भारतकोश
संग्रह पर लौटें

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ
१२०कादम्बरी-[ कथामुखे-

बलिपिण्डम्; आसन्नवापी-कलहंसपोत-भुज्यमान-नीवारबलिम्; एणी-जिह्वापल्लवोपलिह्य-मानमुनिबालकम्; अग्निकार्यार्द्धदग्धसिमसिमायमान-कुश-समिद्व्रतितम्; उपल-भग्न-नारिकेल-रसस्निग्धशिलातलम्; अचिर-क्षुण्ण-वल्कल-रस-पाटलभूतलम्; रक्तचन्दनोप-लिप्तादित्यमण्डल-निहित-करवीर-कुसुमम्; इतस्ततो विक्षिप्त-भस्मलेखा-लङ्कृत-मुनिजन-भोजन-भूमिभागम्; परिचित-शाखामृग-कराकृष्टयष्टि-निष्काश्यमान-प्रवेश्यमान-जरदन्ध-तापसम्, इन-करभकार्द्धोपभुक्तपतितैः सरस्वती-भुजलता-विगलितैः शङ्खवलयैरिव मृणाल-

गलन्तेति। आसन्नवापीनां निकटवर्त्तिदीर्घिकाणां ये कलहंसपोताः कलहंसशिशवः तैर्भुज्यमाना भक्ष्यमाणा नीवाराणां मुन्यन्नानां बलय उपायनानि यस्मिन् स तं तादृशम्।

एणीति। एणीभिः हरिणीभिः जिह्वापल्लवैः प्रसारिताभिः रसनाभिः उपलिह्यमाना आस्वाद्यमानाः स्पृश्यमाना इत्यर्थः मुनिबालका ऋषिकुमारा यस्मिन् स तं तादृशम्।

अग्नीति। अग्निकार्ये हवने अर्द्धदग्धानि अर्द्धभस्मीभूतानि अत एव सिमसिमायमानानि 'सिम सिम' इत्येवं शब्दं कुर्व्वणानि कुशसमिद्धसुमानि दर्भेधः पुष्पाणि यत्र तं तादृशम्।

उपलेति। उपलैः प्रस्तरैः भग्नानि प्रस्तरान्तरेषु निधाय मर्दितानि यानि नारिकेळानि लाङ्गली-फलानि तेषां रसैः द्रवैः सल्लिलैर्वा स्निग्धानि चिक्कणानि तैलाक्कीकृतानि वा शिलातलानि शय्यामृत-प्रस्तरा यत्र तत्र।

अचिरेति। अचिरक्षुण्णानां तरुभ्यः तत्कालनिःसारितानां वल्कलानां त्वचां रसैः निर्यासैः पाटलं श्वेतरक्तरूपं पृथ्वीतलं यस्मिन् स तं तादृशम्।

रक्तेति। रक्तचन्दनेन पत्राङ्गेन उपलिप्ते आलिम्बिते चादित्यमण्डले रविबिम्बे निहितम् आदित्याय समर्थ्य स्थापितं करवीरकुसुमं हयमारपुष्पं यस्मिन् स तं तादृशम्।

इत इति। इतस्ततः समन्ताद् विक्षिप्ताभिः प्रमृताभिः भस्मनां भूतीनां 'भूतिर्भसितभस्मनि' इत्य-मरः, लेखाभिः पङ्क्तिभिः लङ्वकृताः सीमाविधानात् भूषिताः मुनिजनानाम् ऋषिगणानां भोजनभूमिभागा अशनस्थलदेशा यस्मिन् स तं तादृशम्। पादस्पर्शादिनिवृत्तये भस्मरेखाविहितवमित्याशयः।

परिचितेति। परिचितैः पूर्वत एव समुत्पन्नपरिचयैः शाखामृगैः कपिभिः कराकृष्टयष्ट्या हस्ताकर्षित-लगुडेन निष्काश्यमानाः केचिद्ववनाद्बहिः निःसार्यमाणाः प्रवेश्यमानाः केचिद्वनमध्ये नीयमानाश्च जरन्तः परिणतवयसः अन्धाः नेत्रहीनाः तापसाः तपस्विनो यस्मिन् स तं तादृशम्।

इनेति। इनकरभकैः हस्तिशावकैः अर्द्धोपभुक्तैः अर्द्धचर्व्वितैः पश्चात् पतितैः कथमपि तन्तुश्लेष्या-च्युतैः, सरस्वत्या भारत्या भुजलताया बाहुवल्लयाः सकाशात् विगलितैः स्रस्तैः शङ्खवलयैरिव त्रिरख-कटकैरिव विद्यमानैः मृणालशकलैः बिसखण्डैः कश्मापितं कर्बुरितम्। 'शङ्खवलयैरिव इत्यत्र जात्युत्प्रेक्षा। ततश्च सरस्वत्या अनवरतस्थितत्वं गम्यते, इत्यलङ्कारेण वस्तुध्वनिः।

हो जाने वाले आहुति देने के मन्त्र पढ़ रहे थे, कहीं मैनायें वेद-मन्त्रों का पाठ कर रही थीं, कहीं बहुतों इष्टदेवों के लिए दी गयी बलि खा रहे थे, कहीं पास ही की बावलियों से आये हुए कलहंसों के बच्चे नीवार की बलि खा रहे थे, कहीं हरिणियाँ पल्लवों के समान लाल कोमल जीभों से मुनियों के बच्चों को चाट रही थीं, कहीं हवनकुण्डों की आग में पड़े हुए अधजले गीले कुश, समिधा और फूल 'सिमसिम' शब्द कर रहे थे, कहीं शिलाओं के तल पत्थरों द्वारा तोड़े गए नारियलों के रस से गीले हो रहे थे, कहीं तत्काल ही के निचोड़े गये वल्कलों के रस से भूमि लाल हो उठी थी, कहीं लाल चन्दन से रँगे गये सूर्यमण्डल पर कनेर के फूल चढ़ाए गए थे, कहीं इधर-उधर भस्म की रेखाओं द्वारा मुनियों के भोजन करने की जगहों को घेर दिया गया था, कहीं परचे हुए बन्दर आश्रम के बूढ़े और अन्धे तपस्वियों की छड़ी पकड़ कर उन्हें आश्रम से बाहर ले जाते और फिर भीतर ले आ रहे थे, कहीं हाथियों के बच्चे द्वारा आधे चबाकर छोड़े गये मृणाल के टुकड़ों से आश्रम चित्रित हो रहा था। वे ऐसे लग रहे थे मानो सरस्वती की भुजाओं से गिरे


१. ०-सिमसिमायमान०। ०मिसिमिसायमान, सिमिसिमायमान।
२. ०-समिद्वेषु।
३. नारिकेर ०
४. मण्डलविनिहित ।
५. ०-लेखावत ० भोजनभूमिपरिहारम्।
६. कराकृष्टेनोन्सार्यमान ०।
७. इन्भ०।
८. शङ्खकवालिभिः।

जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १२१

शक्लैः कल्पमाषितम्, ऋषिजनार्थमेणकैर्विषाण-शिखरोत्खन्यमानविविध-कन्दमूलम्, अम्बु-पूर्णपुष्कर-पुटैर्वनकरिभिरापूर्य्यमाण-विटपालवालकम्, ऋषिकुमाराकृष्यमाणवनवराह-दंष्ट्रान्तराल-लग्न-शालूकम् . उपजात-परिचयैः कलापिभिः पक्षपुटपवन-सन्धुक्ष्यमाण मुनि-होम-हुताशनम्, आरब्धामृत-चरु-चारुगन्धम्, अर्द्धपक्व-पुरोडाश-^१पुण्य-परिमलामोदितम्, अविच्छिन्नाज्यधारा-हुति-हुतभूग्हुङ्कार-मुखरितम्, उपचर्य्यमाणातिथिवर्गम्, पूज्यमान-पितृ-दैवतम्, अच्च्यैमान हरि-हर-पितामहम्, उपदिश्यमान-श्राद्धकल्पम्, व्याख्यायमान-

ऋषीति । ऋषिजनार्थं मुनिगणभक्षणार्थम् एणकैः हरिणैः (कर्तृभिः), विषाणशिखरैः शृङ्गप्रान्तैः (करणैः) उत्खन्यमानानि उत्पाट्यमानानि विविधानि अनेकानि विचित्राणीत्यर्थः, कन्दः शालूकानि पंकजादीनां मूलानीत्यर्थः, मूलानि मूलकप्रभृतीनि च यस्मिन् स तं तादृशम् ।

अम्बुपूर्णेति । वनकरिभिः अरण्यहस्तिभिः (कर्तृभिः) अम्बुभिः सलिलैः पूर्णानि भृतानि यानि पुष्करपुटानि शुण्डाग्राणि तैः तादृशैः (करणैः) 'शुण्डाग्रं त्वस्य पुष्करम्' इत्यमरः, आपूर्यमाणानि क्रिय-माणानि विटपानां खण्डयित्वा सामाद्य रोपितानां स्कन्धानाम् आलवालानि आवापस्थानानि तरुमूल-सलिलधारणगर्तानीत्यर्थः, यस्मिन् स तं तादृशम् ।

ऋषीति । ऋषिकुमारकैः मुनिशिशुभिः आकृष्यमाणानि आकर्षणं प्राप्यमाणानि वनवराहाणाम् अरण्यशूकराणां दंष्ट्रान्तराललग्नानि दशनमध्यसंसक्तानि शालूकानि पद्मानां कन्दा मूलानीति तात्पर्यम् यस्मिन् तं तादृशम् । 'शालूकमेषां कन्दः स्यात्' इत्यमरः ।

उपजातेति । उपजातपरिचयैः पूर्वस्मादेव कालात् ऋषीणामहिंस्रस्वभावशायिभिरिति यावत् । कलापिभिः मयूरैः पक्षपुटानां पवनेन वातेन सन्धुक्ष्यमाणाः प्रज्वाल्यमाना ऋषीणां हवनार्थं हुताशना अग्नयो यत्र तं तादृशम् । तत्तद्विशेषणदानैः तपोवनस्यात्यन्तशान्तरूपं व्यञ्जितम् ।

आरब्धेति आरब्धः पचनाय प्रवर्तितः योऽमृतचरुः आज्ययुक्तपयवौदनः तस्य चारुः मनोहरः गन्धः आमोदो यत्र स तं तादृशम् ।

अर्द्धेति । अर्द्धपक्वः अर्द्धविक्लितिमापन्नो यः पुरोडाशः हवनीयद्रव्यविशेषः तस्य पुण्यपरिमलेन सौरभेण लामोदितं हर्षितम् ।

अविच्छिन्नेति । अविच्छिन्ना अनुटिता या आज्यधारा सर्पिःसम्पातः तस्या आहुत्या हवनेन यो हुतभुजः अग्नेः हुङ्कारः 'हुम्' इति शब्दः तेन मुखरितं वाचालितम् । अत्र 'हुतभुग्झङ्कार' इति पाठो न निर्दोषः अग्नेः झङ्कारोत्पादनामावात् ।

उपचर्येति । उपचर्य्यमाणः सत्कारं प्राप्यमाणः अतिथिवर्गः अभ्यागतसमूहो यत्र तं तादृशम् ।

पूज्यमानेति । पूज्यमानानि आभ्युदयिकादिश्राद्धेन षोडशोपचारादिना पञ्चोपचारादिना वा अर्च्य-मानानि पितरः पितृपितामहादयः दैवतानि देवताश्च यत्र तं तादृशम् । षोडशोपचाराणां पञ्चोपचाराणाञ्च साङ्ख्यिकप्रपादो नियमा द्रष्टव्याः ।

अर्च्यमानेति । अर्च्यमानाः पूज्यमानाः, हरिनारायणः, हरो महेश्वरः, पितामहः प्रजापतिश्च एते यस्मिन् स तं तादृशम् ।

उपदिश्येति । उपदिश्यमानः पाठ्यमानः श्राद्धकल्पः आश्वलायनादिनिर्मितः श्राद्धविधियंत्र तं तादृशम् ।

व्याख्यायेति । व्याख्यायमाना अर्थद्वारा प्रतिपाद्यमाना यज्ञविद्या दर्शपौर्णमासादियज्ञविधायकं शास्त्रं यस्मिन् स तं तादृशम् ।

हुए शंख के कंगन हों, कहीं हरिण अपनी सींगों से ऋषियों के लिए कई प्रकार के कन्दमूल उखाड़ रहे थे, कहीं जंगली हाथी अपनी सूड़ों में पानी लेकर आश्रम के वृक्षों को सींच रहे थे, कहीं ऋषियों के बच्चों द्वारा जंगली सूअरों की दाढ़ों के अन्दर लगे हुए कमलों के कन्द खींचे जा रहे थे, कहीं परचे हुए मोर अपने पंखों की हवा से मुनियों के हवन की आग को सुलगा रहे थे, कहीं चरु की मनोहर गन्ध चारों ओर फैल रही थी, कहीं आधे पके हुए पुरोडाश की पवित्र गन्ध से वह आश्रम सुगन्धित हो रहा था, कहीं हवनकुण्डों में लगातार अटूट धारा से घी की आहुति दी जा रही थी जिससे अग्नि में से 'हुं' 'हुं' का शब्द हो रहा था, कहीं


^१. ०००"पुण्यपरिमला, पुरोडाशपरिमला००० । ^२. ०ग्भङ्कार०००, ०ङ्कार००० । ^३. ०अभ्यर्च्यमान००० । ^४.रदिरदन्तान००० ।

२६ का० कथा०

१२२कादम्बरी-[ कथामुखे-

यज्ञविद्यम्, आलोच्यमान¹-धर्म्मशास्त्रम्, पठ्य²म(न-विवध-पुस्तकम्, विचार्य्यमाण-सकल-शास्त्रार्थम्, आरभ्यमाण-पर्णशालम्, उपलिप्यमानाजिरम्, उपमृज्य³मानोटजाभ्यन्तरम्, आबध्यमानध्यानम्, साध्यमान-मन्त्रम्, अभ्यस्यमान-योगम्, उपह्रिय⁴माण-वनदेवतावलिम्, निर्वर्त्त्यमान-मौञ्जी⁵मेखलम्, प्रक्षाल्य⁶मान-वल्कलम्, उपसंगृह्यमाण-समिधम्, संस्क्रिय⁷माण-कृष्णाजिनम्, गृह्यमाण-गवेधुकम्, शोष्य⁸मान-पुष्करम्, प्रथ्यमानाक्षमालम्, गृह्यमाण-

आलोच्येति। आलोच्यमानानि हृदये विचार्यमाणानि धर्मशास्त्राणि मन्वादिप्रणीतसंहिता यस्मिन् स तं तादृशम्।

पठ्येति। पठ्यमानानि अधीीयमानानि विविधानि अनेकप्रकाराणि पुस्तकानि शास्त्राणि यत्र स तं तादृशम्।

विचार्येति। विचार्यमाणा युक्त्या स्थाप्यमानाः सकलशास्त्रार्थाः समस्तवेदादिविषया यस्मिन् स तं तादृशम्।

आरभ्येति। आरभ्यमाणाः विरचितुं प्रवर्त्यमानाः पर्णशालाः उटजा यस्मिन् स तं तादृशम्।

उपलिप्येति। उपलिप्यमानानि गोमयादिना संस्क्रियमाणानि अजिराणि प्राङ्गणानि यत्र स तं तादृशम्। 'अजिरं चत्वरोऽङ्गणम्' इत्यमरः।

उपमृज्येति। उपमृज्यमानानि शोधन्यादिनि परिस्क्रियमाणानि उटजानां पर्णशालानाम् अभ्यन्तराणि मध्यानि यस्मिन् स तं तादृशम्।

आबध्येति। आबध्यमानं विधीयमानं ध्यानम् एकप्रत्ययधारा यत्र स तं तादृशम्।

साध्येति साध्यमानः हवनादिना सिद्धिं लम्भ्यमानः मन्त्रो यस्मिन् स तं तादृशम्।

अभ्यस्येति। अभ्यस्यमानः मुहुर्मुहुः क्रियमाणः योगश्चित्तवृत्तिनिरोधो यस्मिन् स तं तादृशम्।

