त्याग, दक्षता, दाक्षिण्य, शिल्प और माधुर्यसे युक्त एवं स्वतन्त्र प्रेमी मिले तो, कन्याको उसके हवाले कर दे । जिस प्रणयीमें गुण तो अधिक हों किन्तु वह स्वतन्त्र न हो ऐसे अतिशय बुद्धिमान प्रेमीको बहुत कुछ बहानेके बाद कन्या अर्पण करे । कदाचित् किसी पराधीन प्रेमीके साथ कन्याका सम्पर्क हो जाय तो, प्रणयीके गुरुजनों से अपनी कन्याका शुल्क वसूल करे ।

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १३५

म्थापनम् , स्वतो रागान्धाय तद्भावदर्शनोन्मादिताय वा जातिरूपवयोऽर्थ- शक्तिशौचत्यागदाक्ष्यदाक्षिण्यशिल्पशीलमाधुर्योपपन्नाय स्वतन्त्राय प्रदा- नम् , अधिकगुणायास्वतन्त्राय प्राज्ञतमायाल्पेनापि बहुव्यपदेशेनार्पणम् , अस्वन्त्रेण वा गान्धर्वसमागमेन तद्गुरुभ्यः शुल्कापहरणम् , अलाभे- ऽर्थस्य कामस्वीकृते स्वामिन्यधिकरणे वा साधनम् , रक्तस्य दुहित्रेकचा- रिणीव्रतानुष्ठापनम् , नित्यनैमित्तिकप्रीतिदायकतया हतशिष्टानां गम्यध- नानां चित्रैरुपायैरपहरणम् , अददता लुब्धप्रायेण च विगृह्यासनम् , प्रतिहस्तिप्रोत्साहनेन लुब्धस्य रागिणस्त्यागशक्तिसंधुक्षणम् , असारस्य

मयास्य सकाशाद् बहुधनं गृहीतमिति प्रख्याप्येत्यर्थः । अस्वन्त्रेण पराधीनेन, यस्तु युवा पित्राद्यधीनस्तेन सहेत्यर्थः । गान्धर्वसमागमेन गान्धर्वविवाहेन तद्- गुरुभ्यः तस्य यूनः पित्रादेः सकाशात् । अयं ते पुत्रो गान्धर्वेण विधिना मद्दुहि- तरं परिणीतवानिति कथयित्वेति भावः । शुल्कापहरणं धनग्रहणम् । अलाभेऽ- प्राप्तौ । कामस्वीकृते कामेन वशीकृते । विषये सप्तमी । स्वामिनि तत्पित्रादेः समीपे । अधिकरणे व्यवहारालये । साधनम् अभियोगकरणम् । रक्तस्य अनुर- क्तस्य पुरुषस्य सम्बन्धे । दुहित्रेति-दुहित्रा स्वकन्यया एकचारिणीव्रतस्य एक पुरुषासक्तिरूपस्य व्रतस्यानुष्ठापनं प्रवर्त्तनम् । नित्येति-गणिका खलु नित्येन नैमित्तिकेन च विधिना प्रीतिदायिका भवति तेन हेतुना हतशिष्टानां हतेभ्यो गृही- तेभ्यो धनेभ्यः । शिष्टानमवशिष्टानाम् । गम्यधनानां विटजनद्रव्याणाम् । गम्यो विटः पाह्नविको भुजङ्ग इति आगुरिः । चित्रैर्नानांविधैः । अददता अर्थमिति शेषः । लुब्धप्रायेण प्रायशो लोलुपेन विगृह्य विरोधय । विग्रहं कारयित्वेत्यर्थः । आसनमवस्थानम् । असनमिति पाठे क्षेपणं नायकस्य तिरस्कार इत्यर्थः । प्रति- हस्तिना प्रतिद्वन्द्विना प्रतिवासिना वा यत्प्रोत्साहनमुद्दीपनं तेन । प्रतिहस्ती प्राति-

यदि धन न मिल सके और कन्या आप प्रेमीको अङ्गीकार कर ले तो प्रेमीके बड़े बूढ़ों तथा अधिकारियों-( अफसरों- ) के पास नालिश करके कार्य साधन करे । प्रेमीके प्रति अपनी कन्याद्वारा पातिव्रत धर्म पालन करावे । प्रेमीसे नित्य-नैमित्तिक रूपमें आये हुए धनसे अवशिष्ट धनको तरह-तरहके कौशलसे खींचें । यदि प्रेमी लोभवश धन न दे तो उसे लड़ करके अलग कर दे । कन्याके प्रेमीके पड़ोसियों में ऐसा भाव भर दे कि, जिससे वे प्रेमीकी त्यागशक्तिको प्रोत्साहित करें । जब प्रेमीके पास कुछ न रहे तो, जली-कटी बातोंको कह करके कोसे । अपनी कन्याको उससे न मिलने दे । लज्जा उत्पन्न करनेवाली बातें कह-कह करके उसपर नाना प्रकारके अभियोग लगावे और अन्तमें

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

१३६ दशकुमारचरितम् । ['उत्तरपीठिकायां

१३६ दशकुमारचरितम् । ['उत्तरपीठिकायां वाक्संतक्षणैर्लोकोपक्रोशनैर्दुहितृनिरोधनैर्व्रीडोत्पादनैरन्याभियोगैरवमानै- श्चापवाहनम्, अर्थदैरनर्थप्रतिघातिभिश्चानिन्द्यैरिभ्यैरनुबद्धार्थानर्थसंश- यान्विचार्य भूयोभूयः संयोजनमिति । (७) गणिकायाश्च गम्यं प्रति सज्जतैव न सङ्गः । सत्यामपि प्रीतौ न मातुर्मातृकाया वा शासनातिवृत्तिः । एवं स्थितेऽनया प्रजापतिविहितं वेश्य इति कोषः । लुब्धस्य अर्थलोलुपस्य कृपणस्येत्यर्थः । त्यागशक्तेर्दानसाम- र्थ्यस्य संधुक्षणमुद्दीपनम् । असारस्य निर्धनस्य । वाक्संतक्षणैः वाक्पीडनैः कटुवाक्यैरिति यावत् । लोकोपक्रोशनैः लोकेषु जनसमाजेषु निन्दनैः । दुहितृनि- रोधनैः स्वकन्याया गमननिवारणैः । व्रीडोत्पादनैः लज्जाप्रदानैः । अन्येति अन्यविधैरभियोगैः धर्माधिकरणव्यवहारैः । अपवाहनं गृहाद् बहिष्कारणम् । अर्थदैः । धनप्रदैः । अनर्थप्रतिघातिभिः आपत्प्रतीकारसमर्थैः । अनिन्द्यैः समा- जेपु शिष्टत्वेन परिगणितैः । इभ्यैर्धनिकैः । अनुबद्धार्थान् अनुबद्धः संश्लिष्टोऽर्थो येषां तान्, सम्बन्धयुक्तानित्यर्थः । अर्थसंशयान् अर्थस्य शुल्कस्य प्राप्तिविषये संशयो येभ्यस्तान् । विचार्य विदिच्य, अर्थप्राप्तौ कापि बाधा न भविष्यतीति विचार्येति भावः । संयोजनं गणिकायाः सम्मेलनम् । इति-एतत्पर्यन्तं गणिका- मातुरधिकारकथनम् । (७) अधुना गणिकाया अधिकारः कथ्यते । गम्यं विटम् । सज्जता सुन्दर- परिच्छदादिप्रदर्शनमेव कार्यमिति शेषः-न तु सङ्गः सहवासादिः गणिकया कार्य इति शेषः । प्रीतौ अनुरागे । मातुर्जनन्याः । मातृकायाः मातामह्याः धात्र्या वा । मातुर्माता तु मातृकेति वैजयन्ती । मातेव मातृकेति इवार्थे कन् प्रत्ययो वा । उपमातृका धात्रीत्यर्थः । शासनातिवृत्तिः आज्ञालंघनम् । गणिकया सर्वदा मातु- उसका अपमान करके भगा दे । जिससे धन अधिक मिल सके और किसी प्रकारकी विघ्न- बाधा न आवे । ऐसी अनिन्द्य बातें सोच-सोच करके धनिकोंके साथ कन्याका मेल करावे । किन्तु, उसमें भी इस बातका ध्यान रखे कि, सम्बन्ध सदा ऐसोंके साथ ही करे कि, जहां से धन मिलनेमें कोई संशय न हो । (७) प्रत्येक वेश्याका कर्तव्य हैं कि वह प्रेमीके ऊपरी ठाट-बाटको ही देख करके न रीझ जाय—बल्कि तत्त्व भी देखे । यदि किसीसे प्रीति हो जाय तो भी, वेश्या अपनी माताकी आज्ञाका उल्लंघन न करे । ऐसी दशामें इसने भगवान् प्रजापतिके निर्मित

