भारतकोश
संग्रह पर लौटें

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

सानुवाद-मिताक्षरावृत्तिसहितानि ११५

इस प्रकार निर्णय करने पर (राजा का दोनों लोकों में) कल्याण होता है ॥ २६ ॥

न केवलं राज्ञ एव सिद्धिः । किं तर्हि सह निर्णेतॄणां ब्राह्मणानामपीति दर्शयितुं श्रुतिमुदाहरति—

ब्रह्म क्षत्रेण संपृक्तं देवपितृमनुष्यान्धारयतीति विज्ञायते ॥२७॥

ब्रह्म त्रैविद्यलक्षणं क्षत्रेण संयुक्तं राज्ञा सह धर्मं विविञ्चद्देवपितृ-मनुष्यान्धारयतीति श्रुतिसिद्धम् । एवं निर्णये कृते यथोक्तं कर्मानुतिष्ठन्ति मनुष्याः । तच्च धर्म्यं कर्म देवा उपजीवन्ति पितरश्च न क्षीयन्त इति न्यायेन सर्वेषां धारणं भवतीति ॥ २७ ॥

क्षत्र अर्थात् राजा के साथ मिलकर ब्रह्म (अर्थात् विद्यात्रयी के ज्ञाता ब्राह्मण) देवताओं, पितरों और मनुष्यों का धारण करता है (उन्हें समृद्धि प्रदान करता है) ऐसा परम्परा से ज्ञात है ॥ २७ ॥

अथ दौःशील्याद् व्यवस्थां नानुमन्यन्ते ततः—

दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत् ॥ २८ ॥

दमनयोगाद्दण्डशब्दस्य दण्डत्वमित्याहुर्धर्मज्ञाः । तेनादान्तानवश्या-न्दमयेद्वशं नयेत् । दण्डेनादान्तान्दमयेदित्येवं सिद्धे दण्डः—

धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डं ततः परम् ॥ देवदानवगन्धर्वा रक्षांसि पतगोरगाः । तेऽपि भोगाय कल्प्यन्ते दण्डेनैव निपीडिताः॥ इति ॥२८॥

दमन करने के कारण ही दण्डविधि को दण्ड कहा गया है, उसके द्वारा (राजा) उच्छृङ्खल व्यक्तियों को अपने वश में करे ॥ २८ ॥

अथैवं शास्त्रवश्यतया राज्ञा च स्वधर्मे स्थाप्यमानानां वर्णानामाश्रमाणां च कथं सिद्धिरित्यत आह—

वर्णाश्रमाः स्वस्वधर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतचित्र( वृत्त )वित्तसुखमे-धसो जन्म प्रतिपद्यन्ते ॥ २९ ॥

वर्णा ब्राह्मणादयः । आश्रमा ब्रह्मचर्यादयः । ते स्वधर्मनिष्ठा वर्णप्रयु-क्तानाश्रमप्रयुक्तानुभयप्रयुक्तांश्च धर्माननुष्ठितवन्तः प्रेत्य मरणेन लोकान्तरं गत्वा तस्य तस्य कर्मणः फलं स्वर्गादिकमनुभूय ततस्तदनन्तरं शेषेण भुक्तावशिष्टेन कर्मणा विशिष्टदेशादिकान्भुक्त्वा जन्म प्रतिपद्यन्ते । तत्र विशिष्टशब्दो देशादिभिः सर्वैः संबध्यते । विशिष्टो देश आर्यावर्तादिः ।

११६ गौतमधर्मसूत्राणि

विशिष्टजातिर्ब्राह्मणजातिः । विशिष्टकुलमध्ययनादिसंपन्नम् । विशिष्टरूपं कान्तिमत् । विशिष्टायुः सहषोडशं वर्षशतम् । सहषोडशं वर्षशतमजीवदिति दर्शनात् । रोगरहितत्वमप्यायुषो विशेषः । विशिष्ट श्रुतंब्राह्मणश्च बहुश्रुत इत्यत्र व्याख्यातम् । विशिष्टवृत्तमनुपाधि चारित्रम् । विशिष्टवित्तं धर्मार्जितं धर्मे प्रयुज्यमानं च । सुखं निरपायस्थानाधिष्ठानेनानिषिद्धसुखसेवनम् । विशिष्टमेधा ग्रन्थार्थयोर्ग्रहणशक्तिरिति । मेधाशब्दे सकारान्तत्वमार्षं सुमेधसो दुर्मेधस इत्यादिष्वेव दर्शनात् । कर्माणि भुज्यमानानि पुण्यान्यपुण्यानि च सशेषाण्येवं भुज्यन्ते । ऐहिकस्य शरीरग्रहणादेरपि पुण्यापुण्यनिबन्धनत्वात् ॥ २९ ॥

ब्राह्मणादि वर्णों और ब्रह्मचर्य आदि आश्रमों के लोग अपने-अपने धर्म में रत रहने पर मृत्यु के बाद अपने कर्मों के फल का भोग करते हैं और उसके अनन्तर शेष बचे हुए कर्म के अनुसार विशेष देश, जाति, कुल, आयु, विद्या, आचार, धन, सुख और बुद्धि से युक्त होकर जन्म लेते हैं ॥ २९ ॥

विष्वञ्चो विपरीता नश्यन्ति ॥ ३० ॥

ये वर्णाश्रमाः स्वानि कर्माणि यथावन्नानुतिष्ठन्ति ते विपरीता विष्वञ्चो नानायोनीर्गच्छन्तो नश्यन्ति । अनर्थपरम्परामनुभवन्तीति ॥ ३० ॥

इसके विपरीत आचरण वाले (अर्थात् स्वधर्म का पालन न करने वाले) अनेक योनियों में भटकते हुए नष्ट हो जाते हैं ॥ ३० ॥

तानाचार्योपदेशो दण्डश्च पालयते ॥ ३१ ॥

तान्विपरीतान्यथोक्तमकुर्वतो वर्णानाश्रमांश्चाऽऽचार्योपदेशस्तावत्पालयते । तत्राप्यतिष्ठतो राजदण्डः ॥ ३१ ॥

उन्हें (अर्थात् विपरीत आचरण वालों को) आचार्यों का उपदेश और राजा का दण्ड सँभालते हैं ॥ ३१ ॥

यत एवम्—

तस्माद्राजाचार्यावनिन्द्यावनिन्द्यौ ॥ ३२ ॥

तस्माद्धेतो राजाचार्यौ मान्यावनिन्द्याविति । यद्यपि नियमनकाले हितैषितया प्रमुखपुरुषौ भवतस्तथाऽपि तयोर्निन्दा न कार्या । [अभ्यासोऽध्यायसमाप्त्यर्थः ] ॥ ३२ ॥

इति श्रीगौतमयोवृत्तौ हरदत्तविरचितायां मिताक्षरायां
द्वितीयप्रश्ने द्वितीयोऽध्यायः ॥ २ ॥

अतएव राजा और आचार्य की निन्दा न करे ॥ ३२ ॥

द्वितीय प्रश्न में द्वितीय अध्याय समाप्त ।

अथ द्वितीयप्रश्ने तृतीयोऽध्यायः

दण्डेनादान्तान्दमयेदित्युकम् । तत्र कियत्यपराधे कियान्दण्ड इत्यत आह—

शूद्रो द्विजातीनभिसंधायाभिहत्य च वाग्दण्डपारुष्याभ्या- मङ्गमोच्यो येनोपहन्यात् ॥ १ ॥

