भारतकोश
संग्रह पर लौटें

कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)

Kamakalavilasa of Punyanandanatha with Chidvalli Commentary

पुण्यानन्दनाथ द्वारा

DevanagariHindipublished56 पृष्ठ

श्रीमत्पुण्यानन्दाचार्यविरचितः २७ वामा ज्येष्ठा रौद्री चाम्बिका चानुत्तरांशभूताः स्युः॥२३॥ इच्छा-ज्ञान-क्रिया- शान्ताश्चैतास्तथोत्तरावयवाः । व्यस्ताव्यस्तं तदर्ण- द्वयमिदमेकादशात्म पश्यन्ती ॥२४॥ वामा ज्येष्ठा रौद्री अम्बिका चकारात् पराशक्तिश्च इमाः पञ्चशक्तयः, अनुत्तरांशभूताः – अनुत्तरांशत्वेन श्रीचक्रान्त- र्गताधोमुखपञ्च-त्रिकोणाकृतित्वेन भूता जाता इत्यर्थः । इच्छा- ज्ञान-क्रिया-शान्ताः एताश्चतस्रः शक्तयः उत्तरावयवाः ऊर्ध्व- मुखत्रिकोणचतुष्टयरूपाः । अयं भावः-पराविलसनरूपा एताः रौद्री-वामा-ज्येष्ठा-अम्बिकाः, इच्छा-ज्ञान-क्रिया-शान्ताश्चैता- स्तथोत्तरावयवाश्च इति, एतच्छक्तिनवकमयं नवत्रिकोणं चक्र- मिति । व्यस्ताव्यस्तं तदर्णद्वयं – व्यस्तं व्यष्टिरूपम् अव्यस्तं समष्टिरूपं सर्वोपनिषत्प्रसिद्धमर्णद्वयं संदंशन्यायेन अखि- लाक्षरात्मकमन्त्रमयप्रकाशविमर्शरूपपूर्णाहन्ताभावगर्भकाम- कलाक्षरात्मबिन्दुतत्त्वमित्यर्थः । एवंभूतं तदर्णद्वयम् एका-

२८ कामकलाविलासः दशात्म, मत्या विचार्यमाणमेकादशविधं भवति इत्यर्थः । परादि-शान्तान्तं शक्तिदशकं व्यष्टिरूपं सर्वसमष्टिरूपत्वेन चैकं, तेन एकादशात्मकम् इदं बिन्दुतत्त्वमेव पश्यन्तीकारणम् ॥ २३ ॥ २४ ॥ इतः परं वसुकोण-दशारादिसृष्टिचक्रप्रकारम् अभिधातुं परमप्रकृतत्रिकोणचक्रक्रमं निगमयति एवं कामकलात्मा त्रिबिन्दुतत्त्वस्वरूपवर्णमयी । सेयं त्रिकोणरूपं याता त्रिगुणस्वरूपिणी माता ॥२५॥ एका परा................... एवं - पूर्वोक्तप्रकारेण, कामकलात्मा - कामः प्रकाशैक- स्वभावोऽनुत्तराक्षरात्मा परमशिवः कला तु अखिलवाणी- रूपपरमाहम्-अक्षरमयी विमर्शविग्रहा, एवं तदुभयात्मकत्वं नाम स्वाभाविकपरिपूर्णांहंभावशालित्वम् । एतच्च 'बिन्दुरहं- कारात्मा' इत्यत्र स्पष्टम् अभिहितम्, एवंरूपा कामकलात्मा त्रिबिन्दुतत्त्वस्वरूपवर्णमयी - बिन्दवः पूर्वोक्तरक्त-शुक्ल-मिश्रा-

