भारतकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

१७६ सटीके कामसूत्रे [ ३ अधिकरणे,

१७६ सटीके कामसूत्रे [ ३ अधिकरणे,

सा प्रीतियोगमप्राप्ता तेनोद्वेगेन दूषिता । पुरुषद्वेषिणी वा स्याद्विद्विष्टा वा ततोऽन्यगा ॥ ४४ ॥

इति श्रीवात्स्यायनीये कामसूत्रे कन्यासम्प्रयुक्तके तृतीयेऽधिकरणे कन्याविस्रम्भणं द्वितीयोऽध्यायः ।

अतिलज्जाऽन्वितेति । अस्मात्कारणात्कन्या नोपेक्षणीया, अनेन त्रिरात्रं निर्वचनं पश्यन्ती निर्विद्येत, परिभवेच्चेत्यस्य प्रपञ्चः, सहसेति। अनेनापि न प्रसह्य किं चिदाचरेदित्यस्य प्रपञ्चः, उपक्रान्तेति। उपसर्पिता, भयं यतो दर्शनपथेऽपि न तिष्ठति, वित्रासं तत्स्मरणाच्छरीरविधूननम्, उद्वेगं भोजनादिभ्यो व्यावर्तनम्, प्रीतियोगमप्राप्ता, लज्जाऽन्वितेत्यु-पेक्षितत्वाद्, उद्वेगेन दूषिता, सहसोपक्रान्तत्वात्, पुरुषद्वेषिणी स-र्वान्पुरुषान्द्वेष्टि, सर्वोऽप्येवंविध इति द्विष्ठा प्रीतियोगमप्राप्तत्वात्, ततश्च तं मुक्त्वाऽन्यं पुरुषं गच्छति ।

इति कन्याविस्रम्भणं पञ्चविंशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाSSख्यायां कन्या-संप्रयुक्तके तृतीयेऽधिकरणे कन्याविस्रम्भणं द्वितीयोऽध्यायः ।


तृतीयोऽध्यायः ।

वरणसंविधानपूर्वकमधिगतायां विस्रम्भणमुक्तं, या तु व्रिय-माणा न लभ्यते, तत्र गान्धर्वादयश्चत्वारो विवाहाः, तत्रालाभकारणा-न्येव तावदाह—

धनहीनस्तु गुणयुक्तोऽपि, मध्यस्थगुणो हीनापदेशो वा, स-धनो वा प्रातिवेश्यो, मातापिताभ्रातृषु च परतन्त्रो, बालवृत्तिरु-चितप्रवेशो वा कन्यामलभ्यत्वान्न वरयेत् ॥ १ ॥ बाल्यात्प्रभृति चैनां स्वयमेवानुरञ्जयेत् ॥ २ ॥ तथायुक्तश्च मातुलकुलानुवर्ती द-क्षिणापथे बाल एव मात्रा च वियुक्तः परिभूतकल्पो धनोत्कर्षाद-लभ्यां मातुलदुहितरमन्यस्मै वा पूर्वदत्तां साधयेत् ॥ ३ ॥ अन्या-मपि बाह्यां स्पृहयेद् बालायामेवं सति धर्माधिगमे संवननं श्ला-घ्यमिति घोटकमुखः ॥ ४ ॥

३ अध्याये ] बालोपक्रमप्रकरणम् । १७७

३ अध्याये ] बालोपक्रमप्रकरणम् । १७७

धनहीनस्त्वभिजनादिगुणयुक्तोऽपि दरिद्रः कन्यां न लभते, मध्यस्थगुणो हीनापदेशो वेति । मध्यस्था रूपशीलादयो गुणाः, अभिजनः-प्रधानं तदभावादीनव्यपदेशः, सधनो वा प्रातिवेश्य इति । स्वगृहसमीपवासी सीमासम्बन्धेन कलहादिजनकत्वाद् धनगर्वान्न लभते, मातापित्रोर्भ्रातृषु च सत्सु, परतन्त्रोऽन्यप्रधानः सधनोऽपि न लभते, बालवृत्तरुचितप्रवेशो वेति । यो लाडीकवद् दृश्यते सोऽनिषिद्धगृहप्रवेशोऽपि परिभवान्न लभते, यदि न वरयेत्कथमधिगच्छेदित्याह-बाल्यादिति । अनुरञ्जयेद् , अनुरक्ता हि स्वयमेव गान्धर्वेण विवाहेन पाणिं ग्राहयति, यतः 'स्वयं संयोगे गान्धर्वः' इति, तस्मादनुरञ्जनार्थं बालायामुपक्रमादनेकप्रकारा उच्यन्ते, यत्र च देशे प्रायेणैवंविविधा वृत्तिस्तामधिकृत्याह-तथायुक्तश्चेति । धनहीनत्वादियुक्तः, दक्षिणापथ इति । तत्र हि मातुलदुहिता परिणीयते, वियुक्तः पित्रोर्मृतत्वात्परिभूतकल्पो मातुलकुलगतः, अन्यस्मै वा पूर्वदत्तामदत्तां वा, अन्यामपि बाह्यामिति । या मातुलदुहिता न भवति पित्रोः सम्बन्धबाह्या तामपि स्पृहयेत् , तत्र कर्तुः क्रिययाऽऽप्तुमिष्टतमत्वेन विवक्षितत्वात्कर्मत्वम्, अनेनान्यस्मिन्नपि देशे विधिरयमिति दर्शयति, बाल्यात्प्रभृति सति धर्माधिगमे बालायां धर्मार्थमधिगमे सन्दर्शनालापलक्षणे सति संवननं वशीकरणमनुरञ्जनलक्षणं-श्लाघ्यम्, अन्यथा दर्शनात्कथं संवननं स्याद्, धर्म्यश्च गान्धर्वोविवाहः, यथोक्तं—'तत्र पूर्वं धर्म्याश्चत्वारः, षडित्येके' ॥ २ ॥ ३ ॥ ४ ॥

उपक्रान्तो वरो द्विविधो, बालो युवा च, तत्र पूर्वमधिकृत्यानुरञ्जनमाह—

तया सह पुष्पावचयं ग्रथनं गृहकं दुहितृकाक्रीडायोजनं भक्तपाककरणमिति कुर्वीत परिचयस्य वयसश्चानुरूप्यात् ॥ ५ ॥

तयेति । बालया, अवचयमुच्चपादपाद् , ग्रथनं पुष्पाणां, गृहकं-काष्ठमयं मृण्मयं वा स्वल्पं, दुहितृका सूत्रदारर्वादियमयी, भक्तपाककरणमिति । सङ्कक्तं तण्डुलैरितरत्पांसुभिः, परिचयस्य वयसश्चेति । आत्मनः स्वल्पमधिकं वा परिचयं, बाल्यं तारुण्यं वा वयो बुद्ध्वा तदनुरूपमाचरेद् नोक्तमित्येव ॥ ५ ॥

आकर्षंक्रीडापट्टिकाक्रीडामुष्टिद्यूतक्षुल्लककाद्यूतानि मध्यमाङ्गुलिग्रहणं षट्पाषाणकादीनि च देश्यानि तत्सात्म्यात्तदाप्तदासचेटिकाभिस्तया च सहानुक्रीडेत ॥ ६ ॥

आकर्षंक्रीडा पाशकक्रीडा, पट्टिकाग्रथनम्, मुष्टिद्यूतं प्रसिद्धं, क्षु-

२३ का० सू०

१७८ सटीके कामसूत्रे [ ३ अधिकरणे,

ल्लकद्यूतं पञ्चसमयादि, मध्यमाङ्गुलिग्रहणमिति । अङ्गुलिविपर्यासेन गोपितुर्मध्यमाङ्गुलेर्ग्रहणं, षट्पाषाणकादीनीति । यत्र स्वल्पानि षट्पाषाणानि हस्तस्य क्रोडेनोत्क्षिप्य पृष्ठेन गृह्यन्ते, आदिशब्दादन्यानि च देश्यानि पञ्चिकाप्रसृतकादीनि, तत्साम्यादिति । यत्र नायिकाया अभिनिवेशः, तदाप्तदासचेटिकाभिश्चित । तस्या ये दासाश्चेटिकाश्च ताभिः क्रीडन्ताभिः सहानुक्रीडेत ततोलब्धप्रसरतया च ॥ ६ ॥

