भारतकोश
संग्रह पर लौटें

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

जाबाल्याश्रमवर्णनम्

समाप्तम्

अथ जावालिवर्णनम्

तस्य चैवंविधस्य मध्यभागमलङ्कुर्वाणस्य, अलक्तकलोहित-पल्लवस्य मुनिजना- लम्बित-कृष्णाजिन-जल-करङ्क-सनाथशाखस्य तापसकन्याभिर्मूलभाग-दत्त-पीत-पिष्टातका- नेक पञ्चाङ्गुलस्य हरिणशिशुभिः परिपीयमानालवाले-सलिलस्य मुनिकुमारकाबद्ध-कुशचीर- दाम्नो हरितगोमयोपलेपन-विविक्ततलस्य, तत्क्षण-कृत-कुसुमोपहार-रमणीयस्य नातिमहतः परिमण्डलया विस्तीर्णावकाशस्य रक्ताशोकतरोरधश्छायायामुपविष्टम्, अत्युग्रतपोभि-

तस्येति । एवंविधस्य पूर्वोक्तदिशा वर्णितस्य तस्य आश्रमस्य मध्यभागं मध्यदेशम् अलङ्कुर्वाणस्य शोभमानस्य, रक्ताशोकतरोरधश्छायायामुपविष्टं 'भगवन्तं जाबालिमपश्यम्' इति वक्ष्यमाणक्रियया सम्बन्धः । अत्र षष्ठ्यन्तानि पदानि रक्ताशोकतरोः, द्वितीयान्तानि च जाबालिमित्यस्य विशेषणानि बोध्यानि । अलक्तकवद् यावकवद् आलोहितानि किञ्चिद्रक्तानि पल्लवानि किसलयानि यस्य तस्य तादृशस्य । मुनिजनैः ऋषिगणैः आलम्बिताः स्थापिताः कृष्णाजिनानि कृष्णमृगचर्माणि जलकरङ्काः नारिकेलास्थिरचिताः पात्रविशेषाश्च घटा जलकरङ्काः जलरक्षणार्थं कमण्डलयः तैः सनाथाः संयुता शाखाः स्कन्धा यस्य तस्य तादृशस्य । 'करङ्को मस्तके शस्थे नारिकेलाफलास्थिनि' इति विश्वः । 'करकस्तु पुमान् पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मद्योपले न स्त्री करङ्के च कमण्डलौ ॥' इति मेदिनी ।

तापसकन्याभिः मुनिकुमारिकाभिः मूलभागे आलवाले मूलप्रदेशे दत्तानि निहितानि पीतपिष्टातकैः हरिद्रारूपपटवासचूर्णैः अनेकानि विविधानि पञ्चाङ्गुलानि करस्य पञ्चाङ्गुललक्ष्मणि यस्य तस्य तादृशस्य । हरिणशिशुभिः मृगबालकैः परिपीयमानं समन्तादास्वाद्यमानम् आलवालस्य मूलप्रदेशस्थावापस्य सलिलं जलं यस्य तस्य तादृशस्य । मुनिकुमारकैरिति ऋषिबालकैः आबद्धानि समन्तात्परिवेष्टितानि कुशचीराणां दर्भैः विधास्यमानवस्त्राणां दामानि रज्जवो यस्मिन् तस्य तादृशस्य । हरितेन हरिद्वर्णेन सरसेन गोमयेन गोः-पुरीषेण यदुपलेपनं तेन विविक्तं पूतं तलम् अधोदेशो यस्य तस्य तादृशस्य । तस्मिन्नेव क्षणे काले कृतेन विहितेन कुसुमोपहारेण पुष्पढौकनेन रमणीयस्य कमनीयस्य । नातिमहतो नातिविस्तृतस्य परिमण्डलतया गोलाकारतया धारणेन विस्तीर्णः अतिदीर्घः अवकाशः अधःस्थायो छायाप्रदेशो यस्य तस्य तादृशस्य । रक्तानां लोहितानाम् अशोकानां पुष्पाणां तरुः वृक्षः तस्य अधश्छायायां नीचस्थानातपे 'छाया सूर्य-प्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । उपविष्टम् आसीनम् ।

अत्युग्रेति । अत्युग्राणि अतितीक्ष्णानि तपांसि येषां तैस्तादृशैः महर्षिभिरित्यस्य विशेषणानि ।


इस प्रकार उस आश्रम के बीच एक लाल अशोक का पेड़ उसकी शोभा बढ़ा रहा था। उसके पत्ते आलते के समान लाल-लाल थे, उसकी डालियों पर मुनियों ने अपने काले-काले मृगचर्म और जल से भरे कमण्डलुओं को लटका दिया था, उसकी जड़ पर मुनियों की कन्याओं ने पीले पेषन (हल्दी और चावल की बुकनी मिलाकर बनाया गया लेप) के थापे (पाँचों उँगलियों सहित हथेलियों की छाप) लगा दिये थे, हरिण के छोटे-छोटे बच्चे उसके थाँवले में भरा हुआ जल पी रहे थे, उसके चारों ओर मुनियों के बालकों ने कुश के बने हुए वस्त्रों की करधनी की तरह लपेट दिया था, उसके नीचे की भूमि हरे गोबर से लीपकर पवित्र कर दी गयी थी और उस पर तटके फूल चढ़ाये गये थे जिससे वह और भी रमणीय लग रहा था। यद्यपि वह बहुत बड़ा नहीं था किन्तु मण्डल बाँधकर फैलने के कारण उसके नीचे बहुत दूर तक छाया रहती थी। मैंने भगवान् जाबालि को


१. मध्यभागमण्डनम्
२. अलक्तलोहित... ।
३. रोलपल्लवस्य ।
४. ॰॰लम्बिन ।
५. ॰॰करक॰॰॰ ।
६. ॰॰कुमारिकाभिरालवालदत्त॰॰॰ ।
७. पीतपिष्ट॰॰॰ ।
८. पीयमान॰॰॰आपीयमान ।
९. आन्वालक॰॰॰ ।
१०. ॰॰द्वन्द्वित॰॰॰ ।
११. ॰॰भूतलस्य ।
१२. ॰॰रचित॰॰॰ ।
१३. व्यग्रतपोभिः ।

१७ का० कथा०

१३० | कादम्बरी— | [ कथामुखे-

भुवनमिव सागरैः कनकगिरिमिव कुलाचलैः क्रतुमिव वैतानै-वह्निभिः कल्पान्तदिवस- मिव रविभिः, कालमिव कल्पैः, समन्तान्महर्षिभिः परिवृतम्, उग्र-शाप-भीतयेव कम्पित- देहयाँ, प्रणयिन्येव विहित-केशग्रहया, क्रुद्धयेव कृत-भ्रूभङ्गया, मत्तयेवाकुलितगमनया, प्रसाधितयेव प्रकटित-तिलकया जरया, गृहीतव्रतयेव भस्मधवलया धवलीकृत-विग्रहम्, आयामिनीभिः पलित-पाण्डुराभिः तपसाँ विजित्य मुनिजनमखिलं धर्म्मपताकाभिरिवो- च्छ्रिताभिः अमरलोकमारोढुं पुण्य-रज्जुभिरिवोपसंगृहीताभिः अतिदूर-प्रवृद्धस्य तप-

सागरैः समुद्रैः भुवनं विष्टपमिव, कुलाचलैः कुलाद्रिभिः कनकगिरिमिव सुमेरुपर्वतमिव, वितानस्य यज्ञस्य इम इति वैताना ये वह्नयः अग्नयः दक्षिणाग्निगार्हपत्याहवनीयाः तैः क्रतुमिव यज्ञमिव ‘वितानो यज्ञविस्तारोल्लेचेषु क्रतुकर्मणि’ इति विश्वः। रविभिः द्वादशसूर्यैः कल्पान्तदिवसमिव युगान्तदिनमिव तस्मिन् समये तत्पूर्वं च द्वादशसूर्योदयस्य पुराणविद्यात्वात्। कल्पैः युगान्तैः कालमिव अखण्डं समग्र- मिव, समन्तात् सर्वतः महर्षिभिस्तापसैः परिवृतं परिवेष्टितम्।

अत्रैकस्योपमेयस्य बहूनामुपमानानां निरूपणान्मालोपमालङ्कारः। तदुक्तं दर्पणे—

'मालोपमा यदेकस्योपमानं बहु दृश्यते'। इति।

उग्रेति। उग्रः कठिनो यो जावाळेः शापः अभिसम्पातः तेन भीत्या त्रस्तया नार्य्येव, कम्पितः चलितो देहो वपुर्यया, पक्षे यस्यास्तया तादृश्या। प्रणयिन्येव कामिन्येव, विहितः केशग्रहः कचावलम्बनं यया तथा तादृश्या। रतिकलहे कान्तापि केशग्रहं विधत्ते इयमपि केशे लग्नेत्यर्थः। क्रुद्धया कोपाविष्टया नार्य्येव, कृतो विहितो भ्रूभङ्गः भ्रुवोः शैथिल्यं भृकुटी च यया तथा तादृश्या। यथा क्रुद्धा भ्रूभङ्गं विधत्ते तथेयमपि कृतवतीत्यर्थः, मत्तया मद्यपानोन्मत्तया नार्य्येव, आकुलितम् उच्चावचीकृतं गमनं गतिर्यया, पक्षे यस्यास्तया तादृश्या, मद्यपानोन्मत्तापि स्खलद्गतिका भवति इयमपि तथैव सञ्जाता। प्रसाधितया भूषितया नार्य्येव, प्रकटितानि अभिव्यक्तानि तिलकानि देहे श्यामवर्णचिह्नानि, भाले तिलकञ्च यया तथा तादृश्या। अलङ्कृता स्त्री यथा सतिलका भवति तथेयमपि शरीरे तिलकानामुत्पन्नत्वात्। तथा गृहीत- व्रतया स्वीकृतकृच्छ्रनियकया नार्य्येव भस्म भूतिः तद्वद्धवलया श्वेतया भस्मना धवलया च जरया वृद्धा- वस्थया धवलीकृतः शुभ्रीकृतः विग्रहो वपुर्यस्य तं तादृशम्।

अत्र 'उग्रशापभीतयेव' इत्यारभ्य 'गृहीतव्रतयेव' इत्यन्तं यावत् पूर्णोपमालङ्कारः। केवलं विशेषण- स्योपादानेऽपि विशेष्यस्य 'नार्या' इत्यस्याध्याहारेण सामञ्जस्य विधेयम्। केचित्तूत्प्रेक्षां निरूपयन्ति, तन्मते 'नार्या' इत्यस्य नाध्याहार इत्यवधेयम्।

आयामीति। आयामिनीभिः विस्तीर्णाभिः, पलितेन वृद्धावस्थाप्रयुक्तश्वैत्येन पाण्डुराभिः पाण्डु- रूपाभिः। तपसा तेजसा अखिलं समस्तं मुनिजनम् ऋविगणं विजित्य अभिभूय, उच्छ्रिताभिः ऊर्द्ध्वी कृताभिः धर्मपताकाभिरिव धर्मद्योतकध्वजाञ्चलैरिव 'विद्यमानाभिः। अमरलोकं देवलोकम् आरोढुम् आरोहणं विधातुं पुण्यरज्जुभिरिव पवित्रप्रग्रहैरिव उपसंगृहीताभिः अङ्गीकृताभिः। अतिदूरप्रवृद्धस्य


उसी पेड़ की छाया में बैठे हुए देखा। जैसे समुद्रों में पृथ्वी, कुलपर्वतों से मेरुपर्वत, अग्नियों से यज्ञ, सूर्यों से प्रलय काल का दिन और कल्पों से काल घिरा रहता है, उसी प्रकार वह भी अत्यन्त तपस्वी मुनियों से घिरे हुए थे। बुढापे ने उनके शरीर को श्वेत कर दिया था और उसमें कँपकँपी आ गयी थी, मानो शाप के भय से बुढ़ौती स्वयं काँप रही हो; उनके बाल सफेद हो गये थे, मनस्विनी नायिका के समान वह स्वयं उनके सिर पर सवार हो गयी हो; उनकी भौंहें तनी हुई थीं, मानों उसने क्रुद्ध होकर स्वयं भौंहें चढ़ा ली हों; उनके पैर चलने में लड़खड़ाते थे, मानों वह स्वयं मतवाली की तरह लड़खड़ाती हुई चल रही हो; उनके शरीर पर काले-काले मस्से निकल आये थे, मानों उसने बिन्दियों द्वारा अपने को सजा लिया हो और उनके शरीर पर श्वेत भस्म पुता हुआ था मानों उस बुढ़ौती ने स्वयं कोई व्रत धारण कर लिया हो। उनकी लम्बी और बुढ़ापे के कारण पकी हुई उजली जटाएँ ऐसी सुशोभित हो रही थीं मानों तप से समस्त ऋषियों को जीत कर प्राप्त की गयी धर्म की पताकाएँ हों अथवा स्वर्ग जाने में सहायता पहुँचाने वाली इकट्ठी की हुई पुण्यकर्मों की डोरियाँ हों


१. कुलपर्वतैः । २. वैतानिक*** । ३. उग्रशापकम्पितदेहया । ४. तपोभिः । ५. उपार्जिताभिः ।

जाबालिवर्णनम् ]चन्द्रकला-विद्योतिनीसहिता ।१३१

स्तरोः कुसुम-मञ्जरीभिरिवोद्गताभिर्जटाभिरुपशोभमानम्, उपरचित-भस्म-त्रिपुण्ड्रकेण तिर्यक्प्रवृत्त-त्रिपथगा-स्रोतस्त्रयेणेव हिमगिरि-शिलातलेनेव ललाटफलकेनोपेतम्; अधोमुख-चन्द्र-कलाद्वगभ्यामवलम्बित-वलि-शिथिलाभ्यां भ्रूलताभ्यामवष्टभ्यमान-दृष्टिम्, अनवरत-मन्त्राभ्यास-विवृताधरपुटया निष्पतद्भिरतिशुचिभिः सत्यप्ररोहैरिव स्वच्छेन्द्रिय-वृत्ति-भिरिव विद्यागुणैरिव करुणारस-प्रवाहैरिव दशनमयूखैर्धवलित-पुरोभागम्, उद्वमदमल-

अत्यन्तवृद्धिमुपगतस्य तप एव तरुः वृक्षः तस्माद् उद्गताभिः उत्पन्नाभिः कुसुममञ्जरीभिरिव पुष्पवल्लरीभिरिव जटाभिः सटाभिः उपशोभमानं भूषितम्।

अत्र 'वर्णपताकाभिरिव' इत्यत्र 'पुण्यरज्जुभिरिव' इत्यत्र च जात्युत्प्रेक्षालङ्कारः 'तपस्तरोः' इत्यत्र निरङ्गकेवलंरूपकम् 'कुसुममञ्जरीभिरिव' इत्यत्र हि जात्युत्प्रेक्षयोरैकाश्रयानुप्रवेशरूपसाङ्कर्यात् सङ्करालङ्कारः ।

उपरचितेति । उपरचितानि विहितानि भस्मना त्रीणि पुण्ड्रकाणि तिर्यग्रेखामयतिलकानि यत्र तेन तादृशेन । अत एव तिर्यक्प्रवृत्तं कुटिलभावेन प्रचलितं त्रिपथगाया गङ्गायाः स्रोतस्त्रयं त्रिप्रवाहो यत्र तयो-दतेन, हिमगिरेः हिमालयस्य शिलातलेनेव पाषाणफलकेनेव ललाटफलकेन भालपट्टकेन उपेतं युक्तम् ।

इहोक्तविधशिलातलाप्रसिद्धेर्द्रव्योत्प्रेक्षा ।

अधोमुखेति । अधोमुखी निम्नायिता या चन्द्रकला सुधांशुरेखा तस्या आकारः स्वरूप इव आकारो ययोस्ताभ्यां तादृशाभ्याम्, अवलम्बिता वार्द्धक्यादाश्रिता या वलिः शिथिलं चर्म, तया च—‘वलिर्दैत्य-प्रभेदे च करचामरदण्डयोः । उपहारे पुमान् स्त्री तु जरया श्लथचर्मणि ॥’ इति मेदिनी । तया शिथिलाभ्यां शैथिल्यान्नेत्रोपरि च्युताभ्यामित्यर्थः, अत एव ताभ्यां भ्रूलताभ्याम् अवष्टभ्यमाना अवलम्ब्यमाना दृष्टिः अवलोकनसामर्थ्यं यस्य तं तादृशम् ।