श्रीमत्पुण्यानन्दाचार्यविरचितः २९ त्मानः तेषां भावः तत्त्वं तत्स्वरूपा ये वर्णा वाग्भवादय- स्तदात्मिका । तथा रहस्याम्नाये ' बिन्दुत्रयात्मकं स्वात्मशृङ्गाटं विद्धि सुन्दरम् । मिश्रं शुक्लं च रक्तं च पुराणं प्रणवात्मकम् ॥ रेखात्रयावगन्तव्यं संविन्मात्रं शिवात्मकम् । ' सेयं त्रिकोणरूपम् आपन्ना चिदानन्दघनरसपरमार्था सक- लाम्नायसारभूता, विश्वाहंभावभावनाशालिभिर्महायोगिवरै- रात्मसाक्षात्त्वेन अनुभूयमाना, त्रिगुणा इच्छा-ज्ञान-क्रिया- शक्तिमयी, एवं तथा, अत एव सर्वजगन्निर्मात्री एका । तथा च वचनम् ' अनुत्तरानन्दचिती इच्छाशक्तौ नियोजिते । त्रिकोणमिति तत्प्राहुर्विसर्गामोदसुन्दरम् ॥ ' इति ॥ २६ ॥ इतः परं विलसनरूपायाः पश्यन्त्या अपि नवयोनिच- क्रात्मना नवात्मकत्वमाह ———————————— ............'तदन्या वामादिव्यष्टिमातृसृष्ट्यात्मा ।

३० कामकलाविलासः तेन नवात्मा जाता माता.................. ॥ तदन्या पराविकासभूता पश्यन्ती, वामादिव्यष्टिमात्रसृ- ष्ट्यात्मा - वामादि-शान्तादिशक्तिनवकमयी, यतः तेन कार- णेन सा, माता - पश्यन्ती नाम जननी, नवात्मा -- वामादि- शान्तान्तशक्तिकदम्बकाविर्भावकारणनवयोनिचक्रात्मिका, जाता प्रादुर्भूता इत्यर्थः । अत्र वामादिशक्तीनां प्रसङ्गात् किंचित् उच्यते, - तत्र वामा नाम शृङ्गाटान्तःस्थितप्रपञ्चवम- नात् विश्वजनयित्रीत्यभिधीयते, ज्येष्ठा सर्वमङ्गलकारिणी, रौद्री सर्वरोगविद्राविणी, समस्तेष्टप्रदा शक्तिरम्बिका च ‘सा स्फुरत्ता महासत्ता’ इति प्रत्यभिज्ञास्थित्या सर्वातिशायिनी परावाक् परिपूर्णस्व- रूपस्वात्मस्फुरणावलोकनचतुरा, इच्छा-ज्ञान-क्रियाशक्तयस्तु पश्यन्ती-मध्यमा-वैखरीरूपाः, आह चतुर्थी शान्ता, चतुःशत्यां, ‘शान्ता च निष्कलं शान्तम्’ इत्यादिश्रुत्या ॥ २६ ॥ अनन्तरं मध्यमाया अपि प्रकारान्तरेण नवात्मकत्वं ब्रूते

श्रीमत्पुण्यानन्दाचार्यविरचितः ३१ सा मध्यमाभिधानाभ्याम् ॥२६॥ द्विविधा मध्यमा सा सूक्ष्म-स्थूलाकृतिः स्थिता सूक्ष्मा । नवनादमयी स्थूला नववर्णात्मा च भूतलिप्याख्या॥२७॥ आद्या कारणमन्या कार्यं त्वनयोर्यतस्ततो हेतोः । सैवेयं नहि भेद- स्तादात्म्यं हेतुहेतुमदभीष्टम् ॥ २८ ॥ मध्यमा परापश्यन्त्योः समरसावस्थे, अभिधानाभ्यां नामधेयाभ्यां सा, अतः सुखं परमयोगिभिर्द्दश्या मध्यमा नाम शक्तिः द्विविधा द्विमकारा – स्थूल-सूक्ष्मभावात् , तत्र सूक्ष्मा समाधिबलेन अनुभूयमाना, स्थूलाकृतिः पण्डितपामराद्यभि- लपनयोग्या वर्णावल्यास्थिता सर्वदा वर्तमाना । एतदेव व्याचष्टे 'सूक्ष्मा नवनादमयी स्थूला नववर्णात्मा' इति ।