श्वेडितकानि सुनिमीलितिकामारब्धिकां लवणवीथिकामनिलताडितिकां गोधूमपुञ्जिकामङ्गुलिताडितिकां सखीभिरन्यानि च देश्यानि ॥ ७ ॥

श्वेडितकानि येष्वङ्गव्यायामाः, तान्याह—सुनिमीलितिकामिति । यत्रैकस्य कश्चिन्नेत्रे निमीलयति शेषाः प्रच्छन्नेष्वात्मानं गोपायित्वा तिष्ठन्ति, ततोऽसावुन्मीलितचक्षुर्यं गृह्णाति तस्य नेत्रनिमीलनमिति, आरब्धिकां, हस्तेन छोटिकां दत्त्वा यत्र पलायते परस्य संग्रहार्थं तां क्रीडामारब्धिकामनाडुः, लवणवीथिकां लवणवीथिकाभ्यांकृतयोस्तद्वीथिकान्तरयोर्मध्ये लवणे स्वस्थानमाक्राम्यति तदा लवणयोगो भवति तां क्रीडां, लवणहार इति प्रतीताम्, अनिलताडितिकां, यत्र पक्षवद् भ्रमणं, गोधूमपुञ्जिकामिति । गोधूमग्रहणं व्रीह्युपलक्षणं, यत्र बहूनामेकः प्रत्येकं रूपकानादाय व्रीहिषु क्षिप्त्वा संमिश्र्य च तावतो भागान्करोति, अतस्ते यथेच्छमेकैकं भागमादाय रूपकमन्विष्यन्ते, तत्र यो न लभते सोऽन्यद्ददाति, अङ्गुलिताडितिकामिति । यत्रैकं निमीलितनेत्रमन्यैर्ललाटे आहत्य केनाभिहतोऽसीति? पृष्टो यमाघातकरंचेत्तयति स आहन्यते, अन्यानि च देश्यानि मण्डूकिकैकपादिकादीनि, एते प्रायशो बालस्योपक्रमाः ॥ ७ ॥

यूनस्तु ये प्रायशस्तानाह—

यां च विश्वास्यामस्यां मन्यते तया सह निरन्तरां प्रीतिं कुर्यात् परिचयाच्च बुध्येत ॥ ८ ॥

अस्यामिति । नायिकायां विश्वास्यां, निरन्तररामनवच्छिन्नां प्रीतिं कुर्याद्, साऽपि हि धात्रेयिका मत्कार्यं करिष्यतीति परिचयाच्चावबुध्येत, प्रीतिं किमप्यस्यामपि करोतीति ॥ ८ ॥

धात्रेयिकां चास्याः प्रियहिताभ्यामधिकमुपगृह्णीयात्, सा हि प्रीयमाणा विदिताकाराऽप्यप्रत्यादिशन्ती तं तां च योजयितुं श-

३ अध्याये ] बालोपक्रमप्रकरणम् । १७९

३ अध्याये ] बालोपक्रमप्रकरणम् । १७९


क्नुयादनभिहिताऽपि प्रत्याचार्यकम् ॥ ९ ॥

धात्रेयिकां धात्र्या दुहितरम्, प्रियं तदात्वे सुखकरं, हितमायत्याम्, अधिकोपग्रहे फलमाह—सा हीति । प्रीयमाणा स्निह्यमाना, विदिताकाराऽपीति । नायको नायिकामिच्छतीति ज्ञाताभिप्रायाऽपि, अप्रत्यादिशन्ती तमिति । नायकमप्रत्याचक्षाणा, तां चेति । नायिकांभयलज्जाव्यपनयनेन प्रतार्य योजयितुं शक्नुयाद्, अनभिहिताऽपि प्रत्याचार्यकमिति । संयोजने त्वमाचार्या भवेत्येतत्प्रति, नायकेनानुक्ताऽपि सती योजयितुं शक्नुयादिति योज्यम् ॥ ८ ॥

अविदिताकाराऽपि हि गुणानेवानुरागात्प्रकाशयेद्, यथा प्रयोज्याऽनुरज्येद् ॥ १० ॥

अविदिताकाराऽपीति । यद्यपि नायक एनामिच्छतीति न ज्ञातवती तथाऽपि गुणानेव प्रकाशयेद्; अनुरागादिति । नायकविषये धात्रेयिकाऽनुरागाद् ॥ १० ॥

यत्र यत्र च कौतुकं प्रयोज्यायास्तदनुप्रविश्य साधयेत् ॥११॥

यत्र यत्र चेति । प्रतारणप्रकारे, तदनुप्रविश्येति । विज्ञाय, साधयेदिति । संपादयेत् ॥ ११ ॥

क्रीडनकद्रव्याणि यान्यपूर्वाणि यान्यन्यासां विरलशो विद्येरंस्तान्यस्या अयत्नेन संपादयेत् ॥ १२ ॥

क्रीडनकद्रव्याणि वक्ष्यति, अन्यासामिति । कन्यायां, विरलशो, न बाहुल्येन, अयत्नेनेति । संपादनसामर्थ्यं दर्शयति ॥ १२ ॥

तत्र कन्दुकमनेकभक्तिचित्रमल्पकालान्तरितमन्यदन्यच्च संदर्शयेद्, तथा सूत्रदारुगवलगजदन्तमयीर्दुहितृका मधूच्छिष्टपिष्टमय्यीश्च ॥ १३ ॥

क्रीडनकद्रव्याण्याह—कन्दुकमिति । अल्पकालान्तरितमिति । कौतुकप्रबन्धाभ्युपगमार्थम्, अन्यदन्यं भक्तीनां वैसादृश्याद्, दारु=काष्ठं,-गवलं=शृङ्गं, दुहितृकाः=पुत्रिकाः, संदर्शयेदित्येव, मधूच्छिष्टं सिक्थम्१३

भक्तपाकार्थमस्या महानसिकस्य च दर्शनं काष्ठमेढ्रकयोश्च, संयुक्तयोः स्त्रीपुंसयोरजैडकानां देवकुलगृहकानां मृद्विदलकाष्ठविनिर्मितानां शुकपरभृतमदनसारिकालावककुक्कुटतित्तिरिपञ्जरकाणां च विचित्राकृतिसंयुक्तानां, जलभाजनानां च यन्त्रकाणां-

१८०सटीक कामसूत्रे[ ३ अधिकरणे,

वीणिकानां पिण्डोलिकानां पटोलिकानामलक्तकमनःशिलाहरिता-
लहिङ्गुलकश्यामवर्णकादीनां, तथा चन्दनकुङ्कुमयोः पूगफलानां
पत्राणां कालयुक्तानां, च शक्तिविषये प्रच्छन्नं दानं प्रकाशद्रव्याणां
च प्रकाशं, यथा च सर्वाभिप्रायसंवर्धकमेनं मन्येत तथा प्रयति-
तव्यम् ॥ १४ ॥

महानसिकस्येति। महानसविषयं कर्म महानसिकमित्युक्तम्, भक्तग्र-
हणमुपलक्षणार्थम् भक्तादिपाकार्थस्य कर्मणस्तत्तच्छास्त्रोक्तेन विधिना
दर्शनं, स्त्रीणां प्रधानविद्यात्वाद्, संयुक्तयोरिति। एककाष्ठघटितयो-
स्त्रीपुंसयार्मेढ्रकयोरविप्रयोगार्थं दर्शनम्, अजैडकानां काष्ठमयानाम्,
उपलक्षणार्थत्वाद् गवाश्वादीनां च, मृदा वंशविदलैः काष्ठैर्वा विनिर्मि-
तानां देवकुलानां देवगृहाणां च, शुकादिपञ्जराणां मृदादिनिर्मितानां-
तत्र मदनसारिका पठति, जलभाजनानां शङ्खशुक्तिखण्डानां मृत्काष्ठशि-
लानिर्मितानां, विचित्राणां वर्णिकयाऽऽकृतियुक्तानां संस्थानवतां,-
यन्त्रकाणामिति । यन्त्रमातृकोक्तानां, वीणिका स्वल्पवीणा, पिण्डो-
लिका यत्र दुहितृकाः स्थाप्यन्ते, पटोलिका यत्र प्रसाधनं विधीयते,
श्यामवर्णकं राजावर्तचूर्णं चित्रकर्मोपयोगि पत्राणि ताम्बूलस्य,
कालयुक्तानामिति । यस्मिन्काले येनार्थिनी, तत्र तस्य दर्शनमित्यर्थः,
शक्तिविषय इति । यस्मिन् प्रच्छन्ने स्वयं प्रवेष्टुं सामर्थ्यं तत्र दानं, कुङ्कु-
मादीनामप्रकाशयत्वात्, प्रकाशद्रव्याणां कन्दुकादीनां प्रकाशदानं, तैरेव
कल्पनीयत्वाद्, सर्वाभिप्रायसंवर्धकमिति । सर्वाभिलाषपूर्वकं यद्यन्म-
मेप्सितं तत्तत्संपादयतीति, दीयमानं च यथा प्रच्छन्नमर्थयेत् ॥ १४ ॥

