दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २२६ मनोऽनुरक्तम् । अस्ति चायमर्थराशिः । अनेनामुष्य पदे प्रतिष्ठाप्य तमे- वात्यन्तमुपचर्य जीविष्यामि' इति । मयापि तदभ्युपेत्य प्रत्यागतम् । अतः परं भर्तृदारकः प्रमाणम्' इति । ( १६ ) ततस्तस्या एव सकाशादन्तःपुरनिवेशमन्तर्वंशिकपुरुषस्था- नानि प्रमदवनप्रदेशानपि विभागेनावगम्य, अस्तगिरिकूटपातक्षुभितशो- णित इव शोणीभवति भानुबिम्बे, पश्चिमाम्बुधिपयःपातनिर्वापितपतङ्गा- ङ्गारधूमसंभार इव भरिततमसि नभसि विजृम्भिते, परदारपरामर्शोन्मु- अस्ति मत्समीप इत्यर्थः । अर्थराशिः-धनसमूहः । अनेन-अर्थराशिना । अमुष्य- विकटवर्मणः । पदे-स्थाने भर्तृपद इत्यर्थः । तमेव-चित्रलिखितं युवानमेव । उप- चर्य संसेव्य । इत्यन्तं कल्पसुन्दरीवाक्यम् । मया-वृद्धतापस्या । अभ्युपेत्य-एवं करिष्यामीति स्वीकृत्य । भर्तृदारको राजपुत्रः भवानित्यर्थः । प्रमाणं यदत्र विधेयं तत्क्रियतामित्यर्थः । ( १६) तस्या एव-वृद्धाया एव । अन्तःपुरनिवेशम् अवरोधप्रदेशम् । अन्त- वंशिकेति-अन्तर्वंशिकपुरुषाणाम् अवरोधाधिकृतानां रक्षिपुरुषाणां स्थानानि के कुत्र तिष्ठन्तीति भावः । प्रमदवनप्रदेशान् क्रीडोद्यानदेशान् । एतानि अवग- म्येति क्रियायाः कर्मभूतानि । विभागेन पृथक् पृथग्रूपेण । अवगम्य-विदित्वा । अस्तगिरीति-अस्तगिरेरस्ताचलस्य कूटाच्छिखरात्पातेन पतनेन क्षुभितं निर्गतं शोणितं रुधिरं यस्य तस्मिन्निवेत्युत्प्रेक्षा । शोणीभवति रक्तोभवति । भानुबिम्बे सूर्यमण्डले । पश्चिमेति-पश्चिमाम्बुधेः पश्चिमसमुद्रस्य पयसि जले पातेन निमज्ज- नेन निर्वापितः शान्तः पतङ्गः सूर्य एवाङ्गारो ज्वलत्काष्ठावयवस्तस्य धूमसम्भारो धूमराशियंस्मिन् तस्मिन्निवेत्यत्र रूपकोत्प्रेक्षयोः सङ्करः । भरिततमसि-भरितं पूर्ण- इसी धनके समूहद्वारा मैं उस राजपुत्रको इस विकटवमो राजाके स्थानपर आरूढ़ करा करके उसी राजपुत्रकी सेवा-अर्चा करके जीवन व्यतीत करूंगी।' मैं भी (वृद्धा भी) उस रानीको स्वीकृति दे करके यहां आयी हूँ। अब इसके पश्चात् हे राजपुत्र ! आप जो चाहें सो कार्य करें । ( १६ ) इसके अनन्तर मैंने उसी वृद्धासे अन्तःपुरका प्रदेश, अन्तःपुरके रक्ष पुरुषोंके स्थानोंको और क्रीड़ोद्यानके प्रवेशस्थानको पृथक्-पृथक् रूपसे ज्ञात कर लिया । अस्ताचल की चोटीके ऊपरसे गिरनेके कारण निकले हुए शोणितके समान जब सूर्यबिम्ब लाल लाल हो गया तब, तथा जब पश्चिमके समुद्रमें सूर्यके बिम्बरूपी अंगारेके बुझनेसे उत्पन्न जो धूम्र-पटल द्वारा आकाश परिव्याप्त हो गया तब, एवं जब दूसरेकी स्त्रीके साथ समागम
२३० दशकुमारचरितम् । [ उत्तरपीठिकायां
२३० दशकुमारचरितम् । [ उत्तरपीठिकायां स्वस्य ममाचार्यकमिव कर्तुमुत्थिते गुरुपरिग्रहश्लाघिनि ग्रहाग्रेसरे क्षपाकरे कल्पसुन्दरीवदनपुण्डरीकेणेव मद्दर्शनातिरागप्रथमोपनतेन स्मयमानेन चन्द्रमण्डलेन संधुक्ष्यमाणतेजसि भुवनविजिगीषोद्यते देवे कुसुमधन्वनि, यथोचितं शयनीयमभजे । व्यचीचरं च—'सिद्धप्राय एवायमर्थः । किंतु परकलत्रलङ्घनाद्धर्मपीडा भवेत्, साप्यर्थकामयोर्द्वयोरुपलम्भे शास्त्रकारैर- नुमतैवेति गुरुजनबन्धमोक्षोपायसंधिना मया चैष व्यतिक्रमः कृतः, तमो यस्मिन्-पूर्णान्धकारे । नभसि गगने । विजृम्भिते-विकासं गते । परदारेति- परस्य दाराः परस्त्री तस्याः परामर्शाऽभिगमनं तत्रोन्मुखस्य प्रवृत्तस्य । आचार्यकं- आचार्यकर्म-उपदेशकत्वमिति यावत् । उत्थिते-उदिते । गुरुपरिग्रहेति-गुरोर्बृहस्पतेः परिग्रहः स्त्री तारा तां श्लाघतेऽभिलषतीति तच्छीले । ग्रहाग्रेसरे-ग्रहप्रधाने । क्षपा- करे चन्द्रे । कल्पसुन्दरीति-कल्पसुन्दर्या राजपत्न्या वदनपुण्डरीकेण मुखकमलेनेवे- त्युपमा । कीदृशेन-मद्दर्शनेति मद्दर्शनाय मदवलोकनाय योऽतिरागः प्रबलेच्छा तेन प्रथमोपनतेन प्रागेव उपस्थितेन । पुनः कीदृशेन स्मयमानेन-ईषद्धसता विक- सतेति भावः । सन्धुक्ष्यमाणतेजसि-प्रवृद्धप्रकाशे । भुवनेति-भुवनस्य जगतो विजि- गीषया जयेच्छया उद्यते प्रवृत्ते । कुसुमधन्वनि-कामे । यथोचितं यथायोग्यम् । शयनीयं तल्पम् । अभजे आश्रितवानहमिति शेषः । व्यचीचरम् अचिन्तयम् । सिद्धप्रायः प्रायेण बाहुल्येन सिद्धः सम्पन्नः । अर्थः प्रयोजनम् । कल्पसुन्दरीप्राप्ति- पूर्वकपितृराज्यप्राप्तिरूपम् । परकलत्रलङ्घनात् परस्त्रीपरामर्शात् । धर्मपीडा-धर्मबा- धा-धर्मनाशो वा । सापि धर्मपीडापि । उपलम्भे प्राप्तौ । शास्त्रकारैर्मन्वादिधर्म- शास्त्रकारैः । अनुमता न निषिद्धा । गुरुजनेति गुरुजनयोः पित्रोर्बन्धाद्वन्धनान्मो- क्षे मोचने सन्धिरभिसन्धिर्यस्य तेन तथाभूतेन । व्यतिक्रमः धर्मलङ्घनम् । तदपि पापं परस्त्रीधर्षणरूपम् । निर्हृत्य दूरीकृत्य । कियत्या स्वल्पया । धर्मकलया पितृ- करनेमें निपुण मेरे आचार्यके समान ( परस्त्रीगमनमें मेरे गुरुके सदृश ) अपनी गुरुपत्नीके साथ व्यभिचार करनेका स्वभाव रखनेवाले ग्रहोंमें श्रेष्ठ चन्द्रमाका उदय हुआ तब, तथा मेरे दर्शनकी अभिलाषाके पूर्वमें ही प्राप्त कल्पसुन्दरी देवीके मुखकमलसे विस्मित चन्द्रमाके मण्डलसे वृद्धिको प्राप्त तेजवाला तथा तीनों लोकोंके विजयकी इच्छासे पूर्ण कुसुमधन्वा कामदेवके उद्यत होते ही मैंने यथोचित शय्याका ग्रहण किया । मैं विचारने लगा कि यह कार्य कल्पसुन्दरीकी प्राप्ति आदि तो अब बहुत करके सिद्ध ही हाँ, परन्तु परस्त्रीगमनसे धर्मका नाश होगा । किन्तु मनु आदि शास्त्रवेत्ताओंने उस धर्मनाशको निषिद्ध नहीं माना है जिसमें अर्थ और कामकी प्राप्ति होती हो । मैं जननी-जनकको कारागारसे छुड़ानेके लिए यह धर्मनाश कर रहा हूँ। यह परस्त्रीगमन
CC-0. In Public Domain Digitization by eGangotri. Funding: MIDF तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २३१
तदपि पापं निर्हृत्य कियत्यापि धर्मकलया मां समग्रयेदिति । ( १७ ) अपि त्वेतदाकर्ण्य देवो राजवाहनः सुहृदो वा किं नु वक्ष्य- न्ति' इति चिन्तापराधीन एव निद्रया परामृश्ये । अदृश्यत च स्वप्ने हस्तिवक्त्रो*भगवान् । आहस्म च-'सौम्य उपहारवर्मन्, मा स्म ते दुर्वि- कल्पो भूत् । यस्त्वमसि सदंशः । † शङ्करजटाभारलालनोचिता सुरसरि-
मोक्षरूपधर्मांशेन । समग्रयेत् पूरयेत् । समग्रयेदित्यस्याः क्रियायाः कर्तृपद्म 'एष व्यतिक्रम' इति । ( १७ ) अपि तु-किन्तु । एतत्-मम परस्त्रीपरामर्शम् । चिन्तापराधीनः चिन्ता- ग्रस्तः । परामृश्ये अस्पृश्ये·निद्रितोऽभवमित्यर्थः । हस्तिवक्त्रः-गणेशः । आहस्म स्वप्ने गजाननः कथयामास । मास्म भूत्-न भवतु । मास्मयोगे लुङ् रूडागम- प्रतिषेधश्च । दुर्विकल्पः-दुर्विचारः मदंशः-ममावतारः । शङ्करेति-शङ्करस्य शिवस्य जटाभारेण जटाजूटेन यत्क्षालनं धारणं तत्रोचिता अभ्यस्ता । सुरसरित्-गङ्गा ।
