कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
३ अध्याये ] बालोपक्रमप्रकरणम् । १७९
३ अध्याये ] बालोपक्रमप्रकरणम् । १७९
क्नुयादनभिहिताऽपि प्रत्याचार्यकम् ॥ ९ ॥
धात्रेयिकां धात्र्या दुहितरम्, प्रियं तदात्वे सुखकरं, हितमायत्याम्, अधिकोपग्रहे फलमाह—सा हीति । प्रीयमाणा स्निह्यमाना, विदिताकाराऽपीति । नायको नायिकामिच्छतीति ज्ञाताभिप्रायाऽपि, अप्रत्यादिशन्ती तमिति । नायकमप्रत्याचक्षाणा, तां चेति । नायिकांभयलज्जाव्यपनयनेन प्रतार्य योजयितुं शक्नुयाद्, अनभिहिताऽपि प्रत्याचार्यकमिति । संयोजने त्वमाचार्या भवेत्येतत्प्रति, नायकेनानुक्ताऽपि सती योजयितुं शक्नुयादिति योज्यम् ॥ ८ ॥
अविदिताकाराऽपि हि गुणानेवानुरागात्प्रकाशयेद्, यथा प्रयोज्याऽनुरज्येद् ॥ १० ॥
अविदिताकाराऽपीति । यद्यपि नायक एनामिच्छतीति न ज्ञातवती तथाऽपि गुणानेव प्रकाशयेद्; अनुरागादिति । नायकविषये धात्रेयिकाऽनुरागाद् ॥ १० ॥
यत्र यत्र च कौतुकं प्रयोज्यायास्तदनुप्रविश्य साधयेत् ॥११॥
यत्र यत्र चेति । प्रतारणप्रकारे, तदनुप्रविश्येति । विज्ञाय, साधयेदिति । संपादयेत् ॥ ११ ॥
क्रीडनकद्रव्याणि यान्यपूर्वाणि यान्यन्यासां विरलशो विद्येरंस्तान्यस्या अयत्नेन संपादयेत् ॥ १२ ॥
क्रीडनकद्रव्याणि वक्ष्यति, अन्यासामिति । कन्यायां, विरलशो, न बाहुल्येन, अयत्नेनेति । संपादनसामर्थ्यं दर्शयति ॥ १२ ॥
तत्र कन्दुकमनेकभक्तिचित्रमल्पकालान्तरितमन्यदन्यच्च संदर्शयेद्, तथा सूत्रदारुगवलगजदन्तमयीर्दुहितृका मधूच्छिष्टपिष्टमय्यीश्च ॥ १३ ॥
क्रीडनकद्रव्याण्याह—कन्दुकमिति । अल्पकालान्तरितमिति । कौतुकप्रबन्धाभ्युपगमार्थम्, अन्यदन्यं भक्तीनां वैसादृश्याद्, दारु=काष्ठं,-गवलं=शृङ्गं, दुहितृकाः=पुत्रिकाः, संदर्शयेदित्येव, मधूच्छिष्टं सिक्थम्१३
भक्तपाकार्थमस्या महानसिकस्य च दर्शनं काष्ठमेढ्रकयोश्च, संयुक्तयोः स्त्रीपुंसयोरजैडकानां देवकुलगृहकानां मृद्विदलकाष्ठविनिर्मितानां शुकपरभृतमदनसारिकालावककुक्कुटतित्तिरिपञ्जरकाणां च विचित्राकृतिसंयुक्तानां, जलभाजनानां च यन्त्रकाणां-
| १८० | सटीक कामसूत्रे | [ ३ अधिकरणे, |
|---|
वीणिकानां पिण्डोलिकानां पटोलिकानामलक्तकमनःशिलाहरिता-
लहिङ्गुलकश्यामवर्णकादीनां, तथा चन्दनकुङ्कुमयोः पूगफलानां
पत्राणां कालयुक्तानां, च शक्तिविषये प्रच्छन्नं दानं प्रकाशद्रव्याणां
च प्रकाशं, यथा च सर्वाभिप्रायसंवर्धकमेनं मन्येत तथा प्रयति-
तव्यम् ॥ १४ ॥
महानसिकस्येति। महानसविषयं कर्म महानसिकमित्युक्तम्, भक्तग्र-
हणमुपलक्षणार्थम् भक्तादिपाकार्थस्य कर्मणस्तत्तच्छास्त्रोक्तेन विधिना
दर्शनं, स्त्रीणां प्रधानविद्यात्वाद्, संयुक्तयोरिति। एककाष्ठघटितयो-
स्त्रीपुंसयार्मेढ्रकयोरविप्रयोगार्थं दर्शनम्, अजैडकानां काष्ठमयानाम्,
उपलक्षणार्थत्वाद् गवाश्वादीनां च, मृदा वंशविदलैः काष्ठैर्वा विनिर्मि-
तानां देवकुलानां देवगृहाणां च, शुकादिपञ्जराणां मृदादिनिर्मितानां-
तत्र मदनसारिका पठति, जलभाजनानां शङ्खशुक्तिखण्डानां मृत्काष्ठशि-
लानिर्मितानां, विचित्राणां वर्णिकयाऽऽकृतियुक्तानां संस्थानवतां,-
यन्त्रकाणामिति । यन्त्रमातृकोक्तानां, वीणिका स्वल्पवीणा, पिण्डो-
लिका यत्र दुहितृकाः स्थाप्यन्ते, पटोलिका यत्र प्रसाधनं विधीयते,
श्यामवर्णकं राजावर्तचूर्णं चित्रकर्मोपयोगि पत्राणि ताम्बूलस्य,
कालयुक्तानामिति । यस्मिन्काले येनार्थिनी, तत्र तस्य दर्शनमित्यर्थः,
शक्तिविषय इति । यस्मिन् प्रच्छन्ने स्वयं प्रवेष्टुं सामर्थ्यं तत्र दानं, कुङ्कु-
मादीनामप्रकाशयत्वात्, प्रकाशद्रव्याणां कन्दुकादीनां प्रकाशदानं, तैरेव
कल्पनीयत्वाद्, सर्वाभिप्रायसंवर्धकमिति । सर्वाभिलाषपूर्वकं यद्यन्म-
मेप्सितं तत्तत्संपादयतीति, दीयमानं च यथा प्रच्छन्नमर्थयेत् ॥ १४ ॥
किंनिमित्तमित्याह--
वीक्षणे च प्रच्छन्नमर्पयेत्, तथा कथायोजनम् ॥ १५ ॥
वीक्षणे चेति। दर्शननिमित्तम्, प्रच्छन्ने दृश्यमाना निःशङ्कमुपच-
र्यते; तथा कथायोजनमिति । अन्यमुखेन संवर्धनार्थं च कथां यो-
जयेत् ॥ १५ ॥
प्रच्छन्नदानस्य तु कारणमात्मनो गुरुजनाद्भयं ख्यापयेद्,
देयस्य चान्येन स्पृहणीयत्वमिति ॥ १६ ॥
प्रच्छन्नस्य तु कारणमुभयं, तत्रात्मनो गुरुजनाद्भयं ख्यापयेत्,
तच्च पितरौ रुष्यत इति, अन्येन स्पृहणीयत्वमिति । अन्योऽप्येतद् दृष्ट्वा
स्पृहयति ततश्च गृह्णीयादिति ॥ १६ ॥
३ अध्याये ] बालोपक्रमप्रकरणम् । १८१
३ अध्याये ] बालोपक्रमप्रकरणम् । १८१
वर्धमानानुरागां चाख्यानके मनः कुर्वतीमन्वर्थाभिः कथाभि-
श्चित्तहारिणीभिश्च रञ्जयेत् ॥ १७ ॥
अन्वर्थाभिः, स्वयं प्रयुक्ताभिः शकुन्तलाराजदारिकाभिः, चित्तहारिणीभिरन्याभिरनुरागयुक्ताभिः ॥ १७ ॥
विस्मयेषु प्रसज्यमानामिन्द्रजालैः प्रयोगैर्विस्मापयेत्, कलासु