शूद्रश्चतुर्थो वर्णः । स द्विजातीन्ब्राह्मणादींस्त्रीन्वर्णान् । वाक्पारुष्येणाभिसंधायाभिभूय दण्डपारुष्येणाभिहत्य च । अभिरभिसंधिपूर्वे बुद्धिपूर्वं ताडयित्वा । दण्डग्रहणं हस्तादेरप्युपलक्षणम् । एवं कुर्वन्नङ्गमोच्योऽवयवेन वियोजनीया येनाङ्गेनोपहन्यादपराधं कुर्यात्तदङ्गं मोच्यः । हस्तेन ताडने हस्तच्छेदः पादेन ताडने पादच्छेदो वाचा जिह्वाच्छेदः ।

अत्र मनुः—

येनाङ्गेनावरो वर्णो ब्राह्मणस्यापराध्नुयात् ।
तदङ्गं तस्य च्छेत्तव्यं तन्मनोरनुशासनम् ॥ इति ।

पारुष्यग्रहणात्परिहासेनाप्रियवचने परिहासादिना ताडने च नेदं भवति ॥ १ ॥

शूद्र के जान बूझकर वाणी द्वारा या प्रहार द्वारा द्विजातियों को कष्ट पहुँचाने पर जिस अंग द्वारा शूद्र ने अपराध किया हो उसे (राजा) कटवा ले ॥ १ ॥

आर्यस्त्र्यभिगमने लिङ्गोद्धारः स्वहरणं च ॥ २ ॥

शूद्र इति प्रकृतं षष्ठ्यन्तमपेक्षते । आर्यास्त्रैवर्णिकाः । तेषां चेत्स्त्रियं शूद्रोऽभिगच्छेत्तस्य लिङ्गोद्धारो लिङ्गोत्पाटनं कार्यं यच्च यावच्च स्वं तस्य च हरणं दण्डः । आर्याभिगमनमित्येव सिद्धे स्त्रीग्रहणम्, आर्यगृहीतायां शूद्रायामपीति सूचनार्थम् । तत्र वैश्यस्त्रियां स्वहरणं क्षत्रियायां लिङ्गोद्धारः । ब्राह्मण्यामुभयमिति ॥ २ ॥

द्विजाति स्त्री के साथ सम्भोग करने पर शूद्र की जननेन्द्रिय कटवाकर उसकी सारी सम्पत्ति छीन ले ॥ २ ॥

गोप्ता चेद्वधोऽधिकः ॥ ३ ॥

स यदि शूद्रस्तासां गोप्ता रक्षिता भवति तदा वधः कार्यः अधिकग्रहणात्पूर्वोक्तदण्डद्वयमपि भवति ॥ ३ ॥

११८गौतमधर्मसूत्राणि

यदि वह शूद्र उस द्विजाति स्त्री का रक्षक हो तो पूर्वोक्त दण्डों के अतिरिक्त उसे वध दण्ड भी दे ॥ ३ ॥

अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः ॥ ४ ॥

अथ हेति वाक्यालंकारे । उपश्रुत्य बुद्धिपूर्वमक्षरग्रहणमुपश्रवणम् । अस्य शूद्रस्य वेदमुपशृण्वतस्त्रपुजतुभ्यां त्रपुणा जतुना च द्रवीकृतेन श्रोत्रे प्रतिपूरयितव्ये । उपश्रवणशब्देन यदृच्छया ध्वनिमात्रश्रवणे न दोषः । स चेद् द्विजातिभिः सह वेदाक्षराण्युदाहरेदुच्चरेत् । तस्य जिह्वा छेद्या । धारणे सति यदाऽन्यत्र गतोऽपि स्वयमुच्चारयितुं शक्नोति ततः परश्वादिना शरीरमस्य भेद्यम् ॥ ४ ॥

शूद्र के (अक्षर ग्रहण करने की इच्छा से) वेदपाठ सुनने पर (पिघलाये गए) सीसे और जस्ते से उसके कान भर दिये जाँय, (द्विजातियों के साथ) वेद के अक्षर का उच्चारण करने पर उसकी जीभ काट ली जाय तथा वेद मन्त्र धारण करने पर उसका शरीर काट डाला जाय ॥ ४ ॥

आसनशयनवाक्पथिषु समप्रेप्सुर्दण्ड्यः ॥ ५ ॥

शूद्रश्चेदासनादिषु द्विजातिभिः सह साम्यं प्रेप्सति तत्तुल्यभावं ततोऽसौ दण्ड्यः । दण्डश्चाऽऽपस्तम्बेन दर्शितः—

वाचि पथि शय्यायामासन इति समीभवतो दण्डताडनम् । इति ।

दण्डेनासौ ताड्य इति । अत्र मानवो विशेषः—

सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टकः ।
कट्यां कृताङ्को निर्वास्यः स्फिजौ वाऽप्यस्य कर्तयेत् ॥ इति ॥ ५ ॥

द्विजातियों के साथ आसन, शयन, वार्तालाप और मार्ग में समानता प्राप्त करने का यत्न करने वाला शूद्र दण्ड्य होता है ॥ ५ ॥

शतं क्षत्रियो ब्राह्मणाक्रोशे ॥ ६ ॥

क्षत्रियश्चेद् ब्राह्मणमाक्रोशेद्वाचा परुषया निन्देत्ततः शतं दण्ड्यः । दण्डप्रकरणे सर्वत्र ताम्रिकस्य कार्षापणस्य ग्रहणमिति स्मार्तो व्यवहारः । शतं कार्षापणानि दण्ड्यः । दण्डपारुष्ये द्विगुणम् । अथाऽऽह बृहस्पतिः—

वाक्पारुष्ये कृते यस्य यथा दण्डो विधीयते ।
तस्यैव द्विगुणं दण्डं कार्येन्मरणाहते ॥ १ ॥ इति ॥ ६ ॥

ब्राह्मण को कठोर वचन कहने पर क्षत्रिय को एक सौ (कार्षापण) दण्ड होता है ॥ ६ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि ११९

अध्यर्धं वैश्यः ॥ ७ ॥

वैश्यस्तु ब्राह्मणाक्रोशेऽध्यर्धं शतं दण्ड्योऽर्धाधिकं पञ्चाशदधिकं शतं दण्ड्यः ॥ ७ ॥

(ब्राह्मण को कठोरवचन कहने पर) वैश्य को डेढ़ गुना अर्थात् एक सौ पचास कार्षापण दण्ड होता है ॥ ७ ॥

ब्राह्मणस्तु क्षत्रिये पञ्चाशत् ॥ ८ ॥

क्षत्रियाक्रोशे ब्राह्मणस्तु पञ्चाशत्पणान्दण्ड्यः ॥ ८ ॥

वाणी द्वारा क्षत्रिय का अपमान करने पर ब्राह्मण को पचास कार्षापण दण्ड होता है ॥ ८ ॥

तदर्धं वैश्ये ॥ ९ ॥

वैश्याक्रोशे तदर्धं पञ्चविंशतिपणान्दण्ड्यः ॥ ६ ॥

वैश्य को कठोर वचन कहने पर पूर्वोक्त का आधा अर्थात् पचीस कार्षापण दण्ड ब्राह्मण को होता है ॥ ९ ॥

न शूद्रे किंचित् ॥ १० ॥

शूद्रे त्वाक्रुष्टे न किंचिदपि द्रव्यं ब्राह्मणो दण्ड्यः। तदिदं न वक्तव्यमवचनादेव दण्डाभावः सिध्येत् । किंतु क्षत्रियवैश्ययोः शूद्राक्रोशे दण्डप्रापणार्थमुक्तम् । तदुक्तमुशनसा—

शूद्रमाक्रुश्य क्षत्रियश्चतुर्विंशतिपणान्दण्डभाग्वैश्यः षट्त्रिंशत् इति ॥ १० ॥

शूद्र का वाणी द्वारा तिरस्कार करने पर ब्राह्मण किसी दण्ड का भागी नहीं होता ॥ १० ॥