३२ कामकलाविलासः अयमर्थः - मित्रावरुणसदनात् वायुनिरोधनेन स्वाधिष्ठाना- दिकमलभेदपुरःसरं द्वादशान्तारविन्दासनस्थपरमशिवाङ्कम् उपसर्पन्ती महामातृका कुण्डलिनी बहुविधनादात्मिका या अनुभूयते, सा समाधिसमधिगतसर्वार्थैर्महामाहेश्वरैः स्वात्म- त्वेन मन्यते । नवनादमयी इति, - चिणीति प्रथमः, चिणि- चिणीति द्वितीयः, घण्टानादस्तृतीयः, शङ्खनादश्चतुर्थः, पञ्चमस्तन्त्रीनादः, षष्ठस्तालनादः, सप्तमो वेणुनादः, अष्टमो भेरीनादः, नवमो मृदङ्गनादः । भूतलिप्याख्या - भूताश्च ते लिपयश्च भूतलिपयः, अत्र लिपीनां भूतत्वम् चेष्टाविशेषाक्ष- रन्यासाभिव्यङ्ग्यत्वम्, तच्च कल्पनामात्रमेव - अक्षराणां तेजोरूपशक्त्यात्मकत्वात् तेषामाख्या अभिधा यस्याः, सूक्ष्म- रूपा हि मध्यमा स्थूलरूपायाः कारणभावम् आपन्ना एका एव, इत्यत आह - आद्या कारणमित्यादि, आद्या पूर्वोक्ता सूक्ष्मा कारणं - प्रथमोद्भवात्, अन्या स्थूला कार्यं - तज्जन्य- त्वात्, यतः तस्मात् कारणात् अनयोः सूक्ष्म-स्थूलयोः कार्यकारणभावः, ततो हेतोः - तेन कारणेन, इयं स्थूला सैव सूक्ष्मा शक्तिरेव, नहि भेदः - भेदो नास्त्येव । ननु कथम् अभेदे कार्यकारणभावः ? इत्यत्राह - तादात्म्यमिति, तादा- त्म्यं - भेदाभेदरूपं, हेतुहेतुमत् - जन्यजनकरूपम्, अभी-

श्रीमत्पुण्यानन्दाचार्यविरचितः ३३ ष्टम् – मृद्धटवत् वाचारम्भणमात्रत्वात् एकमेव वस्तु उभय- विधं भवति सर्ववेदान्तसंमतमित्यर्थः ॥ २७ ॥ २८ ॥ अनन्तरं मध्यशृङ्गाटतेजःप्रसरणात्मकवसुकोणादिचक्रनि- रूपणद्वारा वैखरीशक्त्याविर्भावम् आह श-ष-स-पवर्गमयं तद्वसुकोणं मध्यकोणविस्तारः । नवकोणं मध्यं चे- त्यस्मिंश्चिद्दीपदीपिके दशके ॥२९॥ श-ष-स-पवर्गमयं,-श-प-स-पवर्गात्मकाष्टकोणस्य विस्तारो विकासभूतः, तत्तादृशमध्यत्रिकोणसहितं नवकोणं मध्यं च बैन्दवाख्यं संहत्य दशके अस्मिंस्त्रिकोण-वसुकोणचिद्दीपदीपिके ‘बैन्दवासनसंरूढसंवर्तनलचिद्घनम् ।’ इत्युक्तरीत्या बिन्दुचक्राधिरूढायास्तेजोभूते-त्रिपुरायाः प्रभा- पटलमकाशिते इत्यर्थः ॥ २९ ॥ तच्छायाद्वितयमिदं दशारचक्रद्वयात्मना विततम् । 5

