भारतकोश
संग्रह पर लौटें

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

६५८] कादम्बरी- [कथायाम्-

शयम्, मुग्धतापि मुग्धताम्, वैदग्ध्यमपि वैदग्ध्यम्, भयमपि भीरुताम्, विभ्रमोऽपि विभ्र- मिताम्; विषादोऽपि विषादिताम्, विलासोऽपि विलासम्। तथाभूता च 'देवि! किमिदम्' इति विज्ञापिता मया प्रमृज्य लोहितायमानोदरे लोचने दुःखप्रकर्षेणात्मनः समुद्बन्धनायेव मृणालकोमलया बाहुलतया वेदिकाकुसुम- पालिकाग्रथित-कुसुममालामवलम्ब्य समुन्नतेकभ्रूलता मृत्युमार्गम्$^१$ इवावलोकयन्ती दीर्घ- मुष्णञ्च निश्वसितवती। तद्दुःखमुत्प्रेक्षमाणया च$^२$ कथनाय पुनः पुनरनुबध्यमाना मया व्रीडया नखमुख-विलिखितकेतकीदला$^३$ लिखितेव वक्तव्यमर्पयन्ती विवक्षास्फुरिताधरा निश्वासमधुकरानिवोपांशु सन्दिशन्ती क्षितितल-निहित-निश्चल-नयना सुचिरमतिष्ठत्। क्रमेण च भूयो मन्मुखे निधाय दृष्टिं पुनः पुनरप्यापूर्यमाणलोचनच्युतैर्मदनानल्धूम-


विनयातिशयम् अशिक्षतेव। विभ्रमोऽपि अधीरताऽपि, विभ्रमिताम् अधीरताम्। विषाद इष्टवियोगेषु प्रातिकूल्यरूपः।

तथेति। लोहितायमानो निरन्तररोदनादारक्तवर्ण उदरे अभ्यन्तरे ययोस्तथोक्ते लोचने नयने प्रमृज्य प्रोन्द्य। दुःखप्रकर्षेण क्लेशातिशयेन आत्मनः स्वस्य समुद्बन्धनायेव संयतायेव मृणालवत् बिसवत् कोमलया मृदुलया बाहुलतया भुजवल्ल्या करणभूतया, वेदिकाकुसुमानां या पालिका रक्षिका दासी तया ग्रथिता गुम्फिता या कुसुममाला पुष्पस्रक् ताम् अवलम्ब्य आश्रित्य, समुन्नता ऊर्ध्वमुपगता एका भ्रूलता यस्याः सा अत एव मृत्युमार्गं यमपन्थानम् अवलोकयन्तीव पश्यन्तीव सती। इहाद्या फलोत्प्रेक्षा अपरा क्रियोत्प्रेक्षैत्युभयोश्च मिथो नैरपेक्ष्येण संसृष्टिः।

तदिति। किञ्च, तस्याः कादम्बर्या दुःखं क्लेशम् उत्प्रेक्षमाणया स्वप्रज्ञया सम्भावयन्त्या (मया), पुनः पुनः भूयो भूयः कथनाय अभिधानाय अनुबध्यमाना अनुरुध्यमाना, व्रीडया लज्जया नखमुखेन नखाग्रेण विलिखितं व्रीडास्वभावात् संघृष्टं केतकीदलं यया सा, अत एव वक्तव्यं कथनीयं विषयं लिखित्वा लिपीकृत्य अर्पयन्तीव ददतीव, विवक्षया वक्तुमिच्छ्या स्फुरितश्चलितः अधरो यस्याः सा, अत एव निश्वासमधुकरान् वदनानिलपानाथौपस्थितभ्रमरान् उपांशु रहसि सन्दिशन्तीव कथयन्तीव, क्षितितले भूतले निहिते स्थापिते निश्चले निस्पन्दे नयने लोचने यया सा तादृशी सती, सुचिरं बहुकालपर्यन्तम् अतिष्ठत् स्थिता।

क्रमेणेति। भूयः पुनरपि मन्मुखे मद्वदने दृष्टिं निधाय स्थापयित्वा। आपूर्यमाणाभ्यां लोचनाभ्यां नयनाभ्यां च्युतैः पतितैः वाष्पजलबिन्दुभिः अश्रुकणैः, मदनानण्डलस्य कामाग्नेः धूमेन धूसरं मलिनाम्


विनयका अभ्यास किया, मुग्धता (अनभिज्ञता) ने भी मानो मुग्धता की शिक्षा ली, सौन्दर्यने भी मानो सौन्दर्यका अभ्यास किया, भयने भी मानो भीरुता की शिक्षा ली, अधैर्यने भी मानो अधीरता की शिक्षा ली, विषादने भी मानो विषादिताका अभ्यास किया और विलासने भी मानो विलासकी शिक्षा ली।

इस प्रकार उनकी अवस्था होने पर मैंने उनसे विनती की—'देवि! यह कैसा व्यापार है?' तब उन्होंने अभ्यन्तरसे रक्तवर्ण हुए अपने नयनयुगल पोंछ डाले, अत्यन्त दुःखसे अपनेको उद्बन्धन करने (फाँसी लगाने) के लिए ही मानो मृणाल तुल्य कोमल बाहुलता द्वारा वेदिका-पुष्परक्षिणी दासी (लता-गृह की मालिन) की गूंथी हुई एक पुष्प-मालाको पकड़ कर, मृत्यु का मानो मार्ग देखती हों इस प्रकार एक भ्रू-लताको उन्नतित (ऊँची चढ़ा) कर, वह दीर्घ और उष्ण निश्वास (लम्बी और गरम साँस) छोड़ने लगीं। उनके मनोदुःखकी सम्भावना कर कहनेके लिए मैंने बारम्बार अनुरोध किया, उस समय वह लज्जाके कारण वक्तव्य विषयको नखाग्रद्वारा केतकीके पत्र पर लिख कर ही मानो समर्पण करने लगीं और बोलनेकी अभिलाषासे अधर स्पन्दित होने (होठ फड़कने) लगे, उससे वह निश्वास-पान करनेके लिए आए हुए भ्रमरोंके समीपमें ही मानो गुप्त विषय कहने लगीं और भूमि पर निश्चलभावसे नेत्र रख कर अधिक काल तक खड़ी रहीं।

क्रमशः फिर मेरे मुखकी ओर दृष्टि रखकर मन्मथाग्निके धूमसे धूसरवर्ण हुई अपनी वाणीको परिपूर्ण


१. मृत्युपाशम्। २. तद्दुःखकारणं ततो दुःख। ३...विलिखितकेतकीदला। ४. पुनरप्यापूर्यमाण।

कादम्बरीवार्त्ताश्रवणाव० १२२ ] चन्द्रकला-विद्योतिनीसहिता । ६५६

धूसरां वाचमिव प्रक्षालयन्ती बाष्पजलविन्दुभिः, बाष्पजलविन्दुव्याजेन च विलक्ष-स्मित-स्फुरितैर्दशनांशुभिः साध्वस-विस्मृतान् पूर्वान्$^१$ अभिधेयवर्णानिव ग्रथ्नती कथमपि व्याहाराभिमुखमात्मानमकरोत् । अब्रवीच्च माम्—'पत्रलेखे ! वल्लभतया तस्मिन् स्थाने न तातो नाम्बा न महाश्वेता न मदलेखा न जीवितम्, यत्र मे भवतीदर्शनात्प्रभृति प्रियाऽसि । न जाने केनापि कारणेनापहस्तित$^२$-सकलसखीजनं त्वयि विश्वसिति$^३$ मे हृदयम् । कमपरमुपालभे, कस्य वाऽन्यस्य कथयापि परिभवम्, केन वाऽन्येन साधारणीकरोमि दुःखम् । दुःखभारमिममसह्यमद्य$^४$ निवेद्य भवत्यास्त्यक्ष्यामि जीवितम् । जीवितेनैव शपामि ते, स्वहृदयेनापि विदितवृत्तान्तेनामुना जिह्रेमि, किमुतान्यहृदयेन । कथमिव मादृशीरजनिकर-किरणा-


अस्फुटामित्यर्थः । वाचं स्वयमुच्चार्यमाणं वचनं प्रक्षालयन्तीव धौतं कुर्वन्तीव सती । अपि च, विलक्षस्मितं सलज्जमन्दहास्यं तेन स्फुरितैर्दीपितैः दशनांशुभिः दन्तमयूखैः, साध्वसेन भयेन विस्मृतान् स्मरणरहितान्, पूर्वान् पूर्वनिर्दिष्टान् बाष्पजलविन्दुव्याजेन अश्रुकणच्छद्मना विद्यमानानिति शेषः, अभिधेयवर्णान् प्रतिपाद्यविषयसूचकाक्षराणि ग्रथ्नतीव गुम्फतीव सती । इहाश्रुकणानां गोलाकारतादिरूपत्वेन अक्षरसादृश्यं दशनांशूनाञ्च विस्तृतत्वेन सूत्रसादृश्यम्, अत एव च तैस्तेषां गुम्फनमुपपद्यत इत्यवधेयम् । आत्मानं स्वं व्याहाराभिमुखं भाषणाद्योद्यतमू अकरोत् व्यदधात् । इह सापह्नवा भियोत्प्रेक्षा ।

अब्रवीदिति । अब्रवीत् अवादीत् । स्थाने विषये । यन्न स्थाने, भवती त्वम् . दर्शनात्प्रभृति अवलोकनादारभ्य प्रिया वल्लभाऽसि । अपक्रान्तो हस्ताद्द्वयपस्तः स कृत इत्यपहस्तितः कर्मणि क्तः। अपहस्तिता निष्कासिताः सकलाः समस्ताः मत्सखीजनाः सहचरीवर्गा येन तत्, मे मम हृदय चित्तं कर्तृ, केनापि प्रतिपादयितुमशक्येन हेतुना त्वयि भवत्यां विश्वसिति विश्वासं विधत्ते, इति न जाने नाकल्यामि इत्यन्वयः ।

कमिति । अपरमन्यं कम् उपालभे निन्दामि, परिभवं कामदेवजनितमत्याचारम्, कथयामि निवेदयामि । दुःखं मानसक्लेशम् साधारणीकरोमि विभजामीत्यर्थः ।

दुःखैति । असह्यं सोदुमशक्यम् इमम् अनुभवविषयीभूतं दुःखभारं क्लेशातिशयं, निवेद्य कथयित्वा, भवत्यास्तव निकटे जीवितं जीवनं त्यक्ष्यामि विसर्जयिष्यामि ।

ननु 'शोकक्षोभे च हृदयं प्रलापैरेव धार्यते' इत्यभियुक्तोक्तिदिशा सहचरीभ्यः श्रावयित्वा क्लेशातिशयोऽयमल्पीक्रियतामित्यत आह—जीवितेनैवेति । जीवितेनैव निजजीवनेनैव, ते तव निकटे शपामि शपथ करोमि । विदितो ज्ञातो वृत्तान्त उदन्तो येन तेन, अमुना स्वहृदयेनापि निजस्वान्तेनापि जिह्रेमि त्रपे, अतःएव अन्यहृदयेन किमुत कथनीयमित्यर्थः । सुतरां न सम्भवितुमर्हति परेभ्यो निवेदनमित्याशयः ।

कथमिति । मादृशी शैशवातिक्रान्तत्वादुद्भूतविचारशक्तिरिव्याशयः । कौलीनेन, सहसात्मसमर्पणा-


नेत्रोंमेंसे विगलित (गिरते) बाष्प-विन्दुद्वारा मानो वारम्वार प्रक्षालन करती (धोती) हुई, और वाष्प-विन्दुओंके बहाने भयवश पूर्वनिर्दिष्ट भूले हुए वक्तव्य विषयोंके अक्षरोंको लज्जा-युक्त मन्द-हास्यसे प्रकाशित हुई दन्त-रश्मियोंसे मानो ग्रथन करतीं (गूँथती) हुई देवीने किस प्रकारसे अपने आप ही बोलनेमें साहस किया और मुझसे कहा—पत्रलेखे ! प्रियताके कारण जिस स्थानमें तू है, उस स्थान में न पिता है, न माता है, न महाश्वेता है, न मदलेखा है, न मेरे प्राण हैं । जबसे तुझे देखा है तबसे ही तू मेरी प्रिय हो गई है। मैं नहीं जानती कि मेरा हृदय क्यों सब सखियोंको भी दूर रख कर तुम्हारे ऊपर ही विश्वास करता है। मैं और किसकी निन्दा करूँ ? अन्य किसके समीपमें ही इस अत्याचारकी कथा कहूँ ? अन्य किसको इस दुःख को विभक्त कर दूँ ? तो आज तुम्हारे समीपमें इस असह्य दारुण दुःखको जता कर अब मैं अपना जीवन त्याग कर दूँगी । मैं तुम्हारे निकटमें अपने जीवनकी शपथ लेती हूँ । मेरा हृदय भी यह वृत्तान्त जानता है, इसलिए मैं उससे भी लज्जित होती हूँ, फिर अन्य किसीके हृदयका तो कहना ही क्या है ? मेरे समान कन्या चन्द्र-किरणोंके समान


१. अपूर्वान् । २. अप्रहस्तित... । ३. निःश्वसिति । ४. क्वचित् 'दुःखभारमसह्यम्' इत्येव पाठः ।

६६० कादम्बरी [ कथायाम्- .