ब्राह्मणराजन्यवत्क्षत्रियवैश्यौ ॥ ११ ॥

ब्राह्मणराजन्ययोः परस्पराक्रोशे यादृशो दण्डस्तादृशः क्षत्रियवैश्ययोः परस्पराक्रोशे । ततश्चैवं सूत्रमूह्यितव्यम् । शतं वैश्यः क्षत्रियाक्रोशे । क्षत्रियस्तु वैश्यं पञ्चाशत् । एवमन्तरप्रभवेष्वपि द्रष्टव्यम् । अत्र जमदग्निः— मातृतुल्यमनुलोमानां पितृतुल्यं प्रतिलोमानामिति ॥ ११ ॥

ब्राह्मण और क्षत्रिय के लिए परस्पर वचन द्वारा अपमान करने पर जो दण्ड होते हैं वे ही दण्ड क्षत्रिय और वैश्य को परस्पर वाणी द्वारा तिरस्कृत करने पर मिलते हैं ॥ ११ ॥

१२० | गौतमधर्मसूत्राणि

उक्तः साहसदण्डः । स्तेयदण्डमाह—

अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य ॥ १२ ॥

स्तेयं चौर्यम् । स्तेयोपात्तं द्रव्यं किल्बिषनिमित्तत्वात्किल्बिषमुच्यते । स्तेयेनोपात्तं द्रव्यमष्टगुणमापादनीयं शूद्रस्य । कर्तरि षष्ठ्येषा । स्तेयकिल्बिषं शूद्रोऽष्टगुणमापादयेद्राज्ञे दण्डरूपेण प्रतिपादयेदिति । तत्रैको गुणः स्वामिने देयः । शेषो राज्ञे । उक्तं च चोरहृतमवजित्येत्यादिना ॥ १२ ॥

शूद्र द्वारा चुराए गये धन का आठ गुना उससे दण्ड लें ॥ १२ ॥

द्विगुणोत्तराणीतरेषां प्रतिवर्णम् ॥ १३ ॥

इतरेषां वैश्यादीनां स्तेयकिल्बिषाणि प्रतिवर्णं द्विगुणोत्तराण्यापादनीयानि । वैश्यस्य षोडशगुणं क्षत्रियस्य द्वात्रिंशद्गुणं ब्राह्मणस्य चतुःषष्टिगुणमिति ॥ १३ ॥

वैश्य आदि अन्य जातियों द्वारा चुराए गये धन का क्रमानुसार पूर्व वर्ण के लिए निर्धारित दण्ड का दूना दण्ड हो अर्थात् वैश्य को शूद्र से दूना अर्थात् चुराए गये धन का सोलह गुना, उससे दूना अर्थात् चुराये गये धन का बत्तीस गुना क्षत्रिय को और उससे दूना अर्थात् चुराये गये धन का चौंसठ गुना ब्राह्मण को दण्ड मिले ॥ १३ ॥

कस्मादिदमेवमित्याह—

विदुषोऽतिक्रमे दण्डभूयस्त्वम् ॥ १४ ॥

यथा यथा वर्णोत्कर्षेण विद्योत्कर्षस्तथा तथा विहितातिक्रमे दण्डभूयस्त्वं भवति । निषेधदोषं ज्ञात्वाऽपि प्रवर्तमानस्य दोषाधिक्यं भवति । अजानतस्त्वन्धकूपपतनवदनुग्रहोऽस्ति । अष्टापाद्यमित्यादेरपवादः ॥१४॥

वर्ण के उत्कर्ष के अनुसार विद्या का उत्कर्ष होने से अधिक दण्ड होता है । (जो नियम जानते हुए भी अपराध करे वह अधिक दोषी होता है) ॥ १४ ॥

फलहरितधान्यशाकादाने पञ्चकृष्णलमल्पम् ॥ १५ ॥

फलमाम्रादि । हरितधान्यं स्तम्बेऽवस्थितं व्रीह्यादि । शाकं वास्तूकादि । एतेषां स्तेयेनाऽऽदाने पञ्चकृष्णलं दण्डः । कृष्णलं गुञ्जाबीजप्रमाणम् ।

माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य हि ।
कृष्णलस्तु चतुर्थांशो माषस्यैष प्रकीर्तितः ॥ इति ।

सानुवाद-मिताक्षरावृत्तिसहितानि १२१

पञ्चानां कृष्णलानां समाहारः पञ्चकृष्णलम्। अल्प तच्चेत्फलादि अल्पमुदरपूरणमात्रम्। अधिके त्वष्टापाद्यमेव ॥ १५॥

अल्प फल, हरे धान्य और शाक की चोरी करने पर पांच कृष्णल दण्ड होता है ॥ १५ ॥

पशुपीडिते स्वामिदोषः ॥ १६ ॥

पशुभिरुपहते सस्यादौ पशुमतो दोषः। दण्डपरिमाणं वक्ष्यति ॥१६॥

किसी पशु के फसल आदि नष्ट करने पर पशु के स्वामी का दोष होता है ॥ १६ ॥

पालसंयुक्ते तु तस्मिन् ॥ १७ ॥

स चेत्पशुः पालाय स्वामिना समर्पितस्तदा तस्मिन्पाले दोषः। पालयतीति पालो गोपालः। इदं प्रमादकृते, बुद्धिपूर्वे तु द्विगुणो दण्डः। तथा स्मृत्यन्तरे दर्शनात् ॥ १७ ॥

पशु के साथ चरवाहा लगा हो तो (पशु द्वारा फसल आदि की हानि होने पर) चरवाहे का दोष होता है ॥ १७ ॥

पथि क्षेत्रेऽनावृते पालक्षेत्रिकयोः ॥ १८ ॥

क्षेत्रिकः क्षेत्रवान् यस्य क्षेत्रं पन्थ्यनावृतं भवति तत्र पशुपीडिते पालक्षेत्रिकयोरुभयोर्दण्डोऽर्धमर्धम्। पालस्यानवधानात्क्षेत्रिकस्य वृत्त्यकरणाच्च।

वृत्तिं च तत्र कुर्वीत यामुष्ट्रो नावलोकयेत्। इति मानवे दर्शनात् ॥ १८ ॥

मार्ग से सटे हुए खेत के घिरा न होने पर (यदि पशु हानि करे तो) खेत के स्वामी और पशु के स्वामी दोनों का दोष होता है ॥ १८ ॥

दण्डपरिमाणमाह—

पञ्च माषा गवि ॥ १९ ॥

उशनसा माषो दर्शितः—

माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य हि।
काकिणी तु चतुर्थांशो माषस्यैष प्रकीर्तितः ॥ इति ॥

माषाः पञ्च गोपीड़िते सस्यादौ दण्डः ॥ १९ ॥

गाय के द्वारा (खेत को क्षति पहुँचाने पर) पांच माष दण्ड होता है ॥१९॥

षडुष्ट्रखरे ॥ २० ॥

द्वंद्वैकवद्भावः। उष्ट्रखरे तूपहन्तरि प्रत्येकं षण्माषा दण्डः ॥ २० ॥

१२२गौतमधर्मसूत्राणि

ऊँट और गधे द्वारा क्षति होने पर छः छः माष दण्ड होता है ॥ २० ॥

अश्वमहिष्योर्दश ॥ २१ ॥

लिङ्गमविवक्षितम्। अश्वे महिषे च प्रत्येकं दश माषा दण्डः ॥ २१ ॥
घोड़े और भैंस द्वारा हानि होने पर दश माष दण्ड होता है ॥ २१ ॥

अजाविषु द्वौ द्वौ ॥ २२ ॥

अजेष्वविषु चोपसंहन्तृषु द्वौ द्वौ माषौ। संभूय चरन्तीति बहुवचनम्। प्रत्यजं प्रत्यविकं द्वौ द्वौ दण्डः ॥ २२ ॥
बकरी और भेंड़ द्वारा क्षति होने पर दो-दो माष दण्ड होता है ॥ २२ ॥

