भारतकोश
संग्रह पर लौटें

कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)

Kamakalavilasa of Punyanandanatha with Chidvalli Commentary

पुण्यानन्दनाथ द्वारा

DevanagariHindipublished56 पृष्ठ

श्रीमत्पुण्यानन्दाचार्यविरचितः १५ बिन्दुद्वितयं यद्वद् भेदविहीनं परस्परं तद्वत् । विद्यादेवतयोरपि न भेदलेशोऽस्ति वेद्यवेदकयोः ॥११॥ बिन्दुद्वितयं – पूर्वोक्तप्रकाशविमर्शात्मकं, यद्वत् – येन प्रकारेण, भेदविहीनं ‘शिवशक्तिरिति ह्येतत्तत्त्वमाहुर्मनीषिणः।’ इत्युक्तनीत्या परस्पराश्लिष्टं, तद्वत् तेनैव प्रकारेण, विद्यादेव- तयोः – विद्या पञ्चदशाक्षरी देवता महात्रिपुरसुन्दरी तयो- र्वेद्यवेदकयोः वाच्यवाचकयोः, भेदलेशोऽपि – ईषद्वैलक्षण्य- मपि नास्ति, एवम् अभिन्ननादादिमिथुनात् अखिलं जगत् आविर्भवति इति ॥ ११ ॥ तदेव मिथुनम् आत्मेच्छयैव स्वभेदमस्वभेदमकरोत् इत्याह वागर्थौ नित्ययुक्तौ परस्परं शक्तिशिवमयावेतौ । सृष्टिस्थितिलयभेदौ त्रिधा विभक्तौ त्रिबीजरूपेण ॥ १२ ॥

१६ कामकलाविलासः वाक् वर्ण-पद-मन्त्ररूपा, अर्थः कला-तत्त्व-भुवनात्मा, एत- द्रूपत्वं कुतः? - प्रकाशविमर्शात्मकशब्दार्थाभ्यामेव षडध्वा- त्मकसर्वप्रपञ्चोत्पत्तिश्रवणात्, अत एव नित्ययुक्तौ निरन्तरसं- सक्तौ, नहि घटपटयोरिव कादाचित्कः संबन्धः, तथा सति सर्वोत्पत्तिप्रसंगः। सृष्टिस्थितिलयभेदौ - सृष्टिः शिवादिक्षिति- पर्यन्ततत्त्वजालाविर्भावः, स्थितिः तत्परिपालनं, लयस्तेषां स्वात्मसात्कारः एवं-भूतो भेदो ययोस्तौ। स्वात्मत्वं तु एतेषां त्रयाणां, तथा च अभिनवगुप्तपादाः 'स्वात्मगाः सृष्टिसंहाराः स्वरूपत्वेन संस्थिताः ।' इति। परस्परं शक्तिशिवमयो प्रकाशविमर्शस्वरूपौ, उभ- योरेकत्वात् वह्निदाहकत्ववत् तत्त्वान्तरं न भवति इत्यर्थः। अभियुक्तोक्तिश्च 'तादात्म्यमनयोर्नित्यं वह्निदाहकयोरिव ।' इति। एतौ पूर्वोक्तौ प्रकाशविमर्शौ त्रिधा त्रिप्रकारेण संस्थितौ, विभक्तौ पृथग्भूतौ। केन? इत्याह - त्रिबीजरूपे- णेति, वाग्भव-कामराज-शक्तिबीजात्मकत्वेन इत्यर्थः। अय- मर्थः - बिन्दुत्रयसमष्टिभूतकामकलाक्षररूपिणी महात्रिपुर- सुन्दरी सर्वोपास्या इति ॥ १२ ॥ इतः परं वाग्भवादिखण्डत्रयान्तर्गतवस्तुविशेषवर्णनद्वारा श्रीपञ्चदशाक्षरीविद्याम् उद्धर्तुम् उपक्रमते