उपह्रियेति। अपह्रियमाणाः समर्प्यमाणाः वनदेवताभ्यः अरण्याधिष्ठात्रीभ्यो बलयः पूजावस्तूनि यस्मिन् स तं तादृशम्।

निर्वर्त्येति। निर्वर्त्यमाना निष्पाद्यमाना मौञ्जी मुञ्जनिर्मिता मेखला यस्मिन् स तं तादृशम्।

प्रक्षाल्येति। प्रक्षाल्यमानं जलेन निर्मलीक्रियमाणं वल्कलं त्वग् यस्मिन् स तं तादृशम्।

उपेति। उपसंगृह्यमाणा उपादीयमानः समिध एधांसि यस्मिन् स तं तादृशम्।

संस्क्रीति। संस्क्रियमाणं घर्षणादिना विशुद्धीक्रियमाणं कृष्णाजिनं कृष्णसारमृगचर्म यस्मिन् तं तादृशम्।

गृह्णेति। गृह्यमाणा आदीयमाना गवेधुकाः कन्दा धान्यविशेषा यत्र तं तादृशम्।

शोष्येति। शोष्यमाणानि घर्मेण शोषं प्राप्यमाणानि पुष्कराणां कमलानां बीजानि फलानि यस्मिन् तं तादृशम्। जपमालाधिरचनार्थैतदित्यवगन्तव्यम्।

ग्रथ्येति। ग्रथ्यमाना ग्रन्थि प्राप्यमाणा विरच्यमाना अक्षमाला रुद्राक्षमाला यत्र तं तादृशम्।

गृह्यमाणेति। गृह्यमाणं भाले धार्यमाणं त्रिपुण्ड्रकं भस्मना रेखात्रयं यस्मिन् तं तादृशम्।


अतिथियों की सेवा हो रही थी, कहीं पितरों की पूजा हो रही थी, कहीं विष्णु, शंकर और ब्रह्मा की, पूजा हो रही थी, कहीं श्राद्ध के नियमों का उपदेश दिया जा रहा था, कहीं यज्ञविद्या की व्याख्या हो रही थी, कहीं धर्मशास्त्रों की मीमांसा हो रही थी, कहीं तरह-तरह की पुस्तकें पढ़ी जा रही थीं, कहीं शास्त्रों के अर्थों पर विचार किया जा रहा था, कहीं झोपड़ियाँ बनायी जा रही थीं, कहीं आँगन लीपे जा रहे थे, कहीं झोपड़ियों के भीतर सफाई हो रही थी, कहीं इष्टदेवताओं का ध्यान किया जा रहा था, कहीं मन्त्र सिद्ध किये जा रहे थे, कहीं योग का अभ्यास किया जा रहा था, कहीं वनदेवताओं को बलि दी जा रही थी, कहीं मूँज की करधनियाँ बनायी जा रही थीं, कहीं छाल के वस्त्र धोये जा रहे थे, कहीं समिधायें इकट्ठी की जा रही थीं, कहीं काले हरिन के चमड़े सिद्धाये जा रहे थे, कहीं गवेधुक (एक प्रकार का धान जो पकने पर झड़ जाता है) इकट्ठे किये जा रहे थे, कहीं कमलों के पके हुए कमलगट्टे सुखाये जा रहे थे, कहीं रुद्राक्ष की मालायें गूँथी


१. अवलोक्यमान । २. वाच्यमा*** । ३. अपमृज्यमान*** । ४. उपहूयमान*** । ५. मुञ्ज*** । ६. क्षाल्यमान*** । ७. उपसंक्रियमाण*** । ८. निगृह्यमाण*** । ९. पोष्यमान*** ।

जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १२३

त्रिपुण्ड्रकंम्, न्यस्यमान-वेत्रदण्डम्, आपूर्य्य-कमण्डलुम्, अदृष्टपूर्वं कलिकालस्य, अपरिचितमनृतस्य, अश्रुतपूर्वमनङ्गस्य, अब्जयोनिमिव त्रिभुवन-वन्दितम्, असुरारिमिव प्रकटितवराहनरसिंहरूपम्, सांख्यमिव कपिलाधिष्ठितम्, मधुरोपवनमिव बलावलीढ-दर्पित-धेनुकम्, उदयनमिवानन्दितवत्स-कुलम्, किम्पुरुषाधिराज्यमिव मुनिजनगृहीतकलशा-

न्यस्येति । न्यस्यमानः दूरादेत्य पृथिव्यां स्थाप्यमानः वेत्रदण्डः वेतसलगुडो यस्मिन् तं तादृशम् ।

आपूर्येति । आपूर्यमाणः सलिलैः क्रियमाणः कमण्डलुः पूजनार्हं जलधारपात्रविशेषो यत्र तं तादृशम् एतेषु यत्र यथायोग्यं तत्र कर्तृपदं 'कैश्चित्' 'केनचित्' इत्यादिकं निवेशनीयम् ।

अदृष्टेति । कलिकालस्य कलियुगस्य नास्ति दृष्टम् अवलोकनं पूर्वं यस्मिन् तं तादृशम् । एवमपरयोरपि । कलिप्रवेशार्हमित्याशयः, अनेन सर्वथा अधर्माभाव इति प्रतीयते । अनृतस्य असत्यस्य अपरिचितम् अपरिचयः, सततं सत्याचारादित्याशयः । अनङ्गस्य कामदेवस्य, अश्रुतपूर्वम् अनाकर्णितपूर्वम्, कामजनितविकारानुपलम्भादित्याशयः ।

अब्जयोनिमिति । अब्जयोनिमिव प्रजापतिमिव, त्रिभुवनवन्दितं जगत्त्रयपूजितम्, असामान्यधर्मस्थानत्वात् सृष्टिकर्तृत्वाच्चेत्याशयः ।

असुरेति । असुराः राक्षसाः तेषाम् अरिः शत्रुः विष्णुः तमिव, 'रिपौ वैरिसपत्नारि' इत्यमरः, प्रकटितानि प्रकाशितानि वराहाः शूकरः, नरा मनुष्याः, सिंहा मृगेन्द्राः, रूपाणि मृगाश्च येन तं तादृशम्, 'रूपं मृगेऽपि विज्ञेयम्' इति हलायुधः, पक्षे—प्रकटिते व्यक्तीकृते वराहनरसिंहयोः 'शूकरावतार-नृसिंहावतारयो रूपे स्वरुते येन तं तादृशम् ।

सांख्यमिति । सांख्यं कपिलदर्शनम् तद्विव, कपिलया कनकाङ्ग्या गवा, कपिलेन सांख्यशास्त्रनिर्माता ऋषिविशेषेण च अधिष्ठितम् आश्रितम् ।

मधुरेति । मथुराया एतन्नामप्रसिद्धाया नगर्य्याः उपवनमिव द्वादशवनेषु गर्भितम् अरण्यमिव' बलावलीढाः शारीरिकशक्तियुक्ता अत एव दर्पिताः समुत्पन्नगर्वाः धेनवो नवप्रसवा गावो यत्र तं तादृशम् । अत्र 'शेषाद्विभाषा' इत्यनेन वैकल्पिककप्प्रत्ययः । पक्षे तु—बलावलीढः शक्तिमान् दर्पितो गर्वितश्च धेनुक एतन्नामा दैत्यो यस्मिन् तं तादृशम् ।

मथुरायां धेनुकासुरं श्रीकृष्णो निहतवानिति श्रीमद्भागवतीया कथा ।

उदेति । उदयनम् एतत्संज्ञकं पाण्डवकुलोत्पन्नं कौशाम्बीनृपतिमिव, आनन्दितं तृणसलिलदानादिना परितोषितं वत्सकुलं गोवत्सगणो यत्र तं तादृशम्, पक्षे—आनन्दितं सदाचरणादिना सन्तोषिनं वत्सकुलं वत्सप्रान्तीयजनमण्डलं तं तादृशम्, तस्य वत्सप्रान्तनृपत्वात् ।

पुरा किल वत्सदेशाधिपतिरुदयनः स्वाः स्वाः प्रजा नीतिमार्गेण संरक्षन् ताः सन्तोषयामासेति कथा सोमदेवभट्टविरचिते कथासरित्सागरे जिज्ञासुरभिरवलोकनीया ।

किम्पुरुषेति । किम्पुरुषाणां किन्नराणाम् अधिराज्यं प्रभृत्वमिव, मुनिजनैः ऋषिगणैः गृहीताः आत्ताः कलशाः सलिलपूर्णघटाः तैः अभिषिच्यमाना अभिषेकं प्राप्यमाना द्रुमा वृक्षा यत्र तं तादृशम्, पक्षे-मुनिजनगृहीतकशशैः ऋषिगणगृहीतघटैः अभिषिच्यमानः द्रुमो नामाधिपतिः यस्मिन् तत् तादृशम् ।


जा रही थीं, कहीं त्रिपुण्ड धारण किया जा रहा था, कहीं बेंत के डण्डे रखे जा रहे थे और कहीं कमण्डलुओं में जल भरा जा रहा था। उस आश्रम को कलियुग ने कभी देखा भी न था, झूठ ने कभी उधर झाँका भी न था और काम ने उसके विषय में कभी सुना भी न था। वह ब्रह्मा के समान तीनों लोकों द्वारा वन्दनीय था। वह भगवान् विष्णु के समान नृसिंह, वराह रूप प्रकट करने वाला था (भगवान् विष्णु ने नृसिंह और वराह का रूप धारण किया था, उस आश्रम में मनुष्य, सिंह, शूकर और मृग पाये जाते थे), वह सांख्य दर्शन के समान कपिलाधिष्ठित था (कपिल मुनि सांख्य दर्शन के प्रणेता थे, उस आश्रम में अनेक सीधी-सादी सफेद गायें थीं), मथुरा के उपवन के समान शक्तिशाली और अभिमानी धेनुक वाला था (मथुरा के उपवन में अत्यन्त बली और अभिमानी धेनुक नाम का राक्षस रहता था, उस आश्रम में तगड़ी और मरखानी नई ब्याई गायें


१. त्रिपुण्ड्रकूर्ध्वमान । २ विदण्टकम्, सरिक्यमानपरिम्राजकम् । ३. नरहरिवराहरूपम् । ४. मधुरोपवनमिव । ५. जलकल्शा

१२४ | कादम्बरी- | [ कथामुखे-


भिषिच्यमान-द्रुमम्, निदाघसमयावसानमिव आसन्न-जलप्रपातम्, जलधरसमयमिव वन-गहन-मध्य-सुखँ-सुप्त-हरिम्, हनूमन्तमिव-शिला-शकलँ-प्रहार-सञ्चूर्णिताक्षा-स्थिसञ्चयम्, खाण्डव-विनाशोद्यतार्जुनमिव प्रारब्धाग्निकार्यम्, सुरभिविलेपनधरमपि सतताविर्भूत-

किम्पुरुषाणां द्रुमो नामा राजाऽभूदित्यस्ति प्रसिद्धिः। तस्य च मुनयः किम्पुरुषराज्ये अभिषेक-मकुर्विति कथा तत्रैव कथासरित्सागरे।

निदाघेति। निदाघसमयो ग्रीष्मकालः तस्यावसानं शेषमिव आसन्नौ समीपस्थायिनौ, जलं वापी-सलिलं प्रपातो निर्झरश्च तौ यस्य तत् तादृशम्, प्रपातो 'निर्झरेऽतटे' इति मेदिनी, पक्षे—आसन्ना समीपस्थो जलप्रपातः मेघजलपतनं यस्य तत् तादृशम्।

जलधरेति। जलधरसमयो वर्षाकालः तमिव, वने विपिने यद्गहनं गह्वरं तस्य मध्येऽन्तः सुखेन विघ्नाभावादशङ्कितेन सुष्ठु निद्रामुपगताः हरयः सिंहा मृगेन्द्रा यत्र तं तादृशम्, पक्षे—वनस्य क्षीरसमुद्र-जलस्य गहने गह्वर इव गम्भीरे मध्येऽन्तः सुखेन आनन्देन सुप्तो निद्रितो हरिविष्णुः यस्मिन् तं तादृशम्। 'वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने' इति हैमः, 'गहनं गह्वरे दुःखे वने' इति त्रिकाण्डशेषः। आषाढश्रावणमासौ वर्षासमयौ, तत्राषाढे हरिः स्वपिति, भाद्रे च पार्श्वं परिवर्तयति, कार्तिके च उत्तिष्ठतीति पुराणा प्रसिद्धिः।

हनूमन्तमिति। हनूमन्तमिव वायुतनयमिव, शिलाशकलस्य पाषाणखण्डस्य प्रहारेण निपातनेन सम्मूर्च्छितः तैलसम्पादनार्थं पिष्टः अक्षाणां बिभीतकफलानाम् अस्थिसञ्चयो मध्यप्रदेशसमूहो यस्मिन् तं तादृशम्, पक्षे, शिलाशकलप्रहारेण सञ्चूर्णितः भञ्जितः अक्षस्य अक्षाभिधदशाननसुतस्य अस्थि-सञ्चयो येन तं तादृशम्। 'अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके। रुद्राक्षे रावणौ सर्वविभीतकतरावापि॥' इति हैमः।

वायुतनयो हि लङ्कादाहानन्तरं यथेच्छया चैत्यप्रासादभञ्जने प्रवृद्धस्तदा राक्षसा रावणमुपेत्य प्रोचुः। राजन्! नायं वानररूपधारी किन्तु लङ्काविनाशाय कश्चिद् काल एव, अतस्तत्प्रतिकारोऽनुपदमेव चिन्तनीयः। तन्निशम्य जातक्रीधोऽक्षनामानमात्मजं सबलं तद्धननाय प्रेषयामास। तत्रोपेत्य च स युयुधे, युध्यमानं तं हनुमान् निहतवान् इति रामायणोयलङ्काकाण्डिया कथा।

खाण्डवेति खाण्डवस्य एतत्संज्ञकवनस्य विनाशे भस्मीकरणे उद्यतः पत्परो योऽर्जुनः पार्थः तमिव प्रारब्धम् उपक्रान्तम् अग्निकार्यं हवनं यस्मिन् तं तादृशम्, पक्षे—प्रारब्धं भस्मोपद्रवनिराकरणेनोपक्रान्तम् अग्निकार्यं वह्नितर्पणं येन तं तादृशम्। अत्रत्येतद्वृत्तं प्रागेव प्रतिपादितम्।

'अब्जयोनिमिव' इत्यारम्य 'खाण्डव-विनाशोद्यतार्जुनमिव' इत्यन्तं पूर्णोपमालङ्कारः। 'जलधर-समयमिव' इत्यत्र हि पूर्णोपमा, 'वनगहन' इत्यत्र पुनरुक्तवदाभासालङ्कारश्चेत्यनयोः सङ्करः।

सुरभीति। सुरभिः घ्राणतृप्तिजनकः 'सुरभिर्घ्राणतर्पणः' इत्यमरः, विलेपनम् अङ्गरागोचितं चन्दनादिकं धरतीति सः, तादृशमपि, सततं निरन्तरम् आविर्भूतः प्रकटितो धूमगन्धः वह्निकेतनसौरभो

रहती थीं), राजा उदयन के समान वत्सकुल को सुखी बनाने वाला था (राजा उदयन ने अपने वत्सकुल को आनन्दित किया था, उस आश्रम में सुख के साथ बछड़े विचरते रहते थे), किन्नरों के राज्य के समान वहाँ जल के घड़ों से ऋषि लोग द्रुमाभिषेक किया करते थे (किन्नरों के राज्य में द्रुम नामक राजा का अभिषेक हुआ था, उस आश्रम में ऋषि लोग जल के घड़ों से वृक्षों को सींचा करते थे), ग्रीष्म ऋतु के अन्त के समान वहाँ जल-प्रपात समीप ही था (गर्मी के अन्त में वर्षा होती है, उस आश्रम के समीप झरने झर रहे थे), वर्षा ऋतु के समान वहाँ घने वनों के बीच हरि सुख से सो रहे थे (वर्षा ऋतु में भगवान् विष्णु गहरे जल के बीच सोते हैं, उस आश्रम के घने जंगलों के बीच सिंह सुख की नींद लिया करते थे), हनुमान के समान वहाँ पत्थरों के टुकड़ों से अक्ष की अस्थियाँ तोड़ी जाती थीं (हनुमान ने रावण के पुत्र अक्ष कुमार की हड्डियाँ तोड़ डाली थीं, उस आश्रम में बहेड़े की गुठलियाँ तोड़ी जाती थीं) और खाण्डव वन जलाने के लिये तैयार अर्जुन के समान वहाँ अग्नि के कार्य हो रहे थे (खांडव वन जलाने में अर्जुन ने अग्नि को सहायता पहुँचायी थी, उस आश्रम में मुनि लोग होम आदि अग्नि द्वारा होने वाले कार्यों के लिए आग जला रहे थे), वहाँ सुरभि


