भारतकोश
संग्रह पर लौटें

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ
४७४कादम्बरी-[ कथायाम्-

तामापाद्यमानम् पश्चिमेतरदिन्दुधाम्ना दिगन्तरमदृश्यत । शनैः शनैश्चन्द्रदर्शनान्मन्दमन्द- स्मिताया दशनप्रभेव ज्योत्स्ना निष्पतन्ती निशाया मुखशोभामकरोत् । वदत्तु रसातलादव- तीमवदार्य्य^१ उद्गच्छता शेषफणामण्डलेनेव^२ रजनिकरबिम्बेन^३ अराजत रजनी। क्रमेण च सकलजीवलोकानन्दकेन कामिनीजनवल्लमेन किञ्चिदुन्मुक्तवालभावेन मकरध्वजबन्धुभू- तेन समुपाढरागेण सुरतोत्सवोपभोगैकयोग्येन अमृतमयेन यौवनेनेवारोहता शशिना रम- णीयतामनीयत यामिनी।

अथ तं प्रत्यासन्न-समुद्र-विद्रुम-प्रभा-पाटलीतमिव उदय-गिरि-सिंह-करतलाहत-निज^४-

कानाम् उद्गमेन ऊर्ध्वगमनेन शुभ्रत्वसादृश्यनिरूपणाय गगनोद्धृतसिकतेनेत्यर्थः इन्दुधाम्ना चन्द्रकिरणेन, पाण्डुताम् आपद्यमानं प्राप्यमाणम्, पश्चिमेतरद् प्रतीच्या दिशः समस्तविपरीतं पूर्वमित्यर्थः दिगन्तरं पौर्वी दिग्भागम् अदृश्यत आलोक्यत जनैरिति शेषः ।

इह तरङ्गवायुभिः पुलिनस्य. सिकतासमूह एव बड्डीय उपरिगतो भवेत्तेनेवेति जात्युत्प्रेक्षा । तयै- कार्य एवं प्रयुक्तेन विशेषणत्रयेण नेहाधिकदोषः, तेषामलङ्कारग्रथनसामर्थ्यप्रकटनार्थत्वात् ।

शनैरिति । चन्द्रदर्शनात् निजप्राणनाथावलोकनाद्धेतोः मन्दमन्दं स्मितं प्रकाशो हास्यञ्च यस्याः तस्या निशाया रात्रेः, दशनप्रभेव दन्तकान्तिरिव शनैः शनैः मन्दं मन्दं निष्पतन्ती ज्योत्स्ना चन्द्रिका, मुखशोभां तस्या निशाया एव पूर्वभागसौन्दर्यं च अकरोत् व्यदधात् ।

इहेन्दुरात्र्योः पुँस्त्रीलिङ्गत्वाभ्यां स्मितकार्य्येण च स्त्रीपुरुषव्यवहारसमारोपात् समासोक्तिः। सा च 'दशनप्रभेवे' ति जात्युत्प्रेक्षया सङ्कीर्यते ।

वदन्विति । रजनी रात्रिः सर्वानी पृथिवीम् अवदार्य भित्त्वा रसातलात् नागलोकात् उद्गच्छता उत्तिष्ठता, शेषस्य श्वेतरूपस्य अनन्तनागस्य फणामण्डलेन फणासमूहेनेव शुभ्रेण गोलाकारेण चेत्याशयः, रजनिकरबिम्बेन चन्द्रमण्डलेन अराजत अशोभत । द्रव्योत्प्रेक्षा ।

क्रमेणेति । सकलजीवलोकानन्दकेन समस्तमनुष्यलोकप्रमोदोत्पादकेन कामिनीजनवल्लमेन सुन्द- रीजनप्रियेण । किञ्चिदुन्मुक्त ईषदपरित्यक्तो बालभावः शावकभावः प्रथमोदितभावश्च येन तेन । मकर- ध्वजः कामः तस्य बन्धुभूतेन स्वजनभूतेन स्थानद्वयेऽप्युद्दीपकत्वादित्याशयः ।- समुपाल्हः सञ्जातः रागोऽनुरागो लौहित्यं च यत्र तेन । सुरतोत्सवः सम्भोगानन्दः तस्य उपभोगे एकयोग्यः सर्वथा समर्थ- स्तेन प्रकाशाधिक्यादुद्दीपकत्वाच्चेत्याशयः । तथा अमृतमयेन आनन्दाधिक्येन पीयूषात्मकेन च । यौवने- नेव तारुण्येनेव आरोहता देहम् आकाशञ्च अधिरोहता शशिना चन्द्रेण कर्त्रा, यामिनी रात्रिः रमणी- यतां शोभनीयताम् अनीयत प्राप्यत, एकत्र निजाविर्भावेन निखिलवयवपूर्णतात् परत्र चन्द्रिकया प्रकाशादित्याशयः ।

इह चन्द्रस्य यौवनौपम्यं शाब्दं यामिन्याः सुन्दर्यौपम्यमार्थमिति श्लेषानुप्रणिता एकदेशवि- वर्त्तिन्युपमेति कुशलाः ।

अथेति । अथ आरोहणानन्तरम्, अभिनवोददयरागलोहितं नूतनोद्गमनरागरक्तम्, अत एव प्रत्या- सन्नस्य द्वयोरप्युदयगिरिसामीप्यात् निजसमीपस्य, समुद्रस्य पूर्वोदधेः विद्रुमाणां प्रवालानां प्रभाभिः कान्तिभिः पाटलीतम् आरक्तीकृतमिव, उदयगिरिः उदयाचलः तत्रः यः सिंहः तस्य करतलेन हस्ततलेन


मानो शुभ्रवर्ण हुआ देख पड़ा । चन्द्रका दर्शन होनेसे मन्दमन्दहास्य करती रजनीकी दन्तप्रभाके समान चन्द्रिका धीरे धीरे भूतलमें गिरती उसकी मुखशोभाका सम्पादन करने लगी । उसके पश्चात्, भूतलविदारण कर पातालसे उत्थित [ बाहर आए ] अनन्तनाग के फणामण्डलके समान, चन्द्रमण्डलद्वारा रात्रि शोभ पाने लगी । क्रमसे समस्त जीवलोकके आनन्ददायक कामिनीजनवल्लभ, कन्दर्पबन्धु, रागसन्वन्वित [ अनुरागयुक्त, रक्तवर्ण ] सुरतोत्सवके एकमात्र उपभोगके ही योग्य और अमृतमय [ आनन्दमय, सुधामय ] एवं अल्पपरिमाणमें बालभाव [ शिशुत्व, रक्तिमा ] परित्यागकारी, शरीरारोही यौवनके समान गगनारोही चन्द्रमण्डल रात्रि को मनोहर करने लगा ।

इसके बाद समीपवर्ती पूर्वसमुद्रके प्रवालमणिके किरणसे मानो रक्तवर्णके समान, उदयाचलस्थित


.१. अवदीर्य्य । २. शेषफणमण्डलेनेव । ३. रजनिकरबिन्देन । ४, क्वचित् निजपदं न विद्यते ।

महाश्वेतायाः स्वविचेष्टा० ७२ ] चन्द्रकला-विद्योतिनीसहिता । ४९५

हरिण-शोणित-शोणीकृतमिव रति-कलह-कुपित-रोहिणी-चरणालक्तक-रस-लाञ्छितमिव अभि- नवोदय-रागरोहितं¹ रजनीकरम्², उदितं विलोक्य अन्तर्ज्वलितमदनानलाप्यन्धकारितहृदया, तरलिकासङ्गविधृतशरीरापि मन्मथहस्तवर्तिनी, चन्द्रगतनयनापि मृत्युमालोकयन्ती तत्क्षणम्- अचिन्तयम्-'एकत्र खलु मधुमास-मलयमारुतप्रभृतयः समस्ताः, एकत्र चायं पापकारी⁴ चन्द्र- हतको न शक्यते सोढुम् इदमतिदुर्विषहमदनवेदना तुरञ्च मे हृदयम्, अस्य चोद्गमनमिदं सदाहज्वरस्ये अङ्गारवर्षः, शीतार्त्तस्य तुषारपातः, विस्फोटे-मूर्च्छितस्य कृष्णसर्पदंशः इत्येवं चिन्तयन्तीमेव चन्द्रोदयोपनीता कमलवनम्लानिनिद्रेव मूर्च्छा मां निमीलितलोचनामका-

आहतः प्रहतो यो निजहरिणः स्वीयोरुत्सङ्गस्थायी मृगः तस्य शोणितेन रुधिरेण शोणीकृतमिव रक्तवर्णी-कृतमिव, तथा रतिकलहे सुरतविवादे कुपिता क्रुद्धा या रोहिणी नक्षत्रात्मिका स्वस्त्री तस्याः चरणयोः पादयोः अलक्तकरसेन लाक्षारसेन लाञ्छितमिव पादप्रहारात् चिह्नितमिव, उदितं तं रजनीकरं शशिनं विलोक्य निरीक्ष्याहम्, अन्तः अभ्यन्तरे ज्वलितः प्रदीप्तो मदनानलः कामवह्निः यस्यां साऽपि अन्धकारितहृदयेति विरोधः, तद्विहायप्रमोदशून्यमानसेति परिहारः । तरलिकाया उत्सङ्गे निजक्रोडे विधृतं स्थापितं शरीरं वपुर्यस्याः सा तथोक्ता मय्यपि मन्मथहस्तवर्तिनी कामदेवकरस्याधीनेति विरोधः, मन्मथवशीभूतेति तत्परिहारः । तथा चन्द्रगतनयनापि शशिप्राप्तलोचनापि मृत्युं मरणम् आलोकयन्ती पश्यन्तीति विरोधः, प्रियतमागमाभावे कान्तनाशात् संयुक्तमस्य मरणं सम्भावयन्तीति तत्परिहारः । एवंविधा सती तत्क्षणं तत्कालम् अचिन्तयं चिन्तितवती ।

इह 'प्रथमाऽत्रे' त्यादयस्तिस्रः क्रियोत्प्रेक्षाः पदार्थाहेतुककाव्यलिङ्गेन सङ्कीर्णाः, उत्तरे च त्रयो विरोधाभासा इत्येतेषां मिथो नैरपेक्ष्येण संसृष्टिः ।

एकत्रेति, एकस्मिन् पक्षे पापकारी पापिष्ठः चन्द्रः शशी एव हतको घातकः, उद्दीपनकार्ये मलयमारुतादीनामनेकानां प्रतिद्वन्द्व्ये अयमेक एव चन्द्रतुल्य इत्यभिप्रायः। अत एव सोढुं न शक्यते न पार्यते । तेन च इदं मे मम हृदयं मनः अतिदुर्विषहया अतिदुःसहया मदनवेदनया कामपीडया आतुरं विह्वलं जातमिति शेषः। अस्य चन्द्रहतकस्य च इदम् उद्गमनम् उदयः, दाहज्वरो दहनसन्तापः तेन सह स्थितः तस्य सदाहज्वरस्य लोकस्य सम्बन्धे अङ्गारवर्षः ज्वलदङ्गारवृष्टिरिवरूपम् शीतार्त्तस्य शीतपीडितस्य लोकस्य सम्बन्धे तुषारपातः हिमपतनस्वरूपम्, तथा विस्फोटेन विषवरपीडोत्पादकव्रणविशेषेण मूर्च्छितस्य मूर्च्छा प्राप्तस्य लोकस्य सम्बन्धे कृष्णसर्पदंशः विजातीयविषघरदंशनस्वरूपम्, कामपीडाव्यथितस्य लोकस्य सम्बन्धे पुनर्नितान्तपीडोत्पादकमित्याशयः।

इह निरङ्गं मालारूपकं दर्पोदाहरणं 'निर्माणकौशलं धातुः' इतिवदिति कुशलाः ।

इत्येवमिति । चिन्तयन्तीं ध्यायन्तीमेव, चन्द्रोदयेन शशाङ्गोद्गमेन उपनीता उपस्थापिता, कमलवनस्य पद्मषण्डस्य म्लानिः सङ्कोच एव निद्रा प्रमीला सेव, मूर्च्छा मां महाश्वेतां निमीलितलोचनां

सिंहके करप्रहारसे आहत हुए अपने क्रोडरित हरिणके रुधिरसे, मानो रक्तवर्ण किए हुएके समान और सम्भोग-कलहमें कुपित हुई रोहिणीदेवीके चरणोंके महावरसे मानो रञ्जित हुएके समान नूतन उदय-रागसे रक्त चन्द्र-मण्डलको उदित हुआ देख, मैं अपने अभ्यन्तरमें कामाग्निसे ज्वलित रहने पर भी अन्धकार (जहां क्या कहें क्या न कहें इस प्रकार सूझ न हो ऐसेसे ) युक्त हृदयवाली, तरलिकाकी गोदमें मेरा शरीर रहनेपर भी कामदेवके हाथोंमें पड़ी, चन्द्रके ऊपर दृष्टि रखने पर भी मृत्युको देखती, उस समय विचार करने लगी—एक ओर तो चैत्रमास और मलयमारुतप्रभृति सकल उद्दीपक-पदार्थ, और दूसरी ओर यह पापाचारी मन्दस्वभाव चन्द्र असहनीय हो रहा है। मेरा हृदय भी अत्यन्त दुःसह मदन-वेदनासे व्याकुल हो रहा है। हाय ! इसका उदय मुझे, दाहज्वरसे पीडित पर जलते हुए काष्ठ (अंगारों) की वर्षा, शीतसे कम्पायमानके ऊपर हिमपातः विर्षके व्रणसे मूर्च्छितको भयङ्कर सर्पके काटनेके समान है। मैं इस प्रकार चिन्ता करती ही थी कि उस समयमें चन्द्रोदय होनेसे कमलवनके सङ्कोचनिद्राके समान, मुझे मूर्च्छा आ गई मेरी आंखें मुद्रित हो (मिच) गईं किन्तु थोड़ी ही देरमें ग्रीष्मवाले


१ '०उदयलोहितं । २. रजनीकरम् । ३. मदनमनलम् ....। ४. एकत्र चापकारी।' ५. अतिदुर्विषहं मदनातुरश्च, अतिदुर्विषहमदनातुरञ्च । ६. सदाहज्वरग्रस्तस्य । ७. विस्फोटोत्.... । ८. विनिन्मयन्तीमेव । ९. म्लानिनिद्रेव ।

४०६कादम्बरी-[ कथायाम्-

षीत्। अचिरेण च सम्भ्रान्ततरलिकोपनीताभिश्चन्दनचर्चाभिस्तालवृन्तानिलैश्चोपलब्धसंज्ञा सामेवाकुलाकुलां मूर्तेनेवाधिष्ठितां विषादेन, मल्ललाटविधृत-स्रवच्चन्द्रकान्तमणिशलाकाम्, अविच्छिन्न-बाष्पजलधारान्धकारितमुखीं रुदतीं तरलिकामपश्यम्। उन्मीलितलोचनाञ्च मां सा कृतपादप्रणामाचन्दनपङ्कार्ड्रेण करयुगलेन बद्धाञ्जलिरवादीत्-'भर्तृदारिके! किं लज्जया गुरु-जनापेक्षया वा। प्रसीद, प्रेषय माम्, आनयामि ते हृदयदयितं जनम्; उत्तिष्ठ स्वयं वा तत्र गम्यताम्, अतः परमसमर्थास्मि सोढमिमं प्रबल-चन्द्रोदय-विजृम्भमाणोत्कलिकाशतमृदधि-मिव मकरचिह्नम्' इत्येवंवादिनीं तामहमवोचम्¹-'उन्मत्ते!² किं मन्मथेन। नन्वयं सर्वविक-ल्पानपहरन्³, सर्वोपायदर्शनान्युत्सारयन्, ⁴सर्वानन्तरायान् अन्तरयन्, सर्वशङ्कास्तिरस्कुर्वन्,

मुद्रितनेत्राम् अकार्षीद् अकरोत् । उपमा ।

अचिरेणेति । किञ्चेति चार्थः । सम्भ्रान्तया सत्वरया तरलिका उपनीताभिः दत्ताभिः चन्दनस्य मलयजस्य चर्चाभिः लेपनैः, तरलिकासञ्चालितैः तालवृन्तानिलैः व्यजनपवनैश्च, अचिरेण अल्पसमये-नाहम् उपलब्धसंज्ञा प्राप्तचेतना सती, आकुलाकुलां मम दशावलोकनेनात्यन्तव्यग्राम्, मूर्तेनेव शरीर-धारिणेव विषादेन अधिष्ठिताम् आश्रिताम् मम ललाटे भाले विधृता शान्त्यर्थं निहिता स्रवन्ती चन्द्र-किरणस्पर्शात् सलिलं क्षरन्ती चन्द्रकान्तमणिशलाका यया ताम्, तथा अविच्छिन्नया अनुटितया बाष्प-जलधारया नयनाम्बुप्रवाहेण लब्धकारितं 'समुत्पन्नततिमिरं मलिनमित्यर्थः, मुखं वदनं यस्याः ताम् । रुदतीम् आक्रन्दतीम् ।

