भारतकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

यम्। हतविध्वस्तं च तद्गृहमनु विचरन्वेपमानमधुरगात्रीं विशाललोच- नामभिनिशाम्य तदालिङ्गनसुखमनुबुभूषुस्तामादाय गर्भ गृहमविक्षम् । अस्मिन्नेव क्षणे तवास्मि नवाम्बुवाहस्तनितगम्भीरेण स्वरेणानुगृहीतः' इति। (७४) श्रुत्वा च स्मित्वा च देवोऽपि राजवाहनः 'कथमसि कार्क- श्येन कर्णीसुतमप्यतिक्रान्तः' इत्यभिधाय पुनरवेद्योपहारवर्माणम् आच-

कतिपयान् अल्पसंख्याकान् अन्यान् चण्डवर्मव्यतिरिक्तान् । यमविषयं यमा- लयम् अगमयम् प्रापितवान् । हतविध्वस्तं हता नष्टा विध्वस्ता इव जना यत्र तत् । तद्गृहं चण्डवर्मभवनम् । अनु विचरन् सर्वं भ्रमन् । वेपमानमधुरगात्रीं कम्पमानकोमलावयवाम् । अभिनिशाम्य-श्रावयित्वा मत्परिचयमिति शेषः । अनुबुभूषुः अनुभवितुमिच्छुः । ताम् अम्बालिकाम् । गर्भगृहं गृहाभ्यन्तरम् । अविक्षम् प्रविष्टवान् । विश्प्रवेशे लुङ् । क्षणे अवसरे । तव भवतो राजवाहनस्ये- त्यर्थः । नवेति—नवाम्बुवाहस्य नूतनमेघस्य स्तनितं गर्जितं तद्वद् गम्भीरेण धीरेण स्वरेणेत्यस्य विशेषणम् । अनुगृहीतः अनुकम्पितोऽहमिति शेषः । (७४) श्रुत्वा एतद्वृत्तान्तमिति शेषः । स्मित्वा ईषद्धिस्य । कार्कश्येन- कठोरतया । कर्णीसुतं स्तेयशास्त्रप्रवर्त्तकम् । अतिक्रान्तः उल्लंघितस्त्वमिति शेषः ।

भूत कराया जा रहा है और उसका पाणिग्रहण करनेके लिये चण्डवर्मान् अपने विशाल हाथको उसी समय बढ़ाया । उसी क्षण मैंने उस चण्डवर्माको खींच करके उसके हृदयमें छुरी भोंक दी । और कुछ अन्योंको भी मार करके यमपुरी भेज दिया । जिस भवनमें प्राणी मारे गये उसी हतविध्वस्त राजभवनमें-चण्डवर्मा के भवनमें-विचरण करते हुए मैंने, काँपती हुई सुन्दर शरीरवाली और दीर्घ नयनवाली, राजपुत्रीसे अपना परिचय सुना करके उसके साथ आलिंगन सुखकी अभिलाषासे उसको ले करके गृहाभ्यन्तरमें रति-गृहमें प्रवेश किया। उसी क्षण नूतन मेघके गर्जन के सदृश गम्भीर स्वर से आपने (राजवाहनने) मुझे अनु- कम्पित कर दिया । (७४) इस वृत्तान्तको श्रवण करके तथा मुस्कुरा करके देव राजवाहनने कहा- 'आपने तो इस कठोरतासे कर्णीसुत (स्तेयशास्त्र-प्रवर्त्तक) को भी मात कर दिया।'

२१२ दशकुमारचरितम् । [उत्तरपीठिकायां

२१२ दशकुमारचरितम् । [उत्तरपीठिकायां च्व, तवेदानीमवसरः इत्यभाषत । सोऽपि सस्मितं प्रणम्यारभताभिधातुम् । इति श्रीदण्डिनः कृतौ दशकुमारचरितेऽपहारवर्मचरितं नाम द्वितीय उच्छ्वासः । अवेक्ष्य दृष्ट्वा। आचक्ष्व कथय । तव उपहारवर्मणः । अवसरः समयः । सः उप- हारवर्मा । अभिधातुं कथयितुम् । इति श्रीताराचरणभट्टाचार्यकृतायां बालविबोधिनी समाख्यायां दशकुमारचरितव्याख्यायामपहारवर्मचरितं नाम द्वितीयोच्छ्वासः । फिर उपहारवर्मा को देख करके कहा—'आपका अब समय है।' उस उपहारवर्माने भी हँसकर कहना प्रारम्भ किया । इस प्रकार दशकुमार-चरितके अपहारवर्मचरित नामक द्वितीयोच्छ्वासकी बालक्रीड़ा नामक हिन्दी टीका समाप्त हुई ।

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF काव्यं दशकुमारचरितम् तृतीयोच्छ्वासः ( १ ) एषोऽस्मि पर्यटन्नेकदा गतो विदेहेषु । मिथिलामप्रविश्यैव बहिः कचिन्मठिकायां विश्रमितुमेत्य कयापि वृद्धतापस्या दत्तपाद्यः क्षण- मलिन्दभूमाववास्थिषि । तस्यास्तु महर्शनादेव किमप्याबद्धधारमश्रु प्राव- र्तत । 'किमेतदम्ब, कथय कारणम्' इति पृष्टा सकरुणमाचष्ट—'जैवातृक, ननु श्रूयते पतिरस्या मिथिलायाः प्रहारवर्मा नामासीत् । तस्य खलु मगधराजो राजहंसः परं मित्रमासीत् । तयोश्च वल्लभे बलशम्बल्योरिव उप- वसुमतीप्रियंवदे सख्यमप्रतिममधत्ताम् । अथ प्रथमगर्भाभिनन्दितां तां ( १ ) एषोऽस्मीति-साम्प्रतमुपहारवर्मा स्वचरितं वर्णयति । एषः अहमु- पहारवर्मेति शेषः । पर्यटन् इतस्ततो भ्रमन् । मिथिलां विदेहराजधानीम् । मठि- कायां क्षुद्रमठे । दत्तं पाद्यं यस्मै सः-दत्तपादोदकः । 'पाद्यं पादाय वारिणि' इत्यमरः । अलिन्दभूमौ-बहिर्द्वारप्रकोष्ठे । अवास्थिषि उपाविशम् । अवपूर्वकस्थाधातोर्लुङि आत्मनेपदश्श रूपम् । किमपि अज्ञातकारणम् आबद्धधारं सन्ततधारम् । जैवातृक- आयुष्मन् सम्बोधनमेतत् । 'जैवातृकः स्यादायushmanि'त्यमरः । तयोः राजहंसप्रहार- वर्मणोः । वल्लभे दयिते पत्न्याविति शेषः । बलः शम्बलश्चेति द्वावसुरौ तयोरिव-तौ यथा परस्परमित्रतामापन्नौ तथैव एतावपि मित्रत्वमापन्नादिति भावः । वसुमती- प्रियंवदे-वसुमती राजहंसस्य, प्रियंवदा च प्रहारवर्मणः इत्यर्थः । अप्रतिमम् अतुल- श्री ( १ ) एक समय में (उपहारवर्मा) पर्यटन करते हुए विदेहपुरीमें गया । (वहीं) विदेहपुरीमें प्रवेश करके उस पुरीके बाहर भागमें एक मठमें, विश्राम करनेके निमित्त गया । वहाँ पर एक वृद्धा द्वारा मुझे पाँव धोनेके लिये पानी दिया गया, जिससे मैंने अपने पाँव धोये और मैं दरवाजेके समीप प्रकोष्ठकमें बैठ गया । वह वृद्धा मुझे देखते ही फूट- फूटकर ( धाराप्रवाहरूपमें ) रोने लगी । मैंने कहा-'हे मातः ! यह क्या, आप किस कारण से रोती हैं ।' इस तरह पूछने पर उस वृद्धा ने करुणाक्रान्त होकर उत्तर दिया— 'हे आयुष्मन् ! ऐसा सुना जाता है कि, इस विदेहपुरी के स्वामी प्रहारवर्मा नामक राजा थे । उनकी प्रगाढ मित्रता मगधराज राजहंस के साथ हो गयी थी । उनकी वसुमती और प्रियंवदा नामक पत्नियों में भी, बल और शम्बल की मित्रता के समान बड़ी मित्रता हो गयी थी । कुछ दिनों के पश्चात् वसुमती को प्रथम गर्भ की प्राप्ति हुई जिसके अभिनन्दनके Nepal Sanskrit University, Balmeeki Campus, Kathmandu