इह 'चन्द्रकलाया आकार इव आकार' इत्यत्र आर्थी समासगता लुप्तोपमा ।

अनवरतेति । अनवरतं निरन्तरं यो मन्त्राभ्यासः मन्त्रजपावृत्तिः तेन विवृतं व्याप्तम् अधरपुटम् ओष्ठद्वयं यस्य तस्य भावस्तया कारणेन, निष्पतद्भिः निस्सरद्भिः, अतिशुचिभिः अत्यन्तस्वच्छैः, सत्यप्ररोहै-रिव सत्यवचनसत्याचारयोरुद्गमैरिव, स्वच्छा अवदाताः पापरहिता या इन्द्रियवृत्तयः चित्तादीनामि-न्द्रियाणां कर्माणि ताभिरिव, विद्यागुणैरिव विद्याया आन्वीक्षिक्यादेः ये गुणा विनयादयस्तैरिव, करुणारस-प्रवाहैरिव दयारसस्रोतोभिरिव सर्वस्मिन् स्थले स्वच्छत्वादित्याशयः । दशनमयूखैः दन्तरश्मिभिः धव-लितः शुभ्रीकृतः पुरोभागः अग्रदेशो यस्य तं तादृशम् । अत एव उद्वमन् दक्षिणश्रोत्राद्वहिरागच्छन् अमलः स्वच्छो गङ्गाप्रवाहो भागीरथीस्रोतो यस्मात्तं तादृशं जह्नुम् एतत्संज्ञकमृषिमिव विद्यमानम् ।

अत्र 'सत्यप्ररोहैरिव' इत्यारभ्य 'करुणारसप्रवाहैरिव' इत्यन्तं यावत् वाक्यार्थहेतुकं काव्यलिङ्गा-लङ्कार उपमा च तथा गुणोत्प्रेक्ष्येतेषां मिथोऽङ्गाङ्गिभावेन साङ्कर्यात् सङ्करालङ्कारः ।

अत्रायमितिहासः— पुरा किल स्वपूर्वजानामुद्धितीर्षया भगीरथो हि हिमाचलाच्चलितामय च शङ्कर-जटायां लीनां गङ्गामवतारयितुं महेश्वरं सिषेवे, प्रसन्नो भगवान् सदाशिवः स्वशिरसस्तामवतारयामास ।


अथवा दूर तक फैले हुए पुण्यरूपी वृक्ष के फूलों की मञ्जरियाँ हों। भस्म के त्रिपुण्ड्र से उनका ललाट ऐसा प्रतीत होता था मानो गंगा की तीनों धाराओं से युक्त हिमालय पहाड़ की कोई चट्टान हो। उनकी भौंहों पर चन्द्रकला के समान टेढ़ी आकृति वाली तथा बुढ़ापे की झुर्रियों के कारण शिथिल भौंहें लटक रही थीं जिनसे देखने में कुछ बाधा उपस्थित हो रही थी। निरन्तर मन्त्रों का जाप करने के कारण उनका मुंह खुला रहता था और ओठों के बीच से दाँतों की उज्ज्वल किरणें फूटती थीं, जो सत्य के अङ्कुरों, इन्द्रियों की निर्मल वृत्तियों और करुणारस की धारा के समान लग रही थीं। उन किरणों से उनके आगे का भाग अत्यन्त उज्ज्वल हो उठता था और वे गंगा की अत्यन्त निर्मल धारा को मुँह से बाहर करते हुए जह्नु ऋषि के समान प्रतीत होते थे। वह ने निरन्तर सोमरस पीने के कारण आने वाली डकारों से उनकी साँसें सुवासित हो उठी थीं जिनसे खिन्न कर


१. गङ्गा ।
२. ॰॰॰प्रदेनेव॰॰॰तनेन ।
३. ॰॰॰ष्टेनोपेतम् ।
४. ॰॰॰मन्त्राभ्यासाभ्यास ।
५. क्वचिदयं पाठो नास्ति ।
६. करुणरस॰॰॰ ।

१३२कादम्बरी[कथामुखे-

गङ्गा-प्रवाहमिव जह्नुम्, अनवरतसोमोद्गारसुगन्धिनिश्वासावकृष्टैमूर्त्तिमद्भिरिव शापाक्षरैः सदा मुखभाग-सन्निहितैः परिस्फुरद्भिरलिभिरविरहितम्, अतिकृशतया निम्नतरगण्ड-गर्तम् उन्नततर-हनु-घोणम् आकराल-तारकम् अवशीर्य्यमाण-विरल-नयन-पक्ष्ममालम् उद्गत-दीर्घरोम-रुद्ध-श्रवण-विवरम् आनाभिलम्बित-कूर्चकलापमाननमादधानम्, अतिचपलानामिन्द्रियाश्वानाम् अन्त:संयमन-रज्जुभिरिवातताभिः कण्ठनाडीभिनिरन्तरावबद्ध-कन्धरम्, समुन्नत-विरलास्थि-पञ्जरम्, अंसालम्बित-धवल-यज्ञोपवीतम्, अनिल-वश-जनित-तनु-तरङ्ग-भङ्गम् उत्पल्वमान-नेत्रमृणालमिव मन्दाकिनीप्रवाहम्, अकल्लुषमङ्गुष्ठ-

अथ मार्गे व्रजन्ती सा जह्रोर्यज्ञभूमिं प्लावयामास, ततश्च क्रुद्धेन जह्नुना पीता सा पुनरपि भगीरथप्रार्थनया श्रोत्रविवरान्निःसारिता सती भूतलमार्जगामेति। तत एव 'जाह्नवी' इति संज्ञामवाप।

अनवरतेति। इतो द्वितीयान्तानि 'आननम्' इत्यस्य विशेषणानि। अनवरतं निरन्तरं यः सोमः पीतसोमरसः तस्य उद्गारेण वायुजनितशब्देनेत्यर्थः। 'निगारोद्गारविश्वावोद्ग्राहास्तिनगरणादिषु' इत्यमरः, सुगन्धिना सौरभवता निश्वासेन पवनेन अवकृष्टैः आकर्पितैः मूर्त्तिमद्भिः देहवद्भिः शापाक्षरैरिव अभिसम्पातवर्णैरिव, सदा सर्वदा मुखस्य वदनस्य यो भागोऽग्रिमप्रदेशः तत्र सन्निहितैः विद्यमानैः परिस्फुरद्भिः सञ्चरद्भिः अलिभिर्भ्रमरैः अविरहितम् अपरित्यक्तम्। अतिकृशतया अत्यन्तक्षीणशरीरतया निम्नतरौ अत्यन्तगम्भीरतरौ गण्डगत्तौ लघटीभूतौ कपोलौ यस्मिन् तत् तादृशम्। उन्नततरा अत्युच्चाः हनु चिबुकं कपोलोर्ध्वाशद्वयमिति यावत् घोणा नासिका च यत्र तत् तादृशम्, 'घोणा नासा च नासिका' इत्यमरः, अत्यन्तकृशशरीराणामेवम्भूतमाननं भवत्यूवलोकनीयम्। आकराले तेजस्विदवेन हेतुना अत्यन्तभीषणे तारके कनीनिकायुगलं यस्मिन् तत् तादृशम्। अशीर्यमाणा नश्यन्ती विरला असान्द्रा नयनपक्ष्ममाला नेत्ररोमपङ्क्तिः यस्मिन् तत् तादृशम्। उद्गतै उत्पन्नैः दीर्घैः विस्तृतैः रोमभिः लोमभिः रुद्धे आच्छादिते श्रवणविवरे श्रोत्ररन्ध्रयुगलं यस्मिन् तत् तादृशम्। आनाभिलम्बितो नाभिपर्यन्तलग्वमानः कूर्चकलापः श्मश्रुसमूहः मुखलोमसमूह इत्यर्थः यस्मिन् तत् तादृशम् आननं मुखम् 'आननं लपनं मुखम्' इत्यमरः आदधानं धारयन्तम्। अत 'शापाक्षरैरिव' इत्यत्र गुणोत्प्रेक्षालङ्कारः।

अतिचपलेति। इत आरभ्य 'अहन्न्' इत्यस्य विशेषणानि। अतिचपलानाम् अतीव चञ्चलानाम्, इन्द्रियाणि घ्राणत्वक्श्रोत्रनेत्ररसनादीनि एव अश्वाः घोटकाः सांसारिकपदार्थान्प्रति जीवानामाकर्षणदिश्याशयः। तथा च कठोपनिषदि द्वितीयवल्ल्यां नाचिकेतसं प्रति धर्मराजस्यात्मनिरूपणप्रस्तावे उक्तिः-

'इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्' इति।

तेषाम् अन्तर्मध्ये संयमनरज्जुभिरिव नियन्त्रणप्रग्रहैरिव आतताभिः अतिदीर्घाभिः कण्ठनाडीभिः गलप्रदेशस्थस्नायुभिः निरन्तरं सान्द्रं यथा स्यात्तथा अबनद्धा सम्बद्धा कन्धरा ग्रीवा यस्मिन् तत् तादृशम्। समुन्नतं शरीरस्यातिकृशत्वाद् समुच्चत्वम् अवलोक्यमानं विरलम् अविबिडम् अस्थिपञ्जरं कङ्कालं यस्मिन् तत् तादृशम्। अंसे भुजान्तरे आलम्बितं लम्बमानं धवलं शुभ्रं यज्ञोपवीतं यज्ञसूत्रं यस्मिन् तत् तादृशम्। अत एव अनिलवशेन वायुप्रभावेण जनितः उत्पादितः तनूनां सूक्ष्माणां तरङ्गाणां कल्लोलानां भङ्गः कौटिल्यं यत्र तं तादृशम्, तथा उत्पल्वमानं

उनके मुँह के पास मँडराने वाले भौंरे ऐसे प्रतीत होते थे मानों शाप के अक्षरों ने ही शरीर धारण कर लिया हो। अत्यन्त दुर्बलता के कारण उनके गालों में गड्ढे पड़ गये थे जिससे चिबुक की हड्डी निकली हुई तथा नाक और भी ऊँची उठी हुई जान पड़ती थी, नेत्रों की पुतलियाँ अत्यन्त तीखी और बरोनियाँ झड़ जाने के कारण विरल हो गयी थीं, कान के छेद सघन रोवों से ढँके हुए थे, दाढ़ी नाभि तक लटकी हुई थी। गले की उभड़ी हुई नाड़ियाँ कन्धों तक फैली हुई ऐसी प्रतीत होती थीं मानों इन्द्रियरूपी घोड़ों को बाँधने की रस्सियाँ हों, शरीर की हड्डियों का ढाँचा ऊपर उठा सा दिखाई पड़ रहा था, कन्धे पर श्वेत यज्ञोपवीत लटक रहा था, जो वायु में बहुत धीरे-धीरे लहरा रहा था मानों उसमें हल्की-हल्की लहरें उठ रही हों, इससे उनका निर्मल अङ्ग ऐसा प्रतीत हो रहा था मानो कमल की कोमल डंठलों को धारण करने वाला गंगा का प्रवाह हो। वे अपनी


१. अत्वरित, अविरल...। २. ...'निश्वासावकृ...। ३. मूर्तिमद्भिः शापाक्षरैरिव। सन्निहितैः। ५. समुन्नत...। ६. लम्वित। ७. इन्द्रियाणाम्। ८. ...'संबद्ध...। ९. उन्नत...। १०. अवलम्बित, लम्बियशो...। ११. वायु। १२. ...म्लानमृणालमिव।

जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १३३

हन्तम्, अमल-स्फटिक-शकल-घटितमक्षवलयमत्युज्ज्वलं$^२$स्थूल-मुक्ताफल-ग्रथितं सरस्वती-हारमिव चलदङ्गुलि-विवरगतमावर्त्तयन्तम्, अनवरतभ्रमित-तारकाँ$^३$चक्रमपरमिव ध्रुवम्, उन्नमँता$^४$ शिरा-जालकेन जरत्कल्पतरुमिव परिणतलतासञ्चयेन निरन्तर-निचितम्, अमलेन चन्द्रांशुभिरिवामृतफेनैरिव गुणसन्तान-तन्तुभिरिव निर्मितेन मानस-सरो-जल-क्षालनशुचिना दुकूलवल्कलेन $^७$द्वितीयेनेव जराजालकेन संच्छादितम्, आसन्नवर्त्तिना मन्दाकिनीसलिल-पूर्वेण त्रिदण्डोपविष्टेन स्फाटिक$^८$-कमण्डलुना विकचपुण्डरीकराशि-

सलिलोपरि विद्यमानं नवं नूतनं मृणालं बिसं यत्र तं तादृशम्, मन्दाकिन्या वियद्गङ्गायाः प्रवाहं स्रोत इव अकलुषम् अनाबिलं स्वच्छमित्यर्थः अङ्गं शारीरावयवम् उद्वहन्तं धारयन्तम् ।

इह 'इन्द्रियाण्येव अश्वाः' इत्यत्र निरङ्गकेवलरूपकम्, 'संयमनरज्जुभिरिव' इत्यत्र जात्युत्प्रेक्षेत्यन-योरङ्गाङ्गिभावेन सङ्करालङ्कारः । तयोक्तकुटिलकृशतरङ्गसदृशम् अस्थिपञ्जरमिव, सलिलोपरि प्लवमान-नूतनबिसतन्तुञ्च वक्षसूत्रमित्युपमालङ्कारः ।

अमलस्फटिकेति । अत्युज्ज्वलानि अतिविशदानि स्थूलानि पृथुलानि मुक्ताफलानि मौक्तिकानि तैरग्रंथितं गुम्फितं सरस्वत्या भारत्या हारमिव कण्ठमालामिव, चलन्तीनाम् अक्षवलयाकर्षणेन चपलीभूतानाम् अङ्गुलीनां करावयवानां विवरगतं छिद्रस्थितम्, अमलः विशदैः स्फटिकानां स्फटिकमणीनां शकलैः खण्डैः घटितं रचितम् अक्षवलयं रुद्राक्षमालागुटिकाम् आवर्त्तयन्तं संख्याविशेषपूरणात् यथाक्रमं परिभ्रमयन्तम्, अत एव अनवरतं निरन्तरं भ्रमितं प्रवहसंज्ञकवातेन पर्यटितं तारकाचक्रं नक्षत्रसमूहो यत्र तथोक्तम् अपरं द्वितीयं ध्रुवम् उत्तानपादजमिव विद्यमानम् । इह च यथा बहोः कालात् स्थिरयोः ध्रुवयोरन्तर्वद्धरतारका-समूहः प्रवाहानिलैरजस्रं पर्यति तथा आसीनेन स्थिरतरेण ऋषिणा सम्यकराग्रनिहिता स्फटिकमाला जपसंख्याविशेषावधारणायनिरन्तरं सञ्चालितेति साम्यमवगन्तव्यम् । उक्तं च सूर्यसिद्धान्ते—

'भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवाहानिलैः । पर्यटत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥'

इह उपमा, पदार्थहेतुकं काव्यलिङ्गम्, द्वयोरुत्प्रेक्षाचेत्येषां परस्परमपेक्षाभावेन विद्यमानत्वात् संसृष्टिः ।

उन्नमतेति । परिणतानां पाकमुपगतानां लतानां व्रततीनां सञ्चयेन समूहेन निरन्तरनिचितं सान्द्रभावेन व्याप्तं जरत्कल्पतरुमिव प्राचीनकल्पवृक्षमिव, उन्नमता उपरि स्फुरता शिराजालकेन धमनि-समूहेन निरन्तरनिचितम् । इह 'जरत्कल्पतरुमिव' इत्युपमा ।

अमलेनेति । अमलेन विशदेन, अत एव चन्द्रांशुभिरिव शशिश्चन्द्रिकाभिरिव अमृतफेनैरिव पीयूष-डिण्डीरैरिव गुणानां कारुण्यतपश्चर्यादीनां सन्तानाः समूहा एव तन्तवः सूत्राणि तैरिव निर्मितेन रचितेन, मानससरसो मानसाख्यसरोवरस्य जलेन सलिलेन यत् क्षालनं मलनिराकरणं तेन शुचिना पवित्रेण, द्वितीयेन अपरेण जराजालकेनेव श्वैत्याद्यपरिणतावस्थासमूहेनेव, दुकूलवत् पट्टवसनवत् वल्कलं वृद्धत्वक् तेन तादृशेन, संच्छादितम् आच्छादितनामधोभागम् ।

तत्र काव्यलिङ्गालङ्कारः, द्वे चोत्प्रेक्षे, परस्परपन्नैपामङ्गाङ्गिभावेन सङ्करालङ्कारः ।