श्रीमत्पुण्यानन्दाचार्यविरचितः १७ माता मानं मेयं बिन्दुत्रयं भिन्नबीजरूपाणि । धामत्रय-पीठत्रय- शक्तित्रयभेदभावितान्यपि च ॥१३॥ तेषु क्रमेण लिङ्ग- त्रयं तद्वच्च मातृकात्रितयम् । इत्थं त्रितयपुरीया तुरीयपीठा च भेदिनी विद्या ॥१४॥ माता अवकाशगत ईश्वरः, मानं तदवगतिसाधनभूता विद्या, मेयं ज्ञायमाना महात्रिपुरसुन्दरी, एवं मातृमानमेय- भावम् अनुभूय विहरति । धामत्रयं वाग्भवादिकम्, पीठत्रयं कामगिर्यादि, शक्तित्रयम् इच्छादि, एवमादिभेदेन भावि- तानि, बिन्दुमत्वात् एतेषां, तेषु धामादिषु विभिन्नेषु, क्रमेण आनुपूर्व्या, लिङ्गत्रयं स्वायंभुवादि, मातृकात्रितयमकारवि- भेदभिन्नम्, एवंविधसमस्तवस्तुपूरणात् तत्समष्टिरूपा त्रिपुरा नाम पराशक्तिराविर्भूता, इत्याह - इत्थं त्रितयपुरीया इति, ३

१८ कामकलाविलासः इत्थं पूर्वोक्तप्रकारेण त्रितयानि अवयवानि पुराणि शरी- राणि यस्याः सा, अत एव तुरीयस्य पीठा - त्रिविधात्मक- सर्वप्रपञ्चाविर्भावतिरोभावभूरित्यर्थः ॥ १३-१४ ॥ इतः परं, तस्मात् गगनसमीरणदहनोदकभूमिवर्णसंभूति- रिति प्रथमसृष्टप्रपञ्चभूतनिष्ठगुणवर्णनद्वारा अक्षरसंख्यावि- शिष्टमहामन्त्रात्मकदेवतास्वरूपं वक्तुमारभते शब्द-स्पर्शौ रूपं रस-गन्धौ चेति भूतसूक्ष्माणि । व्यापकमाद्यं व्याप्यं तूत्तरमेव क्रमेण पञ्चदश ॥ १५ ॥ पञ्चदशाक्षररूपा नित्या चैषा हि भौतिकाभिमता । नित्याः शब्दादिगुण- प्रभेदभिन्नास्तथानया व्याप्ताः ॥ १६ ॥ नित्यास्तिथ्याकारा- स्तिथयश्च शिवशक्तिसमरसाकाराः ।

श्रीमत्पुण्यानन्दाचार्यविरचितः १९ दिवसनिशामय्यस्ताः श्रीवर्णास्तेऽपि तद्द्वयीरूपाः ॥ १७ ॥ शब्द आकाशगुणः, स्पर्शो वायुगुणः, रूपं तेजोगुणः, रसोऽपां गुणः, गन्धः पृथ्वीगुणः, आकाशमारभ्य एते गुणाः पृथ्वीपर्यन्तम् उत्तरोत्तरम् एकैकगुणाधिक्येन पञ्चदश गुणाः संपद्यन्ते, एतेषां गुणानां पञ्चदशभावेन श्रीविद्या पञ्चदशाक्षरी जाता । भौतिकाभिमता भूतसंबन्धित्वेन अभिमता इष्टा । अत एव पञ्चदशाक्षररूपा स्वस्मात् आदिभूतगुणानां पञ्चद- शत्वात् विद्याक्षराणामपि पञ्चदशत्वम् तद्रूपा तत्स्वरूपिणी । नित्या कूटस्था तरङ्गबुद्बुदफेनानाम् अम्बुधिरिव सकल- त्वाविर्भावभूमिरित्यर्थः । कूटस्थाया एव षोडश्याः पञ्चद- शावयवात्मकपञ्चदशतिथिनिष्ठान्तः । पञ्चदशदेवतामयपञ्चद- शाक्षरीरूपतामाह – नित्यास्तिथ्याकारा इति, नित्याः कामे- श्वरप्रभृतिविश्रान्ताः, तिथ्याकाराः तिथ्यभिमानिन्यो देवताः । तिथयश्च प्रतिपत्प्रभृतिपूर्णिमान्ताः, शिवशक्तिसम- रसाकाराः प्रकाशविमर्शसंपुटाकाराः । अत एव दिवस- निशामय्यः – दिवारात्रिरूपाः प्रकाशविमर्शयोर्दिवारात्रिमय- त्वात्, तास्तिथयः श्रीवर्णाः, तेऽपि तेन पूर्वोक्तरूपेण पञ्च- दशरूपाः श्रीवर्णाः – विद्यान्तर्गतवर्णगुणा अपि तद्द्वयी-