कौतुकिनीं तत्कौशलेन, गीतप्रियां श्रुतिहरैर्गीतैः, आश्वयुज्यामष्ट-
मीचन्द्रके कौमुद्यामुत्सवेषु यात्रायां ग्रहणे गृहाचारे वा विचित्रै-
रापीडैः कर्णपत्रभङ्गैः सिक्तकप्रघानैर्वस्त्राङ्गुलीयकभूषणदानैश्च नो
चेद्दोषकराणि मन्येत ॥ १८ ॥
विस्मयेषु प्रसज्यमानामिति । आश्चर्य्येषु प्रसक्तिं यान्तीं, कलासु पत्रच्छेद्यादिषु, गीतप्रियामिति । कलान्तर्गतमपि पुनर्गीतग्रहणं प्राधान्यार्थम्, प्रायेण हि गीतप्रियो लोकः, आश्वयुज्यां कौजागरे, अष्टमीचन्द्रके, मार्गशीर्षबहुलाष्टम्यां, तत्र हि दिनमुपोष्योदिते चन्द्रमसि भुज्यते, कौमुद्यामिति । सामान्योपादानेऽपि यत्र कन्याभिर्ज्योत्स्नामण्डलपूजा क्रियते साऽत्र द्रष्टव्या सा कार्त्तिक्यां भवति, उत्सवेषु इन्द्रमहादिषु, यात्रायां देवतायाः, ग्रहणे सूर्य्याचन्द्रमसोः, गृहाचारे गृहमागतायाम्, आपीडादिभिर्विस्मापयेदिति सम्बन्धः, नो चेद्दोषकराणीति । तद्दाने यद्यात्मनोऽपार्थं न पश्येत् ॥ १८ ॥
अन्यपुरुषविशेषाभिज्ञतया धात्रेयिकाऽस्याः पुरुषप्रवृत्तां चा-
तुःषष्ठिकान्योगांग्राहयेत् ॥ १९ ॥
अन्यपुरुषविशेषाभिज्ञतयेति । अन्येभ्यः पुरुषेभ्यो मम विशेषं धात्रेयिका जानात्विति पुरुषप्रवृत्तां जातसंप्रयोगाम्, अन्यथा कथं विशेषमवैति ॥ १९ ॥
तद्ग्रहणोपदेशेन च प्रयोऽज्यायां रतिकौशलमात्मनः प्रकाश-
येत् ॥ २० ॥
तद्ग्रहणोपदेशेनेति । धात्रेयिकोपदेशद्वारेण, रतिकौशलमिति । तज्ज्ञताम् ॥ २० ॥
उदारवेषश्च स्वयमनुपहतदर्शनश्च स्यात् ॥ २१ ॥
अनुपहतदर्शन इति । अस्योपाय उदारवेषत्वम् ॥ २१ ॥
भावं च कुर्वतीमिङ्गिताकारैः सूचयेत् ॥ २२ ॥
बालायामुपक्रमाः षड्विंशं प्रकरणम् ॥
१८२ सटीके कामसूत्रे [ ३ अधिकरणे,
तथाभूतं तं च दृष्ट्वा, भावं कुर्वतीमनुरागं चेतसि जनयन्तीमिङ्गिताकारलिङ्गैर्विद्यात् ॥ २२ ॥
किमित्यनुपहतदर्शनः स्यादित्याह--
युवतयो हि संसृष्टमभीक्ष्णदर्शनं च पुरुषं प्रथमं कामयन्ते कामयमाना अपि तु नाभियुञ्जत इति प्रायोवाद इति बालायामुपक्रमाः ॥ २३ ॥
युवतय इति। जातयौवनाः, संसृष्टं जातपरिचयम्, अभीक्ष्णदर्शनं सदा दृश्यमानं, कामयन्त इति। इच्छन्ति, नाभियुञ्जते कया चिल्लज्जाऽऽश्चर्ययुक्त्या ॥ २३ ॥
बालायामुपक्रमाः षड्विंशं प्रकरणम् ॥
भावं च कुर्वतीमिङ्गिताकारैः सूचयेदित्युकं, तेषां सूचनं प्रकाशनमुच्यते, यदाह--
तानिङ्गिताकारान्वक्ष्यामः ॥ २४ ॥
तानिति। तत्रेङ्गितमन्यथा वृत्तिः, आकारो मुखनयनरागः, तदुभयमुत्तरत्र यथायोगं योज्यम् ॥ २४ ॥
संमुखं न वीक्षते, तं तु वीक्षिता व्रीडां दर्शयति ॥ २५ ॥
संमुखं न वीक्षत इति। लज्जया पराङ्मुखी, तं तु नायकं, वीक्षितेति। नायकेन, व्रीडां दर्शयति, अधोमुखी भूत्वा ॥ २५ ॥
रुच्यमात्मनोऽङ्गमपदेशेन प्रकाशयति ॥ २६ ॥
रुच्यमतिमनोहरम्, आत्मनोऽङ्गं स्तनबाहुमूलादि, अपदेशेनेति। प्रावरणव्याजेन ॥ २६ ॥
प्रमत्तं प्रच्छन्नं नायकमतिक्रान्तं च वीक्षते ॥ २७ ॥
प्रमत्तमन्वहितम्, प्रच्छन्नमेकाकिनम्, अतिक्रान्तं दूरगतम् ॥ २७ ॥
पृष्टा च किञ्चित्सस्मितमव्यक्ताक्षरमन्त्रासितार्थं च मन्दं मन्दमधोमुखी कथयति ॥ २८ ॥
पृष्टा च किञ्चिदिति। नायकेन, सस्मितमित्यादिनाऽनुरागोन्मुखता व्रीडा चाख्यायते ॥ २८ ॥
तत्त्समीपे चिरं स्थानमभिनन्दति ॥ २९ ॥
तत्त्समीप इति। नायकसमीपे ॥ २९ ॥
दूरे स्थिता पश्यतु मामिति मन्यमाना परिजनं सवदनवि·
३ अध्याये ] इङ्गिताकारसूचनप्रकरणम् । १८३
कारमाभाषते तं देशं न मुञ्चति ॥ ३० ॥
परिजनमिति । आत्मीयं, सवदनविकारमिति । सभ्रूभङ्गकटाक्षं,- तं देशमिति । यत्र स्थिता तं पश्यति ॥३०॥
यत्किञ्चिद् दृष्ट्वा विहसितं करोति तत्र कथामवस्थानार्थमनुबध्नाति ॥ ३१ ॥
तत्रैव यत्किञ्चिद् दृष्ट्वा विहसितं करोति तिर्यक्पश्यन्ती, तत्र कथामनुबध्नाति सखीं प्रोत्साह्य ॥ ३१ ॥
बालस्याङ्कगतस्यालिङ्गनं चुम्बनं च करोति, परिचारिकायास्तिलकं च रचयति ॥ ३२ ॥
बालस्येति । लाडीकस्य स्वाङ्कमारोपितस्य, चुम्बनावगूहनं च संक्रान्तकम्, परिचारिकायाः स्वस्यास्तिलकं रचयति नायकं पश्यन्ती ३२
परिजनानवष्टभ्य तास्ताश्च लीला दर्शयति ॥ ३३ ॥
परिजनानवष्टभ्येति । परिजनक्रोडापाश्रया, तास्ताश्चेति । केशविरचनाङ्गवलनविजृम्भिकाः ॥ ३३ ॥
तन्मित्रेषु विश्वसिति वचनं चैषां बहुमन्यते करोति च ॥ ३४ ॥
तन्मित्रेषु=नायकमित्रेषु, विश्वसिति स्वभावं प्रकटयति, वचनं चैषां बहुमानं कुरुते तदनुरूपाद्यनुष्ठानात् ॥ ३४ ॥
तत्परिचारकैः सह प्रीतिं संकथां द्यूतमिति च करोति ॥३५॥
तत्परिचारकैरिति । नायकपरिचारकैः ॥ ३५ ॥
स्वकर्मसु च प्रभविष्णुरिवैतानियुङ्क्ते ॥ ३६ ॥
एतानिति । नायकपरिचारकान् ॥ ३६ ॥
तेषु च नायकसंकथामन्यस्य कथयत्स्ववहिता तां शृणोति ३७॥
तेष्विति । परिचारकेषु, कस्य चिदन्यस्य कथयत्सु, तां संकथाम् ३७