रूपी पाप, मेरेद्वारा किये माता-पिताके उद्धाररूपी पुण्यके, स्वल्पांशसे धुल जायगा । और मुझे पुण्यशाली बनावेगा । ( १७ ) परन्तु, यह परस्त्रीगमन आदिका वृत्त सुन करके देव राजवाहन तथा अन्य मित्रगण क्या कहेंगे । इसी विचार-विमर्शमें चिन्ताग्रस्त हो करके मैं निद्राके वशीभूत हो गया । और स्वप्नगत होकर मैने श्रीगजानन भगवान् के दर्शन किये। उन गणेश भगवान्ने कहा-'हे सौम्य ! उपहारवर्मन् !! तुम दुर्विचारग्रस्त मत हो । तुम तो मेरे
* अदृश्यत च स्वप्ने भगवान् भर्गः । इति पाठान्तरम् । † मज्जटाभारलालनोचितामरसरिदसौ वरवर्णिनी, ताञ्च कदाचिद् गजाननो जलक्रीडां कुर्वन्नतिव्यगाहत । सा च सपत्नीतनयविहितां विलोडनामसहमाना तमशपत् एहि मर्त्यत्व- मिति । सोऽपि अहेतुकशापप्रदानात् क्रुद्धस्तामशपत्-यथेह बहुभोग्या तथा प्राप्यापि मानुष्यकमनेकसाधारणी भवेति । ततस्तेन प्रतिशप्ता सा विलक्ष्य मामुपसृत्य सगद्गदमगदत स्वामिन् अहमनवरत भवच्चरणपरिचर्याविधायिनी न शापार्हेति । आकर्ण्य कृपाक्रान्तमनसा मयोक्तं प्रिये नास्य शापोऽन्यथा भवितुमर्हति, परं त्वदनुग्रहार्थमहमात्मनोंऽशं द्विधा विभज्य विकटवर्मनृपरूपेण मिथिलापतिप्रहारवर्मात्मनोपहारवर्मात्मना च मर्त्यलोकेऽवतरिष्यामि त्वञ्च कामरूपाधिपतेः कलिङ्गवर्मनाम्नः कन्या कल्पसुन्दरी नाम भूत्वा ज्यायसा मदंशेन विकट- वर्मणा प्रथममल्पीयांसमनेहसं संगता तस्मिन् विकटवर्मनि मन्मूर्त्तावेवलयमुपगते पुनरुपहार- वर्मात्मकं कनीयांसं मदंशमुपलभ्य तेन साकं विविधसुखोपभोगमनुभविष्यसि । इति पा० ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
२३२ दशकुमारचरितम् । [ उत्तरपीठिकायां
२३२ दशकुमारचरितम् । [ उत्तरपीठिकायां दसौ वरवर्णिनी । सा च कदाचिन्मद्विलोड़नासहिष्णुर्मामशपत्—'एहि मर्त्यत्वम्' इति । अशप्यत मया च—'यथेह बहुभोग्या तथा प्राप्यापि मानुष्यकमनेकसाधारणी भव' इति । अभ्यर्थितश्चानया 'एकपूर्वा पुन- स्त्वामेवोपचर्य यावज्जीवं रमय' इति । तदयमर्थो भव्य एव भवता निरा- शङ्क्यः' इति । प्रतिबुध्य च प्रीतियुक्तस्तदहरपि प्रियासङ्केतव्यतिकरादि- स्मरणेनाहमनैषम् । असौ वरवर्णिनी-कल्पसुन्दरी । सा-सुरसरित् । कदाचिदेकदा । मद्विलोड़नासहि- ष्णुः-मया यद् विलोडनं क्रीडार्थमालोडनं तत्रासहिष्णुरसहनशीला । मां गजानन- मित्यर्थः। अशपत्-शापं दत्तवती । एहि प्राप्नुहि । मर्त्यत्वं-नरत्वम् । अशप्यत- मयापि तस्यै शापो दत्तः । यथा येन रूपेण । इह स्वर्गे । बहुभोग्या-नदीत्वेन स्नानपानादिभिरनेकजनसेव्या । तथा तेनैवरूपेण । मानुष्यकं नरजन्म । अनेकसाधारणी-अनेकभोग्या । अभ्यर्थितः-याचितोऽहमिति शेषः । अनया गङ्गया । एकपूर्वा-पूर्वमेकेन भुक्ता सती । पुनः-अनन्तरम् । त्वां द्वितीयमित्यर्थः। उपचर्य-सेवित्वा । यावज्जीवं आयुष्कालं यावत् । रमेय-क्रीडां कुर्याम् । तत् तस्मात् कारणात् । अयमर्थः विषयः कल्पसुन्दरीग्रहणरूपः । भव्यः क्षेमकरः । निराशङ्क्यः-नाशङ्कनीयः । प्रतिबुध्य-जागरित्वा । प्रीतियुक्तः-प्रफुल्लमनाः । तदहः तद्दिनम् । प्रियेति-प्रियायाः कल्पसुन्दर्याः सङ्केतव्यतिकरादीनां इङ्गितसम्मे- लनादीनां स्मरणेन चिन्तनेन अनैषम्-अयापयम् । अवताररूपमें प्रकट हुए हो । और यह उत्तमा कल्पसुन्दरी शङ्कर [] भगवान्के जटाजूटमें सदा रहनेवाली गङ्गा नदी है । उस गङ्गा नदीने किसी समयमें, जब मैं उसके प्रवाहको अपनी सूँड़से विलोड़ित कर रहा था, मुझे शाप दे दिया था कि '(हे गणेश !) तुम नरत्वको प्राप्त हो।' मैंने भी उस गङ्गा नदीको शाप दे दिया था कि '(हे गङ्गे !) जैसे तुम यहाँ स्वर्गमें बहुत जनोंसे उपभोग की जाती हो वैसे ही मृत्युलोकमें भी जा करके अनेक लोगोंद्वारा स्नानादिसे उपभोगित हो।' तदनन्तर उस गङ्गाने मुझसे प्रार्थना की कि '(हे गणेश !) मैं पूर्वमें एकसे उपभोगित हो करके पुनः यावदायु तुम्हारे साथ ही रमण करूँ।' इस कारणसे यह कल्पसुन्दरी रानीका ग्रहणरूप व्यापार कल्याणकारी है। इसमें शंका मत करो।" मैंने जाग करके वह दिन प्रिया कल्पसुन्दरीके संकेतादि स्मरण करनेमें बिता दिया । [] नोट:—यहां भी अन्य पुस्तकसे पाठभेद है जो संस्कृतमें दर्शा दिया गया है। हिन्दीमें भी देखिये— एक समय श्रीगणेशजी अपनी सूँड़से गंगाजीके प्रवाहमें जलक्रीड़ा कर रहे थे । उस समय
तृतीयोच्छासः ] [ बालविबोधिनीव्याख्यासहितम् ] २३३ ( १८ ) अन्येद्युरनन्यथावृत्तिरनङ्गो मय्येवेषुवर्षमवर्षत् । अशुष्यच्च ज्योतिष्मतः प्रभामयं सरः । प्रासरच्च तिमिरमयः कर्दमः । कार्दमिकनि- वसनश्च दृढतरपरिकरः खड्गपाणिरुपसंहृतप्रकृतोपस्करः स्मरन्मातृदत्ता- (१८) अन्येद्युः परदिवसे संकेतिते इत्यर्थः । अनन्यथावृत्तिः-न वर्त्ततेऽन्य- था अन्यप्रकारा वृत्तिर्व्यापारो यस्य सः मत्पीडनैकव्यग्रः । इषुवर्षं शरवृष्टिम् । अशुष्यत्-शुष्कतामभजत् । ज्योतिष्मतः-सूर्यस्य । प्रभामयं आलोकात्मकम् । सरः-कासारः अस्तोन्मुखत्वात्सूर्यस्य तेजोह्रासः सञ्जात इति भावः । प्रसारत्- वृद्धिमगच्छत् । तिमिरमयः अन्धकाररूपः । कर्दमः पङ्कः । सरोवरे शुष्कतां गते यथा कर्दम एव सर्वतो निर्गच्छति तद्वत् सूर्येऽस्तङ्गते तमोऽपि सर्वत्र प्रसरतीति भावः । कार्दमिकनिवसनः कर्दमेन रञ्जितं कार्दमिक नीलमित्यर्थः तादृशं निवसनं वस्त्रं यस्य सः । दृढतरपरिकरः स्थिरतरोद्योगः । उपसम्भृतेति-उपसम्भृतः संगृहीतः (१८) दूसरे दिन तो कामदेवने अनन्यवृत्ति हो करके मेरे ऊपर ही बाणवर्षण करना आरम्भ कर दिया । भगवान् भास्करका प्रकाशमान् तलाव सूख गया । अन्धकार- रूपी कीचड़ आकाशमें फैल गया । अर्थात्-सायंकाल हो गयी और चारो ओर अन्धकार छा गया । उसी समय मैंने नीले वस्त्रोंको धारण किया । मजबूत कच्छ बाँधा । हाथ में खड्ग् धारण किया और उस कामके अनुरूप सभी आवश्यक चीजोंको लेकर तथा वृद्धाधात्रीद्वारा बताये हुए कल्पसुन्दरीके महलके चिह्नोंको ( संकेतस्थलोंको ) स्मरण गंगाजी जो श्री गणेशजीकी माताकी सोतके समान मानी जाती हैं, अपने प्रवाहमें सौतके पुत्रकी जलक्रीड़ाको करना न सह सकीं । उन गंगाजीने गणेशजीको शाप दिया कि तुम 'नरत्वको प्राप्त करो।' इस अहेतुक शापपर गणेशजी क्रोधित हो गये और उन्होंने गंगाजीको शाप दे दिया कि 'तुम मृत्युलोकमें जाकर बहुपतिगामिनी हो।' इस शापपर गंगाजीने श्रीगणेशजीकी बड़ी स्तुति की तब गणेशजीने कहा कि 'मेरा शाप वृथा नहीं हो सकता है। पर तुम जो स्तुति करती हो कि यह शाप नष्ट हो जाय, सो इसपर तुम्हारे ऊपर मैं दया करके यही कर सकता हूँ कि मैं तुम्हारे लिये अपने अंशके दो भाग करके पृथिवीपर अवतरित होऊँगा । एक अंश स्वल्प होगा दूसरा अंश कुछ अधिक । अतः स्वल्पांश से मैं विकटवर्मा और बृहदांशसे मिथिलापति प्रहारवर्मा का पुत्र उपहारवर्मा होऊँगा । उस समय तुम भी कामरूपाधिपति कालिंगवर्माकी पुत्री कल्पसुन्दरीके रूपमें पैदा होभोगी तब प्रथम विकटवर्माके मरनेपर वह स्वल्पांश भी उपहारवर्माके रूपमें आ मिलेगा। उस समय तुम मेरे पूर्णरूप प्रहारवर्मासे उद्वाहित हो करके सदाके लिए इस शाप से मुक्त होओगी। Nepal Sanskrit University, Balmeeki Campus, Kathmandu