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १३७ स्वधर्ममुल्लङ्घ्य क्वचिदागन्तुके रूपमात्रधने विप्रयूनि स्वेनैव धनव्ययेन रममाणया मासमात्रमत्यवाहि । गम्यजनश्च भूयानर्थयोग्यः प्रत्याचक्षाण- यानया प्रकोपितः । स्वकुटुम्बकं चावसादितम् ‘एषा कुमतिर्न कल्याणी, इति निवारयन्त्यां मयि वनवासाय कोपात्प्रस्थिता । सा चेदियमहार्य- निश्चया सर्व एष जनोऽत्रैवानन्यगतिरनशनेन संस्थास्यते, इत्यरोदीत् । (८) अथ सा वारयुवतिस्तेन तापसेन ‘भद्रे, ननु दुःखाकरोऽयं वन- मातृकाया वा शासने वर्त्तितव्यमिति भावः । एवं स्थिते-एतादृश्यां मर्यादा- याम् । अनया काममञ्जर्या । प्रजापतिविहितं विधिनिर्दिष्टम् । स्वधर्मं गणिकोचित- कर्त्तव्यम् । क्वचित् अपरिचिते । रूपमात्रं धनं यस्य तस्मिन्, यस्य सौन्दर्यमेव वर्त्तते न तु धनमिति भावः । विप्रयूनि ब्राह्मणयुवके । स्वेनैव धनव्ययेन कामम- ञ्जर्या एव धनव्ययेन । रममाणया विहरन्त्या । अत्यवाहि यापितम् । गम्य- जनः विटजनः भूयान् अधिकः । अर्थयोग्यः धनप्रदानसमर्थः प्रत्याचक्षा- णया जनः भूयान् अधिकः । अर्थयोग्यः धनप्रदानसमर्थः प्रत्याचक्षाणया प्रत्याख्यानं कुर्वत्या । अनया काममंजर्या । प्रकोपितः रोषितः । स्वकुटुम्बकं निजपरिवारवर्गः । अवसादितं—धनाभावादवसन्नीकृतम् , कष्टं प्रापितमिति भावः । एषा एतादृशी । कुमतिः कुत्सुद्विस्तवेति शेषः । कल्याणी शुभप्रदा । मयि काम- मञ्जर्या मातरि । वनवासाय अरण्यवासं कर्तुम् । कोपात् क्रोधमाश्रित्य । इयं काममञ्जरी । अहार्यनिश्चया अहार्यः हर्तुं निवारयितुमशक्यो निश्चयः प्रतिज्ञा यस्याः सा । दृढनिश्चयेत्यर्थः । एष जनः अस्मदादिः । अत्रैव भवत्पुरत एव । संस्थास्यते मरिष्यति । संस्थानं मरणं मतमिति वैजयन्ती । अरोदीत् विललाप, सा वृद्धा गणिकामातेति शेषः । (८) अथानन्तरं तेन पूर्वोक्तेन तापसेन मरीचिना सा वारयुवतिर्गणिका धर्मका अतिक्रमण करके किसी रूपमात्रके धनी परदेशी युवकपर रीझ करके अपना ही व्यय करती हुई एक महीनेका समय बिताया । इसी बीच कितने ही बड़े-बड़े धनी-मानी आये, जिसके साथ यह सुखसे रह सकती थी, किन्तु, इसने उनका तिरस्कार करके नाराज कर दिया । अपने कुटुम्बियोंको भी बहुत तकलीफ दी । जब मैंने ‘यह कुमति ठीक नहीं है' यों कह करके वैसा करनेसे रोका तो, मारे क्रोधके यह वनवासके लिए घरसे निकल पड़ी । सो यदि इसका यह दृढ़ निश्चय है तो, असहायभावसे सारा कुटुम्ब अनशन करता हुआ इसी जगह मर मिटेगा । (८) इसके बाद उन तपस्वीजीने उस वेश्यासे कहा—‘भद्रे ! वनवास दुःखकी

१३८ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF १३८ दशकुमारचरितम् । [ उत्तरपीठिकायां वासः । तस्य फलमपवर्गः स्वर्गो वा । प्रथमस्तु तयोः प्रकृष्टज्ञानसाध्य- प्रायो दुःसंपाद एव, द्वितीयस्तु सर्वस्यैव सुलभः कुलधर्मानुष्ठायिनः । तद- शक्यारम्भादुपरम्य मातुर्मते वर्तस्व' इति सानुकम्पमभिहिता 'यदीह भगवत्पादमूलमशरणम् , शरणमस्तु मम कृपणाया हिरण्यरेता देव एव इत्युदमनायत । ( ६ ) स तु मुनिरनुविमृश्य गणिकामातरमवदत् - 'संप्रति गच्छ गृहान् । प्रतीक्षस्व कानिचिद्दिनानि यावदियं सुकुमारा सुखोपभोगसमुचि- काममञ्जरीति यावत् । सानुकम्पं सदयमभिहितेति सम्बन्धः । दुःखाकरो दुःख- जनकः । तस्य वनवासस्य । अपवर्गो मोक्षः । प्रथमः अपवर्गः । तयोः अपवर्ग- स्वर्गयोः । प्रकृष्टज्ञानसाध्यो ब्रह्मज्ञानादिनिष्पाद्यः । प्रायो बाहुल्येन । दुःसंपादः अशक्यः । द्वितीयः स्वर्गः । कुलधर्मानुष्ठायिनः कुलधर्ममनुतिष्ठतीति कुलधर्मा- नुष्ठायी तस्य स्वजात्युचितकर्त्तव्यपरायणस्य सर्वस्येत्यनेन सम्बन्धः । तत् तस्मात् कारणात् । अशक्यारम्भात् असाध्यकर्मणः । उपरम्य निवृत्य मातुर्मते वर्त्तस्व— मातुरुपदेशं पालयेत्यर्थः । इह संसारे । भगवत्पादमूलं भगवतस्तव तापसस्येति शेषः पादमूलं चरणमूलम् । अशरणम् अरक्षकम् । ममेति शेषः । मम कामम- ञ्जर्याः । कृपणायाः दीनायाः । हिरण्यरेताः अग्निः । शरणमस्तु—अग्नौ प्रवेक्ष्यामीति भावः । उदमनायत उन्मना इव बभूव । ( ९ ) अनुविमृश्य विचिन्त्य विचार्य वा । सुखेति-सुखस्योपभोगे समुचिता खान है। इसका फल मोक्ष अथवा स्वर्ग ही हो सकता है । सो मोक्ष तो, अतिशय प्रखर ज्ञानसे ही साध्य हो सकता है और उसमें विविध प्रकारके क्लेश मिलते हैं । रही स्वर्गकी बात-सो वह अपने कुल-धर्मका अनुष्ठान करनेवाले सभी प्राणियोंके लिए सुलभ है । अत एव तुम ऐसे अशक्य उद्योगसे विरत हो करके अपनी माता की बात मानो।' इस प्रकार मुनिकी दयाभरी वाणी कहनेपर वेश्याने कहा- 'यदि यहाँ आपके चरणोंमें भी मुझे शरण नहीं मिलेगी, तब तो, मुझ अभागिनके लिए एक-मात्र अग्निदेव ही शरण होंगे।' यों कह करके वह विलखने लगी । ( ९ ) तदनन्तर कुछ विचार करके तपस्वीजीने वेश्याकी माता से कहा-'अब तुम घर जाओ और कुछ समय प्रतीक्षा करो । तबतक सब प्रकारके सुखोपभोगके लिए अभ्यस्त Nepal Sanskrit University, Balmeeki Campus, Kathmandu

संबन्धिनीभिः कथाभिरध्यात्मवादैश्चानुरूपैरल्पीयसैव कालेनान्वरञ्जयत् ।

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १३६ ता सत्यरण्यवासव्यसनेनोद्वेजिता भूयोभूयश्चास्माभिर्विबोध्यमाना प्रकृ- तावेव स्थास्यति' इति । (१०) 'तथा' इति तस्याः प्रतियाते स्वजने सा गणिका तमृषिमल- घुभक्तिर्धौतोद्गमनीयवासिनी नात्यादृतशरीरसंस्कारा वनतरुपोतालवाल- पूरणैर्देवतार्चनकुसुमोच्चयावचयप्रयत्नैर्नैकविकल्पोपहारकर्मभिः कामशास- नार्थे च गन्धमाल्यधूपदीपनृत्यगीतवाद्यादिभिः क्रियाभिरेकान्ते च त्रिवर्ग- संबन्धिनीभिः कथाभिरध्यात्मवादैश्चानुरूपैरल्पीयसैव कालेनान्वरञ्जयत् । अभ्यस्ता । अरण्यवासव्यसनेन वनवासजनितदुःखेन । उद्वेजिता व्याकुला । विबो- ध्यमाना उपदिश्यमाना । प्रकृतौ स्वभावे । (१०) तथा—तथाऽस्तु इति कथयित्वा । प्रतियाते प्रतिनिवृत्ते । अलघु- भक्तिः दृढभक्तिः । धौतेति-धौतं शुद्धं उद्गमनीयं उपस्थानयोग्यं वसनं वस्ते इति तद्वासिनी । उद्गमनीयं धौतवस्त्रयुगं वा । 'तस्मादुद्गमनीयं यद् धौतयोर्वस्त्र- योर्युगमि'त्यमरः । नात्याहृतेति-नात्यादृतः नाभिलषितः शरीरस्य संस्कारः परिकर्मादि यया सा । वनेति-वनतरुपोतानां वनस्थबालवृक्षाणामालवालस्य जलाधारवेष्टनस्य पूरणैर्जलेनेति शेषः । देवतेति-देवतानामर्चनार्थं यः कुसुमोच्चयः पुष्पराशिस्तस्यावचयः संग्रहस्तस्य प्रयासैः प्रयत्नैः । नैकेति-नैकेऽनेके विकल्पाः प्रकारा येषां तानि यान्युपहारकर्माणि बलिकर्माणि तैः । कामस्य शासनः कामशासनो महादेवस्तदर्थे तन्निमित्तम् । एकान्ते रहसि । त्रिवर्गसम्बन्धिनीभिः धर्मार्थकामविषयाभिः । अध्यात्मवादैः आत्मतत्त्वचिन्तनैः । अनुरूपैर्यो ग्यैः । अन्व- रञ्जयत् । सन्तोषयामास मुनिमिति शेषः । यह सुकुमारी वनवासके क्लेशसे ऊब करके और हम लोगोंके बार-बार समझाने से प्रकृतिस्थ हो जायगी । (१०) 'बहुत अच्छा' कह करके जब उस वेश्याके कुटुम्बी घर लौट गये, तब वह बड़ी श्रद्धाके साथ उन मुनिराजकी सेवा-शुश्रूषा करने लगी । वह धुले हुए केवल एक जोड़े कपड़े से अपना काम चलाती । शरीरको एक दम सँवारती-सिंगारती नहीं । तपोवनके छोटे-छोटे पौधोंके थालोंमें जल भरती । देवपूजनके निमित्त फूल जुटाती । विविध प्रकारके उपचार एकत्र करती । श्रीशिवजीके पूजनके निमित्त चन्दन, माला, धूप, दीपका जुगाड़ करती और नृत्य-गीत-वाद्य करके उन्हें प्रसन्न करती । कभी-कभी एकान्तमें अर्थ—धर्म—कामसे सम्बन्ध रखनेवाली अथवा अध्यात्मसे सम्बद्ध अनुरूप बातें करती थी । ऐसा करके उसने थोड़े ही समयमें उस मुनिका मन मोह लिया । १० द० कु० उ०