२१४ दशकुमारचरितम्। [ उत्तरपीठिकायां

२१४ दशकुमारचरितम्। [ उत्तरपीठिकायां च प्रियसखीं दिदृक्षुः प्रियंवदा वसुमतीं सह भर्त्रा पुष्पपुरमगमत् । ( १ ) तस्मिन्नेव च समये मालवेन मगधराजस्य महज्जन्यमजनि। तत्र लेशतोऽपि दुर्लक्षां गतिमगमनमगधराजः । मैथिलेन्द्रस्तु मालवेन्द्र- प्रयत्नप्राणितः स्वविषयं प्रतिनिवृत्तो ज्येष्ठस्य संहारवर्मणः सुतैर्विकटवर्म- प्रभृतिभिर्व्याप्तं राज्यमाकर्ण्य स्वस्त्रीयात्सुह्मपतेर्दण्डावयवमादित्सुरटवीपथ- मवगाह्य लुब्धकलुप्तसर्वस्वोऽभूत् । ( ३ ) तत्सुतेन च कनीयसा हस्तवर्तिना सहैकाकिनी वनचरशरवर्ष- नीयम् । प्रथमगर्भेण अभिनन्दितां सुशोभिताम् । तां वसुमतीम् । भर्त्रा स्वामिना प्रहारवर्मणेत्यर्थः । पुष्पपुरं राजहंसराजधानीम् । ( २ ) मालवेन मालवदेशाधिपतिना मानसागख्येन सह । मगधराजस्य राज- हंसस्य । जन्यं युद्धम् । तत्र युद्धे । लेशतोऽपि दुर्लक्षां किञ्चिदपि निश्चेतुमशक्याम्। गतिं दशाम् । सारथिशून्यत्वाद् अश्वाः राजहंसस्य रथं कुत्र निन्युरिति न केनापि विदितमिति भावः। मैथिलेन्द्रः प्रहारवर्मा । मालवेन्द्रस्य मानसारस्य प्रयत्नेन चेष्टया प्राणितो जीवितो रक्षित इति यावत् । स्वविषयं स्वदेशम् । ज्येष्ठस्य भ्रातुरिति शेषः । व्याप्तमाक्रान्तम् । स्वस्त्रीयाद् भागिनेयात् । सुह्मपतेः सुह्याख्य- देशाधिपात् । दण्डावयवं दण्डस्य संग्रामस्यावयवमुपकरणं हस्त्यश्वादिकम् । आदित्सुर्गृहीतुमिच्छुः । अटवीपथमरण्यमार्गम् । अवगाह्य प्रविश्य लुब्धकैर्व्याधैः लुप्तं हृतं सर्वस्वं यस्य तादृशः । ( ३ ) तत्सुतेन प्रहारवर्मपुत्रेण । हस्तवर्त्तिना मम हस्तस्थितेन । एकाकिनी लिये प्रियंवदा अपने स्वामीके साथ पुष्पपुरको गयी । ( २ ) उसी समय मालवदेश के अधिपति मानसार के साथ मगधराज राजहंस का युद्ध आरम्भ हो गया । उस युद्धमें मगधराज राजहंस कुछ भी वर्णन करने की अयोग्य परिस्थिति में प्राप्त हुए । मगधराज राजहंस का सहायताकारी मैथिल देश का अधिपति प्रहारवर्मा मालवदेश के अधिपति मानसार की दया से येन-केन-प्रकारेण अपने जीवित प्राणों को लेकर अपने देश को लौट गया । वहाँ लौटकर उसने ( प्रहारवर्मा ने ) सुना कि उसका राज्य उसके बड़े भाई संहारवर्मा के पुत्र विकटवर्मा आदि ने आक्रान्त कर लिया है । ऐसा ज्ञात कर उस प्रहारवर्मा ने अपने बहिन के पुत्र ( भानजे ), जिसका नाम सुह्मपति था, से सेना सामग्री ( हाथी घोड़े आदि ) की सहायता लेने की इच्छा की और अरण्य के मार्ग से अपने भाजने के पास जा रहा था कि अरण्यवासी कोल-भीलों ने उसके पास जो भी था लूट लिया । ( ३ ) मेरी गोदीमें प्रहारवर्मा का छोटा शिशु था ! कोल-भीलों के बाणोंकी वर्षा के

तृतीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । २१५ भयपलायिता वनमगाहिषि । तत्र च मे शार्दूलनखावलीढनिपतितायाः पाणिभ्रष्टः स बालकः कस्यापि कपिलाशवस्य क्रोडमभ्यलीयत । तच्छवा कर्षिणश्च व्याघ्रस्यासूनिषुरिष्वसनयन्त्रमुक्तः क्षणादलिक्षत् । भिल्लदारकैः स बालोऽपाहारि । ( ४ ) सा त्वहं मोहसुप्ता केनापि वृष्णिपालेनोपनीय स्वं कुटीरमावेश्य कृपयोपक्रान्तव्रणा स्वस्थीभूय स्वभर्तुरन्तिकमुपतिष्ठासुरसहायतया याव- द्व्याकुलीभवामि तावन्ममैव दुहिता सह यूना केनापि तमेवादेशमागमत् । असहाया । वनचरेति-वनचराणां किरातानां शरवर्षात् बाणनिक्षेपाद् भयेन पला- यिता अहमिति शेषः । अगाहिषि प्राविक्षम् । तत्र वने । शार्दूलस्य व्याघ्रस्य नखैः अवलीढा विद्धा अतएव निपतिता भूमाविति शेषः, तस्यास्तथाभूतायाः । मे इत्यस्य विशेषणम् । पाणिभ्रष्टो हस्तच्युतः । कपिलाशवस्य मृतधेनोः । क्रोडं वक्षःस्थलम् । अभ्यलीयत यत्र लीनोऽभवत् । तच्छवं कपिलाशवं व्याकर्षतीति तस्य । असून् प्राणान् । इषुश्चाणः । इष्वसनेति-अस्यतेऽनेनेति असनम्-इषोर- सनमिष्वसन धनुस्तदेव यन्त्रस्तस्मान्मुक्तस्त्यक्तः । इषुरित्यस्य विशेषणम् । अलि- क्षत् आस्वादयत्-प्राणान् जहारेत्यर्थः । लिह आस्वादे इत्यस्य धातोलुँङ् । भिल्ल- दारकैः किरातबालकैः । अपाहारि अपहृतः । ( ४ ) मोहसुप्ता मोहेन मूर्छ्या सुप्ता निद्रिता । वृष्णिपालेन मेषपालेन । 'मेष वृष्णय एडका' इत्यमरः । उपक्रान्तव्रणा चिकित्सितव्याघ्रकृतक्षता । स्वभर्तु- र्विदेहराजस्य । उपतिष्ठासर्गन्तुमिच्छुः । सार्थघाते संघभ्रंशे । राजपुत्रस्य विदेह- राजापरपुत्रस्य । तेन वनचरेण । उपयन्तुं चिन्तितायाः परिणेतुमभिलषितायाः । भयसे मैं अकेली उसे (शिशुको) लिये हुए जंगलमें घुस गयी । उस जंगलमें मैं शेरके झपटनेसे-उसके नाखूनकी खरोंच आदिके लगनेसे-भूमिपर गिर पड़ी । मेरे हाथसे वह शिशु छूट करके किसी कपिला धेनु (गौ) के मृत शवकी गोदमें गिर पड़ा । जब वह शेर उस कपिला गौके मृत शवकी ओर आकर्षित हो रहा था, ठीक उसी समय किसीके धनुषसे निकले हुए बाणके द्वारा वह (शेर) मार डाला गया । भीलके बालकोंके द्वारा वह शिशु भी अपहृत कर लिया गया । (४) मुझे, जो मैं शेरके आक्रमणसे मूर्च्छित हो गयी थी, एक गोप निश्चेष्टावस्थामें ही अपनी कुटीमें ले गया । वहाँ ला करके उस गोपने दया करके मेरी चिकित्सा आदि की तथा सेवा-शुश्रूषा करके मुझे स्वस्थ कर दिया । स्वस्थ होनेपर मैं (वृद्धा) अपने स्वामी विदेहाधिपतिके समीप जानेके लिए सहायताहीन होनेसे जब व्याकुल हो रही थी, Nepal Sanskrit University, Balmeeki Campus, Kathmandu

दशकुमारचरितम् ! [ उत्तरपीठिकायां

२१६ CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF दशकुमारचरितम् ! [ उत्तरपीठिकायां सा भृशं रुरोद । रुदितान्ते च सा सार्थघाते स्वहस्तगतस्य राजपुत्रस्य किरातभर्तृहस्तगमनम् , आत्मनश्च केनापि वनचरेण व्रणविरोपणम्, स्वस्थायश्च पुनस्तेनोपयन्तुं चिन्तितायानि कृष्टजातिसंसर्गवैकल्य्यात्प्रत्या- ख्यानपारुष्यम्, तदक्षमेण चामुना विविक्के विपिने स्वशिरःकर्तनोद्यमः, अनेन यूना यदृच्छया दृष्टेन तस्य दुरात्मनो हननम् , आत्मनश्चोपयमन- मित्यकथयत् । (५) स तु पृष्टो मैथिलेन्द्रस्यैव कोऽपि सेवकः कारणविलम्बी तन्मार्गानुसारी जातः। सह तेन भर्तुरन्तिकमुपसृत्य पुत्रवृत्तान्तेन श्रोत्र- निकृष्टजातीति-नीचजातीयकिरातसंसर्गदोषदुष्टतया तद्विवाहस्य प्रत्याख्यानेना- स्वीकारेण यत्पारुष्यं कार्कश्यम् तथा कृतमिति शेषः । तदक्षमेण तत्सोढुमशक्नु- वता। अमुना किरातेन । विविक्ते निर्जने । स्वशिरःकर्त्तनोद्यमः मद्दुहितुर्मस्तक- च्छेदनप्रयासः । यदृच्छया दैवगत्या सहसा वा । उपयमनं विवाहस्तेन यूना सहेत्यर्थः । (५) सः मद्दुहितुः परिणेता । मैथिलेन्द्रस्य विदेहाधिपप्रहारवर्मणः । सेवको भृत्यः । कारणविलम्बी प्रयोजनवशेन कृतविलम्बः तन्मार्गानुसारी तस्य राज्ञो मा- र्गानुसारी येन मार्गेण राजा जगाम तेनैव सोऽपि तमन्वसारेति भावः। भर्तुः प्रभोः। उसी समय मेरी पुत्री किसी युवकके साथ उस स्थान में आ पहुँची । वह आकर अत्यन्त रोने लगी । रोनेके पश्चात् उस पुत्री के साथ छूटनेपर राजाके दूसरे पुत्रका किरातके पतिके हाथमें जाना, किसी वनेचरद्वारा अपनी सेवा-शुश्रूषाका होना तथा शेरके नखक्षतोंका उपचार होना, स्वस्थ होने पर उसी वनेचरद्वारा विवाहका प्रस्ताव किया जाना, नीच जातिके संसर्गसे व्याकुल होना, विवाहके प्रस्तावका विरोध करनेसे उस वनेचरको स्वयं (पुत्रीद्वारा) कर्कश वचन कहा जाना, वनेचरद्वारा कर्कश वचनोंके प्रतिवादमें उसको निर्जन वनमें ले जा करके शिर काटने का उद्योग करना, दैवगतिसे इस युवकका (जो साथ में था) उस जंगलमें आना तथा उस वनेचरका वध करना, एवं अपना विवाह उस युवकके साथ होनेका समाचार सुनाना आदि (सभी बातें अपनी मातासे कह सुनायी) । (५) इसके पश्चात् पूछे जानेपर उस कन्याके पतिने कहा कि मैं भी मैथिलेन्द्रका ही एक सेवक हूं तथा किसी कारणवश विलम्ब करके उन्हीं मैथिलेन्द्र प्रहारवर्माके मार्गका अनुसरण करके जा रहा हूँ। उसी युवकके साथ दोनों स्वामी प्रहारवर्माके सन्निकट Nepal Sanskrit University, Balmeeki Campus, Kathmandu