१. प्रत्यासन्न०। २. प्रसुप्त। ३. अनिलसुतमिव। ४. शिलाशकलसञ्चूर्णिताक्षास्थि०।

जाबाल्याश्रमवर्णनम् ] चन्द्रकला-विद्योतिनीसहित। १२५

धूमगन्धम्, मातङ्गकुलाध्यासितमपि पवित्रम्, उल्लसित-धूमकेतुशतंमपि प्रशान्तोपद्रवम्, परिपूर्णद्विजपति-मण्डल-सनाथमपि सदा-सन्निहित-तरु-गहनान्धकारम्, अतिरमणीयमपरमिव ब्रह्मलोकमाश्रममपश्यम् । यत्र च मलिनता हविर्धूमेषु न चरितेषु, मुखरागः शुकेषु न कोपेषु, तीक्ष्णता कुशाग्रेषु न स्वभावेषु, चञ्चलता कदलीदलेषु न मनःसु, चक्षूरागः कोकिलेषु न परकलत्रेषु कण्ठग्रहः कमण्डलुपु न सुरतेषु, मेखलाबन्धो व्रतेषु नेर्ष्याकलहेषु, स्तनस्पर्शो होमधेनुषु न वनितासु,

यस्मात्तं तादृशं सौरभप्रकटनसम्भवे धूमगन्धप्रकटनाद्विरोधः, सुरभेः गोः 'सुरभिर्गवि च स्त्रियाम्' इत्यमरः, विलेपनं गोमयं यस्यां सा तथोक्ता धरा पृथ्वी यत्र तं तादृशमिति तत्परिहारः।

मातङ्गेति। मातङ्गकुलेन अन्त्यजगणेन अध्यासितमपि आश्वितमपि पवित्रं पूतमिति विरोधः, मातङ्गकुलेन गजयूथेन अध्यासितम् इति तत्परिहारः। 'मातङ्गः श्वपचे गजे' इति विश्वः।

उल्लसितेति। उल्लसितम् ऊर्ध्वमुत्थितं धूमकेतुशतम् उत्पातग्रहशतं यत्र तथोक्तमपि प्रशान्तोपद्रवं प्रशमितविघ्नमिति विरोधः, धूमकेतवो वह्नयस्तेषां शतं समूहो यत्रेति तत्परिहारः, 'धूमकेतुः स्मृतो वह्नावुत्पातग्रहभेदयोः' इति विश्वः।

परिपूर्णेति। परिपूर्णेन समन्ताद् भृतेन द्विजपरिमण्डलेन चन्द्रमण्डलेन सनाथः संयुतस्तं तथोक्तमपि, सदा सर्वस्मिन् काले सन्निहितः निकटस्थायी तरुगहनेषु वृक्षगह्वरेषु अन्धकारः तमो यत्र तं तादृशमिति विरोधः, परिपूर्णेन ज्ञानपूर्णेन द्विजपतिमण्डलेन उत्तमब्राह्मणसमूहेन सनायस्तं तादृशमिति तत्परिहारः 'द्विजराजः शशधरः' इति, 'दन्तविप्राण्डजा द्विजाः' इति चामरः।

'सुरभिविलेपनधरमपि' इत्यारम्य 'परिपूर्ण'त्यन्तं विरोधाभासोऽलङ्कारः।

अतीति। अतिरमणीयम् अत्यन्तमनोहरम् अपरम् अतिरिक्तं ब्रह्मलोकं सुरलोकमिव आश्रमं तपोभूमिम् अपश्यम् अद्राक्षम्। इह ब्रह्मलोकमिवेति द्रव्योत्प्रेक्षा।

यत्र चेति। अपि चेति चकारस्यार्थः। यत्र यस्मिन् आश्रमे, मलिनता मालिन्यं हविर्धूमेषु हुताग्निकेतुषु न चरितेषु, लोकानां व्यवहारेषु हिंसामात्सर्यादिपापाचारस्तन्न नासीदित्यर्थः। सर्वत्रात्मभावनया स्वस्वान्तःकरणत्वादियाशयः। मुखरागो मुखस्य रक्तिमा शुकेषु कीरेषु, न कोपेषु अत्र निमित्तसप्तमी अत एव कोपनिमित्तकं वैरुप्यं मुखे नासीदित्यर्थः क्रोधस्यैवानुदयात्। तीक्ष्णता चर्मास्थिभेदनयोग्यः सामर्थ्यविशेषः कुशाग्रेषु दर्भमूलप्रदेशेषु, स्वभावेषु प्रकृतिषु तीक्ष्णता क्रूरता नासीत् शुद्धान्तःकरणत्वात्। चञ्चलता चाञ्चल्यं कदलीदलेषु रम्भापत्रेषु न मनःसु चित्तेषु चञ्चलता अधीरता उपद्रवाभावात्। कोकिलेषु परभृतेषु चक्षूरागः लोचनारुण्यम्, न परकलत्रेषु अन्यस्त्रीषु चक्षूरागः लोचनयोरासक्तिः तदभिलाषाभावात्। कमण्डलुषु कुण्डिकासु कण्ठग्रहो गलधारणम्, किन्तु सुरतेषु आलिङ्गनेषु न, मुनीनामूर्ध्वरेतस्त्वेन तदसत्त्वादित्याशयः। व्रतेषु उपनयनादिनियमेषु मेखलायाः काञ्च्याः बन्धो बन्धनम्, किन्तु

विलेपन (गोबर का लेप, चन्दन आदि सुगन्धिन वस्तुओं का लेप) होने पर भी होम के धुओँ से सर्वदा सुगन्ध निकला करती थी, मातंगों (चाण्डालों, मतवाले हाथियों) का निवास होने पर भी वह आश्रम पवित्र था, अनेक चमकते हुए धूमकेतुओं (पुच्छलतारों, हवन की लपटों) के होने पर भी कोई भी उपद्रव नहीं था और वहाँ द्विजपतिमण्डल (चन्द्रमण्डल, श्रेष्ठ ब्राह्मणों का समूह) होने पर भी पास के वृक्षों की झुरमुटों में सदा अन्धकार छाया रहता था।

उस आश्रम में कालिमा केवल यज्ञ के धुओँ में थी, किसी के आचरण में नहीं थी; मुख पर लालिमा केवल सुग्गों की चोंच में थी, किसी के क्रोध में नहीं थी; तीखापन केवल कुशों की नोक में था, किसी के स्वभाव में नहीं था; चञ्चलता केवल केले के पत्तों में थी किसी के मन में नहीं थी; चक्षूराग (नेत्रों की लालिमा, नेत्रों में प्रेम) केवल कोकिलों में था; परस्त्रियों के विषय में नहीं था; कण्ठग्रह (गरदन पकड़ना, आलिङ्गन करना) केवल कमण्डलु उठाने में था, रतिविलास में नहीं था; मेखलाबन्ध (मौञ्जीबन्धन, साँकल में बाँधना) केवल व्रतधारी ब्रह्मचारियों में था, वाद-विवाद में नहीं था; स्तनों का स्पर्श होम के लिये गायों को दुहने में ही था, स्त्रियों में नहीं था; पक्षपात (पंखों का झटना, पक्षपात करना) केवल सुगों में था, विद्यासम्बन्धी विवादों में नहीं था, भ्रान्ति (चक्कर काटना, भ्रम, सन्देह) केवल


१. ॰॰॰इन्ध्यधूमगन्धम्।
२. मातङ्गक।
३. सरक्ष॰॰॰।
४. कामिनोषु।

१२६ | कादम्बरी- | [ कथामुखे-


पक्षपातः कृकवाकुषु न विद्याविवादेषु, भ्रान्तिरनलप्रदक्षिणेपु, न शास्त्रेषु, वसुसङ्कीर्त्तनं दिव्य- कथासु न तृष्णाँसु, गणना रुद्राक्ष-वलयेषु न शरीरेषु, मुनि-बाल-नाशः क्रतु-दीक्षया न मृत्युना, रामानुरागो रामायणेन न यौवनेन, मुखभङ्गविकारो जरया न धनाभिमाने । यत्र च महाभारते शकुनि-वधः, पुराणे वायु-प्रलपितम् , वयःपरिणामे द्विज-पतनम् ,

ईर्ष्याकलहेषु ईर्ष्यानिमित्तकविग्रहेषु मेखलाबन्धः खड्गमुष्टिधारणं न, मुनीनामीर्ष्याया एवानुपलम्भात् 'मेखला खड्गबन्धे स्यात् काञ्चीशैलनितम्बयोः' इति मेदिनी । होमधेनेषु होमनिमित्तकगोषु स्तनस्पर्शः दुग्धदोहनम् , किन्तु कामिनीषु वनितासु न स्तनस्पर्शः कुचमर्दनं विषयासक्त्यनुदयात् । कृकवाकुषु कुक्कुटपक्षिषु पक्षपातः पक्षाभ्यां पतनम् , किन्तु विद्याविवादेषु शास्त्रार्थेषु न पक्षपातः निर्णयकस्य वादि प्रतिवादिनोरन्यतरस्य साहाय्यविधानं तस्यानुचितत्वात् 'कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः' इत्यमरः । 'विद्या विवादाय धनं मदाय, शक्तिः परेषां परिपीडनाय । खलस्य साधोर्विपरीतमेतज्ज्ञानाय दानाय च रक्षणाय ॥' इति । अत्र सर्वविधपक्षिण एव पक्षाभ्यां पतनसम्भदे ह्यत्र कृकवाकुमात्रस्यैव पक्षपतन-दर्शनाद्विशेषे विशेषाख्यो दोषः समापतति तेनात्र 'पक्षिषु' इति पाठो विधेयः, एवञ्च नोक्तशङ्कालेशः । अनलप्रदक्षिणेपु हवनाग्निप्रदक्षिणकर्मसु भ्रान्तिः चतुर्दिक्षु भ्रमणम् , किन्तु शास्त्रेषु वेदादिषु न भ्रान्ति-र्भ्रमः अयथार्थज्ञानम्, तत्त्वतो निश्चयात् । दिव्यकथासु परलोकीयाख्यानप्रवचनेषु वसूनां द्युप्रभृती-नामष्टानां देवविशेषाणां सङ्कीर्तनं सम्यक् प्रकारेण कथनम् , किन्तु तृष्णा वित्तलिप्सानिमित्तकं वमुनो वित्तस्य सङ्कीर्त्तनं न, ऋषीणां धनलिप्साया एवाभावात् । रुद्राक्षाणां वलयेषु कटकाकारमालासु 'कटकं वलयोऽस्त्रियाम्' इत्यमरः, गणना जपादौ संख्या, किन्तु शरीरेषु देहेषु न गणना नापेक्षा, तत्र तेषामत्यन्तनिस्पृहत्वात् । ऋतुदीक्षया यज्ञप्रारम्भेण मुनीनाम् ऋषीणां बालनाशः केशकर्त्तनम् ; पूर्वदिन एव संयमादिविधानायवंविधानाम् ; किन्तु मृत्युना मरणेन बालनाशः बालकविध्वंसो न, तपोमाहात्म्येनासामयिकमरणाभावात् । रामायणेन रामायणे गुणगणाकर्णनेन रामे दशरथात्मजे अनुरागः प्रेम, किन्तु यौवनेन तारुण्योचितमदाविर्भावेण रामायां कामिन्याम् नानुरागः, नासक्तिः, तपःप्रभावेण तेषां युवावस्थायामपि कामोद्रेकाभावात् । जरया वृद्धावस्थया मुखस्य वदनस्य भङ्गविकारः खगादि-शैथिल्यरूपो विकारः, किन्तु धनाभिमानेन वित्तगर्वेण मुखस्य भङ्गविकारः अन्येषु भ्रुकुट्यादिविकृतिर्न, तेषां वित्तगर्वयोर्द्वयोरप्यसत्त्वात् ।

इह 'मलिनता हविर्धूमेषु न चरितेषु' इत्यारभ्य 'मुखभङ्गविकारो जरया न धनाभिमानेन' इत्यन्तं यावत् सर्वस्मिन्नपि वाक्ये प्ररनाभावेऽपि नञा अन्यस्य निराकरणात् श्लेषसङ्कीर्णा शाब्दी परिसङ्ख्या-लङ्कारः । दर्पणे-

'प्रश्नादप्रश्नतो वापि कथिताद्वस्तुनो भवेत् । तादृगन्यव्यपोहश्चेच्छब्द आर्थोऽथवा तथा ॥' परिसङ्ख्या................... ।

यत्र चेति । इहापि यस्य अपि चेत्यर्थः । यत्र आश्रमे महाभारत एव शकुनिवधः दुर्योधनमातुलस्य सहदेवेन मारणं श्रूयते स्म, न तु यस्मिन् कस्मिन् स्थले शकुनेः खगस्य वधो मारणम् अवलोकितः, तेषां हिंसाया अभावात् । पुराणे व्यासनिर्मिताष्टादशपुराणेषु मध्ये वायुपुराणशास्त्रे एव वायोः पवनदेवतायाः

अग्नि की प्रदक्षिणा में थी, शास्त्र-ज्ञान के विषय में नहीं थी; वसुसंकीर्तन ( वसुनामक देवताओं का वर्णन, धन की चर्चा ) केवल देवताओं की कहानियों में थी, धन की अभिलाषा में नहीं थी; गणना केवल रुद्राक्ष की मालाओं में थी शरीर के विषय में नहीं थी; मुनियों के बालों का नाश ( बाल कटा देना, बालकों का नाश ) केवल यज्ञ की दीक्षा लेने में ही होता था, मृत्यु के द्वारा नहीं; रामानुराग ( रामचन्द्रजी के प्रति प्रेम, स्त्री के प्रति प्रेम ) केवल रामायण में था, यौवन में नहीं था और मुख पर भङ्गविकार ( झुर्री पड़ना, अहंकार ) केवल बुढ़ापे में ही होता था, धन के अभिमान में नहीं होता था ।

वहाँ शकुनि-वध केवल महाभारत की कथा में सुना जाता था, आश्रम में पक्षियों का वध करना लोग जानते भी नहीं थे; वायु का प्रलाप ( वायुदेवता का भाषण ) केवल पुराणों की कथा में मिलता था, वायु-विकार के


१. कुक्कुटेषु । २. ०००प्रदक्षिणासु । ३. शास्त्रार्थेषु । ४. जलतृष्णासु । ५. परिगामेन ।

जाबाल्याश्रमवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १२७

उपवन-चन्दनेषु जाड्यम्, अग्नीनां भूतिमत्त्वम्, एणकानां गीतश्रवणव्यसनम्, शिखण्डिनां नृत्यपक्षपातः, भुजङ्गमानां भोगः, कपीनां श्रीफलाभिलाषः, मूलानामधोगतिः ।