१४० दशकुमारचरितम् । [ उत्तरपीठिकायां

१४० दशकुमारचरितम् । [ उत्तरपीठिकायां (११) एकदा च रहसि रक्तं तमुपलक्ष्य मूढः खलु लोको यत्सह- धर्मेणार्थकामावपि गणयति' इति किंचिदस्मयत । 'कथय वासु, केनांशेना- र्थकामातिशायी धर्मस्तवभिप्रेतः' इति प्रेरिता मरीचिना लज्जामन्थरमार- भताभिधातुम् - 'इतः किल जनाद्भगवतस्त्रिवर्गबलाबलज्ञानम् । अथवैतदपि प्रकारान्तरं दासजनानुग्रहस्य । भवतु, श्रूयताम् । (१२) ननु धर्मादृतेऽर्थकामयोरनुत्पत्तिरेव । तदनपेक्ष एव धर्मो निवृत्तिसुखप्रसूतिहेतुरात्मसमाधानमात्रसाध्यश्च । सोऽर्थकामवद्वाह्यसाध- (११) रक्तमनुरक्तम् । तम् मरीचिम् । मूढः अज्ञः । धर्मेण सहार्थकामा- वपि गणयति धर्मेण सहार्थकामयोर्गणना नोचितेति भावः । अस्मयत-स्मितम- करोत् । वासु बाले । सम्बोधनमेतत् । केनांशेन कया विधया । अर्थकामौ अति- शेते श्रेष्ठत्वेनोल्लंध्य वर्त्तत इति तथा । अभिप्रेतः इष्टः । इति एवं प्रकारेण । प्रेरिता अनुयुक्ता पृष्टेति यावत् । लज्जामन्थरं सत्रीडमन्दम् । क्रियाविशेषण- मिदम् । इतो जनात्-अस्मान्मल्लक्षणाज्जनात् । मत्त इति यावत् । भगवत- स्तव । त्रिवर्गेति-त्रिवर्गस्य धर्मार्थकामानां बलाबलयोरुत्कर्षापकर्षयोर्ज्ञानम् । मादृशजनाद् भवादृशमहर्षेस्त्रिवर्गबलाबलज्ञानमसम्भवमेव । तथापि यद्भवता जिज्ञा- सितं तदपि मयि भवतोऽनुग्रहस्य चिह्नमिति भावः । भवतु-यथा वाऽस्तु । (१२) धर्मादृते-धर्मेण विना । अनुत्पत्तिरभावः । तदनपेक्षः अर्थकामनिर- पेक्षः । निवृत्तिसुखप्रसूतिहेतुः निवृत्या यत् सुखं तस्य प्रसूतेरुत्पत्तेः हेतुः कार०म् मोक्षसुखनिदानम् । आत्मेति-आत्मनः स्वस्य समाधानमात्रेणैकाग्रयेण (११) एक दिन एकान्तमें मुनिको अपने पर आसक्त देख करके उस वेश्याने सोचा-'यह संसार कितना मूर्ख है कि, जो धर्मके साथ-साथ अर्थ और कामकी भी गणना करता है।' ऐसा विचार आने पर उसे कुछ विस्मय भी हुआ। इसी समय महर्षि मरीचिने कहा-'हे बाले ? अर्थ और कामसे भी बढ़ करके धर्मको तुमने क्यों करके माना ?' तब वह लज्जावश धीरे-धीरे बोली-'इस दासीकी अपेक्षा आपको त्रिवर्ग (अर्थ-धर्म-काम) का बलाबल ज्ञान अधिक है। अथवा यह भी अपने सेवकों पर कृपा करनेका एक प्रकारान्तर है। अच्छा सुनिए । (१२) धर्मके विना अर्थ और कामकी उत्पत्ति ही नहीं हो पाती। इसलिए कहा जा सकता है कि, धर्म काम और अर्थकी अपेक्षा नहीं करता, यह धर्म ही निवृत्ति सुखकी उत्पत्तिका मूल कारण है और चित्तकी एकाग्रता मात्रसे यह सिद्ध हो जाता है Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १४१ नेषु नात्यायतते । तत्त्वदर्शनोपबृंहितश्च यथाकथंचिदप्यनुष्ठीयमानाभ्यां नार्थकामाभ्यां बाध्यते । बाधितोऽपि चाल्पायासप्रतिसमाहितस्तमपि दोषं निर्हृत्य श्रेयसेऽनल्पाय कल्पते । ( १३ ) तथाहि पितामहस्य तिलोत्तमाभिलाषः, भवानीपतेर्मुनिपत्नी- सहस्रसंदूषणम् , पद्मनाभस्य षोडशसहस्रान्तःपुरविहारः, प्रजापतेः स्वदुहितर्यपि प्रणयप्रवृत्तिः, शचीपतेरहल्याजारता, शशाङ्कस्य गुरुतल्प- गमनम् , अंशुमालिनो वडवालङ्घनम् , अनिलस्य केसरिकलत्रसमागमः, साध्यः सम्पाद्यः । सः धर्मः । बाह्यसाधनेषु लोकव्यवहारेषु । अत्यायतते आयत्तो भवतीत्यर्थः । तत्त्वदर्शनेन यथार्थविचारेण उपबृंहितो वर्द्धितो धर्मः कथंचिदपि—केनापि प्रकारेण । अनुष्ठीयमानाभ्यां सेव्यमानाभ्याम् । बाध्यते प्रतिहन्यते । अल्पायासेन स्वल्पप्रयत्नेन प्रतिसमाहितः समाधानं प्रापितः । निर्हृत्य दूरीकृत्य । अनल्पाय श्रेयसे मोक्षाय । कल्पते समर्थो भवति । ( १३ ) तथाहि—यथा ब्रह्मादयो देवा अर्थकामाभ्यां प्रतिहतेऽपि धर्मे पुनर- प्यल्पायासेन तं दोषं परिहृत्य निरतिशयसुखं लब्धवन्तस्तदेवोदाहरणमुखेन प्रद्- र्श्यत इत्यर्थः । पितामहस्य ब्रह्मणः । तिलोत्तमा काचिदप्सराः । भवानीपतेः शिवस्य । संदूषणमुपभोगः । पद्मनाभस्य श्रीकृष्णस्य । अन्तःपुरं स्त्रीवर्गः । प्रजापतेः विधातुः । स्वदुहितरि निजकन्यायाम् । शचीपतेरिन्द्रस्य । शशाङ्कस्य चन्द्रस्य । गुरुतल्पगमनं बृहस्पतिपत्नीधर्षणम् । 'तल्पं शय्यादृद्दारेष्वि'ति कोषः । अंशुमालिनः सूर्यस्य । वडवा अश्वी । अनिलस्य वायोः । केसरिकलत्रेति-केस- रिणस्तन्नामकवानरस्य कलत्रं स्त्री अञ्जनी नाम्नी तया सह समागमः सङ्गमः । धर्म, अर्थ और कामकी तरह बाह्य साधनोंके अधीन नहीं रहता । तत्त्वज्ञानसे उत्कर्षको प्राप्त धर्म किसी भी तरह यदि अर्थ और कामका अनुष्ठान करनेपर भी उनसे बाधित हो भी जाय तो, यह तनिकसे प्रयाससे समाहित हो करके उस दोषको भी नष्ट करके विपुल श्रेयका कारण बन जाता है । ( १३ ) और फिर पितामहका तिलोत्तमापर मोहित होना, शिवजीका हजारों मुनि- पत्नियोंका धर्म बिगाड़ना, श्रीकृष्णका सोलह हजार स्त्रियोंके अन्तःपुरमें विहार करना, प्रजापतिका अपनी कन्यापर बुरी दृष्टि करना, इन्द्रका अहल्याके साथ दुराचार करना, चन्द्रमाका गुरुपत्नीको दूषित करना, सूर्यका वडवा (घोड़ी) का धर दबोचना, वायुका केसरी वन्दरकी पत्नीसे समागम करना, बृहस्पतिका उतथ्यकी पत्नीसे अभिसार करना. Nepal Sanskrit University, Balmeeki Campus, Kathmandu