धात्रेयिकया चोदिता नायकस्योदवसितं प्रविशति ॥ ३८ ॥
धात्रेयिकया चोदिता प्रविशात्र इति, उदवसितं गृहम् ॥ ३८ ॥
तामन्तरा कृत्वा तेन सह द्यूतं क्रीडामालापं चायोजयितुमिच्छति ॥ ३९ ॥
तामन्तरा कृत्वेति । धात्रेयिकां व्यवधानीकृत्य, नायकेन सह द्यूतादि नियोजयितुमिच्छति ॥ ३९ ॥
१८४ सठीके कामसूत्रे [ ३ अधिकरणे,
अनलङ्कृता दर्शनपथं परिहरति ॥ ४० ॥
दर्शनपथमिति । नायकस्य ॥ ४० ॥
कर्णपत्रमङ्गुलीयकं स्रजं वा तेन याचिता सधीरमेव गात्राद- वतार्य सख्या हस्ते ददाति तेन च दत्तं नित्यं धारयति ॥ ४१ ॥
सधीरमवतार्य किं ग्रहीष्यतीति, सख्या हस्त इति । लज्जया न त- द्धस्ते ददाति, नित्यं धारयति श्लाघ्यमाना ॥ ४१ ॥
अन्यवरसंकथासु विषण्णा भवति तत्पक्षकैश्च सह न संसृ- ज्यत इति ॥ ४२ ॥
तत्पक्षैरिति । अन्यवरपक्षैः ॥ ४२ ॥
प्रकरणद्वयमुपसंहरन्नाह—
दृष्ट्वैतान्भावसंयुक्तानाकारानिङ्गितानि च । कन्यायाः संप्रयोगार्थं तांस्तान्योगान्विचिन्तयेत् ॥ ४३ ॥
दृष्ट्वेति । एतानिति । आकारान्, इङ्गितानि चेति लिङ्गविपरिणामेन योज्यम्, भावसंयुक्तानीति । अनुरागसङ्गतान्, संप्रयोगार्थमिति । सं- प्रयोगोऽत्र समागमलक्षणो गान्धर्वो ज्ञेयः, योगानिति । अभियो- गान् ॥ ४३ ॥
त्रिविधा कन्या-बाला तरुणी प्रौढा चेति, यथाक्रममुपक्रममाह—
बालक्रोडनकैर्बाला कलाभियोंवने स्थिता । वत्सला चापि संग्राह्या विश्वास्यजनसंग्रहात् ॥ ४४ ॥
इति श्रीवात्स्यायनीये कामसूत्रे तृतीयेऽधिकरणे बालोपक्रमा- इङ्गिताकारसूचनं च तृतीयोऽध्यायः ।
बालक्रीडनकैरिति । कलाभिरनुरागिणी, वत्सला प्रौढा, यस्तस्या- विश्वास्यस्तदुपग्रहात्स्वीकर्तव्या ॥ ४४ ॥
इङ्गिताकारसूचनं सप्तविंशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां कन्यासं- प्रयुक्तके तृतीयेऽधिकरणे बालोपक्रमा इङ्गिताकारसूचनं च तृतीयोऽध्यायः ।
४ अध्याये ] एकपुरुषाभियोगप्रकरणम् । १८५
चतुर्थोऽध्यायः ।
शास्त्रकार एव प्रकरणसम्बन्धमाह—
दर्शितेङ्गिताकारां कन्यामुपायतऽभियुञ्जीत ॥ १ ॥
दर्शितेङ्गिताकारमिति । उपायत इति । उपाया एवाभियोगा अभि- युज्यते तैरिति, ते चासहायस्येत्येकपुरुषाभियोगा उच्यन्ते, ससहाय- स्यापि के चित्सम्भवन्ति, ते द्विविधाः—बाह्या आभ्यन्तराश्चेति ॥ १ ॥
तत्र पूर्वानधिकृत्याह—
द्यूते क्रीडनकेषु च विवदमानः साकारमस्याः पाणिमव- लम्बेत ॥ २ ॥
द्यूत इति । विवदमानो वाक्कलहं कुर्वन्, साकारं पाणिमवलम्बेत यथाऽवगच्छेद् 'अहमनेनोढेति' ॥ २ ॥
यथोक्तं च स्पृष्टकादिकमालिङ्गनविधिं विदध्यात् ॥ ३ ॥
स्पृष्टकादिकमिति । स्पृष्टकं विद्धकमुद्घृष्टकं पीडितकमिति, चतुष्ट- यमवसरप्राप्तत्वाद्यथायोग्यं विदध्यात् ॥ ३ ॥
पत्रच्छेदक्रियायां च स्वाभिप्रायसूचकं मिथुनमस्या दर्श- येत् ॥ ४ ॥
पत्रेति । स्वाभिप्रायसूचकं संप्रयोगसूचकं हंसादिमिथुनम् ॥ ४ ॥
एवमन्यद्विरलशो दर्शयेत् ॥ ५ ॥
एवमिति । अन्यदपि यन्मिथुनं भवति, तिलकादिकं साकारं, विर- लश इति । सततदर्शने हि ग्राम्यता सम्भाव्यते कौतुकं चापैति ॥ ५ ॥
जलक्रीडायां तद्दूररतोऽप्सु निमग्नः समीपमस्या गत्वा स्पृष्ट्वा चैनां तत्रैवोन्मज्जेत् ॥ ६ ॥
जलेति । स्पृष्ट्वा चैनामिति । निमग्न एव, तत्रैवोन्मज्जेद्, नायिकास- मीपे ॥ ६ ॥
नवपत्रिकादिषु च सविशेषभावनिवेदनम् ॥ ७ ॥
नवपत्रिकादिषु चेति । देश्यक्रीडासु, सविशेषभावनिवेदनमिति । पूर्वोक्तेनैव स्वाभिप्रायसूचकेन पत्रच्छेद्यादिना ॥ ७ ॥
आत्मदुःखस्यानिवेदेन कथनम् ॥ ८ ॥
आत्मदुःखस्य च कथनं 'न जाने किं कृत मम चेतसि पीडा' इति, तत्राप्यनिर्वेदेन भूयो भूयः प्रधानकार्यत्वात्कथनम् ॥ ८ ॥
२४ का० सू०
१८६ सटीक कामसूत्रे [ ३ अधिकरणे,
स्वप्नस्य च भावयुक्तस्यान्यापदेशेन ॥ ९ ॥
अन्यापदेशेनेति । त्वत्तुल्यवयोरूपया सहोपगमः स्वप्ने ममाभूदिति कथनम् ॥ ९ ॥
प्रेक्षणके स्वजनसमाजे वा समीपोपवेशनं तत्रान्यापदिष्टस्प- र्शनम् ॥ १० ॥
स्वजनसमाजः = स्वजनगोष्ठी, समीपोपवेशनमिति । नायिकायाः, तत्रेति । समीपे प्रेक्षणकादिषु, अन्यापदिष्टमन्यदपदिश्य स्पर्शनम् ॥ १०॥
अपाश्रयार्थं च चरणेन चरणस्य पीडनम् ॥ ११ ॥
अपाश्रयार्थमिति । अपाश्रयस्तदङ्गे स्वाङ्गस्थापनं, चरणस्य पीडनं- स्वचरणेन ॥ ११ ॥
ततः शनैर्कैरैकामङ्गुलिमभिमृशेत् ॥ १२ ॥
तत इति । तस्मात्सिद्धादुत्तरकाले, शनकैरिति । कियतीं काल- कलामतिक्रम्य तस्या अङ्गुलिमभिमृशेत् ॥ १२ ॥
पादाङ्गुष्ठेन च नखाग्राणि घट्टयेत् ॥ १३ ॥
पादाङ्गुष्ठेनेति । नखाग्राणि, घट्टयेच्चालयेत् ॥ १३ ॥
तत्र सिद्धः पदात्पदमधिकमाकाङ्क्षेत ॥ १४ ॥
तत्रेति । सिद्धो नखाग्रघट्टने, पदात्पदमिति । स्थानात्स्थानान्तरं- जघनोरुनितम्बादिकं स्प्रष्टुं सोपानक्रमेणाकाङ्क्षेत ॥ १४ ॥
क्षान्त्यर्थं च तदेवाभ्यस्येत् ॥ १५ ॥