वदातं कौलीनेन^१ कलङ्कयिष्यति कुलम् , कुलक्रमागतञ्च लज्जां परित्यक्ष्यति, अकन्यकोचिते^२ वा चापले चेतः प्रवर्त्तयिष्यति । साहं न सङ्कल्पिता पित्रा, न दत्ता मात्रा^३, नानुमोदिता गुरुभिः, न किञ्चित् सन्देशामि, न किञ्चित् प्रेषयामि, नाकारं दर्शयामि, कातरेयं अनाथेव नीचेयं बलादवलिप्तेन गुरुगहर्णीयंतां^७ नीता कुमारेण चन्द्रापीडेन । कथय, महतां किमच- माचारः, किं परिचयस्येदं फलम् , यदेवमभिनव-बिस-किसलय-तन्तु-सुकुमारं मे मनः परि- भूयते । अपरिभवनीयो^८ हि कुमारिकाजनो यूनाम् । प्रायेण प्रथमं मदनानलो लज्जां दहति, ततो हृदयम् । आदौ विनयादिकं कुसुमेपुशराः खण्डयन्ति, पश्चान्मर्माण । तदामन्त्रये

जनापवादेन, रजनिकरस्य शशिनः किरणवद् अवदातं निर्मलं कुलं वंशं कथमिव कलङ्कयिष्यति कलङ्क- वत् कलङ्कयुक्तं विधास्यति न कथमपीत्यर्थः । अप्रशस्ता कन्या अकन्यका, एवञ्च अकन्यकोचिते अप्रशस्त- कन्यायोग्यं, चापले मदनचाञ्चल्ये स्वेनैव निजार्पणे चेतो हृदयं प्रवर्त्तयिष्यति प्रेरयिष्यति ।

साहमिति । साहं कादम्बरी, पित्रा जनकेन न सङ्कल्पिता परिणयेन दातुमभिमता, न मात्रा जनन्या दत्ता अर्पिता, गुरुभिर्मातुलादिभिः नानुमोदिता न समर्थिता । सन्दिशामि वाचिकं कथयामि । किञ्चिद् मदनोपाशनादिकं न प्रेषयामि प्रेषणं करोमि । आकारं स्वरूपविकारं शृङ्गारव्यापारमित्यर्थः । इह तथापीति अध्याहर्त्तव्यम् । कातरा सामर्थ्यहीना, अनाथा परित्राणरहिता । अवलिप्तेन आत्मना प्रवृत्तैर्दर्पितेन कुमारेण अनुद्वाहितेन चन्द्रापीडेन गुरुभिर्महद्भिः गर्हणीयतां निन्दनीयतां नीता प्रापिता निजसौन्दर्यावलोकनेनैव मदनविह्वलीकृतत्वादित्याशयः । इह हेतोरभावेऽपि महानिन्दनीयताप्रापणरूप- कार्योत्पत्तेर्विभावनालङ्कारः ।

कथयेति । कथय अभिधेहि, महतां सत्पुरुषाणाम् । आचारः कुलक्रमागतव्यवहारः । परिचयस्य संस्तवस्य । अभिनवं नूतनं यद् बिसकिसलयं मृणालपल्लवं तस्य तन्तुः सूत्रं तद्वत् सुकुमारं कोमलम् । परिभूयते आक्रम्य स्वाधीनीक्रियते । नन्वेतेन का हानिरित्यत आह—अपरीति । हि यस्मात् यूनां तरुणेः, कुमारिकाजनः कन्याजनः अपरिभवनीयः आक्रम्याधीनीकर्त्तुं न योग्यः, अधर्मात्पत्तेरित्याशयः । इह सामान्येन विशेषसमर्थनादर्थान्तरन्यासः स च वैधर्म्यपुरस्कृतो वेदितव्यः । तथा 'अमुक्ता भवता नाथ !' इतिवत् मुख्यस्य नञर्थस्य 'अपरिभवनीय' इत्यत्र समासेन गुणीभावाद्विधेयाविमर्शदोषः समापतति, स च नञः पार्थक्यकरणेनैव समाधातुं शक्यः ।

प्रायेणेति । प्रथमम् आदौ । दहति भस्मीकरोति विलोपयतीत्यर्थः । कुसुमेषुशराः मदनबाणाः विनयादिक शिष्टाचारदिकं खण्डयन्ति शकलीकुर्वन्ति छिन्दन्तीत्यर्थः ।

मर्मच्छेदे प्राणवियोगस्य निश्चितत्वादाइ-तदिति । तत्तस्मात् कारणाद , आमन्त्रये अभ्यर्थयामि,

निर्मल कुलको लोकापवादद्वारा कलङ्कित कैसे करेगी ? और किस प्रकार ही कुलक्रमागतका परित्याग करेगी ? और निन्दनीय कन्याओंके उपयुक्त चञ्चलनामें कैसे चित्तको प्रवर्त्तित करेगी ? पिताने मुझे देनेके लिए अपना मत नहीं दिया, माताने मां दान नहीं किया और गुरुजनोंने भी अनुमोदन नहीं किया, इसलिए मै कोई भी सन्देश नहीं कहती हूँ, न उस प्रकारका कोई उपहार भी भेजती हूँ और न कोई आकृतिक विकार दिखाती हूं; तथापि गर्वित-स्वभाव कुमार चन्द्रापीडने मुझे कातरताके समान, अनाथके समान एवं नीच जातियोंके समान बलपूर्वक अत्यन्त निन्दाके पात्र बना दिया है । तू ही कह—क्या यह महापुरुषोंका व्यवहार है ? क्या यह परि- चयका फल है कि—नूतन-मृणालसूत्रके समान मेरे कोमल मनको इस रीतिसे आकुल कर दिया जाता है ? क्योंकि युवकोंको तो प्रायः कन्याओंको आकुल करना उचित नहीं है [ अर्थात् कन्याओंके साथ कभी बलात्कार नहीं करना चाहिए ] । कामाग्नि प्रायः सर्वप्रथम लज्जाको दग्धकर देती (जला डालती) है, उसके बाद हृदयको; कामके बाण तो सर्वप्रथम विनयादिका खण्डन करते हैं, तदनन्तर मर्म-स्थानका अ, एव इन्मान्तरमें


१. कौलीनेन । २. अन्यकन्यकोचिते, अन्यकन्यकाजनोचिते । ३. सा चाहमसंकल्पिता मात्रा पित्रा न दत्ता । ४. कातरा च इतरेव । ५. कातरा चानाथेव । ६. अवलिप्तेन । ७. गुर्वी गर्हणीयताम् । ८. अनभिभवनीयः परिभवनीयः ।

कादम्बरीवार्ताश्रवण० १२२ ] चन्द्रकला-विद्योतिनीसहिता । ६६१

भवतीं पुनर्जन्मान्तरसमागमाय, नहि मे त्वत्तोऽन्या प्रियतरा । प्राणपरित्यागप्रायश्चित्तेन प्रक्षालयाम्यात्मनः कलङ्कम् ।' इत्यभिधाय तूष्णीमभूत् ।

अहन्तु यत्सत्यमविदितवृत्तान्ततया ह्रीतेव भीतेव विलक्षेव विसंज्ञेव सविषादं विज्ञा- पितवती—'देवि ! श्रोतुमिच्छामि, आज्ञापय किं कृतं देवेन चन्द्रापीडेन, को वाऽपराधः समजनेि, केन वा खल्वविनयेन खेदितमखेदनीयं देव्याः कुमुदकोमलं मनः ? । श्रुत्वा प्रथममुत्सृष्टजीवितायां मयि पश्चात् समुत्स्रक्ष्यति देवी जीवितम्' इति । एवमभिहिता च पुन- रवदत्—'आवेदयामि ते, अवहिता शृणु—स्वप्नेषु प्रतिदिनसमं आगत्यागत्य मे रहस्यसन्देशेषु निपुणधूर्त्तः पञ्जरशुकसारिका दूतीः करोति । सुप्तायाः श्रवणदन्तप- त्रोदरेषु व्यर्थमनोरथमोहितमानसः सङ्केतस्थानानि लिखति । स्वेदप्रक्षालिताक्षरानपि निप-


भवतीं त्वाम् । जन्मान्तरसङ्गमाय भवान्तरसम्बन्धाय । ननु मामेव केवलं कथमभ्यर्थयसीत्यन आह—नहीति । प्राणपरित्यागो मृत्युरेव प्रायश्चित्तं तेन, आत्मनः स्वस्य कलङ्कमपवादं प्रक्षालयामि अपा- करिष्यामीत्यर्थः ।

अहमिति । अविदितवृत्तान्ततया अज्ञातवदन्ततया सत्यम् (निश्चितम्) ह्रीतेव लज्जितेव । विलक्षेव त्रपावाशात्कर्त्तव्यविमूढेव, विसंज्ञेव विगतचेतनेव सती । विज्ञापितवती निवेदितवती । अविनयेन अशिष्टाचारेण । देव्या भगवत्याः कादम्बर्याः, कुमुदवत् कैरववत् सुकुमारं खेदितं खेदयुक्तीकृतम् । उत्सृष्टम् उज्झितं जीवितं जीवनं यया तस्यां सत्याम् । समुत्स्रक्ष्यसि त्यक्ष्यसि ।

इह 'विसंज्ञेव' इत्यत्र चेतनाविगमोत्प्रेक्षणात् क्रियोत्प्रेक्षा, 'ह्रीतेवे' त्यादौ तु नोत्प्रेक्षा तासां वास्त- विकत्वेन सम्भावनाभावात् । तथा 'उत्सृष्टजीवितायाम्' इत्यस्य स्थाने 'जीवितमुत्सृजन्त्याम्' इत्येव पाठो विधेयः, अन्यथा विधेयाविमर्शदोषस्य वारयितुमशक्यत्वात् ।