इह 'मूर्तेनेव' इति मूर्त्तिसम्बन्धित्वोत्प्रेक्षणाद् गुणोत्प्रेक्षा ।

उन्मीलितेति , किञ्च, उन्मीलितलोचनां, विकसितनयनां मां, कृतो विहितः पादयोर्मम चरणयोः प्रणामो नमस्कारो यया सा, तरलिका, चन्दनस्य . मलयजस्य पङ्केन मदङ्गलेपनसमयसंसक्तेन गाढद्रवेण आर्द्रं क्लिन्नं तेन, करयुगलेन हस्तद्वयेन बद्धाञ्जलिः अन्योन्यसंयुक्तपाणिः अवादीद् अब्रवीत्—'भर्तृदा-रिके राजपुत्रि ! गुरुजनापेक्षया मातापित्राद्यपेक्षया लज्जया त्रपया वा किं न किमपीत्यर्थः। हृदयदयितं प्राणप्रियम्। प्रबलः प्रकृष्टो यः चन्द्रोदयः शशाङ्कोद्गमः तेन विजृम्भमाणं वर्द्धमानम् उत्कलिकाशतम् उत्कण्ठावृन्दं तरङ्गसमुदायश्च यत्र तं तथोक्तम्, उदधिं सागरमिव मकरचिह्नं पताकारूपलक्षणं यस्य तं तादृशं मकरकेतुं मवत्त्यां समुत्पन्नं कामम्, अतः परं सोढुं सहन॑ विधातुम् असमर्थास्मि अक्षमास्मि, अत एव स्वयं वा तत्र व्रज्यतामित्याशयः। पूर्णोपमा।

उन्नत्त इति । उन्मत्ते उन्मादवति ! बहुविधप्रलापात् अथ च यथार्थपरिज्ञानादित्याशयः । मन्मथेन किम् एकेन कामदेवेन किं कृतमित्यर्थः । नन्वित्यामन्त्रणे, 'प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु' इत्यमरः। येन हि, मृत्योः सकाशं तत्रप्राप्तौ कामदेवात्याचारात् मृत्योर्निकटम्, वा अथवा सति सम्भवे तस्य कुमारस्यैव सकाशं नेतार मां गमयिता अयं दृश्यमानः कुमुदानां बान्धवः स्वजनश्चन्द्रः, सर्वान् समस्तान् विकल्पान् पूर्वप्रतिपादितरूपान् वितर्कान् अपहरन् दूरीकुर्वन् यथाक्षमासहनतप्रतिपादनेन अवसरप्रदानादित्याशयः, सर्वेषां समस्तानाम् उपायानां कामपीडाविनाशकारणीभूतानां मलयजद्रव-लेपनादीनां दर्शनानि तत्पीडापनोदकत्वेन ज्ञानानि उत्सारयन् विनाशयन् स्वमाहात्म्येन तैस्तद्दिनाशा

तरलिकाद्वारा की हुई चन्दनचर्चा (लेपन) और तालव्यजन [पंखों] की हवासे मुझे चेतना प्राप्त हुई और मैंने देखा तो तरलिका, मानो मूर्तिमान् साक्षात् विषाद ही हो ऐसी, अत्यन्त विह्वल होकर बैठी थी। मेरे ललाटके ऊपर जलस्रावी एक चन्द्रकान्त-मणिकी शलाका रख वह रो रही थी और निरन्तर अश्रुजलकी धारासे उसका मुखपटल मलिन हो गया था। मेरी आँखें खुली देख उसने मेरे चरणोंमें प्रणाम किया और चन्दनरससे आर्द्र अपने दोनों हाथ जोड़ कर कहा—राजकन्ये ! अब लज्जा किंवा गुरुजनोंके भयसे क्या है ? प्रसन्न होकरके मुझे भेजिए मैं आपके प्राणनाथको ले आऊँ, अथवा आप ही स्वयं उठ कर वहां जाइये। स्फुट चन्द्रोदयसे समुद्र-तरंगके समान आपकी भी उत्कण्ठा शतगुणित वृद्धि पा रही है, इसलिए अब आप इस कामदेवको अधिक देर तक सहन नहीं कर सकती हैं। तब इस प्रकार कहती हुई तरलिकाको मैंने प्रत्युत्तर दिया—'अरी उन्मत्ते ! अकेले कामदेव क्या है ? देखो,—समस्त वितर्कोंको हरनेवाला, समस्त उपायोंके दर्शन दूर करनेवाला, समस्त प्रतिबन्धोंको छिपानेवाला,


१. तामवोचम् । २. उन्मत्तिने । ३. अपाहरत् । ४. क्वचित् 'सर्वान्' इति पदं न विद्यते ।

महाश्वेताया अभिसारवर्णना ७३ ] चन्द्रकला-विद्योतिनीसहिता । ७५७

लज्जामुन्मूलयन्, स्वयमभिगमनलाघवदोषमावृण्वन्, कालातिपातं परिहरन्, आगत एष मृत्योस्तस्यैव वा सकाशं नेता कुमुदबान्धवः। तदुत्तिष्ठ यथाकथञ्चिदनुगमनेन जीविता¹ सम्भावयामि हृदयदयितमायाशकारिणं जनम्' इत्यभिदधाना मदनमूर्च्छास्वेदविह्लैरङ्गैः कथम्विदवलम्ब्य तामेवोदतिष्ठम् । उच्चलितायाश्च मे दुर्निमित्तनिवेदकमस्पन्दत दक्षिणं लोचनम् । उपजातशङ्का चाचिन्तयम्—'इदमपरं किमप्युपक्षिप्तं दैवेन²' इति ।

अथ नातिदूरोद्गतेन त्रिभुवनप्रसादमहाप्रणालातुकारिणा सुधासलिलप्लवानिव वहता चन्दनरसनिर्झरनिकरानिव क्षरता अमृतसागरपूरानिदोद्विरता³ श्वेतगङ्गाप्रवाहसहस्राणीव


सम्भवात्, सर्वान् अन्तरायान् जनसाक्षात्काराप्रभृतीन् विघ्नान् अन्तरयन् व्यवधानं कुर्वन् निजोत्कण्ठोत्सुक्यस्य प्रकृष्टत्वात् सर्वशक्ताः पितृमात्राद्यननुमति-निबन्धनातङ्कान् तिरस्कुर्वन् न्यक्कुर्वन् साम्प्रतिकोत्सुक्यतस्तथाविघातङ्कानां सर्वथा दुर्बलत्वात् , लज्जां त्रपाम् उन्मूलयन् उत्पाटयन् एतदौत्सुक्यसमीपे त्रपायास्तुच्छत्वात् , स्वयम् आत्मना अभिगमनेन अनुसरणेन यः स्वस्य लाघवं लघुत्वरूपो दोषस्तम् आवृण्वन् आच्छादयन् साम्प्रतीकौत्सुक्यस्य सर्वोपरिस्थायित्वात् , कालातिपातं समयविलम्बं परिहरन् परित्यजन् कामपीडायाः सर्वथा असोढव्यत्वाद् , आगत एव मां तत्र नेतुं प्राप्त एव, अतएव न विद्यते नानाकल्पकाशप्रयोजनमित्यभिप्रायः ।

तदिति । तत्तस्माद् कारणात् उत्तिष्ठ उत्थानं विधेहि अतिशीघ्रेणेति शेषः । यथाकथञ्चित् क्लेशेनापीत्यर्थः, भीषग्कामपीडावशात्निःसारदेहतयेत्याशयः, अनु तं कुमारमुद्दिश्य गमनेन जीविता श्वसिता अहम् , आयासकारिणं तद्गभयेनैव तावत्क्लेशोत्पत्तेः कष्टदायिनं हृदयदयितं प्राणप्रियं तं जनं सम्भावयामि उच्छ्वासयामि । अनेन समागमाभावे स चाहञ्च प्राणत्यागं करिष्याव इति द्योतितम् । मदनमूर्च्छाया कथम्वित् क्लेशेन अवलम्ब्य विश्रूय उदतिष्ठम् उत्थितवती ।

उच्चलीति । अपि च उच्चलितायास्तं प्रति प्रस्थिताया मे मम दक्षिणम् अपसव्यं लोचनं नयनं दुर्निमित्तनिवेदकम् अमङ्गलसूचकं यथा स्यात्तथा अस्पन्दत अस्फुरत् । उपजातशङ्का समुत्पन्नात्तंङ्का । दैवेन विधिना । किमपि अमङ्गलमित्यर्थः, उपक्षिप्तम् उपस्थापितम् , नारीणां दक्षिणाक्षिस्रुरणस्य स्वजनविनाशद्योतकत्वादित्यभिप्रायः ।

अथेति । अथ दुर्निमित्तप्राप्त्यनन्तरं प्रदोषसमय एव 'तस्मात् प्रासादशिखरादवातरम्' इत्यग्रिमेण सम्बन्धः । त्रिभुवनं त्रिविष्टपमेव प्रासादः सौधः तस्य महाप्रणालं विपुलसलिलनिस्सरणमार्गम् अनुकरोतीति तेन । जलसदृशशीतलमयूखनिःसारणाद् गोलाकारत्वाच्च प्रासादोपरिप्रान्तस्थायि-गोलाकारजलनिर्गमनमार्गानुकारित्वं चन्द्रस्येत्यवधेयम् । सुधा प्रासादलेपनद्रव्यं तद्युक्तं सलिलं जलमिति सुधासलिलंतस्य प्लवान् ओघान् वहता दधतेव, तथाविद्यद्युभ्रमयूररवदित्यशायः,एवमग्रेऽपि । चन्दनरसस्य मलयजद्रवस्य निर्झरनिकरान् धारासमूहान् क्षरता स्रवतेव । अमृतसागरस्य सुधासमुद्रस्य पूरान् ओघान् उद्विरता वमतेव । तथा श्वेतगङ्गायाः श्वेतजाह्नव्याः प्रवाहाणां धाराणां सहस्राणि समूहान् वमता उद्विरतेव । ज्ञाति-


समस्त संशयोंको टालनेवाला, समस्त शङ्काओंको मिटानेवाला, लज्जाका विनाश करनेवाला, अपने आपही उसके समीप जानेकी लघुताके दोषका आच्छादन करनेवाला, विलम्बका दूर करनेवाला, मृत्युके अथवा उस मुनि कुमारके ही निकट ले जानेवाला, यह चन्द्रमा उपस्थित हो ही गया है। अत एव उठो; जितनी देर तक मैं जीवित हूँ उतनी देर तक किसी प्रकारसे उसके पास चल क्लेशदायक उस प्राणवल्लभको जीवित रक्खूँ' यों कहती कहती मैं काममूर्च्छाजनित स्वेदसे विह्वल हुए अङ्गोंसे उस (तरलिका) का ही सहारा लेकर जिस किसी प्रकार उठी, उठकर उसी दिशा की ओर चलते ही, अमङ्गल-परिणामसूचक दक्षिण-नयन स्पन्दित होने (फड़कने) लगा उससे मुझे आशङ्का उत्पन्न हुई और विचार हुआ कि 'विधाताने कोई एक दूसरा विघ्न उपस्थापित किया।'

तदनन्तर त्रिभुवन-रूपी अट्टालिकाके ऊपर मार्गमें महाप्रनाल (विशाल पनाला) का अनुकरण करते सुधा-सलिलकी धाराको मानो नीचे बहाते, चन्दन-रसके प्रवाहसमूह (झरनों) को मानो निस्सारण कराते (झराते,)


१. अनुगतजीविता, अनुगमनजीवना ।
२. क्षेपे ।
३. ०पूरानिव ।

४४८कादम्बरी-[ कथायाम्-

वमता चन्द्रमण्डलेन प्लाव्यमाने¹ ज्योत्स्नया भुवनान्तराले, श्वेतद्वीपनिवासमिव सोमलोक-दर्शनसुखमिवानुभवति, जने, महावराह-दंष्ट्रामण्डलनिभेन शशिना क्षीरसागोदरादिवोद्ध्रियमाणे महीमण्डले, प्रतिभवनसङ्गनाजनेन विकचमुकुदगन्धैश्चन्दनोदकैरुपह्रियमाणेषु चन्द्रोदयार्घ्येषु, कामिनी-प्रहित-सुरत-दूती-सहस्र-सङ्कुलेषु राजमार्गेषु, नीलांशुकावगुण्ठनासु चन्द्रालोकभयचकितासु कमलवनलक्ष्मीष्विव नीलोत्पलप्रभापिहितासु² इतस्ततः पलायमानास्वभिसारिकासु, प्रतिकुमुदमाबद्धमधुकरमण्डलासु प्रबुध्यमानासु भवनदीर्घिकाकुमुदिनीषु,

दूरोद्गतेन सतिविप्रकृष्टोदितेन चन्द्रमण्डलेन शशिबिम्बेन कर्त्रा, ज्योत्स्नया चन्द्रिकया करणेन, भुवनान्तराले विष्टपमध्ये प्लाव्यमाने पूर्यमाणे सति ।

इह 'त्रिभुवनप्रासादमहाप्रणालानुकारिणा' इत्यत्र निरङ्गं केवलरूपकम् अर्थोपमा च अनयोरेकाश्रयानुप्रवेशरूपः सङ्करः । 'वमतेव' इत्याद्यपञ्चततः क्रियोत्प्रेक्षाः, आसासुक्तसङ्करस्य च मिथो नैरपेक्ष्येण संसृष्टिः । 'श्वेतगङ्गा' इत्यत्र श्वेतपदं च कालिन्दीजलाशयसंपृक्तांशशोधनेन शुक्लतमात्रमवगमयेति सुधीभिराकलनीयमिति कृकलाः ।

श्वेतेति । जने लोके, श्वेतद्वीपे निवासं वसतितिमिव तथा सोमलोकस्य चन्द्रलोकस्य दर्शनसुखमिव अवलोकनानन्दमिव अनुभवति साक्षात्कुर्वति सति, समस्तश्वेतसाक्षात्कारादित्यशयः ।

इह क्रियोत्प्रेक्षागुणोत्प्रेक्षयोः परस्परनैरपेक्ष्येण संसृष्टिः ।

महावराहेति । महीमण्डले क्षोणीमण्डले, महावराहस्य विष्णोस्तृतीयावतारस्य दंष्ट्रामण्डलनिभेन दन्तसमूहसदृशेन श्वेतत्वादित्याशयः । शशिना चन्द्रेण क्षीरसागरस्य दुग्धाग्बुधेः उदराद् अभ्यन्तरात् उद्ध्रियमाण इव बहिर्निष्काश्यमान इव सति, दुग्धक्षरणवत् समन्तात् शुभ्ररश्मिप्रसरणादित्यशयः ।

इह 'दंष्ट्रामण्डलनिभेन' इत्यत्रार्थोपमा, 'उद्ध्रियमाण इव' इत्यत्र क्रियोत्प्रेक्षैत्युभयोरङ्गाङ्गिभावसङ्करः ।

प्रतीति । प्रतिभवनं प्रतिगृहम् सङ्गनाजनेन स्त्रीवर्गेण कर्त्रा, विकचा विकसिता ये कुमुदाः कैरवाः तेषां गन्धः परिमलो येषु तैः तथोक्तैः चन्दनोदकैः मलयजसलिलेः करणेः, चन्द्रोदयार्घेषु शशाङ्कोद्गमनपूजासु उपह्रियमाणेषु दीयमानासु सत्सु ।

कामिनीति । राजमार्गेषु राजपथेपु, कामिनीभिः रमणीभिः प्रहिताः प्रियवसङ्गमसमीपेषु प्रेरिता याः सुरतदूत्यः रमणसञ्चारिकाः तासां सहस्रेण समूहेन सङ्कलेषु व्याप्तेषु सत्सु ।

नीलांशुकेति । नीलांशुकैः श्यामवर्णवस्त्रैः अवगुण्ठनम् अन्धकारसादृश्येन तत्र जनानामनिरीक्षणाय देहवेष्टनं यासां तासु, अतएव नीलोत्पलानाम् इन्दीवराणां प्रभाभिः कान्तिभिः पिहितासु आवृतासु कमलवनलक्ष्मीष्विव पद्मवनश्रीष्विव अभिसारिकासु सङ्केतस्थानादिगामिनीषु नायिकाविशेषेषु चन्द्रस्य शशिनः आलोकेन प्रकाशेन यद्भवं जनावलोकनाद् त्रासः तेन चकितासु उद्विग्नासु विद्यमानासु, इतस्ततः पलायमानासु धावमानासु विद्यमानासु । इह श्रौतोपमा सा च पदार्थहेतुककाव्यलिङ्गेन सङ्कीर्णा ।

साहित्यदर्पणकृता अभिसारिकास्वरूपमेवमभिहितम्—

'अभिसारयते कान्तं या मन्मथवशंवदा ।
स्वयं वाभिसरत्येषा धीरेरुक्ताभिसारिका ॥'

प्रतिकुमुदमिति । कुमुदं कुमुदं प्रति प्रतिकुमुदम् आबद्धं घृतं मधुकरमण्डलं द्विरेफगणो याभिस्तासु, भवनदीर्घिकाया गृहवापिकायाः कुमुदिनीषु कैरविणीषु, प्रबुध्यमानासु स्फुटमानासु सतीषु ।


अमृतसमुद्रके जलराशिको मानो उद्गिरण करते, श्वेतगङ्गाके असंख्य प्रवाहोंको मानो वमन करते ( उगलते ), चन्द्रमण्डलका थोड़ा-थोड़ा उदय होनेसे आकाश वद ज्योत्स्ना ( चाँदनी ) में डूब गया था, सब लोग मानो श्वेतद्वीपमें निवासका या चन्द्र-लोकके दर्शनका सुख अनुभव करते थे, पृथिवीमण्डलको-आदि वराहके दन्तमण्डलके समान-चन्द्रमण्डल मानो क्षीरसागरके अन्यन्तरमेंसे बाहर निकलता था, प्रत्येक घरमें सुन्दरियाँ प्रस्फुटित कुमुदसे सुगन्धित किए हुए चन्दन-जलद्वारा चन्द्रोदयके उद्देश्यसे अर्घ्य देती थीं, राजमार्ग कामिनियोंद्वारा प्रेरित हजारों रति-दूतियोंसे व्याप्त हुआ था, नील-वस्त्रसे समस्त शरीरको आच्छादित कर चन्द्र-प्रकाश मध्य-लोगोंके देखनेके भयसे उद्विग्न होकर-नीलोत्पलकी प्रभासे आच्छादित हुई कमल-वन शोभाके समान अभिसारिकाएँ जब इधर उधर भाग रही थीं, प्रत्येक कुमुदके ऊपर भ्रमरोंके झुण्ड आकर बैठे हुए थे ऐसी भवनस्थित