आसन्नेति । आसन्नवर्त्तिना निकटस्थायिना, मन्दाकिनी गङ्गा तस्याः सलिलं जलं तेन पूर्णेन भृतेन

चञ्चल उँगलियों के द्वारा मोतियों से गुथी हुई सरस्वती की कण्ठमाला के समान अत्यन्त उज्ज्वल स्फटिक की गुरियों से गुंधी हुई रुद्राक्ष की माला घुमा रहे थे, जिससे वे ऐसे प्रतीत हो रहे थे मानो निरन्तर घूमने वाले नक्षत्र मण्डल से युक्त दूसरे ध्रुव नक्षत्र हों। उनके शरीर पर ऊपर उभरी हुई धमनियों ऐसी प्रतीत हो रही थीं मानों किसी पुराने कल्पवृक्ष पर पकी हुई लतायें फैली हुई हों। वे मानस सरोवर के जल में घुलते रहने के कारण अत्यन्त स्वच्छ छाल का वस्त्र पहिने हुए थे जो चन्द्रमा की किरणों अथवा अमृत के झागों अथवा गुणों (दया-धर्मादि) के धागों से बना हुआ सा प्रतीत हो रहा था और शरीर के ऊपर ऐसा लग रहा था मानों एक दूसरी बुढ़ापे के जाल ने उनके शरीर को ढँक दिया हो। उनके पास ही तीन लकड़ियों को बाँधकर बनाये गये आधार (त्रिपादिका) पर स्थित गंगाजल से भरा हुआ बिल्लौरी कमण्डलु; फूले हुये सफेद कमलों के बीच बैठे हुये राजहंस के समान सुशोभित हो रहा था। उन्होंने अपनी ही स्थिरता में से पर्वतों, गम्भीरता में से


१. घटिताङ्ग...। २. उज्ज्वल । ३. तारक । ४. वल्लभा । ५. भ्रमरैः। ६. ...क्षास्तित...। ७. अद्वितीयेन । ८. स्फटिक...। ९. ...कमल...।

१३४कादम्बरी-[कथामुखे-

मिव राजहंसेनोपशोभमानम्, स्थैर्येणोच्बलानां गाम्भीर्येण सागराणां तेजसा सवितुः प्रशमेन तुषाररश्मेः निर्मलतयाऽम्बरतलस्य संविभागमिव कुर्वाणम्, वैनतेयमिव स्वप्रभावोपात्तसकल^२द्विजाधिपत्यम्, कमलासनमिवाश्रमगुरुम्, जरञ्चन्दनतरुमिव भुजङ्ग^३निर्मोकधवलजटाकुलम्, प्रशस्तवारणमिव^४ प्रलम्बकर्णबालम्, वृहस्पतिमिवाजन्मवर्द्धितकचम्, दिवसमिवोद्यदर्कबिम्बभास्वरमुखम्, शरत्कालमिव क्षीणवर्षम्,

त्रिदण्डस्त्रिपदिका तत्रोपविष्टेन तदुपरिस्थापितेन, राजहंसेन कादम्बेन 'राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे' इति हैममेदिस्यौ, विकचः प्रस्फुटितः पुण्डरीकराशिः सिताम्भोजसमूहस्तमिव, स्फाटिककमण्डलुना स्फटिकमणिनिर्मितकमण्डलुना उपशोभमानं विराजमानम् । अत्रोपमा ।

स्थैर्येणेति । स्थैर्येण स्थिरतया अचलानां गिरीणाम्, गाम्भीर्येण गाम्भीर्यगुणेन सागराणां सरित्पतीनाम्, तेजसा प्रतापेन सवितुः आदित्यस्य प्रशमेन शान्त्या तुषाररश्मेश्चन्द्रमसः, निर्मलतया अतिस्वच्छतया अम्बरतलस्य आकाशस्य सविभागं स्वीयवस्तुनः परेभ्यः किञ्चिद्भिभज्य प्रतिपादनं कुर्वाणं विदधानमिव स्थैर्यगाम्भीर्यप्रभृतीन् स्वगुणान् अचलादिभ्यः सम्यग्विभज्य दत्त्वेव स्थितमित्यर्थः स्वस्मिन् तथाविधस्थैर्यादिगुणयुक्तत्वादित्याशयः तत्र अचलानां स्थैर्यं कम्पशून्यत्वम् ऋषेः स्थैर्यन्तु चित्तस्थिरता, समुद्राणां गाम्भीर्यम् अगाधत्वम्, ऋषेः गाम्भीर्यन्तु दुरवगाहप्रकृतित्वम्, आदित्यस्य तेजः तीक्ष्णरश्मित्वम्, ऋषेस्तेजस्तु तपोमाहात्म्यवत्त्वम्, चन्द्रमसः प्रशमः सौम्यस्वरूपत्वम् ऋषेः शमस्तु इन्द्रियाणामन्तर्मुखेन प्रवृत्तिकरणम्, ऋषेर्निर्मलता पापरहित्यमिति परस्परं भेदसत्त्वेऽपि श्लेषमहिम्ना अभेदाध्यवसायादतिशयोक्त्यलङ्कारः, कुर्वाणमिदेति क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।

वैनतेयमिति । गरुडमिव 'गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः' इत्यमरः, स्वप्रभावेण स्वतेजसा उपात्तम् अर्जितं सकलेषु समस्तेषु द्विजेषु विप्रेषु पक्षिषु च आधिपत्यं स्वामित्वं येन तं तादृशम् 'दन्तविप्राण्डजा द्विजाः' इत्यमरः ।

कमलेति । कमलासनो विरञ्चिः 'विरञ्चिः कमलासनः, इत्यमरः, तमिव; आश्रमस्य तत्तपोभूमेः ब्रह्मचर्यादीनां चतुर्विधानामाश्च्रमाणाञ्च गुरुः शिक्षयिता नियामकश्च तं तादृशम् । ब्रह्मणैव वर्णाश्रमाश्च नियमिता इति पौराणिकी वार्त्ता ।

जरदिति । जरत पुरातनो यश्चन्दनतरुः मलयजवृक्षः तमिव, भुजङ्गानां सर्पाणां ये निर्मोकाः कञ्चुकाः तद्वत् धवलाः श्वेताः जटाः सटाः, अन्यत्र भुजङ्गनिर्मोका धवला जटा इव ताभिः आकुलं सङ्कीर्णम् । प्राचीनचन्दनवृक्षेष्वेव परिमलविशेषाधिक्यात्सपॉधिक्यसम्भव इति प्रतिपादनार्थं जरत्ग्रहणमित्यवधेयम् ।

प्रशस्तेति । प्रशस्तो निखिललक्षणोपेतः वारणपतिः हस्तिनायकः तमिव प्रलम्बाः छेदनाभावाद्तिविस्तृताः कर्णबालाः श्रवणलोमानि यस्य तं तादृशम्, पक्षे-प्रलम्बाः प्रलम्बमानाः कर्णौ श्रोत्रे बालाः पुच्छकेनाश्च यस्य तं तादृशम् ।

वृहस्पतीति । वृहस्पतिः सुराचार्यः तमिव, आजन्म जन्मप्रभृति क्षौराभावाद् वर्द्धिता वृद्धिं प्रापिताः कचाः केशा येन तं तादृशम्, पक्षे-कचः कचाभिधः सुतो येन तं तादृशम् ।

पुरा किल वृहस्पतेः कचनामा पुत्र उत्पन्न इति पौराणिकी वार्ता ।

दिवसमिति । दिवसो वासरः तमिव, उद्यत् उद्गच्छत् अर्कबिम्बं सूर्यमण्डलं तद्वत् भास्वरं


समुद्रों, तेज में से सूर्य, शान्ति में से चन्द्रमा और निर्मलता में से आकाश को थोड़ा-थोड़ा-सा भाग दे रखा था। जैसे गरुड़ अपने प्रभाव से समस्त पक्षियों का स्वामी होता है उसी प्रकार वे भी अपने तपोबल से सभी ब्राह्मणों के स्वामी बन गये थे, जैसे ब्रह्मा चारों आश्रमों के गुरु हैं उसी प्रकार वे भी उस आश्रम के गुरु थे, जैसे पुराना चन्दन का पेड़ साँप की केंचुलों से लिपटा रहता है उसी प्रकार वे भी सफेद जटाओं से घिरे हुये थे, जैसे वृहस्पति ने जन्मकाल से ही कच का पालन-पोषण किया था उसी प्रकार उन्होंने भी जन्म से ही बालों को रख


१. अंवेवः स्थैर्येण सागराणां गाम्भीर्येण । २. क्वापि सकलपदं न विद्यते । ३. भुजङ्ग*** । ४. ***वारणपतिमिव । ५. कर्णतालन् कर्णतालन् ।

जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता। १३५

शान्तनुमिव प्रियसत्यव्रतम्, अम्बिका-करतलमित्र रुद्राक्ष-ग्रहण-निपुणम्, शिशिर-समय-सूर्य्यमिव कृतोत्तरासङ्गम्, बडवानलमिव सततं-पयोभक्ष्यम्, शून्यनगरमिव दीनानाथविपन्न-शरणम्, पशुपतिमिव भस्म-पाण्डु-रोमाश्लिष्ट-शरीरम्, भगवन्तं जाबालिमपश्यम्। अवलोक्य चाहमचिन्तयम्-'अहो प्रभावस्तपसाम्! इयमस्य शान्तापि मूर्त्तिरुत्तप्त-

दीप्तिमन् मुखम् आननं यस्य तं तादृशम्, पक्षे-उद्यदर्कबिम्बेन भास्वरमुखं प्रारम्भिकप्रकाशो यस्य तं तादृशम्।

शरदिति। शरत्कालः वर्षात्ययसमयः तमिव, हीनानि व्यतीतानि वर्षाणि 'शतायुर्वे पुरुषः' इत्यादि-नियमितावस्थाहायनानि यस्य तं तादृशम्, यत्किञ्चिदवशिष्टावस्थामित्यर्थः, पक्षे-क्षीर्णं स्वस्वत्वमुपगतं वर्षं वृष्टिर्यस्मिन् तं तादृशम्।

शान्तनुमिति। शान्तनुः चन्द्रवंशीयो भीष्मपितामहपिता तमिव, प्रियम् प्रेमास्पदं सत्यव्रतं सत्य-वचनासदाचाररूपो नियमो यस्य तं तादृशम्, पक्षे-प्रियः अत्यन्तोरुकृष्टात्मजत्वात् प्रेमजनकः सत्यव्रतो यस्य तं तादृशम्।

अम्बिकेति। अम्बिकाया भवान्याः करतलं हस्तमिव, रुद्राक्षस्य रुद्राक्षमालायाः ग्रहणे उपादाने निपुणं कुशलम्, पक्षे-रुद्रस्य महेश्वरस्य अक्षिणी नयने इति रुद्राक्षे तयोर्ग्रहणे कुतूहलेन पिधाने निपुणं दक्षम्।

शिशिरेति। शिशिरसमयस्य शीतकालस्य सूर्य्यम् आदित्यमिव, कृतो भुजान्तराले स्थापितः उत्तरा-सङ्ग उत्तरीयावसनं येन तं तादृशम्, पक्षे-कृतो विहित उत्तरस्या दिशः कौवेराशायाः सङ्गः यथाक्रमं सम्बन्धो येन तं तादृशम्, तत्समये सूर्यस्योत्तरदिग्गमनप्रारम्भात्।

वटवेति। वडवानलो वाडवाग्निः तमिव, सततं निरन्तरं पयो दुग्धमात्रं सलिलञ्च भक्ष्यम् अदनीयं शोपणीयञ्च यस्य तं तादृशम्।

शून्येति। शून्यं जनरहितं नगरं पुरमिव, दीनानां दुर्गेतानाम् अनाथानाम् अस्वामिकानां विप-न्नानां व्याधिव्यथितादीनाञ्च रक्षकं पालकम्, पक्षे-दीनानि शोभाशून्यानि अनायानि निवासिलोक-रहितानि, विपन्नानां नष्टानि शरणानि गृहाणि यत्र तत् तादृशम् 'शरणं गृहरक्षित्रो' इत्यमरः।

पशुपतिमिति। पशुपतिः शङ्करः तमिव, भस्मवत् पाण्डूनि परिणतत्त्वात् शुभ्राणि यानि रोमाणि लोमानि, भस्मना भूया पाण्डुरोमाणि च तैराश्लिष्टं समन्तात् सक्तं शरीरं वपुर्यस्य तं तादृशम् भगवन्तम् ऐश्वर्यादिमन्तं जाबालिम् एतन्नामानं मुनिराजम् अपश्यम् अद्राक्षम्।

अत्र 'वैनतेयमिव' इत्यारम्य 'पशुपतिमिव' इत्यन्तं यावत् पूर्णोपमालङ्कारः। केवलं 'जरद्-चन्दनतरुमिव भुजङ्गनिर्मोकधवलजटाकलापं' इत्यत्र लुप्तोपमापूर्णोपमयोरङ्गाङ्गिभावेन सङ्करालङ्कार इति ज्ञेयम्।

अवलोक्येति। अवलोक्यत प्रेक्ष्य च सहं वैशम्पायनः अचिन्तयम् व्यचारयम्-अहो इत्याश्चर्ये तपसां स्वाध्यायादीनां प्रभाव ऐश्वर्यम्, इयं पुरो दृश्यमाना शान्तापि प्रसन्नापि अस्य मुनेः मूर्त्तिः स्वरूपम्

छोड़ा था, वैसे दिन निकलते हुये सूर्यमण्डल से प्रकाशित हो उठता है उसी प्रकार वह अपने कान्तिमान् मुख-मण्डल से प्रकाशित हो रहे थे, जैसे शरद ऋतु में वर्षा हीन हो जाती है उसी प्रकार वह भी अपनी आयु के बहुत वर्ष बिता चुके थे, जैसे राजा शान्तनु अपने पुत्र सत्यव्रत से स्नेह करने वाले थे उसी प्रकार वे भी सत्य के व्रत का पालन करने वाले थे, जैसे भगवती पार्वती के हाथ भगवान् शंकर की आँखों की मूंदने में कुशल हैं उसी प्रकार उनके हाथ भी रुद्राक्ष की माला ग्रहण करने में कुशल हैं, जैसे शीतकाल में सूर्य उत्तर दिशा का साथ करने लगता है अर्थात् धीरे-धीरे उत्तरायण होने लगता है उसी प्रकार वे भी बस्त्र धारण करने वाले थे, जैसे वाडवाग्नि निरन्तर जल का शोषण करती रहती है उसी प्रकार वे भी निरन्तर दूध का ही भोजन करने वाले थे, जैसे उजड़ा हुआ नगर गिरे पड़े ननुष्यरहित मकानों को अपनी शरण में रखने वाला होता है उसी प्रकार वे भी दरिद्रों, अनाथों और असहायों को शरण देने वाले थे और जैसे शंकर जी का शरीर भस्म लगाने के कारण सफेद रोमों से भरा रहता है उसी प्रकार उनका शरीर सफेद रोमों से ढँका हुआ था।

उस महर्षि जाबालि को देखकर मैंने मन ही मन विचार किया कि तपस्या का प्रभाव भी कितना महान्

१. रुद्राक्षवलयग्रहण... । २. क्षीदान्तमिव। ३. सन्तत... । ४. मङ्गम् ।

१३६ | कादम्बरी- | [ कथामुखे-


कनकावदाता परिस्फुरन्ती सौदामिनीव चक्षुषः प्रतिहन्ति तेजांसि, सततंमुदासीनापि महा-प्रभावतया भयमिषोपजनयति प्रथमोपगतस्य शुष्क-नल-काश-कुसुम-निपतितोऽनल चटुल-वृत्ति-नित्यमसहिष्णुतपस्विनां प्रतनुँतपसामपि तेजःप्रकृत्या दुःसहं भवति, किमुत सकल-भुवन वन्दित-चरणानाममवरत-तपःसलिल-क्षालितमलानां कर-कमल-तलामलक फलवदखिलं जगदालोकयतां दिव्येन चक्षुषा भगवतामेवविधानामघवक्षयकारिणाम् । पुण्यानि हि नामग्रहणान्यपि महामुनीनाम्, पुनर्दर्शनानि । धन्यमिदमाश्रमपदमयमधिपतिर्यत्र । अथवा भुवनतलमेव धन्यमखिलमनेनाधिष्ठितमवनितल-कमलयोनिना ।