सर्वविनाशे शदः ॥ २३ ॥

यथा पुनः प्ररोहो न भवति तथा सर्वविनाशे शदो दण्डः। शद इति भागाभिधानम्। यावांस्तत्र भाग उत्पत्स्यते तावत्स्वामिने देयम्। राज्ञे चानुरूपो दण्डः ॥ २३ ॥
फसल के पूर्णतः नष्ट हो जाने पर (अर्थात् इस प्रकार नष्ट हो जाय कि पुनः अंकुर न उगें तो) उसकी पूरी उपज राजा स्वामी को अपराधी से दिलावे ॥ २३ ॥

शिष्टाकरणे प्रतिषिद्धसेवायांच नित्यं चैलपिण्डादूर्ध्वं स्वहरणम् ॥ २४ ॥

शिष्टं विहितम्। नित्यं शिष्टस्याकरणे नित्यं च प्रतिषिद्धसेवायांचैलपिण्डादूर्ध्वं चैलमाच्छादनं पिण्डो ग्रासस्ताभ्यामूर्ध्वं यावता तयोर्निवृत्तिस्ततोधिकं यत्स्वं तस्य हरणं कार्यम्। आच्छादनासनार्थं यत्किंचित्परिहायावशिष्टमस्य स्वं हर्तव्यमित्येवमतो निवृत्तेः ॥ २४ ॥
विहित कर्म के न करने एवं निषिद्ध कर्म करने पर राजा उस व्यक्ति से नित्य ही भोजन वस्त्र के अतिरिक्त धन का हरण कर ले ॥ २४ ॥

अदत्तादाननिषेधविषयेऽपवादमाह—

गोऽग्न्यर्थे तृणमेधान्वीरुद्वनस्पतीनां च पुष्पाणि स्ववदाददीत फलानि चापरिवृतानाम् ॥ २५ ॥

अग्निः श्रौतस्मार्तादिर्न लौकिकः। गवार्थे तृणानि। अग्न्यर्थं एधान्वीरुद्वनस्पतीनाम्। लतानां वृक्षाणां पुष्पाणि देवतार्चनार्थानि नोपभोगार्थानि। गवाग्निसाहचर्याद्देवताथानीति गम्यते। एतानि। तृणादीनि स्वा-

सानुवाद-मिताक्षरावृत्तिसहितानि १२३

द्भिभरदत्तान्यपि स्ववदाददीत। यथा स्वामी निःशङ्कमादत्ते तद्वदाददीत। ते वीरुद्वनस्पतयोऽपरिवृताश्चेत्तेषां फलान्यपि स्ववदाददीत न स्वाम्यपेक्षा। फलविषयमेतदपरिवृतत्वं न तृणादिविषयम्। पृथग्वाक्यत्वात्॥ २५॥

गाय के लिए चारा, श्रौत एवं स्मार्त्त अग्नि के लिए ईन्धन, (देवता की पूजा के लिए) लताओं एवं वृक्षों के फूल तथा अरक्षित पेड़ों के फल बिना स्वामी की आज्ञा के भी स्वेच्छापूर्वक ग्रहण किये जा सकते हैं॥ २५॥

कुसीदवृद्धिर्धर्म्या विंशतिः पञ्चमाषिकी मासम् ॥ २६ ॥

वृद्ध्यर्थं प्रयुक्तस्य द्रव्यस्य कुसीदसंज्ञा। माषः कार्षापणस्य विंशतितमो भाग इत्युशनसोक्तम्। पञ्च माषा वृद्धिरूपेण दीयन्ते यत्र विंशतौ सा पञ्चमाषिकी। तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयत इत्यत्रार्थे प्राग्वद्वतेर्लुक्। अध्यर्धपूर्वद्विगोर्लुगसंज्ञायामिति लुक्प्राप्तो न कृतः स्वाच्छन्द्यादृषिणा। कार्षापणानां विंशतिः प्रतिमासं पञ्चमाषिकी यथा भवति तथा भवन्ती कुसीदवृद्धिर्धर्मादनपेता।

अत्र मनुः—

वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम्।
अशीतिभागं गृह्णीयान्मासाद्वार्धुषिकः शतः॥ इति।

अत्रापीयमेव वृद्धिरुक्ता। कथम्। पणस्य विंशतितमो भागो माषः। पणानां विंशतिश्चतुःशती माषाणां संपद्यते। चतुःशत्याः पञ्च माषा वृद्धिरशीतेरेका। पञ्चशतीति यच्चतुरशतीति (?)।

याज्ञवल्क्यस्तु—

अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके।
वर्णक्रमाच्छतं द्वित्रिचतुःपञ्चकमन्यथा ॥ इति।

विश्वासार्थं यदाधीयते सुवर्णादि तद्वन्धकम्। तदुक्ते धनप्रयोगे वर्णानुपूर्व्याद् ब्राह्मणादिष्वधमर्णेषु धनं प्रिज्यादियुक्तं क्रमाद्भवति ॥ २६ ॥

धर्मसम्मत ब्याज प्रतिमास बीस कार्षापण पर पाँच माष होता है॥ २६ ॥


नातिसांवत्सरीमेके ॥ २७ ॥

येयमशीतिभागलक्षणा धर्म्या वृद्धिस्तामतिसांवत्सरीं संवत्सरेऽतिक्रान्ते भवां न गृह्णीयात्; एकस्मिन्नेव संवत्सरे प्रतिमासमशीतिभागो ग्राह्यस्तत ऊर्ध्वं न किंचिदपि ग्राह्यमेषा धर्म्या भवतीत्येके मन्यन्ते। अतिसांवत्सरीमिति रूपसिद्धिश्चिन्त्या ॥ २७॥

कुछ आचार्यों का मत है कि एक वर्ष हो जाने पर ब्याज नहीं लेना चाहिए ॥ २७ ॥

१२४ | गौतमधर्मसूत्राणि

स्वमतमाह—

चिरस्थाने द्वैगुण्यं प्रयोगस्य ॥ २८ ॥

यावता कालेन प्रयुक्तं धनं द्विगुणं भवति तावन्तमेव कालं धर्म्यया वृद्ध्या विवर्धते नातः परमिति सुवर्णादिद्रव्यविषयमेतत् ।

अत्र वसिष्ठः—
द्विगुणं हिरण्यं त्रिगुणं धान्यम् । धान्येनैव रसा व्याख्याताः । वृक्षमूलफलानि च तुलाधृतमष्टगुणमिति । चिरग्रहणात्सहस्रेणापि संवत्सरैर्न द्वैगुण्यात्परं वर्धत इति ॥ २८ ॥

जितने समय में मूलधन दूना हो जाय उतने समय तक ही ब्याज लेना धर्म सम्मत है ॥ २८ ॥

भुक्ताधिर्न वर्धते ॥ २९ ॥

विश्वासार्थं यदाधीयते कांस्याभरणादि स आधिः । स चेद् भुक्तः प्रयुक्तोऽर्थो न वर्धते । भोग एव तत्र वृद्धिरिति ॥ २९ ॥

बन्धक रखी हुई वस्तु का ऋणदाता भोग करे तो ऋण पर ब्याज नहीं होता ॥ २९ ॥

दित्सतोऽवरुद्धस्य च ॥ ३० ॥

धनिने धनं दातुमिच्छतोऽधमर्णस्य धनं न वर्धते । धनी वृद्धिलोभाद् व्याजेन न गृह्णाति चेत्तस्मिन्नेव दिवसे परहस्ते स्थाप्यं तदारभ्य वृद्धिर्न वर्धते तथा यो दित्सन्नधमर्णो राजादिनाऽवरुद्धस्तस्यापि दातुमसमर्थस्य द्रव्यं तत आरभ्य न वर्धते ॥ ३० ॥