क्षान्त्यर्थं चेति । सहनार्थम्, अभ्यस्येत् तदेव यत्पूर्वाभ्यु- पगतम् ॥ १५ ॥
आन्तरानधिकृत्याह—
पादशौचे पादाङ्गुलिसन्दंशेन तदङ्गुलिपीडनम् ॥ १६ ॥
पादशौच इति । पादधावनं ददत्याः स्वपादाङ्गुलिसन्दंशेन पी- डनम् ॥ १६ ॥
द्रव्यस्य समर्पणे प्रतिग्रहे वा तद्गतो विकारः ॥ १७ ॥
तद्गतो विकार इति । द्रव्यं पूगफलादिकं समर्पयता प्रतिगृह्णता वा द्रव्यगतो विकारः कार्यः, सनखस्पर्शमर्पयेत्प्रतिगृह्णीयादित्यर्थः ॥ १७ ॥
आचमनान्ते चोदकेनासेकः ॥ १८ ॥
आचमनान्त इति । उपस्पृष्टुं ददतीं तदन्ते जलचुलकेनाहन्यात् ॥ १८ ॥
४ अध्याये ] एकपुरुषाभियोगप्रकरणम् । १८७
विजने तमसि च द्वन्द्वमासीनः क्षान्तिं कुर्वीत समानदेशश- य्यायां च ॥ १९ ॥
द्वन्द्वमिति । साहचर्येणासीनः, क्षान्तं कुर्वीतेति । करस्पर्शादिना, त- त्काले लज्जाऽभावात्कन्यायाः, समानदेशशय्यायां च क्षान्तिं कुर्वीत॥१९॥
तत्र यथार्थमनुद्वेजयतो भावनिवेदनम् ॥ २० ॥
तत्रेति । आसने शयने च, यथार्थं भावनिवेदनमाकारेण न वाचा प्रत्याख्यानभयाद्, अनुद्वेजयत इति । यथा नोद्विजते ॥ २० ॥
यदा वाचा तदा विधिमाह—
विविक्ते च किंचिदस्ति कथयितव्यमित्युक्त्वा निर्वचनं, भा- वं च तत्रोपलक्षयेद् यथा पारदारिके वक्ष्यामः ॥ २१ ॥
विविक्ते चेति । 'किंचिदस्ति कथयितव्यम्' इत्येतावद्वक्तव्यं, 'किं- तद्' इति तयोच्यमाने निर्वचनं ब्रूयादित्यर्थः, तत्रेति । वचनोपन्यासे, भावं संप्रयोगाभिलाषमस्या लक्षयेत् , कथमित्याह-यथेति। तत्र प्रवृत्त्या भावपरीक्षां वक्ष्यति, इङ्गिताकारैश्च यद्भाववेदनं तदनुरागमात्रवेदन- मिति विज्ञेयम् ॥ २१ ॥
विदितभावस्याभ्यन्तरमभियोगमाह—
विदितभावस्तु व्याधिमपदिश्येनां वार्त्ताग्रहणार्थं स्वमुद्व- सितमानयेत् ॥ २२ ॥
विदितेति । व्याधिमपदिश्येति । कृतकं शिरःशूलादिकमपदिश्य, स्वमुद्वसितं स्वगृहम्, आनयेद् विश्वास्यया प्रहितया ॥ २२ ॥
आगतायाश्च शिरःपीडने नियोगः, पाणिमवलम्ब्य चास्याः- साकारं नयनयोर्ललाटे च निदध्यात् ॥ २३ ॥
शिरःपीडन इति । शिरो मे दुःखयति पीडय हस्तेनेति नियोगः ॥२३॥
औषधापदेशार्थं चास्याः कर्म विनिर्दिशेत् ॥ २४ ॥
औषधेति । यथा जानात्यस्मत्कृतेयमस्यावस्थेति कर्माणि दर्श- येत् ॥ २४ ॥
त्वयैवेदं कर्तव्यं, न ह्येतदृते कन्याया अन्येन कार्यमिति गच्छन्तीं पुनरागमानानुबन्धमेनां विसृजेत् ॥ २५ ॥
त्वयैवेति । त्वया साधितं सिद्धिदं भवतीति पुनरागमानानुबन्धं- पुनरागन्तव्यमित्येवंरूपम् ॥ २५ ॥
१८८ सटीक कामसूत्रे [ ३ अधिकरणे,
अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः ॥ २६ ॥
अस्येति । कन्यासाध्यस्य, त्रिरात्रं त्रिसंध्यं, प्रयुक्तिः = प्रयोगः, कार्यः ॥ २६ ॥
एतन्निर्देशे फलमाह—
अभीक्ष्णदर्शनार्थमागतायाश्च गोष्ठीं वर्धयेत् ॥ २७ ॥
अभीक्ष्णेति । गोष्ठीमिति । कलानामाख्यायिकानां वा येन तदासक्ता चिरं तिष्ठेदित्यर्थः ॥ २७ ॥
अन्याभिरपि सह विश्वासनाथमधिकमधिकं चाभियुञ्जीत न तु वाचा निर्वदेत् ॥ २८ ॥
अन्याभिरिति । यथाऽयमेकोऽभियुञ्जीत, तथाऽन्याभिरपि स्त्रीभिः सहाधिकमधिकं, किमर्थमिति चेत् ? तद्विश्वासनार्थं, ताभिः कार्यं विश्वसिति, न तु स्वयं वाचा निर्वदेत् ॥ २८ ॥
को दोष इत्याह—
दूरगतभावोऽपि हि कन्यासु न निर्वेदेन सिद्ध्यतीति घोटकमुखः ॥ २९ ॥
दूरेति । अत्यर्थजातविस्रम्भोऽपि न सिद्ध्यति, बहुशोऽभियोगापेक्षणीयत्वात्कन्यानां, घोटकमुखग्रहणं पूजार्थं तन्मतस्याप्रतिषिद्धत्वात्॥२९॥
यदा तु बहुसिद्धां मन्येत तदैवोपक्रमेत ॥ ३० ॥
यदा त्विति । बहुसिद्धां बहुभिरभियोगैः, गान्धर्वेण विधिना श्रोत्रियागारादग्निमाहृत्येत्यादिना कार्योन्मुखीमुपक्रमेत ॥ ३० ॥
तत्र कालमाह—
प्रदोषे निशि तमसि च योषितो मन्दसाध्वसाः सुरतव्यवसायिन्यो रागवत्यश्च भवन्ति न च पुरुषं प्रत्याचक्षते तस्मात्तत्कालं प्रयोजयितव्या इति प्रायोवादः ॥ ३१ ॥
प्रदोष इति । रात्रिप्रारम्भे, निशि = रात्रौ त्रियामालक्षणायां, तत्राप्यन्धकारे प्रतार्थ; योषिद्ग्रहणं सर्वस्त्रीप्रतिपत्त्यर्थम्, मन्दसाध्वसाः कैश्चिददृश्यमानत्वाद्, सुखेन व्यवसायिन्यः सङ्केतदेशयायिन्यो रागवत्यः संप्रयोगाभिलाषिण्यो न प्रत्याचक्षते न निषेधन्ति तद्वचनानुष्ठानेन, तस्मात्तत्कालमिति । अत्यन्तसंयोगे द्वितीया, प्रयोजयितव्या योज्या वाञ्छितकार्येषु ॥ ३१ ॥
एकपुरुषाभियोगानां स्वसम्भवे गृहीतार्थया धात्रेयिकया स-
४ अध्याये ] प्रयोज्योपावर्त्तनप्रकरणम् । १८९
४ अध्याये ] प्रयोज्योपावर्त्तनप्रकरणम् । १८९
खया वा तस्यामन्तर्भूतया तमर्थमनिर्वदन्त्या सहैनामङ्कमानाययेत् ततो यथोक्तमभियुञ्जीत ॥ ३२ ॥