एवमिति । आवेदयामि विज्ञापयामि, अवहिता दत्तावधाना । निपुणश्चासौ धूर्त्तश्चेति निपुणधूर्त्तः दक्षकूटस्वभावः धूर्त्तकर्मसु दक्ष इत्यर्थः, रहस्यसन्देशेषु गोपनीयवाचिकेपु मे मम पञ्जरशुकसारिकाः पञ्जरवर्त्तिकीरपीतपादा दूतीः करोतितन्मुखेन मन्निकटे रहस्यसन्देशात् प्रेषयतीत्यर्थः, प्रतिदिनसमेतादृश- महं स्वप्नमवलोकयामीत्यभिप्रायः । इत्यमग्रेऽप्यवगन्तव्यम् ।

सुप्ताया इति । व्यर्थः सर्वथैवासम्भवत्वान्निर्थको यो मनोरथोऽभिलापस्तेन मोहितं मानसं हृदयं यस्य स चन्द्रापीडः, सुप्ताया निद्रिताया मम, श्रवणयोः श्रोत्रयोः ये दन्तपत्रे गजदन्तरचितपत्रसदृशभूषणे तयोः उदरेषु मध्यभागेषु, संकेतस्थानानि लिखति लिपीकरोति ।

स्वेदेनेति । स्वेदेन घर्मेण प्रक्षालितानि धौतानि अक्षराणि वर्णा येषां तानपि निपतिता रोदनेन


फिरने सम्मिलनके लिए तुझसे प्रार्थना करती हूँ; क्योंकि तुझसे अधिक प्रिय व्यक्ति मुझे और कोई दूसरा नहीं है। इस समय प्राण-परित्याग-रूपी प्रायश्चित्तद्वारा मैं अपना कलङ्क-प्रक्षालन कर लेती (धो डालती) हूँ। इस प्रकार कह कर वह निःशब्द (चुप) हो गई।

मैं तो वृत्तान्त न जाननेसे निश्चय ही मानो लज्जितके समान हो गई होऊँ; भयके समान हो गई होऊँ अप्रतिभाके समान वबरा गई होऊँ; चेतना-रहितके समान हो गई होऊँ; इस प्रकार विषादके साथ कहने लगी—'देवि ! कुमार चन्द्रापीडने क्या किया ? क्या अपराध उनसे हुआ ? और खिन्न करनेके अयोग्य एवं कुमुदके समान कोमल आपके मनको किस अन्याय आचरणसे उन्होंने खेद पहुँचाया है? यह सब मैं सुननेके लिए इच्छा करती हूँ, इसलिए कृपा करके कहिए। इन सब विषयोंको सुनकर पहले मैं अपना जीवन त्याग करूँगी, पीछे आप त्याग कीजिएगा।' मुझसे इस प्रकार कहे जाने पर फिरसे वह बोलीं—'ले' मैं तुझसे कहती हूँ, मनोयोग देकर सुन—धूर्त्तकार्यमें निपुण वह चन्द्रापीड प्रतिदिन मेरे स्वप्नमें आ-आकर पिञ्जरवर्त्ती शुकसारिका-रूप दूतियोंके साथ गोपनीय संवाद भेजता है। मैं निद्रित रहती हूँ उस अवस्थामें, निष्फल अभिलाषासे मनको मोह कर, मेरे कानोंके हस्ति-दन्तनिर्मित आभूषणके ऊपर सङ्केत स्थान लिख जाता है। चित्त-भ्रमके कारण सम्मिलनकी आशासे प्रेरित होकर वह कितने ही ऐसी सुन्दर-सुन्दर कान-लिपि भेजता है कि—अक्षर घर्म-जलसे


१. समुत्स्रक्ष्यामि जीवितम्, समुत्स्रक्ष्यति जीवितम् ।
२. प्रतिदिनम् ।
३. निपुणो धूर्त्तः ।
४. पञ्जरशुकं सारिकां च दूतीकरोति ।

३६२ | कादम्बरी- | [ कथायाम्-

'तित-साञ्जनाश्रुबिन्दु-पंक्ति-कथितात्मावस्थान् मनोरहान् संमोहाशानुवर्तिनो मदनलेखान् प्रेषयति । निजानुरागेणेव बलाद्रञ्जयत्यलक्तकरसेन चरणौ । अविनयनिश्चेतनो नखप्रतिबि-म्बितमात्मानं बहु मन्यते । उपवनेष्वेकाकिन्या ग्रहणभयपलायमानायाः पल्लवलग्नांशुक-दशा-प्रतिहत-गमनाया गृहीतैवे लतासखीभिः अर्पिताया मिथ्याप्रगल्भः पराङ्मुखाया परिष्वङ्गम् आचरति । स्तनस्थले मे लिखन् पत्रलतां कुटिलतामिवानृजुप्रकृतिः प्रकृतिमूग्धं मनः शिक्ष-यति । हृदयोत्कलिकातरङ्गवातैरिव शीतलैर्मुखमुरुद्भिः श्रमजल-शीकर-तारकितावलीकचाटु-

लोचनात्प्रच्युता साञ्जना लोचनकजलयुक्ता या अश्रुबिन्दूनां बाष्पकणानां पङ्क्तिः श्रेणी तया कथिता द्योतिता आत्मनः स्वस्य अवस्थाः कामपीडादृशा येषु तान्, मनोहरान् रम्यान्, सम्मोहेन चित्तभ्रान्त्या या आशा मत्सम्मिलनाकाङ्क्षा तामनुवर्त्तन्ते अनुसरन्तीति तान् मदनलेखान् कामद्योतकानि पत्राणि प्रेषयति ।

निजेति । निजानुरागवद् अलक्तकरसेन यावकद्रवेण 'रक्तौ च क्रोधरागौ' इति कविसमयप्रसिद्ध्या सादृश्यावगतिः, मम चरणौ पादौ बलाद् हठात् रञ्जयति । इह गुणोत्प्रेक्षा ।

अविनयेति । अविनयेन अशिष्टव्यवहारेण निश्चेतनः चैतन्यशून्यप्रायश्चन्द्रापीडः, नखेषु मम पादनखरेषु प्रतिबिम्बितं सङ्क्रान्तम् आत्मानं स्वं बहु मन्यते अधिकं जानातीत्यर्थः । अनेन मानभङ्गाय चरणपतनं प्रतीयते ।

उपेति । उपवनेषु उद्यानेषु एकाकिन्या असहायायाः, ग्रहणभयेन तद्द्वारा ग्रहणत्रासेन पलाय-मानायाः शीघ्रं व्रजन्त्याः, पल्लवेषु किसलयेषु लग्नाभिः संसक्ताभिः अंशुकदशाभिः वसनाञ्चलैः प्रतिहतं निषेधितं गमनं पलायनं यस्यास्तस्याः, अत एव लता वल्लय एव सख्यः सहचर्यः ताभिः गृहीत्वा धृत्वा अर्पितायाः तस्मै दत्ताया इव सत्याः । अपरा अपि सहचर्यः प्रियसम्बन्धत्रासात् पलायमानं सहचरीं प्रति इत्थमेव कुर्वन्ति । पराङ्मुखाया हिया विवृताननाया मम, मिथ्याप्रगल्भः असत्यधृष्टश्चन्द्रापीडः परिष्वङ्गं पृष्ठत आश्लेषम् आचरति कुरुते । इह क्रियोत्प्रेक्षा ।

स्तनेति । अनृज्वी समृद्धी प्रकृतिः स्वभावो यस्य स चन्द्रापीडः, मे मम स्तनस्थले पत्र-लतां वक्रपत्रसदृशं लतासदृशं च चिह्नं लिखन् चित्रीकुर्वन्, प्रकृतिमूग्धं स्वभावसरलम्, कथमन्धथा मम कुचस्थलस्य स्पर्शं कुर्यादित्याशयः, मम मनश्चित्तं कुटिलतां वक्रतां शिक्षयतीव पाठयतीव, वक्रपत्र-लतालेखनादेवेत्याशयः । उत्प्रेक्षालङ्कारः । तथा 'प्रकृतिमूग्धम्' इत्यस्य स्थाने 'स्वभावमुग्धम्' इत्येव पाठो विधेयः, अन्यथा प्रकृतिपदस्य द्विरुपादानेन पुनरुक्तत्वस्य वारयितुमशक्यत्वात् ।

हृदयेति । अलीकचाटुकारोऽसत्यप्रियंवदश्चन्द्रापीडः, हृदये स्वमानसे या उत्कलिका उत्कण्ठाः ता एव तरङ्गाः कल्लोलाः तेषां वातैः पवनैरिव शीतलैः शिशिरैः मुखमरुद्भिः वदननिःसृतपवनैः, श्रमजल-शीकरैः स्वेदवारिकणैः तारकितौ समुत्पन्नकनीनिकासदृशचिह्नौ कपोलौ मम गण्डौ वीजयति वायुं


प्रक्षालित ( बिगड़े ) होने पर भी, उनमें पड़ी हुई अञ्जन-समन्वित अश्रु-बिन्दुके समूह ही उसकी अवस्था व्यक्त कर देती है। बलात् मेरे चरणोंको वह मानो अपने अनुराग के समान अलक्तक ( आल्ता, महावर ) के रससे रंजित करता ( रँगता ) है। अशिष्ट व्यवहारसे वह प्रायः चैतन्य-रहित होकर गिर जाता है, अतः एव अपने प्रतिबिम्बको मेरे पाँवोंके नखमें पड़े हुए देख कर अधिक आदर करता है। उद्यान (बगीचे) में अकेली जब उसके पकड़नेकी आशंकासे दौड़ती हूँ और पल्लवोंमें वस्त्राञ्चल संलग्न हो ( कपड़ेका पट्टा लटक ) जानेसे दौड़नेमें असमर्थ हो जाती हूँ तब लता-रूप सखियाँ मुझे पकड़ कर मानो उसके समीप समर्पण कर देती हैं, ऐसे समयमें मेरे मुख फेर लेने पर वह अलीक-प्रगल्भ-स्वभाव चन्द्रापीड मेरा आलिङ्गन करता है, कुटिल-स्वभाव वाला वह मेरे स्तन-मण्डल पर पत्र लताओंका निर्माण कर, मेरे स्वभावसे मुग्ध मनको मानो कुटिलताकी शिक्षा देता है। घर्म-जलके बिन्दु-रूपी समुत्पन्न तारकाकारचिह्नोंसे परिपूर्ण हुए मेरे कपोलोंका वह-मिथ्या चाटुकारी ( मधुर भाषण


१. ऽश्रुदद ।
२. अवस्थानान् ।
३. निजानुरागेन···क्तेनेव ।
४. नखेषु ।
५. सखीभिः ।
६. पराङ्मुखपरिष्वङ्गन् ।
७. पत्रलेखा ।

-कादम्बरीवार्ताश्रवण० १२२ ] चन्द्रकला-विद्योतिनीसहिता । ६६३

कारः कपोलौ वीजयति । स्वेदसलिल-शिथिलित-ग्रहण-गलितोत्पलशून्येनापि करेण यवाङ्कु-रानिव नखकिरणान् शुद्धान् दुर्विदग्धः कर्णपुटीकरोति । वल्लभतर-बाल-वकुल-सेक-काल-कवलीकृतान् सुरागण्डूषान् सकचग्रहमसकृद्धृष्टो^२ मां पाययति । भवनाशोकतरुताडनोद्य-तान् पादप्रहारान् दुर्बुद्धिविडम्बितः शिरसा प्रतीच्छति । मन्मथ-मूढ-मानसश्च कथय हे पत्र-लेखे ! केन प्रकारेण निश्चेतनो निषिध्यते ? प्रत्याख्यानमपीर्ष्या सम्भावयति, आक्रोशमपि परिहासमाकलयति, असम्भाषणमपि मानं मन्यते, दोषसङ्कीर्त्तनमपि स्मरणोपायमवगच्छति, अवज्ञानमप्यनियन्त्रणं प्रणयमुत्प्रेक्षते,^३ लोकापवादमपि यशो गणयति' इति ।