ऋणी के धन लौटाने की इच्छा करने पर भी यदि ऋणदाता ( ब्याज के लोभ से ) धन न ले अथवा राजा ऋणी को धन लौटाने से रोक दे तो ( उस समय से ) ब्याज की वृद्धि नहीं होती है ॥ ३० ॥

अथाऽऽपदि वृद्ध्यन्तराण्याह—

चक्रकालवृद्धिः ॥ ३१ ॥

वृद्धिशब्दः प्रत्येकमभिसंबध्यते । यावता कालेन यावती वृद्धिस्तामपि मूलीकृत्य तावतो मूलस्य पुनर्वृद्धिश्चक्रवृद्धिः ।

यथाऽऽह नारदः—वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृता ॥ इति ।
इयतः कालस्येयती वृद्धिरिति यत्र समयेन गृह्यते सा कालवृद्धिः ॥ ३१ ॥

मूलधन और ब्याज दोनों को जोड़कर पुनः उस पर ब्याज लगाने से चक्र-

सानुवाद-मिताक्षरावृत्तिसहितानि १२५

वृद्धि और समय के आधार पर ब्याज का निर्धारण करने पर कालवृद्धि ब्याज होता है ॥ ३१ ॥

कारिताकायिकाशिखाधिभोगाश्च ॥ ३२ ॥

वृद्धय इति शेषः । प्रयोक्त्रा ग्र( गृ )हीत्रा च देशकालकार्यावस्थापेक्षया प्रभूता न्यूना वा स्वयमेव कल्पिता वृद्धिः कारिता । कायिका कायकर्मसंशोध्या ।

यथा बृहस्पतिः—कायिका कर्मसंयुक्ता । इति । व्यासस्तु—दोह्यवाह्यकर्मयुक्ता कायिका समुदाहृता ॥ इति ।

शिखावृद्धिं कात्यायन आह— प्रत्यहं गृह्यते या हि शिखावृद्धिस्तु सा स्मृता । शिखेव वर्धते नित्यं शिरश्छेदान्निवर्तते ॥ मूले दत्ते तथैवैषा शिखावृद्धिस्ततः स्मृता ॥ इति ।

उदाहरणम्—तण्डुलप्रस्थस्य प्रत्यहं तण्डुलमुष्टिर्गृह्यत इति । आधिभोग आहितस्य क्षेत्रस्य भोगोऽनुभवः । तत्रानुभव एव वृद्धिः । सा च शतेनापि संवत्सरैर्न निवर्तते । क्षेत्रं चोत्तमर्णस्य न भवति । यदा कदाचिदपि मूलप्रदाने सत्यधमर्णस्य भवति । अधिभोग इत्यन्ये । भोगमधिकृत्य वर्तते इत्यधिभोगवृद्धिः । तत्राप्येष एवार्थः । एतासु चक्रवृद्ध्यादिषु वृद्धेर्द्वैगुण्यात्परमपि भवत्येव ॥ ३२ ॥

देश, काल, कार्य और अवस्था के आधार पर निर्धारित अल्प या अधिक ब्याज ( कारिता ), शारीरिक श्रम द्वारा चुकाया जाने वाला ब्याज ( कायिका ), प्रतिदिन ग्रहण किया जाने वाला ब्याज ( शिखावृद्धि ), तथा बन्धक रखी हुई वस्तु या खेत के उपभोग के रूप में ब्याज ( ये वृद्धि के चार और भेद हैं ) ॥ ३२ ॥

कुसीदं पशूपजलोमक्षेत्रशदवाह्येषु नातिपञ्चगुणम् ॥ ३३ ॥

पशोरुपजातं पशूपजं घृतक्षीरादि । ऊर्णाकम्बलचामरवालव्यजनादि लोम क्षेत्रशदः क्षेत्रभोगः । वाह्यं बलीवर्दादि । बाह्यमिति प्रायेण पठन्ति तत्राप्येष एवार्थः । एतेषु पशूपजादिषु प्रयुक्तषु तत्कुसीदं यावत्पञ्चगुणं वर्धते पञ्चगुणतां नात्येति । अपर आह—पशूपजादिषु मूलत्वेन कल्पितस्य द्रव्यस्य तदानीमप्रदाने यावत्पञ्चगुणं वर्धते, धर्म्यया च वृद्ध्या पञ्चगुणतां नात्येति ॥ ३३ ॥

पशुओं से उत्पन्न घी, दूध आदि, ऊन, कम्बल, चामर, बालव्यजन आदि

१२६गौतमधर्मसूत्राणि

लोम, खेत की उपज, और बैल आदि वाहन के साधनों से संबद्ध ब्याज उनके पाँचगुने से अधिक नहीं होता ॥ ३३ ॥

अजडापौगण्डधनं दशवर्षभुक्तं परैः संनिधौ भोक्तुः ॥ ३४ ॥

जड उन्मत्तः पौगण्डो व्याकृतव्यवहारः । यो जडो न भवति पौगण्डो वा न भवति तस्य धनं परैस्तत्संनिधावेव चेद्दश वर्षाणि भुक्तं भवति तदा तद्धनं भोक्तुरेव स्वमिति निश्चीयते । स एव भोगः स्वामिनः सकाशाद्दानादिरूपेण तस्य धनस्य निर्गतं सूचयति । कथमपरथैतावन्तं कालमेवमर्थमपरलोके तूष्णीमासीतेति ।

अत्र क्षेत्रविषये याज्ञवल्क्यः—

पश्यतो ब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ इति ।
पश्यन्नन्यस्य ददतः क्षितिं यो न निवारयेत् ।
स्वामी सताऽपि लेखेन न स तल्लन्धुमर्हति ॥ इति बृहस्पतिः ।

अत्र मनुः—

यत्किंचिद्दश वर्षाणि संनिधौ प्रेक्षते धनी ।
भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति ॥ इति ।

अनागमं तु यो भुंक्त इत्यादि त्वसंनिधिविषयाणि जडादिविषयाणि वा ॥ ३४ ॥

जो व्यक्ति जड़ (पागल) न हो अथवा बालिग (१६ वर्ष से कम आयु का) न हो उसके उपस्थित रहते यदि कोई दूसरा व्यक्ति उसके धन का दस वर्ष तक भोग करे तो उस धन पर भोक्ता का स्वामित्व हो जाता है ॥ ३४ ॥

अस्यापवादः—

न श्रोत्रियप्रव्रजितराजपूरुषैः ॥ ३५ ॥

श्रोत्रियादिभिर्भुज्यमानं न भोगमात्रान्तेषां भवति । उपेक्षाकारणत्वोपपत्तेः । श्रोत्रियप्रव्रजितयोर्धर्मतृष्णयोपेक्षेति । राजपुरुषस्य तु भयेन । राजपुरुषग्रहणं सर्वेषां बलवतामुपलक्षणम् । एतेन साहसिका व्याख्याता । अपरिग्रहस्यापि प्रव्रजितस्य स्वस्वामिके शून्यगृहादावुपभोगः संभवति ॥ ३५ ॥

वेदज्ञ ब्राह्मण और परिव्राजक राजपुरुषों द्वारा भी किसी का धन एवं भुक्त होने पर (दस वर्ष बाद भी) उनके अधिकार में नहीं जाता ॥ ३५ ॥

पशुभूमिस्त्रीणामनतिभोगः ॥ ३६ ॥

पशवश्चतुष्पादः । भूमिः क्षेत्रारामादिका । स्त्रियः परिचारिका

सानुवाद-मिताक्षरावृत्तिसहितानि १२७

दास्यः । पश्चादीनां स (स्व) त्वे नातिभोगोऽपेक्षितः । अल्पेनापि भोगेन भोक्तुः स्वं भवति । कथमन्तरगृहे दृश्यमानां गां स्वयं तक्रादि क्रीत्वोपयुञ्जान उपेक्षेत, कथं वा बहुफलमाराम, कथं वा दासीं यौवनस्थामन्वहं परिचारिकाम् ॥ ३६ ॥