बृहस्पतेरुतथ्यभार्याभिसरणम्, पराशरस्य दाशकन्यादूषणम्, पाराशर्यस्य भ्रातृदारसङ्गतिः, अत्रेर्मृगीसमागम इति । (१४) अमराणां च तेषु तेषु कार्येष्व्ऽासुरविप्रलम्भनानि ज्ञानबलान्न धर्मपीडामावहन्ति । धर्मपूते च मनसि नभसीव न जातु रजोऽनुषज्यते । तन्मन्ये नार्थकामौ धर्मस्य शततमीमपि कलां स्पृशतः इति । (१५) श्रुत्वैतदृषिरुदीर्णरागवृत्तिरभ्यधात्—'अयि विलासिनि, साधु पश्यसि न धर्मस्तत्त्वदर्शिनां विषयोपभोगेनोपरुध्यत इति । किंतु जन्मनः उतथ्यो नाम बृहस्पतेरग्रजः । पराशरस्य व्यासपितुः । दाशकन्या कैवर्त्तदुहिता योजनगन्धेति प्रसिद्धा । पाराशर्यस्य व्यासस्य । पराशरस्यापत्यं पुमानिति गर्गा- दिभ्यो यञ् । तस्य भ्राता विचित्रवीर्यस्तस्य दारेषु पत्नीषु संगतिः समागमः । अत्रेस्तदाख्यमहर्षेः । (१४) अमराणां देवानाम् । आसुरविप्रलम्भनानि अकृत्याचरणानि । ज्ञान- बलाद् ज्ञानोत्कर्षात् । धर्मपीडां धर्मबाधाम् । आवहन्ति जनयन्ति । नभसि आकाशे । जातु कदाचित् । रजो रजोगुणः धूलिश्च । अनुषज्यते सम्बध्यते । तन्मन्य इत्यादि-अर्थकामौ धर्मस्य शततमांशेनापि समानौ न भवितुमर्हत इति मां प्रतिभातीत्यर्थः । (१५) एतत्-काममञ्जर्युक्तम् । ऋषिमरीचिः । उदीर्णा उद्रिक्ता वृद्धिं गतेति यावत् । रागवृत्तिरनुरागव्यापारः कामाभिलाष इति वा यस्यासौ । अभ्यधात् कथया- मास । अयि विलासिनीति सम्बोधनेन स्वानुरागप्रकटनम् । साधु सम्यक् । पश्यसि विचारयसि । तत्त्वदर्शिनां तत्त्वसाक्षात्कारवताम् । उपरुध्यते क्षीयते । जन्मनः प्रभृति-आजन्म । अर्थकामवार्त्तानभिज्ञाः अर्थकामयोर्नामापि न जानीम इति महर्षि पराशरका धीवरकी कन्याके साथ दुराचार करना, व्यासदेवका अपने भाईकी स्त्रियोंके साथ समागम करना और अत्रिभगवानका मृगीके साथ संभोग करना आदि । (१४) इस प्रकार देवताओंके दुराचार भी ज्ञानबलसे युक्त पुरुषोंको नहीं सताते । धर्मसे पुनीत मनमें रजोगुणका समावेश उसी तरह नहीं हो पाता जैसे आकाशमें धूल नहीं रुकती । अत एव मेरा तो, विश्वास है कि, अर्थ और काम धर्मकी सौवीं कलाको भी नहीं पहुँच सकते । (१५) इन बातोंको सुन करके मुनिराजकी इच्छाशक्ति प्रबल हो उठी और उन्होंने कहा-'ओ विलासिनि ! तुम्हारा कथन यथार्थ है । यह सच है कि, तत्त्व- ज्ञानी पुरुषोंका धर्म विषय-भोगसे नष्ट नहीं होता । लेकिन, जन्मसे लेकर आजतक

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १४३ प्रभृत्यर्थकामवार्तानभिज्ञा वयम् । ज्ञेयौ चेमौ किंरूपौ किंपरिवारौ किंफलौ च' इति । ( १६ ) सा त्ववादीत् —'अर्थस्तावदर्जनवर्धनरक्षणत्मकः, कृषिपाशु- पाल्यवाणिज्यसन्धिविग्रहादिपरिवारः, तीर्थप्रतिपादनफलश्च । कामस्तु विषयातिसक्तचेतसोः स्त्रीपुंसयोनिरतिशयसुखस्पर्शविशेषः । परिवार- स्त्वस्य यावदिह रम्यमुज्ज्वलं च । फलं पुनः परमाह्लादनम् , परस्पर- भावः । ज्ञेयौ-ज्ञातव्यौ । इमौ-अर्थकामौ । किंरूपौ कीदृशस्वरूपौ । किंपरिवारौ- अनयोरङ्गभूतानि कानीत्यर्थः । केन प्रकारेणेमौ साध्याविति भावः । किंफलौ- अनयोः परिणामः कीदृश इत्यर्थः । ( १६ ) सा-काममञ्जरी । अर्जनेति-अर्जनमुपार्जनं सम्पादनमिति यावत् । वर्धनं उपचयः । रक्षणं चौरादिभ्यः पालनमेतत्स्वरूपोऽर्थ इति । कृषीति- कृषिः कर्षणं पाशुपाल्यं गवादिपशुपालनम् वाणिज्यं वणिक्कर्म क्रयविक्रयादि, सन्धिविग्रहौ राजनीत्युक्तौ एते परिवाराः परिकराः साधनानीति यावद् यस्य सः । तीर्थेति-तीर्थे सत्पात्रे प्रतिपादनं दानं फलं परिणामो यस्य सः । विषयेति- विषयेषु स्रक्चन्दनाद्युपभोग्यपदार्थेषु अतिसक्तम् अत्यन्तलग्नं चेतो मानसं ययो- स्तथाविधयोः । स्त्री च पुमांश्चेति स्त्रीपुंसौ । 'अचतुर' इत्यादिना निपातात् । निरतिशयेति-श्रेष्ठसुखसाक्षात्कारस्वरूपः आलिङ्गनादिरूप इत्यर्थः । अस्य कामस्य । यावत् साकल्येन । इह संसारे । रम्यं मनोहरमुज्ज्वलमुत्कृष्टञ्च । संसारे यावन्तो रमणीया उत्कृष्टाश्च पदार्थाः सन्ति सर्व एव ते कामस्य परिवारा इति भावः । परमाह्लादनं उत्कृष्टानन्दजनकम् । परस्परविमर्दजन्म-अन्योन्यालिङ्गनादिजन्यम् । हमलोग अर्थ और कामकी बातोंसे अनभिज्ञ रहते आये हैं । इसलिए यह जानना आवश्यक है कि, इनका क्या स्वरूप है, इनके कौन-कौनसे परिवार हैं और इनका क्या फल है?' ( १६ ) उस वेश्याने कहा—'अर्जन ( संचय ) वर्धन ( व्यापार आदिके द्वारा उसे बढ़ाना ) और उसे नष्ट होनेसे बचाना ही अर्थका तत्त्व है । कृषि ( खेती ), पशुपालन, व्यापार, सन्धि और विग्रह, ये ही अर्थके परिवार हैं । सत्पुरुषोंको दान देना ही अर्थका फल है । स्त्री-पुरुष वासनावश परस्पर अत्यन्त आसक्त चित्तसे जिसमें स्पर्श-सुखका अनुभव करते हैं, उसे काम कहते हैं । रमणीयता और उज्ज्वलता ही इसके परिवार हैं । इस कामका फल परमानन्द है । वह आनन्द स्त्री-पुरुषके

१४४ दशकुमारचरितम् । [ उत्तरपीठिकायां

१४४ दशकुमारचरितम् । [ उत्तरपीठिकायां विमर्दजन्म, स्मर्यमाणमधुरम् , उदीरिताभिमानमनुत्तमम् , सुखमपरोक्षं स्वसंवेद्यमेव । तस्यैव कृते विशिष्टस्थानवर्तिनः कष्टानि तपांसि, महान्ति दानानि, दारुणानि युद्धानि, भीमानि समुद्रलङ्घनादीनि च नराः समाच- रन्ति' इति । ( १७ ) निशम्यैतन्नियतिबलान्नु तत्पाटवान्नु स्वबुद्धिमान्यान्नु स्व- नियममनादृत्य तस्यामसौ प्रासजत् । सा सुदूरं मूढात्मानं च तं प्रवहणेन नीत्वा पुरमुदारशोभया राजवीथ्या स्वभवनमनैषीत् । अभूच्च घोषणा स्मर्यमाणमपि मधुरं—यस्य स्मरणेऽपि माधुर्यं का कथा तस्य साक्षादनुभवे इति भावः । उदीरिताभिमानम्-उद्दीपिताहङ्कारम् । अनुत्तमं श्रेष्ठम् । न विद्यते उत्तमं यस्मात्तदिति विग्रहः । अपरोक्षं—प्रत्यक्षम् । स्वसंवेद्यं स्वयमेवानुभवनीयं नत्वन्यवाक्येनेति शेषः । सर्वमेतत् सुखमित्यस्य विशेषणम् । तस्यैव-सुखस्यैव । कृते निमित्तम् । विशिष्टस्थानवर्त्तिनः-प्रसिद्धतीर्थादिचेत्रवासिनः । नरा इत्यस्य विशेषणम् । दारुणानि भयानकानि । भीमानि भयंकराणि । समाचरन्ति-कुर्वन्ति । ( १७ ) निशम्य-श्रुत्वा । एतत्-काममंजरीवाक्यम् । नियतिबलात्-दैवप्रभा- वात् । तत्पाटवात्-तस्याः काममंजर्याः पाटवाच्चातुर्यात् । स्वस्य मरीचेरित्यर्थः । बुद्धिमान्यात्-मतिदौर्बल्यात् । सर्वत्र नु वितर्के । स्वनियमं-मुनिजनोचित-तपश्च- रणादिकम् । अनादृत्य-परित्यज्य । तस्यां गणिकायाम् । असौ-मरीचिः । प्रासजत् आसक्तोऽभवत् । सा-काममञ्जरी अनैषीदित्यस्य कर्तृपदम् । सुदूरं अतिदूरवर्त्ति । पुरमित्यस्य विशेषणम् । मूढात्मानं-मुग्धचित्तम् । तं-मरीचिम् । प्रवहणेन यानविशेषेण । नीत्वेत्यस्य दुहादित्वात् तं पुरञ्चेति कर्मद्वयम् । उदार- शोभया-प्रशस्तसौन्दर्यंशालिन्या । राजवीथ्या-राजमार्गेण । स्वभवनं काममंजरी- परस्पर आलिंगन-चुम्बन आदिसे उत्पन्न होता है । स्मरण करने में यह बड़ा ही मधुर लगता है । यह अभिमानको प्रोत्साहन देता है और आनन्दसे उत्तम वस्तु और कोई है ही नहीं । यह प्रत्यक्ष सुख अनुभवगम्य है । इसीके निमित्त स्थान विशेष में रहनेवाले लोग तरह-तरहके कष्ट सहते, तप करते, बड़े बड़े दान देते, भयानक युद्ध करते और विकराल समुद्र लाँघने आदिका दुष्कर कर्म करते हैं । ( १७ ) उसके ये वचन सुन करके दैवबलसे, उस वेश्याके कौशलसे अथवा बुद्धि मन्द पड़ जानेके कारण उन मुनिराजने अपने नियमोंको त्याग दिया और काममंजरीमें आसक्त हो गये । तदनन्तर उन मूढात्मा मुनिको कर्णीरथपर बिठा करके उत्कृष्ट शोभा- सम्पन्न राजवीथीसे चल करके अपने नगरके भवनमें ले गयी उसी दिन राजदरबारमें Nepal Sanskrit University, Balmeeki Campus, Kathmandu