विदधाति, घर्मजलापनोदायेत्याशयः । इह निरङ्गकेवलंरूपकं जात्युत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः ।

नेत्रेति । दुर्विदग्धः अलीकवैदग्ध्यदर्पितश्चन्द्रापीडः, स्वेदसलिलेन घर्मवारिणा शिथिलितं श्लथी-कृतं ग्रहणं धारणं तेन गलितं च्युतं यत् उत्पलं कैरवं तेन शून्यो वर्जितः करः पाणिस्तेन, यवाङ्कुरानिव शुद्धान् केवलान् नखकिरणान् नखररश्मीन् कर्णपूरीकरोति श्रवणाङ्कारीकरोति, उत्पलभ्रमादित्याशयः । इहोपमा तथा भ्रान्तिमानलङ्कारो ध्वन्यते इति वस्तुनाऽलङ्कारध्वनिः ।

वल्लभेति । धृष्टः प्रगल्भप्रकृतिश्चन्द्रापीडः, वल्लभतराणां समात्यन्तप्रियाणां बालवकुलानां लघुके-सराणां सेककाले तरुणप्रस्फुटनाय मद्द्वारा मुखमद्यसेचनवेलायां कवलीकृतान् स्वयमेव वदने गृहीतान् सुरागण्डूषान् मद्यचुलुकान्, कचग्रहेण मम केशकलापधारणेन सहेति सकचग्रहम् असकृत् मुहुर्मुहुः मां पाययति पानं कारयति, वकुलसेकसमयेऽयं चन्द्रापीडः, स्वमुखेन मद्यगण्डूषान् कवलीकृत्य कचग्रहण-पूर्वकं तान् मां बलात्पाययतीत्यभिप्रायः ।

मदनेति । दुर्बुद्धिविडम्बितः कुमतिविप्रतारितश्चन्द्रापीडः, भवनाशोकतरूणां गृहकङ्केलिवृक्षाणां ताड-नाय पुष्पप्रस्फुटनायेति तात्पर्यम्, उद्यतान् कत्तुमुद्यतान् मम पादप्रहारान् चरणाघातान् शिरसा मूर्ध्ना प्रतीच्छति, गृह्णाति, सम्मानादित्यभ्युच्चयनायेत्याशयः ।

ननु यद्येतान्यनर्थजनकान्येवावबुद्ध्यन्ते तर्हि कथं न निवारणादयो विधीयन्त इत्यत आह—मन्म-थेति । अपि च, हे पत्रलेखे ! त्वं कथय निवेदय, मन्मथेन मदनाविर्भावेन मूढं सद्सद्विचाररहितं मानसं चेतो यस्य सः, अत एव निश्चेतनः चैतन्यशून्यप्रायश्चन्द्रापीडः केन प्रकारेण केन विधिना निषिध्यते निवार्यते । विधीयमानेऽपि निवारणे मन्मथमूढमानसत्वेन चैतन्यशून्यप्रायत्वेन च वारणफलस्य निवृत्ते-रसम्भवादित्याशयः । प्रत्याख्यानमपि तथाविधन्यवहारसमये मया विधीयमानं निराकरणमपि ईर्ष्याम् असूयां सम्भावयति उत्प्रेक्षते चन्द्रापीड इति शेषः, मां प्रति बहुमाझानादित्याशयः । इत्थमन्यत्राऽ-प्यभिप्रायो ज्ञेयः । आक्रोशम् अवमाननम् । आकलयति चिन्तयति अवबुध्यत इत्यर्थः । असम्भाषणम् असंलापमपि मानं प्रणयकोपम् । अवज्ञानं तिरस्कारम्, अनियन्त्रणम् अनिर्वाधम् अदत्तं प्रत्येव तथा व्यवहरणाजनापवाद इत्याशयः । इह विरोधाभासः ।

करनेवाला) हृदय की उत्कण्ठारूप तरङ्गों पर होकर पवनके समान आती हो ऐसी शीतल मुख-पवनसे वीजन (पंखा) करता है । घर्म-जलके धारण करनेसे शिथिल (ढीला) होकर कमल जिसमें गिर गया ऐसे शून्य हस्तद्वारा भी वह मिथ्या-नैपुण्य-गर्वित, यवाङ्कुरके समान केवल अपने नख-किरणोंका ही मुझे कर्णका आभूषण पहनाता है । अत्यन्त-प्रीति-भाजन नूतन बकुल-वृक्षके सेचन करनेके समय मुखमें भरे गए मद्य की गण्डूषों (घूंटों) को चञ्चल-स्वभाव वह मेरे केश-पाश पकड़ पकड़ कर वारम्वार मुझे पान करा (पिला) देता है । गृहस्थित अशोक-वृक्षके ताड़न करनेके लिए जब मैं पाद-प्रहार करती हूँ तब उसे दुर्बुद्धिप्रतारित होकर वह अपने मस्तक पर धारण करता है । कामदेवने उसके चित्तको सदसद्विवेचनाहीन कर दिया है, जिससे वह चैतन्यहीनप्राय होकर गिर गया है, अत एव पत्रलेखे ! कह, उसे किस रीतिसे अब मैं रोकूँ । मुझसे प्रत्याख्यान करने पर भी वह उसकी ईर्ष्या समझता है । तिरस्कार करने पर उसे परिहास समझकर धारण करता है । सम्भाषण नहीं करने पर उसको मान समझ कर विवेचना करता है । दोषकीर्त्तन करने पर भी उसको स्मरण करनेका उपाय मानता है । अवहेलना करने पर भी उसको अबाध प्रणय समझ कर धारण करता है और लोक-निन्दाको वह यश समझ कर गणना करता है।'


१. यवाङ्कुरविकरानिव । २. सकचग्रहमगणितचेष्टः पातुं प्रार्थयते । ३. अवज्ञामपि निर्यन्त्रणप्रणयम्...।

६६४ | कादम्बरी- | [ कथायाम्-

तामेवंवादिनीमाकर्ण्य प्रहर्षरसनिर्भरा मनस्यकरवम्—'अहो ! चन्द्रापीडमुद्दिश्य सुदूरमाकृष्टा खल्वियं मकरकेतुना । यदि च सत्यमेवं कादम्बरीव्याजेन साक्षान्मनोभवचि-त्तवृत्तिः प्रसन्ना२ देवस्य चन्द्रापीडस्य, ततः सहजैः सादरं संवर्द्धितैः प्रत्युपकृतमस्य गुणैः, यशसा धवलिताः ककुभः, यौवनेन रतिरससागरतरङ्गैः पातिता रत्नवृष्टिः, यौवनविलासैर्लि-खितं नाम शशिनि, सौभाग्येन प्रकाशिता निजश्रीः, लावण्येनेन्दवीभिरिव वृष्टममृतं कलाभिः । तथा च चिराल्लब्धः कालो मलयानिलेन, समासादितोऽवसरश्चन्द्रोदयेन, प्राप्त-मनुरूपं फलं४ मधुमासकुसुमसमृद्ध्या, गतो मदिरामददोषो५ गुणताम् , दर्शितं मुखं मन्मथ-

तामिति । एवंवादिनीम् एवंभाषिणीं ताम् आकर्ण्य तस्य वचनं श्रुत्वेत्यर्थः । प्रहर्षभरेण प्रमोदरसेन निर्भरा परिपूर्णा अहम् , उचितसंमिलनोपक्रमादित्याशयः । अकरवम् अकल्पयम् । चन्द्रापीडम् उद्दिश्य लक्षी कृत्यैत्यर्थः । मकरकेतुना मदनेन, सुदूरम् आकृष्टा आकर्षिता । देवस्य चन्द्रापीडस्योपरि कादम्बरी-व्याजेन कादम्बरीं व्याजीकृत्य लक्षी कृत्यैत्यर्थः, साक्षान्मनोभवस्य कामस्य चित्तवृत्तिर्मनोव्यापारो यदि च सत्यमेव तथ्यमेव प्रसन्ना दयापन्ना जाता, ततस्तदा, सहजैः प्राकृतिकैः सादरं संवर्धितैः एतावत्समयपर्यन्तं सयत्नं वृद्धिमुपनीतैः, एतेन गुणान् प्रति चन्द्रापीडस्योपकृतिकरणं ध्वनितम् । अस्य चन्द्रापीडस्य गुणैः रूपशिक्षाचारादिभिः प्रत्युपकृतं प्रत्युपकारः कृतः, सर्वथोचिताया एव समाकर्षणा-दित्याशयः । तथा यशसा कीर्त्या ककुभो दिशो धवलिताः श्वेतीकृताः, भूतले कन्यारत्नभूताया एवाकर्षणा-दित्याशयः । तथा यौवनेन तारुण्येन रतिरसः शृङ्गाररस एव सागरः समुद्रः तस्य तरङ्गः कल्लोलैः रत्न-वृष्टिः मणिवृष्टिः पातिता च्याविता । चन्द्रापीडस्य यौवनविलासैः तारुण्यविभ्रमैः शशिनि नाम शशकलङ्क इत्यभिधेयं लिखितं लिपीकृतम् , एवञ्च कलङ्कवत्तया शशिना ( चन्द्रेण ) कादम्बर्या अनाकर्षणात् , कलङ्कशून्यतया च चन्द्रापीडेनाकर्षणात् शशिनश्चन्द्रापीड एवातिशयश्रेष्ठ इत्याशयः । सौभाग्येन प्रिय-वांल्लभ्येन निजश्रीः स्वसौन्दर्यं प्रकाशिता प्रकटिता, तस्या वाल्लभोयादित्याशयः । इन्दोरिमा ऐन्द-व्यस्ताभिः इन्दुसम्बन्धिनीभिः कलाभिरिव चन्द्रापीडस्य लावण्येन, अमृतं पीयूषं हर्षश्च वृष्टमुत्सृष्टम् , तस्या आकर्षणेनानन्दवर्षणादित्याशयः ।

इह 'यौवनेन रतिरससागरतरङ्गैः रत्नवृष्टिः पातिता' इत्यत्र पदार्थसम्बन्धोऽसम्भवन् कादम्बरीं लक्षी कृत्य चन्द्रापीडोपरि मकरकेतोः चित्तवृत्तेः करुणापन्नत्वं तारुण्याद्वारा रतिरससागरतरङ्गीकरणक-मणिवृष्टिपातनमिवेति साद्यमाक्षिपतिरिति निरङ्गकेवलरूपकेण निदर्शनालङ्कारः सङ्कीर्यते । तथा 'रतिरसे' त्यस्य स्थाने 'भाव' इत्येव पदं पठनीयम् , अन्यथा 'रसस्योक्तिः स्वशब्देन स्थायिसञ्चारिणोरपि' इत्युक्त-दिशा तयोः स्वशब्दाभिधानेन दोषस्य वारयितुमशक्यत्वात् । एवं यौवनविलासैः नामलिखनसम्बन्धा-भावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिरलङ्कारस्तेन चोक्तरूपो व्यतिरेकालङ्कारो ध्वन्यत इत्यलङ्का-रेणालङ्कारध्वनिः । 'कलाभि' रित्यत्र च पूर्णोपमालङ्कारः ।

तथेति । तथा च किञ्चेत्यर्थः । मलयानिलेन दक्षिणपवनेन चिरात् बहोः कालादनन्तरं कालः समयो लब्धः प्राप्तः परस्परमुचितयोरेव कादम्बरीचन्द्रापीडयोः सम्प्रति यथाशक्त्युद्दीपनसम्भवादित्याशयः । इत्थमपरयोरप्यभिप्रायो ज्ञेयः । समासादितः प्राप्तः । मधुमासश्चैत्रमासस्तस्य कुसुमसमृद्ध्या पुष्पसम्पदा । मदिरामदस्य मद्यपानोत्पन्नमत्तताया दोषः अनुचिते अनुरागोत्पादनरूपो दोषः सम्प्रति गुणतां गतः