१. आप्लाव्यमाने ।
२. सनीलोत्पलप्रभासु ।

महाश्वेताया अभिसारवर्णना ७३ ] चन्द्रकला-विद्योतिनीसहिता । ४७६

स्फुटितकुमुदवन-बहुल-धूलि-धवलितोदरे निशा-नदी-पुलिनायमाने अन्तरिक्षे^१, चन्द्रोदयान- न्दनिर्भरे महोदधाविव रतिसमय इव उत्सवमय इव विलासमय^२ इव प्रीतिमय इव जीव- लोके, शशिमणिप्रणालनिर्मरे प्रमोद-मुखर-मयूर-स्वरम्ये प्रदोषसमये, गृहीत-विविध-कुसुम- ताम्बूलाङ्गराग-पटवास-चूर्णया तरलिकयानुगम्यमाना, तेनैव मूर्च्छानिहितेन किञ्चिदाश्यान- चन्दन-ललाटिका-लग्न-धूसरा-कुन्तलकेन चन्दनरसचर्चाङ्गरागवेशेनार्द्रेण^३, तथैव च तया कण्ठस्थितयाक्षमालया श्रवणशिखरचुम्बिन्या च पारिजातमञ्जर्या, पद्मरागरत्नरेमिनिम्मि-


स्फुटितेति । अन्तरिक्षे गगने, स्फुटितस्य विकसितस्य कुमुदवनस्य कैरवारण्यस्य बहलधूलिभिः प्रचुरपरागैः धवलितं श्वेतीकृतम् उदरम् अभ्यन्तरं यस्य तस्मिन् तथोक्ते सति, अत एव निशा रात्रिरेव नदी श्यामात्वसादृश्यादित्याशयः, तस्याः पुलिनायमाने तोयोत्थितसैकतमयदेशवदाचरति सति धूलीनां सैकतवच्छ्वेतत्वादित्याशयः ।

इह निरङ्गकेवलंरूपकत्रयश्चेतोपमयौरेकाश्रयानुप्रवेशरूपः सङ्करः, तथा पदार्थहेतुकं काव्यलिङ्गम्, इत्युभयोः पुनरङ्गाङ्गिभावसङ्करः ।

चन्द्रोदयेति । चन्द्रोदयेन शशाङ्कोद्गमेन आनन्दनिर्भरेः प्रहर्षातिशयो यत्र तथोक्ते, अतएव महोदधौ समुद्राविव स्फीत इति शेषः, जीवलोके प्राणिवर्गे, रतिसमय इव शृङ्गारमय इव, विलासमय इव लीलामय इव, प्रीतिमय इव स्नेहमय इव च सति ।

इह पदार्थहेतुकं काव्यलिङ्गं श्रौतोपमा चेत्यनयोरङ्गाङ्गिभावसङ्करः, 'रतिसमय' इत्याद्यप्रक्षतस्रो गुणोत्प्रेक्षाश्चेत्यासां परस्परं नैरपेक्ष्येण पुनः संसृष्टिः । तथा 'रसस्योक्तिः स्वशब्देन स्थायिसञ्चारिणौ तथा' इत्युक्तदिशा स्थायिभावस्य रसस्य चेह 'रतिरसै'त्यनेनाभिधानाद्दोषः समापतति स च 'औत्सुक्यमय इव' इति पाठेन परिहार्यः ।

शशीति । शशिमणयः चन्द्ररश्मिसम्पर्केण मलिलस्राविणश्चन्द्रकान्ता एव प्रणालाः सलिलनिः- सरणालाभानि तेषां निर्झरो वारिप्रवाहो यत्र तथोक्ते, तथा प्रमोदेन वर्षाभ्रमाजातानन्देन मुखराणां शब्दयामानानां मयूराणां बर्हिणां रवैः केकाशब्दैः रम्ये मनोहरे प्रदोषसमये रजनीमुखकाले जाते सति । इह निरङ्गं केवलरूपकम्, भ्रान्तिमांश्चापीति केचित् ।

गृहीतेति । गृहीतानि आतानि विविधानि नानारूपाणि ताम्बूतानि नागवल्लीदलानि अङ्गरागो लेपनं पटवासचूर्णानि पिष्टातकचूर्णानि च यया तथा, तरलिकया पूर्वोक्तया. दास्या अनुगम्यमाना अनु- वज्यमाना । मूर्च्छानिहितेन मूर्च्छासमये तरलिकया स्थापितेन, किञ्चिदाश्याना समयेन शुष्कतया ईषद्- घनीभूता या चन्दनस्य मलयजस्य ललाटिका भाले तिलकविशेषः तत्र लग्नाः संलग्ना अतएव धूसराः किञ्चित्पाण्डुराः लाकुला विक्षिप्ता अलकाः स्खलितकुन्तला यत्र तेन । आईण तत्कालेऽपि किञ्चित्क्लिन्नेन चन्दनरसस्य मलयजद्रवस्य चर्चा लेपनमेव अङ्गरागः स एव च वेशो नेपथ्यं तेन उपलक्षिता । अपि च, तथैव तत्काले स्थापनरूपेणैव, कण्ठस्थितया गलनिहितया अक्षमालया जपमालया चोपलक्षिता । तथा श्रवणशिखरचुम्बिन्या कर्णोपरिव्यापिन्या, तथा पारिजातमञ्जर्या मन्दारवल्लर्या चोपलक्षिता इह प्रियसम्बन्धि तदिद मण्डनमिति शरीरात्पृथक्तुं नाशाकीति न विस्मर्त्तव्यम् । तथा पद्मरागरत्नस्य लोहित-


सरोवरकी कुमुदिनी प्रस्फुटित होने (खिलने) लगी थीं, प्रस्फुटित कुमुद-वनकी अतिशय रजसे मध्यभाग श्वेत- वर्ण हो जानेके कारण आकाश रात्रिरूप नदीके पुलिन (तोयोत्थित बालुकामय देश) के समान दिखलाई देता था, समस्त जीवलोक महासमुद्रके समान, चन्द्रोदयसे आनन्दमें मग्न होकर, मानो शृङ्गाररसमय, उत्सवमय, विलासमय एवं प्रीतिमय हो गया था, चन्द्रकान्तमणिमयी प्रणाली (पनालों) में से जलनिस्ररण होने लगा था, . हर्षे-प्रमोदसे गान करते मयूरोंके स्वरसे मनोहर-प्रदोषकाल उपस्थित होने पर, नानाविध पुष्प, ताम्बूल, अङ्गलेपनद्रव्य और अबीर चूर्ण लेकर पीछे-पीछे आती तरलिकाके साथ-मूर्च्छाके समय ललाट पर लगाए, थोड़े- थोड़े शुष्क, चन्दन-रसमें संलम्न हो (चिपक) जानेसे धूसरवर्ण हुए और बिखरी लटों सहित, चन्दनरसके लेपन- रूपी अंगरागसे अत्यन्त आर्द्र हुए वेश-विन्यास-सहित, वैसीकी वैसी गलेमें धारण की हुई जपमाला-सहित


१. अन्तरिक्षे । • २. प्रीतिमय इव, मदनमय इव विलासमय इव । ३. अङ्गाङ्गेण ।

४८० | कादम्बरी- | [ कथायाम्-

तेनैव रक्तांशुकेन कृतशिरोऽवगुण्ठना केनचिदात्मीयेनापि परिजनेनानुपलक्ष्यमाणा तस्मात्प्रासादशिखरादवातरम्।

अवतीर्य च पारिजातकुसुम-मञ्जरी-परिमलाकृष्टेन रिक्तीकृतोपवनेन कुमुदवनान्यपहाय धावता मधुकरजालेन नीलपटावगुण्ठनविभ्रममिव सम्पादयतानुबध्यमाना प्रमदवनपक्षद्वारेण निर्गत्य तत्समीपमुदचलम्।

प्रयान्ती च तरलिकाद्वितीयमपरिजनम्² आत्मानमालोक्य³ अचिन्तयम्-'प्रियतमाभिसरणप्रवृत्तस्य जनस्य किमिव कृत्यं बाह्येन परिजनेन ! नन्वेव एव परिजनलीलामुपदर्शयन्ति। तथाहि, समारोपितशरासनात्सहायकोऽनुसरति कुसुमायुधः, दूरप्रसारितकरः

क्रमशः रश्मिभिः कान्तिभिः निर्मितेन रचितेनेव, रक्तवसादृश्यादित्याशयः, रक्तांशुकेन लोहितवस्त्रेण कृतं विहितं शिरसो मस्तकस्य अवगुण्ठनं यया सा। केनचित् आत्मीयेनापि स्वकीयेनापि परिजनेन सेवकेन अनुपलब्यमाना अज्ञातमाना। तस्मात् पूर्वोक्तात् प्रासादशिखरात् सौधमन्थाद् अवातरम् उत्तीर्णा।

इह 'निर्मितेनेव' इत्यत्र क्रियोत्प्रेक्षा। =

अवेति। पारिजातस्य मन्दारस्य या कुसुममञ्जरी पुष्पवल्लरी तस्याः परिमलेन सौरभेण आकृष्टम् आकर्षितं तेन। रिक्तीकृतं समस्तानामेव मधुकराणां तत्रावापनात् शून्यीकृतम् उपवनं प्रमदवनं येन तेन। नीलपटेन कृष्णांशुकेन यद् अवगुण्ठनं शिरोवेष्टनं तस्य विभ्रमं विलासं शोभां सम्पादयता निष्पादयतेव, शिरस उपरि भ्रमणादित्याशयः, कुमुदवनानि कैरवषण्डानि अपहाय परित्यज्य धावता शीघ्रं गच्छता मधुकरजालेन भ्रमरगणेन, अनुबध्यमाना अनुबध्यमाना रुहम्, प्रमदवनस्य स्वीयोपवनस्य पक्षद्वारेण पार्श्वद्वारेण निर्गत्य निःसृत्य, तस्य कुमारस्य समीपं निकटम् उदचलम् उदगच्छम्। इह 'सम्पादयतेवे'ति क्रियोत्प्रेक्षा।

प्रयान्तीति। प्रयान्ती गच्छन्ती, तरलिका द्वितीया अपरा यस्य तत्, अतएव अपरिजिनं द्वितीयपरिवर्जनवर्जितम् आत्मानं स्वम् अवलोक्य निरीक्ष्य अचिन्तयं चिन्तितवती - 'प्रियतमस्य हृदयवल्लभस्य प्रियतमाया हृदयवल्लभाया वा अभिसरणे अनुगमने प्रवृत्तस्य उद्यतस्य जनस्य लोकस्य नाधिकारो नाऽऽकास्य वा बाह्येन बहिर्भूतेन परिजनेन किं नाम कृत्यं विधेयं प्रयोजनं विद्यते, अपि तु न किमपीत्यर्थः।

इह पूर्वं दया 'प्रासादशिखरादवातरम्, इत्यभिधाय 'अवतीर्य च' इत्युक्तं तथा 'तत्समीपमुदचलम्' इत्यभिधाय 'प्रस्थवन्ती' इत्येव वक्तुं युक्तम्, अन्यथा 'प्रवृत्तो वन्त्रिहुतस्तैः पावकाः प्रद्यमयावत्' इति दर्पगोदाहृतवन्नप्रक्रमतारोषस्य निवारयितुमशक्यत्वादिति समालोचनीयम्।

स्रथैवंकेन विधेयं रखजावेषण्यादिकं सेवन कृत्यमित्यत आह-नन्वेति। अवधारणार्थको ननु शब्दः। तथा चामरः-'प्रश्नावधारणानुज्ञानुनयामन्त्रने ननु' इति। एते अग्रे प्रतिपाद्यमानाः कुसुमायुधप्रभृतयः, परिजनस्य लीलां व्यवहारम् उपदर्शयन्ति प्रकटीकुर्वन्ति। समारोपितं सजीकृतं यद् शरासनं धनुः तत्र शासक्तः सायुधः सायको बाणो यस्य स तथोक्तः कुसुमायुधो मदनः अनुसरति अनुगच्छति। अनेनास्य


और कानपर विद्यमान पारिजात-मञ्जरी सहित, प्रभातपल्लवोंही किरणसे निर्मिके समान रक्त (लाल) वस्त्रसे मस्तक अवगुण्ठन (ओढ़) कर, कोई अपने परिजन भी देख न पावें ऐसे डरते, प्रासादशिखर परसे मै उतरी।

वहांसे नीचे उतर कर, जिस समय मैं प्रमदवनके एक छोरके द्वारसे बाहर होकर उसके समीप आनेको निकली, उस समय पारिजातपुष्पमञ्जरीके सौरभसे आकृष्ट हुए, समस्त उपवन शून्य कर और कुमुदवन छोड़ कर दौड़ आते, मानो नीलवर्ण वस्त्रके अवगुण्ठन (बुरके) की शोभा ही उत्पन्न करके, भ्रमरोंके झुण्ड मेरे पीछे पीछे आने लगे।

मैं जाते के समय अपने साथ केवल तरलिका ही को-अन्य किसी परिजनके बिना देख विचार करने लगी-'जो व्यक्ति प्रियतमके निकट अभिसार करने (जाने) के लिए प्रवृत्त हैं, उसको बाहरी परिजनसे क्या प्रयोजन है ! क्योंकि ये ही सब परिजनोंका कार्य सम्पादन-जैसे कामदेव धनुष चढ़ा कर और उस पर बाण रख कर


१.निर्मितेन । २.द्वितीयामिव । ३.तरलिकाहितीयामरिजनम्। ४.अन्ववेक्ष्य ।

महाश्वेताया अभिसारवर्णना ७३ ] चन्द्रकला-विद्योतिनीसहिता । ४८१

करमिव कर्षति¹ शशी, प्रस्खलनभयात् पदे पदेऽवलम्बते रागः, लज्जां पृष्ठतः कृत्वा पुरः सहै- न्द्रियैर्धावति हृदयम्, निश्चयमारोप्य नयत्युत्कण्ठा' इति । प्रकाशञ्चावदम्—'अयि तर- लिके ! अपि नाम मामिवार्येमिन्दुहतकस्तमपि करेण³ कचग्रहाकृष्टमभिमुखमानयेत्' इत्येवं- वादिनीञ्च मामसौ⁴ विहस्याब्रवीत्—'भर्तृदारिके ! मुग्धासि, किमस्य तेन जनेन । अयमा- त्मनैव तावन्मदनातुर इव भर्तृदारिकायां⁵ तास्ताश्चेष्टाः करोति । तथाहि, प्रतिबिम्बच्छलेन स्वेदसलिलकणिकाचितं⁶ चुम्बति कपोलयुगलम्, लावण्यवति पयोधरभारे निपतति, प्रस्फुरितकरः स्पृशति रसनावलिमणीन्, निर्मल-नख-लग्नमूर्तिः पादयोः पतति ।

पृष्ठरधित्वं ध्वनितम् । दूरे प्रसारिता विस्तारिताः करो रश्मिः पाणिञ्च येन स तथोक्तः शशी चन्द्रः करं मम हस्तं कर्षतीव आकृष्य नयतीव । रागः अनुरागः प्रस्खलनभयात् प्रच्युतिभ्रामात् पदे पदे प्रतिपद- क्षेपम् अवलम्बते धारयति । अनयोः पञ्चरक्षित्वं सूचितम् । हृदयं मनः कर्तृ, लज्जां त्रपां पृष्ठतः कृत्वा पृष्ठे समादाय अपसार्य च इन्द्रियैः चक्षुरादिभिः सह पुरः अग्रतो धावति शीघ्रं व्रजति, तथा उत्कण्ठा- औत्सुक्यं निश्चयमारोप्य नूनं तव हृदयवल्लभसङ्गम्रो भविष्यतीति स्थिरमतिमुत्पाद्य नयति प्रापयति । अनयोः सम्मुखरक्षित्वं निरूपितम् । इह 'कर्षतीव' इत्यत्र क्रियोत्प्रेक्षा ।

प्रकाशमिति । अपि नामेति प्रश्नोऽर्थे । 'गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि' इत्यमरः । अयं पुरो दृश्यमानः इन्दुहतकः दुष्टप्रकृतिश्चन्द्रः मामिव तमपि कुमारं करेण रश्मिनेव हस्तेन, कचेषु केशेषु योऽग्रहो ग्रहणं तेन लाकृष्टं सक्तं सन्तं मम अभिमुखं सम्मुखं आनयेत् प्रापयेत् । एवं च सति शीघ्रप्राप्त्या कल्याणं स्यादित्याशयः ।