॥ इति जाबाल्याश्रमवर्णनं समाप्तम् ॥


प्रलपितं जल्पितं श्रूयते, न त्वन्यत्र क्वापि भवने वायुना वायुविकारेणोन्मादादिना प्रलपितं कस्यापि व्यर्थवचनम् आसीत् तथाविधरुजाया अनुत्पन्नत्वात् । वयःपरिणामे वृद्धावस्थायामेव द्विजानां दन्तानां 'दन्तविप्राण्डजा द्विजाः' इत्यमरः, पतनं पातः, न तु महापातकादौ द्विजानां विप्राणां पतनं पातित्यं स्वाचारभ्रंशो वा तेषां तदभावात् । उपवनस्य आरामस्य चन्दनेषु चन्दनवृक्षेष्वेव जाड्यं शीतलत्वम् न तु आश्रमवर्तिलोकेषु जाड्यं प्रज्ञाहीनत्वं सर्वेषामेव पूर्णशिक्षितत्वात् । अग्नीनामेव वह्नीनामेव भूतिमत्त्वं भस्मवत्त्वम्, न तु मुनिजनानां भूतिमत्त्वं वित्तसमृद्धत्त्वम्, वित्तैकत्रीकरणविधानाभावात् । एणकानां मृगाणामेव गीतश्रवणे गानाकर्णने व्यसनम् आसक्तिः, न तु ऋषीणाम्, तेषां क्वापि व्यसनाभावात् । शिखण्डिनामेव मयूराणामेव नृत्य नर्तनसमये पक्षस्य वृन्दस्य पातः पतनं कस्यापि अंशनमित्यर्थः, न तु ऋषीणां नृत्ये लास्यविषये पक्षपातः अभिलाषः, तेषां सर्वस्मिन्नपि विषये नाभिलाषात्वात् । भुजङ्गमानां सर्पाणामेव भोगः शरीरम्, न तु ऋषीणां भोगो माल्यगन्धचन्दनकामिनीत्यादिसम्भोगोत्पन्नं सुखम्, सर्वभोगानां परित्यागात् । 'भोगः सुखे स्यादिन्द्रौतावहेश्च फणकाययोः' इत्यमरः । कपीनां मर्कटानामेव श्रीफलेषु विल्वफलेषु अभिलाषः इच्छाविशेषः, न तु ऋषीणां श्रीलक्ष्मीः सैव फलं काम्येष्टफलं तत्र अभिलाषः लप्युक्तेच्छा, तेषां मोक्षाभिलाषित्त्वेन काम्यकर्मानुष्ठानविधानाभावात् । मूलानां वृक्षतत्यादिकन्दानामेव मूलकानामेव वा त्वधोगतिः भूतलाधोदेशगमनम् , न तु ऋषीणाम् , अधोगतिः नरकगमनं पापरहितत्वात् ।

इहापि पूर्ववदेव 'महाभारते शकुनिक्षयः' इत्यारम्य 'मूलानामधोगतिः' इत्यन्तं यावत् सर्वस्मिन्नपि वाक्ये प्रश्नामावेऽपि स्वाभिपायेणान्यस्य निराकरणात् श्लेषानुप्रणिता आर्या परिसंख्योऽलङ्कारः । लक्षणन्तु पूर्वमेव प्रतिपादितम् । पूर्वत्र शाब्दी अत्र त्वार्थीति भेदो ज्ञेयः । अत्रत्यः सन्दर्भः कीदृशोऽति-रमणीय इति सहृदया एव प्रमाणम् ।

इति 'चन्द्रकला' टीकायां जाबाल्याश्रमवर्णनं समाप्तम् ।


कारण कोई व्यर्थ का प्रलाप नहीं करता था; द्विजपतन (दाँतों का गिरना, ब्राह्मणों की अवनति होना) केवल बुढ़ौती में होता था, ब्राह्मणों की अवनति नहीं होती थी; जड़ता (शीतलता, बुद्धिहीनता) केवल उपवन के चन्दनों में पायी जाती थी, वह ऋषियों की बुद्धि में नहीं थी; भूति (भस्म, ऐश्वर्य, धन) केवल अग्नि में मिलती थी, लोगों में धन के प्रति कोई आसक्ति नहीं थी; गीत सुनने का व्यसन केवल मृगों में था, लोगों में उसकी अभिलाषा नहीं थी; नृत्य के प्रति अनुराग केवल मोरों में था; भोग (फन, सांसारिक सुख) केवल सर्पों में थी, वहाँ के लोग भोगी नहीं थे; श्रीफल (बेल का फल, धन से प्राप्त होनेवाले फल) की अभिलाषा केवल बन्दरों में थी, वहाँ के लोगों में धन से मिलनेवाले सुख की अभिलाषा नहीं थी, और अधोगति (नीचे की ओर जाना, नरक में पड़ना) केवल वृक्षों के जड़ों की होती थी, ऋषि और मुनियों की नहीं होती थी।

इस प्रकार जाबाल्याश्रमवर्णन समाप्त हुआ।


१. इह 'जवन' इति पाठः क्वचिदस्ति ।
२. शिखण्डिनीनां गीतनृत्यपक्षपातः ।

जाबाल्याश्रमवर्णनम्

समाप्तम्

अथ जावालिवर्णनम्

तस्य चैवंविधस्य मध्यभागमलङ्कुर्वाणस्य, अलक्तकलोहित-पल्लवस्य मुनिजना- लम्बित-कृष्णाजिन-जल-करङ्क-सनाथशाखस्य तापसकन्याभिर्मूलभाग-दत्त-पीत-पिष्टातका- नेक पञ्चाङ्गुलस्य हरिणशिशुभिः परिपीयमानालवाले-सलिलस्य मुनिकुमारकाबद्ध-कुशचीर- दाम्नो हरितगोमयोपलेपन-विविक्ततलस्य, तत्क्षण-कृत-कुसुमोपहार-रमणीयस्य नातिमहतः परिमण्डलया विस्तीर्णावकाशस्य रक्ताशोकतरोरधश्छायायामुपविष्टम्, अत्युग्रतपोभि-

तस्येति । एवंविधस्य पूर्वोक्तदिशा वर्णितस्य तस्य आश्रमस्य मध्यभागं मध्यदेशम् अलङ्कुर्वाणस्य शोभमानस्य, रक्ताशोकतरोरधश्छायायामुपविष्टं 'भगवन्तं जाबालिमपश्यम्' इति वक्ष्यमाणक्रियया सम्बन्धः । अत्र षष्ठ्यन्तानि पदानि रक्ताशोकतरोः, द्वितीयान्तानि च जाबालिमित्यस्य विशेषणानि बोध्यानि । अलक्तकवद् यावकवद् आलोहितानि किञ्चिद्रक्तानि पल्लवानि किसलयानि यस्य तस्य तादृशस्य । मुनिजनैः ऋषिगणैः आलम्बिताः स्थापिताः कृष्णाजिनानि कृष्णमृगचर्माणि जलकरङ्काः नारिकेलास्थिरचिताः पात्रविशेषाश्च घटा जलकरङ्काः जलरक्षणार्थं कमण्डलयः तैः सनाथाः संयुता शाखाः स्कन्धा यस्य तस्य तादृशस्य । 'करङ्को मस्तके शस्थे नारिकेलाफलास्थिनि' इति विश्वः । 'करकस्तु पुमान् पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मद्योपले न स्त्री करङ्के च कमण्डलौ ॥' इति मेदिनी ।

तापसकन्याभिः मुनिकुमारिकाभिः मूलभागे आलवाले मूलप्रदेशे दत्तानि निहितानि पीतपिष्टातकैः हरिद्रारूपपटवासचूर्णैः अनेकानि विविधानि पञ्चाङ्गुलानि करस्य पञ्चाङ्गुललक्ष्मणि यस्य तस्य तादृशस्य । हरिणशिशुभिः मृगबालकैः परिपीयमानं समन्तादास्वाद्यमानम् आलवालस्य मूलप्रदेशस्थावापस्य सलिलं जलं यस्य तस्य तादृशस्य । मुनिकुमारकैरिति ऋषिबालकैः आबद्धानि समन्तात्परिवेष्टितानि कुशचीराणां दर्भैः विधास्यमानवस्त्राणां दामानि रज्जवो यस्मिन् तस्य तादृशस्य । हरितेन हरिद्वर्णेन सरसेन गोमयेन गोः-पुरीषेण यदुपलेपनं तेन विविक्तं पूतं तलम् अधोदेशो यस्य तस्य तादृशस्य । तस्मिन्नेव क्षणे काले कृतेन विहितेन कुसुमोपहारेण पुष्पढौकनेन रमणीयस्य कमनीयस्य । नातिमहतो नातिविस्तृतस्य परिमण्डलतया गोलाकारतया धारणेन विस्तीर्णः अतिदीर्घः अवकाशः अधःस्थायो छायाप्रदेशो यस्य तस्य तादृशस्य । रक्तानां लोहितानाम् अशोकानां पुष्पाणां तरुः वृक्षः तस्य अधश्छायायां नीचस्थानातपे 'छाया सूर्य-प्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । उपविष्टम् आसीनम् ।

अत्युग्रेति । अत्युग्राणि अतितीक्ष्णानि तपांसि येषां तैस्तादृशैः महर्षिभिरित्यस्य विशेषणानि ।


इस प्रकार उस आश्रम के बीच एक लाल अशोक का पेड़ उसकी शोभा बढ़ा रहा था। उसके पत्ते आलते के समान लाल-लाल थे, उसकी डालियों पर मुनियों ने अपने काले-काले मृगचर्म और जल से भरे कमण्डलुओं को लटका दिया था, उसकी जड़ पर मुनियों की कन्याओं ने पीले पेषन (हल्दी और चावल की बुकनी मिलाकर बनाया गया लेप) के थापे (पाँचों उँगलियों सहित हथेलियों की छाप) लगा दिये थे, हरिण के छोटे-छोटे बच्चे उसके थाँवले में भरा हुआ जल पी रहे थे, उसके चारों ओर मुनियों के बालकों ने कुश के बने हुए वस्त्रों की करधनी की तरह लपेट दिया था, उसके नीचे की भूमि हरे गोबर से लीपकर पवित्र कर दी गयी थी और उस पर तटके फूल चढ़ाये गये थे जिससे वह और भी रमणीय लग रहा था। यद्यपि वह बहुत बड़ा नहीं था किन्तु मण्डल बाँधकर फैलने के कारण उसके नीचे बहुत दूर तक छाया रहती थी। मैंने भगवान् जाबालि को


१. मध्यभागमण्डनम्
२. अलक्तलोहित... ।
३. रोलपल्लवस्य ।
४. ॰॰लम्बिन ।
५. ॰॰करक॰॰॰ ।
६. ॰॰कुमारिकाभिरालवालदत्त॰॰॰ ।
७. पीतपिष्ट॰॰॰ ।
८. पीयमान॰॰॰आपीयमान ।
९. आन्वालक॰॰॰ ।
१०. ॰॰द्वन्द्वित॰॰॰ ।
११. ॰॰भूतलस्य ।
१२. ॰॰रचित॰॰॰ ।
१३. व्यग्रतपोभिः ।

१७ का० कथा०

१३० | कादम्बरी— | [ कथामुखे-

भुवनमिव सागरैः कनकगिरिमिव कुलाचलैः क्रतुमिव वैतानै-वह्निभिः कल्पान्तदिवस- मिव रविभिः, कालमिव कल्पैः, समन्तान्महर्षिभिः परिवृतम्, उग्र-शाप-भीतयेव कम्पित- देहयाँ, प्रणयिन्येव विहित-केशग्रहया, क्रुद्धयेव कृत-भ्रूभङ्गया, मत्तयेवाकुलितगमनया, प्रसाधितयेव प्रकटित-तिलकया जरया, गृहीतव्रतयेव भस्मधवलया धवलीकृत-विग्रहम्, आयामिनीभिः पलित-पाण्डुराभिः तपसाँ विजित्य मुनिजनमखिलं धर्म्मपताकाभिरिवो- च्छ्रिताभिः अमरलोकमारोढुं पुण्य-रज्जुभिरिवोपसंगृहीताभिः अतिदूर-प्रवृद्धस्य तप-

सागरैः समुद्रैः भुवनं विष्टपमिव, कुलाचलैः कुलाद्रिभिः कनकगिरिमिव सुमेरुपर्वतमिव, वितानस्य यज्ञस्य इम इति वैताना ये वह्नयः अग्नयः दक्षिणाग्निगार्हपत्याहवनीयाः तैः क्रतुमिव यज्ञमिव ‘वितानो यज्ञविस्तारोल्लेचेषु क्रतुकर्मणि’ इति विश्वः। रविभिः द्वादशसूर्यैः कल्पान्तदिवसमिव युगान्तदिनमिव तस्मिन् समये तत्पूर्वं च द्वादशसूर्योदयस्य पुराणविद्यात्वात्। कल्पैः युगान्तैः कालमिव अखण्डं समग्र- मिव, समन्तात् सर्वतः महर्षिभिस्तापसैः परिवृतं परिवेष्टितम्।

अत्रैकस्योपमेयस्य बहूनामुपमानानां निरूपणान्मालोपमालङ्कारः। तदुक्तं दर्पणे—

'मालोपमा यदेकस्योपमानं बहु दृश्यते'। इति।

उग्रेति। उग्रः कठिनो यो जावाळेः शापः अभिसम्पातः तेन भीत्या त्रस्तया नार्य्येव, कम्पितः चलितो देहो वपुर्यया, पक्षे यस्यास्तया तादृश्या। प्रणयिन्येव कामिन्येव, विहितः केशग्रहः कचावलम्बनं यया तथा तादृश्या। रतिकलहे कान्तापि केशग्रहं विधत्ते इयमपि केशे लग्नेत्यर्थः। क्रुद्धया कोपाविष्टया नार्य्येव, कृतो विहितो भ्रूभङ्गः भ्रुवोः शैथिल्यं भृकुटी च यया तथा तादृश्या। यथा क्रुद्धा भ्रूभङ्गं विधत्ते तथेयमपि कृतवतीत्यर्थः, मत्तया मद्यपानोन्मत्तया नार्य्येव, आकुलितम् उच्चावचीकृतं गमनं गतिर्यया, पक्षे यस्यास्तया तादृश्या, मद्यपानोन्मत्तापि स्खलद्गतिका भवति इयमपि तथैव सञ्जाता। प्रसाधितया भूषितया नार्य्येव, प्रकटितानि अभिव्यक्तानि तिलकानि देहे श्यामवर्णचिह्नानि, भाले तिलकञ्च यया तथा तादृश्या। अलङ्कृता स्त्री यथा सतिलका भवति तथेयमपि शरीरे तिलकानामुत्पन्नत्वात्। तथा गृहीत- व्रतया स्वीकृतकृच्छ्रनियकया नार्य्येव भस्म भूतिः तद्वद्धवलया श्वेतया भस्मना धवलया च जरया वृद्धा- वस्थया धवलीकृतः शुभ्रीकृतः विग्रहो वपुर्यस्य तं तादृशम्।

अत्र 'उग्रशापभीतयेव' इत्यारभ्य 'गृहीतव्रतयेव' इत्यन्तं यावत् पूर्णोपमालङ्कारः। केवलं विशेषण- स्योपादानेऽपि विशेष्यस्य 'नार्या' इत्यस्याध्याहारेण सामञ्जस्य विधेयम्। केचित्तूत्प्रेक्षां निरूपयन्ति, तन्मते 'नार्या' इत्यस्य नाध्याहार इत्यवधेयम्।

आयामीति। आयामिनीभिः विस्तीर्णाभिः, पलितेन वृद्धावस्थाप्रयुक्तश्वैत्येन पाण्डुराभिः पाण्डु- रूपाभिः। तपसा तेजसा अखिलं समस्तं मुनिजनम् ऋविगणं विजित्य अभिभूय, उच्छ्रिताभिः ऊर्द्ध्वी कृताभिः धर्मपताकाभिरिव धर्मद्योतकध्वजाञ्चलैरिव 'विद्यमानाभिः। अमरलोकं देवलोकम् आरोढुम् आरोहणं विधातुं पुण्यरज्जुभिरिव पवित्रप्रग्रहैरिव उपसंगृहीताभिः अङ्गीकृताभिः। अतिदूरप्रवृद्धस्य