उनकी इस प्रकारकी वाणी सुनकर, मैं आनन्दसे परिपूर्ण होकर विचार करने लगी—'कितना आश्चर्य ! चन्द्रापीडके उद्देश्यसे कामदेव इसे बहुत दूर ले गया है। यदि सत्य ही कादम्बरीको उद्देश्य कर साक्षात् कामदेवकी चित्तवृत्ति ही महाराज पर इस प्रकार प्रसन्न हुई है, तब तो उनके स्वाभाविक एवं सावधानतासे सम्वर्द्धित सौन्दर्यादि गुणों ने प्रत्युपकार किया; यशने समस्त दिशाओंको धवलवर्ण कर दिया; तारुण्यने शृङ्गार-रूपी समुद्रकी तरङ्गों द्वारा रत्न-वृष्टि बरसाई; यौवनकी विलासिताने चन्द्रके ऊपर 'शशकलङ्क' यह नाम लिख दिया; सौभाग्यने अपने सौन्दर्यका प्रकाश किया; चन्द्रकी कलाके समान लावण्यने अमृतकी वृष्टि की।' इस प्रकार ही मलयसमीरणको बहुत दिनके बाद अब समय मिलो; चन्द्रोदयको अवसर प्राप्त हुआ; चैत्रमासकी पुष्प-समृद्धिको


१. एवं वदा ।
२. '' मनोभवे चित्तवृत्तिः प्रसक्ता ।
३. विलासैः ।
४. '' मनुरूपफलं, प्राप्त रूपं फलम् ।
५. मदिरास्रदोषः ।

कादम्बरीवार्त्ताश्रवण० १२२ ] चन्द्रकला-विद्योतिनीसहिता । ६६५

युगावतारोऽपीति । अथाहं प्रकाशं विहस्याब्रवम्—'देवि ! यद्येवम् , उत्सृज कोपम् , प्रसीद, नार्हसि कामापराधेन देवं दूषयितुम् । एतानि खलु कुसुमचापस्य चापलानि शठस्य, न देवस्य । इत्येवमुक्तवतीं मां पुनः सकुतूहला सा प्रत्यभाषत—'योऽयं कामो वा कोऽपि वा कथय कानि कान्यस्य रूपाणी'ति । तामहं व्यजिज्ञपम्—'देवि ! कुतोऽस्य रूपम् ? अतनुरेष हुताशनः । तथाहि, अप्रकाशयन् ज्वालावलीः सन्तापं जनयति, अप्रकटयन् धूमपटलमश्रु पातयति, अद्दर्शयन् भस्मरजोनिकरं पाण्डुतामाविर्भावयति । न च तद्भूतमेतावति त्रिभुवने, अस्य शरशैरव्यतां यन्न यातं याति यास्यति वा । को वाऽस्मान्न त्रस्यति, गृहीतकुसुमकार्मुको वाणैर्बलव-

प्राप्तः उचितयोरेव मिथोऽनुरागोत्पादनादित्याशयः । तथा मन्मथयुगस्य मदनसमयस्य अवतारेण आविर्भावेन मुखं वदनं दर्शितं प्रकटितम् , केवलमनयोर्मनोविकारोत्पादनादारम्भादित्याशयः ।

यद्येति । प्रकाशं प्रकटम् । उत्सृज त्यज । कामस्य मनोभवस्य अपराधेन आगसा देवं चन्द्रापीडं दूषयितुं नार्हसि, अन्यापराधेनान्यस्य दूषणायोग्यत्वादित्याशयः । शठस्य धूर्तस्य कुसुमचापस्य पुष्पधनुषः ( कामस्य ) चापलानि विकारोत्पादकचेष्टाः, परन्तु देवस्य चन्द्रापीडस्य न अपराधव्यवहारादित्याशयः ।

इतीति । उक्तवतीं कथितवतीम् । सकुतूहला कौतुकेन सहिता । सा कादम्बरी प्रत्यभाषत प्रत्यवोचत् । कोऽपि अन्यो वेत्यर्थः । कथय प्रतिपादय ।

तामिति । रूपं स्वरूपम् । एषः कामः अतनुः मूर्तिरहितो हुताशनो वह्निः, उद्धरसन्तापकत्वात्स्वरूपस्यादर्शनाच्च, अत एवास्य न विद्यते स्वरूपमित्यभिप्रायः । इहाधिकारूढवैशिष्ट्यरूपकम् ।

अस्य वह्निसाम्यं निरूपयितुमाह —तथाहीति । ज्वालावलीः शिखापङ्क्तीः अप्रकाशयन् अप्रकटीकुर्वन् सन्तापं दाहं जनयति उत्पादयति । भस्मरजोनिकरं भस्मकणसमूहमदर्शयन् अप्रकाशयन् । पाण्डुतां पाण्डुभावं आविर्भावयति प्रकटयति । इह ज्वालाप्रकाशादीनां हेतूनामसत्त्वेऽपि तत्कार्यदाहाद्युत्पत्तेः । प्रत्येकवाक्य एव विभावनालङ्कारः ।

नचेति । अपि चेति चार्थः । एतावति अतिविस्तृते इत्यर्थः, त्रिभुवने त्रिविष्टपे, तत्तथाभूतं भूतं न, स प्राणी नास्तीत्यर्थः । यद्भूतं कर्तृ, शरव्यतां वेध्यतां न यातमपातमित्यतोवनिर्देशः , न यातीति वर्त्तमाननिर्देशः, न यास्यतीति भविष्यत्कोक्तिः, अत एवायं त्रिष्वपि समयेषु त्रिविष्टप एवाध्याहतमहारम्यशालीत्याशयः । इह वाक्यगतविधेयाविमर्शदोषवारणाय यच्छब्दस्य पूर्वपाठ एव विधेयः ।

क इति । अस्मान्मनोभवात् को वा जनो न त्रस्यति भयमाप्नोति अपि तु सर्व एव, इह कारणं प्रदर्शयति—गृहीतेति । गृहीतम् आत्तं कुसुमकार्मुकं पुष्पधनुर्येन स तादृशः, बाणैः शरैः बलवन्तमपि शक्तिशालिनमपि विध्यति ताडयति, अत एवास्मात् सर्वेषां त्राससम्भव इत्यभिप्रायः इह वाक्यार्थहेतुकं काव्यलिङ्गम् ।


अनुरूप फल मिला; मदिरा-रसका लेप गुप्तता प्राप्त किया और कन्दर्प-युगके आविर्भावने मुँह दिखाया ।

उसके बाद मैं हँस कर प्रकट-रूपसे बोली—'देवि ! यदि ऐसा ही है, तो आप क्रोधका परित्याग करें और प्रसन्न हो जाइए । कामदेवके अपराधसे आपको राजपुत्रको दोष नहीं देना चाहिए—यह सब तो धूर्तप्रकृति कामदेवकी ही चञ्चलता है—किन्तु राजपुत्रकी नहीं।' इस प्रकार मेरे कहने पर उन्होंने फिरसे कौतुकके साथ प्रत्युत्तर दिया कि 'यह काम अथवा जो कोई पदार्थ हो, उसके रूप क्या-क्या हैं ? वे मुझसे कह।' तब मैंने उसे सूचित किया—'देवि ! इसका रूप कैसा ? यह तो मूर्तिरहित अग्नि है । देखिए-ज्वालाओंका प्रकाश किए बिना ही सन्ताप उत्पन्न करता है, धूमराशिको बाहर निकाले बिना लोगोंको अश्रुपात कराता है और भस्मोंके कणोंको दिखाए बिना ही शरीरमें पाण्डुता प्रकट करता है । इस विशाल त्रिभुवनके मध्यमें ऐसा कोई प्राणी ही नहीं जो कामदेवके बाणके लक्ष्य हुआ ही नहीं है, या होता ही नहीं है, या होवेगा ही नहीं । कौन व्यक्ति ऐसा है जो इस कामसे डरता ही नहीं हो; क्योंकि-पुष्पमय-धनुष धारण कर यह बाणों द्वारा बलवान् व्यक्तिको भी


१. कामापराधे । २. यत्तु खलस्य कुसुमचापस्य । ३. कामः कोऽपि वा । ४. प्रकाशयन् । ५. शरव्यतां । ६. को वाऽस्य त्रस्यति ।

४२ का०

६६६कादम्बरी—[ कथायाम्-

न्तमपि विध्यति । अपि चानेनाधिष्ठितानां कामिनीनां पश्यन्तीनां चिन्तया '^१प्रियमुखचन्द्र^२-सहस्राणि सङ्कटमम्बरतलम्^३, लिखन्तीनां दयिताकारानविस्तीर्णं महीमण्डलम्, गणयन्तीनां वल्लभगुणानल्पीयसी संख्या^४, शृण्वतीनां^५ 'प्रियतमकथामबहुभाषिणी सरस्वती,^६ ध्यायन्तीनां प्राणसमसमागमसुखानि ह्रसीयान् कालो हृदयस्यापतति' इति ।

एतदाकर्ण्य च क्षणं विचिन्त्य प्रत्यवादीत्—'पत्रलेखे ! यथा कथयसि, तथा जनोऽयं कारितः कुमारे पक्षपातं पञ्चेषुणा^७। यान्यस्यैतानि रूपाणि समधिकानि वा तानि मयि वर्त्तन्ते ।

अपीति । अनेन कामदेवेन अधिष्ठितानाम् अभिभूतानाम्, चिन्तया चिन्तावशात् प्रियस्य वल्लभजनस्य मुखचन्द्रसहस्राणि पश्यन्तीनाम् अवलोकयन्तीनां कामिनीनां सुन्दरीणां कृते हृदयस्य चेतसः समीपे अम्बरतलम् आकाशं सङ्कटं तन्मुखचन्द्रव्याप्तं सत् आपतति उपगतं भवति, सर्वत्रैव तन्मुखचन्द्रावलोकनादित्याशयः। अनेन सुन्दर्यो वल्लभजनमुखचन्द्रमयमेव संसारमवलोकयन्तीति ध्वन्यते । दयिताकारान् प्रियस्य प्रतिमूर्त्तीः लिखन्तीनां चित्रणं कुर्वन्तीनां कामिनीनां हृदयस्य समीपे महीमण्डलं भूमण्डलम् अविस्तीर्णम् अविस्तृतम् आपतति, यतो हि तच्चित्रिता दयिताकारास्तत्र न मा (भा) न्तीत्याशयः । एतेन निरन्तरमेव कामिन्यः प्रियवल्लभस्य दयितस्य गुणान् सौन्दर्यविनयादीन् गणयन्तीनां गणनां विदधतीनां कामिनीनां हृदयस्य समीपे संख्या परार्द्धान्तापीत्यर्थः । अल्पीयसी अतिस्तोका सत्यापतति, तद्गुणगणनसमये परार्द्धान्ताया अपि संख्यायाः पर्याप्तत्वादित्यभिप्रायः । अनेन कामिन्यो गुणरहितानपि दयितानानन्तगुणसंयुक्तान् अवबुध्यन्ते इति चिन्त्यते । प्रिततमस्य दयितस्य कथां शृण्वतीनामाकर्णयन्तीनां कामिनीनां हृदयस्य समीपे सरस्वती वाणी अबहुभाषिणी अनधिकसंलापिनी सती आपतति, आशानुरूपं वदितुमसमर्थेत्यादित्याशयः । एतेन अनन्तयापि कथया तासां श्रवणाशा न परिपूर्यते इति ध्वन्यते । तथा प्राणसमस्य जीविततुल्यस्य दयितस्य समागमसुखानि सङ्गमसुखानि ध्यायन्तीनां चिन्तयन्तीनां कामिनीनां हृदयस्य समीपे कालः समयो ह्रसीयान् अतिह्रस्वः सन्नापतति, झटित्येवावसितत्वादित्याशयः । अनेन कामिन्यः सर्वस्मिन् काल एव वल्लभसमागमसुखानि चिन्तयन्तीति व्यज्यते । इह 'आपतति' एकस्यां क्रियायाम् अम्बरतलादीनां कर्तृत्वेनाभिसम्बन्धात्तुल्ययोगितालङ्कारः ।