इह रश्मिकरयोर्भेदेऽपि श्लिष्टेनाभेदारोपादतिशयोक्तिः ।

इतीति । एवं वादिनीम् एवं ब्रुवाणां च मां महाश्वेताम् असौ तरलिका । मुग्धा कोमलमतिरसि, अत एवं कथयामीत्यभिप्रायः । अस्य चन्द्रस्य तेन जनेन कुमारेण किं प्रयोजनम् । अयं चन्द्रः, आत्मना स्वेनैव, मदनातुर इव कामपीडित इव । तास्ताः कामपीडासम्बन्धिनीः सर्वाः समस्ताः, चेष्टा व्यवहारान् करोति विदधाति । स्वेदसलिलस्य घर्मजलस्य कणिका विन्दवः ताभिः आचितं व्याप्तं तव कपोलयुगलं गण्डद्वयं प्रतिबिम्बच्छलेन प्रतिच्छायाव्याजेन चुम्बतीव स्पृशतीव । लावण्यवति सौन्दर्यवति पयोधर- भारे तव विस्तृतकुचद्वये निपतति प्रतिबिम्बच्छलेन लगतीव, उरसा कामुकवदित्याशयः प्रस्फुरितः प्रज्व- लितः सात्त्विकभावोद्गमात्प्रकम्पितश्च करो रश्मिः हस्तश्च यस्य स तथोक्तः सन्, रसनावलेः काञ्ची- दाम्नः मणीन् रत्नानि स्पृशति, नीवीमोक्षणकाले कामुकवदित्यादायः । तथा निर्मलेषु स्वच्छेषु नखेषु तव चरणनखेषु लग्ना संक्रान्ता मूर्तिः स्वरूपं यस्य स तथोक्तः सन् तव पादयोश्चरणयोः पततीव, कृता- गाःकामुकवदित्याशयः ।

इह 'चुम्बतीव' 'निपततीव' इत्युभयत्र सापह्नवा प्रतीयमाना क्रियोत्प्रेक्षा । न च कामुकसङ्गन्धि- कार्यद्वारा कामुकव्यवहारसमासोक्तिरपि स्यादिति वाच्यम्, अप्रस्तुतेन प्रस्तुतपरिस्कृतौ तदङ्गीकारात्,


अनुसरण करता है, चन्द्रमा अपनी किरणें दूर तक फैलाकर हाथ पकड़कर ही मानो ले जाता है; गिरनेके डरसे अनुराग मानो प्रत्येक पदक्षेपमें (पद पद पर) अवलम्बन देता है, मन लज्जाको पीछे रख कर अन्यान्य इन्द्रियोंके साथ आगे-आगे दौड़ता है, एवं 'निश्चय ही प्रियतमके साथ सम्मिलन होगा' इस प्रकार निश्चय धारणा उत्पन्न कर उत्कण्ठा लिए ही जाती है । फिर मैं प्रकट कहने लगी—'अरी तरलके! यह खलस्वभाव चन्द्र मेरे समान उसको भी कर (किरण) द्वारा केश-धारणपूर्वक खींचकर कहीं सामने न ले आवे ! इस समय इस प्रकार कहती हुई मुझसे तरलिकाने हँस कर उत्तर दिया—'राजकन्ये ! आप तरल बुद्धिवाली हैं इसलिए ऐसा कहती हैं'—यह चन्द्र तो अपनेसे ही कामातुरके समान आपके साथ विविध-व्यापार करता है । इसलिए उसे मुनिकुमारसे क्या प्रयोजन ?' देखिए—स्वेदजलकणिकासमूहसे व्याप्त आपके कपोलों (गालों) के प्रतिबिम्ब के बहानेसे मानो चुम्बन करता है ! लावण्ययुक्त आपके भारी पयोधर पर मानो [ प्रतिबिम्बच्छलसे कलेजेसे नायकके समान] लगता है, प्रस्फुरित (कंपित) कर (किरण) से आपके काञ्चीदाम (करधनी) के मणियों का स्पर्श करता है, एवं निर्मल नखोंमें पड़ी हुई मूर्तिके मानो वह आपके पैरों पर ही गिरता है, विशेषतः कामातुरके समान


१. दूरं करः कर्षति ।
२. क्वचित् 'अयम्' इति पाठो न विद्यते ।
३. किरण०... ।
४. क्वचिद् 'असौ' इत्यस्य स्थाने 'सा' इति पाठ उपलभ्यते ।
५. भर्तृदारिकायाः ।
६. ०...ञ्चितं ।

४८२ | कादम्बरी- | [ व्यापाम्-

किञ्चास्य मदनातुरस्येव वपुस्तापाच्छुष्कचन्दनानुलेपपाण्डुतां वहति, मृणालवलयधवलान् धत्ते, करान् प्रतिमाव्याजैन स्फटिकमणिकुट्टिमेषु निपतति, केतकी-गर्भ-केसर धूसर-पादः कुमुदसरांस्यवगाहते, सलिलशीकराद्रीन् शशमणीन् करैरामृशति, द्वेष्टि विघटितचक्रवाक-मिथुनानि कमलवनानि।' एतैश्चान्यैश्च तत्कालोचितैरालापैस्तया सह तमुद्देशमभ्युपागमम्।

तत्र च मार्ग-लता-कुसुम-रजोधूसरं चरणयुगलं कैलासताश्चन्द्रोदयप्रस्रुत-चन्द्रकान्त-मणिप्रस्रवणे प्रक्षालयन्ती, यस्मिन् प्रदेशे स आस्ते तस्मिन्नेव चास्य सरसः पश्चिमे तटे


प्रकृते तु 'लयमात्मनैव तावद्' इत्यादिना चन्द्रस्यापि प्रस्तुतत्ववर्णनात् । एवं 'प्रस्फुरितकरे'त्यत्र रश्मि-हस्तयोर्भेदेऽपि श्लिष्टत्वेनाभेदरोपादतिशयोक्तिः। 'पततीव' इत्यत्र तु प्रतीयमाना क्रियोत्प्रेक्षेति समालो-चयन्ति कुशलाः।

किञ्चेति। अपि चेति किञ्चार्थः। मदनातुरस्येव कामपीडितस्येव अस्य चन्द्रस्य वपुः शरीरं कर्तृ, तापात् कामसंज्वरादिव, शुष्को यः चन्दनस्य मलयजस्य अनुलेपः प्रलेपः पाण्डुतां शुभ्रतां वहति धार-यति। 'मदनातुरस्येव' इत्यत्रोपमा, 'तापात्' इत्यत्र प्रतीयमाना हेतूत्प्रेक्षा, एष चोल्लेवोपमया सङ्कीर्यते। मृणालवलयवत् बिसकटकवत् धवलान् शुभ्रान् मृणालवलयेन धवलांश्च, करान् रश्मीनेव हस्तान् धत्ते धारयति, कामज्वरितलोकवदित्यभिप्रायः । इह रश्मिहस्तयोर्भेदेऽपि श्लिष्टेनाभेदाध्यवसायादतिश-योक्तिः। प्रतिमाव्याजेन प्रतिबिम्बच्छलेन, स्फटिकमणीनां स्फटिकरत्नानां कुट्टिमेषु बद्धभूमिषु निपतति लुठति, कामव्यथितवत् तापापनोदनार्थमित्यभिप्रायः । इहापह्नुतिः। केतक्याः प्रत्यग्रायाः पुष्पस्य गर्भकेसरवत् अन्तःस्यकिञ्जल्कवत् धूसर ईषत्पाण्डुः पादो रश्मिरेव चरणो यस्य स तथोक्तः, प्रतिबिम्ब-च्छलेन कुमुदसरांसि कैरवपूर्णतडागान् अवगाहते विलोडति।

इहापह्नुतिः प्राग्वदतिशयोक्तिश्चेत्युभयोरङ्गाङ्गिभावसङ्करः। तथा केतकीत्यादिविशेषणदानेनापुष्टा-र्थत्वदोषस्तु न शङ्क्यः, कामज्वरेण पाण्ड्यताया श्वेताया समुत्पन्नेति प्रदर्शनार्थत्वात्।

'सलिलशीकरैः निर्झररवेण निर्गतैः ललणैः आर्द्राः विरूक्षाः तान् शशमणीन् चन्द्रकान्तान् करै-रश्मिभिरेव हस्तैः आमृशति स्पृशति, कामज्वरविनाशायेत्यभिप्रायः । इहाभेदाध्यवसायमूलातिशयोक्तिः। तथा विघटितानि रजनीविरहस्य स्वाभाविकत्वाद्विश्लेषितानि चक्रवाकानां रथाङ्गानां पक्षिणां मिथुनानि द्वन्द्वानि येभ्यः तानि तथोक्तानि कमलवनानि पद्मजारण्यानि, द्वेष्टि, एभिरेव पद्मारण्यै रथाङ्गयुग-लानि वियुक्तानीति बुध्यमानः सङ्कोचयन् तेषु विद्वेषं विदधतीव, ये खलु दम्पत्योः सहने न सोढुं समर्थाः तान् प्रति श्लेष्माभिलाषिणः मदनातुरस्य विद्वेष उचित एवेत्याशयः। प्रतीयमाना क्रियोत्प्रेक्षा । एतैः पूर्वोक्तैः अन्यैस्तद्भिन्नैश्च तत्कालोचितैः, तत्समययोग्यैः आलापैः संभाषणैः। तमुद्देशं तेन कुमारेणाधिष्ठित-पूर्वं स्थानम् अभिलक्षीकृत्य उपागमम् प्रापम् ।

तत्रेति। किञ्चेति चार्थः। कैलासतात् शशिनमियमयादित्यर्थः, चन्द्रोदयेन शशाङ्कोद्गमेन प्रसूतं गलितं यत् चन्द्रकान्तमणीनां शशिरत्नानां प्रस्रवणं निर्झरः (वारिप्रवाहः) तस्मिन्, मार्गे लसन्ति यानि लताकुसुमानि वल्लीप्रसूनानि तेषां रजोभिः परागैः धूसरन् ईषत्पाण्डुरं स्वीयं चरणयुगलं पादद्वयं प्रक्षालयन्ती शौतं विदधती अहम्, यस्मिन्प्रदेशे यत्र स्थाने स कपिञ्जल आस्ते तिष्ठति तस्मिन्नेव न्याने


उसका शरीर ऐसा पाण्डुवर्ण हो (फीका पड़) गया है मानो काम-सन्तापका ही उसपर चन्दनका लेप किया गया हो। वह मृणालवलयके समान शुभ्रवर्ण कर (किरण) धारण करता है। प्रतिबिम्बके बहानेसे वह स्फटिकमणिकी भूमि पर पड़ता है, केतकी पुष्पके अभ्यन्तरस्य केसर (रज) के समान पादों (किरणों) के प्रति-बिम्बके बहाने कुमुदपूर्ण सरोवरोंमें स्नान करता है, जल-कणोंसे आर्द्र (गीले) चन्द्रकान्त मणियोंके ऊपर अपने करों (किरणों) से स्पर्श करता है, एवं रात्रि उपस्थित हो जानेसे चक्रवाकदम्पतिगण जिन कमल-वनोंसे निष्क्रान्त चल गये हैं उन कमल-वनोंसे मानो विद्वेष करता है।' इस प्रकार एवं ऐसी कितनी ही उस समयके उपयुक्त बातें करते करते उसके साथ मैं उस प्रदेशमें पहुँच गई।

वह कैलासपर्वतके शिखरसे चन्द्रके उदयसे निस्रव (रिसते) चन्द्रकान्तमणिके झरनेमें, मार्गमें चलनेसे लगे लता-पुष्प और धूलसे धूसर हुए अपने चरणोंको प्रक्षालन करते करते (धोते-धोते), जिस प्रदेशमें वह


१. चन्दनालेप । २. वहति । ३. केतकि । ४. 'प्रस्रुव' 'स्रुव । ५. प्रस्रवणेन । ६. क्षालयन्ती ।

कपिञ्जलद्वारा मित्रोपरतवर्णना ७४ ] चन्द्रकला-विद्योतिनीसहिता । ४८३

पुरुषस्येव रुदितध्वनि विप्रकर्षान्नातिव्यक्तमुपालक्षयम् । दक्षिणेक्षणस्फुरणेन च प्रथममेव मनस्याहितशङ्का, तेनसुतरामवदीर्ण^१-हृदयेव किमप्यनिष्टमन्तःकथयतेव विषण्णेनान्तरात्मना 'तरलिके ! किमिदम्' इति सभयमभिदधाना वेपमानगात्रयष्टिरस्तदभिमुखम् अतिस्वरित-मगच्छम् ।

अथै निशीथप्रभावाद् दूरादेव विभाव्यमानस्वरमुन्मुक्तार्त्तनादम्—'हा हतोऽस्मि, हा दग्धोऽस्मि, हा वञ्चितोऽस्मि, हा किमिदमापतितम्, किवृत्तम्, उत्सन्नोऽस्मि, । दुरात्मन् ! मदनपिशाच ! पाप ! निर्घृण ! किमिदमकृत्यमनुष्ठितम् ? आः पापे ! दुष्कृतकारिणि ! दुर्वि-नीते ! महाश्वेते ! किमनेन तेऽपकृतम् ? आः पाप ! दुश्चरित ! चन्द्र ! चाण्डाल !^५ कृतार्थोऽ-सि ? इदानीमपगतदाक्षिण्य! दक्षिणानिलहतक ! पूर्णास्ते मनोरथाः कृतं यत् कर्त्तव्यम् ? वहै-


अस्य सरसः अच्छोदसरोवरस्य पश्चिमे तटे प्रतीचीदिग्वर्त्तितीरे पुरुषस्येव पुरुषसदृशस्य विप्रकर्षात् दूर-त्वात् नातिव्यक्तम् अनतिस्पष्टं रुदितध्वनि क्रन्दनशब्दम्, उपालक्षयम् अश्रृणवम् ।

दक्षिणेति । किञ्च, दक्षिणेक्षणस्य दक्षिणलोचनस्य स्फुरणेन स्पन्दनेन, आहिता उत्पादिता शङ्का सन्देहो यस्याः सा अहम्, तेन रोदनशब्देन सुतराम् अयन्तम् अवदीर्णहृदयेव विशीर्णस्वान्तेव सती, किमपि अनिर्वचनीयम् अनिष्टम् अशुभम् अन्तः अन्तःकरणे कथयतेव ब्रुवतेव, विषण्णेन खिन्नेन एवं-विधेन अन्तरात्मना अन्तःकरणेन सभयं सत्रासं यथा स्यात्तथा अभिदधाना ब्रुवाणा, वेपमाना कम्प-माना गात्रयष्टिः कृशं वपुर्यस्याः सा, तदभिमुखं तत्संमुखम् अतिस्वरितम् अतिशीघ्रम् अगच्छम् अगमम् ।

अथेति । अथ आगमनानन्तरम्, निशीथप्रभावात् रात्रिमाहात्म्येन समेपामापेक्षिकनिश्शब्दादि-रयर्थः । इह निशीथशब्दस्य रात्रिमात्रमर्थो न त्वर्धरात्रोऽर्थः, प्रदोषकाल एव निःसुताया महाश्वेतायाः किञ्चिन्मार्गार्तिक्रम एवार्धरात्रासम्भवात् । न च 'अर्धरात्रनिशीथौ द्वौ इत्यमरेणार्धरात्रोऽर्थ एव युक्त इति वाच्यम्, 'निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके' इति मेदिनीकोपेनोक्तार्थस्यापि न्याय्यत्वादिति सुधीभिराकलनीयम् ।

दूरादेव विप्रकृष्टादेव विभाव्यमानः अयं कपिञ्जलस्य स्वर इति ज्ञायमानः स्वरो यस्य तं तादृशम्, उन्मुक्तार्त्तनादम् उन्मुक्तकण्ठेन व्यथितशब्दम्, इत्येतानि वान्त्यानि च विलपन्त विलापं विदधतं कपि-ञ्जलमश्रौषमित्युत्तरेण सम्बन्धः । 'हा' इतिखेदे हतोऽस्मि ताडितोऽस्मि दैवेन । दग्धोऽस्मि भस्मीभूतोऽस्मि शोकाग्निना । वञ्चितोऽस्मि प्रतारितोऽस्मि विधात्रा । किमिदम् अतर्कितम् आपतितम् उपस्थितम् । वृत्तं निष्पन्नम् । उत्सन्नोऽस्मि विधिना मूलादुत्पाटितोऽस्मि । निर्घृण निर्दय ! अकृत्यम् अकार्यम् अनुष्ठितम् आचरितम् । अनेन पुण्डरीकेन ते तव किम् अपकृतं अनपकारो विदितः, यत्त्वमेवं कारणीभूय एनं घातितवतीति भावः । चाण्डाल चाण्डालसदृशनितान्तक्रूर ! कृतार्थोऽसि कृतकृत्योऽसि ? पुण्डरीकस्य प्राणापहरणादित्याशयः । इदानीं न स्थितः प्रागिरयाशयः, अपगतं दूरीभूतं दाक्षिण्यम् औदार्यं यस्य


मुनिकुमार था उसी प्रदेशमें इस अच्छोदसरोवरके पश्चिम तट पर, दूर होनेसे कुछ अस्फुट सुनाई देता, किसी पुरुषके मानो रोनेका शब्द मुझे सुनाई पड़ा । [ प्रस्थानके समय ] दक्षिण-नेत्रके स्पन्दन होने (फड़कने) से पहले ही मेरे मनमें आशङ्का उत्पन्न हो गई थी, इसलिए उस रोने का शब्द सुन कर मेरा हृदय मानो बिलकुल विदीर्ण हो (फट) गया, एवं अन्तरात्मा खिन्न होकर मनके समीप मानो किसी विपत्तिका संवाद कहने लगा और—'ओ तरलिका ! यह क्या ?' यों भयभीत होकर पूछती-पूछती कम्पायमान शरीरसे मैं बहुत शीघ्र उस ओर चली ।