३४ कामकलाविलासः तस्य पूर्वोक्तस्य तेजोराशिमयस्य चक्रत्रितयस्य, च्छाया- द्वितयं कान्तिद्वितयं – सर्वरक्षाकर-सर्वार्थसाधकाभिधचक्रद्वया- त्मना परिणतम् इत्यर्थः । तथा च उक्तम् ‘ नवत्रिकोणस्फुरितप्रभारूपदशारकम् । ’ इति ॥ तच्चक्रद्वयस्वरूपं व्याचष्टे त-ट-च-कवर्गचतुष्टय- विलसनविस्पष्टकोणविस्तारम् ॥ ३० ॥ तवर्ग-टवर्गात्माक्षरदशकरूपम् अन्तर्दशारम्, चवर्ग-कव- र्गात्मकाक्षरदशाररूपम् बहिर्दशारमित्यर्थः ॥ ३० ॥ एतच्चतुष्कप्रभया समुपेतं दशारपरिणामः । एतच्चक्रचतुष्कस्य – बिन्दु-त्रिकोण-वसुकोणान्तर्दशारात्म- कचक्रचतुष्कस्य प्रभा कान्तिस्तया, समुपेतं संयुक्तं, दशारप- रिणामः – बहिर्दशारचक्रमिति यावत्, बहिर्दशारचक्रस्य बै-

श्रीमत्पुण्यानन्दाचार्यविरचितः ३६ न्द्वादिचक्रचतुष्टयसंनिधानादेव तात्पर्यं, तत्तत्प्रभा व्याप्नोति इत्यर्थः। तथा च उक्तम् ‘ चतुश्चक्रप्रभारूपसंयुक्तपरिणामतः । ’ इति ॥ अथ एतच्चक्रचतुष्कस्य त्रिकोण-वसुकोण-दशारद्वयरूपस्य स्वरूपमाह आदिस्वरचतुर्दश- वर्णमयाश्रं चतुर्दशारमभूत् ॥ ३१ ॥ अकारादिचतुर्दशवर्णात्मचतुर्दशकोणसहितं सर्वसौभाग्य- दायकाभिधं चक्रमित्यर्थः ॥ ३१ ॥ एवं बैन्दवादिमनुकोणान्तपर्यन्तचक्रवर्णनद्वारा वैखरीश- क्तिराविर्भूता इत्याह परया पश्यन्त्यापि च मध्यमया स्थूलवर्णरूपिण्या । आभिरेकोनपञ्चा- शदक्षरात्मा वैखरी जाता ॥ ३२ ॥

३६ कामकालाविलासः अयमर्थः – आदि-क्षान्ताक्षरराशिमयाखिलप्रपञ्चनिर्मात्री सर्वशब्दात्मिका वैखरी इति ॥ ३२ ॥ इतः परं सर्वसंक्षोभण-सर्वाशापरिपूरकाभिधचक्रद्वयं वैख- रीवर्णात्मकमेव, - इत्याह कादिभिरष्टभिरुपचित- मष्टदलाब्जं च वैखरीवर्गैः ॥ स्वरगणसमुदितमेतद् द्व्यष्टदलाम्भोरुहं च संचिन्त्यम् ॥ ३३॥ वैखरीवर्गैः – वैखरीशक्तिस्वरूपैः, अष्टभिः कादिभिः, उपचितं – सम्यक् प्रोतम्, अष्टदलाब्जं च – सर्वसंक्षोभणच- क्रम् । तथा स्वरगणसमुदितम् – स्वरगणैः अकारादिषोडश- वर्णैः, समुदितं सम्यक् भावितम्, एतत् – परिदृश्यमानं, द्व्यष्टदलाम्भोरुहं – सर्वाशापरिपूरकचक्रम्, संचिन्त्यम् – सदा भावनीयम् इत्यर्थः ॥ ३३ ॥ बिन्दुत्रयमयतेज- स्त्रितयविकारं च तानि वृत्तानि ।

३. तृतीय भाग: श्रीचक्र-सामरस्य, आत्म-साक्षात्कार एवं उपसंहार (श्लोक ३६-५५)