गाय बैल आदि पशु, उपवन, वाटिका आदि भूमि और स्त्रियों (दासी) पर अल्प समय (दस वर्ष से कम समय) तक भी उपभोग करने पर भोक्ता का ही स्वामित्व हो जाता है ॥ ३६ ॥

रिक्थभाज ऋणं प्रतिकुर्युः ॥ ३७ ॥

ये यस्य रिक्थभाजस्ते तदृणं प्रतिदद्युः । पुत्रपौत्रैस्तु रिक्थाभावेऽपि देयम् । तथा च बृहस्पतिः— ऋणमात्मीयवत्पित्र्यं पुत्रैर्देयं विभावितम् । पैतामहं समं देयं न देयं तत्सुतस्य तत् ॥ इति ।

नारदः—क्रमादभ्यागतं प्राप्तं पुत्रैर्यन्नर्णमुद्धृतम् । दद्युः पैतामहं पौत्रास्तच्चतुर्थान्निवर्तते ॥

याज्ञवल्क्यः—पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽपि च । पुत्रपौत्रैर्ऋणं देयं निह्नवे साक्षिभावितम् ॥ इति ॥३७॥

ऋणी व्यक्ति की सम्पत्ति के उत्तराधिकारी उसके ऋण का भुगतान करें ॥ ३७ ॥

प्रातिभाव्यवणिक्शुल्कमद्यद्यूतदण्डाः पुत्रान्नाभ्याभवेयुः ॥ ३८ ॥

अत्र नारदः— उपस्थानाय दानाय प्रत्ययाय तथैव हि । त्रिविधः प्रतिभूर्दृष्टस्त्रिष्वेवार्थेषु सूरिभिः ॥ इति । तस्य प्रतिभुवि प्रेते दायादानपि दापयेत् ॥ इति ।

विष्णुयाज्ञवल्क्यौ—दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते । आद्ये तु वितथे दाप्यावितरस्य सुता अपि ॥ इति ।

तस्मादिदमपि दानप्रतिभूव्यतिरिक्तविषयं द्रष्टव्यम् ।

अहमेनं दर्शयिष्यामीति प्रातिभाव्यं तमदर्शयित्वा पितरि प्रेते न तत्पुत्रेणासौ दर्शयितव्य इति । वणिग्वाणिज्यार्थमुपात्तं द्रव्यं तदपि न पुत्रानभ्याभवति । यदा सलाभमूलं दास्यामीति परिभाष्य कस्यचित्सकाशाद् द्रव्यं गृहीत्वा वाणिज्याय देशान्तरं गतो म्रियेत तदा तत्पुत्रेण न तत्प्रतिकर्तव्यमिति । तथा शुल्कं प्रतिश्रुत्य विवाहं कृत्वा मृते तत्पुत्रं न तच्छुल्कमभ्याभवति । तथा मूलं दास्यामीति मद्यं बहु पीत्वा मृते न

१२८ गौतमधर्मसूत्राणि

तत्पुत्रेण तद्दातव्यम् । तथा द्यूतं कृत्वा पराजितस्तत्पणद्रव्यमदत्त्वैव यदि म्रियते तदा तत्पुत्रो न दातुमर्हति । य(त्त) था व्यवहारे पराजितो राज्ञे दण्डमदत्त्वैव यदि म्रियते तदा न सोऽपि दण्डः पुत्रानभ्याभवति ॥३८॥

प्रतिभू होकर, व्यापार के लिए ऋण लेने पर, विवाह में देय धन न देकर, मद्यपान और द्यूतक्रीडा के लिए ऋण लेने पर तथा राजा द्वारा लगाये गए किसी दण्ड का भागी होने वाले व्यक्ति की मृत्यु के बाद उसके पुत्र देनदार नहीं होते ॥ ३८ ॥

निध्यन्वाधियाचितावक्रीताधयो नष्टाः सर्वाननिन्दिता- न्पुरुषापराधेन ॥ ३९ ॥

निधिर्निक्षेपः । ‘स्वं द्रव्यं यत्र विस्रम्भान्निक्षिपेत्यविशङ्कितः’ स निक्षेपः । अन्वाधिरुपनिधिः । औपनिधिकमिति स्मृत्यन्तरे प्रसिद्धम् । तत्र याज्ञवल्क्यः—

भाजनस्थमनाख्याय हस्ते न्यस्य यदर्प्यते । द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ इति ।

याचितमुत्सवादिष्वाभरणादि । अवक्रीतमदत्तमौल्यमर्धदत्तमौल्यं वा । आधिर्गोप्याधिः । एते निध्यादयो यदि पुरुषापराधेन विना नष्टा भवन्ति चोरादिभिरपहृताः [ वा ] सर्वांस्ताननिन्दितानाहुरदोषानाहुः । न केवलं पुत्रानेव नाभ्याभवेयुः किं तर्हि येषां सकाशे निध्यादयः कृता- स्तानपि नाभ्याभवन्ति । अनिन्दितेति ते यदि पूर्वं दृष्टदोषा भवन्ति तदा पूर्वमिदम् । पुरुषापराधस्तु यदि धारयितारः स्वद्रव्यवन्न रक्षयेयुः, यद्यग्निभयादौ स्वद्रव्यं गृहीत्वा निध्याद्युपेक्षेरन्स्वद्रव्यं वा गुप्तं निधाय बहिर्निध्यादि स्थापयेयुः । एतस्मिन्पुरुषापराधे सति दद्युरेव ॥ ३९ ॥

धरोहर रखा हुआ, भूमि में छिपाया गया, माँग कर लाया गया, विश्वास पर खरीदा गया और बन्धक रखा गया धन यदि किसी व्यक्ति के अपराध के बिना नष्ट हो जाय तो वह व्यक्ति दोषी नहीं होता है ॥ ३९ ॥

स्तेनः प्रकीर्णकेशो मुसली राजानमियात्कर्माऽऽचक्षाणः ॥४०॥

स्तेनः सुवर्णस्तेयकृत् ।

सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु । स्वकर्म ख्यापयन्त्रूयान्मां भवाननुशास्त्विति ॥ इति मानवम् ।

प्रकीर्णकेशो मुक्तकेशः । आयसः खादिरो वा मुसल इति स्मृत्य- न्तरम् । तद्वान् । अंसे मुसलमाधायेत्यापस्तम्बः । राजानमियात्कर्माऽऽ- चक्षाणः । एवंकर्माऽस्मि प्रशाधि मामिति ब्रुवाणः ॥ ४० ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १९९

चोर अपने केशों को बिखराये हुए, हाथ में मूसल लेकर राजा के पास अपने अपराध की घोषणा करते हुए पहुँचे ॥ ४० ॥

पूतो वधमोक्षाभ्याम् ॥ ४१ ॥

वधस्ताडनं मरणाान्तिकम् । तेनैनं हन्यादित्यापस्तम्बः । सकृदेव ताडनम् ।
गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् ।
इति स्मरणात् । मोक्षो मोचनम् । पुनरेवंविधं मा कार्षीर्गच्छेति । ताभ्यां च वधमोक्षाभ्यां स्तेनः पूतो भवति । हतोऽपि शुध्यति मुक्तोऽपि शुध्यतीति ॥ ४१ ॥

उसी मूसल के द्वारा एक बार प्रहार करने से उसकी मृत्यु हो जाय अथवा राजा ( चेतावनी देकर ) छोड़ दे तो वह चोर दोषमुक्त हो जाता है ॥ ४१ ॥