एतदिति । कथयसि प्रतिपादयसि । अयं मल्लक्षणो जनः । कुमारे चन्द्रापीडे । पञ्चसंख्याका इषवो बाणा यस्य स तेन मदनेनेत्यर्थः । अस्य पञ्चेषोः, यान्येतानि रूपाणि दाहोत्पादकत्वादीनि पूर्वोक्तानि त्वया प्रतिपादितानीति शेषः, तेभ्यः समधिकानि वा सन्तीति शेषः, तानि समस्तानि मयि विद्यन्त इत्यर्थः, सन्तापबाष्पपतनपाण्डुतावलोकनात् तत्समधिकाधैर्याद्यवलोकनाच्चेत्याशयः ।


विद्ध कर देता है। और जो सुन्दरियाँ कामविष्ट होकर चिन्ताद्वारा जब अपने प्रियतमके हजारों मुख-चन्द्र देखा करती हैं, तब उन लोगोंके हृदयके समीप आकाशमण्डल ही प्रियतमके मुख-चन्द्रसे व्याप्त होकर उपस्थित होता है। प्रियतमकी आकृति चित्रित करनेमें तत्पर समस्त भू-मण्डल क्षुद्र सा प्रतीत होता है। प्रेमी जनकी गुण-गणना आरम्भ करने पर परार्द्ध पर्यन्त संख्याएँ भी अत्यन्त अल्प प्रतीत होती हैं, प्रियतमकी कथा सुनते रहने पर भी उसके लिये सरस्वती कम बोलनेवाली लगती हैं और प्राणतुल्य प्रियतमके समागम-सुखका ध्यान करते रहने पर भी उनके हृदयको तो अधिक समय भी अल्प-सा प्रतीत होता है।

'यह सुन कर क्षण भर विचार कर उन्होंने प्रत्युत्तर दिया—'पत्रलेखे ! तुम जिस प्रकार कहती हो उस प्रकारसे ही मुझे कामने कुमारके प्रति पक्षपाती (तरफदार) बना दिया है। उसके ये सब और इनसे अधिक भी जो रूप हैं, वे सब ही इस समय मुझमें विद्यमान हैं। तुम मेरे हृदयसे अतिरिक्त नहीं हो, इसलिए इस समयमें


१. चिन्ताप्रिय !
२. क्वचित् 'चन्द्र' पदं न विद्यते ।
३. चिन्ताप्रियमुखसहस्रसङ्कटम् , चिन्ता-प्रियमुखचन्द्रसहस्राणि ।
४. वल्लभगुणानसंख्यान् ।
५. शृण्वतीनां ।
६. अबहुभाषिणीं सरस्वतीं ।
७. कुमारपक्षपातिना पञ्चशरेण ।

कादम्बरीवार्ताश्रवण० १२२ ] चन्द्रकला-विद्योतिनीसहिता । ६६७

हृदयादव्यतिरिक्तासि, इदानीं भवतीमेव पृच्छामि। उपदिश त्वम्; यदत्र मे साम्प्रतम्। एवंविधानां वृत्तान्तानामनभिज्ञाऽस्मि। अपि च मे१ गुरुजनवक्तव्यतां नीताया नितरां लज्जिताया जीवितान्मरणमेव श्रेयः पश्यति २हृदयम् इति।

एवंवादिनीं भूयस्तामहमेवमवोचम्—'अलमलमिदानीं देवि ! किमनेनाकारणमरणानुबन्धेन३, अनाराधितप्रसन्नेन कुसुमशरेण भगवता ते वरो दत्तः। का चात्र गुरुजनवक्तव्यता, यदा खलु कन्यकां गुरुरिव पञ्चशरः सङ्कल्पयति, मातेवानुमोदते, भ्रातेव ददाति, सखीवोत्कण्ठां जनयति, धात्रीव तरुणतायां४ रत्युपचारं शिक्षयति। कति वा५ कथयामि ते याः स्वयं वृतवत्यः पतीन्। यदि च नैवम्, अनर्थक एव तर्हि धर्मशास्त्रोपदिष्टः स्वयंवरविधिः।

हृदयादिति। अव्यतिरिक्तासि अभिन्नासि। इदानीम् अधुना भवतीमेव त्वामेव। साम्प्रतं युक्तं समीचीनमित्यर्थः 'युक्ते द्वे साम्प्रतं स्थाने' इत्यमरः। अनभिज्ञा अपरिचिताऽस्मि। गुरुजनैः मातापित्रादिजनैः वक्तव्यतां गर्हणीयतां नीताया मदनेन प्रापितायाः, नितराम् अत्यर्थं लज्जितायाः त्रपायुक्तायाः मे मम मरणमेव श्रेयः श्रेष्ठमिति हृदयं पश्यति जानातीत्यर्थः।

एवमिति। अलमलम् एवमभिधेहीति शेषः। अकारणम् अहेतुं यन्मरणं तस्य अनुबन्धेन आग्रहेण, अनाराधितोऽनुपासितोऽपि प्रसन्नस्तेन। वरो दत्तः, समुचिताधिकारिणं प्रत्येव ते प्रीतिजननादित्याशयः।

देवि। गुरुजनवक्तव्यता मातापित्रादिनिन्दनीयता। तरुणतायां यौवने। गुरुः पितेव सङ्कल्पयति दानेच्छाविषयीकरोति, मातेव जननीव अनुमोदते एतत्तया साध्वनुष्ठितमिति श्लाघते। सखीव सहचरीव उत्कण्ठाम् औत्सुक्यं जनयति उत्पादयति। रतौ सम्भोगविषये उपचारं तदुपयोगिविभ्रमादिकं शिक्षयति अभ्यासं कारयति, अत एवास्याः पञ्चशरक्रियाया अवश्यंभावित्वान्नास्ति मातापित्रादिनिन्दनीयतेत्याशयः। इह प्रत्येकवाक्य एव श्रौतोपमा।

वतीति। याः पतीन् स्वयं वृतवत्यः आत्मनैव वरणं कृतवत्यस्ताः कति कथयानि बह्व्यः सन्तीत्यर्थः। अत एवाप्यनेकासां व्यवहारानास्ति दोष इत्याशयः।

यदीति। अपि च, एवं यदि न भवेदित्यर्थः। अनर्थक एव निष्प्रयोजन एव, अनुष्ठानलक्षणप्रामाण्याभावादित्याशयः। स्वयंवरविधिरिव गान्धर्वविधिः। तथा च याज्ञवल्क्यः—'गान्धर्वः समयान्मिथः' इति। मनुरपि—

'इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च। गान्धर्वः स तु विज्ञेया मैथुनः कामसम्भवः॥'

तुमसे ही पूछती हूँ। इस समय मेरे लिए जो उचित हो तुम वैसे ही उपदेश दो, क्योंकि—ऐसी-ऐसी घटनाओं से कुछ भी नहीं जानती। और भी देखो-कामदेवने मुझे गुरुजनोंकी निन्दाका पात्र बना दिया है, इसलिए मैं अत्यन्त लज्जित हो गई हूँ, अत एव हृदय समझता है कि—जीवनकी अपेक्षा मेरा मरण ही श्रेय (अधिक अच्छा) है।'

उनके इस प्रकार कहे हुए वचनोंको सुनकर मैं फिर उनसे इस प्रकार कहने लगी—'देवि ! आप इस समय यह मत कहें, मत कहें। यों निष्कारण मरनेके लिए आपका यह आग्रह कैसा ? महाल्हादकारी कामदेवकी आराधना न करनेपर भी उसने स्वयं ही आपके ऊपर प्रसन्न होकर वर दिया है। इस विषयमें गुरुजनोंकी निन्दा क्या ? जब स्वयं कामदेव यौवनकालमें कन्याका दान करनेके लिए सङ्कल्प करता है, माताके समान अनुमोदन करता है, भ्राताके समान दान करता है, सखीके समान उत्कण्ठा उत्पन्न करता है, और धात्रीके समान अनुरागके उपयोगी विलासादिको शिक्षा देता है। कहो तो, आपके सामने कितने ही कन्याओंकी ऐसी कथा कह दूँ, जिन्होंने अपने आप ही पतिको वरण किया है। यदि यह प्रकार ही नहीं होता, तो धर्मशास्त्रमें बताया हुआ स्वयंवर-विधान निरर्थक होता। इसलिये देवि ! आप प्रसन्न होइए, इस तरह मरनेके आग्रहका परित्याग जीवित्वा में आपके


१. क्वचिद् इदमिति नास्ति।
२. अपि च गुरु...।
३. ० मे हृदयम्।
४. वरात् ! अनाराधित...।
५. न्तिवेव ।
६. तरुणतायामुरत्युपचारम् ।
७. किञ्चिद, कति वा ।

६६८कादम्बरी-[ कथायाम्-

तत् प्रसीद, देवि ! अलममुना मरणावरोधेन, शपे ते पादपङ्कजस्पर्शेन, सन्विश, प्रेषय माम्, यामि, आनयामि देवि ! ते हृदयदयितम्' ।

इत्येवमुक्ते नया प्रीतिद्रवार्द्रया दृष्टया पिबन्तीव मां निरुध्यमानैरपि मकरकेतुशर-शत-जर्जरितां भिन्द्वेव लज्जां लब्धान्तरैर्निपतद्भिः अनुरागविभ्रमैराकुलीक्रियमाणा, प्रियवचनश्रवणप्रीत्या च स्वेदाश्लिष्टम् उत्क्षिप्य रोमाञ्चजालकेन दधतीवोत्तरीयांशुकम्, प्रेङ्खत्कुण्डलमाणिक्य पत्र मकर-कोटि-लग्नञ्च शशिकिरणमयं मरणपाशमिव मकरकेतुना निहितं कण्ठे हारमुन्मोचयन्ती, प्रहर्षविह्वलान्तःकरणापि कन्यकाजनसहजां लज्जामिवावलम्ब्य शनैः शनै-रवदत् - 'जानामि ते गरीयसीं प्रीतिम्, केवलमकठोर शिरीष-पुष्प-मृदुप्रकृतेः कुतः प्राग-

तदिति । मरणानुबन्धेन प्राणवियोगाग्रहेण । पादपङ्कजस्पर्शेन चरणकमलस्पर्शेन शपे शपथं करोमि, चित्तवल्लभमानयनं प्रत्येव शपथोऽयमित्यवधेयम् । संदिश आज्ञापय । प्रेषय प्रेरय । आनयामि तव समीप इति शेषः ।