एकेति । असम्भव इति । नायिकाया विप्रकृष्टत्वात्स्वयमेकस्याभि- योगो न सम्भवति सहायमपेक्षते, गृहीतार्थयेति । नायकोऽपि नायिकां- समीपमानेतुमिच्छतीत्येतद्रूपार्थज्ञानवत्या, तस्यामन्तर्भूतया नायिकायां- प्रभवन्त्या, तादृशी तु धात्रेयिका सखी वा यदाह तत्करोति, अर्थं ना- यकपार्श्वगमनरूपमनिर्वदन्त्या, अन्यव्यपदेशिन्येत्यर्थः, अङ्कमानाययेद्- ससम्भाषणं, ततो यथोक्तमिति द्यूतक्रीडनकेषु विवदमान इति, य- थासम्भवं पूर्वोक्तं योज्यमित्यर्थः ॥ ३२ ॥
स्वां वा परिचारिकामादावेव सखीत्वेनास्याः प्रणिदध्यात् ॥३३॥
स्वामिति । सहायार्थमिति भावः, सखीत्वेन, प्रणिदध्याद् = निक्षि- पेत्, सा हि प्रणिहिता सहायताम्प्रतिपद्यते ॥ ३३ ॥
यज्ञे विवाहे यात्रायामुत्सवे व्यसने प्रेक्षणकव्यापृते जने तत्र तत्र च दृष्टेङ्गिताकारां परीक्षितभावामेकाकिनीमुपक्रमेत ॥ ३४ ॥
यज्ञ इति । यज्ञादयो लोकव्यग्रत्वहेतवः, तत्र तत्रेति । अन्यत्राप्येवं- प्रकारो यत्र जनो व्याप्रियते, परीक्षितभावामिति । नेयं शुल्कप्रतिग्राहिणी द्विधाभूतमानसा वा, किं स्थितरेति, एकाकिनीमुपक्रमेत, गान्धर्वेण वि- धिनेत्यर्थः ॥ ३४ ॥
न हि दृष्टभावा योषितो देशे काले च प्रयुज्यमाना व्यावर्त- न्तइति वात्स्यायनः ॥ ३५ ॥
इत्येकपुरुषाभियोगाः ।
दृष्टभावाः = उपलब्धभावाः, देशेऽभिप्रेते, काले यज्ञादिकाले प्रदोषादौ च प्रयुज्यमाना वाञ्छितकार्य्येण व्यावर्तन्ते ३५ ॥
इत्येकपुरुषाभियोगा अष्टाविंशं प्रकरणम् ॥
यथा धनहीनत्वादियुक्तः कन्यामलभ्यत्वात्स्वयमेवानुरञ्जयेत्, तथा कन्याऽपि तथाविधा कैश्चिदयाच्यमाना स्वयमुपावर्तेत, तत्प्रयोज्यस्यो- पावर्तनमाह—उपावर्तनमभिमुखीकरणम्, कथं न म्रियत इत्याह—
मन्दापदेशा गुणवत्यपि कन्या धनहीना कुलीनाऽपि समानैर- याच्यमाना मातापितृवियुक्ता वा ज्ञातिकुलवर्तिनी वा प्राप्तयौवना
१३० सटीके कामसूत्रे [ ३ अधिकरणे,
पाणिग्रहणं स्वयमभीप्सेत ॥ ३६ ॥
मन्देति । मन्दापदेशा = हीनाभिजना, गुणवत्यपि सा तैरदास्यमाना वा, धनहीना वा कुलीनाऽपि, समानैस्तुल्याभिजनैर्धनिभिः, माता-पितृवियुक्ता वा, अनाथत्वादयाच्यमाना, प्राप्तयौवनेति । प्रत्येकं योज्यं, स्वयं पाणिग्रहं लिप्सेत, तदानीं स्वयंवरस्याभ्यनुज्ञानाद्,
यथोक्तं—
'त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती ।
ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम्' इति ॥ ३६ ॥
सदृशप्रतिपत्तावुपायमाह—
सा तु गुणवन्तं शक्तं सुदर्शनं बालप्रीतयाऽभियोजयेत् ॥३७॥
सा त्विति । गुणवन्तं नायकगुणयुक्तं, शक्तं युद्धादिषु, सुदर्शनं-रूपवन्तम्, बालेति । बाल्ये क्रीडमानयोर्या प्रीतिस्तया प्रयोज्यकर्त्याऽभियोजयेत्, स तथाऽभियुञ्जानः सिद्धयतीत्यर्थः ॥ ३७ ॥
गुणान्तरमाह—
यं वा मन्येत मातापित्रोरसमीक्षया स्वयमप्ययमिन्द्रियदौर्ब-ल्यान्मयि प्रवर्तिष्यत इति प्रियहितोपचारैरभीक्ष्णसन्दर्शनेन च तमावर्जयेत् ॥ ३८ ॥
यं वेति । इन्द्रियदौर्बल्यादिति । इन्द्रियाणि नियन्तुमसमर्थत्वाद्, य-मेवं मन्येत तमपि योजयेदिति संबन्धः, प्रियहितेति । प्रियोपचारा एत-दर्थं सुखं कुर्वन्ति, अवर्जनमभिमुखीकरणम् ॥ ३८ ॥
माता चैनां सखीभिर्धात्रेयिकाभिश्च सह तदभिमुखीं कु-र्यात् ॥ ३९ ॥
माता चैनामिति । नायिकाया माता यदि जीवति, सा न जीवति चेत्कृतकमाता वा, सखीभिः सह लज्जाऽपगमार्थं, तदभिमुखीमिति । नायकाभिमुखीम्, उपचारैर्बाह्यैराभ्यन्तरैश्चेति शेषः ॥ ३६ ॥
तत्र पूर्वमधिकृत्याह—
पुष्पगन्धताम्बूलहस्ताया विजने विकाले च तदुपस्थानम्॥४०॥
पुष्पेति । तदुपस्थानं नायकसमीपगमनं, कलाकौशलप्रकाशनार्थं-गुणवत्त्वज्ञापनार्थम् ॥ ४० ॥
कलाकौशलप्रकाशने वा संवाहने शिरसः पीडने चौचित्य-दर्शनम् ॥ ४१ ॥
४ अध्याये ] अभियोगप्रयोज्यकन्याप्रतिपत्तिप्रकरणम् । १९१
औचित्यदर्शनमिति । सहसा न प्रतिजानीयाद् , अनुबन्ध्यमानमनुकुर्यादित्यर्थः ॥ ४१ ॥
प्रयोज्यस्य सात्म्ययुक्ताः कथायोगाः बालायामुपक्रमेषु यथोक्तमाचरेत् ॥ ४२ ॥
प्रयोज्यस्य सात्म्ययुक्ताः प्रयोज्यानुकूलाः , बालायां ये नायकस्योपक्रमा उक्तास्तेषु यथोक्तं साऽप्याचरेत् ॥ ४२ ॥
न चैवातुराऽपि पुरुषं स्वयमभियुञ्जीत, स्वयमभियोगिनी हि युवतिः सौभाग्यं जहातीत्याचार्याः ॥ ४३ ॥
आतुराऽपीति । कामपरवशाऽपि न स्वयमभियुञ्जीत सद्यःसौभाग्यहानेः, आचार्यग्रहणं पूजार्थं तन्मतस्याप्रतिषिद्धत्वात् ॥ ४३ ॥
स चेदभियुञ्जीत प्रतिगृह्णीयाद्यदाह—
तत्प्रयुक्तानां त्वभियोगानामानुलोम्येन ग्रहणम् ॥ ४४ ॥
तत्प्रयुक्तानामिति । बाह्यानामभियोगानाम्, आनुलोम्येन यथाऽयं न विमुखीभवति ॥ ४४ ॥
आभ्यन्तरमधिकृत्याह—
अङ्गपरिष्वक्ता च न विकृतिं भजेत् ॥ ४५ ॥
अङ्गपरिष्वक्तेति । न विकृतिमिति । मा ज्ञासीन्नायको मामुद्विग्नामिति हेतोरित्यर्थः ॥ ४५ ॥
श्लक्ष्णमाकारमजानतीव प्रतिगृह्णीयात् ॥ ४६ ॥