अघ्नन्नेनस्वी राजा ॥ ४२ ॥

यदि दयादिना तं न हन्याद्राजा स्वयमेनस्वी भवति । चोरस्य यद्देनस्तदस्य भवतीति ॥ ४२ ॥

दया के वशीभूत होकर अपराधी को दण्ड न देने पर राजा स्वयं उस पाप से युक्त होता है ॥ ४२ ॥

अयं तु दण्डो ब्राह्मणवर्जमिति दर्शयति—
न शारीरो ब्राह्मणदण्डः ॥ ४३ ॥

स्वयमुपस्थितस्यापि ब्राह्मणस्य शारीरो दण्डो न कर्तव्यो मोक्ष एव ।
तथा च मनुः—
वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव च ॥ इति ।
अत्रैवकारबलात्तदानीं तस्यापि ब्राह्मणस्य तपसा मोक्षः । न क्वापि निमित्ते हस्तच्छेदादिकमपि कर्तव्यमित्येवमर्थः । तथा च मनुः—
त्रिषु वर्णेषु तानि स्युरक्षतो ब्राह्मणो व्रजेत् । इति ।
तपस्विब्राह्मणविषयमिदम् ॥ ४३ ॥

स्वयं उपस्थित होने पर भी ब्राह्मण को शारीरिक दण्ड नहीं दिया जाता ॥ ४३ ॥

अन्यस्य तु यथापराधं दण्डमाह—
कर्मवियोगविख्यापनविवासनाङ्ककरणानि ॥ ४४ ॥

यथा पुनस्तत्कर्म न करोति तथा करणं कर्मवियोगः । सर्वस्वहरणं प्रतिभूग्रहणमित्यादि । विख्यापनं चौर्य्यचिह्नेन ग्रामनगरादिष्वाघोषणम् ।

९ गौ० ध०

१३० गौतमधर्मसूत्राणि

विवासनं निर्वासनम् । यथापराधं ग्रामंन्नगराद्राष्ट्राद्वा । अङ्ककरणं चिह्नकरणम् ।

तत्र मनुः—गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये तु श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ॥ इति ।
एषां कर्मवियोगादीनामेनःसु गुरुषु गुरूणि लघुषु लघूनीति न्यायेनापराधानुरूपा व्यवस्था । एतन्महापातकविषयम् । अङ्ककरणं तु तपस्विब्राह्मणस्यापि भवत्येव ॥ ४४ ॥

( अपराधी ब्राह्मण के लिए ) पाप कर्म से विमुख करने, अपराध की घोषणा करने, राज्य से निष्कासित करने और शरीर पर विशेष चिह्न लगाने का दण्ड होता है ॥ ४४ ॥

अप्रवृत्तौ प्रायश्चित्ती सः ॥ ४५ ॥

यस्तु राजा चोरविषयेष्वेवंदण्डको न वर्तते तस्यामप्रवृत्तौ स्वयं प्रायश्चित्ती भवति । तत्र वसिष्ठः—दण्ड्योत्सर्गे राजैकरात्रमुपवसेत्त्रिरात्रं पुरोहितः । कृच्छ्रमदण्ड्यदण्डने पुरोहित एकरात्रं त्रिरात्रं राजेति ॥ ४५ ॥

यदि राजा चोर को दण्ड नहीं देता तो वह स्वयं प्रायश्चित्त करे ॥ ४५ ॥

चोरसमः सचिवो मतिपूर्वे ॥ ४६ ॥

साचिव्यं प्रतिश्रयाशनदानादि साहाय्यम् । तच्चेन्मतिपूर्वं चोरोऽयमिति ज्ञात्वाऽपि यदि साचिव्यं करोति स चौरसमश्चोरवद्दण्ड्यः । अज्ञाते पुनरज्ञानमेव शरणम् ॥ ४६ ॥

पहले से जानते हुए भी चोर को सहायता और आश्रय देने वाला चोर के समान ही अपराधी होता है ॥ ४६ ॥

प्रतिग्रहीताऽप्यधर्मसंयुक्ते ॥ ४७ ॥

अपिशब्दान्मतिपूर्वं इत्यनुवर्तते । योऽन्यस्य द्रव्यमनेन चोरितमिति जानन्नेव ततः प्रतिगृह्णाति सोऽपि तस्मिन्नधर्मसंयुक्ते प्रतिग्रहे चोरसमः । प्रकरणादेव सिद्धेऽधर्मसंयुक्तग्रहणमन्यत्रापि पापविषये प्रतिग्रहीतृस्तत्तत्पापं भवतीति ज्ञापनार्थम् ॥ ४७ ॥

अधर्मयुक्त ( चोरी के ) धन को जानबूझकर ग्रहण करने वाला भी चोर के समान ही दण्ड का भागी होता है ॥ ४७ ॥

पुरुषशक्त्यपराधानुबन्धविज्ञानाद्दण्डनियोगः ॥ ४८ ॥

पुरुषो ब्राह्मणादिजातिः । शक्तिरर्थदण्डे बह्वर्थोऽल्पार्थ इति, शरीर-

सानुवाद-मिताक्षरावृत्तिसहितानि १३१

दण्डे दुर्बलः प्रबलो वेति चिन्ता । अपराधः साक्षात्कर्तृत्वं साचिव्यकर्तृत्वं वेति । अनुबन्धोऽभ्यासः । एतान्पुरुषान्विज्ञाय तदनुरूपो दण्डो नियोक्तव्य इति ॥ ४८ ॥

पुरुष की (आर्थिक और शारीरिक) शक्ति, अपराध और अपराध के अभ्यास का ज्ञान प्राप्त करके ही उसके अनुरूप दण्ड देना चाहिए ॥ ४८ ॥

अनुज्ञानं वा वेदवित्समवायवचनाद्वेदवित्समवायवचनात् ॥४९॥

वेदविदां त्रयाणां चतुर्णां वा समवायः संघः । अत्र मनुः— चत्वारो वा त्रयो वाऽपि यं ब्रूयुर्वेदपारगाः । स धर्म इति विज्ञेयो नेतरेषां सहस्रशः ॥ इति । तस्य संघस्य वचनादनुज्ञानं वा कर्तव्यम् । अनुपरोधो धर्मो वचनोय इति यदि ते ब्रयुस्तदा वक्तव्यमनुजानामि त्वां गच्छ यथेष्टमिति [अभ्यासोऽध्यायसमाप्त्यर्थः] ॥ ४९ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां द्वितीयप्रश्ने तृतीयोऽध्यायः ॥ ३ ॥

अथवा वेदज्ञ (तीन या चार) व्यक्तियों के संघ की आज्ञा के अनुसार दण्ड देना चाहिए या अपराधी को छोड़ देना चाहिए ॥ ४९ ॥

द्वितीयप्रश्ने तृतीयोऽध्यायः समाप्तः ।

अथ चतुर्थोऽध्यायः

विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था ॥ १ ॥

विप्रतिपत्तौ साक्षिणः प्रष्टव्याः। तैर्यथोक्तं तथा सत्यं व्यवस्थाप्यम्। अत्र नारदः—एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः। कृतः पञ्चविधस्तेषां षड्विधोऽकृत उच्यते ॥ लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च। गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः कृतः॥ अन्ये पुनरनुद्दिष्टाः साक्षिणः समुदाहृताः। ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम्॥ कार्येष्वभ्यन्तरो यश्च अर्थिना प्रहितश्च यः। कुल्याकुल्यविवादेषु भवेयुस्तेऽपि साक्षिणः॥ इति ॥१॥

जटिल विवाद होने पर साक्षियों की सहायता से सत्य का निर्णय करे ॥१॥

ते पुनः कीदृशाः कियन्तो वेत्याह—

बहवः स्युरनिन्दिताः स्वकर्मसु प्रात्ययिका राज्ञां निष्प्रीत्य- नभितापाश्चान्यतरस्मिन् ॥ २ ॥