२३४ दशकुमारचरितम्। [ उत्तरपीठिकायां
२३४ दशकुमारचरितम्। [ उत्तरपीठिकायां
न्यभिज्ञानानि राजमन्दिरपरिखामुदम्भसमुपातिष्ठम् । अथोपखातं मा- तृगृहद्वारे पुष्करिकया प्रथमसंनिधापिनां वेणुयष्टिमादाय तया शायितया च परिखाम् , स्थापयितया च प्राकारभित्तिलङ्घयम् । अधिरुह्य पक्वेष्टकचि- तेन गोपुरोपरितलाधिरोहिणा सोपानपथेन भुवमवातरम् । अवतीर्णश्च बकुलवीथीमतिक्रम्य चम्पकावलिवर्त्मना मनागिवोपसृत्योत्तराहि करुणं चक्रवाकमिथुनरवमशृणवम् । ( १६ ) पुनरुदीचा पाटलिपथेन स्पर्शलभ्यविशालसौधकुड्योदरेण
प्रकृतः योग्योभिसारस्येति शेषः । उपस्करः साधनं येन सः । साधनं स्यादुपस्करे इति कोषः । मातृदत्तानि-वृद्धया धात्र्या दत्तानि । अभिज्ञानानि-कल्पसुन्दरीगृहस्य चिह्नानि । राजमन्दिरपरिखां-नृपभवनस्य समन्ततोऽवस्थितं खातम् । उदम्भसं जलपूर्णाम् । उपातिष्ठं सन्निहितोऽभवमहमिति शेषः । उपखातं परिखासमीपे । मातृगृहद्वारे पूर्वोक्तायाः वृद्धाया गृहद्वारे । प्रथमसन्निधापितां पूर्वमेव स्थापिताम् । वेणुयष्टिं-वंशदण्डम् । आदाय गृहीत्वा । तया-वेणुयष्ट्या । शायितया-खात- स्योभयकूले स्थापिताया । परिखाम् अलङ्घनमिति शेषः । स्थापयितया-ऊर्ध्वी- कृतया । वेणुयष्ट्येति शेषः । प्रकारभित्तिम् प्राचीरकुड्यम् । अधिरुह्य-आरुह्य । पक्वेष्टचितेन-पक्काभिर्भर्जिताभिरिष्टकाभिश्चितेन न्यासेन । गोपुरेति-गोपुरस्य- पुरद्वारस्य उपरितलमूर्ध्वभागमधिरोहतीति तेन विशेषणद्वयं सोपानपथेनेत्यस्य । सोपानपथेन-सोपानमार्गेण । अवातरम् अवतीर्णवान् । वकुलवीथीं बकुलवृक्ष- श्रेणीम् । चम्पकावलिवर्त्मना-चम्पकवृक्षश्रेणीपरिवृतमार्गेण । मनागिव ईषदू- रम् । उपसृत्य-गत्वा । उत्तराहि-उत्तरस्यां दिशि । अन्वयमेतत्-उत्तरशब्दादाहि- प्रत्ययः करुणं दैन्यपूर्णम् । चक्रवाकमिथुनरव-कोकद्वन्द्वकूजितम् । ( १९ ) उदीचा-उत्तरदिग्गामिना । पाटलिपथेन-पाटलातरुराजिमार्गेण ।
करता हुआ मैं राजमन्दिरकी जलसे परिपूर्ण परिखाओके समीप पहुँच गया । वहाँ परिखा ( खाई ) के पास पहुँचनेपर मैंने मातृगृहद्वारमें पहिलेसे ही पुष्करिकाके द्वारा धरी हुई बाँसकी छड़ी ले ली तथा उस छड़ीको बेड़ी करके ( सुला करके ) खाई पार कर ली । तदनन्तर उसी छड़ीको खड़ी करके चहारदीवारी ( प्राचीर ) की दीवाल पार कर ली । ऊपर चढ़ करके पक्के ईंटोंसे बनी हुई नगरफाटकके ऊपरकी सीढ़ियोंसे पृथ्वीपर आ गया । फिर बकुलके वृक्षोंकी कतारोंको लांघ करके, चम्पकोंके वृक्षोंसे परिवृत मार्गसे कुछ दूर होकर उत्तर दिशाकी ओर जा मैंने चक्रवाक दम्पतीके दयनीय शब्दोंको सुना । पुनः उत्तर दिशामें पाटलके तरुओंकी श्रेणियोंकी स्पर्शप्राप्तिसे जिस राजभवनकी विशाल
तृतीयोच्छ्वासः] बालविनोधिनीव्याख्यासहितम्। २३५ शरक्षेपमिव गत्वा पुनः प्राचा पिण्डीभाण्डीरखण्डमण्डितोभयपार्श्वेन सैक- तपथेन किञ्चिदुत्तरमतिक्रम्य पुनरवाचीं चूतवीथीमगाहिषि। ततश्च गह- नतरमुदरोपरचितरत्नवेदिकं माधवीलतामण्डपमीषद्विवृतसमुद्गकोन्मिषि- तभासा दीपवर्त्या न्यरूपयम्। प्रविश्य चैकपार्श्वे फुल्लपुष्पनिरन्तरकुरण्ट- पोतपङ्क्तिभित्तिपरिगतं गर्भगृहम्, अवनिपतितारुणाशोकलतामयमभि- स्पर्शालभ्येति-स्पर्शेन लभ्यं लक्ष्यं विशालमतिमहत् यत् सौधकुड्यं प्रासादभित्ति- स्तस्योदरेण मध्यभागेन। शरक्षेपमिव बाणक्षेपपरिमितभूमिपर्यन्तम्। प्राचा-पूर्व- दिग्गामिना। पिण्डीभाण्डीरेति-पिण्डी-अशोकवृक्षो भाण्डीरो मल्लिका तयोः षण्डः समूहस्तेन मण्डितौ शोभितावुभयपार्श्वों यस्य तेन तथाविधेन। सैकतपथेन- बालुकामयमार्गेण। उत्तरं उत्तरदेशम्। अवाचीं-दक्षिणदिग्गामिनीम्। चूतवीथीं- रसालश्रेणीम्। अगाहिषि-प्राविशम्। गहनतरं-सान्द्रतरम्। उदरेति-उदरे मध्य- भागे उपरचिता निर्मिता रत्नवेदिका यस्मिन् तम्। लतामण्डपस्य विशेषणम्। ईषदिति-ईषदल्पं विवृत उद्घाटितो यः समुद्गकः सम्पुटकस्तेनोन्मिषिता निर्गता भा दीप्तिर्यस्यास्तया। दीपवर्त्या-प्रदीपदशया। न्यरूपयम्-अवलोकयम्। एक- पार्श्वे-एकस्मिन् प्रदेशे। फुल्लपुष्पेति-फुल्लं विकसितं पुष्पं कुसुमं येषां ते फुल्लपुष्पास्तेषां निरन्तराणां घनसंनिविष्टानां कुरण्टपोतानां कुरवकभेदानां पंक्तिः श्रेणिरेव भित्तिरावरrefणं तया परिगतं व्याप्तम्। गर्भगृहम् अभ्यन्तरगृहम्। अवनिपतितेति अवनौ भूमौ पतिता संलग्ना अरुणा रक्तवर्णा या अशोकलता वञ्जुलवल्ली तन्मयं तद्रचितमित्यर्थः। अभिनवेति-अभिनवा नूतनाः कुसुमकोरकाः दीवालें शोभायमान हैं उन दीवालोंके (ऊपर छाये हुए वृक्षोंकी शाखाओंके भीतरसे) बाणक्षेप प्रमाण भूमिके समीप गया। तत्पश्चात् पूर्वदिशाकी ओर मैं चला। जिस पूर्व- दिशामें वहाँकी भूमिपर दोनों ओर अशोकवृक्ष और मल्लिकावृक्षों की पंक्तियाँ राज रहीं थीं। पुनः मैं बालुकामय मार्गसे कुछ उत्तर दिशाको अतिक्रमण करके फिर अवाची दिशा (दक्षिण) की ओर चला। जिस दिशामें आमोंकी तरुश्रेणियाँ शोभित हो रही थीं। इसके अनन्तर अति गहन एवं जिसके मध्यमें रत्नोंसे जड़ी हुई एक वेदी बनी है ऐसे माधवीलतामण्डपको मैंने उस राजभवनके उपवनमें स्थित वृक्षों के सम्पुटोंमेंसे आये हुए थोड़े दीपकके प्रकाशसे देखा। उसमें प्रवेश करके मैंने अवलोकन किया कि उस मंडपके एक भागमें एक अभ्यन्तरगृह (वासगृह) है। जो वासगृह, अत्यन्त सान्द्र एवं प्रफुल्लित कुरवक वृक्षोंकी पंक्तियों से ढका हुआ है-जैसे आवरणसे कोई स्थान ढका रहता है। उस गर्भांगारके किवाड़ कैसे हैं-भूमितक संलग्न लाल अशोकवृक्षों की १६ द० कृ० उ०
२३६ दशकुमारचरितम् । [ उत्तरपीठिकायां