आकारमिति । नायकस्य भावसूचकमाकारं प्रतिगृह्णीयाद्, न प्रत्याचक्षीत, तत्रापि श्लक्ष्णमस्फुटं क्रियाविशेषणमेतद्, अजानतीवेति । धार्ष्ट्यपरिहारार्थम् ॥ ४६ ॥
वदनग्रहणे बलात्कारः ॥ ४७ ॥
बलात्कार इति । तथा कार्यं यथाऽयं चुम्बितुं हठाद्वदनं गृह्णातीत्यर्थः ॥ ४७ ॥
रतिभावनामभ्यर्थ्यमानायाः कृच्छ्राद् गुह्यसंस्पर्शनम् ॥४८॥
रतिभावनामिति । आत्मनो रत्युत्पत्तिं नायकेन यदा साऽभ्यर्थ्यते, स्वगुह्ये तत्पाणिन्यासेन, तदा तस्याः कृच्छ्रान्नायकगुह्यस्पर्शनम् ॥४८॥
तत्रापि विशेषमाह—
अभ्यर्थिताऽपि नातिविवृता स्वयं स्यादानिश्चयकालात् ॥४९॥
१९२ सटीके कामसूत्रे [ ३ अधिकरणे,
१९२ सटीके कामसूत्रे [ ३ अधिकरणे,
नातिविवृतेति । अङ्गोपाङ्गप्रत्यङ्गदर्शनेनेत्यर्थः, तत्र हेतुः—अनिश्चयेति ॥ ४९ ॥
निश्चितकालं दर्शयन्नाह -
यदा तु मन्येतानुरक्तो मयि न व्यावतिष्यत इति तदैवैनमभियुञ्जानं बालभावमोक्षाय त्वरयेत् ॥ ५० ॥
यदा त्विति। न व्यावत्तिष्यते, न मां त्यक्ष्यति, अभियाञ्जानं प्रच्छन्नप्रदेशे, बालभावमोक्षायेति। गान्धर्वविधिपूर्वकं कौमारहरणाय त्वरयेद् ॥ ५० ॥
विसृक्तकन्याभावा च विश्वास्येषु प्रकाशयेदिति प्रयोज्यस्योपावर्तनम् ॥ ५१ ॥
विश्वास्येषु सखीधात्रेय्यादिषु, प्रकाशयेत् कथयेद्, गान्धर्वेण विवाहेनाहमूढेति ॥ ५१ ॥
इति प्रयोज्यस्योपावर्तनमेकोनत्रिंशं प्रकरणम् ॥
यदा प्रयोज्यमुपावर्त्तमाना बहुभिरभियुज्यते तदाऽभियोगतः कन्यायाः प्रतिपत्तिरुच्यतेऽभियोगं दृष्ट्वा कन्याया अनुष्ठानमित्यर्थः।
भवन्ति चात्र श्लोकाः—
कन्याऽभियुज्यमाना तु यं मन्येताश्रयं सुखम् ।
अनुकूलं च वश्यं च तस्य कुर्यात्परिग्रहम् ॥ ५२ ॥
कन्येति। आश्रयमिति। आश्रीयत इति कृत्वा, सुखमिति। बाह्यस्योपभोगसुखस्य, आन्तरस्य च रतसुखस्य हेतुत्वाद्, अनुकूलं तच्चित्तानुविधायिनं, वश्यं वशं गतं यथोक्तकारिणं मन्येत, ततस्तस्य प्रतिग्रहं कुर्यात् स्वयंवरे तस्योत्तमत्वात्, सोऽपि तथैवाचरेदित्यर्थः ॥५२॥
अनपेक्ष्य गुणान्यत्र रूपमौचित्यमेव च ।
कुर्वीत धनलोभेन पतिं सापत्नकेष्वपि ॥ ५३ ॥
अनपेक्ष्येति। गुणान यत्रेति, यस्मिन्स्वयंवरे गुणाननपेक्ष्य तद्भावादेवौचित्यमाभिजन्त्यं, धनलोभेन धनवानेव केवलमिति मत्वा, सापलकेष्वपि, न केवलमसापत्नकेषु, प्रायेण धनिनां बहुदारत्वात् ॥ ५३ ॥
तत्र युक्तगुणं वश्यं शक्तं बलवदर्थिनम् ।
उपायैरभियुञ्जानं कन्या न प्रतिकोमयेत् ॥ ५४ ॥
तत्र स्वयंवरे युक्तगुणं सगुणं शक्तं समर्थं बलवदर्थिनमेकान्ततोऽर्थिनं न प्रतिलोमयेदपाकुर्यात् ॥ ५४ ॥
४ अध्याये ] अभियोगप्रयोज्यकन्याप्रतिपत्तिप्रकरणम् । १९३
यस्तु धनवान्बहुपत्नीको गुणवानप्यवश्यस्तमभियुञ्जानं प्रतिलोमयेदिति दर्शयन्नाह—
वरं वश्यो दरिद्रोऽपि निर्गुणोऽप्यात्मधारणः । गुणैर्युक्तोऽपि न त्वेवं बहुसाधारणः पतिः ॥ ५५ ॥
वरमिति । आत्मधारणः कुटुम्बमात्रधारकः, बहुसाधारणो बहूनामेकः, यस्तु धनवान् कृतपरिग्रहो गुणवान् वश्यः, तं न प्रतिलोमयेदित्यर्थः ॥ ५५ ॥
यस्तु न वश्यस्तत्र दोषमाह—
प्रायेण धनिनां दारा बहवो निरवग्रहाः । बाह्ये सत्युपभोगेऽपि निर्विश्रम्भा बहिःसुखाः ॥ ५६ ॥
प्रायेणेति । स्वत एव धनवान्बहून्दारान्प्रतिगृह्णाति, विशेषतस्ताश्च, निरवग्रहाः=निरङ्कुशाः, तत्र कारणं—बाह्य इति । अशनाद्युपभोगेन बहिःसुखाः, निर्विश्रम्भा आन्तरेण रताख्यसुखेन वर्जिता इत्यर्थः ॥ ५६ ॥
नीचो यस्त्वभियुञ्जीत पुरुषः पलितोऽपि वा । विदेशगतिशीलश्च न स संयोगमर्हति ॥ ५७ ॥
नीचोऽधमजातिः पूर्वगुणयुक्तोऽपि, पलितः=वृद्धः, विदेशगतिशीलः=सदा प्रवासी ॥ ५७ ॥
यदृच्छयाऽभियुक्तो यो दम्भद्यूताधिकोऽपि वा । सपत्नीकश्च सापत्यो न स संयोगमर्हति ॥ ५८ ॥
यदृच्छयेति । स्वेच्छाभियोगशीलो बलात्कारेणेति भावः, दम्भाधिको व्याजबहुलो, द्यूताधिको द्यूतासक्तश्च, सपत्नीकः सापत्यश्च परिणीतभार्यायुक्तस्तदपत्यवांश्च, एकतरवान्वा ॥ ५८ ॥
वश्यस्तु तादृशोऽपि संयोगमर्हत्येवेत्याह—
गुणसाम्येऽभियोक्तॄणामेको वरयिता वरः । तत्राभियोक्तरि श्रैष्ठ्यमनुरागात्मको हि सः ॥ ५९ ॥
इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे एकपुरुषाभियोगाः प्रयोज्योपावर्त्तनमभियोगतश्च कन्यायाःप्रतिपत्तिश्चतुर्थोऽध्यायः ।
२५ का० सू०
१९४ सटीक कामसूत्रे [ ३ आधिकरण,
गुणेति । यथोक्तगुणानां साम्ये, एको वरयिता वर इति । व्रियन्त-
इति वराः सर्व एवाभियोक्तारः, तेषां वर एको वरयिता वरणे साधुः,
‘वर ईप्सायां’ साधुकारिणि तृन्, तस्मिन्नभियोक्तरि वरयितृत्ववि-
शिष्टे, श्रेष्ठता तस्यानुरागात्मकत्वात् ॥ ५९ ॥
इत्यभियोगतः कन्यायाः प्रतिपत्तिस्त्रिंशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां कन्यासं- प्रयुक्तके तृतीयेऽधिकरणे एकपुरुषाभियोगः, प्रयोज्योपावर्तनमभियोगतश्च कन्यायाः प्रतिपत्तिश्चतुर्थोऽध्यायः ।