वर्णप्रयुक्तान्याश्रमप्रयुक्तान्युभयप्रयुक्तानि स्वानि कर्माणि श्रौतानि स्मार्तानि च। तेष्वनिन्दिता अकरणादन्यथाकरणाद्वा। अत्र याज्ञवल्क्यः— त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः। इति।

प्रत्ययो विश्वासस्तेन ये चरन्ति ते प्रात्ययिकाः। य एवंभूता [ स्ते ] राज्ञामदृष्टदोषतया विश्वसनीयाः। अर्थिप्रत्यर्थिनोरन्यतरास्मिन्निष्प्रीतयो निःस्नेहा। अनभितापा अकृतद्वेषाः। एवंभूता बहवः साक्षिणः स्युः। अत्र याज्ञवल्क्यः— उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित्। इति। अभ्यन्तरस्तु निक्षेपे साक्ष्यमेकोऽपि वाच्यते। अर्थिना प्रहितः साक्षी भवत्येकोऽपि याचितः॥ इति कात्यायनः। प्रमाणमेकोऽपि भवेत्साहसेषु विशेषतः। इति व्यासः॥ २ ॥

अपने कर्म में प्रतिष्ठित, राजाओं के विश्वासपात्र, ( अर्थी और प्रत्यर्थी दोनों पक्षों में से किसी के प्रति ) पक्षपात या द्वेष न रखने वाले अनेक साक्षी होने चाहिए ॥ २ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १३३

अपि शूद्राः ॥ ३ ॥

शूद्रा अप्येवंविधाश्चेत्साक्षिणो भवेयुः किं पुनर्द्विजातय इति । एवं च गुणवद्द्विजात्यभावे शूद्रा अप्येवंविधा भवन्तीति द्रष्टव्यम् ॥ ३ ॥

इस प्रकार के शूद्र भी साक्षी हो सकते हैं ॥ ३ ॥

ब्राह्मणस्त्वब्राह्मणवचनादनवरोध्योऽनिबद्धश्चेत् ॥ ४ ॥

ब्राह्मणो नात्र श्रोत्रियः । अस्य वृत्तान्तस्यासौ ब्राह्मणः साक्षीत्यब्राह्मणेनोक्ते राज्ञा साक्षित्वेन नावरोध्यो न निर्बन्धेन ग्राह्यः । अनिबद्धश्चेत् । स चेल्लेखनिबद्धो न भवति । लेख्यारूढस्तु भवत्येव साक्षी । नात्र कश्चिद्धेतुरस्ति वचनमेव प्रमाणम् । अत्र नारदः—

असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।
वचनाद्दोषतो भेदात्स्वयमुक्तेर्मतान्तरात् ॥
श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् ।
भेदाद्विप्रतिपत्तिः स्याद्विवादे यत्र साक्षिणाम् ॥
स्वयमुक्तिरनिर्दिष्टः स्वयमेवैत्य यो वदेत् ।
मृतान्तरोऽर्थिनि प्रेते मुमूर्षुः श्रावितादृते ॥ इति ।

तदिह श्रोत्रियः क्वचिदपि साक्षी न भवतीति नारदस्य पक्षः । इहाब्राह्मणवचनादित्युक्तत्वाद ब्राह्मणेनोक्तः श्रोत्रियोऽपि भवत्येव साक्षी ॥ ४ ॥

यदि पहले साक्षी के रूप में नाम न लिखा गया हो तो कोई ब्राह्मण साक्ष्य के लिए किसी अब्राह्मण के कहने पर पकड़कर नहीं लाया जा सकता ॥ ४ ॥

नासमवेतापृष्टाः प्रब्रूयुः ॥ ५ ॥

असमवेता असमुदिता राज्ञा प्राड्विवाकेन वाऽपृष्टाः सन्तो न ब्रूयुः । किंतु समवेताः पृष्टाश्च प्रब्रूयुः ॥ ५ ॥

राजा द्वारा न बुलाये गये और न पूछे गए लोग न बोलें ( साक्ष्य न दें) ॥ ५ ॥

श्रवचनेऽन्यथावचने च दोषिरणः स्युः ॥ ६ ॥

ते चैवंभूता यदि जानन्त एव न [ ब्रूयुरन्यथा वा ] ब्रयुस्तदा दोषिणो दुष्टाः स्युः । इह राज्ञा दण्ड्याः परत्र च नारकिणः ॥ ६ ॥

( बुलाये जाने पर ) जानते हुए भी न बोलने वाले और अन्यथा बोलने वाले दोषी होते हैं ॥ ६ ॥

१३४ गौतमधर्मसूत्राणि

स्वर्गः सत्यवचने विपर्यये नरकः ॥ ७ ॥ ब्रुवन्तस्तु यदि सत्यं ब्रुवन्ति तदा स्वर्गो भवति। विपर्यये सत्यवचने नरको भवतीति ॥ ७ ॥

सत्य बोलने पर (साक्षी को) स्वर्ग मिलता है और विपरीत अर्थात् असत्य बोलने पर नरक की प्राप्ति होती है ॥ ७ ॥

अनिबद्धैरपि वक्तव्यम् ॥ ८ ॥ निबद्धा निर्दिष्टा यूयमत्र साक्षिण इति। तद्विपरीता अनिबद्धास्तैरपि साक्ष्यं वक्तव्यम्। ते च नारदेनान्ये पुनरनिर्दिष्टा इत्यारभ्य कथिता द्रष्टव्याः ॥ ८ ॥

जिनके नाम साक्ष्य के लिए न लिखे गये हों उन्हें भी साक्ष्य देने के लिए बोलना चाहिए ॥ ८ ॥

न पीडाकृते निबन्धः ॥ ९ ॥ पीडाकृतं पीडाकरणम्। निबन्धो निबन्धनमर्थसंबन्धादि। पीडाकरणे हिंसाविषये साक्षिणां निबन्धो न निरूप्यः। अर्थसंबन्धादि न किंचिदपि दूषणं भवति। आह व्याघ्रः--

स्तेये च साहसे चैव संसर्गे च स्त्रियास्तथा।
गरादीनां प्रयोगे च न दोषः साक्षिषु स्मृतः ॥ इति ॥ ९ ॥

हिंसा आदि के विवाद में साक्षियों के नियुक्त होने के नियम का विचार नहीं किया जाता ॥ ६ ॥

प्रमत्तोक्ते च ॥ १० ॥ प्रमादोऽनवधानम्। अन्त्ये परे वाक्ये साक्षिणा यहृच्छया यदुक्तं तत्रापि निबन्धो न भवति। अर्थसंबन्धादिदूषणं न भवति ॥ १० ॥

साक्षी के असावधानी से कुछ कह देने पर भी उस पर आक्षेप नहीं होता (अर्थसंबन्धी दोष नहीं होता) ॥ १० ॥

विपर्यये नरक उक्तः। न स केवलं साक्षिण एव किं तर्हि--

साक्षिसभ्यराजकर्तृषु दोषो धर्मतन्त्रपीडायाम् ॥ ११ ॥ तन्त्रं लोकव्यवहारः। धर्मतन्त्रयोः पीडायां सत्यां साक्षिषु सभ्येषु राजनि कर्तरि च सर्वेषु दोषो भवति। कर्तृग्रहणं दृष्टान्तार्थम्। यावान्कर्तुर्दोषस्तावत्साक्ष्यादीनामपीति। यद्यपि साक्षिणः पूर्वं दोष उक्तस्तथाऽपीह ग्रहणं सभ्यादीनां ससाक्षिकेऽपि दोषग्रहणार्थम्। अन्यथा साक्षिक-