मस्य देव्याः प्रियंवदायाश्चादहाव । स च राजा दिष्टदोषाज्ज्येष्ठभ्रातृ- पुत्रैश्चिरं विगृह्य पुनरसहिष्णुतायतिमात्रं चिरं प्रयुध्य बद्धः । देवी च बन्धनं गमिता। दग्धा पुनरहमस्मिन्नपि वार्धके हतजीवितमपारयन्ती हातुं प्रव्रज्यां किलाग्रहीषम् । दुहिता तु मम हतजीविताकृष्टा विकटवर्ममहा- देवी कल्पसुन्दरीं किला शिश्रियत् । तौ चेद्राजपुत्रौ निरुपद्रवावेवावर्धिष्ये- ताम् , इयता कालेन तवेमां वयोवस्थामस्प्रक्ष्यताम् । तयोश्च सतोर्न दा- यादा नरेन्द्रस्य प्रसह्यकारिणो भवेयुः' इति प्रमन्युरभिरुरोद । ( ६ ) श्रुत्वा च तापसीगिरमहर्माप प्रवृद्धबाष्पो निगूढमभ्यधाम्—

अस्य भर्तुः प्रहारवर्मणः । श्रोत्रं श्रवणेन्द्रियं कर्णौ वा। अदहाव अप्रियवृत्तान्त- कथनेन कर्णयोर्महतीं पीडामजनयाव आवामिति शेषः । दिष्टदोषात् भाग्यदोषात् । विगृह्य विग्रहं कृत्वा विरोध्येति यावत् । अतिमात्रम् अत्यर्थम् । चिरं दीर्घकालं यावत् । देवी प्रियंवदा । गमिता प्रापिता । दग्धा हतभाग्या । हतजीवितं व्यर्थ- जीवनम् । हातुं त्यक्तुम् । प्रव्रज्यां संन्यासम् । विकटवर्मणः प्रहारवर्मज्येष्ठभ्रातृ- पुत्रस्य महादेवीं पट्टमहिषीम् । अशिश्रियत् जीविकार्थमाश्रितवती । निरुपद्रवौ निर्विघ्नौ । अवर्धिष्येताम् । वर्द्धितौ अभविष्यताम् । इयता कालेन एतावद्भि- र्दिवसैः, साम्प्रतमिति यावत् । वयोऽवस्थां त्वत्सदृशं वयः । अस्पृक्ष्यतां स्पृष्टौ भविष्यतः । लृङि रूपद्वयम् । सतोः वर्तमानयोः । जीवतोरिति भावः । दायादाः भ्रातृपुत्रादयः । प्रसह्यकारिणो बलात्कारेण राज्यापहारिणः । प्रमन्युः प्रवृद्धशोकः । ( ६ ) प्रवृद्धबाष्पः रुदन्नित्यर्थः । निगूढं सुगुप्तम् । समाश्वसिहि आश्वस्ता

पहुँचीं । वहाँ पर देवी प्रियंवदासे तथा राजासे पुत्रके वृत्तान्तोको कह करके उन दोनोंके कानोंको पीड़ाएँ दीं—क्योंकि अप्रिय कथनसे पीड़ा ही होती है । राजा प्रहारवर्मा भी भाग्यके दोषसे दीर्घकालतक ज्येष्ठ भ्राताके पुत्रोंके साथ युद्ध करके न जीते। फिर उन सबका अपकार न सह करके विकट युद्ध करनेसे स्वयं ही पकड़ लिये गये । रानी भी पकड़ ली गयीं। हतभागिनी मैं इस वृद्धापनमें भी अपने जीवनको नष्ट करनेमें असमर्थ होकर संन्यासधारिणी हो गयी । मेरी पुत्री भी व्यर्थ जीवनके आकर्षणसे विकटवर्मा (प्रहारवर्माके ज्येष्ठ भाईका पुत्र) की पटरानी महादेवी कल्पसुन्दरीके आश्रयमें पड़ी है । यदि वे दोनों राजकुमार निर्विघ्नतापूर्वक पाल करके बढ़ाये जाते तो इस समय तक वे आपकी अवस्थाके हुए होते । और उन दोनोंके होनेसे, राजा प्रहार- वर्माका कोई दायाद (पट्टीदार) बलात्कारसे राज्यापहरणकारी न रह पाता ।' ऐसा कह- कर वह वृद्धा घोर सन्तापसे जोर-जोरसे रोने लगी । ( ६ ) इस वृत्तान्तको उस वृद्धा तापसीके मुखसे सुनकर मैंने गुप्तरीतिसे अपनी

२१६ दशकुमारचरितम् [ उत्तरपीठिकायां

२१६ दशकुमारचरितम् [ उत्तरपीठिकायां सा भृशं रुरोद । रुचितान्ते च सा सार्थघाते स्वहस्तगतस्य राजपुत्रस्य किरातभर्तृहस्तगमनम्, आत्मनश्च केनापि वनचरेण व्रणविरोपणम्, स्वस्थायश्च पुनस्तेनोपयन्तुं चिन्तितायानि कृष्टजातिसंसर्गवैकल्यप्रत्या- ख्यानपारुष्यम्, तदक्षमेण चामुना विविक्ते विपिने स्वशिरःकर्तनोद्यमः, अनेन यूना यदृच्छया दृष्टेन तस्य दुरात्मनो हननम्, आत्मनश्चोपयमन- मित्यकथयत् । (५) स तु पृष्टो मैथिलेन्द्रस्यैव कोऽपि सेवकः कारणविलम्बी तन्मार्गानुसारी जातः । सह तेन भर्तुरन्तिकमुपसृत्य पुत्रवृत्तान्तेन श्रोत्र- निकृष्टजातीति-नीचजातीयकिरातसंसर्गदोषदुष्टतया तद्विवाहस्य प्रत्याख्यानेना- स्वीकारेण यत्पारुष्यं कार्कश्यम् तया कृतमिति शेषः । तदक्षमेण तत्सोढुमशक्नु- वता। अमुना किरातेन । विविक्ते निर्जने । स्वशिरःकर्त्तनोद्यमः मदुदुहितुर्मस्तक- च्छेदनप्रयासः । यदृच्छया दैवगत्या सहसा वा । उपयमनं विवाहस्तेन यूना सहेत्यर्थः । (५) सः मदुदुहितुः परिणेता । मैथिलेन्द्रस्य विदेहाधिपप्रहारवर्मणः । सेवको भृत्यः । कारणविलम्बी प्रयोजनवशेन कृतविलम्बः तन्मार्गानुसारी तस्य राज्ञो मा- र्गानुसारी येन मार्गेण राजा जगाम तेनैव सोऽपि तमनुससारेति भावः । भर्तुः प्रभोः । उसी समय मेरी पुत्री किसी युवकके साथ उस स्थान में आ पहुँची । वह आकर अत्यन्त रोने लगी । रोनेके पश्चात् उस पुत्री के साथ छूटनेपर राजाके दूसरे पुत्रका किरातके पतिके हाथमें जाना, किसी वनेचरद्वारा अपनी सेवा-शुश्रूषाका होना तथा शेरके नखक्षतोंका उपचार होना, स्वस्थ होने ०पर उसी वनेचरद्वारा विवाहका प्रस्ताव किया जाना, नीच जातिके संसर्गसे व्याकुल होना, विवाहके प्रस्तावका विरोध करनेसे उस वनेचरको स्वयं (पुत्रीद्वारा) कर्कश वचन कहा जाना, वनेचरद्वारा कर्कश वचनोंके प्रतिवादमें उसको निर्जन वनमें ले जा करके शिर काटने का उद्योग करना, दैवगतिसे इस युवकका (जो साथ में था) उस जंगलमें आना तथा उस वनेचरका वध करना, एवं अपना विवाह उस युवकके साथ होनेका समाचार सुनाना आदि (सभी बातें अपनी मातांसे कह सुनायी) । (५) इसके पश्चात् पूछे जानेपर उस कन्याके पतिने कहा कि मैं भी मैथिलेन्द्रका ही एक सेवक हूं तथा किसी कारणवश विलम्ब करके उन्हीं मैथिलेन्द्र प्रहारवर्माके मार्गका अनुसरण करके जा रहा हूँ। उसी युवकके साथ दोनों स्वामी प्रहारवर्माके सन्निकट