उसी पेड़ की छाया में बैठे हुए देखा। जैसे समुद्रों में पृथ्वी, कुलपर्वतों से मेरुपर्वत, अग्नियों से यज्ञ, सूर्यों से प्रलय काल का दिन और कल्पों से काल घिरा रहता है, उसी प्रकार वह भी अत्यन्त तपस्वी मुनियों से घिरे हुए थे। बुढापे ने उनके शरीर को श्वेत कर दिया था और उसमें कँपकँपी आ गयी थी, मानो शाप के भय से बुढ़ौती स्वयं काँप रही हो; उनके बाल सफेद हो गये थे, मनस्विनी नायिका के समान वह स्वयं उनके सिर पर सवार हो गयी हो; उनकी भौंहें तनी हुई थीं, मानों उसने क्रुद्ध होकर स्वयं भौंहें चढ़ा ली हों; उनके पैर चलने में लड़खड़ाते थे, मानों वह स्वयं मतवाली की तरह लड़खड़ाती हुई चल रही हो; उनके शरीर पर काले-काले मस्से निकल आये थे, मानों उसने बिन्दियों द्वारा अपने को सजा लिया हो और उनके शरीर पर श्वेत भस्म पुता हुआ था मानों उस बुढ़ौती ने स्वयं कोई व्रत धारण कर लिया हो। उनकी लम्बी और बुढ़ापे के कारण पकी हुई उजली जटाएँ ऐसी सुशोभित हो रही थीं मानों तप से समस्त ऋषियों को जीत कर प्राप्त की गयी धर्म की पताकाएँ हों अथवा स्वर्ग जाने में सहायता पहुँचाने वाली इकट्ठी की हुई पुण्यकर्मों की डोरियाँ हों


१. कुलपर्वतैः । २. वैतानिक*** । ३. उग्रशापकम्पितदेहया । ४. तपोभिः । ५. उपार्जिताभिः ।

जाबालिवर्णनम् ]चन्द्रकला-विद्योतिनीसहिता ।१३१

स्तरोः कुसुम-मञ्जरीभिरिवोद्गताभिर्जटाभिरुपशोभमानम्, उपरचित-भस्म-त्रिपुण्ड्रकेण तिर्यक्प्रवृत्त-त्रिपथगा-स्रोतस्त्रयेणेव हिमगिरि-शिलातलेनेव ललाटफलकेनोपेतम्; अधोमुख-चन्द्र-कलाद्वगभ्यामवलम्बित-वलि-शिथिलाभ्यां भ्रूलताभ्यामवष्टभ्यमान-दृष्टिम्, अनवरत-मन्त्राभ्यास-विवृताधरपुटया निष्पतद्भिरतिशुचिभिः सत्यप्ररोहैरिव स्वच्छेन्द्रिय-वृत्ति-भिरिव विद्यागुणैरिव करुणारस-प्रवाहैरिव दशनमयूखैर्धवलित-पुरोभागम्, उद्वमदमल-

अत्यन्तवृद्धिमुपगतस्य तप एव तरुः वृक्षः तस्माद् उद्गताभिः उत्पन्नाभिः कुसुममञ्जरीभिरिव पुष्पवल्लरीभिरिव जटाभिः सटाभिः उपशोभमानं भूषितम्।

अत्र 'वर्णपताकाभिरिव' इत्यत्र 'पुण्यरज्जुभिरिव' इत्यत्र च जात्युत्प्रेक्षालङ्कारः 'तपस्तरोः' इत्यत्र निरङ्गकेवलंरूपकम् 'कुसुममञ्जरीभिरिव' इत्यत्र हि जात्युत्प्रेक्षयोरैकाश्रयानुप्रवेशरूपसाङ्कर्यात् सङ्करालङ्कारः ।

उपरचितेति । उपरचितानि विहितानि भस्मना त्रीणि पुण्ड्रकाणि तिर्यग्रेखामयतिलकानि यत्र तेन तादृशेन । अत एव तिर्यक्प्रवृत्तं कुटिलभावेन प्रचलितं त्रिपथगाया गङ्गायाः स्रोतस्त्रयं त्रिप्रवाहो यत्र तयो-दतेन, हिमगिरेः हिमालयस्य शिलातलेनेव पाषाणफलकेनेव ललाटफलकेन भालपट्टकेन उपेतं युक्तम् ।

इहोक्तविधशिलातलाप्रसिद्धेर्द्रव्योत्प्रेक्षा ।

अधोमुखेति । अधोमुखी निम्नायिता या चन्द्रकला सुधांशुरेखा तस्या आकारः स्वरूप इव आकारो ययोस्ताभ्यां तादृशाभ्याम्, अवलम्बिता वार्द्धक्यादाश्रिता या वलिः शिथिलं चर्म, तया च—‘वलिर्दैत्य-प्रभेदे च करचामरदण्डयोः । उपहारे पुमान् स्त्री तु जरया श्लथचर्मणि ॥’ इति मेदिनी । तया शिथिलाभ्यां शैथिल्यान्नेत्रोपरि च्युताभ्यामित्यर्थः, अत एव ताभ्यां भ्रूलताभ्याम् अवष्टभ्यमाना अवलम्ब्यमाना दृष्टिः अवलोकनसामर्थ्यं यस्य तं तादृशम् ।

इह 'चन्द्रकलाया आकार इव आकार' इत्यत्र आर्थी समासगता लुप्तोपमा ।

अनवरतेति । अनवरतं निरन्तरं यो मन्त्राभ्यासः मन्त्रजपावृत्तिः तेन विवृतं व्याप्तम् अधरपुटम् ओष्ठद्वयं यस्य तस्य भावस्तया कारणेन, निष्पतद्भिः निस्सरद्भिः, अतिशुचिभिः अत्यन्तस्वच्छैः, सत्यप्ररोहै-रिव सत्यवचनसत्याचारयोरुद्गमैरिव, स्वच्छा अवदाताः पापरहिता या इन्द्रियवृत्तयः चित्तादीनामि-न्द्रियाणां कर्माणि ताभिरिव, विद्यागुणैरिव विद्याया आन्वीक्षिक्यादेः ये गुणा विनयादयस्तैरिव, करुणारस-प्रवाहैरिव दयारसस्रोतोभिरिव सर्वस्मिन् स्थले स्वच्छत्वादित्याशयः । दशनमयूखैः दन्तरश्मिभिः धव-लितः शुभ्रीकृतः पुरोभागः अग्रदेशो यस्य तं तादृशम् । अत एव उद्वमन् दक्षिणश्रोत्राद्वहिरागच्छन् अमलः स्वच्छो गङ्गाप्रवाहो भागीरथीस्रोतो यस्मात्तं तादृशं जह्नुम् एतत्संज्ञकमृषिमिव विद्यमानम् ।

अत्र 'सत्यप्ररोहैरिव' इत्यारभ्य 'करुणारसप्रवाहैरिव' इत्यन्तं यावत् वाक्यार्थहेतुकं काव्यलिङ्गा-लङ्कार उपमा च तथा गुणोत्प्रेक्ष्येतेषां मिथोऽङ्गाङ्गिभावेन साङ्कर्यात् सङ्करालङ्कारः ।

अत्रायमितिहासः— पुरा किल स्वपूर्वजानामुद्धितीर्षया भगीरथो हि हिमाचलाच्चलितामय च शङ्कर-जटायां लीनां गङ्गामवतारयितुं महेश्वरं सिषेवे, प्रसन्नो भगवान् सदाशिवः स्वशिरसस्तामवतारयामास ।


अथवा दूर तक फैले हुए पुण्यरूपी वृक्ष के फूलों की मञ्जरियाँ हों। भस्म के त्रिपुण्ड्र से उनका ललाट ऐसा प्रतीत होता था मानो गंगा की तीनों धाराओं से युक्त हिमालय पहाड़ की कोई चट्टान हो। उनकी भौंहों पर चन्द्रकला के समान टेढ़ी आकृति वाली तथा बुढ़ापे की झुर्रियों के कारण शिथिल भौंहें लटक रही थीं जिनसे देखने में कुछ बाधा उपस्थित हो रही थी। निरन्तर मन्त्रों का जाप करने के कारण उनका मुंह खुला रहता था और ओठों के बीच से दाँतों की उज्ज्वल किरणें फूटती थीं, जो सत्य के अङ्कुरों, इन्द्रियों की निर्मल वृत्तियों और करुणारस की धारा के समान लग रही थीं। उन किरणों से उनके आगे का भाग अत्यन्त उज्ज्वल हो उठता था और वे गंगा की अत्यन्त निर्मल धारा को मुँह से बाहर करते हुए जह्नु ऋषि के समान प्रतीत होते थे। वह ने निरन्तर सोमरस पीने के कारण आने वाली डकारों से उनकी साँसें सुवासित हो उठी थीं जिनसे खिन्न कर


१. गङ्गा ।
२. ॰॰॰प्रदेनेव॰॰॰तनेन ।
३. ॰॰॰ष्टेनोपेतम् ।
४. ॰॰॰मन्त्राभ्यासाभ्यास ।
५. क्वचिदयं पाठो नास्ति ।
६. करुणरस॰॰॰ ।

१३२कादम्बरी[कथामुखे-

गङ्गा-प्रवाहमिव जह्नुम्, अनवरतसोमोद्गारसुगन्धिनिश्वासावकृष्टैमूर्त्तिमद्भिरिव शापाक्षरैः सदा मुखभाग-सन्निहितैः परिस्फुरद्भिरलिभिरविरहितम्, अतिकृशतया निम्नतरगण्ड-गर्तम् उन्नततर-हनु-घोणम् आकराल-तारकम् अवशीर्य्यमाण-विरल-नयन-पक्ष्ममालम् उद्गत-दीर्घरोम-रुद्ध-श्रवण-विवरम् आनाभिलम्बित-कूर्चकलापमाननमादधानम्, अतिचपलानामिन्द्रियाश्वानाम् अन्त:संयमन-रज्जुभिरिवातताभिः कण्ठनाडीभिनिरन्तरावबद्ध-कन्धरम्, समुन्नत-विरलास्थि-पञ्जरम्, अंसालम्बित-धवल-यज्ञोपवीतम्, अनिल-वश-जनित-तनु-तरङ्ग-भङ्गम् उत्पल्वमान-नेत्रमृणालमिव मन्दाकिनीप्रवाहम्, अकल्लुषमङ्गुष्ठ-

अथ मार्गे व्रजन्ती सा जह्रोर्यज्ञभूमिं प्लावयामास, ततश्च क्रुद्धेन जह्नुना पीता सा पुनरपि भगीरथप्रार्थनया श्रोत्रविवरान्निःसारिता सती भूतलमार्जगामेति। तत एव 'जाह्नवी' इति संज्ञामवाप।

अनवरतेति। इतो द्वितीयान्तानि 'आननम्' इत्यस्य विशेषणानि। अनवरतं निरन्तरं यः सोमः पीतसोमरसः तस्य उद्गारेण वायुजनितशब्देनेत्यर्थः। 'निगारोद्गारविश्वावोद्ग्राहास्तिनगरणादिषु' इत्यमरः, सुगन्धिना सौरभवता निश्वासेन पवनेन अवकृष्टैः आकर्पितैः मूर्त्तिमद्भिः देहवद्भिः शापाक्षरैरिव अभिसम्पातवर्णैरिव, सदा सर्वदा मुखस्य वदनस्य यो भागोऽग्रिमप्रदेशः तत्र सन्निहितैः विद्यमानैः परिस्फुरद्भिः सञ्चरद्भिः अलिभिर्भ्रमरैः अविरहितम् अपरित्यक्तम्। अतिकृशतया अत्यन्तक्षीणशरीरतया निम्नतरौ अत्यन्तगम्भीरतरौ गण्डगत्तौ लघटीभूतौ कपोलौ यस्मिन् तत् तादृशम्। उन्नततरा अत्युच्चाः हनु चिबुकं कपोलोर्ध्वाशद्वयमिति यावत् घोणा नासिका च यत्र तत् तादृशम्, 'घोणा नासा च नासिका' इत्यमरः, अत्यन्तकृशशरीराणामेवम्भूतमाननं भवत्यूवलोकनीयम्। आकराले तेजस्विदवेन हेतुना अत्यन्तभीषणे तारके कनीनिकायुगलं यस्मिन् तत् तादृशम्। अशीर्यमाणा नश्यन्ती विरला असान्द्रा नयनपक्ष्ममाला नेत्ररोमपङ्क्तिः यस्मिन् तत् तादृशम्। उद्गतै उत्पन्नैः दीर्घैः विस्तृतैः रोमभिः लोमभिः रुद्धे आच्छादिते श्रवणविवरे श्रोत्ररन्ध्रयुगलं यस्मिन् तत् तादृशम्। आनाभिलम्बितो नाभिपर्यन्तलग्वमानः कूर्चकलापः श्मश्रुसमूहः मुखलोमसमूह इत्यर्थः यस्मिन् तत् तादृशम् आननं मुखम् 'आननं लपनं मुखम्' इत्यमरः आदधानं धारयन्तम्। अत 'शापाक्षरैरिव' इत्यत्र गुणोत्प्रेक्षालङ्कारः।

अतिचपलेति। इत आरभ्य 'अहन्न्' इत्यस्य विशेषणानि। अतिचपलानाम् अतीव चञ्चलानाम्, इन्द्रियाणि घ्राणत्वक्श्रोत्रनेत्ररसनादीनि एव अश्वाः घोटकाः सांसारिकपदार्थान्प्रति जीवानामाकर्षणदिश्याशयः। तथा च कठोपनिषदि द्वितीयवल्ल्यां नाचिकेतसं प्रति धर्मराजस्यात्मनिरूपणप्रस्तावे उक्तिः-

'इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्' इति।

तेषाम् अन्तर्मध्ये संयमनरज्जुभिरिव नियन्त्रणप्रग्रहैरिव आतताभिः अतिदीर्घाभिः कण्ठनाडीभिः गलप्रदेशस्थस्नायुभिः निरन्तरं सान्द्रं यथा स्यात्तथा अबनद्धा सम्बद्धा कन्धरा ग्रीवा यस्मिन् तत् तादृशम्। समुन्नतं शरीरस्यातिकृशत्वाद् समुच्चत्वम् अवलोक्यमानं विरलम् अविबिडम् अस्थिपञ्जरं कङ्कालं यस्मिन् तत् तादृशम्। अंसे भुजान्तरे आलम्बितं लम्बमानं धवलं शुभ्रं यज्ञोपवीतं यज्ञसूत्रं यस्मिन् तत् तादृशम्। अत एव अनिलवशेन वायुप्रभावेण जनितः उत्पादितः तनूनां सूक्ष्माणां तरङ्गाणां कल्लोलानां भङ्गः कौटिल्यं यत्र तं तादृशम्, तथा उत्पल्वमानं

उनके मुँह के पास मँडराने वाले भौंरे ऐसे प्रतीत होते थे मानों शाप के अक्षरों ने ही शरीर धारण कर लिया हो। अत्यन्त दुर्बलता के कारण उनके गालों में गड्ढे पड़ गये थे जिससे चिबुक की हड्डी निकली हुई तथा नाक और भी ऊँची उठी हुई जान पड़ती थी, नेत्रों की पुतलियाँ अत्यन्त तीखी और बरोनियाँ झड़ जाने के कारण विरल हो गयी थीं, कान के छेद सघन रोवों से ढँके हुए थे, दाढ़ी नाभि तक लटकी हुई थी। गले की उभड़ी हुई नाड़ियाँ कन्धों तक फैली हुई ऐसी प्रतीत होती थीं मानों इन्द्रियरूपी घोड़ों को बाँधने की रस्सियाँ हों, शरीर की हड्डियों का ढाँचा ऊपर उठा सा दिखाई पड़ रहा था, कन्धे पर श्वेत यज्ञोपवीत लटक रहा था, जो वायु में बहुत धीरे-धीरे लहरा रहा था मानों उसमें हल्की-हल्की लहरें उठ रही हों, इससे उनका निर्मल अङ्ग ऐसा प्रतीत हो रहा था मानो कमल की कोमल डंठलों को धारण करने वाला गंगा का प्रवाह हो। वे अपनी


१. अत्वरित, अविरल...। २. ...'निश्वासावकृ...। ३. मूर्तिमद्भिः शापाक्षरैरिव। सन्निहितैः। ५. समुन्नत...। ६. लम्वित। ७. इन्द्रियाणाम्। ८. ...'संबद्ध...। ९. उन्नत...। १०. अवलम्बित, लम्बियशो...। ११. वायु। १२. ...म्लानमृणालमिव।

जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १३३

हन्तम्, अमल-स्फटिक-शकल-घटितमक्षवलयमत्युज्ज्वलं$^२$स्थूल-मुक्ताफल-ग्रथितं सरस्वती-हारमिव चलदङ्गुलि-विवरगतमावर्त्तयन्तम्, अनवरतभ्रमित-तारकाँ$^३$चक्रमपरमिव ध्रुवम्, उन्नमँता$^४$ शिरा-जालकेन जरत्कल्पतरुमिव परिणतलतासञ्चयेन निरन्तर-निचितम्, अमलेन चन्द्रांशुभिरिवामृतफेनैरिव गुणसन्तान-तन्तुभिरिव निर्मितेन मानस-सरो-जल-क्षालनशुचिना दुकूलवल्कलेन $^७$द्वितीयेनेव जराजालकेन संच्छादितम्, आसन्नवर्त्तिना मन्दाकिनीसलिल-पूर्वेण त्रिदण्डोपविष्टेन स्फाटिक$^८$-कमण्डलुना विकचपुण्डरीकराशि-

सलिलोपरि विद्यमानं नवं नूतनं मृणालं बिसं यत्र तं तादृशम्, मन्दाकिन्या वियद्गङ्गायाः प्रवाहं स्रोत इव अकलुषम् अनाबिलं स्वच्छमित्यर्थः अङ्गं शारीरावयवम् उद्वहन्तं धारयन्तम् ।

इह 'इन्द्रियाण्येव अश्वाः' इत्यत्र निरङ्गकेवलरूपकम्, 'संयमनरज्जुभिरिव' इत्यत्र जात्युत्प्रेक्षेत्यन-योरङ्गाङ्गिभावेन सङ्करालङ्कारः । तयोक्तकुटिलकृशतरङ्गसदृशम् अस्थिपञ्जरमिव, सलिलोपरि प्लवमान-नूतनबिसतन्तुञ्च वक्षसूत्रमित्युपमालङ्कारः ।

अमलस्फटिकेति । अत्युज्ज्वलानि अतिविशदानि स्थूलानि पृथुलानि मुक्ताफलानि मौक्तिकानि तैरग्रंथितं गुम्फितं सरस्वत्या भारत्या हारमिव कण्ठमालामिव, चलन्तीनाम् अक्षवलयाकर्षणेन चपलीभूतानाम् अङ्गुलीनां करावयवानां विवरगतं छिद्रस्थितम्, अमलः विशदैः स्फटिकानां स्फटिकमणीनां शकलैः खण्डैः घटितं रचितम् अक्षवलयं रुद्राक्षमालागुटिकाम् आवर्त्तयन्तं संख्याविशेषपूरणात् यथाक्रमं परिभ्रमयन्तम्, अत एव अनवरतं निरन्तरं भ्रमितं प्रवहसंज्ञकवातेन पर्यटितं तारकाचक्रं नक्षत्रसमूहो यत्र तथोक्तम् अपरं द्वितीयं ध्रुवम् उत्तानपादजमिव विद्यमानम् । इह च यथा बहोः कालात् स्थिरयोः ध्रुवयोरन्तर्वद्धरतारका-समूहः प्रवाहानिलैरजस्रं पर्यति तथा आसीनेन स्थिरतरेण ऋषिणा सम्यकराग्रनिहिता स्फटिकमाला जपसंख्याविशेषावधारणायनिरन्तरं सञ्चालितेति साम्यमवगन्तव्यम् । उक्तं च सूर्यसिद्धान्ते—

'भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवाहानिलैः । पर्यटत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥'

इह उपमा, पदार्थहेतुकं काव्यलिङ्गम्, द्वयोरुत्प्रेक्षाचेत्येषां परस्परमपेक्षाभावेन विद्यमानत्वात् संसृष्टिः ।

उन्नमतेति । परिणतानां पाकमुपगतानां लतानां व्रततीनां सञ्चयेन समूहेन निरन्तरनिचितं सान्द्रभावेन व्याप्तं जरत्कल्पतरुमिव प्राचीनकल्पवृक्षमिव, उन्नमता उपरि स्फुरता शिराजालकेन धमनि-समूहेन निरन्तरनिचितम् । इह 'जरत्कल्पतरुमिव' इत्युपमा ।

अमलेनेति । अमलेन विशदेन, अत एव चन्द्रांशुभिरिव शशिश्चन्द्रिकाभिरिव अमृतफेनैरिव पीयूष-डिण्डीरैरिव गुणानां कारुण्यतपश्चर्यादीनां सन्तानाः समूहा एव तन्तवः सूत्राणि तैरिव निर्मितेन रचितेन, मानससरसो मानसाख्यसरोवरस्य जलेन सलिलेन यत् क्षालनं मलनिराकरणं तेन शुचिना पवित्रेण, द्वितीयेन अपरेण जराजालकेनेव श्वैत्याद्यपरिणतावस्थासमूहेनेव, दुकूलवत् पट्टवसनवत् वल्कलं वृद्धत्वक् तेन तादृशेन, संच्छादितम् आच्छादितनामधोभागम् ।

तत्र काव्यलिङ्गालङ्कारः, द्वे चोत्प्रेक्षे, परस्परपन्नैपामङ्गाङ्गिभावेन सङ्करालङ्कारः ।

आसन्नेति । आसन्नवर्त्तिना निकटस्थायिना, मन्दाकिनी गङ्गा तस्याः सलिलं जलं तेन पूर्णेन भृतेन

चञ्चल उँगलियों के द्वारा मोतियों से गुथी हुई सरस्वती की कण्ठमाला के समान अत्यन्त उज्ज्वल स्फटिक की गुरियों से गुंधी हुई रुद्राक्ष की माला घुमा रहे थे, जिससे वे ऐसे प्रतीत हो रहे थे मानो निरन्तर घूमने वाले नक्षत्र मण्डल से युक्त दूसरे ध्रुव नक्षत्र हों। उनके शरीर पर ऊपर उभरी हुई धमनियों ऐसी प्रतीत हो रही थीं मानों किसी पुराने कल्पवृक्ष पर पकी हुई लतायें फैली हुई हों। वे मानस सरोवर के जल में घुलते रहने के कारण अत्यन्त स्वच्छ छाल का वस्त्र पहिने हुए थे जो चन्द्रमा की किरणों अथवा अमृत के झागों अथवा गुणों (दया-धर्मादि) के धागों से बना हुआ सा प्रतीत हो रहा था और शरीर के ऊपर ऐसा लग रहा था मानों एक दूसरी बुढ़ापे के जाल ने उनके शरीर को ढँक दिया हो। उनके पास ही तीन लकड़ियों को बाँधकर बनाये गये आधार (त्रिपादिका) पर स्थित गंगाजल से भरा हुआ बिल्लौरी कमण्डलु; फूले हुये सफेद कमलों के बीच बैठे हुये राजहंस के समान सुशोभित हो रहा था। उन्होंने अपनी ही स्थिरता में से पर्वतों, गम्भीरता में से


१. घटिताङ्ग...। २. उज्ज्वल । ३. तारक । ४. वल्लभा । ५. भ्रमरैः। ६. ...क्षास्तित...। ७. अद्वितीयेन । ८. स्फटिक...। ९. ...कमल...।

१३४कादम्बरी-[कथामुखे-

मिव राजहंसेनोपशोभमानम्, स्थैर्येणोच्बलानां गाम्भीर्येण सागराणां तेजसा सवितुः प्रशमेन तुषाररश्मेः निर्मलतयाऽम्बरतलस्य संविभागमिव कुर्वाणम्, वैनतेयमिव स्वप्रभावोपात्तसकल^२द्विजाधिपत्यम्, कमलासनमिवाश्रमगुरुम्, जरञ्चन्दनतरुमिव भुजङ्ग^३निर्मोकधवलजटाकुलम्, प्रशस्तवारणमिव^४ प्रलम्बकर्णबालम्, वृहस्पतिमिवाजन्मवर्द्धितकचम्, दिवसमिवोद्यदर्कबिम्बभास्वरमुखम्, शरत्कालमिव क्षीणवर्षम्,

त्रिदण्डस्त्रिपदिका तत्रोपविष्टेन तदुपरिस्थापितेन, राजहंसेन कादम्बेन 'राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे' इति हैममेदिस्यौ, विकचः प्रस्फुटितः पुण्डरीकराशिः सिताम्भोजसमूहस्तमिव, स्फाटिककमण्डलुना स्फटिकमणिनिर्मितकमण्डलुना उपशोभमानं विराजमानम् । अत्रोपमा ।

स्थैर्येणेति । स्थैर्येण स्थिरतया अचलानां गिरीणाम्, गाम्भीर्येण गाम्भीर्यगुणेन सागराणां सरित्पतीनाम्, तेजसा प्रतापेन सवितुः आदित्यस्य प्रशमेन शान्त्या तुषाररश्मेश्चन्द्रमसः, निर्मलतया अतिस्वच्छतया अम्बरतलस्य आकाशस्य सविभागं स्वीयवस्तुनः परेभ्यः किञ्चिद्भिभज्य प्रतिपादनं कुर्वाणं विदधानमिव स्थैर्यगाम्भीर्यप्रभृतीन् स्वगुणान् अचलादिभ्यः सम्यग्विभज्य दत्त्वेव स्थितमित्यर्थः स्वस्मिन् तथाविधस्थैर्यादिगुणयुक्तत्वादित्याशयः तत्र अचलानां स्थैर्यं कम्पशून्यत्वम् ऋषेः स्थैर्यन्तु चित्तस्थिरता, समुद्राणां गाम्भीर्यम् अगाधत्वम्, ऋषेः गाम्भीर्यन्तु दुरवगाहप्रकृतित्वम्, आदित्यस्य तेजः तीक्ष्णरश्मित्वम्, ऋषेस्तेजस्तु तपोमाहात्म्यवत्त्वम्, चन्द्रमसः प्रशमः सौम्यस्वरूपत्वम् ऋषेः शमस्तु इन्द्रियाणामन्तर्मुखेन प्रवृत्तिकरणम्, ऋषेर्निर्मलता पापरहित्यमिति परस्परं भेदसत्त्वेऽपि श्लेषमहिम्ना अभेदाध्यवसायादतिशयोक्त्यलङ्कारः, कुर्वाणमिदेति क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।

वैनतेयमिति । गरुडमिव 'गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः' इत्यमरः, स्वप्रभावेण स्वतेजसा उपात्तम् अर्जितं सकलेषु समस्तेषु द्विजेषु विप्रेषु पक्षिषु च आधिपत्यं स्वामित्वं येन तं तादृशम् 'दन्तविप्राण्डजा द्विजाः' इत्यमरः ।

कमलेति । कमलासनो विरञ्चिः 'विरञ्चिः कमलासनः, इत्यमरः, तमिव; आश्रमस्य तत्तपोभूमेः ब्रह्मचर्यादीनां चतुर्विधानामाश्च्रमाणाञ्च गुरुः शिक्षयिता नियामकश्च तं तादृशम् । ब्रह्मणैव वर्णाश्रमाश्च नियमिता इति पौराणिकी वार्त्ता ।

जरदिति । जरत पुरातनो यश्चन्दनतरुः मलयजवृक्षः तमिव, भुजङ्गानां सर्पाणां ये निर्मोकाः कञ्चुकाः तद्वत् धवलाः श्वेताः जटाः सटाः, अन्यत्र भुजङ्गनिर्मोका धवला जटा इव ताभिः आकुलं सङ्कीर्णम् । प्राचीनचन्दनवृक्षेष्वेव परिमलविशेषाधिक्यात्सपॉधिक्यसम्भव इति प्रतिपादनार्थं जरत्ग्रहणमित्यवधेयम् ।

प्रशस्तेति । प्रशस्तो निखिललक्षणोपेतः वारणपतिः हस्तिनायकः तमिव प्रलम्बाः छेदनाभावाद्तिविस्तृताः कर्णबालाः श्रवणलोमानि यस्य तं तादृशम्, पक्षे-प्रलम्बाः प्रलम्बमानाः कर्णौ श्रोत्रे बालाः पुच्छकेनाश्च यस्य तं तादृशम् ।

वृहस्पतीति । वृहस्पतिः सुराचार्यः तमिव, आजन्म जन्मप्रभृति क्षौराभावाद् वर्द्धिता वृद्धिं प्रापिताः कचाः केशा येन तं तादृशम्, पक्षे-कचः कचाभिधः सुतो येन तं तादृशम् ।

पुरा किल वृहस्पतेः कचनामा पुत्र उत्पन्न इति पौराणिकी वार्ता ।

दिवसमिति । दिवसो वासरः तमिव, उद्यत् उद्गच्छत् अर्कबिम्बं सूर्यमण्डलं तद्वत् भास्वरं


समुद्रों, तेज में से सूर्य, शान्ति में से चन्द्रमा और निर्मलता में से आकाश को थोड़ा-थोड़ा-सा भाग दे रखा था। जैसे गरुड़ अपने प्रभाव से समस्त पक्षियों का स्वामी होता है उसी प्रकार वे भी अपने तपोबल से सभी ब्राह्मणों के स्वामी बन गये थे, जैसे ब्रह्मा चारों आश्रमों के गुरु हैं उसी प्रकार वे भी उस आश्रम के गुरु थे, जैसे पुराना चन्दन का पेड़ साँप की केंचुलों से लिपटा रहता है उसी प्रकार वे भी सफेद जटाओं से घिरे हुये थे, जैसे वृहस्पति ने जन्मकाल से ही कच का पालन-पोषण किया था उसी प्रकार उन्होंने भी जन्म से ही बालों को रख


१. अंवेवः स्थैर्येण सागराणां गाम्भीर्येण । २. क्वापि सकलपदं न विद्यते । ३. भुजङ्ग*** । ४. ***वारणपतिमिव । ५. कर्णतालन् कर्णतालन् ।

जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता। १३५

शान्तनुमिव प्रियसत्यव्रतम्, अम्बिका-करतलमित्र रुद्राक्ष-ग्रहण-निपुणम्, शिशिर-समय-सूर्य्यमिव कृतोत्तरासङ्गम्, बडवानलमिव सततं-पयोभक्ष्यम्, शून्यनगरमिव दीनानाथविपन्न-शरणम्, पशुपतिमिव भस्म-पाण्डु-रोमाश्लिष्ट-शरीरम्, भगवन्तं जाबालिमपश्यम्। अवलोक्य चाहमचिन्तयम्-'अहो प्रभावस्तपसाम्! इयमस्य शान्तापि मूर्त्तिरुत्तप्त-

दीप्तिमन् मुखम् आननं यस्य तं तादृशम्, पक्षे-उद्यदर्कबिम्बेन भास्वरमुखं प्रारम्भिकप्रकाशो यस्य तं तादृशम्।

शरदिति। शरत्कालः वर्षात्ययसमयः तमिव, हीनानि व्यतीतानि वर्षाणि 'शतायुर्वे पुरुषः' इत्यादि-नियमितावस्थाहायनानि यस्य तं तादृशम्, यत्किञ्चिदवशिष्टावस्थामित्यर्थः, पक्षे-क्षीर्णं स्वस्वत्वमुपगतं वर्षं वृष्टिर्यस्मिन् तं तादृशम्।

शान्तनुमिति। शान्तनुः चन्द्रवंशीयो भीष्मपितामहपिता तमिव, प्रियम् प्रेमास्पदं सत्यव्रतं सत्य-वचनासदाचाररूपो नियमो यस्य तं तादृशम्, पक्षे-प्रियः अत्यन्तोरुकृष्टात्मजत्वात् प्रेमजनकः सत्यव्रतो यस्य तं तादृशम्।

अम्बिकेति। अम्बिकाया भवान्याः करतलं हस्तमिव, रुद्राक्षस्य रुद्राक्षमालायाः ग्रहणे उपादाने निपुणं कुशलम्, पक्षे-रुद्रस्य महेश्वरस्य अक्षिणी नयने इति रुद्राक्षे तयोर्ग्रहणे कुतूहलेन पिधाने निपुणं दक्षम्।