२३६ दशकुमारचरितम् । [ उत्तरपीठिकायां नवकुसुमकोरकपुलकलाञ्छितं प्रत्यग्रप्रवालपटलपाटलं कपाटमुद्घाट्य प्राविक्षम् । (२०) तत्र चासीत्स्वास्तीर्णं कुसुमशयनम् , सुरतोपकरणवस्तुगर्भाश्च कमलिनीपलाशसम्पुटाः, दन्तमयस्तालवृन्तः, सुरभिसलिलभरितश्च भृङ्गा- रः । समुपविश्य मुहूर्तं विश्रान्तः परिमलमतिशयवन्तमाघ्रासिषम् । अश्रौ- षं च मन्दमन्दं पदशब्दम् । श्रुत्वैव सङ्केतगृहान्निर्गत्य रक्ताशोकस्कन्ध- पार्श्वव्यवहिताङ्गयष्टिः स्थितोऽस्मि । पुष्पमुकुला एव पुलका रोमाञ्चास्तैर्लाञ्छितं चिह्नितम् । प्रत्यग्रेति-प्रत्यग्रं नवोद्गतं यत्प्रवालपटलं पल्लवसमूहस्तेन पाटलं श्वेतरक्तवर्णम् । कपाटविशेषणे एते । कपाटं द्वाराच्छादनम् । उद्घाट्य-उन्मोच्य । (२०) तत्र माधवीलतामण्डपे । स्वास्तीर्णं-सुष्ठु यथा तथा आस्तीर्णं कृतास्तरणम्-सुस्थापितं वा कुसुमशयनं-पुष्परचितशय्या । सुरतेति-सुरतस्य रतिक्रीडाया उपकरणानि साधनानि वस्तूनि द्रव्याणि स्रक्चन्दनताम्बूलादीनि गर्भे मध्ये येषां ते तथाविधाः । कमलिनीपलाशसंुपुटाः पद्मपत्ररचितद्रोण्यः । दन्तमयः-गजदन्तनिर्मितः । तालवृन्तः व्यजनम् । सुरभिसलिलभरितः सुगन्धोद- कपूर्णः । भृङ्गारो जलपात्रविशेषः । मुहूर्तं क्षणकालम् । विश्रान्तः अपगतश्रमः । परिमलं गन्धम् । अतिशयवन्तम् अत्युत्कृष्टम् । आघ्रासिषम् आघ्रातवान् । मन्द- मन्दं-धीरम् । पदशब्दं चरणध्वनिम् । श्रुत्वैव श्रवणमात्रमेव । संकेतगृहात् अत्र माधवीलतामण्डपात् । रक्ताशोकेति रक्ताशोकस्य स्कन्धः काण्डस्तस्य पार्श्वेन पार्श्वभागेन व्यवहिता तिरोहिता अङ्गयष्टिर्देहलता यस्य सः । लताओंसे परिरम्भित एवं नवीन फूलोंके मुकुलोंसे पुलकित ( रोमाञ्चित ) चिह्नित है तथा नवोद्गत पल्लवोंके समुदायोंसे रक्तवर्णी हो रहे हैं ऐसे गर्भगृहके किवाड़ोंको खोल करके मैंने उसमें प्रवेश किया । (२०) उस गर्भागारमें सुन्दर तोषक तकियासे-सुसज्जित पुष्पशय्या पड़ी है। कमलिनीके पत्तोंके दोनोंमें चन्दन, पान, माला आदि रतिक्रीड़ाकी वस्तुएँ सजी धरी हुई हैं । हाथीदाँतके बने पंखे भी रखे हुए हैं । सुगन्धित जलसे परिपूर्ण-जलपात्र ( कलश ) रखा हुआ है । उस गर्भागारमें मैंने प्रवेश करके क्षणभर विश्राम लिया । इत्र आदि सुगन्धियाँ खूब सूँधी । धीर गम्भीर चरणध्वनि सुनाई पड़ी । चरणध्वनिके सुनते ही मैं उस गर्भागार ( संकेतगृह ) से निकला और लाल अशोकके झुण्डोंके बगलमें अपनी देहरूपी लताको छिपा करके खड़ा हो गया ।
तृतीयोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । २३७ (२१) सा च सुभ्रूः सुषीमकामा शनैरुपेत्य तत्र मामदृष्ट्वा बलवद- व्यथिष्ट । व्यसृजच्च मत्तराजहंसीव कण्ठरागवल्गुगद्गदां गिरम्—'व्यक्त- मस्मि विप्रलब्धा । नास्त्युपायः प्राणितुम् । अयि हृदय, किमिदमकार्यं कार्यवदध्यवसाय तदसम्भवेन किमेवमुत्ताम्यसि । भगवन् पञ्चबाण, कस्तवापराधः कृतो मया यदेवं दहसि; न च भस्मीकरोषि' इति । (२२) अथाहमाविर्भूय विवृतदीपभाजनः 'भामिनि, ननु बह्वपराधं
(२१) सा कल्पसुन्दरी । सुषीमकामा सुषीमं शिशिरं कामयते या तथा शैत्यार्थिनी । शनैर्मन्दम् । तत्र संकेतागारे । मामुपहारवर्माणमित्यर्थः । बलवत् सातिशयम् । अभ्यथिष्ट-पीडिताऽभवत् । कण्ठेति-कण्ठरागेण कण्ठस्वरेण वल्गुः सुन्दरो गद्गदोऽस्पष्टभाषणं यस्यां तादृशीम् । गिरं व्यसृजत् उक्तवती । व्यक्तं स्फुटम् । विप्रलब्धा-प्रतारिता । प्राणितुं-जीवितुम् । अयि हृदयेति स्वहृदयं सम्बोध्य ब्रवीति । किमिदं किं प्रक्रान्तं त्वयेत्यर्थः । अकार्यम् अकरणीयम् । कार्यवत् कार्येण तुल्यम् अध्यवसाय निश्चित्य । तदसंभवेन-कार्यासंभवेन किं कथम् । एवं एवं प्रका- रण । उत्ताम्यसि-खिद्यसे । तव-तव सकाशे । दहसि-तापयसि । भस्मीकरोषि भस्म- सात्करोषि-प्राणानापहरसीति एतादृशात् तापात्मृत्युरपि श्रेयानिति भावः । (२२) अथ कल्पसुन्दरीपरिदेवनानन्तरम् । अहम् उपहारवर्मा । आविर्भूय— कल्पसुन्दर्याः पुरः प्रकटीभूय विवृतदीपभाजनः समुद्घाटितप्रदीपसंपुटकः । भामिनि
(२१) वह सुन्दर भौंहवाली कल्पसुन्दरी धीरे-धीरे उस गर्भागार में शीतलता की अभिलाषा से आयी और उस संकेतस्थल में मुझे न देख कर के अतिशय पीड़ित हुई । उन्मत्तावस्थाको प्राप्त राजहंसी के सदृश कण्ठस्वर से सुन्दर अस्फुट वाणी से कहने लगी । हन्त ! मैं निश्चय ही स्पष्ट रीति से प्रतारित हुई । अब जीवन रहनेका कोई साधन नहीं मालूम पड़ता है । ( अपने चित्तको सम्बोधित करती हुई कहने लगी—)'हे चित्त ! तुमने इस अकरणीय कार्य में करणीय कार्य के समान निश्चय करके मुझे प्रवृत्त कराया और उसके असम्भव होनेपर ( असिद्ध होनेपर ) मुझे क्यों ताप दे रहे हो । हे भगवन् ! हे पञ्चबाण !! आपका मैंने कौन सा अपराध किया है जो आप मुझे इस प्रकार से दह रहे हैं किन्तु भस्म नहीं करते हैं।' ( हा ! ऐसे दुःख से तो मृत्यु अच्छी होती है ।) (२२) कल्पसुन्दरीकी ऐसी वेदनाओंके सुनने के अनन्तर मैं (उपहारवर्मा) उस गर्भागारसे प्रकट हो गया । और प्रदीपसम्पुटको समुद्घाटित करके उस कल्पसुन्दरीसे बोला—'हे कोपने ! आपके द्वारा कामदेवके अनेक अपराध किये गये हैं । देखिये, आपको
२६८ दशकुमारचरितम् । [ उत्तरपीठिकायां
२६८ दशकुमारचरितम् । [ उत्तरपीठिकायां भवत्या चित्तजन्मनो यदमुष्य जीवितभूता रतिराकृत्या कदर्शिता, धनु- र्यष्टिर्भ्रूलताभ्याम्, भ्रमरमालामयी ज्या नीलाअलकद्युतिभिः, अस्त्राण्यपा- ङ्गवीक्षितवृष्टिभिः, महारजनध्वजपटांशुकं दन्तच्छदमयूखजालैः, प्रथमसु- हृन्मलयमारुतः परिमलपटीयसा निःश्वासपवनेन, परभृतमतिसञ्जलैः प्र- लापैः, पुष्पमयी पताका भुजयष्टिभ्याम्, दिग्विजययारम्भपूर्णकुम्भमिथुन- मुरोजकुम्भयुगलेन, क्रीडासरो नाभिमण्डलेन, संनाह्यरथः श्रोणिमण्डलेन, कोपने । सम्बोधनमेतत् । बहु-अत्यन्तम् । भवत्या-त्वया । चित्तजन्मनः कामस्य । यद् यतः। अमुष्य-कामस्य । जीवितभूता प्राणस्वरूपा । रतिः स्वपत्नी । आकृत्या आकारेण, स्वशरीरसौन्दर्येण । कदर्शिता-तिरस्कृता । धनुर्यष्टिर्धनुर्लता-अमुष्येति सर्वत्र सम्बध्यते । भ्रूलताभ्यां स्वध्रुवल्लीभ्याम्-कदर्शितेति च सर्वत्र सम्बध्यते । भ्रमरमालामयी-भ्रमरपङ्क्तिरूपा । ज्या मौर्वी । नीलाअलकद्युतिभिः-स्वकृष्णकुन्त- लकान्तिभिः । अस्त्राणि बाणाः । कदर्शितानीति विभक्तिपरिणामेनात्रान्यत्राप्य- न्वयः। अपाङ्गवीक्षितवृष्टिभिः-कटाक्षपातैः । 'भिन्नं स्यादस्य वाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्विदि'ति कविसमयप्रसिद्धेः । महारजनेति-महारजनं कुसुम्भं तेन रञ्जितो ध्वजपटः पताकावस्त्रं तस्य अंशुरेवांशुकम् प्रभेति यावत् । 'स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपी'त्यमरः । दन्तच्छदमयूखजालैः-ओष्ठाधरकिरणपटलैः । प्रथमसुहृत् कामस्य प्रधानमित्रम् । मलयवायुः दक्षिणपवनः परिमलेति परिमलेन सौरभेण पटीयान् समर्थतरः-मलयानिलतिरस्कारक्षम इत्यर्थः । परभृतं-कोकिलम् अतिमञ्जुलैरतिमनेहरैः । प्रलापैः कण्ठध्वनिभिः । भुजयष्टिभ्यां बाहुलत्ताभ्याम् । दिग्विजययेति-दिग्विजययारम्भे विजययात्रायां मङ्गलसूचकं पूर्णघटयुगलम् । उरोज- कुम्भयुगलेन-स्तनकलशयुग्मेन । क्रीडासरः-लीलासरोवरम् । संनाह्यरथः-युद्धार्थं आकृतिके सौन्दर्यके द्वारा कामप्रिया रति तिरस्कृत की गयी है। आपकी भ्रुकुटियोंकी लताओंके द्वारा कामधनुष तिरस्कृत किया गया है। आपके काले एवं चमकीले केशकला- पोंके द्वारा कामकी भौरोंकी श्रेणियोंवाली प्रत्यञ्चा अनादृत की गयी है। आपके कटाक्षोंकी पाँतोंसे काम-बाण अनादृत किये गये हैं। आपके ओष्ठाधरके पटलोंके द्वारा कामकी कुसुम्भी पताकाकी कान्ति तिरस्कृत की गयी है। आपके निःश्वासोंके पवनके द्वारा कामदेवका प्रधान मित्र मलयानिल दक्षिणपवन अनादृत किया गया है। आपकी कण्ठध्वनिके द्वारा अतिमनोहर कोकिल हराया गया है। आपकी बाहुवल्लियोंके द्वारा कामकी फूलोंके द्वारा गुम्फित ध्वजा तिरस्कृत की गयी है। आपके दोनों स्तनकलशोंके द्वारा कामकी विजय यात्राके मंगलसूचक दोनों पूर्ण कलश पराभूत किये गये हैं। आपकी गम्भीर नाभिके
तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २३६ भवनरत्नतोरणस्तम्भयुगलमूरुयुगलेन, लीलाकर्णकिसलयं चरणतलप्र- भाभिः । अतः स्थान एव त्वां दुनोति मीनकेतुः । मां पुनरनपरा- धमधिकमायासयतीत्येष एव तस्य दोषः । तत्प्रसीद सुन्दरि, जीवय मां जीवनौषधिभिरिवापाङ्गैरनङ्गभुजङ्गदष्टम्' इत्याश्लिष्टवान् । ( २३ ) अरीरमं चानङ्गरागपेशलविशाललोचनाम् । अवसितार्थां चारक्तवलितेक्षणामीषत्स्वेदरेखोद्भेदजर्जरितकपोलमूलामनर्गलकलप्र- सज्जीकृतस्यन्दनम् । श्रोणिमण्डलेन-नितम्बयुग्मेन । भवनेति-भवनस्य गृहस्य रत्न- निर्मितौ यौ तोरणस्तम्भौ बहिर्द्वारस्तम्भौ तयोर्युगलम् । लीलेति-लीलार्थं विला- सार्थं यत् कर्णकिसलयं कर्णपल्लवम् । अतः-अस्माद्धेतोः-यतो भवदीयैराकृत्यादिभिः कामसम्बन्धिनो रथादयस्तिरस्कृता इत्यर्थः । स्थाने युक्तम् । त्वां भवतीं कल्प- सुन्दरीम् । दुनोति तापयति । मीनकेतुः-कामः । आयासयति-पीडयति । तस्य कामस्य । जीवनौषधिभिः-जीवनोपायभूतैः अपाङ्गैः कटाक्षविक्षेपैः । अनङ्गेति-अनङ्गः काम एव भुजङ्गः सर्पस्तेन दष्टम् । मामिति शेषः । इति-इति उक्त्वा । आश्लिष्टवान् तामालिङ्गितवानहमिति शेषः । ( २३ ) अरीरमं-रमितवान् । रमु क्रीडायामित्यस्य धातोर्णिजन्ताल्लुङ । अनङ्गेति-अनङ्गरागेण कामरागेण पेशले मनोरमे विशाले विस्तृते लोचने यस्या- स्ताम् । अवसितार्थां समाप्तरमणाम् । आरक्तेति-आरक्तं ईषद्रक्तं समन्ताद्रक्तं वा वलितं वक्रितमीक्षणं दृष्टिर्यस्तास्ताम् । ईषदिति-ईषत्स्वेदरेखायाः स्वल्पघर्मराजेः उद्भेदेन निर्गमेण जर्जरितं क्लिष्टं कपोलमूलं गण्डमूलं यस्यास्ताम् । अनर्गलकल- मण्डलके द्वारा काम का लीलासरोवर तिरस्कृत किया गया है । आपके दोनो नितम्बा- के द्वारा कामदेवके युद्धका सुसज्जित रथ अनादृत हो गया है । आपकी दोनों जांघोंके द्वारा कामके भवनके रत्ननिर्मित तोरणके दोनों खम्भे तिरस्कृत किये गये हैं । आपके चरण- तलोकी प्रभाके द्वारा कामके विलासार्थ कर्णपल्लव पराजित किये गये हैं । अत एव कामदेव आपको ठीक ही सन्तापित कर रहा है । किन्तु, मुझ निरपराधीको जो वह कामदेव अधिक व्यथित कर रहा है-यही उसका अपराध है । इसलिए हे सुन्दरि ! मेरे ऊपर कृपा कीजिये । मेरे जीवनोपायभूत अपने कटाक्षोंके विक्षेपोंके द्वारा कामदेवरूपी सर्पके द्वारा काटे हुए मुझको जिलाइये । इस प्रकार कहते हुए मैंने उस कल्पसुन्दरीको आलिंगित कर लिया । ( २३ ) कामके रागसे जिसके बड़े-बड़े नेत्र मनोहर लग रहे थे उस कल्पसुन्दरीके साथ मैंने रमण किया । रमणसमाप्तिके अनन्तर वह रमणी मुझे लाल-लाल तिरछे नेत्रोंसे देखने लगी । रमणके पश्चात् उसके कपोलके मूलभाग ( गण्डप्रदेश ) से कुछ Nepal Sanskrit University, Balmeeki Campus, Kathmandu
२४० दशकुमारचरितम् । [ उत्तरपीठिकायां
२४० दशकुमारचरितम् । [ उत्तरपीठिकायां लापिनीमरुणदशनकररुहार्पणव्यतिकरामत्यर्थपरिश्लथाङ्गीमार्तामिव लक्ष- यित्वा मानसीं शारीरीं च धारणां शिथिलयन्नात्मानमपि तया समानार्थ- मापादयम् । तत्क्षणविमुक्तसङ्गतौ रतावसानिकं विधिमनुभवन्तौ चिरपरि- चिताविवातिगूढविश्रम्भौ क्षणमवातिष्ठावहि । पुनरहमुष्णमायतं च निः- श्वस्य किञ्चिद्दीनदृष्टिः सचकितप्रसारिताभ्यां भुजाभ्यामेनामनतिपीडं परि- कलप्रलापिनीम् निरन्तराव्यक्तध्वनिप्रलपनशीलाम् । अरुणेति-अरुणो रक्तो दश- नानां दन्तानां कररुहाणां नखानाञ्चार्पणेन दानेन तज्जनितक्षतेनेत्यर्थः, व्यतिकरः सम्बन्धो यस्यास्ताम् । अत्यर्थपरिश्लथाङ्गीं-अतिशिथिलावयवाम् । आर्त्तां क्लान्ता- म् । लक्षयित्वा निरूप्य । मानसीधारणा चित्तावेशरूपा, शारीरीधारणा स्थैर्यरूपा तामुभयविधां धारणामित्यर्थः । शिथिलयन् श्लथयन् । तया कल्पसुन्दर्या । समा- नार्थं तुल्यप्रयोजनमार्त्तिमित्यर्थः । सम्पादयम्-अकरवम् । तत्क्षणविमुक्तसङ्गतौ- तस्मिन् क्षणे समये विमुक्तं त्यक्तं संगतमाश्लेषो याभ्यां तौ । त्यक्तालिङ्गनव्या- पारावित्यर्थः । रतावसानिकं-सुरतसमाप्त्युचितम् । विधिं-व्यापारम् । चिरपरिचि- तेति-चिरपरिचितौ यथा विश्रम्भं भजतस्तद्वत् । अतिगूढविश्रम्भौ-अत्यन्तगुप्त- विश्वासौ । अवातिष्ठावहि-अवस्थितावावामिति शेषः । अहमुपहारवर्मेत्यर्थः । दीनदृष्टिः दैन्यपूर्णनयनः । सचकितप्रसारिताभ्यां-सशङ्कविस्तृताभ्याम् । एनां- कल्पसुन्दरीम् । अनतिपीडं-शिथिलं मन्दमिति यावत् । नातिविशदम्-नातिस्प पसीना बहने लगा। वह उस समय कुछ अस्फुट ध्वनि करने लगी। वह कल्पसुन्दरी उस समय अपने अरुण दाँतों तथा नाखूनोंके (नोंच-कचोट आदि) रतिव्यापारोंसे मुझे विभूषित करने लगी। रतिव्यापारके द्वारा अत्यन्त शिथिल शरीरवाली और क्लेशित उस कल्पसुन्दरीको मैने देखा। देख करके मेरी चित्तावेशरूपा धारणा तथा स्थैर्यरूपा धारणा शिथिल पड़ गयी। (मैं भी उसी कल्पसुन्दरीके समान कामदेवके सिद्ध मनोरथरूप रतिसे कृतकृत्य हो गया। जैसे वात्स्यायन ऋषिके शास्त्रानुसार स्त्री-मनोरथ पूर्ण होनेपर पुरुष भी तद्वत् हो जाते हैं। वैसे ही मैं भी उस समय हो गया।) मैने भी अपनेको उसी कल्पसुन्दरीके सदृश सम्पादित कर लिया। रतिके पश्चात् उस समय हम लोग आलिंगन त्याग करके रतिके अनन्तर जो उचित व्यापार होते हैं उनको अनुभव करने लगे। बहुत कालसे परिचित व्यक्तिके समान अत्यन्त गुप्त विश्वासी हो करके कुछ क्षणोंतक हम दोनों वहाँ बैठे रहे। पुनः मैने गरम औ लंबी सांस लेकर कुछ दैन्य दृष्टिके साथ, विस्मयके साथ भुजाओंको फैला करके उस कल्पसुन्दरीका शिथिलता और और धीरताके साथ आलिंगन किया तथा धीरेसे चुम्बन भी लिया। आँखोंमें आँसू भर कर उस कल्पसुन्दरीने मुझसे कहा कि 'हे नाथ ! यदि आप जाना चाहते हैं तो
तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २४१ ष्बज्य नातिविशदमचुम्बिषम् । अश्रुमुखी तु सा 'यदि प्रयासि नाथ, प्रयातमेव मे जीवितं गणय । नय मामपि। न चेदसौ दासजनो निष्प्रयो- जनः' इत्यञ्जलिमवतंसतामनैषीत् । ( २४ ) अवादिषं च ताम्—'अयि मुग्धे, कः सचेतनः स्त्रियमभि- कामयमानां नाभिनन्दति । यदि मदनुग्रहनिश्चलस्तवाभिसन्धिराचरावि- चारं मदुपदिष्टम् । आदर्शय रहसि-राज्ञे मत्सादृश्यगर्भं चित्रपटम् । आचक्ष्व च किमियमाकृतिः पुरुषसौन्दर्यस्य पारमारूढा न वा' इति । 'बाढमारूढा' इति नूनमसौ वक्ष्यति । ब्रूहि भूयः—'यद्येवम्, अस्ति कापि ष्म् । अचुम्बिषम् चुम्बितवान् । अश्रुमुखी-सवाष्पा-सा-कल्पसुन्दरी । प्रयातमेव- गतमेव । गणय जानीहि । तव गमनेन ममापि प्राणा बहिर्गमिष्यन्तीति भावः । असौ दासजनः अहमित्यर्थः । निष्प्रयोजनः निरर्थकः । अवतंसतां शिरोभूषणताम् । मस्तके अञ्जलिमवध्नादित्यर्थः । ( २४ ) तां कल्पसुन्दरीम् । सचेतनः-चेतनावान् पुरुषः । अभिकामयमा- नाम्-अभिलषन्तीम् । अभिनन्दति स्तौति आकाङ्क्षतीत्यर्थः । मदनुग्रहनिश्चलः मदनुग्रहे मामनुग्रहीतुं निश्चलः स्थिरः । अभिसन्धिरभिप्रायः । आचर-कुरु । अविचारं विना विचारेण । मदुपदिष्टं मदुक्तम् । आदर्शय-संदर्शय । राज्ञे-विक- टवर्मणे । मत्सादृश्यगर्भं-मत्सदृशरूपवन्तम् । इयं-चित्रपटस्थिता । पुरुषसौन्द- र्यस्य पुरुषे यत्सौन्दर्यं सम्भवति तस्य । पारं-पराकाष्ठाम् । आरूढा-प्राप्ता । बाढं-निश्चयेन । असौ-विकटवर्मा । यद्येवं-इयमाकृतिः सौन्दर्यस्य परां काष्ठां आप यह भी समझिये कि आपके जानेके साथ ही मेरे प्राण भी चले जायेंगे । मुझे भी अपने साथ ही लेते चलिये । नहीं तो इस दासी कल्पसुन्दरीको निष्प्रयोजन ( मृत ) ही समझियेगा' । ऐसा कह कर उस कल्पसुन्दरीने अपनी अञ्जलिको अपना शिरोभूषण बना लिया । ( २४ ) मैने उस कल्पसुन्दरीसे कहा—'हे मुग्धे ! कौन-सा ऐसा चेतनावान् पुरुष होगा जो अपने ऊपर अनुराग करनेवाली रमणीकी आकांक्षा न करेगा । यदि मेरे विषयमें आपका अनुग्रह स्थिर है एवं आपके अभिप्राय दृढ हैं तो आप शंका त्याग करके मेरे कथनानुसार आचरण करें । एकान्तमें आप राजाको, मेरे समानरूपवाले इस मेरे चित्रको दिखावें । और उस राजासे कहें क्या इस चित्रगत पुरुषके सौन्दर्यने अन्य पुरुषोंके सौन्दर्यको नहीं पार कर लिया है ? ऐसा पूछे जानेपर वह राजा अवश्य ही कहेगा कि अवश्य ही इस आकृतिने सौन्दर्यका अतिक्रमण किया है । तब आप उस Nepal Sanskrit University, Balmeeki Campus, Kathmandu
२४२ | दशकुमारचरितम् । | [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
२४२ | दशकुमारचरितम् । | [ उत्तरपीठिकायां
तापसी देशान्तरभ्रमणलब्धप्रागल्भ्या मम च मातृभूता । तयेदमालेख्य- रूपं पुरस्कृत्याहमुक्ता—‘सोऽस्ति तादृशो मन्त्रो येन त्वमुपोषिता पर्वणि विविक्तायां भूमौ पुरोहितैर्हुतमुक्ते सप्तार्चिषि नक्तमेकाकिनी शतं चन्दन- समिधः, शतमगुरुसमिधः, कर्पूरमुष्टीः, पट्टवस्त्राणि च प्रभूतानि हुत्वा भविष्यस्येवमाकृतिः । ( २५ ) अथ चालयिष्यसि घण्टाम् । घण्टापुटकणिताहूतश्च भर्ता ते भवत्यै सर्वरहस्यमाख्याय निमीलिताक्षो यदि त्वामालिङ्गेत, इयमाकृतिर- प्राप्ता चेदित्यर्थः । देशान्तरेति-देशान्तराणां अनेकदेशानां भ्रमणेन गमनेन लब्धं प्राप्तं प्रागल्भ्यं पटुत्वं अभिज्ञतेति यावद् यया सा । मातृभूता मातृस्वरूपा । तया-तापस्या । आलेख्यरूपं-चित्रसौन्दर्यम् । पुरस्कृत्य-विषयीकृत्य-अग्रे संस्था- प्येति वा । तादृशः-प्रभावसम्पन्नः । येन-मन्त्रेण । उपोषिता-निराहारा । पर्वणि- अमावास्यादौ । विविक्तायां-पवित्रायाम् । निर्जनायां वा । हुतमुक्ते-आदौ हुतः पश्चान्मुक्तस्तस्मिन् । सप्तार्चिषि-अग्नौ । नक्तं-रात्रौ । चन्दनसमिधः चन्दन- काष्ठानि । अगुरुसमिधः अगुरुकाष्ठानि । कर्पूरमुष्टीः-कर्पूरचूर्णानि । पट्टवस्त्राणि- कौषेयवसनानि । एवमाकृतिः-एवमेतादृशी आकृतिर्यस्याः सा । ( २५) अथ-तादृशाकृतिप्राप्त्यनन्तरम् । चालयिष्यसि-वादयिष्यसि । घण्टां- वाद्यविशेषम् । घण्टापुटेति-घण्टापुटस्य कणितेन प्रतिशब्देनाहूत आकारितः । भर्ता-तव पतिः । भवत्यै तव समीप इत्यर्थः । सर्वरहस्यं गुप्तविषयान् । आख्याय- कथयित्वा । निमीलिताक्षः-मुद्रितनेत्रः । त्वां-भवतीं कल्पसुन्दरीमिति यावत् ।
नृपतिसे फिर से कहें—'यदि ऐसा है तो कोई एक तपस्याशीला साध्वी है जिसने अनेक देश-देशान्तरोंमें पर्यटन करके पटुता प्राप्त की है तथा वह साध्वी मेरी माताके सदृश भी है। उसी साध्वीने यह चित्रपट मेरे सम्मुख रख करके कहा है—'मेरे पास एक ऐसा मन्त्र है जिसके द्वारा आप निराहार हो करके अमावास्याकी तिथिमें किसी निर्जन भूमिमें पुरोहितोंके द्वारा हवन करावें और उस हवनकी शेष अग्निमें रातके समय अकेली आकर एक सौ चन्दनकी लकड़ी, एक सौ अगुरुकी लकड़ी तथा कर्पूरके चूर्णसे एवं रेशमी वस्त्रोंसे प्रचुरमात्रामें हवन करेंगी तो आप भी इसी प्रकारकी आकृति- वाली हो जायँगी । ( २५ ) इसके पश्चात् घंटा बजा देंगी और घंटाके शब्दोंको श्रवण करके आपके पतिदेव आ करके अपने सभी गुप्तभेदोंको सुना करके यदि आँखें बन्द करके आपका आलिङ्गन करेंगे तो वे भी इसी चित्रपटकी आकृतिके समान हो जायंगे । और आपकी
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २४३ मुमुपसंक्रामेत् । त्वं तु अविष्यसि यथापुराकारैव यदि भवत्यै भवत्प्रियाय चैवं रोचेत, न चास्मिन्विधौ विसंवादः कार्यः' इति । 'वपुश्चेदिदं तवा- भिमतं सह सुहृन्मन्त्रिभिरनुजैः पौरजानपदैश्च संप्रधार्य तेषामप्यनुमते कर्मण्यभिमुखेन स्थेयम्' इति । ( २६ ) स नियतमभ्युपैष्यति । पुनरस्यामेव प्रमदवनवाटीशृङ्गाटि- कायामाथर्वाणिकेन विधिना संज्ञपितपशुनाभिहुत्य मुक्ते हिरण्यरेतसि- तद्धूमशमनेन संप्रविष्टेन मयास्मिन्नेव लतामण्डपे स्थातव्यम् । त्वं पुनः प्रगाढायां प्रदोषवेलायामालपिष्यसि कर्णे कृतनर्मस्मिता विकट- अमुं-तव भर्त्तारम् । उपसंक्रामेत्-संक्रान्ता भवेत् । यथापुराकारा यथापूर्वाकृतिः । भवत्प्रियाय-त्वद्भर्त्रे । एवं-पूर्वोक्तम् । रोचेत-यद्यभिमतं स्यात् । विधौ-प्रयोजने । विसंवादः-अन्यथाबुद्धिः । इदमेतादृशम् । अभिमतं-सम्मतम् । अनुजैः सहोदरैः । पौरजानपदैः नागरिकैः । सम्प्रधार्य-निश्चित्य । तेषां-सुहृन्मन्त्र्यादीनाम् । अनुमते- संमते । अभिमुखेन-उद्युक्तेन । स्थेयं-स्थातव्यम् । ( २६ ) स विकटवर्मा । नियतम् अवश्यम् । अभ्युपैष्यति-स्वीकरिष्यति । प्रमदवनेति-प्रमदवनवाट्याः क्रीडोद्यानस्य शृङ्गाटिकायां-चतुष्पथे । आथर्वाणि- केन-अथर्ववेदोपदिष्टेन विधिना अनुष्ठानेन । संज्ञपितपशुना-संज्ञपितो घातितः पशुश्छागादिर्यस्मिन् तेन-विधिविशेषणमेतत् । अभिहुत्य-होमं सम्पाद्य । मुक्ते- विसृष्टे । हिरण्यरेतसि-वह्वौ । तद्धूमशमनेन-तस्य धूमस्य शमनेन निवृत्त्या सहेति शेषः । मया-उपहारवर्मणेत्यर्थः । त्वं कल्पसुन्दरीत्यर्थः । प्रगाढायां सान्द्रतिमिरा- याम् । प्रदोषवेलायां रजनीमुखे । आलपिष्यसि-कथयिष्यसि । कर्णे विकटवर्म- ( रानी कल्पसुन्दरीकी ) आकृति फिर पूर्ववत् हो जायगी । यदि यह वार्ता आपके पतिदेवकी अभिमत हो तो इस विधिमें कोई सन्देह आदि न करें । यदि आपको ऐसे स्वरूपधारी बननेकी अभिलाषा है तो आप अपने मित्रों, मन्त्रियों, अनुजों और पुर- वासियोंसे विचार करके उन सबकी अनुमतिसे इस कार्यमें प्रवृत्त होवें ।' ( २६ ) वह नृपति विकटवर्मा अवश्य ही स्वीकार करेगा । फिर इसी क्रीडोद्यानके चतुष्पथके ऊपर अथर्ववेदके विधानद्वारा हवन किये हुए पशुका हवन करा करके अव- शिष्ट अग्निके धूएंकी निवृत्तिके बाद मैं ( उपहारवर्मा ) लतामण्डपमें प्रविष्ट हो करके बैठा रहूँगा आप भी घोर अन्धकारवाले प्रदोषकालमें अपने पतिके कानोंमें मुसकुरा करके कहियेगा कि ( हे देव !) आप बड़े धूर्त्त हैं । आप बड़े अकृतज्ञ हैं । मेरे प्रसादसे