तृतीयोच्छ्वासः ] [११७ मस्य देव्याः प्रियंवदायाश्चादहाव । स च राजा दिष्टदोषाज्ज्येष्ठभ्रातृ- पुत्रैश्चिरं विगृह्य पुनरसहिष्णुतायातिमात्रं चिरं प्रयुध्य बद्धः । देवी च बन्धनं गमिता । दग्धा पुनरहमस्मिन्नपि वार्धके हतजीवितमपारयन्ती हातुं प्रव्रज्यां किलाग्रहीषम् । दुहिता तु मम हतजीविताकृष्टा विकटवर्ममहा- देवीं कल्पसुन्दरीं किला शिश्रियत् । तौ चेद्राजपुत्रौ निरुपद्रवावेवावर्धिष्ये- ताम् , इयता कालेन तवेमां वयोवस्थामसप्रक्ष्येताम् । तयोश्च सतोर्न दा- यादा नरेन्द्रस्य प्रसह्यकारिणो भवेयुः' इति प्रमन्युरभिरुरोद । ( ६ ) श्रुत्वा च तापसीगिरमहमाप प्रवृद्धबाष्पो निगूढमभ्यधाम्— अस्य भर्तुः प्रहारवर्मणः । श्रोत्रं श्रवणेन्द्रियं कर्णौ वा । अदहाव अप्रियवृत्तान्त- कथनेन कर्णयोर्महतीं पीडामजनयाव आवामिति शेषः । दिष्टदोषात् भाग्यदोषात् । विगृह्य विग्रहं कृत्वा विरोध्येति यावत् । अतिमात्रम् अत्यर्थम् । चिरं दीर्घकालं यावत् । देवी प्रियंवदा । गमिता प्रापिता । दग्धा हतभाग्या । हतजीवितं व्यर्थ- जीवनम् । हातुं त्यक्तुम् । प्रव्रज्यां संन्यासम् । विकटवर्मणः प्रहारवर्मज्येष्ठभ्रातृ- पुत्रस्य महादेवीं पट्टमहिषीम् । अशिश्रियत् जीविकार्थमाश्रितवती । निरुपद्रवौ निर्विघ्नौ । अवर्धिष्येताम् । वर्द्धितौ अभविष्यताम् । इयता कालेन एतावद्भि- र्दिवसैः, साम्प्रतमिति यावत् । वयोऽवस्थां त्वत्सदृशं वयः । असप्रक्ष्येतां स्पृष्टौ भविष्यतः । लृङि रूपद्वयम् । सतोः वर्तमानयोः । जीवतोरिति भावः । दायादाः भ्रातृपुत्रादयः । प्रसह्यकारिणो बलात्कारेण राज्यापहारिणः । प्रमन्युः प्रवृद्धशोकः । ( ६ ) प्रवृद्धवाष्पः रुदन्नित्यर्थः । निगूढं सुगुप्तम् । समाश्वसिहि आश्वस्ता पहुँचीं। वहाँ पर देवी प्रियंवदासे तथा राजासे पुत्रके वृत्तान्तो को कह करके उन दोनोंके कानोंको पीड़ायें दी—क्योंकि अप्रिय कथनसे पीड़ा ही होती है । राजा प्रहारवर्मा भी भाग्यके दोषसे दीर्घकालतक ज्येष्ठ भ्राताके पुत्रोंके साथ युद्ध करके न जीते। फिर उन सबका अपकार न सह करके विकट युद्ध करनेसे स्वयं ही पकड़ लिये गये। रानी भी पकड़ ली गयीं। हतभागिनी मैं इस वृद्धापनमें भी अपने जीवनको नष्ट करनेमें असमर्थ होकर संन्यासधारिणी हो गयी । मेरी पुत्री भी व्यर्थ जीवनके आकर्षण से विकटवर्मा ( प्रहारवर्माके ज्येष्ठ भाईका पुत्र) की पटरानी महादेवी कल्पसुन्दरीके आश्रयमें पड़ी है। यदि वे दोनों राजकुमार निर्विघ्नतापूर्वक पाल करके बढ़ाये जाते तो इस समय तक वे आपकी अवस्थाके हुए होते । और उन दोनोंके होनेसे, राजा प्रहार- वर्माका कोई दायाद ( पट्टीदार ) बलात्कारसे राज्यापहरणकारी न रह पाता।' ऐसा कह- कर वह वृद्धा घोर सन्तापसे जोर-जोरसे रोने लगी । ( ६ ) इस वृत्तान्तको उस वृद्धा तापसीके मुखसे सुनकर मैंने गुप्तरीतिसे अपनी

२१८ दशकुमारचरितम् [उत्तरपीठिकायां

२१८ दशकुमारचरितम् [उत्तरपीठिकायां 'यद्येवमम्ब, समाश्वसिहि । नन्वस्ति कश्चिन्मुनिस्त्वया तदवस्थया पुत्रा- भ्युपपादनार्थं याचितस्तेन स लब्धो वर्धितश्च । वार्तेयमतिमहती । किम- नया । सोऽहमस्मि शक्यश्च मयासौ विकटवर्मा यथाकथंचिदुपश्लिष्य व्यापादयितुम् ! अनुजाः पुनरतिबहवः, तैरपि घटन्ते पौरजानपदाः । मां तु न कश्चिदिहत्य ईदृक्तया जनो जानाति । पितरावपि तावन्मां न संवि- दाते, किमुतेतरे । तदेनमर्थमुपायेन साधयिष्यामि' इत्यगादिषम् । (७) सा तु वृद्धा सरुदितं परिष्वज्य मुहुः शिरस्युपाघ्राय प्रस्रुतस्तनी भव । तदवस्थया तथा विपन्नया । पुत्रस्य बालकस्याभ्युपपादनार्थं पोषणार्थम् । तेन मुनिना । स बालः । अतिमहती सुदीर्घा । किमनया तद्वार्त्तावर्णनेनालमि- ति भावः । सोऽहमस्मि अहमेव स बाल इत्यर्थः । यथाकथञ्चित् केनापि प्रका- रेण । उपश्लिष्य सन्निधानं गत्वा । व्यापादयितुं हन्तुम् । शक्य इत्यनेनान्वयः । अनुजाः विकटवर्मणो भ्रातरः । घटन्ते मिलितास्तिष्ठन्ति विकटवर्मणि हतेऽपि पौरजानपदैः सह संमिलितास्तदनुजा एव राज्यं करिष्यन्ति अतो मत्कृतं विकट- वर्महसनं वृथैव भविष्यतीति भावः । इहत्यः अत्रत्यः । अन्ययात्त्यबिति त्यप् । ईदृशस्य भाव ईदृक्ता तया अहमेव प्रहारवर्मणः पुत्र इत्येवं रूपेणेत्यर्थः । न संवि- दाते न जानीतः । तत् तस्मात् । (७) प्रस्रुतस्तनी स्रवत्क्षीरपयोधरा वात्सल्यादिति भावः । भद्रं मङ्गलम् । आँखोंके आँसुओंको रोक करके बातचीत की। 'हे अम्ब ! यदि ऐसा वृत्तान्त है तो धीरज धरिये। कोई एक ऐसा ऋषि है जिस ऋषिसे आपने विपन्नावस्था में पुत्रोंको पालने और संवर्धन करनेके लिए प्रार्थना की थी। उन ऋषिने आपके उन बच्चोंको प्राप्त करके पालन पोषण किया है। यह वार्त्ता अति विस्तारवाली है (अथवा) इससे क्या प्रयोजन ! वह बालक मैं ही हूँ। मुझे इतनी शक्ति है कि मैं विकटवर्माके समीप जाकर उसे मार डाल सकूँगा। परन्तु उस विकटवर्माके बहुतसे छोटे भाई हैं। वे सब पौर जानपदों (सामन्त आदिकों) से सहायता ले करके राज्यका उपभोग करने लगेंगे। इससे मेरा मारना व्यर्थ हो जायगा । मुझे तो यहाँके निवासी कोई भी उस तरीकेपर कहीं जानते हैं जिस तरीकेपर प्रहारवर्माके पुत्रोंको जानते हैं। माता-पिता भी मुझे नहीं जानते हैं। तो फिर अन्योंकी बात ही क्या है इसलिये इस कार्यको उपायद्वारा साधूँगा (करूँगा)।' ऐसे वाक्य उससे मैंने कहे। (७) उस वृद्धाने रोते हुए बार-बार आलिंगन किया और मेरा मस्तक सूँघने लगी Nepal Sanskrit University, Balmeeki Campus, Kathmandu

तृतीयोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् [ १११ सगद्गदमगदत्—'वत्स, चिरं जीव। भद्रं तव। प्रसन्नोऽद्य भगवा- न्विधिः। अद्यैव प्रहारवर्मण्यधि विदेहा जाताः, यतः प्रलम्बमानपीन- बाहुर्भवानपारमेतच्छोकसागरमद्योत्तारयितुं स्थितः। अहो, महद्भागधेयं देव्याः प्रियंवदायाः' इति हर्षनिर्भरा स्नानभोजनादिना मामुपाचरत्। अशिश्रियं चास्मिन्मठैकदेशे निशि कटशय्याम्। अचिन्तयं च 'विनोप- धिनायमर्थो न साध्यः। स्त्रियश्चोपधीनामुद्भवक्षेत्रम्। अतोऽन्तःपुरवृत्तान्त- मस्या अवगम्य तद्द्वारेण किञ्चिज्जालमाचरेयम्' इति। (८) चिन्तयत्येव मयि महार्णवोन्मग्नमार्तण्डतुरंगमश्वासरयावधू- तेव न्यावर्तत त्रियामा। समुद्रगर्भवासजडीकृत इव मन्दप्रतापो दिवसकरः


प्रहारवर्मण्यधि प्रहारवर्माधीनाः मन्ये सर्वमेव विदेहराज्यं पुनरपि प्रहारवर्मणा- धिकृतमिति भावः। 'अधीश्वरे' इत्यनेन यस्मादधिकं यस्येत्यादिना च कर्म- प्रवचनीयतासप्तम्यौ। यतः यस्मात्कारणात्। प्रलम्बेति = प्रलम्बमानौ प्रसारितौ- दीर्घौ वा पीनौ मांसलौ बाहू भुजौ यस्य सः। भागधेयं भाग्यम्। हर्षनिर्भरा सातिशयहर्षवती। उपाचरत् असेवत। अशिश्रियम् आश्रितवान्। कटशय्यां तृणरचितशयनम्। उपधिना कपटेन। अर्थो विषयः। साध्यः साधयितुं शक्यः। उद्भवक्षेत्रम् उत्पत्तिस्थानम्। अस्या इति पञ्चम्यन्तम् वृद्धायाः सकाशादित्यर्थः। जालं कपटम्। (८) चिन्तयत्येव मयि-मच्चिन्तासमकालमेव। महार्णवेत्यादि महार्णवात् सागरात् उन्मग्नस्य उत्थितस्य मार्त्तण्डस्य सूर्यस्य तुरङ्गमाणामश्वानां श्वासरयेण