किंनिमित्तमित्याह--

वीक्षणे च प्रच्छन्नमर्पयेत्, तथा कथायोजनम् ॥ १५ ॥

वीक्षणे चेति। दर्शननिमित्तम्, प्रच्छन्ने दृश्यमाना निःशङ्कमुपच-
र्यते; तथा कथायोजनमिति । अन्यमुखेन संवर्धनार्थं च कथां यो-
जयेत् ॥ १५ ॥

प्रच्छन्नदानस्य तु कारणमात्मनो गुरुजनाद्भयं ख्यापयेद्,
देयस्य चान्येन स्पृहणीयत्वमिति ॥ १६ ॥

प्रच्छन्नस्य तु कारणमुभयं, तत्रात्मनो गुरुजनाद्भयं ख्यापयेत्,
तच्च पितरौ रुष्यत इति, अन्येन स्पृहणीयत्वमिति । अन्योऽप्येतद् दृष्ट्वा
स्पृहयति ततश्च गृह्णीयादिति ॥ १६ ॥

३ अध्याये ] बालोपक्रमप्रकरणम् । १८१

३ अध्याये ] बालोपक्रमप्रकरणम् । १८१

वर्धमानानुरागां चाख्यानके मनः कुर्वतीमन्वर्थाभिः कथाभि-
श्चित्तहारिणीभिश्च रञ्जयेत् ॥ १७ ॥

अन्वर्थाभिः, स्वयं प्रयुक्ताभिः शकुन्तलाराजदारिकाभिः, चित्तहारिणीभिरन्याभिरनुरागयुक्ताभिः ॥ १७ ॥

विस्मयेषु प्रसज्यमानामिन्द्रजालैः प्रयोगैर्विस्मापयेत्, कलासु
कौतुकिनीं तत्कौशलेन, गीतप्रियां श्रुतिहरैर्गीतैः, आश्वयुज्यामष्ट-
मीचन्द्रके कौमुद्यामुत्सवेषु यात्रायां ग्रहणे गृहाचारे वा विचित्रै-
रापीडैः कर्णपत्रभङ्गैः सिक्तकप्रघानैर्वस्त्राङ्गुलीयकभूषणदानैश्च नो
चेद्दोषकराणि मन्येत ॥ १८ ॥

विस्मयेषु प्रसज्यमानामिति । आश्चर्य्येषु प्रसक्तिं यान्तीं, कलासु पत्रच्छेद्यादिषु, गीतप्रियामिति । कलान्तर्गतमपि पुनर्गीतग्रहणं प्राधान्यार्थम्, प्रायेण हि गीतप्रियो लोकः, आश्वयुज्यां कौजागरे, अष्टमीचन्द्रके, मार्गशीर्षबहुलाष्टम्यां, तत्र हि दिनमुपोष्योदिते चन्द्रमसि भुज्यते, कौमुद्यामिति । सामान्योपादानेऽपि यत्र कन्याभिर्ज्योत्स्नामण्डलपूजा क्रियते साऽत्र द्रष्टव्या सा कार्त्तिक्यां भवति, उत्सवेषु इन्द्रमहादिषु, यात्रायां देवतायाः, ग्रहणे सूर्य्याचन्द्रमसोः, गृहाचारे गृहमागतायाम्, आपीडादिभिर्विस्मापयेदिति सम्बन्धः, नो चेद्दोषकराणीति । तद्दाने यद्यात्मनोऽपार्थं न पश्येत् ॥ १८ ॥

अन्यपुरुषविशेषाभिज्ञतया धात्रेयिकाऽस्याः पुरुषप्रवृत्तां चा-
तुःषष्ठिकान्योगांग्राहयेत् ॥ १९ ॥

अन्यपुरुषविशेषाभिज्ञतयेति । अन्येभ्यः पुरुषेभ्यो मम विशेषं धात्रेयिका जानात्विति पुरुषप्रवृत्तां जातसंप्रयोगाम्, अन्यथा कथं विशेषमवैति ॥ १९ ॥

तद्ग्रहणोपदेशेन च प्रयोऽज्यायां रतिकौशलमात्मनः प्रकाश-
येत् ॥ २० ॥

तद्ग्रहणोपदेशेनेति । धात्रेयिकोपदेशद्वारेण, रतिकौशलमिति । तज्ज्ञताम् ॥ २० ॥

उदारवेषश्च स्वयमनुपहतदर्शनश्च स्यात् ॥ २१ ॥

अनुपहतदर्शन इति । अस्योपाय उदारवेषत्वम् ॥ २१ ॥

भावं च कुर्वतीमिङ्गिताकारैः सूचयेत् ॥ २२ ॥

बालायामुपक्रमाः षड्विंशं प्रकरणम् ॥

१८२ सटीके कामसूत्रे [ ३ अधिकरणे,

तथाभूतं तं च दृष्ट्वा, भावं कुर्वतीमनुरागं चेतसि जनयन्तीमिङ्गिताकारलिङ्गैर्विद्यात् ॥ २२ ॥

किमित्यनुपहतदर्शनः स्यादित्याह--

युवतयो हि संसृष्टमभीक्ष्णदर्शनं च पुरुषं प्रथमं कामयन्ते कामयमाना अपि तु नाभियुञ्जत इति प्रायोवाद इति बालायामुपक्रमाः ॥ २३ ॥

युवतय इति। जातयौवनाः, संसृष्टं जातपरिचयम्, अभीक्ष्णदर्शनं सदा दृश्यमानं, कामयन्त इति। इच्छन्ति, नाभियुञ्जते कया चिल्लज्जाऽऽश्चर्ययुक्त्या ॥ २३ ॥

बालायामुपक्रमाः षड्विंशं प्रकरणम् ॥

भावं च कुर्वतीमिङ्गिताकारैः सूचयेदित्युकं, तेषां सूचनं प्रकाशनमुच्यते, यदाह--

तानिङ्गिताकारान्वक्ष्यामः ॥ २४ ॥

तानिति। तत्रेङ्गितमन्यथा वृत्तिः, आकारो मुखनयनरागः, तदुभयमुत्तरत्र यथायोगं योज्यम् ॥ २४ ॥

संमुखं न वीक्षते, तं तु वीक्षिता व्रीडां दर्शयति ॥ २५ ॥

संमुखं न वीक्षत इति। लज्जया पराङ्मुखी, तं तु नायकं, वीक्षितेति। नायकेन, व्रीडां दर्शयति, अधोमुखी भूत्वा ॥ २५ ॥

रुच्यमात्मनोऽङ्गमपदेशेन प्रकाशयति ॥ २६ ॥

रुच्यमतिमनोहरम्, आत्मनोऽङ्गं स्तनबाहुमूलादि, अपदेशेनेति। प्रावरणव्याजेन ॥ २६ ॥

प्रमत्तं प्रच्छन्नं नायकमतिक्रान्तं च वीक्षते ॥ २७ ॥

प्रमत्तमन्वहितम्, प्रच्छन्नमेकाकिनम्, अतिक्रान्तं दूरगतम् ॥ २७ ॥

पृष्टा च किञ्चित्सस्मितमव्यक्ताक्षरमन्त्रासितार्थं च मन्दं मन्दमधोमुखी कथयति ॥ २८ ॥

पृष्टा च किञ्चिदिति। नायकेन, सस्मितमित्यादिनाऽनुरागोन्मुखता व्रीडा चाख्यायते ॥ २८ ॥