उत्तप्तम् अत्यन्तमुष्णीकृतं यत् कनकं काञ्चनं तद्वत् अवदाता निर्मला परिस्फुरन्ती देदीप्यमाना सौदामिनीव तडिदिव चक्षुषो लोचनस्य तेजांसि ज्योतींषि प्रतिहन्ति प्रतिघातं नयति, साम्मुख्येन व्रजन्ती लोचनरश्मीनां विच्छेत्तृत्त्या प्रतिनिवृत्तिः सर्वानुभवसंवेद्यैवेत्याशयः । सततम् अजस्रम् उदासीनापि मध्यस्थापि परेषां भयोत्पादने फलशून्यापि इयं मूर्तिरित्यर्थः, महाप्रभावतया अत्युग्रप्रतापतया प्रथमम् अपूर्वम् उपगतस्य प्राप्तस्य सम भयं त्रासम् उपजनयतीव उत्पादद्यतीव । शुष्काणि विरसानि यानि नलकाशकुसुमानि स्वनामविख्याततृणविशेषाः तेषु निपतितो योऽनलोऽग्निः यस्येव चतुला चञ्चला आशुतरा वृत्तिः प्रसरणव्यापारो यस्य तत् तादृशम्, तथा नित्यं सततम् असहिष्णु असहनशीलम् अन्यतेज इति शेषः, तनु स्वल्पं तपो येषां तेषामपि तपस्विनां तपस्यावतां तेजः प्रभावः, प्रकृत्या स्वभावेन (दुःसहम् असहनीयम्) इत्यत्र पाठान्तरं भवति परेणमिति शेषः । सकलभुवनतलेषु समस्तसंसारतलेषु वन्दितचरणानां नमस्कृतपादानाम् अनवरतं निरन्तरं हतपांप्येव सलिलेानि वारिणि तैः क्षालितानि धौतानि मलानि दुष्कृतान्येव मलानि पङ्कादीनि यैस्तेषां तादृशानाम्, तथा दिव्येन परलोकीयेन चक्षुषा ज्ञाननेत्रेणेत्यर्थः करकमलतलं पाणिपद्मतलं तत्र आमलकफलवत् धात्रीफलवत्, अखिलं समग्रं जगत् संसारम् अवलोकयतां पश्यताम्, एवंविधानाम् इत्थंभूतानां जावालिसदृशानाम् अघवक्षयकारिणाम् अवलोकनमात्रेणैवान्येषां दुष्कृतध्वंसविधायिनां भगवताम् ऐश्वर्यादिमतां किमुत किमाश्चर्यम् ।

अत्र 'उत्तप्तकनकावदाता' इत्यत्र लुप्तोपमा, 'उपजनयतीव' इति क्रियोत्प्रेक्षा, तथा परत्र लुप्तोपमाश्लिष्टपरम्परितरूपकञ्च ।

पुण्यानीति हि निश्चितम्, मुहामुनीनां महातपस्विनां नामग्रहणान्यपि नामसङ्कीर्तनमात्रण्यपि पुण्यानि पुण्योत्पादकानि दर्शनानि तेषां निरीक्षणािन किं पुनः किं वक्तव्यम्, नूनं पापापनोदकानीत्यर्थः । इदं प्रत्यक्षम् आश्रमपदम् ऋषिजनस्थानं धन्यं कृतकृत्यमित्यर्थः यतो हि, यत्र आश्रमे अयं मुनिराजः अधिपतिः नेता । अथवा यद्वा अवनितलस्य मर्त्यलोकस्य कमलयोनिः ब्रह्मा तद्रूप इत्यर्थः तेन तथोक्तेन अनेन पुरोदृश्यमानेन मुनिना अधिष्ठितम् आश्रितम् अखिलं समग्रं भुवनतलमेव जगतीतलमवे धन्यं कृतपुण्यं 'सुकृती पुण्यवान् धन्यः' इति हैमः, तपोवनस्य तदन्तर्गतत्वादित्याशयः । खलु निश्चयेन

और आश्चर्यजनक हैं ? इनकी मूर्ति कितनी शान्त है फिर भी उससे तपाये हुए सोने जैसी निकलने वाली कान्ति बिजली के समान आँखों में चकाचौंध उत्पन्न करके उसे तेजरहित कर दे रही है और पहले-पहल आने वाले के प्रति यद्यपि उसमें कोई भी भाव नहीं है फिर भी अपने अत्यन्त प्रभाव के कारण वह आने वाले को भयभीत-सा बना दे रही है । जब सूखी हुई नल नाम की घास के फूलों पर पड़ी हुई आग के समान चञ्चल स्वभाव वाले ईर्ष्यालु तथा छोटे-मोटे तपस्वियों का तेज भी स्वभावतः अत्यन्त दुःसह होता है तब ऐसे महान् और पापों का नाश कर देने वाले तपस्वियों की बात ही क्या है, जिनके चरणों की पूजा सारा संसार ही करता है, जिन्होंने तप रूपी जल से काम-क्रोधादि रूपी सभी दोषों को धो डाला है और जो अपनी दिव्य दृष्टि से हाथ में रखे हुए आँवले के समान सभी लोकों को देख सकते हैं । मुनियों का नाम लेना ही बहुत बड़ा पुण्य है फिर दर्शन की तो बात ही क्या है। यह आश्रम भी धन्य है जिसके ये स्वामी हैं अथवा यह पृथ्वीतल ही धन्य है जिस पर इस लोक के ब्रह्मा के समान ऐसे महर्षि स्थित हैं । ये मुनिलोग भी कितने पुण्यवान् हैं जो अपने सभी कार्यों


१. सौदामनीव । २ निपतिता चहुल । ३. तनुतपसाम् । ४. कापि दुःसहमिति न विद्यते । ५. भुवनतल... । ६. ॰॰ तपःक्षपिकमलानाम् । ७. करतलामलकवदं । ८. ॰॰अघवक्षयकारणानि पुण्यानि ॰॰ नाम करणानि पुण्यानि नाम । ९. मुनीनाम् ।

जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १३७

पुण्यभाजः खल्वमी मुनयो यदहर्निशमेनमपरमिव नलिनासनमपगतान्यव्यापारा मुखावलोकन-निश्चलदृष्टयः पुण्याः कथाः शृण्वन्तः समुपासते। सरस्वत्यपि धन्या, याऽस्यै तु सततमतिप्रसन्ने करुणाजलनिष्यन्दिन्यगाधगाम्भीर्ये रुचिरद्विजपरिवारा मुखकमलसम्पर्क-सुखमनुभवन्ती निवसति राजहंसीव मानसे। चतुर्मुखमुखकमलवासिभिश्चतुर्वेवैः सुचि-रादिवै द्वितीयमिदमासादितं स्थानम् । एनमासाद्य शरत्कालमिव कलिकाल-जलधर-समय-कलुषिताः प्रसादमुपगताः पुनरपि जगति सरित इव सर्वविद्याः। नियतमिह सर्वात्मना कृतावस्थितिना भगवता परिभूत-कलिकाल-विलसितेन धर्म्मेण न स्मर्य्यते कृत-

अपगता दूरीभूता अन्ये व्यापाराः कर्म्माणि येषां ते तादृशाः, तथा मुखावलोकने मुनिवदननिरीक्षणे निश्चला निमेषरहिता दृष्टिः अवलोकनं येषां ते तादृशाः, पुण्याः धर्मजनिकाः कथाः किंवदन्तीः शृण्वन्तः आकर्णयन्तः, अमी प्रत्यक्षोपलभ्यमाना मुनयः तपस्विनः पुण्यभाजः सुकृतभाजः यत् तस्मात् कारणात् अहर्निशं प्रतिदिनम् अपरम् अन्यं नलिनासनं कमलासनमिव विद्यमानं तं समुपासते परिचर्यां कुर्वते। तु पुनरर्थे । सततं निरन्तरम् अतिप्रसन्ने अतिशयेन प्रसादगुणयुक्ते अतिस्वच्छे च, करुणा परदुःखप्रहा-णेच्छा जलमिव करुणेव च जलमिति करुणाजलं यस्य निस्यन्दिनि स्राविणि, अगाधम् इयत्ताशून्यम् अतळस्पर्शञ्च गाम्भीर्यं दुरवगाहस्वभावत्वं गम्भीरता च यस्य तस्मिन् तादृशे अस्य महर्षेः मानसे चित्ते मानससरोवरे च हंसीव मरालीव, रुचिराः सुन्दराः द्विजा छात्रीभूता विप्राः पक्षिणश्च 'दन्त-विप्राण्डजा द्विजाः' इत्यमरः, परिवाराः परिजनाः यस्याः सा तादृशी या सरस्वती भारती निवसति वासं विधत्ते साऽपि धन्या श्लाघ्या, असामान्यसुकृतेनैवंविधवासस्थानस्य प्राप्यत्वात् सा सरस्वत्यपि धन्येत्याशयः।

अत्र 'अवनितलकमलयोनिना' इत्यत्र निरङ्गं केवलरूपकमलङ्कारः, 'नलिनासनमिवे'त्यत्र दम्भो-त्प्रेक्षालङ्कारः, 'हंसीवे'त्यत्र पूर्णोपमालङ्कारः।

चतुरिति। चतुर्मुखस्य प्रजापतेः मुखकमलानि वदनपद्मानि तत्र वासिभिः स्थायिभिः चतुर्वेदैः ऋग्यजुःसामाथर्वाभिः सुचिरादिव चिरसमयादिव इदम् एतत् द्वितीयम् अपरं तपोवनरूपम् स्थानम् आसादितं प्राप्तम्। अत्र सुचिरादिवेति गुणोत्प्रेक्षा, तेन हि ब्रह्मणो मुखस्य तुल्यत्वं तपोवनस्य पूतत्वं ध्वन्यत इत्यलङ्कारेण वस्तुध्वनिः।

एनमीति। कलिकालः कलिसमयः जलधरसमयः वर्षाकाल इव तेन कलुषिताः निजप्रभाववशात् कुत्सितविवृत्यादिना अनुष्ठानशून्येन च दूषिताः, मलिनीकृताश्च सर्वविद्या अष्टादशविद्या वेदादिविद्याः सरितो नद्य इव शरत्कालमिव घनात्ययमिव एनं मुनिम् (जावालिम्) आसाद्य प्राप्य संसारे पुनरपि द्वितीयवारमपि प्रसादं सद्वृत्त्यादिना अनुष्ठानेन च निर्दोषत्वं नैर्मल्यञ्च उपगताः प्राप्ताः। मुनिरयं निखिला अपि विद्या धारयति तद्व्रतिपादितानुष्ठानञ्च सम्पादयतीत्याशयः।

नियतमिति। इह अस्मिन् आश्रमे सर्वात्मना सर्वविधिना कृता विहिता अवस्थितिः वासो येन स तेन तादृशेन भगवता महाभाग्यवता धर्मेण सुकृतेन, परिभूतं न्यक्कृतं दूरीकृतमित्यर्थः। कलिकालस्य


को छोड़ कर इन महर्षि के मुँह को अपलक आँखों से देखते हुए रात-दिन कथायें सुना करते हैं और दूसरे ब्रह्मा के समान इनकी उपासना में लगे रहते हैं। वह सरस्वती भी धन्य है जो निर्मल जल से भरे अथाह मानस सरोवर में पक्षियों के साथ कमलों के सुख का अनुभव करने वाली राजहंसिनी के समान इन महर्षि के मुख के सम्पर्क का सुख प्राप्त करती हुई उनके अत्यन्त प्रसन्न कारुणिक एवं गम्भीर हृदय में निवास करती है। ब्रह्मा के मुख कमलों में निवास करने वाले चारों वेदों को बहुत दिनों के पश्चात् यह दूसरा स्थान (जाबालि का मुख) प्राप्त हुआ है। जैसे वर्षा काल में कीचड़ से भरी हुई नदियाँ शरत् ऋतु पाकर फिर निर्मल हो जाती हैं उसी प्रकार कलिकाल के प्रभाव से दूषित सारी विद्यायें इन महर्षि को पाकर फिर निर्दोष हो गयी हैं। कलिकाल के सभी प्रपञ्चों को हरा कर एकाग्र भाव से इन महर्षि में निवास करने वाले भगवान् धर्मदेव निश्चय


१. मुखकमलावलोकन० ।
२. पर्युपासते ।
३. यदस्मिन् याऽस्य ।
४. रुचिरद्विजकुल-परिचये, द्विजपरिवारे ।
५. क्वचित् 'सुखं' पदं नास्ति ।
६. ईमीव ।
७. क्वचित् द्वितीयमुखपदं नास्ति ।
८. वेदैः चतुर्भिर्वेदैः ।
९. क्वचित् 'इव द्वितीयम्' इत्युभयपदनापि नास्ति ।
१०. कलि-जलद-समय० ।

१८ का० कथा०

१३= कादम्बरी- [ कथामुखे-

युगस्य । धरणितलमनेनाधिष्ठितमालोक्य न वहति नूनमिदानीं सप्तर्षिमण्डल-निवासाभि- मानमम्बरतलम् । अहो ! महासत्त्वेयं जरा, यास्य प्रलय-रवि-कर-निकर-दुर्निरीक्ष्ये रज- निकर-किरण-पाण्डु-शिरोरुहे जटाभारे फेनपुञ्ज-धवला गङ्गेव पशुपतेः क्षीराहुतिरिव शिखाकलापे विभावसोर्निपतन्ती न भीता । बहलाज्य-धूम-पटल-मलिनीकृताश्रमस्य भगवतः प्रभावाद्वीतमिव रवि-किरणजालमपि दूरतः परिहरति तपोवनम् । एते च पवन- लोल-पुञ्जीकृत-शिखाकलापा रचिताञ्जलय इवात्र मन्त्रपूतानि हवींषि गृह्णन्ति एतत्प्रीत्या-

विकसितं चेष्टितं येन तथोक्तेन सता कृतयुगस्य सत्ययुगस्य नियतं नूनं न स्मर्यते न चिन्त्यते सत्ययुगीय निखिलसदाचारोपलम्भादित्याशयः ।

अत्र नियतपदस्य ध्रुवादिपदवत् उत्प्रेक्षाभिधायकत्वाद्वाच्याभावाभिमानिनी क्रियोत्प्रेक्षा ।

धारणीति । अम्बरतलम् आकाशतलं (कर्तृ), अनेन मुनिना अधिष्ठितम् आधितं धरणितलं पृथिवीतलम् आलोक्य नूनं निश्चितम् इदानीं सम्प्रति सप्तर्षिमण्डलस्य कश्यपादिसमूहस्य निवासेन आत्मन्यवस्थानेन योऽभिमानोऽहङ्कारः तं न वहति धत्ते सप्तर्षिवन्मुनेरवस्थ्या तेन पृथिवीतलस्यापि स्वसमानत्वादित्याशयः पूर्ववदेवाsubha/लङ्कारः ।

अहो इति । अहो आश्चर्यम्, इयम् अस्य देहेऽवलोक्यमाना, जरा वृद्धावस्था, महासत्त्वा महाप्राणा अत्यन्तशक्तिमती । कथमेतदवधार्यते, इत्यत आह- यास्येत्यादि । फेनस्य डिण्डीरस्य यः पुञ्जः समूहः तेन धवला उज्ज्वला या जरा, प्रलये कल्पान्ते यो रविकरनिकरः सूर्यकिरणसमूहः तद्वत् दुर्निरीक्ष्ये महातेजस्वितयाऽवलोकयितुमशक्ये, तथा रजनिकरस्य चन्द्रस्य किरणवत् मयूखवत् पाण्डवः श्वेतवर्णाः शिरोरुहाः केशा यत्र तथोक्ते, अस्य मुनेः (जावालेः) जटाभारे सटासमूहे पशुपतेः, महेश्वरस्य जटाभारे सटासमूहोपरि निपतन्ती पतनं विदधती फेनपुञ्जवत् धवला गङ्गा भागीरथी इव, तथा विभावसोर्वह्नेः शिखाकलापे ज्वालासमूहे निपतन्ती फेनपुञ्जधवला क्षीरस्य दुग्धस्य आहुतिः प्रक्षेप इव निपतन्ती उपगन्तुं प्रवृत्ता सती न भीता न त्रस्ता । अत्र यथाक्रमं प्रलयरविकर, रजनिकरकिरण, फेनपुञ्जेत्यत्र तिस्रो लुप्तोपमाः, गङ्गेव आहुतिरिवेत्यत्र चोपमे द्वे इत्येतेषामङ्गाङ्गिभावेन सङ्करालङ्कारः ।