तदनन्तर, चलते-चलते मैंने अर्ध-रात्रि होनेके कारण दूरसे ही स्वर सुनकर पहचान लिया और गला फाड़ कर विलाप करते-करते कपिञ्जलका आर्तनाद सुना—'हाय मैं मारा गयाः, हाय ! मैं जल गया; हाय ! ठगा गया, अरे रे ! यह क्या उपस्थित हुआ ? क्या हो गया ? दैव द्वारा जड़से उखाड़ लिया गया ! अरे दुरात्मा पापी निर्दय पिशाच मदन ! तूने यह क्या कुकर्म किया ? ओ पापिनी दुराचारिणी दुर्विनीत महाश्वेते ! इसने तेरा क्या अपकार किया था ? अरे पापी दुश्चरित्र चन्द्र-चाण्डाल, अब तू कृतार्थ हुआ ! अरे दाक्षिण्य-रहित दुष्ट दक्षिण पवन, अब तेरी अभिलाषा पूर्ण हुई—जो तुझे करना था वह किया, अब जहां तुझे जाना हो वहाँ


१. विदीर्ण । २. क्वचित् तदिति न विद्यते । ३. अति । ४. उच्छिन्नोऽस्मि । ५ चण्डाल ! । ६. क्वचित् यदिदति नोपलभ्यते ।

४८४कादम्बरी-[ कथायाम्-

दानीं यथेष्टम्, हा भगवन् ! श्‍वेतकेतो ! पुत्रवत्सल न वेत्सि मुषितमात्मानम् , हा धर्म्म ! निष्परिग्रहोऽसि, हा तपः ! निराश्रयमसि, हा सरस्वति ! विधवाऽसि, हा सत्य ! अनाथमसि, हा सुरलोक ! शून्योऽसि; सखे ! प्रतिपालय माम्, अहमपि भवन्तमनुयास्यामि, न शक्‍नोमि भवन्तं विना क्षणमप्यवस्थातुमेकाकी । कथमपरिचित इवादृष्टपूर्व इवाद्य मानेकपदे उत्सृज्य प्रयासि, कुतस्तवेयमतिनिष्ठुरता, कथय त्वदृते क गच्छामि, कं याचे, कं शरणमुपैमि। अन्धोऽस्मि संवृत्तः, शून्या मे दिशो जाताः, निरर्थकं जीवितम्, अप्रयोजनं तपः, निःसुखाश्च लोकाः। केन सह परिभ्रमामि, कमालपामि³ । उत्तिष्ठ, देहि मे⁴ प्रतिवचनम्, क्‍व तन्ममोपरि सुहृत्प्रेम, क्‍व सा स्मितपूर्वाभिभाषिता च'इत्येतानि चान्यानि च विलपन्तं कपिञ्जलमश्रौषम् ।

तत्सम्बोधनम् , दक्षिनानिलहतक दुष्टप्रकृतिकदक्षिणपवन !, ते तव मनोरथा अभिलाषाः पूर्णाः परिपूर्णी-भूताः। यत्कर्त्तव्यं यदिष्टमेव तत्कृतं तद्दिष्टितम् । इदानीं सम्प्रति यथेष्टं यथेच्छं वह सञ्चर। इह दाक्षिण्यपदस्य दक्षिणदिक्त्वचित्त्वार्यकत्वे विरोधः उक्तार्थत्वे च तत्परिहार इति विरोधाभासः।

हेति । पुत्रवत्सल सुतहितकारक !' मुषितम् अपहृतसर्वस्वम् आत्मानं स्वं न वेत्सि न जानासि। निर्नास्ति परिग्रहोऽङ्गीकारो यस्य स तयोक्तोऽसि, खमितः परं कस्य स्वीकारं विदध्या इत्याशयः। निराश्रयं निरवलम्बनम् असि। विधवाऽसि मृतभर्तृकाऽसि मर्तुः पुण्डरीकस्य प्राणवियोगादित्याशयः। अनेनास्य गीष्पतित्वं व्यञ्जितम् । सुरलोक स्वर्ग ! शून्योऽसि ।

सख इति। प्रतिपालय प्रतीक्षस्व । अनुयास्यामि अनुगमिष्यामि। एकाकी असहायः अवस्थातुं वर्त्तितुम् । एकपदे 'सहसा 'तत्क्षणैकपदे तुल्ये' इति हलायुधः । उत्सृज्य परित्यज्य । अतिनिष्ठुरता अतिकठोरता। त्वदृते त्वद् व्यतिरेकेण । शरणं रक्षकं 'शरणं गृहत्क्षत्रोः' इत्यमरः' उपैमि प्राप्नोमि, अन्धोऽस्मि चक्षुर्विकलोऽस्मि स्वच्छशोकोत्पन्नाद्विवेकेनावलोकनसामर्थ्यलोपादित्याशयः। शून्या इत्यादि सर्वत्र तवानुपलम्भादित्याशयः। लोकाः भुवनत्रयम्, निर्नास्ति सुखम् आनन्दो येषु ते तथोक्ताः समुत्पन्ना इति शेषः। परिभ्रमामि पर्यटामि । प्रतिवचनं प्रत्युत्तरम्। स्मितपूर्वं ईषद् हास्यपूर्वकम् अभिभाषत तच्छीलः स्मितपूर्वाभिभाषी तस्य भावस्तत्ता । अश्रौषम् निजपरिचयादनुमानेनाज्ञासिषमित्यर्थः ।

न च श्रवणार्थकस्य धातोरेवमर्थः कथमिति वाच्यम् , धातूनामनेकार्थत्वात् । यथा परिपूर्वकस्य भूधातोः 'अनादरः परिभवः परिभावस्तिरस्क्रिया' इति कोशबलेन तिरस्कारार्थकत्वेऽपि 'परौ भुवोऽवज्ञाने' इति पा० सूत्रेण विचारणार्थकत्वं तद्वत् नैयायिकास्तु उक्तधातोः शाब्दबोधे शक्तिं ब्रूवते, तथा च तन्मते परिचितस्वरेणोच्यमानः 'हा हतोऽस्मि' इत्यादिपदः कपिञ्जलविषयकं बोधमकार्षमित्यर्थः। मीमांसकास्तु श्रवणेन्द्रियजन्यप्रत्यक्षे शक्तिं ब्रूवते, तथा च तन्मते तथोक्तशाब्दबोध एव लक्षणेति समालोचनकुशलाः धीधनाः समालोचयन्ति ।

इच्छानुसार जा ! हाय भगवन् श्वेतकेतो, पुत्रवत्सल, आपको यह मालूम नहीं कि आपका सर्वस्व हरण हो गया ! हाय धर्म, तुम इस समय किसको स्वीकार करोगे [ क्योंकि तेरा अब कोई ग्रहण नहीं करेगा] हाय तपस्ये ! अब तू निराश्रय हुई ! हा सरस्वति, तू तो आज विधवा हो गई ! हा सत्य, तू अनाथ हो गया । हा स्वर्गलोक, तू [भी] आज शून्य हो गया । प्रिय मित्र ! मेरी प्रतीक्षा करो, मैं भी तेरा अनुगामी होऊँगा; क्योंकि तुझे छोड़कर मैं अकेला क्षण भर भी रह नहीं सकता । अरे जिसके साथ परिचय नहीं एवं जिसे सामने कभी देखा नहीं हो ऐसे व्यक्ति के समान तुम क्यों मुझे आज एकदम छोड़कर चले जाते हो ? तुझमें यह अत्यन्त निष्ठुरता आज कहाँ से आई ? कहो तो सही, तुम्हारे बिना मैं कहाँ जाऊँ ? किसके समीप प्रार्थना करूँ ? किसकी शरण जाऊँ ? अरे रे, मैं तो अन्धा हो गया ! मेरो समस्त दिशाएँ शून्य प्रतीत हो रही हैं ! जीवन निरर्थक हो गया ! तपस्या प्रयोजन रहित हुई ! त्रिभुवनके किसी भी स्थानमें सुख नहीं ! हाय, हाय, मैं किसके साथ विचरण करूँ ? एवं किसके साथ आलाप (बातचीत) करूँ ? अरे भैया ! जरा उठो तो सही ? मेरे कहनेका जरा उत्तर तो दो ? मेरे ऊपर जो तुम्हारा स्नेह था वह कहाँ गया ? एवं ईषद्धास्यपूर्वक (मुस्कुराहटसे) तुम्हारी बातचीत करनेकी रीति, आज कहाँ गई ?


१. सत्यत्वम्। २. भवता। ३. 'केन वार्तां करोमि' इत्यधिकः पाठः क्वचिदुपलभ्यते।
४. मे विलपतः। ५, क्वचित् 'स्मित' इति पदं न दृश्यते।

कपिज्जलद्वारा मित्रोपरतवर्णनम् ७४ ] चन्द्रकला-विद्योतिनीसहिता ४८५

तच्च¹ श्रुत्वा पतितैरिव प्राणैर्दूरादेव मुक्तैकताराक्रन्दा सरस्तीरलता सं²क्तिनुद्यमानांशुको- त्तरीया यथाशक्तिस्वरितैरज्ञात-सम विषम-भूमि³भाग-विन्यस्तैः पादप्रक्षेपैः प्रस्खलन्ती पदे पदे, केनाप्युत्क्षिप्य नीयमानेव तं प्रदेशं गत्वा, सरस्तीरसमीपवर्त्तिनि शिशिरशीकरासार⁴स्राविणि शशिमणिशिलातले विरचितं कुमुद-कुवलय-कमलै⁵-विविध-वनकुसुम-सुकुमार⁶ मृणालमयं कुसुमशरसायकमयमिव शयनमधिशयानम् , अतिनिष्पन्दतया मत्पदशब्दमिवाकर्णयन्तम् , अन्तःकोप-शमित⁷-मदन सन्तापतया तत्क्षण⁸-लब्ध-सुखप्रसुप्तमिव, मनःक्षोभ⁹-प्रायश्चित्त-

तच्चेति । पतितैरिव बहिः प्राप्तैरिव वहिर्निर्यातुं समुद्यतैरित्यर्थः, प्राणैः असुभिः उपलक्षिता, दूरादेव विप्रकृष्टादेव मुक्तस्त्यक्तः एकतारः अत्युच्च आक्रन्दो रोदनध्वनिर्धया सा तादृशी, सरस अच्छोदसरोवरस्य तीरेषु तटेषु या लता वल्ल्यः तासु आसक्त्या लङ्घयितुमनवकाशात् संलग्नतया त्रुट्यमानं छिद्यमानम् अंशुकं परिहितवसनम् उत्तरीयवसनञ्च यस्याः सा तादृशी, यथाशक्तिस्वरितैः शक्त्यनतिक्रमेणाशुवि- हितैः, अज्ञातेषु अविदितेषु समविषमेषु समतलविषमतलेषु भूमिभागेषु भूप्रदेशेषु विन्यस्तैः स्थापितैः पादप्रक्षेपैः अङ्घ्रिन्यासैः पदे पदे प्रतिपदं प्रस्खलन्ती स्खलनां प्राप्नुवन्ती, केनापि अनिर्दिष्टनाम्ना जनेन उत्क्षिप्य उत्तोल्य नीयमानेव प्राप्यमानेवाहम, तं कुमाराधिष्ठितं प्रदेशं स्थानं गत्वा तं महाभागम् अद्राक्षमृत्युत्तरेण सम्बन्धः। इत आरभ्य पुंलिङ्गद्वितीयेकवचनान्तानि पदानि अग्रेतनस्य 'महाभागम्' इत्यस्य विशेषणान्यवगन्तव्यानि। इह 'नीयमानेव' इत्यत्र वाच्या क्रियोत्प्रेक्षा।

सर इति। सरसः अच्छोदनाम्नः तीरं तटं यस्य समीपवर्त्तिनि निकटस्थायिनि, शिशिरं शीतलं शीकरासारं सलिलकणधारां स्रवति क्षरतीति तस्मिन्, शशिमणिशिलातले चन्द्रकान्तमणिप्रस्तरोपरि, विरचितं निर्मितम्, कुमुदैः श्वेतकमलैः उत्पलैः नीलकमलैः कमलैः पङ्कजैः विविधैः नानाप्रकारैः वनकुसुमैः अरण्यपुष्पैश्च सुकुमारं मृदुलम्, तथा मृणालमयं विसनिष्पन्नम्, अतएव कुसुमशरस्य कामस्य साय- कमयमिव बाणनिष्पन्नमिव विद्यमानं शयनं तल्पम् अधिशयानं शयनं कुर्वाणम्। इह 'सायकमय- मिवे'ति क्रियोत्प्रेक्षा।

अतीति । अतिनिष्पन्दतया अतिनिश्चलतया कारणेन, मम पदशब्दं चरणध्वनिम् आकर्णयन्तमिव शृण्वन्तमिव। प्रायेणैव कामुका औत्सुक्यवशात् कामुकानामागमनसमयिकपदशब्दं शृण्वन्ति । 'इह आकर्णयन्तमिव' इति क्रियोत्प्रेक्षा।

अन्तरिति । अन्तःकोपेन नमाप्रापणाद्धार्दिकक्रोधेन शमितः प्रशमभावमुपगतो मदनसन्तापः कामज्वरो यस्य तस्य भावस्तया कारणेन, तस्मिन् क्षणे लब्धं प्राप्तं यत् सुखम् आनन्दः तेन प्रसुप्तमिव निद्रितमिव। उक्तोलङ्कारः।

मन इति। मनसो ब्रह्मचर्यविरोधिनः कामवेगोत्पन्नचित्तस्य यः क्षोभ उद्वेलनं तस्य तत्प्रयुक्तदुष्कृत-

यह सुनते ही मेरे प्राण तो मानो बाहर जानेके लिए उद्यत हो गए, और दूरसे ही मुक्तकण्ठ हो उच्चैः स्वरसे मैं रोने लगी। सरोवरके तीरवर्ती लताओंमें संलग्न हो (उलझ) कर मेरे पहने हुए एवं उत्तरीय-वस्त्र फटने लगे, अपरिचित समतल और विषमतल (ऊँची-नीची) भूमि पर यथाशक्ति शीघ्रताके कारण पैर पड़नेसे पद-पद पर ठोकर खाती,-कोई मानो मुझे उठाकर ले जाता हो-इस प्रकार मैं उस स्थानमें जा पहुँची और सरोवरके तीरके निकट शीतल-जल-बिन्दुवर्षी बृहत् एक चन्द्रकान्तमणिके शिलातल पर बिछाए हुए श्वेतोत्पल, नीलोत्पल, कमल और नानाविधि वन-कुसुमोंकी कोमल मालाओंसे बने हुए, मृणालमय,-कामदेवके बाणोंसे ही मानो निर्मित हुए-बिछौने पर शयन करते, तत्काल प्राण-वियोग हुए उस महाभाग मुनिकुमारको मुझ पापिनी-मन्दभागिनीने देखा। अत्यन्त निश्चलरूपसे वे मानो मेरे पैरोंके शब्द सुनते थे; अन्तःकोपसे समस्त मदन-सन्ताप शान्त हो जानेके कारण उस समय मानो वे सुखसे सो रहे थे; ब्रह्मचर्य विरोधी


१. तच्च ।
२... 'लतानुषज्यमान'...' ।
३. क्वचित् 'भूमि' इति पदं नोपलभ्यते ।
४. क्वचित् 'शीकरस्राविणि' इत्येव पाठ उपलभ्यते ।
५. क्वचित् 'कमल' इति पदन्नास्ति ।
६. सुकुमारमालाम- यमिव मालामयं ।
७. अन्तःकृतान्तोपशमित..., अन्तःक्षोभशमित... अन्तःक्रोधशमित ।
८. क्वचित् 'तत्' इति पदं न विद्यते ।
९. मुनिक्षोभ... ।

४८६कादम्बरी-[ कन्यादानम्-

प्राणायामावस्थितमिव, अतिप्रस्फुरित प्रभेण 'त्वत्कृते समेयमवस्थे'ति कथयन्तमिवोधरेण, इन्दु-द्वेष-परिवर्तितदेहतया पृष्ठभाग-निपतितैर्मदन-दहन-विह्वल-हृदय-न्यस्त-हस्त-नख-मयूखच्छले-नाच्छिद्रितमिव शशिकिरणैः, उच्छुष्क-पाण्डुरया^१ स्वविनाशोत्पन्नया^२ मदनचन्द्रकलयेव चन्दन-लेखिकया रचितललाटिकम्, 'मत्तः प्रियतरं:^४ तवापरो जनो जातः' इति कुपितेनेव जीवितेन परित्यक्तम्, मन्मथव्यथया सहैतानसून^५ स्वयमिवोत्सृज्य निश्चेतनतासुखम्^६ अनुभवन्तम्;

स्त्येत्यर्थः प्रायश्चित्तरूपो यः प्राणायामः कुम्भकात्मकप्राणायामः तत्र व्यवस्थितमिव कृतावस्थानमिव निश्छ- स्वाधित्याशयः। उत्प्रेक्षालङ्कारः।

त्वेतीति । अतिप्रस्फुरिता नितान्तप्रदीप्ता प्रभा कान्तिर्यस्य तथोक्तेन अधरेण रदनच्छदेन करणेन, त्वत्कृते त्वदर्थे मम पुण्डरीकस्य इयं प्रत्यक्षोपलभ्यमाना मृत्युरूपा अवस्था दशा 'समुत्पन्ना' इति शेषः, इति कथयन्तमिव प्रतिपादयन्तमिव । उत्प्रेक्षालङ्कारः ।