तत्त्समीपे चिरं स्थानमभिनन्दति ॥ २९ ॥

तत्त्समीप इति। नायकसमीपे ॥ २९ ॥

दूरे स्थिता पश्यतु मामिति मन्यमाना परिजनं सवदनवि·

३ अध्याये ] इङ्गिताकारसूचनप्रकरणम् । १८३

कारमाभाषते तं देशं न मुञ्चति ॥ ३० ॥

परिजनमिति । आत्मीयं, सवदनविकारमिति । सभ्रूभङ्गकटाक्षं,- तं देशमिति । यत्र स्थिता तं पश्यति ॥३०॥

यत्किञ्चिद् दृष्ट्वा विहसितं करोति तत्र कथामवस्थानार्थमनुबध्नाति ॥ ३१ ॥

तत्रैव यत्किञ्चिद् दृष्ट्वा विहसितं करोति तिर्यक्पश्यन्ती, तत्र कथामनुबध्नाति सखीं प्रोत्साह्य ॥ ३१ ॥

बालस्याङ्कगतस्यालिङ्गनं चुम्बनं च करोति, परिचारिकायास्तिलकं च रचयति ॥ ३२ ॥

बालस्येति । लाडीकस्य स्वाङ्कमारोपितस्य, चुम्बनावगूहनं च संक्रान्तकम्, परिचारिकायाः स्वस्यास्तिलकं रचयति नायकं पश्यन्ती ३२

परिजनानवष्टभ्य तास्ताश्च लीला दर्शयति ॥ ३३ ॥

परिजनानवष्टभ्येति । परिजनक्रोडापाश्रया, तास्ताश्चेति । केशविरचनाङ्गवलनविजृम्भिकाः ॥ ३३ ॥

तन्मित्रेषु विश्वसिति वचनं चैषां बहुमन्यते करोति च ॥ ३४ ॥

तन्मित्रेषु=नायकमित्रेषु, विश्वसिति स्वभावं प्रकटयति, वचनं चैषां बहुमानं कुरुते तदनुरूपाद्यनुष्ठानात् ॥ ३४ ॥

तत्परिचारकैः सह प्रीतिं संकथां द्यूतमिति च करोति ॥३५॥

तत्परिचारकैरिति । नायकपरिचारकैः ॥ ३५ ॥

स्वकर्मसु च प्रभविष्णुरिवैतानियुङ्क्ते ॥ ३६ ॥

एतानिति । नायकपरिचारकान् ॥ ३६ ॥

तेषु च नायकसंकथामन्यस्य कथयत्स्ववहिता तां शृणोति ३७॥

तेष्विति । परिचारकेषु, कस्य चिदन्यस्य कथयत्सु, तां संकथाम् ३७

धात्रेयिकया चोदिता नायकस्योदवसितं प्रविशति ॥ ३८ ॥

धात्रेयिकया चोदिता प्रविशात्र इति, उदवसितं गृहम् ॥ ३८ ॥

तामन्तरा कृत्वा तेन सह द्यूतं क्रीडामालापं चायोजयितुमिच्छति ॥ ३९ ॥

तामन्तरा कृत्वेति । धात्रेयिकां व्यवधानीकृत्य, नायकेन सह द्यूतादि नियोजयितुमिच्छति ॥ ३९ ॥

१८४ सठीके कामसूत्रे [ ३ अधिकरणे,

अनलङ्कृता दर्शनपथं परिहरति ॥ ४० ॥

दर्शनपथमिति । नायकस्य ॥ ४० ॥

कर्णपत्रमङ्गुलीयकं स्रजं वा तेन याचिता सधीरमेव गात्राद- वतार्य सख्या हस्ते ददाति तेन च दत्तं नित्यं धारयति ॥ ४१ ॥

सधीरमवतार्य किं ग्रहीष्यतीति, सख्या हस्त इति । लज्जया न त- द्धस्ते ददाति, नित्यं धारयति श्लाघ्यमाना ॥ ४१ ॥

अन्यवरसंकथासु विषण्णा भवति तत्पक्षकैश्च सह न संसृ- ज्यत इति ॥ ४२ ॥

तत्पक्षैरिति । अन्यवरपक्षैः ॥ ४२ ॥

प्रकरणद्वयमुपसंहरन्नाह—

दृष्ट्वैतान्भावसंयुक्तानाकारानिङ्गितानि च । कन्यायाः संप्रयोगार्थं तांस्तान्योगान्विचिन्तयेत् ॥ ४३ ॥

दृष्ट्वेति । एतानिति । आकारान्, इङ्गितानि चेति लिङ्गविपरिणामेन योज्यम्, भावसंयुक्तानीति । अनुरागसङ्गतान्, संप्रयोगार्थमिति । सं- प्रयोगोऽत्र समागमलक्षणो गान्धर्वो ज्ञेयः, योगानिति । अभियो- गान् ॥ ४३ ॥

त्रिविधा कन्या-बाला तरुणी प्रौढा चेति, यथाक्रममुपक्रममाह—

बालक्रोडनकैर्बाला कलाभियोंवने स्थिता । वत्सला चापि संग्राह्या विश्वास्यजनसंग्रहात् ॥ ४४ ॥

इति श्रीवात्स्यायनीये कामसूत्रे तृतीयेऽधिकरणे बालोपक्रमा- इङ्गिताकारसूचनं च तृतीयोऽध्यायः ।

बालक्रीडनकैरिति । कलाभिरनुरागिणी, वत्सला प्रौढा, यस्तस्या- विश्वास्यस्तदुपग्रहात्स्वीकर्तव्या ॥ ४४ ॥

इङ्गिताकारसूचनं सप्तविंशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां कन्यासं- प्रयुक्तके तृतीयेऽधिकरणे बालोपक्रमा इङ्गिताकारसूचनं च तृतीयोऽध्यायः ।

४ अध्याये ] एकपुरुषाभियोगप्रकरणम् । १८५

चतुर्थोऽध्यायः ।

शास्त्रकार एव प्रकरणसम्बन्धमाह—

दर्शितेङ्गिताकारां कन्यामुपायतऽभियुञ्जीत ॥ १ ॥

दर्शितेङ्गिताकारमिति । उपायत इति । उपाया एवाभियोगा अभि- युज्यते तैरिति, ते चासहायस्येत्येकपुरुषाभियोगा उच्यन्ते, ससहाय- स्यापि के चित्सम्भवन्ति, ते द्विविधाः—बाह्या आभ्यन्तराश्चेति ॥ १ ॥

तत्र पूर्वानधिकृत्याह—

द्यूते क्रीडनकेषु च विवदमानः साकारमस्याः पाणिमव- लम्बेत ॥ २ ॥

द्यूत इति । विवदमानो वाक्कलहं कुर्वन्, साकारं पाणिमवलम्बेत यथाऽवगच्छेद् 'अहमनेनोढेति' ॥ २ ॥

यथोक्तं च स्पृष्टकादिकमालिङ्गनविधिं विदध्यात् ॥ ३ ॥

स्पृष्टकादिकमिति । स्पृष्टकं विद्धकमुद्घृष्टकं पीडितकमिति, चतुष्ट- यमवसरप्राप्तत्वाद्यथायोग्यं विदध्यात् ॥ ३ ॥

पत्रच्छेदक्रियायां च स्वाभिप्रायसूचकं मिथुनमस्या दर्श- येत् ॥ ४ ॥

पत्रेति । स्वाभिप्रायसूचकं संप्रयोगसूचकं हंसादिमिथुनम् ॥ ४ ॥

एवमन्यद्विरलशो दर्शयेत् ॥ ५ ॥

एवमिति । अन्यदपि यन्मिथुनं भवति, तिलकादिकं साकारं, विर- लश इति । सततदर्शने हि ग्राम्यता सम्भाव्यते कौतुकं चापैति ॥ ५ ॥

जलक्रीडायां तद्दूररतोऽप्सु निमग्नः समीपमस्या गत्वा स्पृष्ट्वा चैनां तत्रैवोन्मज्जेत् ॥ ६ ॥