बहलेति । रवेः सूर्यस्य किरणजालं मयूखसमूहः (कर्तृ) बहलानां प्रचुराणाम् आज्यधूमानां हविर्धूमानां पटलैः वृन्दैः मलिनीकृतःश्यामतां प्रापितः आश्रम्रो यस्य तादृशस्य भगवतो माहात्म्यवतो- जाबालेः प्रभावात् माहात्म्यात् भीतमिव त्रस्तमिव सद् दूरतो दूर एव एतत्तपोवनं परिहरति त्यजति । स्वप्रतिपक्षिणः प्रवलतमस इव धूमपटलस्योत्पादकतया मुनेरपि प्रतिपक्षिप्रक्षान्तर्भावात्त्रासेन तदन्तिकपरित्यागः समुचित एवेत्याशयः । अत्र भीतमिवेति क्रियोत्प्रेक्षा ।

एत इति । अत्र आश्रमे पवनेन समीरेण लोलश्चपलः पुञ्जीकृतश्च शिखाकलापो ज्वालासमूहो येषां ते तादृशः, एते पुरोऽवलोक्यमानाः आश्रुशुक्षणयः दक्षिणाग्नि-गार्हपत्याहवनीयरूपा होमवह्नयश्च रचिताञ्जलयः आहुतिस्वीकरणाय ऊर्ध्वीकृतयुक्तपाणितलद्वया इव सन्तः, एतस्य महर्षिजाबालेः प्रीत्या स्नेहेन मन्त्रपूतानि ऋचा पवित्राणि हवींषि होतव्यानि घृतादीनि गृह्णन्ति स्वीकुर्वन्ति 'शिखावानाशुशुक्षणिः' इत्यमरः अत्रापि क्रियोत्प्रेक्षालङ्कारः ।


हो अब सत्ययुग को याद न करते होंगे और इन महात्मा को पृथ्वीतल पर स्थित देखकर अब आकाश भी सप्तर्षियों के निवास स्थान होने का अभिमान न करता होगा । यह बुढ़ापा भी कितना साहसी है जो शङ्कर जी की जटाओं में गिरने वाली उज्ज्वल फेन से भरी गङ्गा तथा अग्नि में गिरने वाली दूध की आहुति के समान इन मुनि की प्रलयकालीन सूर्य की किरणों जैसी चमकीली एवं चन्द्रमा की किरणों जैसी उजली जटाओं पर गिरने में डरी नहीं । यज्ञकुण्ड में निरन्तर अत्यधिक घी की आहुति पड़ते रहने के कारण इस आश्रम पर उससे उठने वाले धुवों की छाया पड़़ती रहती है जिससे ऐसा प्रतीत होता है मानों इस महर्षि के प्रभाव से सूर्य की किरणें भी इस आश्रम को दूर से ही छोड़ देती हैं। आश्रम के हवन-कुण्डों में धधकती हुई अग्नि की


१. आलक्ष्य, अवलोक्य ।
२. क्वचित्, 'मण्डल' पदं नास्ति ।
३. "रविरादिन
४. "***दुर्निरीक्षे ।
५. रजनिकरनिकरपाण्डुरे जटाभारे ।
६. निष्पतन्ती ।
७. "***आश्रमपदस्य ।
८. "***भीतमीतमिव ।
९. "***दाहकमपि ।
१०. "***पुञ्जितशिखाकलापाः, शिखाजटिलाः ।

जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १३६

शुश्रूषणयः। तरलित-दुकूलवल्कलोऽप्याश्रमलता-कुसुम-सुरभि-परिमलो मन्दमन्दसञ्चारी सशङ्क इवास्य समीपमुपसर्पति गन्धवाहः। प्रायो महाभूतानामपि दुरभिभवानि भवन्ति तेजांसि। सर्वतेजस्विनामयमग्रणीः। द्विसूर्य्यमिवाभाति जगदेनेनाधिष्ठितं महात्मना। निष्कम्पेव क्षितिरेतदवष्टम्भात्। एष प्रर्वाहः करूँणारसस्य, सन्तरणसेतुः संसारसिन्धोः, आधारः क्षमाम्भसाम्, परशुस्तृष्णालता-गहनस्य, सागरः सन्तोषामृत-रसस्य, उपदेष्टा सिद्धिमार्गस्य, अस्तगिरिरसद्ग्रहस्य मूलमुपशमतरॊः, 'नाभिः प्रज्ञाचक्रस्य 'प्रासादो-

तरलिनेति। तरलितानि कम्पितानि दुकूलवत् क्षौमवसनवत् वल्कलम् ऋषिपिरिहिततस्त्वक् येन स तादृशः, आश्रमलताकुसुमानाम् आश्रमलतापुष्पाणां सुरभिर्भ्राजतर्पणः परिमलो गन्धो यत्र स तादृशः, मन्दमन्दसञ्चारी शनैः शनै सञ्चरमाणः अयञ्च गन्धवाहः पवनः, सशङ्क भीताशय इव सन् अस्य जाबालेः समीपम् अन्तिकम् तपसर्पति उपगच्छति, परिहितवल्कलकम्पनेन स्वस्यापराधशङ्कया पवनस्य सशङ्कत्वं समुचितमेवेत्यभिप्रायः। सशङ्क इवेति गुणोत्प्रेक्षा।

प्राय इति। प्रायो बाहुल्येन समाभूतानामपि महाजन्तूनां मृगपतिगजादीनामपि तेजांसि महांसि दुरभिभवानि दुःखैनातिक्रमितुं शक्यानि भवन्ति, चोऽत्र किन्वर्थे। अयं मुनिः सर्वतेजस्विनां निखिलधामवताम् अग्रणीः प्रधानः, सुतरामस्य तेजोऽतिक्रमणासम्भवात् सूर्यप्रभृतीनामुक्तविधो व्यवहारः समुचित एवेत्याशयः।

द्विसूर्य्यमिवेति। अनेन जाबालिना महात्मना भगवता अधिष्ठितम् आश्रितं जगत् द्विसूर्य्यमिव द्वौ सूर्यौ यत्र तद्विव आभाति, अस्याऽप्यपरसूर्यसमानप्रभावत्वादित्याशयः द्विसूर्य्यमिवेति द्रव्योत्प्रेक्षा।

निष्कम्पेति। एतस्य मुनेः अवष्टम्भात् आलम्बादिव क्षितिः पृथिवी निष्कम्पा निश्चला। इह सवष्टम्भादिवेति हेतूत्प्रेक्षा।

एष इति। एष जाबालिः करुणा दयैव रसस्सलिलं तस्य प्रवाह ओघः, सर्वत्रैकरूपेण करुणाया विद्यमानत्वात्। संसारो मिथ्याज्ञानजन्या वासना स एव सिन्धुः समुद्रस्तस्य सन्तरणसेतुः उत्तरणजलपोतः 'तत्वमसि' इत्यादिमोक्षोपयोगिवाक्यपदेशद्वारा ज्ञानोत्पादनेन समुत्तारणात्। क्षमा परपरिभावादिवूपद्यमानेषु क्रोधप्रतिबन्धः सा एवाम्भांसि जलानि तेषाम् आधार आश्रयः सर्वत्रैव क्षमाकरणात् तृष्णा-विषयभोगलिप्सा एव लता वल्ल्यः तासां गहनस्य काननस्य परशुः कुठारः विनाशकारित्वात्। सन्तोषो यथाप्राप्तवस्तुनैव हृदि सन्तुष्टिः स एव अमृतंरसः पीयूषद्ववः तस्य सागरः समुद्रः, विपुलाधारत्वात्। सिद्धिमार्गस्य मोक्षपथस्य उपदेष्टा उपदेशकः, तादृशजिज्ञासुजनायाध्यात्मविद्योपदेशात् असद्ग्रहो दुरभिसन्धिरव असद्ग्रहः शनैश्चरप्रभृतिदुष्टग्रहः तस्य अस्तगिरिः अस्ताचलः, एनं प्राप्यैव सर्वेषां सुरभिसन्धिनाशात्। उपशमवरोः शान्तिद्रुमस्य मूलं घ्रत्न हेतुश्च, उपदेशादिना शान्तिकरणात्। प्रज्ञा प्रज्ञानमेव


चंचल रहते वायु के कारण यज्ञ में जुड़ी हुई सी ऐसी लग रही हैं मानो हवन की अग्नियां अञ्जुलियां बाँध कर उन महर्षि के मंत्रों से पवित्र हवन के सामानों को अत्यन्त प्रेम के साथ ग्रहण कर रही हों। उन महर्षि के पास लाने वाला मन्द-मन्द सुगन्धित वायु भी आश्रम की लताओं के फूलों की गन्ध लिए हुए वल्कल-वस्त्रों को हिलाकर मानो भयभीत-सा हो जाता है। प्रायः महान् प्राणियों का भी तेज अत्यन्त अपराजेय होता है। फिर इन महर्षि का तो कहना ही क्या जो सम्पूर्ण तेजस्वियों के प्रधान हैं। इस महापुरुष को धारण करके संसार दो सूर्यों को धारण करने वाला-सा बन गया है। इन्हीं की स्थिति से पृथ्वी भी अचला बनी हुई है। ये करुणारूपी जल के प्रवाह हैं, संसाररूपी सागर को पार करने के लिए पुल हैं, क्षमारूपी जल के आधार स्थान हैं, विषयवासना-रूपी घनी लताओं के काटने की कुल्हाड़ी हैं, सन्तोषरूपी अमृत के समुद्र हैं, सिद्धिमार्ग के गुरु हैं, असद्रूपी


१. प्रतिगृह्यन्तदाहुतयस्तनयः, प्रतिगृह्यन्तेतत्प्रदत्तस्रग्व्यादुकुसुमनयः। २. मन्दसञ्चारी । ३. तेजांसि यतः ।
४. निष्कण्टकेव । ५. अवष्टम्भादेव, अवष्टम्भेन । ६. प्रभवः । ७. करुणारसस्य । ८. क्षमाम्भसाम् ।
९. अमृतस्य । १०. असद्ग्रहकस्य । ११. नेमिः । १२. प्रसादो, स्थितिर्वैद्यो ।

१४०कादम्बरी-[ कथामुखे-

धर्मध्वजस्य, तीर्थं सर्वविद्यावताराणाम्, वडवानलो लोभार्णवस्य, निकषोपलः शास्त्र-रत्नानाम्, दावानलो रागपल्लवस्य, महामन्त्रः क्रोधभुजङ्गस्य, दिवसकरो मोहान्धकारस्य, अर्गलवन्ध्यो नरकद्वाराणाम्, कुलभवनमाचाराणाम्, आयतनं मङ्गलानाम्, अभूमिर्मदविकाराणाम्, दर्शकः सत्पथानाम्, उत्पत्तिः साधुतायाः, नेनिरुत्साहचक्रस्य, आश्रयः सत्त्वस्य, विपक्षः कलिकालस्य, कोशस्तपसः, सखा सत्यस्य, क्षेत्रमार्जवस्य, प्रभवः पुण्यसञ्चयस्य, अदत्तावकाशो मत्सरस्य, अरातिर्विपत्तेः, अस्थानं परिभूतेः अननुकूलोऽभिमानस्य, असंमतो दैन्यस्य, अनायत्तो रोषस्य, अनभिमुखः सुखानाम् ।

चक्रं तस्य नाभिः आलम्बनीभूतम्ध्यभागः, एनमाश्रित्यैव सर्वेषां ज्ञानविस्तारात्। धर्मः अभ्युदयनिःश्रेयससिद्धिद् एव ध्वजःपताका तस्य प्रासादो रत्नभवनम् अस्त्योपरि धर्मावलम्बनात् । सर्वविद्यासु आन्वीक्षिक्यादिषु ये अवताराः प्रदेशाः तीर्थं घट्टः, घट्टमवलम्ब्य सलिलेषु प्रवेशवद् एनमालम्ब्यान्तेवासिनां सर्वविद्यासु प्रवेशात् । लोभो धनाद्यागमे बहुधा जायमानेऽपि पुनः पुनर्वर्धमानोऽभिलाषः स एवार्णवः समुद्रः तस्य वडवानलः और्वः परिशोषकत्वात् । शास्त्राणि वेदादीन्येव रत्नानि मणयः तेषां निकषोपलः उत्कर्षापकर्षपरीक्षकप्रस्तरः छात्राणां शास्त्रज्ञानपरीक्षाविधानात् । रागो विषयाभिलाष एव पल्लवः किसलयः तस्य दावानलो वनाग्निः दाहकत्वात् । क्रोधः परवशीकृतात्मनः पराकरणहेतुर्बुद्धिविशेषः स एव भुजङ्गः सर्पः तस्य महामन्त्रः उपशमविधायित्वात् । मोहः कार्याकार्यविवेकाभावः अज्ञानमिति यावत् स एवान्धकारस्तिमिरः तस्य दिवसकरः उच्छेदकत्वात् । इह कण्ठगतस्यैवारभ्य 'मोहान्धकारस्ये'त्यन्तं प्रायः सर्वत्रैव परम्परितरूपकसङ्करः, तत्र क्वचित्कचिच् श्लिष्टपरम्परितरूपकम् एकदेशविवर्त्तिरूपकञ्च । किञ्चैतस्य मुनेर्विषयभेदेनानेकधोल्लेखादुल्लेखाद्यलङ्कारश्चेत्युभयोरङ्गाङ्गिभावेन संकरः ।

अर्गलेति । नरकद्वाराणां दुर्गतिद्वाराणाम् अर्गलवन्धः कपाटवन्धनकरणकीलः, उपदेशादिना तत्त्वज्ञानमुत्पाद्य नरकप्रवेशनिवारणात् । आचाराणां वेदादिविहितसदाचाराणां कुलभवनं पुरातनाधारगृहम्, यावज्जीवनमेव सदाचारानुष्ठानात् । मङ्गलानां समग्रश्रेयसाम् आयतनं भवनं पवित्रभूमिरित्यर्थः सर्वविधमङ्गलसम्पादनात् । वाक्यत्रयेऽप्यत्र प्रत्येकवृत्तिनिरङ्ककेवलरूपकाद्दूारसङ्कीर्णः प्राग्वदेवोल्लेखादलङ्कारो ज्ञेयः ।

अभूमिरीति । मदविकाराणाम् अहङ्काररूपमानसिकविकाराणाम्, अभूमिस्थानम्, लेशमानगन्धेनाऽपि शून्य इत्यर्थः महायोगित्वात् । सत्पथानाम् उत्कृष्टसत्कर्ममार्गाणां दर्शक उपदेष्टा सर्वज्ञत्वात् सर्वहितचिन्तकत्वाच्च । पूर्वोक्तेन 'सिद्धिंमार्गस्य' इत्यनेन सहास्य न पौनरुक्त्यम् उभयोः परस्परं भेदादित्यूहनीयम् । साधुतायाः सुजनतया उत्पत्तिः जन्मस्थानम् अस्मादेवानेकेषां सौजन्योपदेशप्राप्तेः । उत्साह उद्योग एव चक्रं तस्य नेमिः प्रान्तभागः, रथचक्रस्य प्रान्तदेशो यथा गन्तव्यमार्गस्य समग्रभागं स्पृशति तथायमपि उत्साहस्य पराकाष्ठाप्राप्त्या निखिलाम् पदार्थांन् परिमातीत्याशयः सत्त्वस्य सत्वगुणमात्रस्य आश्रयः आधारः, रजस्तमसोरभिभवाभावात् । कलिकालस्य कलियुगस्य प्रतिपक्षः शत्रुस्तत्कार्यपापावरोधकत्वात् । तपसः कोशो भाण्डागारम्, तपःपरिपूर्णत्वात् । सत्यस्य अननृतव्यवहारस्य सखा मित्रम्, क्षणमपि परित्यागाकरणात् । आर्जवस्य कोमलतायाः क्षेत्रं भूमिः, सर्वत्रैव सारलद्यावलोकनात् । पुण्यसञ्चयस्य धर्मसमूहस्य प्रभव उत्पत्तिस्थानम्, दर्शनोपदेशादिना सर्वेषामेव पुण्योत्पादनात् । मत्सरोऽन्यशुभद्वेषस्तस्य न दत्तोऽवकाशः स्वस्मिन्नवस्थानास्थानं येन स तादृशः, काप्यन्यशुभद्वेषाविधानात् । विपत्तेः आपदः अरातिः शत्रुः स्वतेजसा हननात् । परिभूतेरनादरस्य अस्थानम् अपदम्, सर्वदोपरहितत्वात् । अभिमानस्य समस्त-