शिशिरेति। शिशिरसमयस्य शीतकालस्य सूर्य्यम् आदित्यमिव, कृतो भुजान्तराले स्थापितः उत्तरा-सङ्ग उत्तरीयावसनं येन तं तादृशम्, पक्षे-कृतो विहित उत्तरस्या दिशः कौवेराशायाः सङ्गः यथाक्रमं सम्बन्धो येन तं तादृशम्, तत्समये सूर्यस्योत्तरदिग्गमनप्रारम्भात्।

वटवेति। वडवानलो वाडवाग्निः तमिव, सततं निरन्तरं पयो दुग्धमात्रं सलिलञ्च भक्ष्यम् अदनीयं शोपणीयञ्च यस्य तं तादृशम्।

शून्येति। शून्यं जनरहितं नगरं पुरमिव, दीनानां दुर्गेतानाम् अनाथानाम् अस्वामिकानां विप-न्नानां व्याधिव्यथितादीनाञ्च रक्षकं पालकम्, पक्षे-दीनानि शोभाशून्यानि अनायानि निवासिलोक-रहितानि, विपन्नानां नष्टानि शरणानि गृहाणि यत्र तत् तादृशम् 'शरणं गृहरक्षित्रो' इत्यमरः।

पशुपतिमिति। पशुपतिः शङ्करः तमिव, भस्मवत् पाण्डूनि परिणतत्त्वात् शुभ्राणि यानि रोमाणि लोमानि, भस्मना भूया पाण्डुरोमाणि च तैराश्लिष्टं समन्तात् सक्तं शरीरं वपुर्यस्य तं तादृशम् भगवन्तम् ऐश्वर्यादिमन्तं जाबालिम् एतन्नामानं मुनिराजम् अपश्यम् अद्राक्षम्।

अत्र 'वैनतेयमिव' इत्यारम्य 'पशुपतिमिव' इत्यन्तं यावत् पूर्णोपमालङ्कारः। केवलं 'जरद्-चन्दनतरुमिव भुजङ्गनिर्मोकधवलजटाकलापं' इत्यत्र लुप्तोपमापूर्णोपमयोरङ्गाङ्गिभावेन सङ्करालङ्कार इति ज्ञेयम्।

अवलोक्येति। अवलोक्यत प्रेक्ष्य च सहं वैशम्पायनः अचिन्तयम् व्यचारयम्-अहो इत्याश्चर्ये तपसां स्वाध्यायादीनां प्रभाव ऐश्वर्यम्, इयं पुरो दृश्यमाना शान्तापि प्रसन्नापि अस्य मुनेः मूर्त्तिः स्वरूपम्

छोड़ा था, वैसे दिन निकलते हुये सूर्यमण्डल से प्रकाशित हो उठता है उसी प्रकार वह अपने कान्तिमान् मुख-मण्डल से प्रकाशित हो रहे थे, जैसे शरद ऋतु में वर्षा हीन हो जाती है उसी प्रकार वह भी अपनी आयु के बहुत वर्ष बिता चुके थे, जैसे राजा शान्तनु अपने पुत्र सत्यव्रत से स्नेह करने वाले थे उसी प्रकार वे भी सत्य के व्रत का पालन करने वाले थे, जैसे भगवती पार्वती के हाथ भगवान् शंकर की आँखों की मूंदने में कुशल हैं उसी प्रकार उनके हाथ भी रुद्राक्ष की माला ग्रहण करने में कुशल हैं, जैसे शीतकाल में सूर्य उत्तर दिशा का साथ करने लगता है अर्थात् धीरे-धीरे उत्तरायण होने लगता है उसी प्रकार वे भी बस्त्र धारण करने वाले थे, जैसे वाडवाग्नि निरन्तर जल का शोषण करती रहती है उसी प्रकार वे भी निरन्तर दूध का ही भोजन करने वाले थे, जैसे उजड़ा हुआ नगर गिरे पड़े ननुष्यरहित मकानों को अपनी शरण में रखने वाला होता है उसी प्रकार वे भी दरिद्रों, अनाथों और असहायों को शरण देने वाले थे और जैसे शंकर जी का शरीर भस्म लगाने के कारण सफेद रोमों से भरा रहता है उसी प्रकार उनका शरीर सफेद रोमों से ढँका हुआ था।

उस महर्षि जाबालि को देखकर मैंने मन ही मन विचार किया कि तपस्या का प्रभाव भी कितना महान्

१. रुद्राक्षवलयग्रहण... । २. क्षीदान्तमिव। ३. सन्तत... । ४. मङ्गम् ।

१३६ | कादम्बरी- | [ कथामुखे-


कनकावदाता परिस्फुरन्ती सौदामिनीव चक्षुषः प्रतिहन्ति तेजांसि, सततंमुदासीनापि महा-प्रभावतया भयमिषोपजनयति प्रथमोपगतस्य शुष्क-नल-काश-कुसुम-निपतितोऽनल चटुल-वृत्ति-नित्यमसहिष्णुतपस्विनां प्रतनुँतपसामपि तेजःप्रकृत्या दुःसहं भवति, किमुत सकल-भुवन वन्दित-चरणानाममवरत-तपःसलिल-क्षालितमलानां कर-कमल-तलामलक फलवदखिलं जगदालोकयतां दिव्येन चक्षुषा भगवतामेवविधानामघवक्षयकारिणाम् । पुण्यानि हि नामग्रहणान्यपि महामुनीनाम्, पुनर्दर्शनानि । धन्यमिदमाश्रमपदमयमधिपतिर्यत्र । अथवा भुवनतलमेव धन्यमखिलमनेनाधिष्ठितमवनितल-कमलयोनिना ।

उत्तप्तम् अत्यन्तमुष्णीकृतं यत् कनकं काञ्चनं तद्वत् अवदाता निर्मला परिस्फुरन्ती देदीप्यमाना सौदामिनीव तडिदिव चक्षुषो लोचनस्य तेजांसि ज्योतींषि प्रतिहन्ति प्रतिघातं नयति, साम्मुख्येन व्रजन्ती लोचनरश्मीनां विच्छेत्तृत्त्या प्रतिनिवृत्तिः सर्वानुभवसंवेद्यैवेत्याशयः । सततम् अजस्रम् उदासीनापि मध्यस्थापि परेषां भयोत्पादने फलशून्यापि इयं मूर्तिरित्यर्थः, महाप्रभावतया अत्युग्रप्रतापतया प्रथमम् अपूर्वम् उपगतस्य प्राप्तस्य सम भयं त्रासम् उपजनयतीव उत्पादद्यतीव । शुष्काणि विरसानि यानि नलकाशकुसुमानि स्वनामविख्याततृणविशेषाः तेषु निपतितो योऽनलोऽग्निः यस्येव चतुला चञ्चला आशुतरा वृत्तिः प्रसरणव्यापारो यस्य तत् तादृशम्, तथा नित्यं सततम् असहिष्णु असहनशीलम् अन्यतेज इति शेषः, तनु स्वल्पं तपो येषां तेषामपि तपस्विनां तपस्यावतां तेजः प्रभावः, प्रकृत्या स्वभावेन (दुःसहम् असहनीयम्) इत्यत्र पाठान्तरं भवति परेणमिति शेषः । सकलभुवनतलेषु समस्तसंसारतलेषु वन्दितचरणानां नमस्कृतपादानाम् अनवरतं निरन्तरं हतपांप्येव सलिलेानि वारिणि तैः क्षालितानि धौतानि मलानि दुष्कृतान्येव मलानि पङ्कादीनि यैस्तेषां तादृशानाम्, तथा दिव्येन परलोकीयेन चक्षुषा ज्ञाननेत्रेणेत्यर्थः करकमलतलं पाणिपद्मतलं तत्र आमलकफलवत् धात्रीफलवत्, अखिलं समग्रं जगत् संसारम् अवलोकयतां पश्यताम्, एवंविधानाम् इत्थंभूतानां जावालिसदृशानाम् अघवक्षयकारिणाम् अवलोकनमात्रेणैवान्येषां दुष्कृतध्वंसविधायिनां भगवताम् ऐश्वर्यादिमतां किमुत किमाश्चर्यम् ।

अत्र 'उत्तप्तकनकावदाता' इत्यत्र लुप्तोपमा, 'उपजनयतीव' इति क्रियोत्प्रेक्षा, तथा परत्र लुप्तोपमाश्लिष्टपरम्परितरूपकञ्च ।

पुण्यानीति हि निश्चितम्, मुहामुनीनां महातपस्विनां नामग्रहणान्यपि नामसङ्कीर्तनमात्रण्यपि पुण्यानि पुण्योत्पादकानि दर्शनानि तेषां निरीक्षणािन किं पुनः किं वक्तव्यम्, नूनं पापापनोदकानीत्यर्थः । इदं प्रत्यक्षम् आश्रमपदम् ऋषिजनस्थानं धन्यं कृतकृत्यमित्यर्थः यतो हि, यत्र आश्रमे अयं मुनिराजः अधिपतिः नेता । अथवा यद्वा अवनितलस्य मर्त्यलोकस्य कमलयोनिः ब्रह्मा तद्रूप इत्यर्थः तेन तथोक्तेन अनेन पुरोदृश्यमानेन मुनिना अधिष्ठितम् आश्रितम् अखिलं समग्रं भुवनतलमेव जगतीतलमवे धन्यं कृतपुण्यं 'सुकृती पुण्यवान् धन्यः' इति हैमः, तपोवनस्य तदन्तर्गतत्वादित्याशयः । खलु निश्चयेन

और आश्चर्यजनक हैं ? इनकी मूर्ति कितनी शान्त है फिर भी उससे तपाये हुए सोने जैसी निकलने वाली कान्ति बिजली के समान आँखों में चकाचौंध उत्पन्न करके उसे तेजरहित कर दे रही है और पहले-पहल आने वाले के प्रति यद्यपि उसमें कोई भी भाव नहीं है फिर भी अपने अत्यन्त प्रभाव के कारण वह आने वाले को भयभीत-सा बना दे रही है । जब सूखी हुई नल नाम की घास के फूलों पर पड़ी हुई आग के समान चञ्चल स्वभाव वाले ईर्ष्यालु तथा छोटे-मोटे तपस्वियों का तेज भी स्वभावतः अत्यन्त दुःसह होता है तब ऐसे महान् और पापों का नाश कर देने वाले तपस्वियों की बात ही क्या है, जिनके चरणों की पूजा सारा संसार ही करता है, जिन्होंने तप रूपी जल से काम-क्रोधादि रूपी सभी दोषों को धो डाला है और जो अपनी दिव्य दृष्टि से हाथ में रखे हुए आँवले के समान सभी लोकों को देख सकते हैं । मुनियों का नाम लेना ही बहुत बड़ा पुण्य है फिर दर्शन की तो बात ही क्या है। यह आश्रम भी धन्य है जिसके ये स्वामी हैं अथवा यह पृथ्वीतल ही धन्य है जिस पर इस लोक के ब्रह्मा के समान ऐसे महर्षि स्थित हैं । ये मुनिलोग भी कितने पुण्यवान् हैं जो अपने सभी कार्यों


१. सौदामनीव । २ निपतिता चहुल । ३. तनुतपसाम् । ४. कापि दुःसहमिति न विद्यते । ५. भुवनतल... । ६. ॰॰ तपःक्षपिकमलानाम् । ७. करतलामलकवदं । ८. ॰॰अघवक्षयकारणानि पुण्यानि ॰॰ नाम करणानि पुण्यानि नाम । ९. मुनीनाम् ।

जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १३७

पुण्यभाजः खल्वमी मुनयो यदहर्निशमेनमपरमिव नलिनासनमपगतान्यव्यापारा मुखावलोकन-निश्चलदृष्टयः पुण्याः कथाः शृण्वन्तः समुपासते। सरस्वत्यपि धन्या, याऽस्यै तु सततमतिप्रसन्ने करुणाजलनिष्यन्दिन्यगाधगाम्भीर्ये रुचिरद्विजपरिवारा मुखकमलसम्पर्क-सुखमनुभवन्ती निवसति राजहंसीव मानसे। चतुर्मुखमुखकमलवासिभिश्चतुर्वेवैः सुचि-रादिवै द्वितीयमिदमासादितं स्थानम् । एनमासाद्य शरत्कालमिव कलिकाल-जलधर-समय-कलुषिताः प्रसादमुपगताः पुनरपि जगति सरित इव सर्वविद्याः। नियतमिह सर्वात्मना कृतावस्थितिना भगवता परिभूत-कलिकाल-विलसितेन धर्म्मेण न स्मर्य्यते कृत-

अपगता दूरीभूता अन्ये व्यापाराः कर्म्माणि येषां ते तादृशाः, तथा मुखावलोकने मुनिवदननिरीक्षणे निश्चला निमेषरहिता दृष्टिः अवलोकनं येषां ते तादृशाः, पुण्याः धर्मजनिकाः कथाः किंवदन्तीः शृण्वन्तः आकर्णयन्तः, अमी प्रत्यक्षोपलभ्यमाना मुनयः तपस्विनः पुण्यभाजः सुकृतभाजः यत् तस्मात् कारणात् अहर्निशं प्रतिदिनम् अपरम् अन्यं नलिनासनं कमलासनमिव विद्यमानं तं समुपासते परिचर्यां कुर्वते। तु पुनरर्थे । सततं निरन्तरम् अतिप्रसन्ने अतिशयेन प्रसादगुणयुक्ते अतिस्वच्छे च, करुणा परदुःखप्रहा-णेच्छा जलमिव करुणेव च जलमिति करुणाजलं यस्य निस्यन्दिनि स्राविणि, अगाधम् इयत्ताशून्यम् अतळस्पर्शञ्च गाम्भीर्यं दुरवगाहस्वभावत्वं गम्भीरता च यस्य तस्मिन् तादृशे अस्य महर्षेः मानसे चित्ते मानससरोवरे च हंसीव मरालीव, रुचिराः सुन्दराः द्विजा छात्रीभूता विप्राः पक्षिणश्च 'दन्त-विप्राण्डजा द्विजाः' इत्यमरः, परिवाराः परिजनाः यस्याः सा तादृशी या सरस्वती भारती निवसति वासं विधत्ते साऽपि धन्या श्लाघ्या, असामान्यसुकृतेनैवंविधवासस्थानस्य प्राप्यत्वात् सा सरस्वत्यपि धन्येत्याशयः।

अत्र 'अवनितलकमलयोनिना' इत्यत्र निरङ्गं केवलरूपकमलङ्कारः, 'नलिनासनमिवे'त्यत्र दम्भो-त्प्रेक्षालङ्कारः, 'हंसीवे'त्यत्र पूर्णोपमालङ्कारः।

चतुरिति। चतुर्मुखस्य प्रजापतेः मुखकमलानि वदनपद्मानि तत्र वासिभिः स्थायिभिः चतुर्वेदैः ऋग्यजुःसामाथर्वाभिः सुचिरादिव चिरसमयादिव इदम् एतत् द्वितीयम् अपरं तपोवनरूपम् स्थानम् आसादितं प्राप्तम्। अत्र सुचिरादिवेति गुणोत्प्रेक्षा, तेन हि ब्रह्मणो मुखस्य तुल्यत्वं तपोवनस्य पूतत्वं ध्वन्यत इत्यलङ्कारेण वस्तुध्वनिः।

एनमीति। कलिकालः कलिसमयः जलधरसमयः वर्षाकाल इव तेन कलुषिताः निजप्रभाववशात् कुत्सितविवृत्यादिना अनुष्ठानशून्येन च दूषिताः, मलिनीकृताश्च सर्वविद्या अष्टादशविद्या वेदादिविद्याः सरितो नद्य इव शरत्कालमिव घनात्ययमिव एनं मुनिम् (जावालिम्) आसाद्य प्राप्य संसारे पुनरपि द्वितीयवारमपि प्रसादं सद्वृत्त्यादिना अनुष्ठानेन च निर्दोषत्वं नैर्मल्यञ्च उपगताः प्राप्ताः। मुनिरयं निखिला अपि विद्या धारयति तद्व्रतिपादितानुष्ठानञ्च सम्पादयतीत्याशयः।