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १४५

‘श्वः कामोत्सवः’ इति । उत्तरेद्युः स्नातानुलिप्तमारचितमञ्जुमालमारब्ध- कामिजनवृत्तं निवृत्तस्ववृत्ताभिलाषं क्षणमात्रे गतेऽपि तया विना दूय- मानं तमृद्धिमता राजमार्गेणोत्सवसमाजं नीत्वा क्वचिदुपवनोद्देशे युवति- जनशतपरिवृतस्य राज्ञः संनिधौ समासद् त् स्मितमुखेन तेन ‘भद्रे’ भग- वता सह निषीद’ इत्यादिष्टा सविभ्रमं कृतप्रणामा सस्मितं न्यषीदत् । (१८) तत्र काचिदुत्थाय बद्धाञ्जलिरुत्तमाङ्गना ‘देव, जितानया- हम् । अस्यै दास्यमद्यप्रभृत्यभ्युपेतं मया’ इति प्रभुं प्राणंसीत् । विस्मय-

गृह्ण । घोषणा डिण्डिमादिना प्रचारः । श्वः—आगामिदिने । उत्तरेद्युः—परदिने । स्नातानुलिप्तं आदौ स्नातः पश्चादनुलिप्तस्तम् । स्नानानन्तरं चन्दनादिना लिप्तसर्वाङ्गमित्यर्थः । आरचिता परिहिता मञ्जुर्मनोहरा माला येन तम् । आरब्धं प्रक्रान्तं कामिजनस्य विलासिनो वृत्तम्याचरणं येन । कामुकवद्व्यवहरन्तमित्यर्थः । निवृत्तोऽपगतः स्ववृत्तस्य निजाचारस्य तपोनुष्ठानरूपस्याभिलाषो यस्य तम् । क्षणमात्रे मुहूर्त्तमात्रे । तया काममञ्जर्या । दूयमानं-दुःखमनुभवन्तम् । तस्या दर्शनं विना क्षणमात्रमपि स्थातुमपारयन्तमित्यर्थः । एतानि तमित्यस्य विशेषणानि । तं मरीचिम् । ऋद्धिमता—समृद्धेन । उत्सवसमाजं क्रीडासभाम् । युवतिजनेति— तरुणगणिकागणवेष्टितस्य । राज्ञः—चम्पापतेः सिंहवर्मणः । समासद्त् आगतवती । तेन राज्ञा । भगवता मुनिना । निषीद—उपविश । आदिष्टा अनुमता । सविभ्रमं— सविलासम् । (१८) तत्र उत्सवसमाजे । काचिद् अनिर्दिष्टनाम्नी । देव-राजन् । अनया- काममञ्जर्या । अस्यै-एतदर्थम् । काममञ्जर्या इत्यर्थः । दास्यं—दासीत्वम् । अभ्यु-

घोषणा हुई कि, कल कामोत्सव मनाया जायगा ।' दूसरे दिन महर्षि मरीचिने स्नान करके सुगन्धित तेल लगाया । सुन्दर माला पहनी । इस तरह कामी पुरुषों जैसा वानक बनाया । उस समय वे अपने पूर्ववृत्त (ऋषिजीवन) को एकदम भूल गये । क्षणमात्रके लिए भी काममंजरीका वियोग होनेसे वे विह्वल हो उठते थे । इसी समय वह वेश्या समृद्धिसम्पन्न राजमार्ग से चल करके उनको, सैकड़ों युवतियोंसे आवेष्टित महाराजके पास किसी उपवनमें विद्यमान, राजदरवारमें ले गयी । राजा काममंजरीको देख करके मुसकराये और उन्होंने कहा—'भद्रे ! भगवान् मरीचिके साथ बैठो' महाराजकी यह आशा पा करके उसने भावभंगीके साथ प्रणाम किया और मन्द-मन्द मुसकाती हुई बैठ गयी । (१८) इसी समय एक उत्तम श्रेणीकी स्त्री हाथ-जोड़ करके उठ खड़ी हुई और बोली—'देव ! इसने मुझे जीत लिया । आजसे मैं इसको दासी हो गयी ।' यह कह

१४६ दशकुमारचरितम्। [ उत्तरपीठिकायां

१४६ दशकुमारचरितम्। [ उत्तरपीठिकायां हर्षमूलश्च कोलाहलो लोकस्योदजिहीत। हृष्टेन च राज्ञा महार्है रत्ना- लंकारैरर्हता च परिबर्हेणानुगृह्य विसृष्टा वारमुख्याभिः पौरमुख्यैश्च गणशः प्रशस्यमाना स्वभवनमगत्वाैव तमृषिमभाषत- 'भगवन्, अयमञ्जलिः, चिरमनुगृहीतोऽयं दासजनः, स्वार्थ इदानीमनुष्ठेयः' इति। ( १६ ) स तु रागादशनिहत इवोद्भ्राम्याब्रवीत्-'प्रिये, किमेतत्। कुत इदमौदासीन्यम्। क्व गतस्तव मय्यसाधारणोऽनुरागः' इति। अथ सा सस्मितमवादीत्-भगवन्, ययाद्य राजकुले मत्तः पराजयोऽभ्युपेत- पेतम्-अङ्गीकृतम्। प्रशुं-राजानम्। प्राणं सीत्-प्रणनाम। विस्मयेति-विस्मय- श्चमत्कारो हर्ष आनन्दश्चेति विस्मयहर्षौ मूलं यस्य स तथा। लोकस्य-तत्रस्थ- जनसमूहस्य। उदजिहीत-उत्थितोऽभवत्। ओहाङ्गतौवित्यस्य लङि रूपम्। महार्है- र्बहुमूल्यैः। परिबर्हेण राजोचितपरिच्छदेन, हस्त्यश्वादिभिरित्यर्थः। अनुगृह्य-परि- तोष्य काममञ्जरीमिति शेषः। विसृष्टा-गमनायानुज्ञाता। वारमुख्याभिः-श्रेष्ठवारा- ङ्गनाभिः। पौरमुख्यैः नागरिकप्रधानैः। गणशः-संघशः। प्रशस्यमाना। अभिनन्द्य- माना काममञ्जरीति शेषः। अयमञ्जलिः-प्रणमामीति भावः। अयं दासजनः- अहमित्यर्थः। स्वार्थः-स्वकीयप्रयोजनम् अनुष्ठेयः-अनुष्ठीयताम्। (१९) स महर्षिः। रागाद् अनुरागात्। अशनिहतो वज्राहतः। उद्भ्रम्य उद्भ्रान्तो भूत्वा। कुतः-कस्माद्धेतोः। औदासीन्यं-विरागः। सा काममञ्जरी। यया-गणिकया। राजकुले-राजसकाशे। मत्तः मम सकाशात्। संघर्षे-विवादे। आवर्जितवतीव-वशीकृतवतीव। श्लाघसे-स्वगौरवं प्रकटयसि। अधिक्षिप्ता- तिरस्कृता। दास्यमेव पणस्तस्य बन्धो दृढनियमस्तेन। यद्यहं मरीचिमावर्जयितुं शक्नुयां तदा त्वं मे दासी भविष्यसि, अन्यथाऽहं तव दासी भविष्यामीति पणस्य करके उसने राजाको प्रणाम किया। इसपर राज-दरबारमें आश्चर्य और हर्षभरा कोलाहल होने लगा। महाराजने प्रसन्न हो करके बेशकीमती रत्नजटित अलङ्कार, अच्छे-अच्छे वस्त्र दे करके काममंजरीको विदा किया। तब झुण्डके झुण्ड वेश्याओं और पुरवासियोंने उसकी प्रशंसा की। अपने घर पहुंचनेके पहले ही काममंजरीने मरीचि से कहा-'भगवन् ! मैं हाथ जोड़ती हूँ। आपने इस दासीपर बड़ी कृपा की। अब जा करके अपना काम करिये।' ( १९) प्रेमातिरेकके कारण अपनी प्रियाके कठोर वचन सुन करके महर्षि इस तरह तिलमिला उठे जैसे उन पर वज्र गिर पड़ा हो। उन्होंने कहा 'प्रिये ! यह क्या? ऐसी उदासीनता तुममें क्यों आ गयी? मुझपर तुम्हारा जो असाधारण अनुराग था, वह कहाँ