इतीति । इत्येवं पूर्वोक्तप्रकारेण । उक्ते अभिहिते सतिसा कादम्बरी प्रीतिद्रवेण प्रमोदरसेन सार्द्रा तया दृष्ट्या लोचनेन मां पत्रलेखां पिबन्तीव पानं कुर्वन्तीव, निरुध्यमानैरपि संव्रियमाणैरपि, मकरकेतोः कामस्य शरशतेन बाणसमूहेन जर्जरिताम् अतएव भेदनं सुसाध्यमित्याशयः, लज्जां त्रपां भिन्द्वेव विदार्यैव लब्धान्तरैः प्राप्तावकाशैः, निपतद्भिः प्रकटीभवद्भिरित्यर्थः । अनुरागविभ्रमैः स्मिताद्यनुरागोद्योतकविलासैः आकुलीक्रियमाणा चञ्चलीक्रियमाणेत्यभिप्रायः। अपि च, प्रियस्य दयितस्य चन्द्रापीडस्य यद् वचनं वाक्यं तस्य श्रवणेन आकर्णनेन या प्रीतिरानन्दस्तया, ये स्वेदा घर्माः तैः आश्लिष्टं देहसंसक्तम्, उत्तरीयांशुकम् उपसंव्यानवस्त्रम्, रोमाञ्चानां पुलकानां जालेन समूहेन उत्क्षिप्य उद्धृतं विधाय दधतीव धारयन्तीव । अपि च, प्रेङ्खत्तञ्चलतः कुण्डलस्य कर्णभूषणस्य यो माणिक्यपत्रमकरः रत्नखचितपत्रात्मक-मकरसदृशभूषणं तस्य कोटौ अग्रभागे लग्नं सक्तम्, शशिकिरणमयम् अत्युज्ज्वलत्वाच्छुशिप्रभा निष्पन्नमित्यर्थः, मकरकेतुना कामदेवेन कण्ठे गले निहितं स्थापितं मरणपाशमिव मृत्युजालकमिव विद्यमानं हारं शेषामिधानम् उन्मोचयन्ती प्रच्यावयन्ती, प्रहर्षेण निरतिशयानन्देन विह्वलं व्याकुलम् अन्तःकरणं यस्याः सा तादृश्यपि, कन्यकाजनस्य कुमारिकाजनस्य सहजां स्वाभाविकीम् । लज्जां त्रपाम् अवलम्ब्य आश्वित्येव शनैः शनैः मन्दं मन्दम् अवदत् अवोचत् ।

इह केवलं 'मरणपाशमिव' इत्यत्र जायुरूपेक्षालङ्कारः । 'पिबन्तीव' 'भिन्द्वेव' 'उत्क्षिप्येव' 'दधतीव' 'अवलम्ब्येव' एषु सर्वत्र क्रियोत्प्रेक्षालङ्कारः ।

जानामीति । गरीयसीम् अतिशयेन गुर्वी प्रीतिं स्नेहं मयौति शेषः, अत एवं ब्रवीमीत्याशयः । तर्हि शीघ्रमेव स्वीयं वरणाय उद्योगं कथं न करोषीत्यत आह- केवलमिति । केवलं किन्तु, अकठोरं नूतनं यत् शिरीषपुष्पं तद्वत् मृदुः सरला प्रकृतिः स्वभावो यस्य तस्य नारीजनस्य, एतावान् स्वयं वरजरूपं

पाद-पद्मका स्पर्श कर शपथ (सौगन्ध) लेकर कहती हूँ कि-आप कुछ सन्देश देकर मुझे भेजिए, ताकि मैं जाकर आपके प्राणवल्लभको ले आऊं।'

मेरे इस प्रकार कहनेपर आनन्द-रससे आर्द्र हुई-स्निग्धदृष्टिसे मेरा मानो पान करती, छिपाये जानेपर भी काम-बाणके प्रहारसे जर्जरित हुई लज्जाको मानो भेदते, मार्ग पाकर बाहर निकलते ईषद् हास्यप्रभृति अनुराग-सूचक-विभ्रमोंसे आकुल होती, प्राणेश्वरसम्बन्धी प्रियवचन सुननेसे आनन्दवश उत्पन्न हुए स्वेदसे शरीरमें संलग्न (चिपटे) उत्तरीयांशुकको इधर उत्पन्न हुए रोमाञ्चके जालसे मानो उठाकर धारण करती, और दोलायमान (लटकते हुए) कर्णकुण्डलके रत्ननिर्मित मकराकार भागके अग्र (नोक) में उलझे हुए चन्द्रकिरणके समान शुभ्रवर्ण अपने हारको, कामदेवके द्वारा गलेमें समर्पण किए गए मृत्युपाशके समान उन्मुक्त करती (सुलझाती), वह अत्यन्त आनन्दसे अन्तःकरण विह्वल होने पर भी कन्याओंकी स्वाभाविक लज्जाका अवलम्बन करके ही मानो धीरे-धीरे कहने लगी-'पत्रलेखे ! मेरे ऊपर जो तुम्हारा अत्यन्त प्रेम है, उसे मैं जानती हूँ; किन्तु अभिनव-शिरीष कुसुमके समान कोमल-प्रकृतिवाली रमणियोंमें और फिर विशेष करके बाल-भावकी कुमारियोंमें इतनी


१. अलं मरणातु...।
२. शपामि ।
३. सन्विश माम्, याम्यानयामि तं देवं चन्द्रापीडं ते हृदयदयितम् ।
४. जर्जरिता ।
५. निष्पतद्भिः ।
६. स्वेदश्लिष्टम् ।
७. मरणाय पाशमिव ।
८. आलम्ब्य ।
९. शनैरवदत् ।
१०. पल्लव ।

उत्तरभागः] [ १२२ ] चन्द्रकला-विद्योतिनीसहिता । ६६६

लभ्यमेतावन्नारीजनस्य, विशेषतो बालभावभाजः कुमारीलोकस्य। साहसकारिण्यस्ताः, याः स्वयं सन्दिशन्ति समुपसर्पन्ति वा। स्वयं साहसं सन्दिशन्ती बाला जिह्रेमि। किं वा मन्दिशामि। अतिप्रियोऽसीति पौनरुक्त्यम्, तवाहं प्रियात्मेति जडप्रश्नः, त्वयि गरीयाननुराग इति वेश्यालापः, त्वया विना न जीवामीत्यनुभवविरोधः, परिभवति मामनङ्ग इत्यात्मदोषो-पालम्भः, मनोभवेनाहं भवते दत्तेत्युपसर्पणोपायः, बलाद्धृतोऽसि मयेति बन्धकीधार्ष्ट्यम्,

गुरुतरं प्रागल्भ्यं दृष्टतां कृतः, अपि तु कस्मादपि न भवितुमर्हतीत्यर्थः। बालभावभाजः वाटिकावस्थस्य कुमारीलोकस्य कन्याकजनस्य। इह लुप्तोपमा पर्यालोचितेयमुभयोरङ्गाङ्गिभावसङ्करः।

नन्वेवं सति रुक्मिणीप्रभृतयो नार्यः, स्वयंवरगमनानुगृहाद्यर्थे कथं प्रवृत्ता इत्यत आह—साहसेति। याः स्वयं सन्दिशन्ति सन्देशं प्रेषयन्ति एतादृश्यश्च रुक्मिणीप्रभृतयः, 'रुक्मिणी हि श्रीकृष्ण-समीपे ब्राह्मणद्वारा सन्देशं प्रेषितवती' इत्येषा कथा सुप्रसिद्धैव। स्वयमुपसर्पन्ति वरजार्थं स्वयमेव समीपे गच्छन्ति, इयम्मूवारवेन्दुमतीदमयन्त्यादयः, स्वयंवराय ताः स्वयमेव सभायां गतवत्य इत्ये-पारि कथा सुप्रसिद्धैव।

स्वयंन्वपि तथाविधसाहसस्वीकारे मम लज्जैव प्रतिबन्धिकेत्यत आह—स्वदमिति। साहसरूपं स्वयं सन्दिशन्ती सन्देशं प्रेरयन्ती बालाऽहं जिह्रेमि लज्जे।

लज्जालडितं प्रतिबन्धं दूरीकृत्यापि सन्देशप्रकारमेव नावलोकयामीत्यत आह—कि वेति। वा अथवा किं सन्दिशामि सन्देशं प्रेषयानि, त्वं ममातिप्रियोऽसीति सन्देशे पौनरुक्त्यं समस्तलोकस्य प्रियत्वेऽनुभवसिद्धे तथाविधसन्देशः 'लग्निस्तप्तः' इतिवत् पुनरुक्तता, एवञ्च ज्ञातार्थज्ञापकत्वेन पुनरु-क्ततादोषप्रसङ्ग्या नायं सन्देशो रोचत इत्याशयः।

तवेति। तवाहं प्रियात्मा वल्लभस्वरूपा क्रिमिति सन्देशस्तु जडप्रश्नः अज्ञजनजिज्ञासा, दृष्टित्वेनैव वल्लभत्वनिश्चयेऽपि पुनर्जिज्ञासाकरणाद् अज्ञानाचु तथेवाचरणात्, अत एवायमपि न समुचित इत्याशयः। तदुक्तम्—

'स्वरूपं वा प्रियो वापि वृत्तं पौरुषमेव वा। प्रकाशयन् स्वयं यस्तु स वै जडतरः स्मृतः।

त्वयीति। त्वयि गरीयान् अतिमहान् ममानुराग इति सन्देशस्तु वेश्याया गणिकाया लापः संभाषणम्, तद्वद् स्पष्टप्रतिपादनात्, कुलवधूनां तु चेष्टयैव प्रियत्वद्योतनोचित्वादयमपि पक्षो न समञ्जस इत्याशयः।

त्वयेति। त्वया विना भवद्व्यतिरेकेण न जीवामि न प्राणान् धारयामीति सन्देशे तु अनुभव-विरोधः। प्राणधारणाभावे मरणमेव स्यात्, एवं रूपत्वे च सन्देशप्रेरणासम्भवात्, अतएवायमपि पक्षो न युक्त इत्याशयः।

परीति। अनङ्गः कामो मां परिभवति परिभूय व्यथयतीति सन्देशे तु वात्मनः स्वस्य दोषस्य कामुकत्वरूपस्य उपात्मनो निन्दा करणीया, न तु तद्दूरीकरणाय सन्देशप्रेषणम्, स्वकीयानां नायिका-नां मदनविकारस्यावह्लीकरणीयत्वेन नप्रकटनायोग्यत्वादयमपि सन्देशो न सङ्गच्छत इत्याशयः।

मन इति। मनोभवेन कामेनाहं भवते दत्ता समर्पिता इति सन्देशस्तु उपसर्पणस्य स्वत्समीपो-पस्थितेरुपायः, समर्पणेन समुत्पन्नस्वत्वस्य वस्तुनस्तद्वधिकारिसमीप एव विद्यमानत्वौचित्यात्। कौश-ल्यप्रकाशन पूर्वकत्वादयमपि पक्षो न युक्त इत्याशयः।

बलादिति। मया त्वं बलात्कटात् घृतोऽसि गृहीतोऽसीति सन्देशे तु बन्धकीधार्ष्ट्यं स्वैरिण्या

अधिक प्रगल्भता कहाँ ? जो स्वयं सन्देशा भेजती हैं, अथवा अन्देशे ही प्रियतमके समीप उपस्थित हो जाती हैं, वे साहसका कार्य करती हैं। मैं तो बाला हूँ और अपने से ही समाचार भेजनेमें लज्जित होती हूँ—अथवा इसे सन्देशा भी क्या कहसक्ता है? यदि इस प्रकार कहूँ कि—'आप मेरे अत्यन्त प्रिय हैं' तो यह कहना केवल पुनरुक्ति ही होगी; 'क्या आपको मैं प्रिय हूँ?' [क्या आपकी प्यारी हूँ?] इस प्रकार कहूँ तो इससे निर्बुद्धिता प्रकाशित होगी; 'आपके प्रति मुझे अत्यधिक अनुराग उत्पन्न हुआ है' यदि इस प्रकार कहूँ तो यह वेश्याओंके कहनेका क्रम है; 'आपके बिना मैं जीवित नहीं रह सकती हूँ' यदि यों कहूँ तो अनुभवविरुद्ध है; 'कामदेव मुझे अधिक पीड़ा देता है' यों कहूँ तो अपने दोषकी निन्दा ही करनी है; 'कामदेवने मुझे आपके हाथमें समर्पण (दान) कर दिया है' यह तो उनके निकट जानेका उपाय है; मैंने आपको हठपूर्वक पकड़ रक्खा है' यह तो