२० कामकलाविलासः रूपाः तादृशप्रकाशविमर्शरूपा इत्यर्थः । अयमत्र विवेकः - इयमेव प्रकाशविमर्शमयी परा शक्तिः पञ्चभूतात्मिका उत्तरो- त्तरवृद्धिद्वारा पञ्चदशसंख्याकमात्राक्षरतिथ्यभिमानदेवतास्व- रूपिणी जाता । यथागमः ‘ एक एव प्रकाशाख्यः परः कोऽपि महेश्वरः । यस्य शक्तिर्विमर्शाख्या सा नित्या गीयते बुधैः ॥ विमर्शाख्या च सा देवी पाञ्चविध्यं समागता । आकाशानिलसप्तार्चिःसलिलावनिभेदतः ॥ एकैकगुणवृद्ध्या तु तिथिसंख्यात्वमागता । विमर्शरूपिणी विद्या षोडशी या प्रकीर्तिता । गता सा षोडशैर्भेदैस्त्रिपुरा परमेश्वरी ॥ सुन्दर्यादिमह.........वां विचित्रान्तं समन्ततः । स्वागमादेव बोद्धव्यमिति संकल्पमात्रतः ॥ ’ इति ॥ १५ ॥ १६ ॥ १७ ॥ उक्तमेव अर्थं द्रढयितुं देवतावत् विद्याया अपि विश्वा- त्मकत्वं तदुत्तीर्णत्वं च वक्तुमाह स्वर-व्यञ्जन-बिन्दुत्रय- समष्टिभेदैर्विभाविताकारा ।

श्रीमत्पुण्यानन्दाचार्यविरचितः २१ षट्त्रिंशत्तत्त्वात्मा तत्त्वातीता च केवला विद्या ॥ १८ ॥ विद्यापि तादृगात्मा सूक्ष्मा सा त्रिपुरसुन्दरी देवी । विद्यावेद्यात्मकयो- रत्यन्ताभेदमामनन्त्यार्याः ॥ १९ ॥ स्वराः अचः, व्यञ्जनानि हलः, बिन्दुत्रयम् अनुस्वार- त्रयम्, एषां समष्टिः समुदायभावः, भेदोऽवयवभावः तैर्वि- भाविताकारा उद्भावितस्वरूपा । अत एव षट्त्रिंशत्तत्त्वात्मा शिवादि-क्षित्यन्तविग्रहा । तत्त्वातीता च - तत्त्वसंघसमु- दायस्थानत्वात् तदुत्तीर्णा च । अत एव केवला स्वव्यति- रिक्तस्य अभावात् एकाकिनी । एवंभूता विद्या श्रीपञ्चद- शाक्षरीत्यर्थः । अयमत्र विद्यायामवयवविभागप्रकारः, - इह पुण्यानन्दाः हादिविद्यायाम् अत्यन्ताभिमानिनोऽस्या एव विद्याया अवयवभावसमुदायम् आश्रित्य तत्त्वात्मकत्वं तदुत्ती- र्णत्वं चाचक्षते । तत्र च वाग्भवाख्ये प्रथमखण्डे पञ्च स्वराः सप्त व्यञ्जनानि संहत्य द्वादश वर्णाः । कामराजाख्ये द्विती- यखण्डे षट् स्वराः अष्ट व्यञ्जनानि संभूय चतुर्दश वर्णाः ।

२. द्वितीय भाग: नाद-कला, चक्र-संकेत एवं वर्णोद्भव (श्लोक १९-३५)