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १४७ स्तस्याश्च मम च कस्मिंश्चित्संघर्षे 'मरीचिमावर्जितवतीव श्लाघसे' इति तयाऽस्म्यहमधिक्षिप्ता । दास्यपणबन्धेन चास्मिन्नर्थे प्रावर्तिषि । सिद्धार्था चास्मि त्वत्प्रसादात्' इति । स तया तथावधूतो दुर्मतिः कृतानुशयः शून्यव- न्न्यवर्तिष्ट । यस्तयैवं कृतस्तपस्वी तमेव मां महाभाग, मन्यस्व । स्व- शक्तिनिषिक्तं रागममुद्धृत्य तयैव बन्धक्या महद्वैराग्यमर्पितम् । अचिरा- देव शक्य आत्मा त्वदर्थसाधनक्षमः कर्तुम् । अस्यामेव तावद्वसाङ्गपुर्यां चम्पायाम्' इति । (२०) अथ तन्मनश्च्युततमःस्पर्शभियेवास्तं रविरगात् । ऋषिमु- स्वरूपम् । अर्थे-विषये-भवदावर्जनरूपे इत्यर्थः । प्रावर्त्तिषि-प्रवृत्ता । सिद्धार्था- कृतकृत्या । सः-मरीचिः । तया-काममञ्जर्या । तथा-तेन प्रकारेण अवधूतः- तिरस्कृतः । कृतानुशयः-कथमहमनया वञ्चित इति कृतपश्चात्तापः । शून्यवत्- शून्यहृदय इव । न्यवर्त्तिष्ट-स्वस्थानं प्रति परावृत्तोऽभवत् । यस्तपस्वी-अहमि- त्यर्थः । तया-काममञ्जर्या । एवं कृतः-पापे निमज्जितः तमेव-मरीचिमेव । मन्य- स्व-जानीहि । महाभागेति सम्बोधनमपहारवर्मणः । स्वशक्तिनिषिक्त-निजसाम- र्थ्यनिःक्षिप्तम्-काममञ्जर्या स्वयमेव जनितमित्यर्थः । रागम्-अनुरागम् । उद्धृ- त्य-उत्पाट्य । बन्धक्या-कुलटया । महद्वैराग्यमर्पितं-रागस्थाने वैराग्यं स्थापि- तम् । त्वदर्थेति । तवापहारवर्मणोऽर्थस्य प्रयोजनस्य सुहृद्गतिनिर्णयरूपस्य साधने सम्पादने क्षमः समर्थः । अल्पेनैव कालेन पुनरहं पूर्वशक्तिसम्पन्नो भविष्या- मीत्यर्थः । वस-तिष्ठ प्रतिपालयेति यावत् । (२०) अथेति-तस्य मरीचेर्मनसो मानसाच्च्युतं गलितं यत्तमोऽज्ञानरूपं चला गया ?' तब उसने मुसकाकर कहा-'भगवन् ? जिस स्त्रीने राज-दरबारमें अपनी पराजय मानी है, उसके साथ किसी समय मेरा संघर्ष हो गया। उस समय उसने ताना दे करके कहा था-'ओ हो ! तुम तो, इतनी हेकड़ी दिखाती हो, मानो तुमने महर्षि मरीचिको मोहित कर लिया है।' अन्तमें जब उसने मेरी दासी होनेकी शर्त मान ली, तब मैं इस काम- (आपको मोहित करनेके काम) में प्रवृत्त हुई । और आपकी कृपासे मनोरथ भी सिद्ध हो गया ।' उसके द्वारा इस प्रकार तिरस्कृत हो करके दुर्गति मरीचि बहुत पछताये और शून्य मनसे आश्रमपर लौट आये । इस तरह जिस तपस्वीकी छीछालेदर हुई थी, हे महाभाग ! वह मैं ही हूँ। उस कुलटाने अपने अर्पित अनुरागको दूर करके मुझे असाधारण वैराग्य प्रदान किया है। शीघ्र ही मेरी आत्मा आपका कार्य- साधन करनेको समर्थ हो जायगी । तबतक आप इसी अङ्गपुरीमें निवास करिये । (२०) इसी समय जैसे उस तपस्वीके मनसे निःसृत अज्ञानान्धकारके स्पर्शभयसे

१४८ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF १४८ दशकुमारचरितम् । [ उत्तरपीठिकायां

क्तश्च रागः संध्यात्वेनास्फुरत् । तत्कथादत्तवैराग्याणीव कमलवनानि सम- कुचन् । अनुमतमुनिशासनस्त्वहममुनैव सहोपास्य संव्यामनुरूपाभिः कथाभिस्तमनुशय्य नीतरात्रिः प्रत्युन्मिषत्युदयप्रस्थदावकल्पे कल्पद्रुम- किसलयावधीरिण्यरुणार्चिषि तं नमस्कृत्य नगरायोदचलम् । ( २१ ) अदर्श च मार्गाभ्याशवर्तिनः कस्यापि क्षपणकविहारस्य बहिर्विविक्ते रक्ताशोकखण्डे निषण्णमस्पृष्टसमाधिमाधिक्षीणमग्रगण्यमन- तस्य स्पर्शभिया संपर्कभयेनेवेत्युत्प्रेक्षा । रवितमसोर्वैरं प्रसिद्धमेव । ऋषिणा मरीचिना मुक्तस्त्यक्तो रागो गणिकाविषयकः सन्ध्यात्वेन सन्ध्यारुपेणास्फुरत प्रकटीबभूव । तत्कथेति—तस्य मरीचेः कथया वार्त्तया दत्तं वैराग्यं येभ्यस्तानि । समकुचन्—संकुचितानि बभूवुः । कमलवनानां संकोचे तत्कथादत्तवैराग्यमेव कारणत्वेनोत्प्रेक्षितम् । अनुमतमङ्गीकृतं मुनेर्मरीचेः शासनमादेशो येन स तथा । अमुना-मुनिना । अनुरूपाभिः तत्कालोयोग्याभिः । तमनुशय्य तेन मुनिना सह शयित्वा । नीतरात्रिः-यापितनिशः । प्रत्युन्मिषति-प्रकाशमाने । उदयति सतीत्यर्थः। उदयेति-उदयः उदयपर्वतस्तस्य प्रस्थः-सानु तस्मिन् । दावकल्पे वनाग्निसदृशे । कल्पद्रुमेति-कल्पद्रुमस्य कल्पवृक्षस्य किसलयानि पल्लवानि अवधीरयति तिरस्क- रोतीति तस्मिन् । कल्पद्रुमपल्लवापेक्षयाधिकरक्तवर्णे इत्यर्थः । अरुणाचिषि— अरुणा रक्तवर्णा अर्चिषो यस्य तस्मिन्-सूर्ये इत्यर्थः । तं-मुनिं नगराय नगरं गन्तुम् । उदचलं प्रस्थितोऽभवम् । (२१) मार्गाभ्यासवर्तिनः-पथिपार्श्वस्थितस्य । क्षपणकविहारस्य-बौद्धमन्दि- रस्य । विविक्ते-निर्जने पवित्रे वा । रक्ताशोकखण्डे-रक्तवर्णाशोकतककदम्बे । निषण्णमुपविष्टम् । अस्पृष्टेति-अस्पृष्टोऽलब्धः समाधियोगो येन तं ध्यानशून्य- सूर्य भगवान अस्त हो गये । उन्हीं महर्षिसे परित्यक्त अनुराग संध्याके रूपमें परिणत हो गया । उनकी बातोंसे जैसे वैराग्य प्राप्त करके कमलवन संकुचित हो गया । तदनन्तर उन्हीं मुनिराजकी अनुमतिसे मैंने उनके साथ संध्या की । रातको उनके साथ ही सोया और तरह-तरहकी बातें करते हुए वह रात बितायी। सबेरे जब दावानलके सदृश तथा कल्पवृक्षकी कोंपलों को नीचा दिखाने वाली अरुण किरणें उदयाचलपर उदित हुईं, तब मैंने उनको प्रणाम किया और नगरकी ओर चल पड़ा । ( २१ ) एक स्थानपर मैंने मार्गके किनारे ही विद्यमान बौद्ध विहारके बाहर रक्त अशोक वनमें बैठे नियमहीन, मानसी पीड़ासे दुर्बल, कुरूप पुरुषोंके अग्रणी एवं अतिदीन