ग्रहों के अस्ताचल हैं, शान्तिरूपी वृक्ष की जड़ हैं, ज्ञानरूपी चक्के की नाभि हैं, धर्मरूपी पताका के महल हैं, सभी विद्याओं में प्रवेश करने के किनारे हैं, लोभरूपी समुद्र को सुखाने वाले वडवाग्नि हैं, शास्त्ररूपी रत्नों के कसने की कसौटी हैं, विषयासक्तिरूपी पल्लवों की दावाग्नि हैं, क्रोघरूपी सर्प को वश में करने वाले मन्त्र हैं, मोहरूपी अन्धकार को दूर करने के लिए दिन हैं, नरकरूपी दरवाजों को बन्द करने के लिए साँकल हैं, सदाचार के कुलीन घर हैं और मंगल के पवित्र मन्दिर हैं। इनमें मद का विकार आ ही नहीं सकता। ये


१. तीर्थः। २. दाढवानलः। ३. मन्त्रः। ४. क्रोधभुजङ्गमस्य । ५. नरकपुरद्वाराणाम् । ६. आदर्शः सर्वविद्यानामुत्पत्तिः । ७. प्रसवः, प्रमादः । ८. अवशो विषयाणामनभिमुखः, अनवकाशो विषयाणामनभिमुख इत्युभयविधः पाठः क्वचिद् समुपलभ्यते ।

जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १४१

अस्य भगवतः प्रभावादेवोपशान्तवैरमपगतमत्सरं तपोवनम् । अहो ! प्रभावो महात्मनाम् । अत्र हि शाश्वतिकमपहाय विरोधमुपशान्तान्तरात्मान- स्तिर्यञ्चोऽपि तपोवन-वसति-सुखमनुभवन्ति । तथा हि एष विकचोत्पलवन-रचना- नुकारिणमुत्पतच्चारुचन्द्रकशतं हरिण-लोचन-द्युति-शवलमभिनव-शाद्वलमिव विशति शिखिनः कलापमातपोपहतो निःशङ्कमहिः । अयमुत्सृज्य मातरमजातकेशरैः केशरि- शिशुभिः सहोपजातपरिचयः क्षरत्क्षीरधारं पिबति कुरङ्ग-शावकः सिंहिस्तनम् । एष मृणाल-

लोकानामेव अहङ्कारस्य अननुकूलः अनाज्ञापकः तच्चागोपदेशात् । रोषस्य कोपस्य अनायत्तोज्ननधीनः 'अधीनो निम्न आयत्तः' इत्यमरः, दुराचारे प्रवर्त्तयितुमसमर्थत्वात् । सुखानामिहलोकभवानामित्यर्थः अनभि- मुखः अनभीप्सुकः, तदुपकरणपरित्यागात् । इह 'नेमिरुत्साहचक्रस्य'इत्यत्र परम्परितरूपकमलङ्कारः ।

अस्येति । अस्य भगवतो माहात्म्यवतः प्रभावादेव माहात्म्यादेव उपशान्तं विनष्टं वैरं मिथोविरोधो यत्र तत् तादृशम्, तथा अपगतो दूरीभूतो मत्सरोऽन्यशुभद्वेषो यस्मात् तत् तादृशं तपोवनं 'विद्यते' इति शेषः ।

अहो इति । विस्मय सूचकमव्ययपदमिदम् । महात्मनां महानुभावानां प्रभावो माहात्म्यम् । एतदेव विशेषतो दर्शयति—अत्रेति हि निश्चितम् अत्र तपोवने शाश्वतिकं सदातनं विरोधं वैरम् अपहाय दूरीकृत्य उपशान्ता मिथोविरोधशून्या अन्तरात्मानः अन्तःकरणानि येषां ते तादृशाः तिर्यञ्चोऽपि पशुपक्ष्यादयोऽपि तपोवनवसतिसुखं मुनिस्थाननिवासानन्दम् अनुभवन्ति अनुभवविषयीकुर्वन्ति । उपपादयति—तथाहीति । एष पुरतोऽवलोक्यमानः अहिः सर्पः, आतपेन सूर्यकिरणेन आहतः सन्तप्तः सन् , विकचानां विकसितानाम् उत्पलानां नीलपद्मानां वनस्य विपिनस्य या रचना सृष्टिः तामनुकर्तुं शीलं यस्य तं तादृशम्, उत्पतत् उपरि गच्छन् चारु सुन्दरं चन्द्रकाणां मेचकानां (चन्द्राकारचिह्नानां ) शतं समूहो यत्र तं तादृशम्, अतएव हरिणानां तत्तच्छुष्पभक्षणतत्पराणां मृगाणां यानि लोचनानि नयनानि तेषां द्युतिभिः शोभाभिः शबलं कर्बुरितम् अभिनवशाद्वलमिव प्रत्यग्रशष्पबहुलदेशमिव विद्यमानं शिखिनो मयूरस्य कलापं पिच्छं निःशङ्कं निर्भयं विशति छायाप्राप्त्यर्थं प्रविशति । विरोधे सति तु सर्पोऽनादिकालशत्रोर्मयूरस्य पिच्छमात्म- नैव कथमप्याश्रयेदित्याशयः । अत्राद्याऽर्थोपमा अपरा च श्रौतोपमा इत्युभयोः परस्परं नैरपेक्ष्येण स्थितत्वाद- संसृष्टिरलङ्कारः ।

अयमिति । अयं पुरतोऽवलोक्यमानः कुरङ्गशावको मृगशिशुः मातरं निजजननीं मृगीम् उत्सृज्य परित्यज्य, अजातकेसरैः अनुत्पन्नसटैः केशरिशिशुभिः मृगपतिशावकैः सह उपजातपरिचयः प्राप्तसंस्तवः, क्षरन्ती स्रवन्ती क्षीरधारा दुग्धधारा यस्मात्तं तादृशं सिंहिस्तनं पिवति पानं करोति ।

एष इति । आमीलितलोचनः सटाकर्षणेनानन्दोदयानुकुलितलोचनः, एष पुरतोऽवलोक्यमानः मृगपतिः सिंहः, मृणालक्लापाशङ्किभिः सटासमूहे विससमूहभ्रान्तिमद्भिः, द्विरदकलभैः करिशावकैः

सन्मार्ग के दिखाने वाले, साधुता के जन्मस्थान, उत्साहरूपी चक्र के धुरी, सतोगुण के आश्रयस्थान, कलिकाल के शत्रु, तप के कोष, सत्य के मित्र, सरलता के क्षेत्र और पुण्यों के उत्पत्तिस्थान हैं, इन्होंने अपने हृदय में ईर्ष्या- द्वेष को कभी आने ही नहीं दिया, विपत्तियों का सर्वथा विनाश किया, कभी किसी का अपमान किया ही नहीं, अभिमान को कभी बढ़ावा दिया ही नहीं, दीनता का कभी समर्थन किया ही नहीं, रोष को कभी पास फटकने ही नहीं दिया और सुखों की कभी अभिलाषा की ही नहीं ।

इन्हीं भगवान् जाबालि के प्रभाव से ही यह तपोवन ईर्ष्या-द्वेष रहित हो गया है ।

महात्माओं का प्रभाव भी कितना व्यापक होता है। यहाँ पशु-पक्षी भी अपना जातिगत वैर छोड़कर अत्यन्त शान्तभाव से तपोवन में रहने का सुख प्राप्त कर रहे हैं। देखो न धूप से व्याकुल यह साँप फैलने के कारण फूले हुए नीलकमल के समान प्रतीत होने वाले एवं ऊपर की ओर उमड़ी हुई सैकड़ों चन्द्राकार आकृतियों के कारण मृगनेत्रों की शोभा से सुशोभित नवीन घास के टुकड़ों जैसे लगने वाले मोरपंखों में निडर होकर प्रवेश कर रहा है। यह सिंह के अयाल रहित बच्चों से हिला-मिला हुआ मृगछौना अपनी माँ को छोड़कर दूध की धारा बहाने वाले सिंहो-रतनों को पी रहा है, ये हाथी के बच्चे चन्द्रमा की किरणों के समान


१. प्रसादादेवैतदुपशान्तवैरम् । २. उपशान्तात्मानः । ३. उत्पलिनोवनानुकारिणम् । ४. अपि-वसित, आवसति । ५. कलापमाहतः । ६. अनुपजात । ७. प्रक्षरत् ॰॰॰ । ८. खादिवति ।

१४२कादम्बरी-[कथामुखे-

कलापेशङ्किभिः शशिकर-धवलं सटाभारम् आमीलितलोचनो बहु मन्यते द्विरद-कलभैराकृष्यमाणं मृगपतिः इदमिह कपि-कुलमपगत-चापलमुपनयति मुनि-कुमारेभ्यः स्नातेभ्यः फलानि। एते च न निवारयन्ति मदान्धा अपि गण्डस्थलीभाञ्जि मदजल-पान-निश्चलानि मधुकर-कुलानि सञ्जातद्याः कर्णतालैः करिणः। किं बहुना, तापसाग्निहोत्र-धूमलेखाभिरुत्सर्पन्तीभिरनिशमुपपादितकृष्णाजिनोत्तरासङ्ग-शोभैः फलमूलभृतो वल्कलिनो निश्चेतनास्तरवोऽपि सनियमा इवं लक्ष्यन्तेऽस्य भगवतः किं पुनः सचेतनाः प्राणिनः"।”

इत्येवं चिन्तयन्तमेव मां तस्यामेवाशोकतरोरधश्छायायामेकदेशे स्थापयित्वा हारीतः पादावुपगृह्य कृताभिवादनः पितुरनतिसमीपवर्त्तिनि कुशासने समुपाविशत्। आलोक्य तु

आकृष्यमाणम् अवकृष्यमाणं शशिकरवत् चन्द्ररश्मिवत् धवलं स्वच्छं सटाभारं स्वजटासमूहं बहु मन्यते स्वस्पर्शत्वापाकर्षणेनानन्दोदयात्समादरं करोति। अत्र जटासमूहे मृणालसमूहभ्रनाद्भ्रान्तिमानलङ्कारः, शशिकरधवलमित्यत्र च लुप्तोपमा, स्वभावोक्तिश्चेति परस्परमेषामङ्गाङ्गिभावेन सङ्करालङ्कारः।

इदमिति। इह अस्मिन् तपोवने, अपगतचापंल मुनितेजसा विनष्टचाञ्चल्यम् इदं कपिकुलं वानरवृन्दं स्नातेभ्यो विहिताप्लवेभ्यः मुनिकुमारेभ्यः तपस्वियालकेभ्यः फलानि सस्यानि उपनयति भक्षणयाहरति।

एत इति। मदान्धा मदोन्मत्ता अपि सञ्जातद्याः मधुकरवृन्देषु समुत्पन्नस्नेहाः, एते च करिणो हस्तिनः, गण्डस्थलीं करटस्थलीं भजन्त इति तानि तादृशानि, मधुकरकुलानि भ्रमरसमूहान् कर्णतालैः विस्तृतकरतलस्वरूपकर्णताडनैः न निवारयन्ति न दूरीकुर्वन्ति, महर्षिप्रभावेणैतेषामपि कस्यापि सुखहननाविधानादित्याशयः। ---

किमिति। बहुना अधिकेन जल्पितेन किं फलमित्यर्थः। अनिशं सन्ततम् उत्सर्पन्तीभिः उत्तिष्ठन्तीभिः तापसानां मुनीनां यानि सन्निहोत्राणि यागविशेषाः तेषां धूमलेखाभिः दहनकेतनपङ्किभि उपपादिता विहिता कृष्णाजिनोत्तरासङ्गस्य कृष्णसारमृगचर्मचितोत्तरीयस्य शोभा कान्तिरिच शोभा येषु ते तादृशाः, फलानि सस्यानि मूलानि कन्द्राानि च बिभ्रतीति ते वल्कलिनो वृक्षत्वग्धारिणो निश्चेतनाः ज्ञानरहिताः, अस्य भगवतो माहात्म्यवतो महर्षेः तरवोऽपि वृक्षा अपि सनियमा व्रतिन इव लक्ष्यन्तेऽवलोक्यन्ते, कृष्णाजिनशोभादिधारणादित्याशयः। सचेतनाश्चेतनायुक्ता ये प्राणिनो मानवादयः तेषां किं पुनः किं वक्तव्यम्, ते त्वेवंरूपा भवन्त्येवेत्याशयः। अत्र 'कृष्णाजिनोत्तरासङ्गशोभाः' इत्यत्र लुप्तोपमा, 'सनियमा इव' इत्यत्र गुणोत्प्रेक्षा चेत्यनयोः परस्परमङ्गाङ्गिभावेन सङ्करालङ्कारः।

इत्येवमिति। इत्थैवं पूर्वोक्तविधिना चिन्तयन्तं मां वैशम्पायनं तस्यामेव अशोकपरोः अशोकवृक्षस्य अधश्छायायाम् एकदेशे एकस्मिन् भागे स्थापयित्वा संस्थाप्य हारीतः तन्नामा मुनिः, पादौ पितुर्ज़ाबालेरेव चरणौ उपगृह्य घृत्वा पादयोः पतित्वेत्यर्थः, कृताभिवादनो विहितप्रणामः, पितुर्जनकस्य अनतिसमीपवर्त्तिनि नातिनिकटवर्त्तिनि कुशासने दर्भवित्रे समुपाविशत् उपविष्टवान्। तुः पुनरर्थे आलोक्य दृष्ट्वा

सफेद सिंह के अयालों को मृणाल समझ कर खींच रहे हैं और सिंह आँख मूँदे हुए प्रसन्न हो रहा है, ये बन्दर अपनी स्वाभाविक चंचलता छोड़कर स्नान करके आए हुए मुनियों को फल दे रहे हैं और मदवाले होते हुए भी ये हाथी अपने कपोलों पर बैठकर निश्चिन्तता के साथ मदजल पीने वाले भँवरों को दया के कारण कान हिलाकर भगा नहीं रहे हैं। अधिक कहाँ तक कहें इस आश्रम के ये फल, मूल और वल्कलधारी निश्चेतन (जड़) वृक्ष भी अग्निहोत्र की उठती हुई धूमलेखाओं के रूप में कृष्ण मृगचर्म पहिने हुए व्रतधारी तपस्वी के समान दिखाई दे रहे हैं तो सचेतन प्राणियों की बात ही क्या है।

मैं यह सोच ही रहा था कि हारीतकुमार ने उसी अशोक के नीचे छाया में मुझे एक ओर रख दिया और वे स्वयं पिता के चरणों का स्पर्श करते हुए प्रणाम करके उनसे कुछ दूर पर रखे हुए एक कुशासन


१. मृणालशङ्किभिः।
२. शिशिरकर शिशिरकलापकर***।
३. सटाभारम्।
४. कलभकः।
५. कुमारेभ्यः।
६. जानदयाः।
७. उत्सर्पन्तीभिरुपपादित, सर्पन्तीभिरनिशमुपपादित***।
८. शोभनाः।
९. वल्कलिनस्तरवः।
१०. इवास्य भगवतः सनीपवर्तिनोऽत्र लक्ष्यन्ते; इव लक्ष्यन्तेऽस्य भगवतः सनीपवर्त्तिनः।
११. प्राणिन एवम्।
१२. तस्यैव रक्ताशोकतरोश्छायावान्।

जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । [ १४३

मां सर्वे एव मुनयः 'कुतोऽयमासादितः शुकशिशुः' इति तमासीनमपृच्छन् । असौ तु तान- ब्रवीत्—'अयं मया स्नातुमितो गतेन कमलिनीसरस्तीर-तरु-नीड-पतितः शुक-शिशुरातप- जनित-क्लान्तिरुत्तप्तपांशुंपटल-मध्यगतो दूर-निपतन-विह्वल-तनुरल्पावशेषायुरासादितः, तपस्विदुरारोहतया च तस्य वनस्पतेर्न शक्यते स्वनीडमारोपयितुमिति जातदयेनानीतः। तद्यावदयमप्ररूढपक्षतिरक्षमोंऽन्तरिक्षमुत्पतितुम् , तावदत्रैव कस्मिंश्चिदाश्रमतरुकोटरे मुनिकुमारैरस्माभिश्चोपनीतेन नीवार-कण-निकरेण विविधफलरसेन च संवर्द्धमानो धारयतु जीवितम्। अनाथ-परिपालनं हि धर्मोऽस्मद्विधानाम् । उद्भिन्नपक्षतिस्तु गगनतल- सञ्चरणसमर्थो यास्यति यत्रास्मै रोचिष्यते । इहैवोपजात-परिचयः स्थास्यति।'