२२ कामकलाविलासः शक्त्याख्ये तृतीयखण्डे च चत्वारः स्वराः षट् व्यञ्जनानि संहत्य दश वर्णाः । सर्वेऽपि संभूय षट्त्रिंशदक्षराणि अवयव- रूपाणि समुदायरूपाणि । विद्या सर्वतत्त्वातिक्रान्ता सर्वत्र प्रसिद्धा श्रूयते, कादेरपि विद्याया उभयात्मकत्वम् अस्त्येव, यथा नैव अनयोर्विद्ययोर्भेदः । हादौ प्रथमखण्डे पञ्च स्वराः सप्त व्यञ्जनानि संहत्य विद्याद्वयेऽपि प्रथमखण्डे द्वादशवर्णत्वं समानं, तस्मात् उभयात्मकत्वम् उभयोर्विद्ययोरस्त्येव । तदु- भयविद्योपासनप्रकारस्तु गुरुमुखादेव अवगन्तव्यः । देव- ताया अपि मन्त्रवत् उभयात्मकत्वम्, इति मन्त्रदेवतयोरैक्यम् आह - 'विद्यापि तादृगात्मा' इति - विद्या चिदानन्दस्वरू- पिणी तादृगात्मिका तदुत्तीर्णा च सूक्ष्मा परिच्छेत्तुम् अश- क्या, सा सर्ववेदान्तेषु प्रसिद्धा त्रिपुरसुन्दरी, त्रिपुरा च सुन्दरी त्रिधावस्थितसमस्तवस्तुपूरणात् सर्वयोगिभिरुपा- स्यत्वेन स्पृहणीयत्वाच्च, त्रिपुराशब्दनिर्वचनं च पूर्वमेव प्रपञ्चितम् । देवी स्वच्छप्रकाशरूपा विश्वस्य जननादि- क्रियारूपा परा वाक्, विद्यावेद्यात्मकयोरत्यन्ताभेदम् आम- नन्त्यार्याः परमेश्वरप्रमुखाः सर्वयोगिन इत्यर्थः ॥ १९ ॥ एवं विद्यादेवतयोरभेदम् उक्त्वा, चक्रदेवतयोरैक्यं वक्तुं चक्रोत्पत्तिप्रकारम् आह

श्रीमत्पुण्यानन्दाचार्यविरचितः २३ या सान्तरोहरूपा परा महेशी त्रिभाविता सैव । स्पष्टा पश्यन्त्यादि- त्रिमातृकात्मा चक्रतां याता ॥२०॥ चक्रस्यापि महेश्या न भेदलेशोऽपि भाव्यते विबुधैः । अनयोः सूक्ष्माकारा परैव स्थूलयोश्च न कापि भिदा ॥२१॥ या सान्तरोहरूपा इति - अन्तरम् अन्तःकरणं तस्मिन् ऊहः वितर्कः इत्थमिति परिच्छेदरहितः तेन सहितं रूपं यस्याः सा । अयमर्थः - अवाङ्मनसगोचरत्वात् सर्ववेदान्तै- रपरिच्छेद्या सर्वकारणभूता शिवादि-धरण्यन्ततत्त्वसंघाता- विर्भावभूमिः महेश्वरी परा सर्वोत्कृष्टा इत्युच्यते । श्रुतिश्च परास्य शक्तिर्विविधैव श्रूयते स्वाभाविके ज्ञानबलं क्रिया च । एवंभूतलक्षणा सैव - पराशक्तिरेव, त्रिभाविता त्रिप्रकारत्वेन

२४ कामकलाविलासः भाविता संजायमाना, एतदेवाह - स्पष्टा पश्यन्त्यादित्रिमातृ- कात्मा इति, स्पष्टा प्रथमोत्पन्नत्वेन विवक्षिता विषयिणी पश्यन्तीति उच्यते आदिशब्देन मध्यमा वैखरी च, सैव वैखरी नाम अभिलापरूपिणी पञ्चदशाक्षरराशिवमयी सर्ववै- दिकलौकिकशब्दात्मिका शक्तिरित्युच्यते । तथा च सुभ- गोदयवासनायाम् ‘परा भूर्जन्म पश्यन्ती वल्लीगुच्छसमुद्भवा । मध्यमा सौरभा वैखर्यक्षमाला जयत्यसौ ॥’ एवंरूपत्रिमातृकात्मिका सैव चक्रतां याता - त्रिखण्डात्मकच- क्रकमयित्राता इत्यर्थः । एतदेवाह - चक्रस्य इति, चक्रस्य त्रैलोक्यमोहनादि-बैन्दवान्तनवावरणात्मकस्य सुन्दर्यधिष्ठा- नभूतस्य, महेश्वर्यास्तदधिष्ठात्र्याः सुन्दर्याश्च भेदलेशः ईषद्भे- दोऽपि बुधैर्महेश्वरैर्न भाव्यते न अनुभूयते, कुतः ? - श्रीसु- न्दरीरूपत्वात् श्रीचक्रस्य । पुनरपि अनयोस्तादृग्भेदम् आचष्टे - अनयोः सूक्ष्माकारा इत्यादिना, अनयोः सूक्ष्म- रूपयोश्चक्रदेवतयोः - सूक्ष्मरूपत्वं नाम अपरिच्छिन्नत्वमेव, तत्र श्रीचक्रस्य सूक्ष्मरूपेण अवस्थानं बिन्दात्मना, बिन्दोश्च अपरिच्छिन्नत्वं ‘बैन्दवे परमाकाशे’ इत्यादिना प्रपञ्चित- मेव । देवताया अपि ‘विद्यापि तादृगात्मा’ इत्यादिना अभिहितमेव । तथा स्थूलयोश्चक्रदेवतयोश्च, अत्र स्थूलत्वं