इन्द्वितिः इन्दुद्वेषेण अतिशयसन्तापकत्या चन्द्रं प्रति विद्वेषेण परिवर्त्तितो न्युब्जीकृतो यो देहं शरीरं तस्य भावस्तया कारणेन, पृष्ठभागनिपतितैः पश्चाद्भागपतितैः शशिकिरणैः चन्द्रालोकैः मदनदहनेन कामाग्निना विह्वलम् आकुलं यत् हृदयं चित्तं तत्र न्यस्तस्य स्थापितस्य हस्तस्य पाणेः नखमयूखानां पुनर्भवकिरणानां छलेन व्याजेन छिद्रितमिव समुत्पन्नविवरमिव वक्षसि स्थापितस्य हस्तस्य नखकिरणा- स्तया प्रसरन्ति यथा चन्द्रं प्रति पृष्ठं कृत्वा सुप्तस्यास्य पृष्ठं भित्त्वा चन्द्रकिरणा एव वक्षःस्थलाद्विर्निर्गता इत्यभिप्रायः । उत्प्रेक्षालङ्कारः।

उच्छुष्केति । उच्छुष्का नीरसा चासौ पाण्डुरा चेति तया, स्वस्य आत्मनो विनाशाय उत्पाताय उत्पन्नया उद्भूतया, असमये अस्थाने च ग्रहनक्षत्राणामुद्गमस्य उत्पातद्योतकत्वादित्याशयः; मदनो मन्मथः तत्सम्बन्धिनी चन्द्रकला तय्येव विद्यमानया, चन्दनस्य मलयजस्य लेखिकया अर्धचन्द्रतुल्यया रेखया रचिता कपिञ्जलेन निर्मिता ललाटिका भाले तिलकविशेषो यस्य तम् । चन्द्रकलाकारा चन्दनरेखा तया प्रतीयते यथा स्वस्य (पुण्डरीकस्य) विनाशकारकोत्पाताय मदनसम्बन्धिनी चन्द्रकलैव उदिता भवेदि- त्याशयः । इह 'मदनचन्द्रकलयेव' इति द्रव्योत्प्रेक्षा ।

मत्त इति । मत्तः कपिञ्जलातः प्रियतरो वल्लभः । अपरो महाश्वेतालक्षणः । इति अस्माद्धेतोः, कुपितेन क्रुद्धेन जीवितेन प्राणेन परित्यक्तमिव उज्झितमिव । क्रियोत्प्रेक्षा ।

मन्मथेति । स्वयम् आत्मनैव, मन्मथव्यथया मदनपीडया सह एतान् असून् प्राणान् उत्सृज्येव परित्यज्येव निश्चेतनतया यत् सुखम् आनन्दः तत् अनुभवन्तम् अनुभवविषयीकुर्वन्तम् चेतनायां जातायां नानाविधानि सांसारिकदुःखान्युपतिष्ठन्त इत्यभिप्रायः ।

इह महोक्तिः क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः ।


मदनवेगजनित चित्तमें उत्पन्न हुए क्षोभ (पाप) के प्रायश्चित्तके लिए वे मानो कुम्भकात्मक प्राणायाम कर रहे थे; देदीप्यमान प्रभासे समन्वित अपने अधरसे—'तुम्हारे लिए ही मेरी यह अवस्था हुई है'—यों मानो मुझसे कह रहे थे। चन्द्रके प्रति विद्वेषके कारण देह परिवर्तित (उलटे फिर) कर शयन करनेसे उनकी पीठ पर गिरती चन्द्रमाकी रश्मियोंने कामाग्निसे विह्वल-हृदय पर संस्थापित (रक्खे) हाथकी नख-रश्मियोंके आकारमें, मानो शरीर भेद कर दिए थे—ऐसा प्रतीत होता था; शुष्क हुई पाण्डुवर्ण (श्वेतगंग) की, अपने विनाशके लिए उत्पादके समान उत्पन्न हुई, मदनबन्धु-चन्द्रकी एक कलाके समान, कपिञ्जलद्वारा की हुई चन्दन-रेखा उनके ललाटमें शोभित थी। 'मुझसे भी तुझे अधिक प्रिय अन्य जन हुए हैं'—यों मनमें समझ क्रुद्ध होकर ही मानो प्राणोंने छोड़ दिया था; कामवेदनाके साथ प्राणोंको भी मानो अपने आप छोड़कर वे निश्चेतनताका सुखानुभव कर रहे थे,


१. पाण्डुतया । २. स्वदेहविनाशोत्पन्नया, स्वविनाशोत्पातोत्पन्नया । ३. 'ईषदालक्सरविस्फृत-तारकेन अनवरतरोदनावताम्रेण प्राणोत्गोनेवातारुण्यतया रुधिरमिव क्षरता मदनगरलव्यवेदनाकूणिताभि-भागेन नलिनिनोलितेन लोचनयुगलेन ।' इत्यादिकः पाठो निर्णयसागर-मुद्रितपुस्तक उपलभ्यते । तत्र च 'लोचनयुगलेन, इत्यतोऽग्रे 'मानमुपदेव विलोकयन्दम्' इत्यादिकः पाठो दृश्यते पुस्तकान्तरे । ४. अतिप्रियतरः । ५. मन्मथव्यथासहानानसून् । ६. निश्चेतावसुखम् ।

कपिञ्जलद्वारा मित्रोपरतवर्णना ७४ ] [ चन्द्रकला-विद्योतिनीसहिता । ४८७

अनङ्गयोगविद्यामिव ध्यायन्तम्, अपूर्वप्राणायाममिवाभ्यस्यन्तम्, उपपादितास्मदागमनेन प्रणयादिवापहृत-प्राणपूर्णपात्रमनङ्गेन, रचितचन्दनललाटिकात्रिपुण्ड्रकम्, धृत-सरस-बिससूत्र-यज्ञोपवीतम्, अंसावसक्त-कदलीगर्भपत्र-चारु-चीरम्, एकावलीविशालाक्षमालम्, अविरलामल-कर्पूर-क्षोद-भस्म-धवलम्, आबद्ध-मृणाल-वलयं-रक्षा-प्रतिसर-मनोहरम्, मनो-

अनङ्गेति । अनङ्गः कामः तत्सम्बन्धिनी या योगविद्या तां ध्यायन्तमिव ध्यानविषयीकुर्वन्तमिव, निष्क्रियत्वादित्याशयः । क्रियोत्प्रेक्षा ।

अपूर्वेति । अपूर्वः अद्भुतः, पूरणरेचनयोरभावः केवलं कुम्भकमेवेति प्रसिद्धप्राणायामापेक्षयाऽ-पूर्वस्त्वमित्याशयः; यः प्राणायामः प्राणनियमनं तम् अभ्यस्यन्तमिव वारंवारं शिक्षमाणमिव, निष्क्रियत्वात् । उत्प्रेक्षालङ्कारः ।

उपदेति । उपपादितं निष्पादितम् अस्माकं ममेत्यर्थः, आगमनं प्रापणं येन तेन, अनङ्गेन कामेन, प्रणयादिव तुल्यलावण्येन स्नेहादिव, अपहृतम् आकर्षितं प्राणा ससव एव पूर्णपात्रं पारितोषिकद्रव्यं, यस्मात्तम्, अन्योऽपि अतीवसन्तोषद् कार्यं सम्पाद्य स्नेहात् पूर्णपात्रं हरति । तथा चाहुर्वृद्धाः—'उत्सवेषु सुहृद्भिर्यत्स्नेहादाकृष्य गृह्यते । तत्पूर्णपात्रम्' इति । अपि च हारावल्याम्—

'वर्षापकं यदानन्दादलङ्कारादिकं पुनः । आकृष्य गृह्यते पूर्णपात्रं पूर्णानकञ्च तत् ॥' इति ।

कामेन मम ( महाश्वेतायाः ) आगमनरूपं प्रियकार्यं विधाय प्राणरूपं पूर्णपात्रं पुण्डरीकेण सह स्नेहवशादपहृतम् । काम-पुण्डरीकयोः प्रणयस्तु समानसौन्दर्येणेत्यभिप्रायः ।

इह हेतूत्प्रेक्षा निरङ्गकेवलरूपकयोरङ्गाङ्गिभावसङ्करः ।

रचितेति । रचितं कपिञ्जलेन निर्मितं चन्दनललाटिकाया मलयजभालतिलकविशेषस्य उपरि-त्रिपुण्ड्रकं यस्य तम् ।

धृतेति । धृतं कामज्वरशान्तये गृहीतं सरसम् आर्द्रं बिससूत्रं मृणालतन्तुरेव यज्ञोपवीतं यज्ञसूत्रं येन तम् । इह निरङ्गकेवलरूपकम् ।

अंसेति । अंसे स्कन्धे अवसक्तं स्थापितं कदलीगर्भपत्रमेव रम्भान्तर्दलमेव चारु मनोहरं चीरं कौपीनं यस्य तम् । उत्प्रेक्षालङ्कारः ।

एकेति । एकावली मम स एकपङ्क्तिको हार एव विशाला विस्तीर्णा अक्षमाला जपमाला यस्य तम् । उत्प्रेक्षालङ्कारः ।

अविरलेति । अविरलाः सान्द्राः अमलाः स्वच्छाश्च कर्पूरस्य घनसारस्य क्षोदाः कपिञ्जलसमर्पित-धूलय एव भस्मानि विभूतयः तैः धवलं स्वच्छम् । उक्तोलङ्कारः ।

आबद्धेति । आबद्धो धृतः मृणालवलयमेव बिसकटकमेव रक्षाप्रतिसरो मदनपीडातो रक्षणार्थं हस्तसूत्रं तेन मनोहरं सुन्दरम् । उक्तोलङ्कारः ।

'भवेत् प्रतिसरो मन्त्रभेदे माल्ये च कङ्कणे । व्रणशुद्धौ चमूपृष्ठे पुंसि न स्त्री तु मण्डले ।
आरक्षे करसूत्रे च नियोज्ये त्वन्यलिङ्गकः ॥' इति मेदिनी ।

मनोभवेति । मनोभवस्य कामस्य व्रतवेशं चन्दनकर्पूरचूर्णधारणरूपं व्रतचरणोपयोगिवेशम्


कामदेवके योगविद्याका मानो वे ध्यान करते थे; अपूर्व प्राणायामका मानो अभ्यास करते थे; कामदेवने वहाँ मेरा आगमन सम्पादन कर प्रेमपूर्वक ही मानो उनसे प्राणरूपी पूर्णपात्र ( पारितोषिक ) में लिया था। कपिञ्जलने उनके ललाटस्थ चन्दन-तिलकके ऊपर एक त्रिपुण्ड्र अङ्कित कर दिया था; आर्द्र मृणाल-सूत्ररूप यज्ञोपवीत उन्होंने धारण किया था; उनके स्कन्ध देश पर कदलीगर्भ पत्ररूपी एक मनोहर कौपीन संलग्न ( चिपटा हुआ ) था; मेरी वह एकावली-रूपी मुक्ताकी माला ही बड़ी जपमाला बनाकर उन्होंने पहन रक्खी थी; उनका शरीर निर्मल कपूरके रेणु रूप ( चूरेकी ) भस्मसे शुभ्रवर्ण (गौर) हो गया था; हाथमें मृणाल-वलयरूपी रक्षामूत्र बाँध लेनेसे


१. क्वचित् 'चन्दन' इति पदं न दृश्यते ।
२. विलात ।
३. क्वचित् 'वलय' इति पदं नोपलभ्यते ।

४८८

  • कादम्बरी- [ कथायाम्-

भव-व्रत-वेशमास्थाय^१ मम समागममन्त्रमिव साधयन्तम्, अविश्वत^२-रोदनाताम्रेण अश्रुक्षयात्^३ आगतरुधिरेणेव मदन-शर-शल्य-वेदना कूणित-त्रिभागेन 'कठिनहृदये !^४ दर्शनमात्रकेणापि न पुनरनुगृहीतोऽयमनुगतो जनः' इति सप्रणयं मामुपलभमानमिव चक्षुषा, किञ्चिद्विवृताधरतया जीवितमपहर्तुं मन्तःप्रविष्टैरिन्दुकरैरिव निर्गच्छद्भिर्दशनांशुभिर्धवलितपुरोभागम्, मन्मथव्यथया विघटमानै-हृदूर्यानहितेन वामपाणिना 'प्रसीद, प्राणैः समं प्राणसमे ! न गन्तव्यम्' इति हृदयस्थितां मामिव धारयन्तम्, इतरेण च नखमयूरवदन्तुरतया चन्दनमिव स्रव-

आस्थाय परिगृह्य मम (महाश्वेतायाः) समागममन्त्रं सङ्गमसाधनमन्त्रं साधयन्तमिव आराधयन्तमिव, अन्यसम्भाषणवर्जनाच्छिन्निक्रियावत्त्वेत्याशयः। इह क्रियोत्प्रेक्षालङ्कारः।

अविरतेति। अविरतरोदनात् निरन्तराक्रन्दनात् आताम्रेण सम्यक्ताम्रवर्णेन अत एव अश्रुक्षयात् अधिककालपर्यन्तं निर्गमनेन नयनाम्बूनां समाप्तिलाभाद्धेतोः अपगतरुधिरेणेव दूरीभूतशोणितेनेव विद्यमानेन, मदनशराणां कामबाणानां यानि शल्यानि लौहमयाग्राणि तैस्तदाघातैरित्यर्थः। या वेदना पीडा तया आकूणितः किञ्चित्सङ्कुचितः त्रिभागः तृतीयः भागो यस्य तेन तथोक्तेन चक्षुषा नयनभङ्ग्येत्यर्थः। कठिनं कठोरं हृदयं चित्तं यस्यास्तत्सम्बुद्धौ 'हे कठिनहृदये महाश्वेते ! दर्शनमात्रकेणाऽपि केवलमवलोकनेनापि अयं मल्लक्षणः अनुगतोऽनुरक्तो जनः न पुनः अनुगृहीतः न स्वीकृतः' इति एवं सप्रणयं सस्नेहं माम् उपलभमानं निन्दन्तमिव विद्यमानम्।

इह पदार्थहेतुकं काव्यलिङ्गम्, द्वे क्रियोत्प्रेक्षे च, तथा चैतेषामङ्गाङ्गिभावसङ्करः।

किञ्चिदिति। किञ्चिद्विवृतः ईषद्व्यादत्तः अधरः ओष्ठो यस्य तस्य भावस्तया कारणेन, जीवितं प्राणम् अपहर्तुं दूरीकर्त्तुमन्तःप्रविष्टैः अभ्यन्तरगतैः इन्दुकिरणैरिव चन्द्ररश्मिभिरिव अवलोकमानैः, निर्गच्छद्भिः निःसरद्भिः दशनांशुभिः दन्तकिरणैः धवलितपुरोभागं श्वेतीकृतसम्मुखदेशम्। जात्युत्प्रेक्षा।

मन्मथेति, मन्मथस्य कामस्य या व्यथा पीडा तया विघटमाने भिद्यमाने हृदये निहितः स्थापितस्तेन वामपाणिना सव्यहस्तेन करणेन। प्राणसमे प्राणतुल्ये हे महाश्वेते ! प्राणैः समं निःसरद्भिर्ममासुभिः सह, त्वया हृदयान्न प्रस्थातव्यं प्राणसहतयैव स्नेहात्तैः सह तवापि प्रस्थानसम्भवादित्याशयः। इति अनेनाशयेन, हृदयस्थितां चिन्तावशाच्चित्तस्थायिनीं मां धारयन्तमिव अवरुन्धन्तमिव स्थितम्। क्रियोत्प्रेक्षा।

इतरेणेति। किञ्चेति चार्थः। नखमयूखैः नखकिरणैः दन्तुरतया उच्चावचतया कारणेन चन्दनं मलयजं स्रवतेव विद्यमानेन, उत्तानीकृतेन ऊर्ध्वाकृतेन दक्षिणेन अपसव्येन पाणिना हस्तेन चन्द्रस्य शशिनः आतपं नितान्तव्यथोत्पादकमालोकं निवारयन्तमिव निषेधयन्तमिव विद्यमानम्। इह द्वयोः क्रियोत्प्रेक्षयोः परस्परं नैरपेक्ष्येण संसृष्टिः।

वे देखनेमें रमणीय लगते थे; कामदेवके व्रताचरणके उपयोगी वेश धारण कर मेरे साथ सम्मिलन के मन्त्रकी ही मानो वे साधना करते थे; निरन्तर रोनेसे उनके नेत्र रक्तवर्ण (लाल) हो गए थे, उससे प्रतीत होता था कि मानो अश्रु शेष हो जानेके कारण रक्त आकर एकत्रित हो गया है, एवं कामदेवके बाणोंकी लौहमय नोक अग्रभाग) की वेदनासे उस (नेत्र) का तृतीय भाग ईषत् सङ्कुचित हो (जरा मिच) गया है, उसके भङ्गीद्वारा वे मानो इस अभिप्रायसे मुझे प्रेमके साथ तिरस्कार करते (उलाहना देते) थे कि—'अरे कठिन हृदयवाली ! इस अनुरक्त जन पर पुनः केवल दर्शन देकर भी अनुग्रह नहीं किया ?' अधरोंके जरा खुले होनेसे, जीवन अपहरण करनेके लिए ही मानो अभ्यन्तर प्रविष्ट चन्द्रकिरणके समान बाहर निकलती हों ऐसी दन्तकिरणोंसे उनका सम्मुखभाग (आगेका हिस्सा) शुभ्रवर्ण हो गया था; कामवेदनासे विदीर्ण होते (फटते) हृदय पर रखे हुए वामपाणि-कमलसे वे हृदयमें स्थित मुझे इस अभिप्रायसे ही मानो रोकते थे कि—'प्राणोपमे, प्रसन्न हो, प्राणोंके साथ तू तो मत चली जाओ।' नखकिरणोंसे असमान होनेके कारण मानो चन्दनका रस निःसारित करते (झराते) दूसरे, उत्तानभावसे स्थित (चित्त रखे हुए), हाथसे वे मानो चन्द्रकिरणोंको अपने ऊपर आनेसे निवारण करते थे।