जलेति । स्पृष्ट्वा चैनामिति । निमग्न एव, तत्रैवोन्मज्जेद्, नायिकास- मीपे ॥ ६ ॥

नवपत्रिकादिषु च सविशेषभावनिवेदनम् ॥ ७ ॥

नवपत्रिकादिषु चेति । देश्यक्रीडासु, सविशेषभावनिवेदनमिति । पूर्वोक्तेनैव स्वाभिप्रायसूचकेन पत्रच्छेद्यादिना ॥ ७ ॥

आत्मदुःखस्यानिवेदेन कथनम् ॥ ८ ॥

आत्मदुःखस्य च कथनं 'न जाने किं कृत मम चेतसि पीडा' इति, तत्राप्यनिर्वेदेन भूयो भूयः प्रधानकार्यत्वात्कथनम् ॥ ८ ॥

२४ का० सू०

१८६ सटीक कामसूत्रे [ ३ अधिकरणे,

स्वप्नस्य च भावयुक्तस्यान्यापदेशेन ॥ ९ ॥

अन्यापदेशेनेति । त्वत्तुल्यवयोरूपया सहोपगमः स्वप्ने ममाभूदिति कथनम् ॥ ९ ॥

प्रेक्षणके स्वजनसमाजे वा समीपोपवेशनं तत्रान्यापदिष्टस्प- र्शनम् ॥ १० ॥

स्वजनसमाजः = स्वजनगोष्ठी, समीपोपवेशनमिति । नायिकायाः, तत्रेति । समीपे प्रेक्षणकादिषु, अन्यापदिष्टमन्यदपदिश्य स्पर्शनम् ॥ १०॥

अपाश्रयार्थं च चरणेन चरणस्य पीडनम् ॥ ११ ॥

अपाश्रयार्थमिति । अपाश्रयस्तदङ्गे स्वाङ्गस्थापनं, चरणस्य पीडनं- स्वचरणेन ॥ ११ ॥

ततः शनैर्कैरैकामङ्गुलिमभिमृशेत् ॥ १२ ॥

तत इति । तस्मात्सिद्धादुत्तरकाले, शनकैरिति । कियतीं काल- कलामतिक्रम्य तस्या अङ्गुलिमभिमृशेत् ॥ १२ ॥

पादाङ्गुष्ठेन च नखाग्राणि घट्टयेत् ॥ १३ ॥

पादाङ्गुष्ठेनेति । नखाग्राणि, घट्टयेच्चालयेत् ॥ १३ ॥

तत्र सिद्धः पदात्पदमधिकमाकाङ्क्षेत ॥ १४ ॥

तत्रेति । सिद्धो नखाग्रघट्टने, पदात्पदमिति । स्थानात्स्थानान्तरं- जघनोरुनितम्बादिकं स्प्रष्टुं सोपानक्रमेणाकाङ्क्षेत ॥ १४ ॥

क्षान्त्यर्थं च तदेवाभ्यस्येत् ॥ १५ ॥

क्षान्त्यर्थं चेति । सहनार्थम्, अभ्यस्येत् तदेव यत्पूर्वाभ्यु- पगतम् ॥ १५ ॥

आन्तरानधिकृत्याह—

पादशौचे पादाङ्गुलिसन्दंशेन तदङ्गुलिपीडनम् ॥ १६ ॥

पादशौच इति । पादधावनं ददत्याः स्वपादाङ्गुलिसन्दंशेन पी- डनम् ॥ १६ ॥

द्रव्यस्य समर्पणे प्रतिग्रहे वा तद्गतो विकारः ॥ १७ ॥

तद्गतो विकार इति । द्रव्यं पूगफलादिकं समर्पयता प्रतिगृह्णता वा द्रव्यगतो विकारः कार्यः, सनखस्पर्शमर्पयेत्प्रतिगृह्णीयादित्यर्थः ॥ १७ ॥

आचमनान्ते चोदकेनासेकः ॥ १८ ॥

आचमनान्त इति । उपस्पृष्टुं ददतीं तदन्ते जलचुलकेनाहन्यात् ॥ १८ ॥

४ अध्याये ] एकपुरुषाभियोगप्रकरणम् । १८७

विजने तमसि च द्वन्द्वमासीनः क्षान्तिं कुर्वीत समानदेशश- य्यायां च ॥ १९ ॥

द्वन्द्वमिति । साहचर्येणासीनः, क्षान्तं कुर्वीतेति । करस्पर्शादिना, त- त्काले लज्जाऽभावात्कन्यायाः, समानदेशशय्यायां च क्षान्तिं कुर्वीत॥१९॥

तत्र यथार्थमनुद्वेजयतो भावनिवेदनम् ॥ २० ॥

तत्रेति । आसने शयने च, यथार्थं भावनिवेदनमाकारेण न वाचा प्रत्याख्यानभयाद्, अनुद्वेजयत इति । यथा नोद्विजते ॥ २० ॥

यदा वाचा तदा विधिमाह—

विविक्ते च किंचिदस्ति कथयितव्यमित्युक्त्वा निर्वचनं, भा- वं च तत्रोपलक्षयेद् यथा पारदारिके वक्ष्यामः ॥ २१ ॥

विविक्ते चेति । 'किंचिदस्ति कथयितव्यम्' इत्येतावद्वक्तव्यं, 'किं- तद्' इति तयोच्यमाने निर्वचनं ब्रूयादित्यर्थः, तत्रेति । वचनोपन्यासे, भावं संप्रयोगाभिलाषमस्या लक्षयेत् , कथमित्याह-यथेति। तत्र प्रवृत्त्या भावपरीक्षां वक्ष्यति, इङ्गिताकारैश्च यद्भाववेदनं तदनुरागमात्रवेदन- मिति विज्ञेयम् ॥ २१ ॥

विदितभावस्याभ्यन्तरमभियोगमाह—

विदितभावस्तु व्याधिमपदिश्येनां वार्त्ताग्रहणार्थं स्वमुद्व- सितमानयेत् ॥ २२ ॥

विदितेति । व्याधिमपदिश्येति । कृतकं शिरःशूलादिकमपदिश्य, स्वमुद्वसितं स्वगृहम्, आनयेद् विश्वास्यया प्रहितया ॥ २२ ॥

आगतायाश्च शिरःपीडने नियोगः, पाणिमवलम्ब्य चास्याः- साकारं नयनयोर्ललाटे च निदध्यात् ॥ २३ ॥

शिरःपीडन इति । शिरो मे दुःखयति पीडय हस्तेनेति नियोगः ॥२३॥

औषधापदेशार्थं चास्याः कर्म विनिर्दिशेत् ॥ २४ ॥

औषधेति । यथा जानात्यस्मत्कृतेयमस्यावस्थेति कर्माणि दर्श- येत् ॥ २४ ॥

त्वयैवेदं कर्तव्यं, न ह्येतदृते कन्याया अन्येन कार्यमिति गच्छन्तीं पुनरागमानानुबन्धमेनां विसृजेत् ॥ २५ ॥

त्वयैवेति । त्वया साधितं सिद्धिदं भवतीति पुनरागमानानुबन्धं- पुनरागन्तव्यमित्येवंरूपम् ॥ २५ ॥

१८८ सटीक कामसूत्रे [ ३ अधिकरणे,

अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः ॥ २६ ॥

अस्येति । कन्यासाध्यस्य, त्रिरात्रं त्रिसंध्यं, प्रयुक्तिः = प्रयोगः, कार्यः ॥ २६ ॥

एतन्निर्देशे फलमाह—

अभीक्ष्णदर्शनार्थमागतायाश्च गोष्ठीं वर्धयेत् ॥ २७ ॥

अभीक्ष्णेति । गोष्ठीमिति । कलानामाख्यायिकानां वा येन तदासक्ता चिरं तिष्ठेदित्यर्थः ॥ २७ ॥

अन्याभिरपि सह विश्वासनाथमधिकमधिकं चाभियुञ्जीत न तु वाचा निर्वदेत् ॥ २८ ॥

अन्याभिरिति । यथाऽयमेकोऽभियुञ्जीत, तथाऽन्याभिरपि स्त्रीभिः सहाधिकमधिकं, किमर्थमिति चेत् ? तद्विश्वासनार्थं, ताभिः कार्यं विश्वसिति, न तु स्वयं वाचा निर्वदेत् ॥ २८ ॥