श्रीमत्पुण्यानन्दाचार्यविरचितः २५ नाम चक्रस्य त्रिकोणादिचतुरश्रपर्यन्तं विजृम्भणम्, देव- ताया अपि त्रिपुराम्बिकादि-त्रिपुराशक्त्यन्तरूपेण मननम्, एवंविधयोश्चक्रदेवतयोः, भिदा - भेदः कारणादित्यर्थः । तत्र हेतुमाह - परैव सूक्ष्माकारा इति, सा पूर्वोक्तलक्षणा परैव आदिशक्तिरेव सूक्ष्माकारा सूक्ष्मभूत आकारः स्वरूपमनयो रित्यर्थः ॥ २० ॥ २१ ॥ देवतारूपस्य चक्रस्य इतः परं परा-पश्यन्त्यादिशक्तित्रि- कासरूपं नवयोन्यात्मकं श्रीचक्रं वक्तुम् आदौ बैन्दवं सर्वान- न्दमयाख्यचक्रं पराशक्तिमयम्, इत्याह मध्यं चक्रस्य स्यात् परामयं बिन्दुतत्त्वमेवेदम् । उच्छूनं तच्च यदा त्रिकोणरूपेण परिणतं स्पष्टम् ॥२२॥ एतत्पश्यन्त्यादि- त्रितयनिदानं त्रिबीजरूपं च ।

२६ कामकलाविलासः चक्रस्य नवयोन्यात्मकस्य, मध्यं मध्येभवं, बिन्दुतत्त्वं बिन्दुस्वरूपं पूर्वमेव व्याख्यातम् । इदं स्वसाक्षात्कृतं पराम- यमेव पराशक्तिस्वरूपमेव इत्यर्थः । एतदेव बिन्दुतत्त्वं यदा विकासभावम् एति तदा त्रिकोणचक्रम् उदेति इत्याह-उच्छूनं तच्च यदा इति, यदा यस्मिन् काले प्राणिनाम् अदृष्टवशात् उच्छूनं, तच्च - बैन्दवमपि उच्छूनं संजातविकासं भवति, तदा त्रिकोणरूपेण - अनुत्तरानन्देच्छासंघट्टरूपेण परिणतं, त्रिको- णाकारं भवति इत्यर्थः । एतत् - त्रिकोणचक्रं, पश्यन्त्यादि- त्रितयनिदानं - पश्यन्ती-मध्यमा-वैखरीप्रमुखशक्तित्रयोत्प- त्तिकारणमित्यर्थः । तथाह ' इच्छाशक्तिस्तथा वामा पश्यन्तीवपुषा स्थिता । ज्ञानशक्तिस्तथा ज्येष्ठा मध्यमा वागुदीरिता ॥ ऋजुरेखामयी विश्वस्थिता प्रथितविग्रहा । तत्संसृतिदशायां तु बैन्दवं रूपमास्थिता ॥ प्रत्यावृत्तिक्रमेणैव शृङ्गाटवपुरुज्ज्वला । क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा ॥' इति । त्रिबीजरूपं च इति, - त्रिबीजानि त्रिखण्डात्मकानि वाग्भव-कामराज-शक्तिबीजानां रूपं यस्य तत् ॥ २२ ॥ ततः श्रीभट्टारिकायामेव बिन्दुतत्त्वम् ऊर्ध्वाधोमुखनव- योन्यात्मकश्रीचक्रमभवत्, इत्याह