तथा स्तनोंसे दूध टपकाती हुई बोली—'हे वत्स! दीर्घायु हो। तुम्हारा कल्याण हो। आज भगवान् ब्रह्मदेव प्रसन्न हुए। आज से ही प्रहारवर्माके अधीन विदेहपुरी का राज्य हुआ। क्योंकि आपके प्रलम्बमान दीर्घ और मांसल बाहु प्रहारवर्माको इस शोक समुद्र से तारनेके लिए साक्षात् आविर्भूत हो गये। अहा! देवी प्रियंवदाका कैसा जबर्दस्त भाग्य है।' इस प्रकार से हर्षके वेगसे उसने स्नान भोजन आदिसे मेरा स्वागत-सत्कार किया। मैंने भी रातमें उसी मठके अन्दर एक जगह तृणरचित शय्यापर आश्रय लिया और विचार किया कि बिना छल किये यह कार्य सिद्ध न हो सकेगा। छलका मूल स्थान स्त्रियाँ होती हैं। अतः इस वृद्धासे अन्तःपुरका वृत्तान्त विदित करके कोई जाल (छल) रचूँगा। (८) मैं इस प्रकारसे विचार कर रहा था कि महासमुद्रसे आविर्भूत होते हुए भगवान् सूर्यके घोड़ोंके निःश्वासोंसे कम्पित रात्रि मारे भयके व्यतीत हो गयी। समुद्रके १५ द० कृ० उ०

२२० दशकुमारचरितम् । [ उत्तरपीठिकायां

२२० दशकुमारचरितम् । [ उत्तरपीठिकायां प्रादुरासीत् । उत्थायावसायितदिनमुखनियमविधिस्तां मे मातरमवादिषम्- 'अम्ब, जाल्मस्य विकटवर्मणः कश्चिदन्तःपुरवृत्तान्तमभिजानासि' इत्य- नवसितवचन एव मयि काचिदङ्गना प्रत्यदृश्यत । तां चावेक्ष्य सा मे धात्री हर्षाश्रुकुण्ठितकण्ठमाचष्ट-'पुत्रि पुष्करिके, पश्य भर्तृदारकम् । अयम- सावकृपया मया वने परित्यक्तः पुनरप्येवमागतः' इति । ( ६ ) सा तु हर्षनिर्भरनिपीडिता चिरं प्ररुद्य बहु विलप्य शान्ता पुनः स्वमात्रा राजान्तः पुरवृत्तान्ताख्याने न्ययुज्यत । उक्तं च तया- 'कुमार, निःश्वासवायुवेगेन अवधूता कम्पितेवेत्युत्प्रेक्षा । त्रियामा रात्रिः । व्यावर्तत अ- पासरत् प्रभातेति यावत् । समुद्रेति-समुद्रगर्भे सागरमध्ये वासेन स्थित्या जड़ीकृतः शीतलीकृत इव । उदयसमये सूर्यस्य मन्दप्रतापत्वं प्रसिद्धमेव, समुद्रगर्भवासस्तु न तस्य, हेतुरित्यहेतोर्हेतुत्वेनोत्प्रेक्षणाद्धेतूत्प्रेक्षा । मन्दप्रतापः अनुष्णः । अवसायितेति-अवसायितः समापितो दिनमुखस्य प्रातःकालस्य नियमविधि- र्नित्यकृत्यं येन तथाविधः । तां वृद्धां धात्रीम् । जाल्मस्य मूर्खस्य । अनवसित- वचने असमाप्तवाक्ये । प्रत्यदृश्यत मया दृष्टाऽभवत् । हर्षाश्रुणा आनन्दजनि- तबाष्पेण कुण्ठितोऽवरुद्धः कण्ठो यस्मिंस्तद्यथा तथा। क्रियाविशेषणमेतत् । बाष्पगद्गदकण्ठमित्यर्थः । भर्तृदारकं प्रभुपुत्रम् । अकृपया निर्दयया । एवं एवम्प्रकारेण । ( ९ ) सा पुष्करिका । हर्षनिर्भरेण हर्षातिशयेन निपीडिता आक्रान्ता । चिरं दीर्घकालम् । शान्ता आश्वस्ता । स्वमात्रा पूर्वोक्तवृद्धया । तया पुष्करि- अन्दर देरतक निवास करनेसे मानो सूर्यका तेज शीतल हो गया हो । प्रातःकालिक मन्द तेजवाले सूर्यका उदय हुआ। मैंने उठ करके प्रातःकालकी नित्य-क्रिया की और फिर अपनी धात्रीसे कहा- 'हे मातः ! मूर्ख विकटवर्माके अन्तःपुरका कुछ वृत्तान्त आप जानती हैं ?' यह वाक्य समाप्त भी न कर पाया था की कोई अंगना मुझको वहाँपर दिखायी पड़ी । उस वनिताको देखते ही मेरी धात्री आनन्दातिरेकसे अश्रुयुक्त रुद्ध कण्ठसे बोलने लगी- 'हे पुत्रि ! पुष्करिके !! मेरे स्वामीके पुत्रको देखो । इस पुत्रको मैंने निर्दयतापूर्वक वनमें परित्यक्त कर दिया था । वही पुत्र इस युवकके रूपमें पुनः प्राप्त हुआ है ।' ( ९ ) वह पुष्करिका पुत्रागमन सुनकर हर्षातिरेकसे विह्वल होकर, घोर विलाप करके रोने लगी । जब विलापके पश्चात् वह शान्त हुई तब उसको वृद्धा माताने उसे राजाके अन्तःपुरका वृत्तान्त सुनानेके लिए नियुक्त किया। उस पुष्करिकाने कहा-

An exact line-by-line transcription of the Sanskrit and Hindi text from the image:

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २२१ कामरूपेश्वरस्य कलिन्दवर्मनाम्नः कन्या कल्पसुन्दरी कलासु रूपे चाप्स- रसोऽप्यतिक्रान्ता पतिमभिभूय वर्तते । तदेकवल्लभः, स तु बह्ववरोधोऽपि विकटवर्मा' इति । (१०) तामवोचम्- 'उपसर्पैनां मत्प्रयुक्तैर्गन्धमाल्यैः । उपजनय चास- मानदोषनिन्दादिना स्वभर्तरि द्वेषम् । अनुरूपभर्तृगामिनीनां च वासवद- त्तादीनां वर्णनेन ग्राहयानुशयम् । अवरोधनान्तरेषु च राज्ञोविलसितानि सुगूढान्यपि प्रयत्नेनान्विष्य प्रकाशयन्ती मानमस्या वर्धय' इति । पुनरि- दमम्बामवोचम् - 'इत्थमेव त्वयाप्यनन्यव्यापारया नृपाङ्गनासावुपस्था- कया । कलासु नृत्यगीतादिषु । रूपे कान्तौ । अतिक्रान्ता अत्युत्कृष्टेत्यर्थः । अभिभूय आक्रम्य सर्वथा तत्राधिपत्यं विस्तार्येति भावः । तदेकेति-सैव कल्पसु- न्दर्येव एका अद्वितीया वल्लभा दयिता यस्य सः बह्ववरोधोऽपि बहुपत्नीकोऽपि । (१०) उपसर्प उपचर सेवस्वेतियावत् । एनां कल्पसुन्दरीम् । मत्प्रयुक्तैः मया प्रेषितैः । उपजनय उत्पादद्य । द्वेषमिति शेषः । असमानेति-असमानोऽस- दृशो यो दोषस्तस्य निन्दादिना गर्हणादिना-स्त्रीपुरुषौ सदृशावेव भवितुमुचितौ- स्त्रिया असमानो यदि पुरुषः स्यात्तदा तयोर्विवाहो दोष एवेत्यादिकथनेनेति भावः । स्वभर्तरि निजपत्यौ विकटवर्मणीत्यर्थः । अनुरूपभर्तृगामिनीनां लब्धयोग्यपतिका- नाम् । अनुशय पश्चात्तापम् । अवरोधनान्तरेषु । अन्यस्त्रीषु । राज्ञः विकटवर्मणः । 'हे कुमार ! कामरूपदेशके कलिन्दवर्मानामक राजाकी लड़की जिसका नाम कल्पसुन्दरी है, जो नृत्यगीतादि कलाओंमें निपुण है, जिसने अपने रूपके लावण्यसे अप्सराओंको भी तिरस्कृत कर दिया है वही अपने पति विकटवर्मा को मोहित करके राज-प्रसादमें रहती है । यद्यपि विकटवर्मा नृपतिकी अनेक रानियाँ हैं, परन्तु वही इसीको अपनी पट- रानी समझता है ।' (१०) इसके अनन्तर मैने उस पुष्करिकासे कहा-'हे देवि ! यह मेरी दी हुई सुगन्धित मालाको कल्पसुन्दरीके समीप जा करके धर दो और उसके पतिके दोषोंको उससे (कल्पसुन्दरीसे) निन्दाके रूपमें प्रकट करो कि यह पति तुम्हारे असदृश है, तुम सरूपा हो, वह कुरूप है आदि । तथा वासवदत्ता आदि सुयोग्य रमणियोंका अपने अनुकूल पति पानेका वर्णन करो एवं पश्चात्ताप कराओ । तथा राजा विकटवर्माका दूसरी रमणियोंसे अधिक विलास आदि करना इस बातको प्रयत्नके साथ खोज करके कल्प- सुन्दरीको बता दो और उसके मनमें क्रोध उत्पन्न करा दो ।' फिर मैने उस वृद्धा मातासे Nepal Sanskrit University, Balmeeki Campus, Kathmandu