मां सर्वे निखिला एव मुनयः ऋषयः कुतः कस्मात् प्रदेशात् अयं शुकशावकः आसादित आनीतः इति एवम् आसीनमुपविष्टं तं हारीतम् अपृच्छन् पृष्टवन्तः। असौ हारीतः तु पुनः तान् मुनीन् अब्रवीत् उक्तवान्—'अयं शुकशावकः इतः अस्मात्स्थानात् स्नातुम् आप्लवनार्थं गतेन प्राप्तेन मया हारीतेन कमलिनीसरसः पद्मयसरोवरस्य पम्पायाः तीरतरौः तटस्थितवृक्षस्य नीडात् कुलायात् पतितः च्युतः। आतपेन सूर्यरश्मिना जनिता उत्पादिता क्लान्तिः देहव्यथा यस्य स तादृशः। उत्तप्तस्य उष्णीभूतस्य पांशुंपटलस्य धूलिसमूहस्य मध्यगतोऽभ्यन्तरवर्त्ती, दूरात् निपतनैन अधःसंयोगफलकया क्रियया विह्वला व्यग्रा तनुः, शरीरं यस्य स तादृशः, अत एव अल्पं किञ्चित् अवशेषम् अवशिष्टम् आयुः जीवितं यस्य स तादृशः आसादितः प्राप्तः । तपस्विभिः मुनिभिः दुरारोहतया दुःखेनारोढं योग्यतया तस्य वनस्पतेः शाल्मलीतरोः स्वनीडं स्वकुलायम् आरोपयितुं स्थापयितुं न शक्यते न समर्थीभूयत इति हेतोः, जातदयेन उत्पन्नकरुणेन आनीतः अत्रानार्यि। तत्तस्माद्धेतोः यावत् यावत्समयम् अयं शुकशिशुः अप्ररूढे अनुत्पन्ने पक्षती पक्षमूलद्वयं यस्य स तादृशः अन्तरिक्षं गगनमुत्पतितुम् उड्डीय गन्तुम् अक्षमो- ऽसमर्थः तावत् तावत्समयम् यत्रैव अस्मिन् तपोवन एव कस्मिंश्चित् अनिर्दिष्टनामनि आश्रमतरुकोटरे मुनिवसतितृक्षकोटरे मुनिकुमारकैः तापसबालकैः अस्माभिश्च उपनीतेन आनीतेन नीवारकणनिकरेण मुनिधान्यसस्यसमूहेन विविधफलरसेन नानासस्यद्रवेण च संवर्द्धमानः वृद्धिं प्राप्यमाणः जीवितं जीवनं धारयतुं दधातु । हि यतोऽस्मद्विधानाम् अस्मत्सदृशानां मुनीनामनाथपरिपालनं दीनजनरक्षणं धर्म आचारः। उद्भिन्ने स्फुटे पक्षती पक्षमूले यस्य स तादृशः, तु पुनः, गगनतलसञ्चरणसमर्थः अम्बरतल- गमनक्षमः, यत्र यस्मिन् देशे कस्मै शुकशावकाय रोचिष्यते अभिलाषः उत्पत्स्यते तत्र यास्यति व्रजि- ष्यति। 'रुच्यर्थानां प्रीयमाणः' १।४।३३ इति पा० सूत्रेण चतुर्थी। वा अथवा इहैव अस्मिन्नेव तपोवने। अन्ययोगव्यवच्छेदार्थं एवकारः, उपजातपरिचयः उपजातः अस्माभिः सह उत्पन्नः परिचयः संस्तवो यस्य स तादृशः स्थास्यति अवस्थितिं विधास्यति ।

पर बैठ गये। मुझे देखते ही सभी मुनि लोग उसपर बैठे हुए हारीतकुमार से पूछने लगे—'यह सुग्गे का बच्चा कहाँ पा गये?' हारीत ने उनसे कहा—'मैं यहाँ से स्नान करने के लिए जा रहा था, उस समय कमल सरोवर के किनारे एक वृक्ष के घोंसले से गिरा हुआ यह सुग्गे का बच्चा धूप की गर्मी से व्याकुल होकर जलती हुई रेत में पड़ा था। दूर से गिरने के कारण इसका शरीर अत्यन्त विह्वल हो गया था और इसमें थोड़ी ही-सी जान बाकी रह गयी थी। इसे देखकर मुझे दया आ गयी किन्तु उस वृक्ष पर चढ़ना तपस्वियों के लिए अत्यन्त कठिन था इसलिए इसे घोंसले में न रखकर साथ लेता आया। जब तक इसके पंख न निकल आयें और यह आकाश में उड़ने योग्य न हो जाय तब तक इसी आश्रम के किसी वृक्ष के खोखले में मुनिकुमारों और मेरे द्वारा दिए गए तिन्नी के कणों को खाकर तथा फलों का रस पीकर पलता हुआ पड़ा रहेगा। अनाथों का पालन-पोषण तो हम जैसे तपस्वियों का धर्म ही है। रोयें निकल आने पर यह आकाश में उड़ने योग्य हो जायगा फिर जहाँ इसका मन होगा चला जायगा या हिल-मिल गया तो यहीं रह जायगा।


१. मां ते मुनयः सर्वे एव ।
२. ॰॰॰शिरस्तरः सरसस्तीरतरुनीडपतितः ।
३. दूरनिपतिनश्व ॰॰ ।
४ क्वचिद् 'च' इति पाठो नास्ति ।
५. अन्तरिक्षम् ।
६. क्वचिद् 'विविध' इति पाठो नोपलभ्यते ।
७. ॰॰स्तपत्नद्विधानाम् ।
८. सञ्चन्न ॰॰॰।
९. दय वासो ।
१०. समुत्पात ॰॰॰, उपजातविभ्रममः ।

१४४कादम्बरी-[ कथामुखे-

इत्येवमादिकमस्मत्संबद्धमालापमाकर्ण्य किञ्चिद्रुपजात-कुतूहलो$^२$ भगवान् जाबालि- रीषद्वलितकन्धरः पुण्यजलैः प्रक्षालयन्निव मामतिप्रशान्तया दृष्ट्या दृष्ट्वा$^३$ सुचिरमुपजात- प्रत्यभिज्ञान$^४$ इव पुनः पुनर्बिलोक्य 'स्वस्यैवाविनयस्य फलमनेनानुभूयते' इत्यवोचत्।

$\quad$ स हि भगवान् कालत्रयदर्शी$^५$ तपःप्रभावाद्विव्येन चक्षुषा सर्वमेव करतलगतमिव जगदवलोकयति$^६$, वेत्ति च$^७$ जन्मान्तराण्यप्यतीतानि, कथयत्यागामिनमप्यर्थम्; ईक्षणगोचर- गतानाञ्च प्राणिनामायुषः संख्यामावेदयति$^८$।

$\quad$ ततः सर्वैव सा$^९$ तापस-परिषच्छ्रुत्वा$^{१०}$ विदित-तत्प्रभावा 'कीदृशोऽनेनाविनयः कृतः, किमर्थं वा कृतः, क्व वा कृतः, जन्मान्तरे $^{११}$वा कोऽयमासीत्' इति $^{१२}$कुतूहलिन्यभवत्, असकृदुप-

इत्येवमिति। इत्येवम् इत्यादिकम् अस्मत्सम्बद्धं मद्दिषयकम् आलापं प्रश्नोत्तररूपम् आकर्ण्य निशम्य किञ्चित् ईषत् उपजातकुतूहलः उत्पन्नआश्चर्यः भगवान् महाभाग्यवान् जाबालिः ईषदावलितकन्धरो महर्षिः किञ्चिदानमितग्रीवः, पुण्यान्येव सुकृतान्येव जलानि सलिलानि तैः तथोक्तैः मां वैशम्पायनं प्रक्षालयन्निव धौतीकुर्वन्निव अतिप्रशान्तया नितान्तप्रसन्नया दृष्ट्या नेत्रेण सुचिरं बहुकालं दृष्ट्वा अवलोक्य, उपजातम् उत्पन्नं प्रत्यभिज्ञानं 'स एवायम्' इत्याकारकं ज्ञानं यस्य स तादृशः इव पुनः पुनः भूयो भूयः विलोक्य निरीक्ष्य स्वस्यैव आत्मन एव अविनयस्य अशिष्टव्यवहारस्य फलं भोगोऽनेन शुकशावकेन अनुभूयते साक्षात्क्रियते इति एवंविधिना तान् अवोचत् अब्रवीत्। 'पुण्यजलैः' इत्यत्र निरङ्गकेवलरूपकम्, 'प्रक्षालयन्निव क्रियोत्प्रेक्षा चेत्यनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः।

ननु तस्मिन् समय एव प्रथमं दृष्टवतो महर्षेः प्रत्यभिज्ञा कथमुपजाता इत्यत आह—स हीति। हि यस्माद्धेतोः, सः भगवान् माहात्म्यवाञ्जाबालिः कालत्रयदर्शी अतीतानागतवर्त्तमानात्मककालत्रितय-निखिलोदन्ताभिज्ञः, तपःप्रभावाद् दिव्येन ज्ञानमयेन चक्षुषा नेत्रेण सर्वं समस्तमेव जगत् संसारं करतलगतमिव पाणितलन्यस्तमिव अवलोकयति पश्यति। च पुनः अतीतानि गतानि जन्मान्तराणि भवान्तराणि वेत्ति जानाति। आगामिनमप्यर्थं भविष्यन्तमपि विषयं कथयति निरूपयति। ईक्षणगोचरगतानां लोचनपथप्राप्तानाञ्च प्राणिनां जीवानाम् आयुषो जीवितव्यस्य संख्याम् इयत्ताम् आवेदयति बोधयति।

तत इति। ततः तदनन्तरं सर्वैव समस्तैव सा तापसपरिषद् तपस्विसभा श्रुत्वा निशम्य पूर्वोक्तमिति शेषः। वृद्धतरुणभेदेन सम्प्रदायभेदेन वा तपस्विसभायामनेकश्वासत्सर्वैवेत्यभिधानं युक्तमेव। विदितो ज्ञातः तस्य महर्षेर्जाबालेः प्रभावो महात्म्यं यया सा तादृशी इति कुतूहलिनी अवगन्तुं चेतसि कौतुकवती अभवदित्यन्वयः। इति पदाभिधेयमाह—कीदृश इति। कीदृशः कीदृक् अनेन शुकशावकेन अविनयः अशिष्टव्यवहारः कृतो विहितः, किमर्थं किंप्रयोजनं वा कृतोऽनुष्ठितः, क्व वा कस्मिन् देशे कृतः, जान्मान्तरे भवान्तरे वा अयं कः आसीत् अभवत्। तं भगवन्तं महाभाग्यवन्तम् असकृत् वारंवारम्

मेरे सम्बन्ध की इन बातों को सुनकर भगवान् जाबालि को भी कुछ कुतूहल हुआ। उन्होंने कुछ गर्दन घुमाकर मानों अपने पुण्य जल से मुझे नहलाते हुए अत्यन्त शांत दृष्टि से मेरी ओर देर तक देखा और मानों मुझे पहचान कर बार-बार देखते हुए कहा कि यह तो अपने ही दुराचारों का फल भोग रहा है।

भूत, वर्तमान और भविष्य की सभी बातें जानने वाले वे महर्षि जाबालि तप के प्रभाव से दिव्य चक्षुओं द्वारा सारे संसार को करतलगत की भाँति देखते थे, पूर्व जन्म में घटी हुई घटनाओं को भी जानते थे, भविष्य में घटने वाली घटनाओं को भी बताते थे और केवल देखने से ही प्राणियों की आयु भी बता देते थे।

उनके तपःप्रभाव को जानने वाली मुनियों की वह सारी सभा यह जानने के लिए अत्यन्त उत्सुक हो उठी कि 'इसने कैसा दुराचार किया है ? क्यों किया है ? कहाँ किया है ? और पूर्व जन्म में यह कौन था ? अतः


१. अस्मत्सम्बद्धालापम् । २. कौतूहलः । ३. दृष्ट्या, क्वचित् नोमदरूपः पाठः समुपलभ्यते । ४. अभिजातप्रत्यभिज्ञः । ५. त्रिकालदर्शी । ६. भालोकयति । ७. वेत्ति जन्मान्तराण्युदन्तानि ८. प्रमाणम् । ९. यतः सर्वैव, सा तापस*** । १०. सतापसपरिषत् । ११. क्वचिद् 'वा' इति पदं नास्ति । १२. कौतूहलिनी ।

जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । [ १४५

याचितवती^१ च तं भगवन्तम्—'आवेदय प्रसीद भगवन् ! कीदृशस्याविनयस्य फलमनेनानुभूयते, विहङ्गजातौ वा^३ कथमस्य सम्भवः, किमभिधानो वाऽयम् , अपनयतु नः कुतूहलम् आश्चर्याणां हि सर्वेषां भगवान् प्रभवः।'

इत्येवमुपयोचितस्तपोधनपरिषदा स महामुनिः प्रत्यवदत्—'अतिमहदिदमाश्चर्यमाख्यातव्यम् ; अल्पशेषमहः प्रत्यासीदति च नः स्नानसमयः, भवतामप्यतिक्रामति देवार्च्चन-विविवेला, तदुत्तिष्ठन्तु भवन्तः सर्व एव तावदाचरन्तु यथोचितं दिवस-व्यापारम्, अपराह्न-समये भवतां पुनः कृत-केमूलाशानानां विस्रब्धोपविष्टानामादितः प्रभृति सर्वमावेदयिष्यामि। योऽयं यच्च^८ कृतमनेनापरस्मिन् जन्मनि, इह लोके^१० च यथास्य सम्भूतिः अयञ्च तावदपगतक्लमः क्रियतामाहारेण । नियतंमयमप्यात्मनो जन्मान्तरोदन्तं^१२ स्वप्नोपलब्धमिव

उपयाचितवती तद्वृत्तान्तकथनाय प्रार्थितवती। हे भगवन्! आवेदय सन्निधेहि, प्रसीद प्रसन्नो भव, कीदृशस्य किंप्रस्य अविनयस्य अशिष्टव्यवहारस्य फलं भोगः अनेन शुकशिशुना अनुभूयते साक्षात्क्रियते। विहायसा आकाशमार्गेण गच्छतीति विहगः पक्षी तज्जातौ तद्वंशे अस्य कथं केन विधिना सम्भव उत्पत्तिः, वा अथवा किमभिधानः किंनामा अयं शुकशिशुः नोऽस्माकं कुतूहलं साश्चर्यम् अपनयतु दूरीकरोतु, हि यतः सर्वेषां समस्तानाम् आश्चर्याणां परोक्षविषयविवरणस्वरूपाणां प्रभवो हेतुः अपूर्वार्थबोधक इत्यर्थः।

इत्येवमिति। इत्येवम् अनेन विधिना तपोधनपरिषदा तपस्विमण्डया तास्यजनैरित्यर्थः उपयाचितः प्रार्थितः स महामुनिः प्रत्यवदत् प्रत्यवोचत्—अतीति। इदमाश्चर्यम् अघटितघटनायुक्तम् अतिमहद् अतिदीर्घम् आख्यातन्यं निरूपणीयम्, मयेति शेषः। अहो वासरः अल्पशेषं स्वल्पावशिष्टम्, नोऽस्माकं स्नानसमयः मज्जनकालः प्रत्यासीदति सन्निधत्ते। भवतामपि युष्माकमपि देवार्चनविधिवेला देवपूजन-विधिसमयः अतिक्रामति व्यत्युल्लङ्घिता भवति, तत्तस्मात् कारणात् भवन्तो यूयम् उत्तिष्ठन्तु उत्थानं विदधतु। सर्व एव 'तावत्' इति वाक्यालङ्कारे। यथोचितं यथायोग्यं दिवसव्यापारं दिनकृत्यम् आचरन्तु अनुतिष्ठन्तु। अपराह्नसमये प्रहरद्वयान्तरकाले भवतां युष्माकं पुनः द्वितीयवारं कृतं विहितं फलमूलानाम् अशनं भोजनं यैस्तेषां तथोक्तानाम्, विस्रब्धोपविष्टानां सुस्थभावेनोपवेशनं कृतवताम् आदितः प्रारम्भतः प्रभृति सर्वं समस्तम् आवेदयिष्यामि। कथयिष्यामि। अयं शुकशिशुः यः पूर्वजन्मनि आसीत्, परस्मिन् जन्मनि जन्मान्तरे यच्च कर्म अनेन कृतं विहितम्, च पुनः इह लोके अस्मिन् संसारेण यथा येन प्रकारेण अस्य सम्भूतिः उत्पत्तिः। तावत् प्रथमम् अयं शुक लाहारेण भोजनेन अपगतक्लमो विगतश्रमः क्रियतां विधीयताम्। नियतं निश्चितं मयि जाबालौ कथयति निवेदयति सति अयं शुकः अपि आत्मनः