श्रीमत्पुण्यानन्दाचार्यविरचितः २७ वामा ज्येष्ठा रौद्री चाम्बिका चानुत्तरांशभूताः स्युः॥२३॥ इच्छा-ज्ञान-क्रिया- शान्ताश्चैतास्तथोत्तरावयवाः । व्यस्ताव्यस्तं तदर्ण- द्वयमिदमेकादशात्म पश्यन्ती ॥२४॥ वामा ज्येष्ठा रौद्री अम्बिका चकारात् पराशक्तिश्च इमाः पञ्चशक्तयः, अनुत्तरांशभूताः – अनुत्तरांशत्वेन श्रीचक्रान्त- र्गताधोमुखपञ्च-त्रिकोणाकृतित्वेन भूता जाता इत्यर्थः । इच्छा- ज्ञान-क्रिया-शान्ताः एताश्चतस्रः शक्तयः उत्तरावयवाः ऊर्ध्व- मुखत्रिकोणचतुष्टयरूपाः । अयं भावः-पराविलसनरूपा एताः रौद्री-वामा-ज्येष्ठा-अम्बिकाः, इच्छा-ज्ञान-क्रिया-शान्ताश्चैता- स्तथोत्तरावयवाश्च इति, एतच्छक्तिनवकमयं नवत्रिकोणं चक्र- मिति । व्यस्ताव्यस्तं तदर्णद्वयं – व्यस्तं व्यष्टिरूपम् अव्यस्तं समष्टिरूपं सर्वोपनिषत्प्रसिद्धमर्णद्वयं संदंशन्यायेन अखि- लाक्षरात्मकमन्त्रमयप्रकाशविमर्शरूपपूर्णाहन्ताभावगर्भकाम- कलाक्षरात्मबिन्दुतत्त्वमित्यर्थः । एवंभूतं तदर्णद्वयम् एका-

२८ कामकलाविलासः दशात्म, मत्या विचार्यमाणमेकादशविधं भवति इत्यर्थः । परादि-शान्तान्तं शक्तिदशकं व्यष्टिरूपं सर्वसमष्टिरूपत्वेन चैकं, तेन एकादशात्मकम् इदं बिन्दुतत्त्वमेव पश्यन्तीकारणम् ॥ २३ ॥ २४ ॥ इतः परं वसुकोण-दशारादिसृष्टिचक्रप्रकारम् अभिधातुं परमप्रकृतत्रिकोणचक्रक्रमं निगमयति एवं कामकलात्मा त्रिबिन्दुतत्त्वस्वरूपवर्णमयी । सेयं त्रिकोणरूपं याता त्रिगुणस्वरूपिणी माता ॥२५॥ एका परा................... एवं - पूर्वोक्तप्रकारेण, कामकलात्मा - कामः प्रकाशैक- स्वभावोऽनुत्तराक्षरात्मा परमशिवः कला तु अखिलवाणी- रूपपरमाहम्-अक्षरमयी विमर्शविग्रहा, एवं तदुभयात्मकत्वं नाम स्वाभाविकपरिपूर्णांहंभावशालित्वम् । एतच्च 'बिन्दुरहं- कारात्मा' इत्यत्र स्पष्टम् अभिहितम्, एवंरूपा कामकलात्मा त्रिबिन्दुतत्त्वस्वरूपवर्णमयी - बिन्दवः पूर्वोक्तरक्त-शुक्ल-मिश्रा-

श्रीमत्पुण्यानन्दाचार्यविरचितः २९ त्मानः तेषां भावः तत्त्वं तत्स्वरूपा ये वर्णा वाग्भवादय- स्तदात्मिका । तथा रहस्याम्नाये ' बिन्दुत्रयात्मकं स्वात्मशृङ्गाटं विद्धि सुन्दरम् । मिश्रं शुक्लं च रक्तं च पुराणं प्रणवात्मकम् ॥ रेखात्रयावगन्तव्यं संविन्मात्रं शिवात्मकम् । ' सेयं त्रिकोणरूपम् आपन्ना चिदानन्दघनरसपरमार्था सक- लाम्नायसारभूता, विश्वाहंभावभावनाशालिभिर्महायोगिवरै- रात्मसाक्षात्त्वेन अनुभूयमाना, त्रिगुणा इच्छा-ज्ञान-क्रिया- शक्तिमयी, एवं तथा, अत एव सर्वजगन्निर्मात्री एका । तथा च वचनम् ' अनुत्तरानन्दचिती इच्छाशक्तौ नियोजिते । त्रिकोणमिति तत्प्राहुर्विसर्गामोदसुन्दरम् ॥ ' इति ॥ २६ ॥ इतः परं विलसनरूपायाः पश्यन्त्या अपि नवयोनिच- क्रात्मना नवात्मकत्वमाह ———————————— ............'तदन्या वामादिव्यष्टिमातृसृष्ट्यात्मा ।