२२२ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF २२२ दशकुमारचरितम् । [ उत्तरपीठिकायां तव्या । प्रत्यहं च यद्यत्तत्र वृत्तं तदस्मि त्वयैव बोध्यः, मदुक्ता पुनरियमु- दर्कस्वादुनोऽस्मात्कर्मणः प्रसाधनाय च्छायेवानपायिनी कल्पसुन्दरीमनुव- र्त्तताम्' इति । ते च तमर्थं तथैवान्वतिष्ठताम् । (११) केषुचिद्दिनेषु गतेष्वाचष्ट मां मदम्बा 'वत्स, माधवीव पिचु- मन्दाश्लेषिणी यथासौ शोच्यमात्मानं मन्येत तथोपपाद्य स्थापिता । किं भूयः कृत्यम्' इति । पुनरहमभिलिख्यात्मनः प्रतिकृतिम् 'इयममुष्यै नेया । विलसितानि विहारादीनि । अन्विष्य अनुसन्धानेन आविष्कृत्य । मानं कोपम् । अनन्येति-नास्ति अन्यो व्यापारो यस्यास्तया परित्यक्तान्यकार्याया । उपस्थातव्या सेव्या । वृत्तं सञ्जातम् । बोध्यः ज्ञापनीयः । इयं पुष्करिका । उदर्को भाविफलं स्वादु मधुरं यस्य तस्य-शुभपरिणामस्येत्यर्थः । प्रसाधनाय सम्पादनाय । अन- पायिनी अविच्छिन्ना । अनुवर्ततामनुसरतु । ते वृद्धा-पुष्करिके । तथैव यथा मयोक्तं तेनैव प्रकारेण । (११) गतेषु व्यतीतेषु । मामुपहारवर्माणम् । माधवी वासन्तीलता । पिचुमन्दाश्लेषिणी-निम्बवृक्षाश्रिता । पिचुमन्दं निम्बवृक्षमश्लिष्यतीति तथोक्ता । असौ कल्पसुन्दरी । शोच्य शोचनीयम् । निम्बवृक्षाश्रयणेन माधवीलताया यथा शोचनीयता भवति तथा कल्पसुन्दर्या अपि विकटवर्मपत्नीत्वस्वीकारेणेति भावः । उपपाद्य सम्पाद्य भूयः पुनः अग्रे इति यावत् । कृत्यं कर्तव्यम् । अभिलिख्य चित्र- यित्वा। प्रतिकृतिं प्रतिमूर्त्तिम् । इयं प्रतिकृतिः । अमुष्यै-कल्पसुन्दर्यै-तदर्थ- मित्यर्थः । नेया प्रापणीया । नीतां प्रापिताम् । एनां प्रतिकृतिम् । निर्वर्ण्य दृष्ट्वा । यह कहा-'हे मातः ! आप भा सभी दूसरे कर्मोंको त्याग करके केवल कल्पसुन्दरी रानीकी सेवा करें। प्रत्येक दिवस वहाँपर जो भी समाचार मिले उसे आप स्वयं मुझसे आ करके कहें। इस पुष्करिकाको मेरे कहे वचनोंपर छायाके समान सदा रानी कल्प- सुन्दरीकी सेवामें अविच्छिन्नरूपेण आरूढ़ रहना चाहिये। क्योंकि इस कार्यसे अन्तमें सुन्दर परिणाम होनेवाला है।' वे दोनों मेरे कहे वाक्योंपर दृढ़ रह करके वैसा ही करने लगीं। (११) कुछ दिनोंके बीतनेपर मेरी वृद्धा माताने मुझसे ( उपहारवर्मासे ) आ करके कहा-'हे वत्स ! जैसे वासन्तीलताकी दशा नीमके वृक्षपर शोचनीया होती है उसी प्रकारसे मैंने रानी कल्पसुन्दरीकी शोचनीया दशा कर दी है। अब इसके पश्चात् मुझे जो आज्ञा हो वैसा कार्य मैं करूँ।' तदनन्तर मैंने अपना चित्र खींच करके उसे दिया और कहा कि 'यह चित्र उस रानी कल्पसुन्दरीको दे दो। इस चित्रको अवलोकन Nepal Sanskrit University, Balmeeki Campus, Kathmandu

[Page Header] CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २२३ [Page Header Ends]

नीतां चैनां निर्वर्ण्य सा नियतमेवं वक्ष्यति । 'नन्वस्ति कश्चिदीदृशाकारः पुमान्' इति । प्रतिब्रूह्येनाम्—'यदि स्यात्ततः किम्' इति । तस्य यदुत्तरं सा दास्यति 'तदहमस्मि प्रतिबोधनीय' इति । (१२) सा 'तथा' इति राजकुलमुपसंक्रम्य प्रतिनिवृत्ता मामेकान्ते न्यवेदयत्—'वत्स, दर्शितोऽसौ चित्रपटस्तस्यै मत्तकाशिन्यै । चित्रीय- माणा चासौ भुवनमिदं सनाथीकृतं यद्देवेऽपि कुसुमधन्वनि नेदृशी वपुः- श्रीः संनिधत्ते । चित्रमेतत्किञ्चित्रतरम् । न च तमवैमि य ईदृशमिदमिह्त्यो निर्मिमीते । केनेदमालिखितम्' इत्याहृतवती व्याहृतवती च । मया च सा कल्पसुन्दरी । नियतम् अवश्यम् । एवं वक्ष्यमाणम् । ईदृशाकारः ईदृश एवम्भूत आकार आकृतिर्यस्य सः । प्रतिब्रूहि-प्रत्युत्तरय । यदि स्यात्-ईदृशाकारः पुरुषो यदि लभ्येत । ततस्तर्हि । किम् भविष्यतीति शेषः । तस्य वचनस्य । उत्तरं प्रतिवचनम् । सा राजपत्नी । तत् प्रतिवचनम् । प्रतिबोधनीयः विज्ञापनीयः त्वयेति शेषः । (१२) सा वृद्धा तापसी । तथा-तथास्तु इति प्रतिज्ञाय । राजकुलं नृपति- मन्दिरम् । उपसंक्रम्य गत्वा । प्रतिनिवृत्ता प्रत्यागता राजकुलादिति शेषः । मा- मुपहारवर्माणमित्यर्थः । चित्रपटः प्रतिकृतिः । मत्तकाशिन्यै वराङ्गनायै । चित्री- यमाणा-आश्चर्यम्मन्यमाना । असौ राजपत्नी । सनाधीकृतं नाथवद् विहितम् । कुसुमधन्वनि-कामे । वपुः श्रीः-शरीरकान्तिः । न संनिधत्ते-न समीपमायाति नास्तीत्यर्थः । चित्रं चित्रपटः । तं तादृशं पुरुषम् । अवैमि जानामि पश्यामीत्यर्थः । ईदृशं अतिसुन्दरमित्यर्थः । इदं चित्रम् । इह्त्यः एतद्देशस्थः । निर्मिमीते चित्र- करके वह रानी अवश्य कहेगी कि क्या इस प्रकारके रूपवाला कोई पुरुष है ?' तब तुम उस रानीको प्रत्युत्तर देना कि 'यदि हो तो, क्या करनेकी आज्ञा है?' इस प्रत्युत्तरका जो उत्तर हो वह तुम मुझसे आ करके कहना । (१२) उस वृद्धा माताने 'तथा' ठीक है ऐसा स्वीकार किया और राजमन्दिर में चली गई। और वहांसे लौटनेपर उस वृद्धाने मुझसे एकान्तमें निवेदन किया—'हे वत्स ! मैंने यह चित्रपट उस सुन्दर अङ्गोवाली रानीको दिखाया। आश्चर्यमन्यमाना उस रानी कल्पसुन्दरीने कहा—'इस लोकको इस पुरुषने सनाथ कर दिया है तन्न इसके मुका- बिले सौन्दर्य कामदेवके शरीरमें भी सन्निहित नहीं है। अथवा चित्रपट देख करके रानीने अपने मनमें उस चित्रगत पुरुषको पतिके समान मान लिया। यह चित्र अत्यन्त आश्चर्यकारी है। मुझको मालूम नहीं होता कि ऐसे चित्रका रचयिता कोई पुरुष इस