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १४६ भिरूपाणां कृपणवर्णं कमपि क्षपणकम् । उरसि चास्य शिथिलितमलनि- चयान्मुखान्निपततोऽश्रुबिन्दूनलक्षयम् । अप्राक्षं चान्तिकोपविष्टः—‘क्व तपः, क्व च रुदितम् । न चेद्रहस्यमिच्छामि श्रोतुं शोकहेतुम्’ इति । ( २२ ) सोऽब्रूत्—‘सौम्य, श्रूयताम् । अहमस्यामेव चम्पायां निधि- पालितनाम्नः श्रेष्ठिनो ज्येष्ठसूनुर्वसुपालितो नाम । वैरूप्यान्मम विरूपक इति प्रसिद्धिरासीत् । अन्यश्चात्र सुन्दरक इति यथार्थनामा कलागुणैः मित्यर्थः। आधिक्षीणं मनोव्यथाभिः कृशम् । अग्रगण्यं श्रेष्ठम् । अनभिरूपाणां कुरूपाणाम् । कृपणवर्णं दीनवर्णं विषण्णमिति यावत् । उरसि-वक्षसि । अस्य- क्षपणकस्य । शिथिलितेति शिथिलितो धारापातेन विध्वंसितो मलनिचयो मल- राशयैंस्तानिति अश्रुबिन्दुविशेषणम् । शिथिलितो मलनिचयो यत्र तस्मादिति विग्रहे तु मुखादित्यस्य विशेषणमपि भवितुमर्हति न तन्मनोरमम् । अलक्षयम् अपश्यम् । अप्राक्षम्-पृष्टवानस्मि । क्व तप इति-अत्र क्व द्वयं तपोरुदितयोरसा- मानाधिकरण्यं सूचयति । रहस्यं-गोप्यम् । शोकहेतुं-शोकनिदानम् । ( २२ ) स क्षपणकः । श्रेष्ठिनः-वणिक्प्रधानस्य । ज्येष्ठसूनुः, ज्येष्ठपुत्रः । वैरू- प्यात्-कुत्सितरूपवत्त्वाद्वद्धेतोः । अत्र-चम्पायाम् । यथार्थेति-यथार्थं सार्थकं नाम यस्यासौ । नामानुरूपं सौन्दर्यमप्यासीदिति भावः । कलागुणैः-शिल्पामाहात्म्यैः । समृद्धः-पुष्टः । वसुना धनेन । नातिपुष्टः, साधारणः । धनस्य प्राचुर्यं नासी- दिति भावः । तस्य सुन्दरकस्य । वपुर्वसुनी-आकृतिधने । निमित्तीकृत्य-कारणी- कृत्य । पौरधूर्तैर्यद्वैरमुत्पादितं तत्र सुन्दरकस्य शरीरसौन्दर्यं मम धनं च कारणमासीदित्यर्थः । वैरोपजीविभिः-ये खलु द्वयोः परस्परं वैरमुत्पाद्य जीविकां निर्वाहयन्ति ते वैरोपजीविनस्तैः । पौरधूर्त्तैः नागरिकवञ्चकैः । उदपाद्यत-उत्पा- दितम् । ते एव-पौरधूर्त्ता एव । आवयोः सुन्दरकस्य मम च । स्वयमुत्पादितं- वर्ण एक बौद्ध भिक्षुको देखा । और उसकी छातीपर गिरते हुए उन आँसुओंको भी देखा जो उसके मुखकी मैल धो रहे थे । मैं उसके समीप जा बैठा और पूछा-‘भगवन् ! कहाँ तपस्या और कहाँ रोदन । यदि कोई छिपानेकी बात न हो तो, मैं आपके शोकका कारण जानना चाहता हूँ ।’ ( २२ ) उसने कहा-‘हे सौम्य ! सुनिये-मैं इसी चम्पानगरीके निवासी निधिपालित नाम सेठका बड़ा बेटा वसुपालित हूँ । मैं कुरूप हूँ , इस कारण ‘विरूपक’ इस नामसे प्रसिद्ध था । मेरा दूसरा भाई ‘सुन्दरक’ नामका था । उसका यह नाम उसके अनुरूप था । Nepal Sanskrit University, Balmeeki Campus, Kathmandu

१५० दशकुमारचरितम् । [ उत्तरपीठिकायां समृद्धो वसुना नातिपुष्टोऽभवत् । तस्य च मम च वपुर्वसुनी निमित्ती- कृत्य वैरं वैरोपजीविभिः पौरधूर्तैरुदपाद्यत । त एव कदाचिदावयोरुत्सव- समाजे स्वयमुत्पादितमन्योन्यावमानमूलमधिचेपवचनव्यतिकरमुपश- मय्य 'न वपुर्वसु वा पुंस्त्वमूलम् , अपि तु प्रकृष्टगणिकाप्रार्थ्ययौवनो हि यः स पुमान् । अतो युवतिललामभूता काममञ्जरी यं वा कामयते स हरतु सुभगपताकाम्' इति व्यवस्थापयन् । ( २३ ) अभ्युपेत्यावां प्राहिणुव तस्यै दूतान् । अहमेव किलामुष्याः स्म- रोन्मादहेतुरासम्। आसीनयोश्चावययोर्मामेवोपगम्य सा नीलोत्पलमयमिया- पौरधूर्तैरेव प्रारब्धम्। अन्योन्येति-अन्योन्यस्य परस्परस्यावमानोऽवज्ञैव मूलं निदानं यस्य तमिति अधिचेपवचनव्यतिकरमित्यस्य विशेषणम् । अधिचेपवचन- व्यतिकरं-तिरस्कारसूचकवाक्यप्रपञ्चम् । उत्तरोत्तरवर्धमानमिति शेषः । उपशमय्य- शमयित्वा । न वपुरिति-शरीरेण धनेन वा पुरुषः पुरुषपदवाच्यो न भवति किन्तु यः श्रेष्ठगणिकाभिः प्रार्थनीयो भवति स एव पुरुष इति भावः । युवतिललाम- भूता-तरुणीकुलालंकारस्वरूपा । सुभगपताकां-सौभाग्यचिह्नम् । हरतु-प्राप्नोतु । व्यवस्थापयन्-निर्णीतवन्तः । ( २३ ) अभ्युपेत्य स्वीकृत्य तन्निर्णयमिति शेषः । आवां-सुन्दरकोऽहञ्च । प्राहिणुव-प्रेषितवन्तौ । तस्यै-काममञ्जर्यै तदर्थमित्यर्थः । अमुष्याः-काममञ्जर्याः । स्मरोन्मादहेतुः-स्मरेण कामेन य उन्मादः पारवश्यं तत्र हेतुर्निमित्तभूतः, रूपव- न्तमपि सुन्दरकं विहाय धनिकतया मामेव स्वीकृतवतीति भावः । आसीनयोः- क्योंकि, उसमें सभी कलाओं और गुणों का समावेश था । हाँ, धन उसके पास उतना अधिक नहीं था, सो नगरके वैरोपजीवी धूर्त्तोंने उसके सौन्दर्य और धनकी आड़में वैर खड़ा कर दिया । उन्हीं लोगों ने किसी उत्सवके अवसर पर स्वयं उत्पन्न परस्पर अपमान के कारणस्वरूप तिरस्कारका उपशमन करके व्यवस्था दी 'केवल सौन्दर्य अथवा धन ही मनुष्य के पुंस्त्वका कारण नहीं हो सकता । सच्चा पुरुष तो वही हो सकता है जिसको कोई उत्तम वेश्या चाहे । इसलिए युवतियोंकी मुकुटमणिसरूपा काममञ्जरी तुम दोनोंमेंसे जिसे पसन्द करे, वही सौभाग्यशाली माना जाय ।' इसे अङ्गीकार करके हम दोनोंने उसके पास दूत भेजे । ( २३ ) अन्तमें उस सुन्दरी काममञ्जरीने मुझको ही अपना प्रेमी चुना । जब हम दोनों एक साथ बैठे हुए थे, तब वह आयी और दोनोंमेंसे झमपर ही अपने नीलकमलमय Nepal Sanskrit University, Balmeeki Campus, Kathmandu

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १५१ पाङ्गदामाङ्गे नम मुञ्चन्ती तं जनमपत्रपयाधोमुखं व्यधत्त । सुभगंमन्येन च मया स्वधनस्य स्वगृहस्य स्वगणस्य स्वदेहस्य स्वजीवितस्य च सैवेश्वरी कृता । कृतश्चाहमनया मलमल्लकशेषः । हृतसर्वस्वतया चापवाहितः प्रपद्य लोकोपेहासलक्ष्यतामक्षमश्च सोढुं धिक्कृतानि पौरवृद्धानामिह जैनायतने मुनिनैकेनोपदिष्टमोक्षवर्त्मा सुकर एव वेषो वेशनिर्गतानामित्युदीर्णवैरा- ग्यस्तदपि कौपीनमजहाम् । (२४) अथ पुनः प्रकीर्णमलपङ्कः प्रबलकेश लुञ्चनव्यथः प्रकृष्टतमक्षुत्पि- उत्सवसमाजे समुपविष्टयोः । उपगम्य-वल्लभत्वेनाङ्गीकृत्य । सा-काममञ्जरी । नीलोत्पलप्रममिव-नीलकमलरचितमिव । अपाङ्गदाम-कटाक्षपरम्पराम् । मुञ्च- न्ती-विसृजन्ती । तं-सुन्दरकम् । अपत्रपया-लज्जया । व्यधत्त-कृतवती । आत्मानं- सुभगं सौभाग्यवन्तं मन्यत इति सुभगम्मन्यस्तेन । स्वगणस्य-स्वजनवर्गस्य । सैव-काममञ्जर्य्येव । ईश्वरी-स्वामिनी । अनया-काममञ्जर्या । मलमल्लकशेषः- कौपीनमात्रावलम्बनः । 'कौपीनं मलमल्लकमि'ति वैजयन्ती । अपवाहितः-गृहा- न्निष्काशितः । प्रपद्य-प्राप्य । लोकोपहासलक्ष्यतां-जनानामुपहासविषयताम् । पौरवृद्धानां-नागरिकश्रेष्ठानाम् । जैनायतने-सौगतमन्दिरे । एकेन-केनचित् । उपदिष्टेति-उपदिष्टं प्रदर्शितं मोक्षस्यापवर्गस्य वर्त्म मार्गो यस्मै तथाभूतः । सुकरः-सुसाध्यः । वेशनिर्गतानां-वेश्यागृहनिष्क्रान्तानाम् । उदीर्णवैराग्यः-समु- द्दीपिनवैराग्यः अजहाम्-अत्यजम् । ( २४ ) अथ-कौपीनत्यागानन्तरम् । प्रकीर्णेति-प्रकीर्णः प्रसृतो व्याप्त इति नेत्रोंके कटाक्ष फेंकती हुई मेरे प्रतिद्वन्दीका मुख लाज के मारे नीचा कर दिया । अब मैने अपने को सुन्दर मान करके काममंजरी को ही अपने धन, अपने घर, अपने गण और अपने जीवनतक को अधीश्वरी बना दिया । और उसने भी सर्वस्व हड़प करके मुझे कौपी- नावशेष कर दिया । कुछ शेष न रहनेपर उसने मुझे घर से निकाल दिया । संसार के लोगों ने मुझे उपहासका लक्ष्य बनाया और जब नगरके बड़े-बूढ़ों के धिक्कार भरे वचन सहनेमें मैं असमर्थ हो गया तब इस जैनमठमें भाग आया । यहाँ एक मुनिने मुझे मोक्षमार्गका उपदेश दिया । अब तो, मेरा यह दृढ़ विश्वास हो गया है कि, वेश्याओं द्वारा तिरस्कृत पुरुषों के लिए यह (निहंग) वेश ही अच्छा है । इसी वास्ते मैंने कौपीनतक त्याग दी है । ( २४ ) कुछ समय बाद जब मेरे शरीरमें बहुत-सा मैल जम गया, केशों में लटें बँध