को दोष इत्याह—

दूरगतभावोऽपि हि कन्यासु न निर्वेदेन सिद्ध्यतीति घोटकमुखः ॥ २९ ॥

दूरेति । अत्यर्थजातविस्रम्भोऽपि न सिद्ध्यति, बहुशोऽभियोगापेक्षणीयत्वात्कन्यानां, घोटकमुखग्रहणं पूजार्थं तन्मतस्याप्रतिषिद्धत्वात्॥२९॥

यदा तु बहुसिद्धां मन्येत तदैवोपक्रमेत ॥ ३० ॥

यदा त्विति । बहुसिद्धां बहुभिरभियोगैः, गान्धर्वेण विधिना श्रोत्रियागारादग्निमाहृत्येत्यादिना कार्योन्मुखीमुपक्रमेत ॥ ३० ॥

तत्र कालमाह—

प्रदोषे निशि तमसि च योषितो मन्दसाध्वसाः सुरतव्यवसायिन्यो रागवत्यश्च भवन्ति न च पुरुषं प्रत्याचक्षते तस्मात्तत्कालं प्रयोजयितव्या इति प्रायोवादः ॥ ३१ ॥

प्रदोष इति । रात्रिप्रारम्भे, निशि = रात्रौ त्रियामालक्षणायां, तत्राप्यन्धकारे प्रतार्थ; योषिद्ग्रहणं सर्वस्त्रीप्रतिपत्त्यर्थम्, मन्दसाध्वसाः कैश्चिददृश्यमानत्वाद्, सुखेन व्यवसायिन्यः सङ्केतदेशयायिन्यो रागवत्यः संप्रयोगाभिलाषिण्यो न प्रत्याचक्षते न निषेधन्ति तद्वचनानुष्ठानेन, तस्मात्तत्कालमिति । अत्यन्तसंयोगे द्वितीया, प्रयोजयितव्या योज्या वाञ्छितकार्येषु ॥ ३१ ॥

एकपुरुषाभियोगानां स्वसम्भवे गृहीतार्थया धात्रेयिकया स-

४ अध्याये ] प्रयोज्योपावर्त्तनप्रकरणम् । १८९

४ अध्याये ] प्रयोज्योपावर्त्तनप्रकरणम् । १८९

खया वा तस्यामन्तर्भूतया तमर्थमनिर्वदन्त्या सहैनामङ्कमानाययेत् ततो यथोक्तमभियुञ्जीत ॥ ३२ ॥

एकेति । असम्भव इति । नायिकाया विप्रकृष्टत्वात्स्वयमेकस्याभि- योगो न सम्भवति सहायमपेक्षते, गृहीतार्थयेति । नायकोऽपि नायिकां- समीपमानेतुमिच्छतीत्येतद्रूपार्थज्ञानवत्या, तस्यामन्तर्भूतया नायिकायां- प्रभवन्त्या, तादृशी तु धात्रेयिका सखी वा यदाह तत्करोति, अर्थं ना- यकपार्श्वगमनरूपमनिर्वदन्त्या, अन्यव्यपदेशिन्येत्यर्थः, अङ्कमानाययेद्- ससम्भाषणं, ततो यथोक्तमिति द्यूतक्रीडनकेषु विवदमान इति, य- थासम्भवं पूर्वोक्तं योज्यमित्यर्थः ॥ ३२ ॥

स्वां वा परिचारिकामादावेव सखीत्वेनास्याः प्रणिदध्यात् ॥३३॥

स्वामिति । सहायार्थमिति भावः, सखीत्वेन, प्रणिदध्याद् = निक्षि- पेत्, सा हि प्रणिहिता सहायताम्प्रतिपद्यते ॥ ३३ ॥

यज्ञे विवाहे यात्रायामुत्सवे व्यसने प्रेक्षणकव्यापृते जने तत्र तत्र च दृष्टेङ्गिताकारां परीक्षितभावामेकाकिनीमुपक्रमेत ॥ ३४ ॥

यज्ञ इति । यज्ञादयो लोकव्यग्रत्वहेतवः, तत्र तत्रेति । अन्यत्राप्येवं- प्रकारो यत्र जनो व्याप्रियते, परीक्षितभावामिति । नेयं शुल्कप्रतिग्राहिणी द्विधाभूतमानसा वा, किं स्थितरेति, एकाकिनीमुपक्रमेत, गान्धर्वेण वि- धिनेत्यर्थः ॥ ३४ ॥

न हि दृष्टभावा योषितो देशे काले च प्रयुज्यमाना व्यावर्त- न्तइति वात्स्यायनः ॥ ३५ ॥

इत्येकपुरुषाभियोगाः ।

दृष्टभावाः = उपलब्धभावाः, देशेऽभिप्रेते, काले यज्ञादिकाले प्रदोषादौ च प्रयुज्यमाना वाञ्छितकार्य्येण व्यावर्तन्ते ३५ ॥

इत्येकपुरुषाभियोगा अष्टाविंशं प्रकरणम् ॥

यथा धनहीनत्वादियुक्तः कन्यामलभ्यत्वात्स्वयमेवानुरञ्जयेत्, तथा कन्याऽपि तथाविधा कैश्चिदयाच्यमाना स्वयमुपावर्तेत, तत्प्रयोज्यस्यो- पावर्तनमाह—उपावर्तनमभिमुखीकरणम्, कथं न म्रियत इत्याह—

मन्दापदेशा गुणवत्यपि कन्या धनहीना कुलीनाऽपि समानैर- याच्यमाना मातापितृवियुक्ता वा ज्ञातिकुलवर्तिनी वा प्राप्तयौवना

१३० सटीके कामसूत्रे [ ३ अधिकरणे,

पाणिग्रहणं स्वयमभीप्सेत ॥ ३६ ॥

मन्देति । मन्दापदेशा = हीनाभिजना, गुणवत्यपि सा तैरदास्यमाना वा, धनहीना वा कुलीनाऽपि, समानैस्तुल्याभिजनैर्धनिभिः, माता-पितृवियुक्ता वा, अनाथत्वादयाच्यमाना, प्राप्तयौवनेति । प्रत्येकं योज्यं, स्वयं पाणिग्रहं लिप्सेत, तदानीं स्वयंवरस्याभ्यनुज्ञानाद्,

यथोक्तं—

'त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती ।
ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम्' इति ॥ ३६ ॥

सदृशप्रतिपत्तावुपायमाह—

सा तु गुणवन्तं शक्तं सुदर्शनं बालप्रीतयाऽभियोजयेत् ॥३७॥

सा त्विति । गुणवन्तं नायकगुणयुक्तं, शक्तं युद्धादिषु, सुदर्शनं-रूपवन्तम्, बालेति । बाल्ये क्रीडमानयोर्या प्रीतिस्तया प्रयोज्यकर्त्याऽभियोजयेत्, स तथाऽभियुञ्जानः सिद्धयतीत्यर्थः ॥ ३७ ॥

गुणान्तरमाह—

यं वा मन्येत मातापित्रोरसमीक्षया स्वयमप्ययमिन्द्रियदौर्ब-ल्यान्मयि प्रवर्तिष्यत इति प्रियहितोपचारैरभीक्ष्णसन्दर्शनेन च तमावर्जयेत् ॥ ३८ ॥

यं वेति । इन्द्रियदौर्बल्यादिति । इन्द्रियाणि नियन्तुमसमर्थत्वाद्, य-मेवं मन्येत तमपि योजयेदिति संबन्धः, प्रियहितेति । प्रियोपचारा एत-दर्थं सुखं कुर्वन्ति, अवर्जनमभिमुखीकरणम् ॥ ३८ ॥

माता चैनां सखीभिर्धात्रेयिकाभिश्च सह तदभिमुखीं कु-र्यात् ॥ ३९ ॥

माता चैनामिति । नायिकाया माता यदि जीवति, सा न जीवति चेत्कृतकमाता वा, सखीभिः सह लज्जाऽपगमार्थं, तदभिमुखीमिति । नायकाभिमुखीम्, उपचारैर्बाह्यैराभ्यन्तरैश्चेति शेषः ॥ ३६ ॥