श्रीमत्पुण्यानन्दाचार्यविरचितः ३७ भूबिम्बत्रयमेतत् पश्यन्त्यादित्रिमातृविश्रान्ति ॥ ३४ ॥ तानि वृत्तानि - मन्वश्रोपरि अष्टदलपद्मोपरि षोडशदल- पद्मोपरि च स्थितानि, बिन्दुत्रयं - पूर्वोक्तरक्तशुक्रमिश्रात्मकं, तन्मयं यत् तेजस्त्रितयं - सोम-सूर्याग्निरूपं, तद्विकारस्तन्मयानि इत्यर्थः । तत्र वृत्तस्थतेजस्त्रयात्मकत्वकथनेन सोमसूर्यानलत्रि- खण्डमयत्वं चक्रस्योक्तं, तद्विकारश्चेति तानि वृत्तानि, 'वेदाः प्रमाणम्' इति-वत् द्रष्टव्यम् । भूबिम्बत्रयम् - अणिमादि- ब्राह्म्यादि-सर्वसंक्षोभिणीमुद्रादिशक्तिकदम्बकवासनाभूतं, पश्यन्त्यादित्रिमातृविश्रान्ति - पश्यन्ती-मध्यमा-वैखरीशक्तय एतावत्पर्यन्तं विजृम्भमाणाः त्रिकोणादि-भूपुरपर्यन्तश्री- चक्रात्मना चकासत इत्यर्थः । एतच्च 'आत्मनः स्फुरणम्' इत्यारभ्य 'वैखरी विश्वविग्रहा' इत्यन्तेन ग्रन्थजालेन सम्यक् ईरितम् ॥ ३४ ॥ एवं 'मध्यं चक्रस्य स्यात्' इत्यादि उपक्रम्य 'पश्यन्त्या- दित्रिमातृविश्रान्ति' इत्यन्तं श्रीमहात्रिपुरसुन्दर्याः श्रीचक्रं सम्यक् निरूप्य, अनन्तरं 'अणिमादिभूतयोऽस्याः' इत्यन्तं तस्या आवरणचक्रान्तर्गतशक्तिनिकुरम्ब-तन्निकटस्थितश्रीगु- रुमण्डलमपि श्रीदेव्यवयवपरिणतिरूपमेव, इत्याह

३८ कामकलाविलासः क्र Towक्रमणं पदविक्षेपः क्रमोदयस्तेन कथ्यते द्वेधा । आवरणं गुरुपङ्क्ति- द्वयमिदमम्वापदाम्बुजप्रसरम् ॥ ३५ ॥ क्र Towक्रमणं पदक्रमः, स च द्विविधः – पदविक्षेपरूपः क्रमोदय- रूपश्च, तत्र पदविक्षेपो नाम सुन्दर्यश्रानन्तकोटिकिरणात्मका- नन्तशक्तिजननसामर्थ्यं, क्रमोदयो नाम दिव्य-सिद्ध-मानवौ- घरूपानन्तप्रकाशात्मकश्रीगुरुमण्डलात्मकतया प्रसरणम् । एतद्द्वन्द्वचक्रद्वयं विवृणोति – आवरणमिति, आवरणचक्रस्थित- शक्तिनिकुरुम्बं 'मञ्चाः क्रोशन्ति' इतिवत् । गुरुपङ्क्तिः – गुरुमण्डलम्, इदं द्वयम्, अम्वापादाम्बुजप्रसरम् – अम्वाया- स्त्रिपुरायाः पादाम्बुजस्य श्रीपादयुगस्य प्रसरः प्रसरणं विजृ- म्भणम् इति यावत् ॥ ३५ ॥ तत्प्रसारसरणीं क्रमशॊ विवृणोति सेयं परा महेशी चक्राकारेण परिणमेत यदा ।