पञ्चमोऽध्यायः ।
एवमनुरञ्जितां स्वयंवरप्रवृत्तां च गान्धर्वेण योजयेद्, विपरीतामा- सुरादिभिरिति विवाहयोगा उच्यन्ते-तत्र गान्धर्वेण या प्रायशो विविक्ता- दृश्यन्ते, तस्या बहुसिद्ध्याः सुकरमभिप्रेतदेशनयनं, या तु न प्रायश- स्तस्यास्तावत्सहायसाध्यविधिमाह—
प्राचुर्येण कन्याया विविक्तदर्शनस्यालाभे धात्रेयिकां प्रिय- हिताभ्यामुपगृह्योपसर्पेत् ॥ १ ॥
प्राचुर्येणेति । धात्रेयिकां पुरुषप्रवृत्तामत्यर्थाद् , उपगृह्य प्रियहिता- भ्यामुपसर्पेत् , तस्याः समीपे निसृष्टार्थां प्रेषयेत् ॥१॥
सा चैनामविदिता नाम नायकस्य भूत्वा तद्गुणैरनुरञ्ज- येत् ॥ २ ॥
सा चेति । सा = उपसर्पिता, अविदिता नाम, नायकस्याविदितेव भूत्वा; कृतकप्रयोगपरिहारार्थं, तद्गुणैरिति । तस्य नायकस्य गुणैः॥२॥
तस्याश्च रुच्यान्नायकगुणान्भूयिष्ठमुपवर्णयेत् ॥ ३ ॥
तस्याश्चेति । रुच्यानभीष्टान् ॥ ३ ॥
अन्येषां वरयितॄणां दोषानभिप्रायविरुद्धान्प्रतिपादयेद् माता- पित्रोश्च गुणानभिज्ञतां लुब्धतां च चपलतां च बान्धवानाम् ॥४॥
अभिप्रायविरुद्धानिति । यथा नेच्छति तानियं तथेत्यर्थः, गुणानभि- ज्ञतां लुब्धतां चेति । ‘अगुणज्ञौ तव पितरौ लुब्धौ च, येन गुणवन्तमप- हायान्यं धनिनं निर्गुणं गवेषयतः’ इति प्रतिपादयेत् ॥ ४ ॥
५ अध्याये ] विवाहयोगप्रकरणम् । १९५
याश्चान्या अपि समानजातीयाः कन्याः शकुन्तलाऽऽद्याः स्वबुद्ध्या भर्तारं प्राप्य संयुक्ता मोदन्ते स्म ताश्चास्या निदर्शयेत् ॥ ५ ॥
समानजातीया इति । मोदन्ते स्म = प्रमुदितवत्यः, नानुरूपोऽयं ममेति स्वबुद्ध्याऽवधारणं, न पित्रोरिच्छया, तथा कर्तव्ये शकुन्तलाऽऽदिकृताः कथाः कथयेत्, कौशिकः स्वतपोविघ्नार्थमिन्द्रसंप्रेषितामप्सरसं मेनकां दृष्ट्वा जातरागश्चकमे, सा च तद्वीर्यग्रहणात्तत्रैव कन्यां प्रसूय त्यक्त्वा चारण्ये दिवं जगाम, शकुन्तसंपातमध्यगतां च तां कन्यां कण्वर्षिः करुणयाऽऽश्रममानीय वर्धितवान्, यथार्थं च शकुन्तलेति नाम चक्रे, सा च कालेन प्राप्तयौवना मृगयाप्रसङ्गादागतं दुष्यन्तं राजानं दृष्ट्वा स्वबुद्ध्या पाणिं ग्राहितवतीति, आदिशब्दाद्राजदारिकाः कन्या निदर्शयेत्, ॥ ५ ॥
महाकुलेषु सापत्नकैर्बाध्यमाना विद्धिष्टा दुःखिताः परित्यक्ताश्च दृश्यन्तायातिं चास्य वर्णयेत् ॥ ६ ॥
महाकुलेष्विति । महाकुलेषु च लोभात्पित्रा दत्ता नियतं सापत्नकैर्बाध्यन्ते, ततश्च विद्धिष्टाः परिजनस्य परित्यक्ताः सत्यो दुःखिता दृश्यन्त इति दर्शयेद्, आयतिमुत्तरभाविनमर्थम्, भविष्यति चेति ॥ ६ ॥
सुखमनुपहतमेकचारितायां नायकानुरागं च वर्णयेत् ॥ ७ ॥
एकचारितायामिति । एकपत्नीत्वे सुखमनुपहतं वर्णयेत् सापत्न्यदुःखाभावाद्, नायकानुरागं चेति ॥ ७ ॥
समनोरथायाश्चास्या अपायं साध्वसं व्रीडां च हेतुभिरवच्छिन्द्यात् ॥ ८ ॥
समनोरथाया इति । अस्त्येवायमस्या मनोरथः, किं तु दोषान्पश्यतीत्युत्प्रेक्ष्याह — अपायमिति । विनाशं कुतश्चित्, साध्वसं = भयं,-गुरुजनाद्, व्रीडां परिजनेषु, हेतुभिरपायैर्दर्शनैरपनयेत् ॥ ८ ॥
दूतीकल्पं च सकलमाचरेत् ॥ ९ ॥
दूतीकल्पं च पारदारिके वक्ष्यमाणं प्रतारणप्रकरणम्, ॥ ९ ॥
त्वामजानतीमिव नायको बलाद्ग्रहीष्यतीति तथा सुपरिगृहीता स्यादिति योजयेत् ॥ १० ॥
त्वामजानतीमिवेति । अजानतीमिव बलात्कारेण ग्रहीष्यति तदा न तव दोषः, तथेति । तेन प्रकारेण सुगृहीतं स्याद् वचनोयाभावादित्यमुंचार्थं योजयेत् ॥ १० ॥
१९६ सटीक कामसूत्रे [ ३ अधिकरणे,
प्रतिपन्नामभिप्रेतावकाशवर्तिनीं नायकः श्रोत्रियागारादग्निमा-
नाय्य कुशानास्तीर्य यथास्मृति हुत्वा च त्रिः परिक्रामेत् ॥ ११ ॥
प्रतिपन्नामिति । अभ्युपगतार्थामेकान्तदेशवर्तिनीं, श्रोत्रियेति । तत्राग्नेः संस्कृतत्वादित्यर्थः, यथास्मृति स्वगृह्योक्तविधिना, त्रिः परिक्रामेत् कन्यामग्निं भ्रमयेत् ॥ ११ ॥
ततो मातरि पितरि च प्रकाशयेत् ॥ १२ ॥
प्रकाशयेत्, प्रणिधिना यथा नायकेनोढेति ॥ १२ ॥
अग्निसाक्षिका हि विवाहा न निवर्तन्त इत्याचार्यसमयः ॥ १३ ॥
न निवर्तन्त इति । नान्येनोह्यत इति दर्शयति, तेन धर्मविवाहेष्वग्निसंनिधानं कार्यमिति ॥ १३ ॥
दूषयित्वा चैनां शनैः स्वजने प्रकाशयेत् ॥ १४ ॥
दूषयित्वेति । अभिगम्येत्यर्थः, नोद्वाहितमात्रां, शनैः स्वजने प्रकाशयेत्, तस्या आत्मीयकरणार्थम् ॥ १४ ॥
यथा पितरौ तथाविधामपि न प्रयच्छत इति तदाह—
तद्बान्धवाश्च यथा कुलस्याघं परिहरन्तो दण्डभयाच्च तस्मा-
एवैनां दद्युस्तथा योजयेत् ॥ १५ ॥
तद्बान्धवा इति । नायिकाबान्धवाः, नायकोपगृहीतेत्यघं दोषं परिहरन्तो, यदि तस्मै न प्रतिपाद्यते तदा कुलं दुष्यत इति, दण्डभयाच्चेति । एवं चानुश्रीयमानं यदि राजा शृणुयात्तदा दण्डं पातयेदिति, तस्मा एव नायकायैव, तथा योजयेत् प्रतिविदध्यान्नायकः ॥ १५ ॥