२४४ दशकुमारचरितम् । [ उत्तरपीठिकायां
२४४ दशकुमारचरितम् । [ उत्तरपीठिकायां वर्माणम्—'धूर्तोऽसि त्वमकृतज्ञश्च । मदनुग्रहलब्धेनापि रूपेण लोकलोच- नोत्सवायमानेन मत्सपत्नीभिरभिरमयिष्यसि । नाहमात्मविनाशाय वेतालो- त्थापनमाचरेयम्' इति । ( २७) श्रुत्वेदं त्वद्वचः स यद्वक्ष्यति तन्मह्यमेकाकिन्युपागत्य निवे- दयिष्यसि । ततः परमहमेव ज्ञास्यामि । मत्पदचिह्नानि चोपवने पुष्करि- कया प्रमार्जय' इति । सा 'तथा' इति शास्त्रोपदेशमिव मदुक्तमाहृत्यातृ- प्सुसुरतरागैव कथंकथमप्यगादन्तःपुरम् । अहमपि यथाप्रवेशं निर्गत्य स्वमेवावासमयासिषम् । ( २८ ) अथ सा मत्तकाशिनी तथा तमर्थमन्वतिष्ठत् । अतिहृष्टश्च श्रवणे । कृतनर्मेति-कृतं विहितं नर्मस्मितं परिहासहसितं यया सा । धूर्त्तः-वञ्चकः । अकृतज्ञः-अस्मृतोपकारः । मदनुग्रहलब्धेन-मत्प्रसादाधिगतेन । रूपेण-आकारेण । लोकलोचनेति-लोकलोचनानां जननयनानामुत्सवमिवाचरता । आत्मविनाशाय- स्वमरणाय । वेतालोत्थापनं भूतविशेषोत्पादनम् । ( २७) स विकटवर्मा । ज्ञास्यामि-तदानीं यद्विधेयं तदहमेव करिष्या- मीत्यर्थः । पुष्करिकया तन्नामकदास्या मार्जय-प्रोञ्छय । सा कल्पसुन्दरी । तथा- तथा भवतु । आहृत्य-सादरं स्वीकृत्य । अतृप्तसुखरागा असम्पूर्णसुरताभिलाषा । कथं कथमपि-अतिकृच्छ्रेण । यथाप्रवेशं-येन पथा प्रविष्टस्तेनैव पथा । ( २८ ) मत्तकाशिनी-वरवर्णिनी । तथा-यथा मयोक्तं तेन प्रकारेण । तं पूर्वकथितम् । अर्थ-विषयम् । •अन्वतिष्ठत्-अकरोत् । तन्मते-कल्पसुन्दरीकथिते- प्राप्त रूपस जो रूप लोगोके नयनों का उत्सव बढ़ानेवाला होगा उसी रूपसे आप मेरी सौतों ( सपत्नीजनों ) के साथ रमण करेंगे। अतः अपना विनाश करनेके लिये वेतालका आह्वान न करूंगी । ( २७ ) इन बातोंको सुन करके वह नृपति जो कहे वह आप मुझसे अकेली आ करके कह दीजियेगा । उसके अनन्तर जो कुछ होगा वह मैं समझ लूँगा । उपवनमें जो मेरे पैरोंके चिह्न हैं उन्हें पुष्करिकाद्वारा मिटवा दीजियेगा । उन रानी कल्पसुन्दरीने 'तथा' (स्वीकार है ) कह करके शास्त्रोंके उपदेशोंके सदृश मेरे वचनोंको माना और रतिक्रीड़ासे अतृप्ति पाकर भी येन केन प्रकारसे अन्तःपुरमें गयी । मैं भी उक्तो पूर्व मार्गसे निकल कर के निवासस्थलपर आकरके विराम करने लगा । ( २८ ) तदनन्तर उस उत्तमाङ्गना रानीने मेरे कथनानुसार सब कार्य कर दिया । उस रानी कल्पसुन्दरीके आदेशानुसार वह दुर्मति राजा विकटवर्मा भी राजी हो गया !
[तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २४५
तन्मते स दुर्मतिः । अभ्रमच्च पौरजानपदेष्वियमद्भुतायमाना वार्ता— 'राजा किल विकटवर्मा देवीमन्त्रबलेन देवयोग्यं वपुरासादयिष्यति । नूनमेष विप्रलम्भो नातिकल्याणः । कैव कथा प्रमादस्य । स्वस्मिन्नेवान्तः- पुरोपवने स्वाग्रमहिष्यैव संपाद्यः किलायमर्थः । तथाहि बृहस्पतिप्रतिमबु- द्धिभिर्मन्त्रिभिरप्यभ्यूह्यानुमतः । यद्येवं भावि नान्यदतः परमस्ति किञ्चि- दद्भुतम् । अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः' इति प्रसूतेषु लोकप्रवा- देषु प्राप्ते पर्वदिवसे, प्रगाढायां प्रौढतमसि प्रदोषवेलायामन्तःपुरोद्यानादु- दैरयदधूर्जटिकण्ठधूम्रो धूमोद्गमः । क्षीराज्यदधितिलगौरसर्षपवसामांसरु- ऽभिप्राये । स विकटवर्मा । अभ्रमत्-प्रससार । अद्भुतायमाना-आश्चर्यवदा- चरन्ती । देवीमन्त्रबलेन-पट्टमहिष्या मन्त्रप्रभावेण देवयोग्यं देवतोचितम् । आ- सादयिष्यति-प्राप्स्यति । नूनं निश्चयेन । विप्रलम्भः प्रतारणं, नेत्यनेन सम्बध्यते । अतिकल्याणः-अतिशुभप्रदः । कैव कथा प्रमादस्य-प्रमादस्य नात्र सम्भव इत्यर्थः । स्वस्मिन् स्वकीये । स्वाग्रमहिष्या-स्वभार्यया । वृहस्पतिप्रतिमबुद्धि- भिः-वाचस्पतितुल्यमतिमद्भिः । अभ्यूह्य वितर्क्य विचार्येति यावत् । अनुमतः- अनुमोदितः । भावि-भविष्यति । अतः परम्-अस्मादप्यधिकम् । अचिन्त्यः- अभावनीयः । प्रसृतेषु-प्रचारितेषु । लोकप्रवादेषु-जनरवेषु । प्राप्ते-उपस्थिते । पर्वदिवसे-अमावास्यायाम् । प्रौढतमसि-घनान्धकारायाम् । उदैरयत्-उदगच्छ- त् । धूर्जटीति-धूर्जटेः शिवस्य कण्ठवद् गलवत् धूम्रो नीलः । धूमोद्गमः-धूम- प्रवाहः । उदैरयदित्यस्य कर्तृपदमेतत् । क्षीराज्येति-क्षीरं दुग्धमाज्यं घृतं दधि क्षीरविकारः, तिलाः प्रसिद्धाः, गौरसर्षपाः सिद्धार्थः, वसा वपा, मांसं पललं
यह आश्चर्यकारिणी वार्त्ता पुरवासियों और नागरिकलोकसंघोंमें फैल गयो—'राजा विकटवर्मा अपनी पटरानी कल्पसुन्दरीके मन्त्रके प्रभावसे देवताओंके अनुरूप शरीरको प्राप्त करेंगे । निश्चय ही इसमें कपट नहीं है अपितु यह अतिशुभप्रद है । इसमें प्रमाद (कपट) की तो कोई बात ही नहीं मालूम पड़ती है क्योंकि अपने ही अन्तःपुरमें अपनी ही भार्याके द्वारा यह कार्य सम्पादित होगा । इसी कारणसे वाचस्पतिके सदृश बुद्धिमान् मन्त्रियोंने भी बहुत विचार करके अनुमोदन किया है । यदि यह बात सत्य हो गयी तो इससे अधिक आश्चर्यकी और कोई बात नहीं है । रत्न, ओषधि और मन्त्रोंका प्रभाव सदा अचिन्त्य होता है । इस तरहका लोकमे प्रवाद फैल गया तथा कुछ दिनमें अमावास्या भी आ गयी । उस दिन जब प्रदोषकालमें घनान्धकार छा गया तब अन्तःपुरके उद्यानसे महादेवजीके कण्ठके समान नीला ( यहाँपर श्याम) धूम्रका आविर्भाव
२४६ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF २४६ दशकुमारचरितम् । [ उत्तरपीठिकायां धिराहुतीनां च परिमलः पवनानुसारी दिशि दिशि प्रावासीत् । प्रशान्ते च सहसा धूमोद्गमे तस्मिन्नहमविशम् । ( २९ ) निशान्तोद्यानमगाच्च गजगामिनी । आलिङ्गय च मां सस्मि- तं समभ्यधत्त- 'धूर्त्त, सिद्धं ते समीहितम् । अवसितश्च पशुरसौ । अमुष्य प्रलोभनाय त्वदादिष्टया दिशा मयोक्तम् - 'कितव, न साधयामि ते सौन्दर्यम् । एवं सुन्दरो हि त्वमप्सरसामपि स्पृहणीयो भविष्यसि, किमुत मानुषीणाम् । मधुकर इव निसर्गचपलो यत्र क्वचिदासज्जति भवादृशो रुधिरं शोणितं तेषां या आहुतयस्तासाम् । परिमलो गन्धः । पवनानुसारी पवन- मनुसृत्य प्रसरणशीलः । प्रावासीत् प्रासरत् । प्रपूर्वकद्वाद्गमनाार्थकवाधातोलुँङि रूपम् । प्रशान्ते अपगते दूरीभूते इति यावत् । प्रविशं प्रविष्टवान् । ( २९ ) निशान्तोद्यानं गृहोपवनम् । गजगामिनी-गजवन्मन्दगमनशीला- कल्पसुन्दरीति शेषः । समभ्यधत्त-उक्तवती । धूर्त्त-कितव । सिद्धं