१५२ दशकुमारचरितम् । [ उत्तरपीठिकायां

१५२ दशकुमारचरितम् । [ उत्तरपीठिकायां पासादिदुःखः स्थानासनशयनभोजनेष्वपि द्विप इव नवग्रहो बलवतीभिर्य- न्त्रणाभिरुद्वेजितः प्रत्यवामृशम् । अहमस्मि द्विजातिः । अस्वधर्मो ममैष पाषण्डपथावतारः । श्रुतिस्मृतिविहितेनैव वर्त्मना मम पूर्वजाः प्रावर्तन्त । मम तु मन्दभाग्यस्य निन्द्यवेषममन्ददुःखायतनं हरिहरहिरण्यगर्भादि- देवतापवादश्रवणनैरन्तर्यात्प्रेत्यापि निरयफलम् अफलं विप्रलम्भप्रायमी- यावत् , मलपङ्कः सान्द्रीभूतरजःसमूहो यत्र सः । बौद्धानां देहमार्जननिषेधात् सर्वशरीरव्याप्तमल इत्यर्थः । प्रबलेति-प्रबला अत्यधिका केशानां लुञ्चनेनोत्पा टनेन व्यथा पीडा यस्य स तथा। बौद्धानां लुञ्चनमपि प्रसिद्धम् । प्रकृष्टेति- प्रकृष्टतमं अतिप्रबलं क्षुत्पिपासादिभिर्दुःखं यस्य सः । • स्थानमवस्थानं, आसन- मुपवेशनं, शयनं निद्रा, भोजनमशनमित्यादिकार्येषु । द्विपो-हस्ती । नवग्रहः- नवो नूतनो ग्रहो ग्रहणं यस्य सः । अचिरगृहीत इत्यर्थः । यन्त्रणाभिः-पीडाभिः। अचिरगृहीतो हस्ती यथा शयनभोजनादिष्वपि नितरां दुःखमनुभवति तथाहम- पीति भावः। प्रत्यवामृशम्-अचिन्तयम् । द्विजातिर्वैश्यः । अस्वधर्मः-स्वधर्मो नेत्यर्थः । पाषण्डेति-पाषण्डानां वैदिकाचारभ्रष्टानां पन्थाः इति पाषण्डपथस्तत्र अवतारोऽवतरणम्-बौद्धमार्गानुसरणम् । पूर्वजाः-पितृपितामहादयः । प्रावर्त्तन्त- प्रवृत्ता अभूवन् । निन्द्यो गर्हणीयो वेषो यस्य तम् । अमन्दस्य महतो दुःखस्य- क्लेशस्यायतनं स्थानम् । हरिहरेति-हरिहरौ विष्णुशंकरौ हिरण्यगर्भो ब्रह्मा-तदादि- देवतानामपवादो निन्दा तस्य श्रवणस्य नैरन्तर्यं तस्मात् । अनवरतनिन्दाश्रव- णात् । प्रेत्य-जन्मान्तरे । निरयफलं-नरकपरिणामकम् । अफलं-निष्फलं अत एव विप्रलम्भप्रायं प्रायेण वर्जनात्मकम् एतावद् विशेषणं अधर्मवर्त्मेत्यस्य । इदं- मत्स्वीकृतम् अधर्मवर्त्म-बौद्धमतानुसरणरूपम् । धर्मवत्-धर्मेण तुल्यम् । समा- चरणीयं-सेव्यमाश्रयणीयमिति यावत् । प्रत्याकलितेति-प्रत्याकलितश्चिन्तितः जानेके कारण पीड़ा होने लगी, अत्यन्त भूख-प्याससे असह्य वेदना हुई और खड़े होने, बैठने, सोने तथा भोजनमें भी नये पकड़े हुए हाथीकी भाँति बलवती यन्त्रणाओंसे ऊब उठा, तब मैंने सोचा-मैं द्विज (वैश्य) हूँ । मेरा इस तरह पाषण्डपथपर आना भी स्वधर्मका त्याग ही है। मेरे पूर्वज श्रुति और स्मृतिविहित धर्मपथपर ही चले थे लेकिन मुझ अभागेने इस निन्द्य वेष और अतिशय दुखदायी जीवनको अपनाया है । विष्णु, शिव और ब्रह्मा आदि देवताओंके अपवाद निरन्तर सुनते रहनेके कारण यद्यपि मुझे नरकफल प्राप्त हुआ है, फिर भी इस असार और जुआचोरीसे भरे अधर्म-मार्गको मैंने धर्मकी भाँति मान रखा

द्वितीयोच्छ्वासः ] . व्याख्याद्वयोपेतम् । ० १५३ दृशमिदमधमवर्त्म धर्मवत्समाचरणीयमासीत्' इति प्रत्याकलितस्वदुर्नयः पिण्डीषण्डं विविक्तमेतदासाद्य पर्याप्तमश्रु मुञ्चामि' इति । (२५) श्रुत्वा चैतदनुकम्पमानोऽब्रुवम्-‘भद्र क्षमस्व । कञ्चित्कालमत्रैव निवस । निजेन द्युम्नेनासावेव वेश्या यथा त्वां योजयिष्यति तथा यतिष्ये । सन्त्युपायास्तादृशाः' इत्याश्वास्य तमनूत्थितोऽहम् । नगरमाविशन्नेव चोपलभ्य लोकवादाल्लुब्धसमृद्धपूर्णं पुरमित्यर्थानां नश्वरत्वं च प्रदर्श्य प्रकृतिस्थानमून्र्विधास्यन्कर्णीसुतप्रहिते पथि मतिमकरवम् । स्वस्य दुर्नयो येन सः । पिण्डीषण्डम्-अशोकसमूहम् । विविक्तं-विजनम् । आसाद्य-प्राप्य । पर्याप्तं-प्रचुरम् । अश्रु-नयनजलम् । मुञ्चामि-त्यजामि । ( २५) अनुकम्पमानो-दयमानः । अहमपहारवर्मेति शेषः । क्षमस्व-सहस्व अत्रैव-जैनायतने एव । निवस-तिष्ठ । द्युम्नेन-धनेन । 'हिरण्यं द्रविणं द्युम्नमि'- त्यमरः । असौ-काममञ्जरी । यथा येन प्रकारेण । योजयिष्यति-युक्तं करिष्यति धनेनेति शेषः । तथा-तेन प्रकारेण । यतिष्ये-चेष्टिष्ये । उपायाः-साधनानि । आश्वास्य-सान्त्वयित्वा । तं-विरूपकं अनु-पश्चात् । अहमपहारवर्मा । आविशन्- प्रविशन् । उपलभ्य-ज्ञात्वा । लोकवादात्-जनमुखात् । लुब्धेति-लुब्धैर्धूर्त्तैः समृद्धैः धनशालिभिः पूर्णं व्याप्तम् । पुरं-नगरम् । इत्यन्तं उपलभ्येत्यस्य कर्म । नश्वरत्वं-क्षणिकत्वम् । प्रदर्श्य-बोधयित्वा । अमून्-पौरान् । प्रकृतिस्थान् स्वभा- वस्थान् सन्मार्गवर्तिन इत्यर्थः । विधास्यन्-करिष्यन् । कर्णीसुतेति-कर्णीसुतः स्तेयशास्त्रप्रवर्त्तकस्तेन प्रहिते प्रदर्शिते । पथि-मार्गे चौरशास्त्रे इत्यर्थः । है । इस प्रकार अपने अनाचारको सोचकरके मैं इस एकान्त अशोकवनमें आ करके पर्याप्त आँसू बहाता हूं । ( २५ ) उसका वृत्तान्त सुन करके उसपर अनुकम्पा करते हुए मैने कहा—‘भद्र, क्षमा करो और कुछ समय यहीं रहो । तबतक मै ऐसा उपाय करूँगा कि, जिससे वही वेश्या अपना सब धन तुम्हें लौटा दे । ऐसे बहुतेरे उपाय हैं।' इस प्रकार उसे ढाढ़स बँधा करके मै उठ पड़ा। नगरमें घुसते ही मैंने सुना कि, वह नगर, लोभियोंके विपुल धनसे भरा है। वस, मैंने धनकी नश्वरता दिखा करके उन धनलोलुपोंको प्रकृतिस्थ करनेके लिए चौर्यशास्त्रके प्रवर्त्तक कर्णीसुतके विहित पथपर चलनेका संकल्प किया । Nepal Sanskrit University, Balmeeki Campus, Kathmandu