सारी सभा उनसे बार-बार प्रार्थना करने लगी, भगवान् कृपा करके बताइए कि यह किस प्रकार के दुराचरण का फल भोग रहा है? यह पक्षियोनि में कैसे उत्पन्न हुआ? इसका नाम क्या है? आप हमलोगों की उत्सुकता दूर करें क्योंकि आप सभी आश्चर्यजनक बातों को कह सकते हैं। तपस्वियों की सभा के इस प्रकार निवेदन करने पर महर्षि जाबालि ने कहा कि 'यह वृत्तान्त बहुत ही आश्चर्यजनक और विस्तृत है जिसे मुझे पूरा सुनाना होगा किन्तु अब दिन भी थोड़ा ही रह गया है; मेरे स्नान का समय भी हो चला है और आप लोगों के देवपूजन में भी देरी हो रही है अतः इस समय आपलोग उठिए और अपने-अपने दैनिक कर्मों को पूरा कीजिए। रात के समय जब आपलोग कन्द-मूल आदि खा-पीकर निश्चिन्तता के साथ बैठिएगा तो 'यह जो है, इसने पूर्व जन्म में जो कुछ किया है और कैसे इस लोक में आया है आदि पूरी कथा प्रारम्भ से ही सुनाऊँगा। तब तक इसे भी खिला-पिला कर क्लान्त करने दीजिए। मैं जैसे-जैसे इसकी कथा सुनाता जाऊँगा वैसे ही वैसे इसे भी अपने पूर्व जन्म की


१. उपयाचितवती, इत्युपनादितवती; उपेत्यार्थितवती । २. नुभूयते । ३. क्वचिद् 'वा' पदं न विद्यते । क्वचित् 'च' पदं दृश्यते । ४. आख्यायमानस्तु । ५. अवदत् । ६. बेला । ७. क्वचिद 'तावद्' पदं नास्ति । ८. क्वचित् 'कर्म' पदं नास्ति । ९. आवेदयिष्यानः । १०. द्यथानेन कृतमपर । ११. लोके च तथा होने दृश । १२. जन्मान्तरवृत्त ।

१६ का० कथा०

१४६ | कादम्बरी- | [ कथामुखे-

मयि कथयति, सर्वमशेषतः स्मरिष्यति' इत्यभिदधदेवोत्थाय समं ^१तैर्मुनिभिः ^२स्नानादिक-मुचित-दिवस-व्यापारम् अकरोत् ।

अनेन च^३ समयेन परिणतो दिवसः । स्नानोत्थितेन मुनिजनेनार्घविधिमुपपादयता यः क्षितितले दत्तः^४ तमम्बर^५-तलगतः साक्षादिव रक्तचन्दनाङ्गरागं रविरुद्वहत्। ऊर्ध्वमुखै-रर्कबिम्ब-विनिहित^६-दृष्टिभिरूष्मपै^७स्तपोधनैरिव परिपीयमान-तेजःप्रसरो विरलार्तप-^८स्तनिमानमभजत् । उद्यत्सप्तर्षिसार्थ-स्पर्श^९-परिजिहीर्षयेव संहृत-पादः पारावत-^१०पाद-


स्वस्य जन्मान्तरोदन्तं परजन्मवार्त्तां स्वप्नोपलब्धमिव स्वप्नदृष्टवत् सर्वं समस्तम् अशेषत आदितः स्मरिष्यति स्मृतिपथमानेष्यति, इत्यभिदधदेव इत्थं ब्रुवन्नेव उत्थाय उत्थानं विधाय मुनिभिः तपस्विभिः समं सार्द्धम् उचितं योग्यं दिवसव्यापारं दिनकृत्यं स्नानादिकम् अकरोत् विहितवान् ।

अनेनेति । अनेन मध्याह्नसमयानुष्ठेयक्रियया, अत्र अपवर्गे तृतीया । परिणतः अवसानं प्राप्तः दिवसो वासरः । स्नानोत्थितेन मुनिजनेन तपस्विमण्डलेन अर्घविधिं रक्तचन्दनरक्तकुसुमादिना सूर्याय पूजाविधिम् उपपादयता सम्पादयता क्षितितले भूतले दत्तोऽर्पितः यः रक्तचन्दनाङ्गराग इत्यर्थः अम्बरतलगतो गगनतलप्राप्तो रविः सूर्यः साक्षात् तं रक्तचन्दनाङ्गरागमिव रक्तचन्दनरूपमङ्गरागद्रव्यमिव उदवहत् तनावधारयत्, तत्समये सूर्यस्यारक्तार्यमानत्वादित्याशयः । 'रक्तचन्दनाङ्गरागमिव' इति जात्युत्प्रेक्षा ।

ऊर्ध्वेति । ऊर्ध्वमुखैः ऊर्ध्ववदनैः अर्कबिम्बे रविमण्डले विनिहिताः स्थापिता दृष्टयोऽवलोकनानि यैस्तैः, ऊष्माणम् उत्तापं पिबन्तीति तैस्तादृशैस्तत्संज्ञकैः, तप एव धनं येषां तैस्तथोक्तैः, परिपीयमानः आस्वाद्यमानः तेजः प्रसरः तेजस्समूहो यस्य स तथोक्त इव सन्, विरलः अस्तोन्मुखत्वात् स्वल्पोभूतः आतप आलोको यस्य स तादृशः सूर्यः, तनोः क्षीणत्वस्य भावस्तनिमा उम् अभजत् प्राप । तनिमानमित्यत्र 'पृथ्वादिभ्य इमनिज्वा' इति पा० सूत्रेण इमनिच् प्रत्ययः । अत्र सन्ध्यासमये मन्द्रातपो रविवम्बेषि-स्वमुपगतस्तत्र तद्दिग्विनिहितदृष्टिभिर्मुनिभिः समस्तं दिनं यावत् स ऊष्मा पीतः, अत एव सायं रविस्तनुतामभजदिति क्रियोत्प्रेक्षालङ्कारः ।

उद्यदिति । उद्यत उद्यमानस्य सप्तर्षिसार्थस्य सप्तर्षिगणस्य यः स्पर्शः पादेन संस्पर्शः तस्य परिजिहीर्षयेव परिहर्तुमिच्छयेव कारणेन, संहृतः सङ्कोचितः पादो रश्मिश्च येन स तादृशः संसारे प्रतिष्ठितानां सप्तर्षीणां चरणेन स्पर्शनस्यात्यन्तमनौचित्यादित्याशयः पारावतः कपोतः तस्य पादवत् चरणवत् पाटलः श्वेतरक्तः रागः कान्तिः यस्य स तादृशः, रविः सूर्यः अम्बरतलात् गगनतलात् अलम्बत अवातरत् । अत्र पाद (रश्मि) द्वारा जगत्पूज्यानातृषीणां स्पर्शजनितोऽपराधो न भवत्विति हेतुना उपसंहृतपादः (रश्मिः) रविरम्बरतलादलम्बतेति हेतूत्प्रेक्षालङ्कारः । रश्मिचरणयोर्भेंदेऽपि पादशब्दश्लेषेणाभेदाध्यवसायादतिशयोक्त्यलङ्कारः, 'पारावतपादपाटलराग' इत्यत्र लुप्तोपमा च, इत्येतेषां परस्परमङ्गाङ्गिभावेन सङ्करालङ्कारः यद्यपि जगद्वन्द्यस्य रखेः प्रभायां पारावतपादसाम्यकल्पनारूपमानौचित्यं प्रतीयते


बीती हुई सारी घटनाएँ स्वप्न के समान याद पड़ती जायेंगी।' इस प्रकार कहते हुए ही महर्षि जाबालि ने सभी तपस्वियों के साथ उठकर स्नानादि सभी दैनिक कर्मों को पूरा किया।

यह सब होते जाते दिन समाप्त-प्राय हो गया । सूर्यमण्डल लाल हो गया मानो स्नानोपरान्त मुनियों से सूर्य को अर्घ्य देते समय पृथ्वी पर जो लाल चन्दन गिराया था उसे ही उसने आकाश में उठा कर साक्षात् अपने शरीर में अंगराग की तरह मल लिया हो। तेजहीन सूर्य दिम्ब धीरे-धीरे छोट पड़ने लगा मानो ऊपर की ओर मुँह उठा कर उस बिम्ब में दृष्टि लगाने वाले ऊष्मपायी (धूम पीने वाले, तपस्या की एक साधना करने वाले) मुनियों ने सारा तेज ही पी लिया हो। सायंकाल उदित होते हुए सप्तर्षि मंडल से कहीं पैरों का स्पर्श न हो जाय,


१. कचित् 'तैः' इति पदं नास्ति ।
२. स्नानादिकमुचितं दिवसव्यापारम्, स्नानादिकं दिवसव्यापारम् ।
३. क्वचित् 'च' पदं नोपलभ्यते ।
४. अर्घो दत्तः ।
५. अम्बरतलं गतः, अस्ताचलगतः ।
६. निहित० ।
७. उष्मपैः ।
८. विरलातपो दिवसः ।
९. ०सार्थपरिजिहीर्षयैव ।
१०. चरणम् ।

सन्ध्यावर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १४७

पाटलरोगो रविरम्बरतलादलम्बत । आलोहितांशु-जालं जलशयनमध्यगतस्य मधु-रिपो- र्विगलन्मधुधारमिव नाभि-नैलिनं प्रतिमागतमपरार्णवे सूर्य्यमण्डलमलक्ष्यत । विहाय धरणि- तलम् उन्मुच्य च कमलिनीवनानि शकुनय इव दिवसावसाने तरु-शिखरेषु पर्वताग्रेषु च रविकिरणाः स्थितिमकुर्वत । आलग्न-लोहितांतप-च्छेदा मुनिभिरालम्बितं-लोहितं- वल्कला इव तरवः अलक्ष्यन्त । अस्तमुपगते च भगवति सहस्रदीधितावपरार्णवतटात् उल्लसन्ती विद्रुम-लतेव पाटला सन्ध्या समदृश्यत । यस्यामावध्यमानध्यानाम्, एकदेशदुह्य- माना-होमधेनु-दुग्धधाराध्वनितधन्यतरातिमनोहरम् अग्निहोत्र-वेदि-विप्रकीर्य्यमाण-हरित्-

त्यापि सन्ध्याकाले तेजोविरहितलौहित्यसाम्येन रवेर्मन्दप्रभताऽतिशयध्वननाद्दोषाभावः, एतदर्थं पाठा- न्तरकल्पनमनावश्यकमैवाभातीति विभावयन्तु सुधियः।

आलोहितेति । आलोहितम् ईषद्रक्तवर्णम् अंशुजालं रश्मिपटलं यस्य तत् तादृशम् , विगलन्ती स्रवन्ती मधुधारा परागपद्धतिर्यस्मात् तत् तथोक्तम् , ईषद्रक्तविसारिरश्मिपटलस्य सादृश्यबोधनार्थमेत- द्विशेषणमित्यवधेयम् , प्रतिनागतं प्रतिबिम्बभावेन पतितं जलशयनमध्यगतस्य सलिलशयनमध्यस्थितस्य मधुरिपोः श्रीविष्णोः नाभिनलिनं नाभिकमलमिव अपरार्णवे पश्चिमसागरे सूर्य्यमण्डलं सूर्य्यबिम्बप्रतिविम्बम् अलक्ष्यत जनैर्दृश्यत । अत्र 'नाभिनलिनमिव' इत्युपमा ।

विहायेति । धरणितले भूतले विहाय परित्यज्य, कमलिनीवनानि पद्मवनानि उन्मुच्य व्यक्त्वा, तेषां परमप्रेमास्पदत्वेऽपि अस्ताचलगमनसमये समस्तस्यैव परित्याज्यत्वादित्याशयः, एवञ्च तथाविधार्थ- बोधनार्थमेव विशेषणाभिधानमिदमिति भावुकाः । शकुनय इव पक्षिण इव दिवसावसाने सन्ध्याकाले तरुशिखरेषु वृक्षाग्रेषु पर्वताग्रेषु च रविकिरणाः सूर्य्यमयूखाः स्थितिम् अवस्थानम् अकुर्वत व्यवधत । इहापि 'शकुनय इव' इत्युत्प्रेक्षालङ्कारः ।

आलग्नेति । सालग्नाः संसक्ताः लोहिता रक्तवर्णा आतपानाम् आलोकानां छेदाः खण्डा येषु ते तादृशाः, अत एव मुनिभिः तपस्विभिः आलम्बितानि उपरिस्थापितानि लोहितानि लोहितवर्णानि वल्कलाति तरुत्वचः येषु ते तथोक्ता इव तरवः अलक्ष्यन्त अदृश्यन्त । इह वल्कलानामुपरिस्थापनस्यो- त्प्रेक्षणात्क्रियोत्प्रेक्षा ।

अस्तमिति । भगवति प्रभाववति सहस्रदीधितौ दिनकरे अस्तमुपगते अदृश्यतां प्राप्ते अपरार्णव- तटात् पश्चिमसमुद्रतीरात् उल्लसन्ती ऊर्ध्वमागच्छन्ती विद्रुमलतेव लतारूपेण विर्यगवस्थिता प्रवालपङ्क्ति- रिव पाटला श्वेतरक्ता सन्ध्या सायंसमयः समदृश्यत समलक्ष्यत । 'इह विद्रुमलतेवेति उपमा ।

यस्यामिति । यस्यां सन्ध्यायाम् आवध्यमानं सायंकृत्यतत्परैः ऋषिभिः विधीयमानं ध्यानं परमे- श्वरे एकाप्रत्ययसन्ततिर्यस्मिन् तच्च तादृशम् । एकदेशे तपोवनस्य कस्मिंश्चिद्भागे दुह्यमानानां होमधेनूनां होमार्धगवीनां या दुग्धधाराः पयोधारास्तासां ध्वनितैः शब्दितैः धन्यतरं सत् अतिमनोहरम् अति- सुन्दरम् । अग्निहोत्राणां तत्संज्ञकयागविशेषाणां वेदिषु परिष्कृतचतुरस्रभूमिषु विप्रकीर्यमाणा हवनीया- स्तरणार्थं विक्षिप्यमाणा हरति श्यामवर्णाः कृशा दर्भा यत्र तादृशम् । 'अग्निहोत्रं जुहोति' इति

इस मय से कबूतर के पैरों के समान लाल रङ्ग वाला सूर्य मानो अपने किरणरूप चरणों को समेट कर आकाश के एक ओर लटक गया और पश्चिम समुद्र में पड़तो हुई उसको लाल लाल परछाहीं ऐसी प्रतीत होने लगी मानो जल में शयन करने वाले भगवान् विष्णु का मधुबिंदु बहाने वाला नाभिकमल हो। सूर्य की किरणें पृथ्वी और कमल वनों को छोड़ कर सायङ्काल के समय पक्षियों की तरह वृक्षों और पहाड़ियों की चोटियों पर जा बैठीं। कमी कहीं-कहीं जामुन के वृक्षों पर लाल-लाल धूप बची हुई थी जो ऐसी प्रतीत होती थी मानो ऋषियों ने उस पर अपना लाल-लाल वल्कल टाँग दिया हो । सूर्य के अस्त हो जाने पर पश्चिमी समुद्र के तल से मूंगे की फूटो हुए लता के समान रक्ती हुई सन्ध्या दिखाई देने लगी। उस समय आश्रम में कहीं मुनि लोग ध्यान


१. अवलम्बत । २. क्वचित् 'मध्यति पाठो नोपलभ्यते । ३. नपुलिनं । ४. इव नलिनं । ५. चालक्ष्यत, नावेल्यत, अदृश्यत । ६. धरातलम् , अम्बरतलम् । ७. क्वचित् 'च' इति पदं न विद्यते । ८. तपोवनतरुशिखरेषु । ९. रक्तावपच्छेदाः । रक्तावपगमस्तिच्छेदाः । १०. आलम्बिताः । ११. आलोहित । १२. आलम्रतरवः सुभाम् अशोभन्त, सादृश्यन्त । १३. अपरार्णवतलात् । १४. उपसर्पन्ती । १५. आपाटला । १६. ॰॰॰धाराध्वनितमनोहरम् । १७. क्वचित् 'वेदि' पदं नोपलभ्यते ।