अनन्तरं च प्रीत्युपग्रहेण रागेण तद्बान्धवान्प्रणियेदिति ॥ १६ ॥
अनन्तरं च तत्प्रतिपादनस्य, प्रीत्युपग्रहेण मुकुरवस्त्रादिदानेन बाह्यानुरागेण चान्तरेण वा प्रीणयेत्तर्पयेद् ॥ १६ ॥
गान्धर्वेण विवाहेन वा चेष्टेत ॥ १७ ॥
गान्धर्वेण चेष्टेतेति । एवं गान्धर्वविधिरुक्तः ॥ १७ ॥
आन्तरस्थामधिकृत्याह—
अप्रतिपद्यमानायामन्तश्चारिणीमन्यां कुलप्रमदां पूर्वसंसृष्टां प्रीयमाणां चोपगृह्य तया सह विषह्यमवकाशमेनामन्यकार्यापदेशे-
नानाययेत् ॥ १८ ॥
५ अध्याये ] विवाहयोगप्रकरणम् । १९७
अप्रतिपद्यमानायामिति । स्वयं पाणिग्रहणमकुर्वत्याम्, अन्तश्चारिणीमन्यामिति । अन्तरङ्गां कुलस्त्रियम्, पूर्वसंबद्धां पित्रोः सौजन्येन प्रीयमाणां नायकस्य, उपगृह्येति । द्रव्येण स्वीकृत्य, विषह्यमिति गम्यम्, अन्यकार्यापदेशेनेति । अन्यं कार्यमपदिश्यानाययेत्प्रणिधिना ॥ १८ ॥
ततः श्रोत्रियागारादग्निमिति समानं पूर्वेण ॥ १९ ॥
समानं पूर्वेणेति । श्रोत्रियागारादित्यादि पूर्ववदित्यर्थः, अग्न्याहरणमात्रेण गान्धर्वेण तुल्यमित्ययमेकः प्रकारः ॥ १९ ॥
आसन्ने च विवाहे मातरमस्यास्तदभिमतान्यवरदोषैरनुशयंग्राहयेत् ॥ २० ॥
आसन्ने चास्या विवाहेऽन्येन वरेण सह, तदभिमतान्यवरदोषैरिति । नायिकामातुरभिमतो योऽन्यो वरस्तस्य दोषैः क्लैब्यपतनादिभिस्तामनुशयं ग्राहयेत् ॥ २० ॥
ततस्तदनुमतेन प्रातिवेश्याभवने निशि नायकमानाय्य श्रोत्रियागारादग्निमिति समानं पूर्वेण ॥ २१ ॥
तत इति । अनुशयग्रहणादूर्ध्वं, तदनुमतेन = मातुरभिप्रायेण, प्रातिवेश्याभवन इति । तस्या द्रव्येणोपगृहीतत्वादिति द्वितीयः ॥ २१ ॥
भ्रातरमस्या वा समानवयसं वेश्यासु परस्त्रीषु वा प्रसक्तमसुकरेण साहाय्यदानेन प्रियोपग्रहैश्च सुदीर्घकालमनुरञ्जयेदन्ते च स्वाभिप्रायं ग्राहयेत् ॥ २२ ॥
अस्या भ्रातरं तुल्यवयसमेकान्तप्रसक्तमसुकरेण कष्टसाध्येन दुःसाध्यस्त्रीसंपादनादिना, प्रियोपग्रहेरिति । सामदानैरन्यैर्वैत्यनुरञ्जनविधिः, स्वाभिप्रायमिति । स्वद्भगिनीं परिणेतुमिच्छामि ॥ २२ ॥
प्रायेण हि युवानः समानशीलव्यसनवयसां वयस्यानामर्थे जीवितमपि त्यजन्ति ततस्तेनान्यकार्यात्तामानायेद् विषह्यं सावकाशमिति समानं पूर्वेण ॥ २३ ॥
वयस्यानामिति । मित्राणामर्थे जीवितमपि परित्यजन्ति किमु भगिनीं न प्रयच्छन्ति, तत इति । प्रदानादूर्ध्वं, तेनैवेति । भ्रात्रा, अन्यकार्यादिति । ल्यब्लोपे पञ्चमी, अन्यकार्यमुद्दिश्येत्यर्थः, तत्रापि नायिकामानाययेदिति तृतीयः ॥ २३ ॥
१९८ सतीके कामसूत्रे [ ३ अधिकरणे,
सुप्तप्रमत्तोपगमात्पैशाचः, तमधिकृत्याह— अष्टमीचन्द्रिकाऽऽदिषु च धात्रेयिका मदनीयमेनां पाययित्वा किं चिदात्मनः कार्यमुद्दिश्य नायकस्य विषयं देशमानयेत् ॥ २४॥
अष्टमीचन्द्रिकाऽऽदिष्विति। अष्टमीचन्द्रिकाऽऽदिषु, तत्र दिवसमुपोष्य पूजापुरःसरं रात्रिजागरणमाचन्द्रोदयम्, अनन्तरं तां धात्रेयिका नाय-कपसक्ता मदनीयं सुराऽऽदिकं पाययित्वा, किंचिदात्मनः कार्यमिति। अङ्गुलीयकं विस्मृत्यागताऽस्मि तत्र गच्छाव इत्युपदिश्यानयेदित्यर्थः ॥२४
तत्रैनां मदात्संज्ञामप्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण ॥२५॥
तत्रेति। विषयदेशे, संज्ञां = चेतनां, दूषयित्वेति। दूषयित्वा चैनां-शनैः स्वजनेषु प्रकाशयेत्, तद्बान्धवाश्चेत्यादि पूर्ववदित्येकः प्रकारः॥२५॥
सुप्तां चैकचारिणीं धात्रेयिकां वारयित्वा संज्ञामप्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण ॥ २६ ॥
सुप्तां चैकचारिणीमिति। एकाकिनीं, तत्र सुप्तेति द्वितीयः, अत्रा-भ्याहरणादिकं नास्ति, अधर्मत्वादिति ॥ २६ ॥
प्रसह्याहरणाद्राक्षसस्तमधिकृत्याह— ग्रामान्तरमुद्यानं वा गच्छन्तीं विदित्वा सुसंभृतसहायो ना-यकस्तदा रक्षिणो वित्रास्य हत्वा वा कन्यामपहरेदिति वि-वाहयोगाः ॥ २७ ॥
ग्रामान्तरेति। स्वस्माद् ग्रामादन्यं ग्रामं, सुसंभृतसहाय इति। सुसंनद्धबहुसहायः, रक्षिणः = कन्यारक्षकान्, वित्रास्य, ते यथा त्यक्त्वा पलायन्ते, हत्वा वा प्रहारैः, कन्यामपहरेत्, कृष्णवद्रुक्मिणीम्, अत्रा-प्यधर्मत्वान्नाङ्गभ्याहरणादि, स्वगृहमेव च नीत्वा दूषणमिति, न किंचि-दतिदिष्टं, विवाहयोगा गान्धर्वादीनां विषयाः ॥ २७ ॥
अष्टानां विवाहानां मध्ये किमपेक्षया कस्य प्राधान्यमित्याह— पूर्वः पूर्वः प्रधानं स्याद्विवाहो धर्मसंस्थितेः । पूर्वाभावे ततः कार्यो यो य उत्तर उत्तरः ॥ २८ ॥
पूर्वः पूर्व इति। धर्मसंस्थितेरिति। धर्मतो व्यवस्थानादित्यर्थः, तत्र पूर्वे धर्म्याश्चत्वारः, अस्मिन्दर्शने गान्धर्वादु ब्राह्मादयः प्रधानं, तत्रापि के चित्तरतमभेदेन पूर्वः पूर्व इत्याहुः, गान्धर्वो ह्यासुरान्, पण्डित्येक-स्मिन्पक्षे एतौ द्वावति धर्म्यौ, किं तु यथा पूर्वे न तथा परतः, यथा च गान्धर्वो न तथाऽऽसुर इति।