२२४ दशकुमारचरितम् । [ उत्तरपीठिकायां

२२४ दशकुमारचरितम् । [ उत्तरपीठिकायां स्मेरयोदीरितम्—'देवि, सदृशमाज्ञापयसि । भगवान्मकरकेतुरप्येवं सुन्दर इति न शक्यमेव संभावयितुम् । अथ च विस्तीर्णेयमर्णवनेमिः। क्वचिदीदृशमपि रूपं दैवशक्त्या संभवेत् । अथ तु यद्येवंरूपो रूपानुरूप- शिल्पशीलविद्याज्ञानकौशलो युवा महाकुलीनश्च कश्चित्संनिहितः स्यात्, स किं लप्स्यते' इति । (१३) तयोक्तम्—'अम्ब, किं ब्रवीमि । शरीरं हृदयं जीवितमिति सर्वमिदमल्पमनर्हं च । ततो न किंचिल्लप्स्यते । न चेदयं विप्रलम्भस्त- स्यामूष्य दर्शनानुभवेन यथेदं चक्षुश्चरितार्थं भवेत्तथानुग्रहः कार्यः' इति । यति । आदृतवती आदरं दर्शितवती । व्याहृतवती उक्तवती । मया वृद्धयेत्यर्थः। स्मेरया सहास्या। सदृशं युक्तम् । मकरकेतुर्मदनः। एव एतादृशः । अर्णवनेमिः पृथिवी । क्वचित्-कुत्रापि । अथ तु-आस्ताम् । एवंरूपः एतादृशः । रूपानुरूपेति- रूपस्य सौन्दर्यस्यानुरूपं सदृशं शिल्पं कलाविद्या, शीलं स्वभावः, विद्या अष्टादश प्रकारा, ज्ञानं लिप्यादिज्ञानं कौशलं नैपुण्यञ्च यस्यासौ । युवा तरुणः। महाकु- लीनः उच्चवंशोद्भवः । सन्निहितः निकटवर्त्ती। स तादृशो युवा। किं लप्स्यते- चित्रदर्शनसन्तुष्टाया भवत्याः सकाशात् कं पुरस्कारं प्राप्स्यतीत्यर्थः। (१३) तया राजपत्न्या । शरीरं मम देहं हृदयं चित्तं जीवितं प्राणांश्च, लप्स्यत इत्यनेनान्वयः । सर्वमिदं-यन्मया शरीरादिके दास्यते तदखिलं, अल्पं तुच्छं अनर्हं तस्यायोग्यञ्च । ततः-यतः शरीरादिकं मे तस्यायोग्यं तस्मात् । न किञ्चिल्लप्स्यते-किमपि न प्राप्स्यति । विप्रलम्भः वंचनम्-त्वं यदि मिथ्या न लोकमें है। किसने इस चित्रको खींचा है ?' इस प्रकारसे इस चित्रका आदर करने लगी और मुझसे (वृद्धासे) पूछने लगी । मैंने मन्द हास्य करके कहा—'हे देवि ! आप युक्ति- युक्त कहती हैं । क्योंकि भगवान् मकरकेतु (कामदेव) भी इतना सुन्दर है ऐसी सम्भावना करनेका सामर्थ्य भी किसीमें नहीं है। फिर यह पृथ्वी बड़ी विस्तीर्णा है। भाग्यवश कहीं पर ऐसा रूपवान् प्राप्त हो सकता है । और यदि ऐसा ही सौन्दर्यानुरूप- वाला, शिल्पकलामें निपुण, शीलवान्, विद्यावान्, विज्ञानवेत्ता, कलाकौशलवाला, उच्च- वंशवाला कोई युवक मिल गया तो वह क्या पुरस्कार पावेगा ?' (१३) उस रानी कल्पसुन्दरीने उत्तर दिया—'हे अम्ब ! क्या कहूँ । मेरी देह, हृदय, जीवन, ये सब उसके लिये थोड़े और अनुरूप नहीं होंगे । इससे-शरीरादिसे अधिक और कुछ नहीं वह पा सकेगा । यह मैं प्रवञ्चना नहीं करती हूँ। अपितु, जिस रीतिसे हो उस रीतिसे उस पुरुषके दर्शन करा करके मेरी आँखोंको चरि-

तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २२५

भूयोऽपि मया दृढतरीकर्तुमुपन्यस्तम्—'अस्ति कोऽपि राजसूनुर्निगूढं चरन् । अमुष्य वसन्तोत्सवे सहसखीभिर्नगरोपवनविहारिणी रतिरिव विग्रहिणी यदृच्छया दर्शनपथं गतासि । गतश्चासौ कामशरैकलक्ष्यतां मामन्ववर्त्तिष्ट । मया च वामन्योन्यानुरूपैरन्यदुर्लभैराकारादिभिर्गुणाति- शयैश्च प्रेर्यमाणया तद्रचितैरेव कुसुमशेखरस्रगनुलेपनादिभिश्चिरमुपासि-

कथयसि तर्हीति तात्पर्यम् । तस्य पूर्वोक्तस्य । अमुष्य-तरुणस्य । यथा-येन प्रकारेण । इदं चक्षुर्मम नयनम् । चरितार्थं सार्थकम् । कृतकृत्यमिति यावत् । तथा तेन प्रकारेण । अनुग्रहः-कृपा । कार्यः विधेयस्त्वयेति शेषः । मया वृद्धये- त्यर्थः । दृढतरीकर्तुं-त्वयि तस्या अनुरागं निश्चलीकर्तुम् । उपन्यस्तं कथितम् । निगूढं-सुगुप्तम् । अमुष्य-राजपुत्रस्य । नगरोपवनविहारिणी-पुरोद्यानविहरण- शीला । विग्रहिणी-मूर्तिमती । यदृच्छया दैववशात् । दर्शनपथं-नयनमार्गं गता- सि-दृष्टासीत्यर्थः । असौ राजपुत्रः । कामशरैकलक्ष्यतां मदनवाणवेध्यताम् । गत- इत्यनुषज्यते । मां वृद्धामित्यर्थः । अन्ववर्त्तिष्ट-अनुसृतवान् । वां युवयोः । राज- पत्न्यास्तव चेत्यर्थः । अन्योन्यानुरूपैः तुल्यरूपैः । प्रेर्यमाणया नोद्यमानया । तद्र- चितैः तेन राजसूनुना निर्मितैः । कुसुमेति-कुसुमशेखरः आपीडः, स्रक् माल्यं अनुलेपन गन्धादि तैः । उपासिता सेविता । सादृश्यं प्रतिकृतिम् । स्वं स्वकीयम् । अनेन राजपुत्रेण । अभिलिख्य चित्रयित्वा । त्वदिति तव समाधेश्चित्तैकाग्रयस्य गाढत्वं गभीरत्वं द्रष्टुमित्यर्थः । एषः-यस्त्वया प्रागेवोक्तोऽर्थो विषयः । नि- श्चितः नियतो दृढ इति यावत् । अमुष्य राजसूनोः । अतिमानुषेति-अतिमानुषः

तार्थ करनेकी दया करो।' तत्पश्चात् मैंने (वृद्धाने) उस बातको पुष्ट करनेके निमित्त रानीसे (अर्थात्—रानीका आप पर प्रेम है कि नहीं इसे जाननेके लिये) कहा—'हे कल्पसुन्दरी! इस नगरमें कोई राजपुत्र गुप्त वेषमें घूमता है। वसन्तोत्सवके समय अपनी सखी-सहेलियोंके सहित अपनी विरोधिनी रतिदेवीके सदृश सुन्दर रूपवाली अपनी इच्छासे नगरीकी वाटिकाओंमें विचरण करनेवाली आप उस राजपुत्रद्वारा देखी गयी हैं। आपको देखते ही वह राजपुत्र कामवाणसे वेधित हो करके मेरे समीप आया। मैंने भी सोचा कि आप दोनोंके समान स्वरूप हैं, अन्योंमें अप्राप्य आकृतियाँ हैं, समान अति- शय गुण हैं, अतः उससे प्रेरित हो करके मैंने उस राजपुत्रके द्वारा रचित् आपीड्, माला, गन्धादि अनुलेपनद्वारा आपकी दीर्घकालसे सेवा की है। अपनी प्रतिकृति आपको दिखा- नेके हेतु उस राजपुत्रने, अपने हाथोंसे अपनी तस्वीर खींच करके, आपके प्रति अपना गम्भीर प्रेम प्रकट करनेके लिए ही, मेरे द्वारा भेजी है। यदि आपका अभीष्ट निश्चितरूपसे

२२६ दशकुमारचरितम् । [ उत्तरपीठिकायां

२२६ दशकुमारचरितम् । [ उत्तरपीठिकायां तासि । सादृश्यं च स्वमनेन स्वयमेवाभिलिख्य त्वत्समाधिगाढत्वदर्श- नाय प्रेषितम् । एष चेदर्थो निश्चितस्तस्यामुष्यातिमानुषप्राणसत्त्वप्रज्ञाप्र- कर्षस्य न किञ्चिद्दुष्करं नाम । तमद्यैव दर्शयेयम् । संकेतो देयः' इति । ( १४ ) तया तु किञ्चिदिव ध्यात्वा पुनरभिहितम्—'अम्ब, तव नैतदिदानीं गोप्यतमम् । अतः कथयामि । मम तातस्य राज्ञा प्रहारवर्मणा सह महती प्रीतिरासीत् । मातुश्च मे मानवत्याः प्रियवयस्या देवी प्रियंव- दासीत् । ताभ्यां पुनरजातापत्याभ्यामेव कृतः समयोऽभून्—'आवयोः पुत्र- वत्याः पुत्राय दुहितृमत्या दुहिता देया' इति । तातस्तु मां जातां प्रनष्टाप- त्या प्रियंवदेति प्रार्थयमानाय विकटवर्मणे दैवादत्तवान् । मानुषमतिक्रान्तः अलौकिक इत्यर्थः । प्राणानां सत्त्वस्य पराक्रमस्य प्रज्ञाया बुद्धेश्च प्रकर्ष उत्कर्षो यस्य तथाभूतस्य । दुष्करं असाध्यम् । संकेत: इङ्गितं । देयस्त्वयेति शेषः । ( १४) तया राजपत्न्या । ध्यात्वा विचिन्त्य । तव या खलु मदर्थं दुष्करम- प्येतत्कार्यं साधयितुं प्रवृत्ता तथाविधायाः सम्बन्धे । गोप्यतमं अतिशयेन गोप्य- मिति मम तांतस्य-मत्पितुः । प्रियंवदा-प्रहारवर्ममहिषी, उपहारवर्मजननी च । ताभ्यां-मानवतीप्रियंवदाभ्याम् । अजातेति-न जातमुत्पन्नमपत्यं सन्ततिर्ययो- स्ताभ्याम् मम जन्मतः प्रागेवेत्यर्थः । समयः शपथः प्रतिज्ञेति यावत् । आवयो- र्द्वयोर्मध्ये । पुत्रवत्याः सञ्जातपुत्रायाः । दुहितृमत्या-कन्यकाजनन्या । प्रनष्टा- पत्या-मृतपुत्रा । इति इतिहेतोः । प्रार्थयमानाय याचमानाय । दृढ़ है तो उस अलौकिक राजपुत्रसे, जो, बल बुद्धि और दक्षतामें निपुण है, कोई भी कार्य असाध्य नहीं है । मैं आज ही उस राजपुत्रको ला सकती हूँ । आप संकेत तो दें ।' (१४) वह रानी कल्पसुन्दरी कुछ देरतक ध्यानमग्ना होकर सोचने लगी और फिर बोली—'हे अम्ब ! तुमसे अब मेरी कोई भी वार्ता गुप्त नहीं है । इससे ( कुछ पूर्वकथा ) कहती हूँ । मेरे पिताकी प्रहारवर्मा नृपतिके साथ प्रगाढ़ मित्रता थी । मेरी माताकी मित्रता देवी प्रियम्वदाके साथ थी । ( जो प्रियम्वदा प्रहारवर्माकी महिषी और उपहारवर्मा की जननी थीं) उन दोनों मानवती और प्रियम्वदाको जिस समय कोई सन्तान भी उत्पन्न न हुई थी उसी समय दोनों सखियोंने आपस में शपथ ले ली थी कि हम दोनोंमें जिसे पुत्र हो तथा जिसे पुत्री हो उन दोनों भावी सन्तानों का विवाह परस्पर होवे । परन्तु मेरे पिताने देवी प्रियम्वदाके पुत्रको अरण्यमें नष्ट हुआ जान कर के दैव- योगसे विवाहकी प्रार्थना करनेवाले विकटवर्माके साथ मेरा विवाह कर दिया ।