३० कामकलाविलासः तेन नवात्मा जाता माता.................. ॥ तदन्या पराविकासभूता पश्यन्ती, वामादिव्यष्टिमात्रसृ- ष्ट्यात्मा - वामादि-शान्तादिशक्तिनवकमयी, यतः तेन कार- णेन सा, माता - पश्यन्ती नाम जननी, नवात्मा -- वामादि- शान्तान्तशक्तिकदम्बकाविर्भावकारणनवयोनिचक्रात्मिका, जाता प्रादुर्भूता इत्यर्थः । अत्र वामादिशक्तीनां प्रसङ्गात् किंचित् उच्यते, - तत्र वामा नाम शृङ्गाटान्तःस्थितप्रपञ्चवम- नात् विश्वजनयित्रीत्यभिधीयते, ज्येष्ठा सर्वमङ्गलकारिणी, रौद्री सर्वरोगविद्राविणी, समस्तेष्टप्रदा शक्तिरम्बिका च ‘सा स्फुरत्ता महासत्ता’ इति प्रत्यभिज्ञास्थित्या सर्वातिशायिनी परावाक् परिपूर्णस्व- रूपस्वात्मस्फुरणावलोकनचतुरा, इच्छा-ज्ञान-क्रियाशक्तयस्तु पश्यन्ती-मध्यमा-वैखरीरूपाः, आह चतुर्थी शान्ता, चतुःशत्यां, ‘शान्ता च निष्कलं शान्तम्’ इत्यादिश्रुत्या ॥ २६ ॥ अनन्तरं मध्यमाया अपि प्रकारान्तरेण नवात्मकत्वं ब्रूते

श्रीमत्पुण्यानन्दाचार्यविरचितः ३१ सा मध्यमाभिधानाभ्याम् ॥२६॥ द्विविधा मध्यमा सा सूक्ष्म-स्थूलाकृतिः स्थिता सूक्ष्मा । नवनादमयी स्थूला नववर्णात्मा च भूतलिप्याख्या॥२७॥ आद्या कारणमन्या कार्यं त्वनयोर्यतस्ततो हेतोः । सैवेयं नहि भेद- स्तादात्म्यं हेतुहेतुमदभीष्टम् ॥ २८ ॥ मध्यमा परापश्यन्त्योः समरसावस्थे, अभिधानाभ्यां नामधेयाभ्यां सा, अतः सुखं परमयोगिभिर्द्दश्या मध्यमा नाम शक्तिः द्विविधा द्विमकारा – स्थूल-सूक्ष्मभावात् , तत्र सूक्ष्मा समाधिबलेन अनुभूयमाना, स्थूलाकृतिः पण्डितपामराद्यभि- लपनयोग्या वर्णावल्यास्थिता सर्वदा वर्तमाना । एतदेव व्याचष्टे 'सूक्ष्मा नवनादमयी स्थूला नववर्णात्मा' इति ।