श्रीमत्पुण्यानन्दाचार्यविरचितः ३९ तद्देहावयवानां परिणतिरावरणदेवताः सर्वाः ॥ ३६ ॥ आसीना बिन्दुमये चक्रे सा त्रिपुरसुन्दरी देवी । कामेश्वराङ्कनिलया कलया चन्द्रस्य कल्पितोत्तंसा ॥३७॥ पाशाङ्कुशेशुचाप- प्रसूनशरपञ्चकाञ्चितस्वकरा । बालारुणारुणाङ्गी शशिभानुकृशानुलोचनत्रितया ॥ ३८ ॥ सेयम् अपरिच्छिन्नानन्ततेजोराशिमयी परा सर्वोत्कृष्टा अनन्तकोटियोगिनीवृन्दसमाराधितनित्यनिरवधिकातिशया- नन्दमयात्मसाम्राज्यसंपदभिमानशालिनी चक्राकारेण ‘चक्रं नवात्मकमिदं नवधा भिन्नमञ्चकम् ।’ इति बैन्दवादित्रैलोक्यमोहनान्तचक्रनवकात्मना,

४० कामकलाविलासः ‘स्फुरत्तामात्मनः पश्येत्…।’ इति पूर्णानन्दमयात्मावलोकनसमये परिणमेत आकारान्त- रेण, तद्देहावयवानां - तस्यास्त्रिपुरायाः देहः तेजःपुञ्जात्मकः, तथा अवयवाः किरणाः, तेषां परिणतिः अवस्थान्तरापत्तिः। इह आवरणदेवताः - वशिन्याद्यणिमाद्यनन्तशक्तिनिकुरम्बं चिदानन्दसमुद्रात्मकमेव सकाशत्वे फेन-बुद्बुद-तरङ्गादिवत् अनन्तकोटिशक्तयः प्रादुर्भावतिरोभावौ भजन्ति, इत्यर्थः। आसीनेत्यादि. विन्दुमये सर्वानन्दाख्यपरमाकाशे - ‘बैन्दवे परमाकाशे’ इत्युक्तत्वात् इत्यर्थः। चक्रे - आत्मसंक्रमविहारपीठे, आसीना उपरि प्रदेशे विराजमाना, सा देशकालाकारानवच्छिन्ना तत्स्वरूपिणी, त्रिपुरसुन्दरी सर्वकारणत्वेन स्पृहणीया स्वच्छा वा, कामेश्वराङ्कनिलया - कामेश्वरस्य श्रीनाथस्य, अङ्कं वामोरुभागः, निलयः आवासस्थानं यस्याः सा। तथोक्तं परमशिवेन ‘कला विद्या पराशक्तिः श्रीचक्राकाररूपिणी। तन्मध्ये बैन्दवं स्थानं तत्रास्ते परमेश्वरी॥ सदाशिवेन संपृक्ता सर्वतत्त्वार्थगर्भिणी।’ इत्यादि। देवी विश्वसृजनादिव्यापारविनोदिनी, पाशः

श्रीमत्पुण्यानन्दाचार्यविरचितः ४१ स्वात्मभेदबन्धन इच्छाशक्तिस्वरूपः, अङ्कुशः स्वरूपभेददल- नोपायात्मकः ज्ञानशक्तिमयः, इक्षुचाप-पुष्पेषुरूपके स्वाभि- न्नाकारावर्जसाधनभूतक्रियाशक्तिस्वरूपे । अयमर्थः इच्छा- ज्ञान-क्रियाशक्तय एव तदाज्ञया पाशादिस्वरूपम् आपन्नाः तदुपासनम् आचरन्ति इत्यर्थः । तथा च ‘ इच्छाशक्तिमयं पाशं ज्ञानमङ्कुशरूपिणम् । क्रियाशक्तिमये बाणधनुषी दधदुज्ज्वलम् ॥ ’ इति ॥ ३६ ॥ ३७ ॥ ३८ ॥ एतदेव दिव्यमिथुनं, दिव्यसिद्धाः – अविशेषभेदभिन्नगुरु- मण्डलस्वरूपम् उपासत इत्याह तन्मिथुनं गुणभेदाद्- आस्ते बिन्दुत्रयात्मके त्र्यश्रे । कामेश्वरिमित्रेश्वरि- प्रमुखद्वन्द्वत्रयात्मना विततम् ॥३९॥ तन्मिथुनं, तत्-सर्वातीतत्वेन सर्वोपनिषत्प्रसिद्धं कामका- मेश्वरीरूपम् । अयमर्थः – परमात्मा हि स्वात्मानमेव स्त्रीपुंस- मयं कृत्वा मिथुनरूपेण विहरते । प्रकाशविमर्शात्मना मिथुनी- 6