नियतमिति। इह अस्मिन् आश्रमे सर्वात्मना सर्वविधिना कृता विहिता अवस्थितिः वासो येन स तेन तादृशेन भगवता महाभाग्यवता धर्मेण सुकृतेन, परिभूतं न्यक्कृतं दूरीकृतमित्यर्थः। कलिकालस्य


को छोड़ कर इन महर्षि के मुँह को अपलक आँखों से देखते हुए रात-दिन कथायें सुना करते हैं और दूसरे ब्रह्मा के समान इनकी उपासना में लगे रहते हैं। वह सरस्वती भी धन्य है जो निर्मल जल से भरे अथाह मानस सरोवर में पक्षियों के साथ कमलों के सुख का अनुभव करने वाली राजहंसिनी के समान इन महर्षि के मुख के सम्पर्क का सुख प्राप्त करती हुई उनके अत्यन्त प्रसन्न कारुणिक एवं गम्भीर हृदय में निवास करती है। ब्रह्मा के मुख कमलों में निवास करने वाले चारों वेदों को बहुत दिनों के पश्चात् यह दूसरा स्थान (जाबालि का मुख) प्राप्त हुआ है। जैसे वर्षा काल में कीचड़ से भरी हुई नदियाँ शरत् ऋतु पाकर फिर निर्मल हो जाती हैं उसी प्रकार कलिकाल के प्रभाव से दूषित सारी विद्यायें इन महर्षि को पाकर फिर निर्दोष हो गयी हैं। कलिकाल के सभी प्रपञ्चों को हरा कर एकाग्र भाव से इन महर्षि में निवास करने वाले भगवान् धर्मदेव निश्चय


१. मुखकमलावलोकन० ।
२. पर्युपासते ।
३. यदस्मिन् याऽस्य ।
४. रुचिरद्विजकुल-परिचये, द्विजपरिवारे ।
५. क्वचित् 'सुखं' पदं नास्ति ।
६. ईमीव ।
७. क्वचित् द्वितीयमुखपदं नास्ति ।
८. वेदैः चतुर्भिर्वेदैः ।
९. क्वचित् 'इव द्वितीयम्' इत्युभयपदनापि नास्ति ।
१०. कलि-जलद-समय० ।

१८ का० कथा०

१३= कादम्बरी- [ कथामुखे-

युगस्य । धरणितलमनेनाधिष्ठितमालोक्य न वहति नूनमिदानीं सप्तर्षिमण्डल-निवासाभि- मानमम्बरतलम् । अहो ! महासत्त्वेयं जरा, यास्य प्रलय-रवि-कर-निकर-दुर्निरीक्ष्ये रज- निकर-किरण-पाण्डु-शिरोरुहे जटाभारे फेनपुञ्ज-धवला गङ्गेव पशुपतेः क्षीराहुतिरिव शिखाकलापे विभावसोर्निपतन्ती न भीता । बहलाज्य-धूम-पटल-मलिनीकृताश्रमस्य भगवतः प्रभावाद्वीतमिव रवि-किरणजालमपि दूरतः परिहरति तपोवनम् । एते च पवन- लोल-पुञ्जीकृत-शिखाकलापा रचिताञ्जलय इवात्र मन्त्रपूतानि हवींषि गृह्णन्ति एतत्प्रीत्या-

विकसितं चेष्टितं येन तथोक्तेन सता कृतयुगस्य सत्ययुगस्य नियतं नूनं न स्मर्यते न चिन्त्यते सत्ययुगीय निखिलसदाचारोपलम्भादित्याशयः ।

अत्र नियतपदस्य ध्रुवादिपदवत् उत्प्रेक्षाभिधायकत्वाद्वाच्याभावाभिमानिनी क्रियोत्प्रेक्षा ।

धारणीति । अम्बरतलम् आकाशतलं (कर्तृ), अनेन मुनिना अधिष्ठितम् आधितं धरणितलं पृथिवीतलम् आलोक्य नूनं निश्चितम् इदानीं सम्प्रति सप्तर्षिमण्डलस्य कश्यपादिसमूहस्य निवासेन आत्मन्यवस्थानेन योऽभिमानोऽहङ्कारः तं न वहति धत्ते सप्तर्षिवन्मुनेरवस्थ्या तेन पृथिवीतलस्यापि स्वसमानत्वादित्याशयः पूर्ववदेवाsubha/लङ्कारः ।

अहो इति । अहो आश्चर्यम्, इयम् अस्य देहेऽवलोक्यमाना, जरा वृद्धावस्था, महासत्त्वा महाप्राणा अत्यन्तशक्तिमती । कथमेतदवधार्यते, इत्यत आह- यास्येत्यादि । फेनस्य डिण्डीरस्य यः पुञ्जः समूहः तेन धवला उज्ज्वला या जरा, प्रलये कल्पान्ते यो रविकरनिकरः सूर्यकिरणसमूहः तद्वत् दुर्निरीक्ष्ये महातेजस्वितयाऽवलोकयितुमशक्ये, तथा रजनिकरस्य चन्द्रस्य किरणवत् मयूखवत् पाण्डवः श्वेतवर्णाः शिरोरुहाः केशा यत्र तथोक्ते, अस्य मुनेः (जावालेः) जटाभारे सटासमूहे पशुपतेः, महेश्वरस्य जटाभारे सटासमूहोपरि निपतन्ती पतनं विदधती फेनपुञ्जवत् धवला गङ्गा भागीरथी इव, तथा विभावसोर्वह्नेः शिखाकलापे ज्वालासमूहे निपतन्ती फेनपुञ्जधवला क्षीरस्य दुग्धस्य आहुतिः प्रक्षेप इव निपतन्ती उपगन्तुं प्रवृत्ता सती न भीता न त्रस्ता । अत्र यथाक्रमं प्रलयरविकर, रजनिकरकिरण, फेनपुञ्जेत्यत्र तिस्रो लुप्तोपमाः, गङ्गेव आहुतिरिवेत्यत्र चोपमे द्वे इत्येतेषामङ्गाङ्गिभावेन सङ्करालङ्कारः ।

बहलेति । रवेः सूर्यस्य किरणजालं मयूखसमूहः (कर्तृ) बहलानां प्रचुराणाम् आज्यधूमानां हविर्धूमानां पटलैः वृन्दैः मलिनीकृतःश्यामतां प्रापितः आश्रम्रो यस्य तादृशस्य भगवतो माहात्म्यवतो- जाबालेः प्रभावात् माहात्म्यात् भीतमिव त्रस्तमिव सद् दूरतो दूर एव एतत्तपोवनं परिहरति त्यजति । स्वप्रतिपक्षिणः प्रवलतमस इव धूमपटलस्योत्पादकतया मुनेरपि प्रतिपक्षिप्रक्षान्तर्भावात्त्रासेन तदन्तिकपरित्यागः समुचित एवेत्याशयः । अत्र भीतमिवेति क्रियोत्प्रेक्षा ।

एत इति । अत्र आश्रमे पवनेन समीरेण लोलश्चपलः पुञ्जीकृतश्च शिखाकलापो ज्वालासमूहो येषां ते तादृशः, एते पुरोऽवलोक्यमानाः आश्रुशुक्षणयः दक्षिणाग्नि-गार्हपत्याहवनीयरूपा होमवह्नयश्च रचिताञ्जलयः आहुतिस्वीकरणाय ऊर्ध्वीकृतयुक्तपाणितलद्वया इव सन्तः, एतस्य महर्षिजाबालेः प्रीत्या स्नेहेन मन्त्रपूतानि ऋचा पवित्राणि हवींषि होतव्यानि घृतादीनि गृह्णन्ति स्वीकुर्वन्ति 'शिखावानाशुशुक्षणिः' इत्यमरः अत्रापि क्रियोत्प्रेक्षालङ्कारः ।


हो अब सत्ययुग को याद न करते होंगे और इन महात्मा को पृथ्वीतल पर स्थित देखकर अब आकाश भी सप्तर्षियों के निवास स्थान होने का अभिमान न करता होगा । यह बुढ़ापा भी कितना साहसी है जो शङ्कर जी की जटाओं में गिरने वाली उज्ज्वल फेन से भरी गङ्गा तथा अग्नि में गिरने वाली दूध की आहुति के समान इन मुनि की प्रलयकालीन सूर्य की किरणों जैसी चमकीली एवं चन्द्रमा की किरणों जैसी उजली जटाओं पर गिरने में डरी नहीं । यज्ञकुण्ड में निरन्तर अत्यधिक घी की आहुति पड़ते रहने के कारण इस आश्रम पर उससे उठने वाले धुवों की छाया पड़़ती रहती है जिससे ऐसा प्रतीत होता है मानों इस महर्षि के प्रभाव से सूर्य की किरणें भी इस आश्रम को दूर से ही छोड़ देती हैं। आश्रम के हवन-कुण्डों में धधकती हुई अग्नि की


१. आलक्ष्य, अवलोक्य ।
२. क्वचित्, 'मण्डल' पदं नास्ति ।
३. "रविरादिन
४. "***दुर्निरीक्षे ।
५. रजनिकरनिकरपाण्डुरे जटाभारे ।
६. निष्पतन्ती ।
७. "***आश्रमपदस्य ।
८. "***भीतमीतमिव ।
९. "***दाहकमपि ।
१०. "***पुञ्जितशिखाकलापाः, शिखाजटिलाः ।

जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १३६

शुश्रूषणयः। तरलित-दुकूलवल्कलोऽप्याश्रमलता-कुसुम-सुरभि-परिमलो मन्दमन्दसञ्चारी सशङ्क इवास्य समीपमुपसर्पति गन्धवाहः। प्रायो महाभूतानामपि दुरभिभवानि भवन्ति तेजांसि। सर्वतेजस्विनामयमग्रणीः। द्विसूर्य्यमिवाभाति जगदेनेनाधिष्ठितं महात्मना। निष्कम्पेव क्षितिरेतदवष्टम्भात्। एष प्रर्वाहः करूँणारसस्य, सन्तरणसेतुः संसारसिन्धोः, आधारः क्षमाम्भसाम्, परशुस्तृष्णालता-गहनस्य, सागरः सन्तोषामृत-रसस्य, उपदेष्टा सिद्धिमार्गस्य, अस्तगिरिरसद्ग्रहस्य मूलमुपशमतरॊः, 'नाभिः प्रज्ञाचक्रस्य 'प्रासादो-

तरलिनेति। तरलितानि कम्पितानि दुकूलवत् क्षौमवसनवत् वल्कलम् ऋषिपिरिहिततस्त्वक् येन स तादृशः, आश्रमलताकुसुमानाम् आश्रमलतापुष्पाणां सुरभिर्भ्राजतर्पणः परिमलो गन्धो यत्र स तादृशः, मन्दमन्दसञ्चारी शनैः शनै सञ्चरमाणः अयञ्च गन्धवाहः पवनः, सशङ्क भीताशय इव सन् अस्य जाबालेः समीपम् अन्तिकम् तपसर्पति उपगच्छति, परिहितवल्कलकम्पनेन स्वस्यापराधशङ्कया पवनस्य सशङ्कत्वं समुचितमेवेत्यभिप्रायः। सशङ्क इवेति गुणोत्प्रेक्षा।

प्राय इति। प्रायो बाहुल्येन समाभूतानामपि महाजन्तूनां मृगपतिगजादीनामपि तेजांसि महांसि दुरभिभवानि दुःखैनातिक्रमितुं शक्यानि भवन्ति, चोऽत्र किन्वर्थे। अयं मुनिः सर्वतेजस्विनां निखिलधामवताम् अग्रणीः प्रधानः, सुतरामस्य तेजोऽतिक्रमणासम्भवात् सूर्यप्रभृतीनामुक्तविधो व्यवहारः समुचित एवेत्याशयः।

द्विसूर्य्यमिवेति। अनेन जाबालिना महात्मना भगवता अधिष्ठितम् आश्रितं जगत् द्विसूर्य्यमिव द्वौ सूर्यौ यत्र तद्विव आभाति, अस्याऽप्यपरसूर्यसमानप्रभावत्वादित्याशयः द्विसूर्य्यमिवेति द्रव्योत्प्रेक्षा।

निष्कम्पेति। एतस्य मुनेः अवष्टम्भात् आलम्बादिव क्षितिः पृथिवी निष्कम्पा निश्चला। इह सवष्टम्भादिवेति हेतूत्प्रेक्षा।

एष इति। एष जाबालिः करुणा दयैव रसस्सलिलं तस्य प्रवाह ओघः, सर्वत्रैकरूपेण करुणाया विद्यमानत्वात्। संसारो मिथ्याज्ञानजन्या वासना स एव सिन्धुः समुद्रस्तस्य सन्तरणसेतुः उत्तरणजलपोतः 'तत्वमसि' इत्यादिमोक्षोपयोगिवाक्यपदेशद्वारा ज्ञानोत्पादनेन समुत्तारणात्। क्षमा परपरिभावादिवूपद्यमानेषु क्रोधप्रतिबन्धः सा एवाम्भांसि जलानि तेषाम् आधार आश्रयः सर्वत्रैव क्षमाकरणात् तृष्णा-विषयभोगलिप्सा एव लता वल्ल्यः तासां गहनस्य काननस्य परशुः कुठारः विनाशकारित्वात्। सन्तोषो यथाप्राप्तवस्तुनैव हृदि सन्तुष्टिः स एव अमृतंरसः पीयूषद्ववः तस्य सागरः समुद्रः, विपुलाधारत्वात्। सिद्धिमार्गस्य मोक्षपथस्य उपदेष्टा उपदेशकः, तादृशजिज्ञासुजनायाध्यात्मविद्योपदेशात् असद्ग्रहो दुरभिसन्धिरव असद्ग्रहः शनैश्चरप्रभृतिदुष्टग्रहः तस्य अस्तगिरिः अस्ताचलः, एनं प्राप्यैव सर्वेषां सुरभिसन्धिनाशात्। उपशमवरोः शान्तिद्रुमस्य मूलं घ्रत्न हेतुश्च, उपदेशादिना शान्तिकरणात्। प्रज्ञा प्रज्ञानमेव


चंचल रहते वायु के कारण यज्ञ में जुड़ी हुई सी ऐसी लग रही हैं मानो हवन की अग्नियां अञ्जुलियां बाँध कर उन महर्षि के मंत्रों से पवित्र हवन के सामानों को अत्यन्त प्रेम के साथ ग्रहण कर रही हों। उन महर्षि के पास लाने वाला मन्द-मन्द सुगन्धित वायु भी आश्रम की लताओं के फूलों की गन्ध लिए हुए वल्कल-वस्त्रों को हिलाकर मानो भयभीत-सा हो जाता है। प्रायः महान् प्राणियों का भी तेज अत्यन्त अपराजेय होता है। फिर इन महर्षि का तो कहना ही क्या जो सम्पूर्ण तेजस्वियों के प्रधान हैं। इस महापुरुष को धारण करके संसार दो सूर्यों को धारण करने वाला-सा बन गया है। इन्हीं की स्थिति से पृथ्वी भी अचला बनी हुई है। ये करुणारूपी जल के प्रवाह हैं, संसाररूपी सागर को पार करने के लिए पुल हैं, क्षमारूपी जल के आधार स्थान हैं, विषयवासना-रूपी घनी लताओं के काटने की कुल्हाड़ी हैं, सन्तोषरूपी अमृत के समुद्र हैं, सिद्धिमार्ग के गुरु हैं, असद्रूपी


१. प्रतिगृह्यन्तदाहुतयस्तनयः, प्रतिगृह्यन्तेतत्प्रदत्तस्रग्व्यादुकुसुमनयः। २. मन्दसञ्चारी । ३. तेजांसि यतः ।
४. निष्कण्टकेव । ५. अवष्टम्भादेव, अवष्टम्भेन । ६. प्रभवः । ७. करुणारसस्य । ८. क्षमाम्भसाम् ।
९. अमृतस्य । १०. असद्ग्रहकस्य । ११. नेमिः । १२. प्रसादो, स्थितिर्वैद्यो ।