तत्र पूर्वमधिकृत्याह—

पुष्पगन्धताम्बूलहस्ताया विजने विकाले च तदुपस्थानम्॥४०॥

पुष्पेति । तदुपस्थानं नायकसमीपगमनं, कलाकौशलप्रकाशनार्थं-गुणवत्त्वज्ञापनार्थम् ॥ ४० ॥

कलाकौशलप्रकाशने वा संवाहने शिरसः पीडने चौचित्य-दर्शनम् ॥ ४१ ॥

४ अध्याये ] अभियोगप्रयोज्यकन्याप्रतिपत्तिप्रकरणम् । १९१

औचित्यदर्शनमिति । सहसा न प्रतिजानीयाद् , अनुबन्ध्यमानमनुकुर्यादित्यर्थः ॥ ४१ ॥

प्रयोज्यस्य सात्म्ययुक्ताः कथायोगाः बालायामुपक्रमेषु यथोक्तमाचरेत् ॥ ४२ ॥

प्रयोज्यस्य सात्म्ययुक्ताः प्रयोज्यानुकूलाः , बालायां ये नायकस्योपक्रमा उक्तास्तेषु यथोक्तं साऽप्याचरेत् ॥ ४२ ॥

न चैवातुराऽपि पुरुषं स्वयमभियुञ्जीत, स्वयमभियोगिनी हि युवतिः सौभाग्यं जहातीत्याचार्याः ॥ ४३ ॥

आतुराऽपीति । कामपरवशाऽपि न स्वयमभियुञ्जीत सद्यःसौभाग्यहानेः, आचार्यग्रहणं पूजार्थं तन्मतस्याप्रतिषिद्धत्वात् ॥ ४३ ॥

स चेदभियुञ्जीत प्रतिगृह्णीयाद्यदाह—

तत्प्रयुक्तानां त्वभियोगानामानुलोम्येन ग्रहणम् ॥ ४४ ॥

तत्प्रयुक्तानामिति । बाह्यानामभियोगानाम्, आनुलोम्येन यथाऽयं न विमुखीभवति ॥ ४४ ॥

आभ्यन्तरमधिकृत्याह—

अङ्गपरिष्वक्ता च न विकृतिं भजेत् ॥ ४५ ॥

अङ्गपरिष्वक्तेति । न विकृतिमिति । मा ज्ञासीन्नायको मामुद्विग्नामिति हेतोरित्यर्थः ॥ ४५ ॥

श्लक्ष्णमाकारमजानतीव प्रतिगृह्णीयात् ॥ ४६ ॥

आकारमिति । नायकस्य भावसूचकमाकारं प्रतिगृह्णीयाद्, न प्रत्याचक्षीत, तत्रापि श्लक्ष्णमस्फुटं क्रियाविशेषणमेतद्, अजानतीवेति । धार्ष्ट्यपरिहारार्थम् ॥ ४६ ॥

वदनग्रहणे बलात्कारः ॥ ४७ ॥

बलात्कार इति । तथा कार्यं यथाऽयं चुम्बितुं हठाद्वदनं गृह्णातीत्यर्थः ॥ ४७ ॥

रतिभावनामभ्यर्थ्यमानायाः कृच्छ्राद् गुह्यसंस्पर्शनम् ॥४८॥

रतिभावनामिति । आत्मनो रत्युत्पत्तिं नायकेन यदा साऽभ्यर्थ्यते, स्वगुह्ये तत्पाणिन्यासेन, तदा तस्याः कृच्छ्रान्नायकगुह्यस्पर्शनम् ॥४८॥

तत्रापि विशेषमाह—

अभ्यर्थिताऽपि नातिविवृता स्वयं स्यादानिश्चयकालात् ॥४९॥

१९२ सटीके कामसूत्रे [ ३ अधिकरणे,

१९२ सटीके कामसूत्रे [ ३ अधिकरणे,

नातिविवृतेति । अङ्गोपाङ्गप्रत्यङ्गदर्शनेनेत्यर्थः, तत्र हेतुः—अनिश्चयेति ॥ ४९ ॥
निश्चितकालं दर्शयन्नाह -

यदा तु मन्येतानुरक्तो मयि न व्यावतिष्यत इति तदैवैनमभियुञ्जानं बालभावमोक्षाय त्वरयेत् ॥ ५० ॥

यदा त्विति। न व्यावत्तिष्यते, न मां त्यक्ष्यति, अभियाञ्जानं प्रच्छन्नप्रदेशे, बालभावमोक्षायेति। गान्धर्वविधिपूर्वकं कौमारहरणाय त्वरयेद् ॥ ५० ॥

विसृक्तकन्याभावा च विश्वास्येषु प्रकाशयेदिति प्रयोज्यस्योपावर्तनम् ॥ ५१ ॥

विश्वास्येषु सखीधात्रेय्यादिषु, प्रकाशयेत् कथयेद्, गान्धर्वेण विवाहेनाहमूढेति ॥ ५१ ॥
इति प्रयोज्यस्योपावर्तनमेकोनत्रिंशं प्रकरणम् ॥
यदा प्रयोज्यमुपावर्त्तमाना बहुभिरभियुज्यते तदाऽभियोगतः कन्यायाः प्रतिपत्तिरुच्यतेऽभियोगं दृष्ट्वा कन्याया अनुष्ठानमित्यर्थः।
भवन्ति चात्र श्लोकाः—

कन्याऽभियुज्यमाना तु यं मन्येताश्रयं सुखम् ।
अनुकूलं च वश्यं च तस्य कुर्यात्परिग्रहम् ॥ ५२ ॥

कन्येति। आश्रयमिति। आश्रीयत इति कृत्वा, सुखमिति। बाह्यस्योपभोगसुखस्य, आन्तरस्य च रतसुखस्य हेतुत्वाद्, अनुकूलं तच्चित्तानुविधायिनं, वश्यं वशं गतं यथोक्तकारिणं मन्येत, ततस्तस्य प्रतिग्रहं कुर्यात् स्वयंवरे तस्योत्तमत्वात्, सोऽपि तथैवाचरेदित्यर्थः ॥५२॥

अनपेक्ष्य गुणान्यत्र रूपमौचित्यमेव च ।
कुर्वीत धनलोभेन पतिं सापत्नकेष्वपि ॥ ५३ ॥

अनपेक्ष्येति। गुणान यत्रेति, यस्मिन्स्वयंवरे गुणाननपेक्ष्य तद्भावादेवौचित्यमाभिजन्त्यं, धनलोभेन धनवानेव केवलमिति मत्वा, सापलकेष्वपि, न केवलमसापत्नकेषु, प्रायेण धनिनां बहुदारत्वात् ॥ ५३ ॥

तत्र युक्तगुणं वश्यं शक्तं बलवदर्थिनम् ।
उपायैरभियुञ्जानं कन्या न प्रतिकोमयेत् ॥ ५४ ॥

तत्र स्वयंवरे युक्तगुणं सगुणं शक्तं समर्थं बलवदर्थिनमेकान्ततोऽर्थिनं न प्रतिलोमयेदपाकुर्यात् ॥ ५४ ॥

४ अध्याये ] अभियोगप्रयोज्यकन्याप्रतिपत्तिप्रकरणम् । १९३

यस्तु धनवान्बहुपत्नीको गुणवानप्यवश्यस्तमभियुञ्जानं प्रतिलोमयेदिति दर्शयन्नाह—

वरं वश्यो दरिद्रोऽपि निर्गुणोऽप्यात्मधारणः । गुणैर्युक्तोऽपि न त्वेवं बहुसाधारणः पतिः ॥ ५५ ॥

वरमिति । आत्मधारणः कुटुम्बमात्रधारकः, बहुसाधारणो बहूनामेकः, यस्तु धनवान् कृतपरिग्रहो गुणवान् वश्यः, तं न प्रतिलोमयेदित्यर्थः ॥ ५५ ॥

यस्तु न वश्यस्तत्र दोषमाह—

प्रायेण धनिनां दारा बहवो निरवग्रहाः । बाह्ये सत्युपभोगेऽपि निर्विश्रम्भा बहिःसुखाः ॥ ५६ ॥

प्रायेणेति । स्वत एव धनवान्बहून्दारान्प्रतिगृह्णाति, विशेषतस्ताश्च, निरवग्रहाः=निरङ्कुशाः, तत्र कारणं—बाह्य इति । अशनाद्युपभोगेन बहिःसुखाः, निर्विश्रम्भा आन्तरेण रताख्यसुखेन वर्जिता इत्यर्थः ॥ ५६ ॥