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २२७ ( १५ ) अयं च निष्ठुरः पितृद्रोही नात्युपपन्नसंस्थानः कामोपचारे- ष्वलन्धवैचक्षण्यः कलासु काव्यनाटकादिषु मन्दाभिनिवेशः शौर्यो- न्मादी दुर्विकत्थनोऽनृतवादी चास्थानवर्षी । नातिरोचते मे एष भर्ता विशेषतश्चैषु वासरेषु यदयमुद्याने मदन्तरङ्गभूतां पुष्करिकामप्युपान्तवर्ति- नीमनादृत्य मयि बद्धसापत्न्यामत्सरा मनात्मज्ञाम आत्मनाटकीयां रमयन्तिकां ( १५) अयं विकटवर्मा । निष्ठुरः-निर्दयः । पितृद्रोही-पितुरनिष्टकारकः । पितृव्यस्य पितृतुल्यत्वात् अत्र पितृपदम् । नात्युपपन्नेति-नात्युपपन्नं अननुगुणं सं- स्थानमवयवसंनिवेशो यस्यासौ । दुर्लक्षणयुक्तशरीरावयवः कुरूप इति यावत् । कामोपचारेषु मदनव्यापारेषु । अलब्धवैचक्षण्यः अप्राप्तनैपुण्यः । कलासु चतुः- षष्टिप्रकारासु । मन्दाभिनिवेशः शिथिलाग्रहः । शौर्योन्मादो-बलदर्पोन्मत्तः । दुर्वि- कत्थनः-दुष्टः आत्मश्लाघानिरतश्च । अनृतवादी-मिथ्याभाषणशीलः । अस्था- नवर्षी-अयोग्यपात्रे दानशीलः । नातिरोचते प्रीतिकरो न भवति । मे-मह्यम् रुच्यर्थप्रयोगे चतुर्थी । विशेषतश्च-इतोऽप्यधिकम् । एषु वासरेषु-साम्प्रतम् । यत्- यस्मात् । अयं विकटवर्मा । मदन्तरङ्गभूताम् आत्मीयाम् । पुष्करिकां एतन्नामि- काम् । उपान्तवर्त्तिनीं समीपस्थिताम् । अनादृत्य-अवज्ञाय । बद्धेति-बद्धः घृतः सापत्न्यस्य शपत्नीत्वस्य मत्त्सरोऽसहनीयता यया ताम् । घृतसापत्न्यविद्वेषामित्यर्थः । अनात्मज्ञां-स्वयोग्यताज्ञानरहिताम् । आत्मनाटकीयां स्वकीयनर्त्तकीम् । रमय- न्तिकेति नर्त्तक्या नाम । अपत्यनिर्विशेषं स्वसन्तानवत् । मत्संवर्द्धितायाः-मया ( १५ ) यह विकटवर्मा अत्यन्त निष्ठुर है, आपके साथ द्रोह करनेवाला है, इसके शरीरकी बनावट भी अच्छी नहीं है। रति-लीलामें पटु नहीं है। चौंसठ प्रकारकी कलाओंमें तथा काव्य-नाटकादिमें भी शिथिल है। वीरतामें मदोन्मत्त है। आत्मप्रशंसा करनेवाला है। असत्यवादी है और अयोग्यों को दान देने वाला है। इस तरीकेका दुर्विनीत पति मुझे नहीं अच्छा लगता है। विशेष करके आजकलके दिनोंमें यह मेरा पति विकटवर्मा मेरी आत्मीया तथा सदा समीप रहनेवाली पुष्करिका का अनादर करता है। तथा जो मेरी समृद्धि नहीं पसन्द करती ऐसी एवं जो मुझ से सौतपना ( सापत्न्यभाव ) रखती है ऐसी और जो अपने स्वरूप के ज्ञान को भी नहीं जानती ऐसी रमयन्तिका नामक नर्त्तकीको चाहता है। जिस चम्पकलताको मैंने पुत्र के समान सींच करके बनाया है उसी चम्पकलताके फूलों को अपने हाथों से चुन करके उस रमयन्तिका नर्त्तकी का श्रृङ्गार करता है। मेरे द्वारा उपभोग करके त्यागी हुई क्रीड़ा-पर्वत में स्थित मणियों की शय्यापर उस नर्त्तकी रमयन्तिकाके साथ रमण करता है। यह मेरा पति मूर्ख Nepal Sanskrit University, Balmeeki Campus, Kathmandu

२२८ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF २२८ दशकुमारचरितम् । [ उत्तरपीठिकायां नामापत्यनिर्विशेषं मत्संवर्धितायाश्चम्पकलतायाः स्वयमवचिताभिः सुम- नोभिरलमकार्षीत् । मदुपभुक्तमुक्ते चित्रकूटगर्भवेदिकागते रत्नतल्पे तया सह व्यहार्षीत् । अयोग्यश्च पुमानवज्ञातुं च प्रवृत्तः । तत्किमित्यपेक्ष्यते । परलोकभयं चैहिकेन दुःखेनन्तरितम् । अविषह्यं हि योषितामनङ्गशर- निषङ्गीभूतचेतसामनिष्टजनसंवासयन्त्रणादुःखम् । अतोऽऽमुना पुरुषेण ममाद्योद्यानमाधवीगृहे समागमय । तद्वार्ताश्रवणमात्रेणैव हि ममातिमात्रं संवर्द्धितायाः जलसेकादिना पुष्टिं गमितायाः । चम्पकळतेति वृक्षविशेषः । स्वयम् स्वहस्तेन । अवचिताभिः-लूनाभिः । सुमनोभिः कुसुमैः । सुमनःशब्दस्य स्त्री- लिङ्गत्वात्तद्विशेषणस्य स्त्रीत्वम् । अलमकार्षीत्-भूषयामास । मदुपभुक्तेति-मया आदौ उपभुक्तमनुभूतं पश्चान्मुक्तं त्यक्तं यत्तस्मिन् । चित्रकूटति-चित्रकूटः क्रीड़ा- पर्वतस्तस्य गर्भे गुहायां या वेदिका परिष्कृतभूमिस्तत्र गतं तस्मिन् । रत्नतल्पे- रत्ननिर्मितशयने । तया रमयन्तिकया । व्यहार्षीत् विहारमकरोत् । अयोग्यश्चेति यः पुरुषः स्वयमयोग्यो मूर्खत्वादिदोषयुक्तः स पुनरन्यं तिरस्कर्तुं प्रवृत्तः एतदेवा- श्चर्यमिति भावः । तत् तस्मात् कारणात् । किमिति-कथम् । अपेक्ष्यते-नैवापे- क्ष्यते मयेति शेषः । तस्यापेक्षा न कार्येति भावः । परलोकभयमिति-योषितां पति- परित्यागेन परलोकाद्भयमस्त्येव तथापि तद्द्वयं परलोकगमने सति भाव्यम् ऐहिकं दुःखमिहजन्मनि भोग्यमतः परलोकभयमैहिकेन दुःखेनन्तरितं व्यवधानी- कृतमिति भावः । अविषह्यं सोढुमशक्यम् । अनङ्गेति-अनङ्गशराणां कामबाणा- नां निषङ्गीभूतं तूणीरीभूतं आधारभूतमितियावत् चेतश्चित्तं यासां तथाभूतानाम् । अनिष्टेति-अनिष्टजनेन अप्रियजनेन सह संवासश्चिरमेकत्रवसतिस्तस्य या यन्त्रणा नियमनं चिरमनेन सह त्वया वस्तव्यमित्येतद्रूपं तेन यद्दुःखं क्लेशः । अमुना त्वयोक्तेन । पुरुषेण युवकेन सहेति शेषः । मम मामित्यर्थः । उद्यानमाध- वीगृहे-उद्यानस्थितवासन्तीलतागृहे । समागमय-सम्मेलय । अतिमात्रमत्यन्तम् । है और इसीसे अन्योंका तिरस्कार करने में प्रवृत्त हुआ है । मैं अब क्यों उसकी अपेक्षा करूँ। यदि यह कहा जाय कि परलोक के भय से डरूँ तो इस लोकके दुःखोंसे परलोक का भय भी व्यवधानीभूत (बाधित) हो जाता है । कामदेवके बाणके आधारभूत अन्तःकरणवाली अबलाओंको अपनेको कष्ट देनेवाले पति के सहवास से जो यन्त्रणाएँ (व्यथाएँ) होती हैं वे असह्य होती हैं । अतएव इस चित्रगत पुरुष के साथ आज उपवनके माधवीलता-मण्डप में मेरा संयोग करा दो । उस राजपुत्रकी वार्त्ताके श्रवणसे ही मेरा चित्त उसकी ओर अत्यधिक अनुरक्त हो गया है । वह जो धनकी राशि मेरे पास है Nepal Sanskrit University, Balmeeki Campus, Kathmandu