^१. ...'रक्षामतिसरनमोभवव्रतवेशमास्थाय ।
^२. 'ईषदालक्ष्यपरिद्वत्ताम्रेण' इति क्वचिदधिकः पाठो विद्यते तथा क्वचित् 'साधयन्तं मदनशरशल्यवेदनाकोणितत्रिभागेन कठिन' इति पाठः समुपलभ्यते ।
^३. अनवरत... ।
^४. प्रागोत्सर्गोपजाताश्रुक्षयतया ।
^५. अतिनिमीलितेन, नातिनिमीलितेन ।
^६. भोः कठिनहृदये ! ।
^७. मन्मथव्यथाविघटमान... ।

महाश्वेताविलापवर्णना ७५ ] चन्द्रकला-विद्योतिनीसहिता । ४८६

तोत्तानीकृतेन चन्द्रातपमिव निवारयन्तम्'; अन्तिकस्थितेन च अचिरोद्गतजीवितमार्गमिवोद्ग्रीवेण विलोकयता तपःसुहृदा कमण्डलुना समुपेतम्, कण्ठाभरणीकृतेन च मृणालवलयेन रजनीकर-किरणपाशेनेव संयम्य लोकान्तरमुपनीयमानम्² कपिञ्जलेन मदशर्नात्, ‘अब्रह्मण्यम्’ इत्यूर्ध्वहस्तेन³ द्विगुणीभूतबाष्पोद्गमेनाक्रोशता कण्ठे परिष्वक्तम्, तत्क्षणविगतजीवितं तमहं पापकारिणी मन्दभाग्या महाभागमद्राक्षम् ।

उद्भूतमूर्च्छान्धकारा च⁴ पातालतलमिववतीर्णा तदा काहमगमम्, किमकरवम्, किं व्यलपम् इति सर्वमेव नाज्ञासिषम् । असवश्च मे तस्मिन् क्षणे किमतिकठिनतया अस्य मूढहृदयस्य, किमनेकटुःखसहस्रसहिष्णुतया हतशरीरस्य, किं विहिततया दीर्घशोकस्य, किं


अन्तिकेति । किञ्च, उद्ग्रीवेण उन्नतकन्धरेण अत एव अचिरोद्गतस्य तत्कालयातस्य जीवितस्य प्राणेशस्य मार्गं पन्थानं विलोकयतेव पश्यतेव सती अन्तिकस्थितेन समीपवर्त्तिना तपःसुहृदा तपस्यामित्रेण कमण्डलुना कुण्डिकया समुपेतं सहितम् ।

इह पदार्थहेतुकं काव्यलिङ्गम्, क्रियोत्प्रेक्षा चेत्युभयोः परस्परमङ्गाङ्गिभावसङ्करः ।

कण्ठेति । किञ्च, कण्ठाभरणीकृतेन गलविभूषणीभूतेन मृणालवलयेन विसकटकैन उपलक्षितम्, अत एव रजनीकरस्य शशिनः किरणो रश्मिरेव पाशो बन्धनग्रन्थिः तेन संयम्येव बद्ध्वेव यमेन लोकान्तरम् अन्यलोकम् उपनीयमानं प्राप्यमाणम् ।

इह निरङ्गकेवल्परूपकम्, क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः।

कपिञ्जलेनेति । मदर्शनात् तदानीं ममावलोकनेन द्विगुणशोकोद्गमादित्यर्थः, अब्रह्मण्यं प्रस्तुतकालानुपस्थितेर्देवात् सम्प्रतयेवाच्यः पुण्डरीक इत्यर्थः, 'अब्रह्मण्यमवध्योक्तौ' इत्यमरः। 'वधं प्राप्तुं नायं शक्नोतीति कथने' इति हि भवद्योक्तावित्यस्यार्थः। ऊर्ध्वहस्तेन उत्थितपाणिना, द्विगुणीभूतः पूर्वस्माद्द्विगुणीभूतो बाष्पोद्गमः अश्रुजलाविर्भावो यस्य तेन आक्रोशता आक्षेपं विदधता मनस्तापं स्पृष्टयता कपिञ्जलेन, कण्ठे गले परिष्वक्तम् आलिङ्गितम् । दुष्कृतकारिणी मदर्यमेव प्राणत्यागात्, मन्दभाग्या बाह्य एव वैधव्यादिति चाभिप्रायः। महाभागं तथाविधसौन्दर्यानुपमकीर्त्यादिगुणयुक्तत्वादत्यन्तमाराध्यवन्तम् अद्राक्षम् अपश्यम्।

उद्भूतेति । किञ्च, उद्भूतः उत्पन्नो मूर्च्छान्धकारो मोहवैधुर्यं यस्याः साऽहम्, पातालतलं रसातलमवतीर्णेव सती, तदा तस्मिन् समये। अगमम् अव्रजम् । अकरवम् अघटयम् । व्यलपम् अवोचम् । नाज्ञासिषं नाबोधिषम् । 'अवतीर्णेव' इति क्रियोत्प्रेक्षा ।

मयैवम्भूते शोकवेगे कथं तेऽसवो न बहिर्मूना इत्यत आह—असव इति । किञ्च, मे, मम असवः प्राणाः, तस्मिन् क्षणे तत्काले अस्य मूढहृदयस्य अज्ञचेतसः अतिकठिनतया अतिकाठिन्येन किं नोद्रच्छन्ति स्म न बहिः प्रयान्ति स्म तदपि न ज्ञातवती बुद्धा, एवं सर्वत्रान्वयो ज्ञेयः। हतशरीरस्य निष्प्रयाजनदेहस्य, कुत्सायां कप्रत्ययः; अनेकदुःखसहस्रसहिष्णुतया विविधक्लेशसमूहसहनतया । दीर्घशोकस्य


ऊँची गर्दन कर, थोड़ी देर पहले गए हुए उनके प्राणोंका मार्ग मानो देखता हो, ऐसा तपस्याके समयका मित्र, एक कमण्डलु उनके समीपमें ही रक्खा था। कपिञ्जलद्वारा कण्ठमें आभूषित किए हुए मृणाल-वलयसे, उनको मानो चन्द्रकिरणकी पाश (रज्जु) से बाँधकर यमराज परलोकमें ले जाता हो ऐसा प्रतीत होता था, और मुझे देखकर ऊँचा हाथ कर—‘इस समय ही यह मृत्युके योग्य नहीं है, इस प्रकार आक्षेप करते-करते पूर्वापेक्षा द्विगुणित अश्रुजल बहाते-बहाते कपिञ्जलने उठके कण्ठमें उनका आलिङ्गन किया था।

तदनन्तर वैसी स्थितिको देखते ही मुझे मूर्च्छारूपी अन्धकार आकर उपस्थित हो गया और मानो पातालमें धँसती जाती हूँ इस प्रकार उस समय मैं कहाँ गई, मैंने क्या किया और मैंने किस प्रकार विलाप किया ? ये सभी मैं कुछ भी नहीं समझ सकी। उस क्षणमें क्या जाने मेरे मूढ़ हृदयके अत्यन्त कठिन होनेसे, या इस निन्दित शरीरके बहुतर दुःखसमूह सहन करनेसे, या विधाता द्वारा मेरे कपालमें दीर्घकालीन शोकके विधानसे किंवा


१. रजनिकर ... । २. नीयमानम् । ३. व्यस्तहृदयेन । ४. अनक्रान्त । ५. पातालमिव ।

३१ का०

४१०कादम्बरी-[ कथायाम्-

भाजनतया जन्मान्तरोपात्तस्य दुष्कृतस्य, किं दुःखदाननिपुणतया दग्धदैवस्य, किमेकान्तवामतया दुरात्मनो मन्मथहतकस्य, केन हेतुना नोद्गच्छन्ति स्म तदपि न ज्ञातवती। केवलमतिचिराल्लब्धचेतना दुःखभागिनी वह्नाविव पतितमसह्यशोकदह्यमानमात्मानमवनौ विचेष्टमानमपश्यम्। अश्रद्दधाना च^१ असम्भावनीयं तत्तस्य ^२मरणमात्मनश्च जीवितम्, उत्थाय 'हा हा^३ किमिदमुपनतम्' इति मुक्त्तार्त्तनादा 'हा अम्ब ! हा ^४तात ! हा सख्यः !' इति व्याहरन्ती, 'हा नाथ ! जीवितनिबन्धन !^५ आचक्ष्व, क^६ मामेकाकिनीमशरणामकरुण^७ ! विमुच्य यासि ? । पृच्छ तरलिकां, त्वत्कृते मया यानुभूतावस्था^८। युगसहस्रायमाणः कृच्छ्रेण नीतो दिवसः । प्रसीद, सकृदप्यालप, दर्शय भक्तवत्सलताम्^९, ईषदपि विलोकय, पूरय मे मनोरथम्, आार्त्तास्मि, भक्तास्मि, अनुरक्तास्मि, अनाथास्मि, बालास्मि, अगतिकास्मि, दुःखितास्मि, अन-


चिरकालीनशुचः विहिततया विधिना निर्दिष्टतया। जन्मान्तरोपात्तस्य अन्यभावाजिर्र्तस्य दुष्कृतस्य पापस्य भाजनतया पात्रतया। दग्धदैवस्य ज्वलितभाग्यस्य दुःखदाननिपुणतया क्लेशप्रदानदक्षतया। दुरात्मनः पापिष्ठस्य मन्मथहतकस्य दुष्टमदनस्य एकान्तवामतया अत्यन्तप्रतिकूलतया। एषां मध्ये केन हेतुनेत्यर्थः। आकाशवाण्यानन्तरमेवालङ्कारमर्मज्ञैः करुणविप्रलम्भस्य स्वीकारादिह करुण एव रसः। अस्य च वितर्काख्यभावोऽङ्गमिति प्रेयो नामासङ्कारः।

केवलमिति। दुःखभागिनी क्लेशभागिनी अहम्, अतिचिरात् अधिकसमयात् अनन्तरं लब्धचेतना प्राप्तचेतना सती असह्यशोकेन सोदुमशक्येन शुचा दह्यमानं ज्वलन्तम् अत एव वह्नौ अनले पतितमिव विद्यमानम्, अवनौ भूमौ विचेष्टमानं शोकवेगेन स्पन्दमानम् आत्मानं स्वं केवलम् अपश्यम् व्यलोकयम्। क्रियोत्प्रेक्षा।

अश्रद्दधानेति। किञ्च, असम्भावनीयं हेतोरभावात् सम्भावनां विधातुमप्यशक्यम्, तस्य कुमारस्य तन्मरणं तत्प्राणवियोगः, तन्मरणे च आत्मनः स्वस्य जीवितं प्राणितम् अश्रद्दधाना अविश्वसती। उपनतम् उपस्थितम्। मुक्त्तार्त्तनादा व्यक्तार्त्तस्वरा। व्याहरन्ती कथयन्ती। निवध्यते साध्यतेऽनेनेति निबन्धनं कारणम्, करणे ल्युट्। लीवितनिबन्धन जीवनधारणकारण! कामार्यन्तदुर्व्यवहारेण गमनसम्भवेऽपि स्वरसमागमभिप्रायेणैव प्राणधारणत्त्वमेव प्राणधारणकारणमित्याशयः। आचक्ष्व कथय। हे अकरुण निर्दय! एकाकिनीम् असहायाम्, अशरणां रक्षकहिताम् 'शरणं गृहरक्षित्रोः' इत्यमरः। विमुच्य परित्यज्य। अवस्था दशा अनुभूता अनुभवविषयीकृता। युगसहस्रायमाणः युगसहस्रवदाचरमाणः। कृच्छ्रेण क्लेशेन नीतः प्रापितः। दर्शय प्रकाशय। मनोरथम् अभिलषितम्। आर्त्ता व्यथिता।


पूर्वजन्मार्जित पापोंकी भागिनी होनेसे, अथवा जले दैवकी दुःख देनेकी निपुणतासे, या खलप्रकृति दुरात्मा मदनके अत्यन्त प्रतिकूल होनेसे, अथवा किसी दूसरे कारणसे मेरे प्राण न निकले-यह भी मैं किसी प्रकार जान न सकी। किन्तु बहुत देरके बाद जब मुझे चेतना प्राप्त हुई तब मैंने केवल यही देखा कि मेरा शरीर असह्य शोकसे जलता हुआ मानो अग्निमें गिरनेके समान हो गया है जिससे चिरदुःखिनी मैं भूमि पर छटपट कर (तड़फड़ा) रही थी। उनका यह आकस्मिक मरण और अपना जीवन-धारण असङ्गत समझ उठकर मैं मुक्त कण्ठद्वारा आर्त्तस्वरसे-'हाय हाय, यह क्या उपस्थित हो गया ! हाय माता ! हाय पिता ! अरी सखियो !'-यों पुकारती पुकारती-'अरे नाथ ! अरे जीवनधारणके कारण ! कहो तो सही, इस प्रकार निर्दय होकर, मुझ रक्षकहीनाको अकेली छोड़ कर कहाँ जाने हो ? तरलिकासे पूछो तो, मैंने तुम्हारे लिए कितने क्लेशोंका अनुभव किया है। सहस्रयुगके समान लम्बा दिन, कैसे कष्टसे अतिवाहित किया (काटा) है ? प्रसन्न हो (कृपा) करके एक बार तो मुझसे बोलो ! भक्तवत्सलता दिखाओ। जरा भी मेरे सम्मुख तो देखो ! मेरे मन की अभिलाषा पूर्ण करो। मैं पीड़ित हूँ तुम्हारे भक्ता हूँ, एवं तुम्हारे प्रति अनुरक्ता हूँ, अनाथा हूँ, बाला हूँ, निराश्रया हूँ, दुःखिता हूँ, तेरेसे अतिरिक्त


१. अश्रद्दधानश्च, अश्रद्दधानाम्।
२. मरणकारणम्।
३. क्वचित् द्विरुक्तिर्न विद्यते।
४. मात:।
५. निवन्धनमाचक्ष्व।
६. किं।
७. अकरुण।
८. यानुभूता व्यथा।
९. कृतज्ञजनवत्सलताम्, प्रकटय परमां कृपालुताम्

महाश्वेताविलापवर्णनम् ७५ ] चन्द्रकला-विद्योतिनीसहिता । १६१

न्यशरणास्मि, मदनपरिमूतास्मि, किमिति न करोषि दयाम् ? १ । कथयं, किमपराद्धम्, किंवा नानुष्ठितं मया, कस्यां वा नाज्ञायामाहृतम्, कस्मिन् वा त्वदनुकूले नामिरतम्, येन कुपि तोऽसि॑ि । दासीजनम् अकारणान् परित्यज्य व्रजन् न बिभेषि कौलीनात् ? । अलीकानुराग-प्रतारणै-कुशलया किंवा मया वामया पापया । आः, अहमद्यापि प्राणिमि, हा हतास्मि मन्द-भागिनी । कथं से न त्वम् न तातः, न विनयः, न बन्धुवर्गः, न परलोकः, धिङ् मां दुष्कृ-तकारिणीम्, यस्याः कृते तवेयमीदृशी दशा वर्तते । नास्ति मत्सद्दशी नृशंसहृदया, याह-मेवंविधं भवन्तमुत्सृज्य गृहं गतवती । किं मे गृहेण, किमम्बया, किंवा तातेन किं बन्धुभिः, किं परिजनेन । हा कसुपयामि शरणम् ? अयि दैव ! दर्शय दयाम्', विज्ञापयामि त्वां देहि

अगतिका निराश्रया । न विद्यते अन्यद् स्वभिन्नं शरणं रक्षकं यस्याः सैवंविधाऽस्मि । मदनेन कामेन परिभूता पराजिता।

कथयेति । किमपराद्धं कोऽप्यपराधः कृतो मयेति शेषः । आज्ञायां तवादेशे नाहतं नादरः कृतः । त्वदनुकूले कर्मणि, नाभिरतं मया नासक्तम् अकारणात् निमित्तमन्तरेण दासीजनं मद्रूपमं नृत्य-लोकमित्यर्थः । कौलीनात् शरणागतपरित्यागजनिताज्जनापवादात् न विभेषि भयं न प्राप्नोषि । 'कौलीनं पशुनियुद्धे कुलीनस्वापवादयोः' इति व्याडिः ।

अलीकेति । अलीकः संवृतोनामक्रप्रयोजनोत्पादनालाभार्थादसत्यवदवगम्यमानः, योऽनुरागः तेन यद् प्रतारणं कुमारस्य वञ्चनं तत्र कुशलया दक्षया वामया मत्तस्ता नामेव प्रतिकूलतया दुष्कृतकारन्र्या-दित्यर्थः, पापया दुष्कृतविधायिन्या ब्रह्महत्याहेतुत्वादिति भावः, मया महाश्वेतया किं वा प्रयोजनं भवे-दिति शेषः ।