नीचो यस्त्वभियुञ्जीत पुरुषः पलितोऽपि वा । विदेशगतिशीलश्च न स संयोगमर्हति ॥ ५७ ॥

नीचोऽधमजातिः पूर्वगुणयुक्तोऽपि, पलितः=वृद्धः, विदेशगतिशीलः=सदा प्रवासी ॥ ५७ ॥

यदृच्छयाऽभियुक्तो यो दम्भद्यूताधिकोऽपि वा । सपत्नीकश्च सापत्यो न स संयोगमर्हति ॥ ५८ ॥

यदृच्छयेति । स्वेच्छाभियोगशीलो बलात्कारेणेति भावः, दम्भाधिको व्याजबहुलो, द्यूताधिको द्यूतासक्तश्च, सपत्नीकः सापत्यश्च परिणीतभार्यायुक्तस्तदपत्यवांश्च, एकतरवान्वा ॥ ५८ ॥

वश्यस्तु तादृशोऽपि संयोगमर्हत्येवेत्याह—

गुणसाम्येऽभियोक्तॄणामेको वरयिता वरः । तत्राभियोक्तरि श्रैष्ठ्यमनुरागात्मको हि सः ॥ ५९ ॥

इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे एकपुरुषाभियोगाः प्रयोज्योपावर्त्तनमभियोगतश्च कन्यायाःप्रतिपत्तिश्चतुर्थोऽध्यायः ।

२५ का० सू०

१९४ सटीक कामसूत्रे [ ३ आधिकरण,

गुणेति । यथोक्तगुणानां साम्ये, एको वरयिता वर इति । व्रियन्त- इति वराः सर्व एवाभियोक्तारः, तेषां वर एको वरयिता वरणे साधुः, ‘वर ईप्सायां’ साधुकारिणि तृन्, तस्मिन्नभियोक्तरि वरयितृत्ववि- शिष्टे, श्रेष्ठता तस्यानुरागात्मकत्वात् ॥ ५९ ॥
इत्यभियोगतः कन्यायाः प्रतिपत्तिस्त्रिंशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां कन्यासं- प्रयुक्तके तृतीयेऽधिकरणे एकपुरुषाभियोगः, प्रयोज्योपावर्तनमभियोगतश्च कन्यायाः प्रतिपत्तिश्चतुर्थोऽध्यायः ।


पञ्चमोऽध्यायः ।

एवमनुरञ्जितां स्वयंवरप्रवृत्तां च गान्धर्वेण योजयेद्, विपरीतामा- सुरादिभिरिति विवाहयोगा उच्यन्ते-तत्र गान्धर्वेण या प्रायशो विविक्ता- दृश्यन्ते, तस्या बहुसिद्ध्याः सुकरमभिप्रेतदेशनयनं, या तु न प्रायश- स्तस्यास्तावत्सहायसाध्यविधिमाह—

प्राचुर्येण कन्याया विविक्तदर्शनस्यालाभे धात्रेयिकां प्रिय- हिताभ्यामुपगृह्योपसर्पेत् ॥ १ ॥

प्राचुर्येणेति । धात्रेयिकां पुरुषप्रवृत्तामत्यर्थाद् , उपगृह्य प्रियहिता- भ्यामुपसर्पेत् , तस्याः समीपे निसृष्टार्थां प्रेषयेत् ॥१॥

सा चैनामविदिता नाम नायकस्य भूत्वा तद्गुणैरनुरञ्ज- येत् ॥ २ ॥

सा चेति । सा = उपसर्पिता, अविदिता नाम, नायकस्याविदितेव भूत्वा; कृतकप्रयोगपरिहारार्थं, तद्गुणैरिति । तस्य नायकस्य गुणैः॥२॥

तस्याश्च रुच्यान्नायकगुणान्भूयिष्ठमुपवर्णयेत् ॥ ३ ॥

तस्याश्चेति । रुच्यानभीष्टान् ॥ ३ ॥

अन्येषां वरयितॄणां दोषानभिप्रायविरुद्धान्प्रतिपादयेद् माता- पित्रोश्च गुणानभिज्ञतां लुब्धतां च चपलतां च बान्धवानाम् ॥४॥

अभिप्रायविरुद्धानिति । यथा नेच्छति तानियं तथेत्यर्थः, गुणानभि- ज्ञतां लुब्धतां चेति । ‘अगुणज्ञौ तव पितरौ लुब्धौ च, येन गुणवन्तमप- हायान्यं धनिनं निर्गुणं गवेषयतः’ इति प्रतिपादयेत् ॥ ४ ॥

५ अध्याये ] विवाहयोगप्रकरणम् । १९५

याश्चान्या अपि समानजातीयाः कन्याः शकुन्तलाऽऽद्याः स्वबुद्ध्या भर्तारं प्राप्य संयुक्ता मोदन्ते स्म ताश्चास्या निदर्शयेत् ॥ ५ ॥

समानजातीया इति । मोदन्ते स्म = प्रमुदितवत्यः, नानुरूपोऽयं ममेति स्वबुद्ध्याऽवधारणं, न पित्रोरिच्छया, तथा कर्तव्ये शकुन्तलाऽऽदिकृताः कथाः कथयेत्, कौशिकः स्वतपोविघ्नार्थमिन्द्रसंप्रेषितामप्सरसं मेनकां दृष्ट्वा जातरागश्चकमे, सा च तद्वीर्यग्रहणात्तत्रैव कन्यां प्रसूय त्यक्त्वा चारण्ये दिवं जगाम, शकुन्तसंपातमध्यगतां च तां कन्यां कण्वर्षिः करुणयाऽऽश्रममानीय वर्धितवान्, यथार्थं च शकुन्तलेति नाम चक्रे, सा च कालेन प्राप्तयौवना मृगयाप्रसङ्गादागतं दुष्यन्तं राजानं दृष्ट्वा स्वबुद्ध्या पाणिं ग्राहितवतीति, आदिशब्दाद्राजदारिकाः कन्या निदर्शयेत्, ॥ ५ ॥

महाकुलेषु सापत्नकैर्बाध्यमाना विद्धिष्टा दुःखिताः परित्यक्ताश्च दृश्यन्तायातिं चास्य वर्णयेत् ॥ ६ ॥

महाकुलेष्विति । महाकुलेषु च लोभात्पित्रा दत्ता नियतं सापत्नकैर्बाध्यन्ते, ततश्च विद्धिष्टाः परिजनस्य परित्यक्ताः सत्यो दुःखिता दृश्यन्त इति दर्शयेद्, आयतिमुत्तरभाविनमर्थम्, भविष्यति चेति ॥ ६ ॥

सुखमनुपहतमेकचारितायां नायकानुरागं च वर्णयेत् ॥ ७ ॥

एकचारितायामिति । एकपत्नीत्वे सुखमनुपहतं वर्णयेत् सापत्न्यदुःखाभावाद्, नायकानुरागं चेति ॥ ७ ॥

समनोरथायाश्चास्या अपायं साध्वसं व्रीडां च हेतुभिरवच्छिन्द्यात् ॥ ८ ॥

समनोरथाया इति । अस्त्येवायमस्या मनोरथः, किं तु दोषान्पश्यतीत्युत्प्रेक्ष्याह — अपायमिति । विनाशं कुतश्चित्, साध्वसं = भयं,-गुरुजनाद्, व्रीडां परिजनेषु, हेतुभिरपायैर्दर्शनैरपनयेत् ॥ ८ ॥

दूतीकल्पं च सकलमाचरेत् ॥ ९ ॥

दूतीकल्पं च पारदारिके वक्ष्यमाणं प्रतारणप्रकरणम्, ॥ ९ ॥

त्वामजानतीमिव नायको बलाद्ग्रहीष्यतीति तथा सुपरिगृहीता स्यादिति योजयेत् ॥ १० ॥

त्वामजानतीमिवेति । अजानतीमिव बलात्कारेण ग्रहीष्यति तदा न तव दोषः, तथेति । तेन प्रकारेण सुगृहीतं स्याद् वचनोयाभावादित्यमुंचार्थं योजयेत् ॥ १० ॥