१. सन्दिशन्ति, दिशन्तो। २. क्रिया नेति।

६७० [कादम्बरी-] [कथायाम्-]

अवश्यमागन्तव्यमिति सौभाग्यगर्वः, स्वयमागच्छामीति स्त्रीचापलम्, अनन्यरक्तोऽयं परिजन इति स्वभक्तिनिवेदनलाघवम्^३। प्रत्याख्यानशङ्कया न सन्दिशामीत्यप्रबुद्धबोधनम्^४ अनपेक्षित्तानुजीवितैर्दुःखदारुणा स्यामित्यतिप्रणयिता, ज्ञास्यसि मरणे प्रीतिमित्यसम्भाव्यमेव^६। ' इति श्रीबाणभट्टविरचितः कादम्बरीपूर्वभागः।

धृष्टताप्रतीतिः, कुलीनायास्तु तद्योग्यत्वादयमपि पक्षो न सङ्गच्छते इत्याशयः।

अवश्यमिति। त्वया अवश्यं नूनम् आगन्तव्यम् उपस्थातव्यमिति सन्देशे तु सौभाग्यस्य दयित-वल्लभस्य गर्वोऽभिमानः प्रकाशते, तस्य स्वसद्वादेषोऽपि पक्षो न समक्षस इत्याशयः।

स्वयमिति। स्वयमात्मनैव आगच्छामि आयामीति सन्देशे तु स्त्रीचापलं योषितां प्रकृतिसुलभं चापल्यमात्रं प्रकाशते, परमार्थतो गमनासम्भवात्, अत एवायमपि पक्षः परित्याज्य इत्याशयः।

अनन्येति। अनन्यरक्तस्त्वय्येवानुरक्तः अयं मत्लक्षणः परिजन इति सन्देशेऽपि स्वभक्तेः स्वप्रेमणः स्वयमेव निवेदनेन ज्ञापनेन लाघवम्, अत एवैषोऽपि पक्षो नितरामुपेक्षणीय इत्यभिप्रायः।

प्रत्याख्यानेति। प्रत्याख्यानं सन्देष्टव्यविषयनिराकरणं तस्य शङ्कया आतङ्केन न सन्दिशामि न सन्देशं प्रेषयामीति सन्देशेऽपि अप्रबुद्धस्य अविदितनिराकरणस्य बोधनं तत्सूचनम्, निद्रितभुजङ्गो-त्थानवत्, सुतरामेषोऽपि पक्षो न रोचत इत्याशयः।

अनपेक्षितेति। न अपेक्षितं पालनीयतया कयापि नाभिलषितम् अनुजीवितं प्रियविरहानन्तरसमय-स्थायिजीवनं येन तथोक्तेन दुःखेन निरन्तरतथाविधक्लेशसहनेन दारुणा कठिनस्वभावा स्यां सहचरीणां समक्ष इति शेषः, इति सन्देशे अतिप्रणयिता अत्युत्कटस्नेहवत्ता प्रतीयेत। परमार्थतस्तु इदानीं पर्यन्त-मपि तथाविधायुत्कटस्नेहवत्ताया अभावादियमपि न सन्देशयोग्यमित्याशयः।

ज्ञास्यसीति। मरणे त्वद्विरहपीडयैव मम मृत्यौ सति प्रीतिं ज्ञास्यसि, भवति कियान् मे स्नेह आ-सीदित्यवगमिष्यसि इति स्नेहबोधनम सम्भाव्यमेव एतादृशदुःखान्यनुभवन्त्या मन्दभाग्याया मे वह्पेक्षितस्य मृत्योरेवासम्भवात्, अत एवायमपि सन्देशो न प्रेषणीय इत्याशयः।

इति मुङ्गलपुर (मुङ्गेर) मण्डलान्तर्गत-'बरौनी'ग्रामवास्तव्य-वत्सकुलावतंस-वैयाकरणकेसरि-'बदरीनाथ'शर्मात्मज-ज्योतिर्विदग्रगण्यानेकराजसम्मानित-श्रीलोकनाथतनुजन्म-व्या-करण-साहित्य-वेदान्तचार्य-मीमांसा-शाखि ठक्कुरोपनामक-श्रीकृष्णमोहन-शास्त्रि एम० ए० निर्मिता कादम्बरीपूर्वार्द्ध-'चन्द्रकला' टीका समाप्ता।


कुलटाकी धृष्टता है; 'आप यहाँ अवश्य आइएगा' यह तो सौभाग्यका अहङ्कार है; 'मैं अपनेते ही आपके निकट आती हूँ' यह तो स्त्रियोंकी स्वाभाविक चञ्चलता है; 'यह दासी केवल आपमें अनुरक्त है' यह तो अपनी भक्ति अपनेसे ही प्रकाश करनेमें लघुता है; 'आप अस्वीकार कर देंगे इस आशङ्कासे मैं सन्देशा नहीं भेजती' यह तो निश्चयपूर्वक नहीं समझे गये विषयको जनाना है; 'आपके साथ वियोग हो जानेके कारण जीवन की अपेक्षा नहीं मालूम होती है और मैं दुःख सहन करती हुई सखियोंके समीप कठिन हृदयवाली होकर परिचित हो रही हूँ' यह तो अत्यन्त प्रणय-प्रकाश है, और 'मेरी मृत्यु होनेपर आपके प्रति कितनी दूर तक प्रणय था उसे जानिएगा' यह तो अत्यन्त असम्भव ही है।

इस प्रकार ठक्कुरोपनामक श्रीकृष्णमोहनशास्त्रिविरचित कादम्बरी-पूर्वार्द्धका विद्योतिनीनामक भाषानुवाद समाप्त हुआ।


१. अनुरक्त। २. स्वयं भक्ति। ३. निवेदनापलाघवन्। ४. उद्धतप्रनिबोधनम्। ५. ***अनुजीवित***। ६. ज्ञास्यसि मरणेन प्रीतिमित्यत्सम्भाव्यमिति।

टीकाकर्त्तुः परिचयः

वास्ते भारतवर्ष एव नितरामाचारदीलागुरु-
यंवासन् रससंस्यदर्शनविदो व्यासालपादादयः :
श्रीवाचस्पतिमण्डनप्रभृतयो ये दर्शनोद्धारकाः
सञ्जाताः प्रवलान्धकाररवयः सर्वप्रधाना इह ॥

तत्रास्तेऽखिललोक एव प्रथिता सद्दिप्रभूतान्विता-
गङ्गा-कौशिकि-गण्डकी हिमघनैर्या चैव सीमावृता ।
बाद्याशक्तिजनिश्च यत्र समभूत्स्वर्गात्मिका याऽवनी
सा नाम्ना मिथिलेति तन्त्रललिता विद्योतते सर्वतः ॥

तस्यां चैव हि 'हारवल्ल' वलये 'उच्चैठ' पीठान्तिके
ख्याता 'चानपुरे'ति रम्यनगरी विद्वद्वरैर्मण्डिता ।
तत्रास्मत्कुलपूर्वजाः समभवन् सत्कर्मदीक्षाव्रताः
शास्त्रारण्यविहारिणो नृपकुललब्धप्रतिष्ठादिकाः ॥

यत्रास्मज्जनकान्न यः समभवत् पूर्वक्रमे सप्तमो
योगाभ्यासरतो विचारनिपुणो ज्ञाने कनिष्ठो महान् ।
वत्सेत्यन्वयसन्मणिः मुनगरे शिष्योपशिष्यैर्युतः
मुत्वांत्तं समुपागतः खलु भवानन्दाभिधानो बुधः ॥

एतस्माद्रघुनाथोऽभूच्छास्त्रविज्ञानतत्त्ववित् ।
तदात्मजौ खलु महा-महोपाध्यायसंयुतौ ॥

तेजनाथ मेहवार्नौ विद्याविक्रान्तशालिनौ ।
अनेकग्रन्थकर्त्तारौ सञ्जातौ नृपमान्वितौ ॥

तत्र जातः मुनिपुत्रो 'बाबूराम'-पदामिधः ।
तेजनाथाद्धि सर्वोपकारी लोकोक्तिसंग्रही ॥

दर्पदत्तो धरभणी वेणीदत्ताभिधस्तथा ।
त्रयः पुत्राः समभवंस्तेषु तार्तीयकश्च यः ।
नैयायिकवरो भाइ नाथनामा श्रुतः किल ।
स श्रीजयपुरेगत्त्य प्रधानः पण्डितोऽभवन् ॥


छ चामलमाटोद्धारे—

वैकुण्ठान् पुरस्कृत्य लोकात्कश्मीरवातरत् ।
वैकुण्ठस्तु निजांशेन मिथिलाभूमिमाविशत् ॥
लतो निवासभूमिस्तु सर्वस्यानाद्विशिष्यते ॥

[ ६७२ ]

तथा च 'बदरीनाथो' वैयाकरणकेसरी ।
चतुष्प्संज्ञको जातस्त्वपरष्टीठराभिधः ॥
चतुष्वैतेषु बदरीनाथस्य खलु ये सुताः ।
निर्द्दिशामो हि तानत्र यथावत्प्रथिता भुवि ॥
तत्र ज्येष्ठः सुधीः श्रीमान् दैवज्ञो राजसत्कृतः ।
लोकनाथाभिधो ज्ञेयः सत्कीर्त्तिलसितो हि यः ॥
तथा शाब्दिकमर्मज्ञः प्राज्ञो योगविदग्रगः ।
श्रीयोगनाथः प्रथितः काव्यतीर्थस्तथा परः ॥
श्रीचेतनाथो देव्यास्तु समाराधनतत्परः ।
तत्सूनुः शाब्दिकः काव्यतीर्थोपाधिविभूषितः ॥
श्रीश्यामसुन्दरो ज्ञेयो दयालुर्भक्त आत्मवान् ।
पारम्पर्यक्रमेणैते ठकुरोपाधिसंयुताः ॥
श्रीकृष्णमोहनश्चाथ कमलाकान्तनामकः ।
सर्वजिच्च तथा ज्ञेयो जगदीश।दिसंज्ञकः ॥
एते श्रीलोकनाथस्य पुत्राः सन्ति महात्मनः ।
बरौनीसंज्ञके ग्रामे साम्प्रतं निवसन्ति हि ॥
माता मदीया लक्ष्म्याख्य यन्नाम्ना च मया कृता ।
साहित्यदर्पणस्यस्य व्याख्या छात्रहितैषिणी ॥
मातुः परिचयस्तावद्दीयतेऽत्र मया बुधाः ! ।
सत्कश्यपान्वये जातो गोविन्दो हि परोपकृत् ॥
दैवज्ञो लालजी ज्येष्ठस्ततः पञ्चमणिर्मतः ।
कनिष्ठश्च ततो जातो नाम्ना गृहमणिर्मणिः ॥
एतस्माज्जन्म मे मातुर्विज्ञेया इह भूतले ।
मध्यमः खलु यः पञ्च-मणिः ख्यातो हि बुद्धिमान् ॥
तत्पौत्रश्च गुणानन्दो दैवज्ञ इह कीर्त्तितः ।
तथा चैव रमानन्दो व्याकरणादिवित्सुधीः ॥
ज्ञेया 'चन्द्रकला' नाम्नी धर्मपत्नी मम प्रिया ।
या च कादम्बरीसख्या संयोज्य समलङ्कृता ॥

मद्ग्रन्थमध्ये बहवो हि दोषा नूनं भविष्यन्ति तथापि मान्याः ;
किं कण्टकाढ्यामपि केतकीं तु लोका न गृह्णन्ति वदन्तु सन्तः ।