आ इति । आ इति पीडार्यकमव्ययम् । 'वास्तु स्यात्कोपपीडयोः' इत्यमरः । अद्यापि एतत्कालमपि प्राणिति जीवामि । मे मन श्वं न जातः प्राणत्यागात् । तातोऽपिपरितातोरि न पञ्चे विद्यत इति शेषः, आदे-शाभावेऽपि पूर्वविषयव्यवहारेण विरविरागादित्याशयः । विनयः कुलक न्याया दुपदेशगुणः सदाचारोऽपि न विद्यते, इहागमनादिति भावः । बन्धुवर्गः स्वजनलोकोऽपि पूर्ववत् स्नेहेन पदप्राप्ती नवेद, इहागम-नेनैव तेषामपि विरविरागादित्याशयः । परलोकः प्रेत्यभावोऽपि न विद्यते, ब्रह्महत्याजनितमहापातकित्वा-दित्यभिप्रायः । इह 'तात' इत्यादीनां पदानाममुपादामेन न्यूनपदस्वदोषः समापतति किन्तु विषादम-ग्नस्वाच्च दोषः प्रत्युतगुण एव । तथा चोक्तं साहित्यदर्पणे-

'उक्तावानन्दमग्नादेः स्यान्यूनपदता गुणः ।' इति ।

मन्दिनी । मत्सद्दशी मसमा नृशंसहृदया क्रूरचित्ता । उत्सृज्य त्यक्त्वा । वन्धुभिः स्वजनैः । शरणं रक्षकम् उपयानि गच्छानि । विज्ञापयामि निवेदयामि, दयितो वल्लभः कुमार एव दयिता अवश्यमनं-

कोई मेरा रक्षक नहीं है एवं कामदेवसे पराजित (हारी हुई हूँ, तो भी क्यों मुझ पर दया नहीं करते ? कहो तो सही मैंने क्या अपराध किया है ? तुम्हारे किस कार्यको मैंने नहीं किया है ? तुम्हारे किस आदेशका पालन नहीं किया है ? तुम्हारे अनुकूल किस कार्यमें मैं आसक्त नहीं थी कि जिससे कुपित होकर दासजनको अकारण छोड़कर चले जाते हो और लोकान्वादका भय नहीं करते ? मिथ्या अनुराग दिखाकर प्रतारणा करनेमें निपुण, सभी प्रकारसे प्रतिकूल एवं पापिनी मुझसे—अहो ! जो मैं अब तक भी जीती हूँ—आपको क्या ? अरे, मैं हत-भागिनी विनष्ट हुई । यह कैसे हुआ कि तुम मेरे नहीं हुए, पिता भी मेरे नहीं हुए, कुलकथाका आचार भी नहीं रहा, बन्धुवर्ग भी नहीं रहे और परलोक भी नहीं रहा (अर्थात् कुछ भी मेरा नहीं रहा ) ? मुझ पापिनीको धिक्कार है, क्योंकि—जिसके लिए आपकी ऐसी अवस्था हुई ! हाय हाय, मेरे समान निष्ठुरचित्त (क्रूरहृदय ) वाली कौन होगी जो मैं आपको ऐसी दशामें छोड़कर घर चली गई ! अरे ! मुझे घरसे क्या प्रयोजन ? मातसे क्या प्रयोजन ? पितासे क्या प्रयोजन ? बन्धुओंस क्या प्रयोजन ? परिजनोंसे भी क्या प्रयोजन ? हाय ! अब मैं किसकी शरण हूँ ! अरे दैव ! [ अपनी ] दया दिखाकर, तुमसे निवेदन करती हूँ कि मेरे प्राणवल्लभको तिरसे


१. क्वचिद् 'कथय' इति पदं नास्ति । २. कचित् 'असि' इति क्रियापदं न विद्यते । ३. दातजनम् । ४. किप्रकरण०" । ५० दाहम०" । ६. कथं न त्वं जनः । ७. कचित् 'न तव' इति न विद्यते । ८. मथि । ९. नवि दैव ! दर्शनं दयाम्, अयि दैव ! निर्गुण !*** ।

४६२ | कादम्बरी- | [ कथायाम्-

दयितं दक्षिणाम्। भगवति! भवितव्ये कुरु कृपाम्, पाहि वनितामनाथाम्। भगवत्यो वनदेवताः! प्रसीदत, प्रयच्छतास्य प्राणान्। अम्ब!^२ वसुन्धरे! सकललोकानुग्रहजननि!^३ किमर्थं^४ नानुकम्पसे! तात! कैलासेश!^५ शरणागतास्मि ते दर्शय दयालुताम्' इत्येतानि चान्यानि च व्याक्रोशन्ती कियद्वा स्मरामि प्रगृहीतेव, आविष्ठेव उन्मत्तेव भूतोपहतेव व्यलपम्। उपर्युपरि पतित^६नयनजलधारानिकरच्छलेन विलीयमानेव द्रवतामिव नीयमाना जलाकारेणात्मीक्रियमाणा, प्रलापाक्षरैरपि दशनमयूखैलैश्चितानुगततया साश्रुधारैरिव निष्पतद्भिः शिरोरुहैरप्यविरलविगलितकुसुमतया मुक्ताबाष्पजलबिन्दुभिरिवाभरणैरपि प्रसृतै^९र्विमल-मणि-

जीयं दम्पं तां देहि प्रयच्छ। भवितव्यते अदृष्ट! बनायां वनितां नारीं पाहि रक्ष, तदीयप्राणवह्लभप्रदा-नेनेत्यभिप्रायः। वनदेवताः अरण्याधिष्ठात्र्यो देव्यः। सकलेषु समस्तेषु लोकेषु जनेषु अनुग्रहं जनयति उत्पादयतीति सा तत्सम्बुद्धौ रूपम्। कैलासेश शम्भो! दर्शय प्रकटय दयालुतां कृपालुतां दयितस्य जीवनप्रदानेनेत्याशयः। व्याक्रोशन्ती तारस्वरेण रुदन्ती। कियद्वा स्मरामि, यत्तानि सम्प्रति कथयामी-त्याशयः। प्रगृहीतेव दुष्टग्रहैराश्रितेव, आविष्ठेव विकाराधिष्ठितेव, उन्मत्तेव उन्मत्तवायुव्यथितेव, भूतैः वैतालैः उपहतेव विकृतिकृतेव व्यलपं विलापनमकरवम्।

इह 'प्रगृहीतेव' इत्यादि 'भूतोपहतेव' इत्यन्तं चतसृणामेव वाच्यक्रियोत्प्रेक्षाणां परस्परं निरपेक्षेण संसृष्टिः। तथा 'कियद्वा स्मरामि' इति वाक्यस्यान्यवाक्यान्तःपातित्वेन गर्भितत्वदोषस्तु न शङ्क्यः, 'गर्भितत्वं गुणः क्वापि' इति दर्पणेऽभिदिशा तस्यैशिकावेगद्योतनेन विच्छित्यतिशयात् प्रत्युत-गुणवत्त्वैवाङ्गीकारादिति कुशला वदन्ति।

उपरीति। उपर्युपरि ऊर्ध्वोर्ध्वं पतितानां च्युतानां नयनजलानाम् अश्रूणां धारानिकरच्छलेन प्रवा-हसमूहव्याजेन विलीयमानेव भूतले लयं प्राप्नुवन्तीव, द्रवतां तरलतां नीयमानेव दैवेन प्राप्यमानेव, तया जलाकारेण सलिलस्वरूपेण सात्मीक्रियमाणेव निजरूपतां प्राप्यमाणेव सहं मुहुर्मुहुरेनमन्वन्वचम्? इत्युत्तरक्रियाभिः सम्बन्धः।

इह तित्व एव सापह्नवा वाच्याक्रियोत्प्रेक्षाः, तासां च परस्परं नरपेक्षेण संसृष्टिः।

प्रलापेति। प्रलापाक्षरैरपि अचेतनैर्हाहेत्यादिपरिदेवनकरणैरपि, दशनानां दन्तानां ये मयूखाः किरणा-स्तेषां शितानिः अभ्रैः अनुगततया उच्चारणसमये तेषामेवानुसृततया कारणेन, साश्रुधारैरिव सनयनाम्बु-प्रवाहैरिव दन्तकिरणाप्राणामेवाश्रुप्रवाहवद्द्वगतेरित्यशियः, निष्पतद्भिः वदनान्निःसरद्भिः सद्भिः उपेता, शिरोरुहैः केशैरपि अविरलं सान्द्रं यथा स्यात्तथा विगलिनानि हरितानि कुसुमानि पुष्पाणि येम्यः तेषां, भावस्तथा तया कारणेन, मुक्ताः शोकात्यक्त्या बाष्पजलबिन्दवो नयनाम्बुकणा यैस्तथोक्तैरिव सदृशूपेता, तथा आभरणैरपि ननाभूषणैरपि प्रसृतानि निःसृतानि विमलमणिकिरणाः स्वच्छरत्नरत्नप्रभ एव अश्रूणि नयनाम्बूनि येम्यः तेषां मावरतया, कारणेन, प्ररुदितैरिव, कुमारशोकेन कृताश्रुपातैरिव सद्भिः उपेता अन्विता अहम्।


दान दे। हे माहात्म्यशालि अदृष्ट! कृपाकर मुझ अनाथ ललना की रक्षा कर। अरे माहात्म्यशालि वनदेवतागण! प्रसन्न होकर [ मुझ पर उपकार कर ] इनको जीवन दो। हे सकललोकानुग्रहकारिणि, जननि, वसुन्धरे! दया क्यों नहीं करती हो? तात, कैलासनाथ! अब मैं आपकी शरणमें आई हूँ, मेरे प्रति [ अपनी ] दयालुता दिखलाइए—इस प्रकार एवं अन्यान्य अनेक प्रकारसे विलाप करती मैं कहाँ तक स्मरण करूँ—दुष्टग्रहसे पकड़ी हुईके समान, विकारग्रस्तके समान, उन्मत्तके समान एवं भूताविष्ट (भूतपीड़ित) के समान केवल विलाप ही करने लगी। उस क्षण नयनसे निरन्तर निस्सृत (गिरते) अश्रुधारासमूहके बहाने भूमिमें ही मानो मैं लीन हो जाती थी, इस बहाने मानो द्रवीभूत हो (पिघली) जाती थी एवं उस बहाने मानो जलाकारमें परिणत होती (पानी पानी हुई) जाती थी। मेरे प्रलापके अक्षर भी दन्त-रश्मियोंके पीछे-पीछे आते थे इससे मुझे यह प्रतीत होता था कि मानो वे अश्रुधारा-सहित बाहर निकलते हैं। मस्तकके केशकलाप भी बहुतसे पुष्प लगातार गिराते थे इससे यह प्रतीत होता था कि मानो वे भी आँसुओं बूँदें ढलकाते हैं, आभूषण भी निर्मलमणिकिरण-रूपी आँसू गिराते थे, इससे


१. क्वचित् 'दयितं' इति पदं न दृश्यते ।
२. अम्ब ।
३. ˚जननित्प्रभवति ।
४. रजनि ! नानुकम्पसे ।
५. कैलास !
६. निपतित ˚
७. दशनविशदा ˚
८. ˚विगलितकुसुमतया ।
९. प्रसृत ˚ ।

महाश्वेताविलापवर्णना ७५] चन्द्रकला-विद्योतिनीसहिता । ४६३

किरणाश्रुतया प्ररुदितैरिवोपेता, तज्जीवितायैवात्ममरणाय स्पृहयन्ती, मृतस्यापि सर्वात्मना हृदयं प्रवेष्टुमिवेच्छन्ती, करतलेन कपोलयोराश्यानचन्दन-श्वेतजटामूले च ललाटे निहितसरस-बिसयोश्चांसयोर्मलयज-रस-लव-लुलित-कमलिनी-पलाशावगुण्ठिते च हृदये परामृशन्ती^३, 'पुण्डरीक ! निष्ठुरोऽसि, एवमप्यार्त्तां न गणयसि माम्' इत्युपालभमाना मुहुर्मुहुरेनमन्विनयम्, मुहुर्मुहुः पर्यचुम्बं मुहुर्मुहुः^४ कण्ठे गृहीत्वा व्याक्रोशम् । 'आः पापे ! त्वयापि मत्प्रत्यागमनकालं यावदस्यासवा न रक्षिताः' इति तामेकावलीमगहर्यम् । 'अयि भगवन् ! प्रसीद, प्रत्युज्जीवयैनम्'इति मुहुर्मुहुः कपिञ्जलस्य पादयोरपतम् । मुहुर्मुहुश्च^५ तरलिकां कण्ठे गृहीत्वा प्रारुदम् ।


इह 'साम्रुप्रेरिव'इत्यत्राश्रुधारासाहित्येनोत्प्रेक्षणाद्, गुणोत्प्रेक्षा, 'मुक्तबाष्पजलबिन्दुभिरिव' इत्यत्र बाष्पजलबिन्दुमोचनोत्प्रेक्षणात् क्रियोत्प्रेक्षा, ............'किरणाश्रुतयेत्यत्र निरङ्गकेवलरूपकम्, 'प्ररुदितैरिव' इत्यत्र क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः । एतेन चेतनशून्यानामपि प्रलापाक्षरप्रभृतीनां शोकसूचनेन सचेतनायाः स्त्रीयायाः शोकाधिक्यं सूचितमिति कुशलाः ।

तदिति । तस्य कुमारस्य जीविताय जीवनलाभाय इव आत्ममरणाय स्वनिधनाय स्पृहयन्ती अभिलषन्ती प्रजापतिनिकटे विनिमयरूपेनेत्याशयः । क्रियोत्प्रेक्षा ।

मृतस्येति । सर्वात्मना निखिलोधोगेन, मृतस्यापि उपरतस्यापि कुमारस्य हृदयं मानसं प्रवेष्टुं प्रवेशं कर्तुम् इच्छन्ती अभिलषन्तीव । उत्फालङ्कारः ।

करेति । करतलेन स्वहस्तेन, कपोलयोः कुमारस्य गण्डयोः आश्यानचन्दनेन शुष्ककणयजेन श्वेतानि शुभ्राणि जटानां मूलानि यत्र तयोके, कुमारस्य ललाटे भाले च, तथा निहितानि मदनज्वरप्रशमनाय कपिञ्जलेन स्थापितानि सरसानि सजलानि मृणालानि बिसानि ययोस्तयोः, अंसयोः कुमारस्य स्कन्धयोश्च, तथा मलयजरसस्य चन्दनद्रवस्य लवैः कणैः लुलितं चिह्नितं कमलिनीपलाशं नलिनीदलं तेन अवगुण्ठिते लाञ्छादिते, हृदये कुमारस्य उरसि च, परामृशन्ती स्पर्शं कुर्वन्ती अहम् ।

पुण्डरीकेति । निष्ठुरः क्रूरोऽसि, एवमपि पूर्वोक्तप्रकारेणापि आर्त्ता व्यथितां मां महाश्वेतां न गणयसि नाज्ञां विधत्से' इति एवम् उपालभमाना तिरस्कुर्वाणा, मुहुर्मुहुः वारंवारम् एनं पुण्डरीकम् अन्वनयम् अनुनीतवती । पर्यचुम्बं चुम्बितवती । व्याक्रोशं तारस्वरेण व्यलपम् ।

आ इति । पापे एकावलि ! त्वया भवत्यापि मत्प्रत्यागमनकालं मदीयागमनसमयम् । अस्य पुण्डरीकस्य असवः प्राणा न रक्षिताः त्राताः मदीयागमनसूचनात्मकसमाश्र्वासनेनेत्याशयः । ताम् एकावलीं प्रत्यावर्त्तितं मदीयं तं हारम् अगहर्यं गर्हितवती । एनं पुण्डरीकं प्रत्युज्जीवय पुनर्जीवितं कुरु । पादयोः श्ररणयोः अपतं पतितवती । प्रारुदं रोदनमकार्यम् ।


यह प्रतीत होता था कि वे भी मानो रुदन करते हैं। इन सबके साथ मैं उनके जीवनलाभके लिए ही; मानो अपने मरनेकी अभिलाषा करती थी। उनके मर जाने पर भी सब प्रकारसे ही मानो उनके हृदयमें प्रवेश करनेकी इच्छा करती थी। उनके गाल पर, सूखे चन्दन-लेपसे शुभ्रवर्ण जटामूलवाले ललाट पर सरस मृणालसे आच्छादित स्कन्ध पर और चन्दन बिन्दुलाञ्छित एक कमल-पत्र जहाँ रखा था—ऐसे हृदय पर हाथ फेरती फेरती—'पुण्डरीक ! तुम बड़े निष्ठुर हो, क्योंकि—तुम्हारे शोकसे मैं इस प्रकारकी यातनाका भोग करती हूँ, तथापि तुम मेरी गणना ही नहीं करते हो' इस प्रकार उलाहना देती मैं बारंबार उन्हें अनुनय करने लगी, बारंबार चुम्बन करने लगी एवं बारंबार उनके कण्ठमें लिपट कर ऊँचे स्वरसे रुदन करने लगी। 'अरे ! पापिनि ! मेरे लौट आनेके समय तक तूने भी इनके प्राणकी रक्षा न की ?' इस प्रकार कहकर उस एकलरी मुक्तावलीकी निन्दा करने लगी। अरे भगवन् ! तुम प्रसन्न होकर इनको पुनः जीवित करो—यों कहकर बारंबार कपिञ्जलके पैरोंपर गिरने लगी और बारंबार तरलिकाके गले पकड़ (लिपट) कर रुदन करने लगी। आज विचार करने पर भी मुझे स्मरण नहीं आता कि


१. तज्जीविकायैव, तज्जीविवाय च । २. पृशन्ती । ३. क्वचित् द्विरुक्तिर्नास्ति, क्वचित् द्वेषे द्विरुक्तिर्विद्यते । ४. मुहुः । ५. मुहुः ।