३२ कामकलाविलासः अयमर्थः - मित्रावरुणसदनात् वायुनिरोधनेन स्वाधिष्ठाना- दिकमलभेदपुरःसरं द्वादशान्तारविन्दासनस्थपरमशिवाङ्कम् उपसर्पन्ती महामातृका कुण्डलिनी बहुविधनादात्मिका या अनुभूयते, सा समाधिसमधिगतसर्वार्थैर्महामाहेश्वरैः स्वात्म- त्वेन मन्यते । नवनादमयी इति, - चिणीति प्रथमः, चिणि- चिणीति द्वितीयः, घण्टानादस्तृतीयः, शङ्खनादश्चतुर्थः, पञ्चमस्तन्त्रीनादः, षष्ठस्तालनादः, सप्तमो वेणुनादः, अष्टमो भेरीनादः, नवमो मृदङ्गनादः । भूतलिप्याख्या - भूताश्च ते लिपयश्च भूतलिपयः, अत्र लिपीनां भूतत्वम् चेष्टाविशेषाक्ष- रन्यासाभिव्यङ्ग्यत्वम्, तच्च कल्पनामात्रमेव - अक्षराणां तेजोरूपशक्त्यात्मकत्वात् तेषामाख्या अभिधा यस्याः, सूक्ष्म- रूपा हि मध्यमा स्थूलरूपायाः कारणभावम् आपन्ना एका एव, इत्यत आह - आद्या कारणमित्यादि, आद्या पूर्वोक्ता सूक्ष्मा कारणं - प्रथमोद्भवात्, अन्या स्थूला कार्यं - तज्जन्य- त्वात्, यतः तस्मात् कारणात् अनयोः सूक्ष्म-स्थूलयोः कार्यकारणभावः, ततो हेतोः - तेन कारणेन, इयं स्थूला सैव सूक्ष्मा शक्तिरेव, नहि भेदः - भेदो नास्त्येव । ननु कथम् अभेदे कार्यकारणभावः ? इत्यत्राह - तादात्म्यमिति, तादा- त्म्यं - भेदाभेदरूपं, हेतुहेतुमत् - जन्यजनकरूपम्, अभी-

श्रीमत्पुण्यानन्दाचार्यविरचितः ३३ ष्टम् – मृद्धटवत् वाचारम्भणमात्रत्वात् एकमेव वस्तु उभय- विधं भवति सर्ववेदान्तसंमतमित्यर्थः ॥ २७ ॥ २८ ॥ अनन्तरं मध्यशृङ्गाटतेजःप्रसरणात्मकवसुकोणादिचक्रनि- रूपणद्वारा वैखरीशक्त्याविर्भावम् आह श-ष-स-पवर्गमयं तद्वसुकोणं मध्यकोणविस्तारः । नवकोणं मध्यं चे- त्यस्मिंश्चिद्दीपदीपिके दशके ॥२९॥ श-ष-स-पवर्गमयं,-श-प-स-पवर्गात्मकाष्टकोणस्य विस्तारो विकासभूतः, तत्तादृशमध्यत्रिकोणसहितं नवकोणं मध्यं च बैन्दवाख्यं संहत्य दशके अस्मिंस्त्रिकोण-वसुकोणचिद्दीपदीपिके ‘बैन्दवासनसंरूढसंवर्तनलचिद्घनम् ।’ इत्युक्तरीत्या बिन्दुचक्राधिरूढायास्तेजोभूते-त्रिपुरायाः प्रभा- पटलमकाशिते इत्यर्थः ॥ २९ ॥ तच्छायाद्वितयमिदं दशारचक्रद्वयात्मना विततम् । 5

३४ कामकलाविलासः तस्य पूर्वोक्तस्य तेजोराशिमयस्य चक्रत्रितयस्य, च्छाया- द्वितयं कान्तिद्वितयं – सर्वरक्षाकर-सर्वार्थसाधकाभिधचक्रद्वया- त्मना परिणतम् इत्यर्थः । तथा च उक्तम् ‘ नवत्रिकोणस्फुरितप्रभारूपदशारकम् । ’ इति ॥ तच्चक्रद्वयस्वरूपं व्याचष्टे त-ट-च-कवर्गचतुष्टय- विलसनविस्पष्टकोणविस्तारम् ॥ ३० ॥ तवर्ग-टवर्गात्माक्षरदशकरूपम् अन्तर्दशारम्, चवर्ग-कव- र्गात्मकाक्षरदशाररूपम् बहिर्दशारमित्यर्थः ॥ ३० ॥ एतच्चतुष्कप्रभया समुपेतं दशारपरिणामः । एतच्चक्रचतुष्कस्य – बिन्दु-त्रिकोण-वसुकोणान्तर्दशारात्म- कचक्रचतुष्कस्य प्रभा कान्तिस्तया, समुपेतं संयुक्तं, दशारप- रिणामः – बहिर्दशारचक्रमिति यावत्, बहिर्दशारचक्रस्य बै-