४२ कामकलाविलासः भूतः परमशिव एव सकलतन्त्रं समवतारयत्, इति । एवं च तत् मिथुनं कामकामेश्वरीरूपं - मित्रेश्वरी श्रीमदूर्ध्वदीपनाथः, वज्रेश्वरी ज्येष्ठनाथः, भगमालिनी मित्रदेवनाथः, एवमादि- मिथुनत्रयात्मना दिव्य-सिद्ध-मानवौघादिक्रमरूपेण विततं मिथुनत्रयं विसृतमित्यर्थः ॥ ३९ ॥ इतः परम् आवरणदेवतास्वरूपभावौ वर्णयति । वसुकोणनिवासिन्यो यास्ताः संध्यारुणा वशिन्याद्याः । पुर्यष्टकमेवेदं चक्रतनोः संविदात्मनो देव्याः ॥४०॥ वसुकोणनिवासिन्यः - सर्वरोगहराख्यचक्रनिवासशीलाः या वशिन्याद्या अष्ट शक्तयः पूर्णाहंभावानन्ददानसमर्थाः, कथमत्र रोगहरत्वं नाम पूर्णाहंभावप्रदत्वमेव 'अपूर्णमन्यता व्याधिः कार्पण्यैकनिधानभूः । ' इत्युक्तेः । एवं-भूताः ताः संध्यारुणाः अरुणाकारा भासन्ते इत्यर्थः । अत एव इदमष्टकोणचक्रं, संविदात्मनः - संवित् ज्ञानमेव आत्मा स्वरूपं यस्याः सा

श्रीमत्पुण्यानन्दाचार्यविरचितः ४३ ‘ सत्यं ज्ञानमनन्तम् ’ इति श्रुतेः ‘ स्वसंविन्त्रिपुरा देवी……………।’, इत्यागमाच्च, देव्याः ‘ बहु स्यां प्रजायेय ’ इति विहरणस्वभावायाः, श्रीचक्रतनोः – चक्रात्मिकायाः सूक्ष्मपुर्यष्टकशरीरम् इत्यर्थः ॥ ४० ॥ तद्विषयवृत्तयस्ताः सर्वज्ञादिस्वरूपमापन्नाः । अन्तर्दशारनिलया लसन्ति शरदिन्दुसुन्दराकाराः ॥४१॥ तद्विषयवृत्तयः – वसुकोणनिकटवासिन्यः, ताः – वस्त्रा- द्यात्मरूपरक्षणधारित्वेन प्रसिद्धाः, सर्वज्ञादिशक्तिदशकरूपं प्राप्ताः, अन्तर्दशारनिलयाः-सर्वरक्षाकराभिधेयचक्रसमारूढाः निगर्भयोगिन्यः, शरदिन्दुसुन्दराकाराः – स्वप्रकाशधवलाकृ- तयो लसन्ति – प्रकाशन्ते ॥ ४१ ॥