सम्पन्नम् । समीहितम् ईप्सितम् । अवसितः समाप्ति गतः आसन्नमरण इति भावः । पशुः पशुवद् विवेकरहितः । असौ-विकटवर्मा । अमुष्य-विकटवर्मणः । प्रलोभनाय- प्रलोभनार्थम् । त्वदादिष्टया-त्वत्प्रदर्शितया । दिशा-मार्गेण । मया-कल्पसुन्द- र्या । कितव धूत्र्त्तेति सम्बोधनम् । साधयामि-सम्पादयामि । एवं-एतादृशः । अप्सरसां स्वर्गवेश्यानाम् । स्पृहणीयः अभिलषणीयः । किमुत-किं वक्तव्यमि- त्यर्थः । मधुकरी भ्रमरः । निसर्गचपलः स्वभावचञ्चलः । यत्र क्वचित्-यत्र कुत्रा- पि । आसज्जति लगति-आसक्तो भवतीति यावत् । नृशंसः-निर्दयः । तेन- हुआ । दूध, घी, दही और गौर सर्षप, वसा, मांस और शोणित (रक्त) की आहुतियोंके द्वारा उड़ी हुई गन्ध, पवनकी गतिसे प्रत्येक दिशामें फैल गयी । उस धूम्रके प्रशान्त होते ही सहसा मैंने उद्यानमें प्रवेश किया। ( २९) हाथीके समान मन्द गमन करनेवाली वह रानी कल्पसुन्दरी भी उस गृह उपवनमें आ गयी। मेरा आलिङ्गन करके हंसती हुई मुझसे कहने लगी-'हे कितव ! तेरा ईप्सितार्थ ( मनोरथ ) सिद्ध हो गया । पशुके समान अविवेकी इस राजाकी मृत्यु भी समीप है । इस नृपतिके प्रलोभनके लिए मैंने आपके आदेशानुसार उसी रीतिसे कहा-'हे धूर्त्त ! तेरी सुन्दरता मैं नहीं सम्पादित करूंगी । इतनी उत्तम सुन्दरतापर तेरे ऊपर स्वर्गकी अप्सरायें तक मोहित हो जायेंगी तब मृत्युलोककी महिलाओंकी तो बात ही क्या । भौंरेके समान तू स्वभावसे ही चञ्चल है अतः जहां कहीं भी आसक्ति हुई वहीं चिपक जायगा क्योंकि तू निर्दय है ही- (और मैं बिलखा करूंगी) ऐसा Nepal Sanskrit University, Balmeeki Campus, Kathmandu
तृतीयोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । २४७ नृशंसः' इति । तेन तु मे पादयोर्निपत्याभिहितम्—'रम्भोरु, सहस्व मत्कृ- तानि दुश्चरितानि । मनसापि न चिन्तयेयमितःपरमितरनारीम् । त्वरस्व प्रस्तुते कर्मणि' इति । (३०) तदहमीदृशेन वैवाहिकेन नेपथ्येन त्वामभिसृतवती । प्राग- पि रागाग्निसाक्षिकमनङ्गेन गुरुणा दत्तैव तुभ्यमेषा जाया । पुनरपीमं जातवेदसं साक्षीकृत्य स्वहृदयेन दत्ता इति प्रपदेन चरणपृष्ठे निष्पीड्यो- त्क्षिप्तपादपार्णिरितरेतरव्यतिषक्तकोमलाङ्गुलिदलेन भुजलताद्वयेन कंधरां ममावेष्ट्य सलीलमाननमानमय्य स्वयमुन्नमितमुखकमला विश्रान्तवि- विकटवर्मणा । मे-कल्पसुन्दर्याः । सहस्व-क्षमस्व । दुश्चरितानि-अपराधान् । इतरनारीम्-अन्यस्त्रियम् । त्वरस्व-शीघ्रतां कुरु । प्रस्तुते-प्रारब्धे । (३०) तत् तस्मात् कारणात् । वैवाहिकेन-विवाहोचितेन । नेपथ्येन-- वेषेण । त्वामुपहारवर्माणम् । अभिसृतवती-प्राप्तवती । प्राक्-पूर्वम् । रागाग्नि- साक्षिकं-रागोऽनुराग एवाग्निः साक्षी दृष्टा यस्मिन् कर्मणि तदिति क्रियाविशेष- णम् । गुरुणा-आचार्येण । दत्ता-अर्पिता । एषा मद्रूपा । जाया भार्या । जात- वेदमसग्निम् । स्वहृदयेनेति-पूर्वमनङ्गेन दत्ता अधुना तु निजहृदयेनेति-विशे- षः । प्रपदेन-पादाग्रेण । निष्पीड्य-पीडयित्वा । उत्क्षिप्तपादपार्णिः उत्क्षिप्तौ उदृधृतौ पादयोश्चरणयोः पाष्णीं गुल्फदेशौ यया सा । इतरेतरेति-इतरेतरमन्योन्यं व्यतिषक्तानि मिलितानि कोमलानि अङ्गुलय एव दलानि पत्राणि यस्य तेन । कंधरां-ग्रीवाम् । आवेष्ट्य-आश्लिष्य । सलीलं सविलासम् । आननं मदीयं मुखम् । आनमय्य-आनतीकृत्या । उन्नमितमुखकमला-ऊर्द्ध्वीकृताननपद्मा । विश्रान्तेति- कहनेपर उस धूर्त्तने मेरे पैरोंपर गिरकरके कहा- हे रम्भोरु ! आप मेरे किये हुए अप- राधोंको क्षमा कीजिये । अब मनसे भी अन्य रमणियोंको स्मरण न करूंगा। इस प्रारम्भित कार्यके लिए शीघ्रता कीजिये ।' (३०) इस कारणसे मैं इस प्रकारके विवाहके समयानुरूप वस्त्रोंको धारण करके आपके समीप आयी हूँ। पूर्वमें भी अनुरागरूपी अग्निको साक्षी बना करके कामदेवरूपी आचार्यने इस जायाको आपको सौंप दिया है । अब फिर भी इस अग्निकी साक्षी दे करके अपने हृदयसे (अपनेको ) आपको सौंप रही हूँ। ऐसा कहकर वह कल्पसुन्दरी रानी अपने चरणोंके अग्रिम भागोंसे मेरे चरणोंको दबाती हुई खड़ी हुई । परस्पर मिले हुए गुल्फोंसे तथा अन्योन्यमें संश्लिष्ट कोमल अङ्गुलिरूपी दलवालो (पत्रवाली) दोनों बाहुवल्लियोंसे मेरे गलेको परिवेष्टित करके उस रानीने बिलाससे मेरे मुखकी नीचे नवा
२४८ दशकुमारचरितम्। [ उत्तरपीठिकायां
२४८ दशकुमारचरितम्। [ उत्तरपीठिकायां शालदृष्टिरसकृदभ्यचुम्बत् । (३१) अथैनाम् 'इहैव कुरण्टकगुल्मगर्वे तिष्ठ यावदहं निर्गत्य साधयेयं साध्यं सम्यक्' इति विसृज्य तामुपसृत्य होमानलप्रदेशमशोक- शाखावलम्बिनीं घण्टामचालयम्। अकूजच्च सा तं जनं कृतान्तदूतीवाह्व- यन्ती। प्रावर्तिषि चाहमगुरूचन्दनप्रमुखानि होतुम्। अयासीच्च राजा यथोक्तं देशम्। शङ्कापन्नमिव किञ्चित्सविस्मयं विचार्य तिष्ठन्तमब्रवम्- 'ब्रूहि सत्यं भूयोऽपि मे भगवन्तं चित्रभानुमेव साक्षीकृत्य। न चेदनेन विश्रान्ते घूर्णिते विशाले दीर्घे दृष्टी नयने यस्याः सा। असकृत्-वारंवारम्। अभ्य- चुम्बत्-चुम्बितवती मामिति शेषः। (३१) एनां-कल्पसुन्दरीम् । कुरण्टकगुल्मगर्वे-पीतकुरवकस्तम्बमध्ये । अह- मुपहारवर्मा । साधयेयं सम्पादयेयम् । साध्यं कार्यम् । उपसृत्य-प्राप्य । होमान- लप्रदेशं-होमाग्निस्थानम् । अशोकेति-अशोकशाखायामाबद्धाम् । अचालयमवा- दयम् । अकूजत्-अध्वनत् । सा-घण्टा । तं जनं-विकटवर्माणम् । कृतान्तदूती- यमदूतिका । आह्वयन्ती-आकारयन्ती । यमदूती यथा आसन्नमृत्युं मानवं यमालयं नेतुमाह्वयति तद्वदित्यर्थः । प्रावर्त्तिषि-प्रवृत्तोऽभवम् । होतुं अग्नौ प्रक्षेप्तुम् अया- सीद्गच्छत् । राजा विकटवर्मा। यथोक्तं पूर्वकथितम्। शङ्कापन्नं सशङ्कितम् । येयं जुहोति सा कल्पसुन्दरी अन्या वा काचिदिति सन्दिहानमिति भावः। सविस्मयं- मन्त्रप्रभावादशक्यमपि सम्भवतीति साश्चर्यम् । विचार्य स्थिरीकृत्य । तिष्ठन्तम्- दिया और अपने मुखकमलको, ऊंचा करके अपने विशाल नेत्रोंको बार-बार नचाते हुए मेरा मुख बार-बार चूमने लगी। (३१) उसके पश्चात् मैंने (उपहारवर्माने) उस रानीसे कहा-'तुम इसी पीले कुरवक के स्तम्बमध्यमें तबतक बैठो जबतक मैं यहाँसे निकल करके अपने साध्यकार्यको सम्पादित करता हूँ।' इस तरहसे उसे वहीं छोड़ करके मैं होमाग्निस्थानके समीप जा पहुँचा और अशोक वृक्षकी डालीपर लटकी हुई घण्टीको बजा दिया। वह घण्टी ऐसी बजी मानो वह यमराजकी दूती हो और राजा विकटवर्माको बुला रही हो। मैं अगुरु चन्दन आदि प्रमुख होमकी सामग्रियोंको ले करके होम करनेमें प्रवृत्त हो गया। राजा विकटवर्मा भी वहांपर आ गया। सशङ्कित तथा कुछ विस्मित हो करके खड़े होनेवाले उस राजा विकटवर्मासे मैंने कहा-'सत्य कहिये, फिरसे भगवान् अग्निको साक्षी करके सत्य कहिये कि यह अनुपम सौन्दर्य पा करके आप मेरी सौतों (सपत्नीजनों) के