४४ कामकलाविलासः तद्वाह्यपङ्क्तिकोणेषु योगिन्यः सर्वसिद्धिदाः पूर्वाः । देवीधीकर्मेन्द्रिय- विषयमय्यो विशदवेशभूषाढ्याः ॥४२॥ तद्वाह्यपङ्क्तिकोणेषु तस्य सर्वरक्षाकरचक्रस्य बाह्यभूतेषु उपरिस्थितेषु पङ्क्तिकोणेषु सर्वार्थसाधके चक्रे तस्य कोणात्मक- त्वात् स्थिताः, योगिन्यः कुलकौलनामधेयाः, सर्वसिद्धिदाः, पूर्वाः - सर्वसिद्धिप्रमुखा दश शक्तयः, देवीधीकर्मेन्द्रियविषय- मय्यः - देव्यास्त्रिपुरायाः धीकर्मेन्द्रियाणि तेषां विषयास्तन्म- य्यस्तत्स्वरूपाः, विशदवेशभूषाढ्याः - विशदाः शुभ्राकारा वेशाश्च भूषाश्च तैराढ्याः । अयमर्थः - मन्त्रदेवतात्माभेदरूप- सिद्धिदायिन्यः स्वच्छाकृतयः शुभ्राभरणा भान्ते इत्यर्थः ॥ ४२ ॥ भुवनारचक्रभवना देवीमनुकरणविवरणस्फुरणाः । संध्यासवर्णवसनाः संचिन्त्याः संप्रदाययोगिन्यः ॥ ४३ ॥

श्रीमत्पुण्यानन्दाचार्यविरचितः ४५ भुवनारचक्रं सर्वसौभाग्यदायकं चक्रं भवनम् आवास- स्थानं यासां ताः, देवीमनुकरणानि - चतुर्दशकरणानि, ज्ञाने- न्द्रियाणि पञ्च, कर्मेन्द्रियाणि पञ्च, मनोबुद्ध्यहंकारचित्ता- ख्यानि चत्वारि तेषां विवरणं व्याख्यानभूतं स्फुरणं चतुर्द- शाररूपं यासां ताः, देवी तु स्वयमेव चतुर्दशकरणात्मकचतुर्द- शारचक्रदेवतात्मना स्थिता इत्यर्थः । संध्यायाः सवर्णं सदृशं वसनं वस्त्रं यासां ताः, संप्रदाययोगिन्यः आदिशक्तिमयत्वेन सत्संप्रदायवेद्याः सर्वसंक्षोभिणीप्रभृतयः, संचिन्त्याः सम्यक् भावनीयाः ॥ ४३ ॥ अव्यक्तमहदहंकृति- तन्मात्राभीष्टविकृताङ्गनाकाराः । द्विरदच्छदनसरोजे जयन्ति गुप्ततरयोगिनीसंज्ञाः ॥ ४४ ॥ अव्यक्तम् अव्यक्ताख्यं तत्त्वं, महत्तत्त्वम् , अहंकृतिः अहं- कारतत्त्वं, तन्मात्राः पृथिव्यादिभूततन्मात्राः पञ्च, संहत्य तु अष्ट, एतैरभीष्टं स्वीकृतमाकारं स्वरूपं यासां ताः - देव्या- त्मिका इत्यर्थः, । गुप्ततरयोगिनीसंज्ञाः भूतदेव्या अत्यन्तान्त-

४६ कामकलाविलासः रङ्गभूतत्वात् एतासामनङ्गकुसुमादीनां गुप्ततरेति संज्ञा । द्विरदच्छदनसरोजे सर्वसंक्षोभणाख्याष्टदलपद्मे, जयन्ति सर्वो- त्कर्षेण वर्तन्ते ॥ ४४ ॥ भूतानीन्द्रियदशकं मनश्च देव्या विकारषोडशकम् । कामाकर्षिण्यादि- स्वरूपतः षोडशारमध्यास्ते ॥ ४५ ॥ भूतानि पृथिव्यादीनि, इन्द्रियदशकं, मनश्च, षोडशारं - सर्वाशापरिपूरकनामधेयं चक्रं, कामाकर्पण्यादिस्वरूपतः - कामाकर्पिण्यादिषोडशशक्त्याकारेण, अध्यास्ते अधितिष्ठति । सर्वाशापरिपूरके चक्रे एताः कामाकर्पण्यादिगुप्तयोगिन्यः सर्वात्मिका निवसन्ति इत्यर्थः ॥ ४५ ॥ मुद्रास्त्रिखण्डया सह संविन्मध्यः समुच्छ्रिताः सर्वाः । आदिमहीगृहवासा भासा बालार्ककान्तिभिः सदृशाः॥४६॥