भारतकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

२ अध्याये ] परिचयकारणप्रकरणम् । २३३

ङ्गनं संक्रान्तकं, जिह्वया च प्रसारिता, प्रदेशिन्या = तर्जन्या, हनुदेश- घट्टनं = कपोलयोरधस्ताच्चालनं, तामुद्दिश्येति सर्वत्र योज्यं, तत्तदि- ति। अन्यदप्येवंविधं, यथायोगमिति। यद्यस्य युज्यते स्पर्शनं ताडनं वा, यथाऽवकाशमिति। यथाप्रदेशं कक्षयोरुरसि पृष्ठे वा बालस्य विधेयम्॥७॥

तस्याश्चाङ्कगतस्य बालस्य लालनं, बालक्रीडनकानां चास्य दानं, ग्रहणं, तेन संनिकृष्टत्वात्कथायोजनं, तत्सम्भाषणक्षमेण ज- नेन च प्रीतिमासाद्य कार्य, तदनुबन्धं च गमनागमनस्य योजनं,- संश्रवे चास्यास्तामपश्यतो नाम कामसूत्रसङ्कथा ॥ ८ ॥

तस्याश्चेति। नायिकायाः, अङ्कगतस्य = क्रोडस्थस्य, लालनं मृदुना वचसा, बालक्रीडनकानां = जातुषगुलिकाऽऽदीनां दानं, तेनेति। दानग्रह- णसम्बन्धेन संनिकृष्टत्वात्कथायोजनं कार्यशरीरगर्भस्य वाक्यस्य योजन- मित्यर्थः, तत्संभाषणक्षमेणेति । तया सह यत्संभाषणं तत्र क्षमो यो- जनस्तत्प्रीतिमित्यर्थः, तेन सह प्रीतिमासाद्य संयोज्य कार्यं प्रयोक्तव्य- मिति शेषः, तदनुबन्धं चेति । कार्यानुबन्धं गमनागमनस्य प्रयोजनं, येन लोकोऽनेन कार्येणास्य गमनागमनं नान्येनेति मन्यते, संश्रवे चास्या- इति। यत्र सा शृणोति तत्र कामसूत्रसङ्कथा विज्ञत्वख्यापनार्थं, तत्रापि तामपश्यतो नामेति । न किलाहमेनां पश्यामीति, अन्यथा तां पश्यतः- कथयतो दुर्विदग्धता स्यात् ॥ ८ ॥

आभ्यन्तरमधिकृत्याह—

प्रसृते तु परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात् ॥९॥

प्रसूत इति । प्रसृते न तु सर्वथोत्पन्ने परिचये, न्यासाः संस्था- प्याश्चिरकालग्राह्याः, निक्षेपं यदल्पकालग्राह्यम् ॥ ९ ॥

तत्प्रतिदिनं प्रतिक्षणं चैकदेशतो गृह्णीयात् सौगन्धिकं पूग- फलानि च ॥ १० ॥

तत्र प्रतिदिनं न्यासं, प्रतिक्षणं निक्षेपकं, तदुभयमेकदेशतः स्तो- कस्तोकेन गृह्णीयात्, तदेव यथाक्रमं दर्शयति—सौगन्धिकं पूगफलानि चेति। सौगन्धिकं = सुगन्धिद्रव्याणां समूहः, तद्वारेण प्रतिदिनं न्यासं- निक्षेपं च, यदल्पकालग्राह्यं प्रतिक्षणं च दृश्यते ॥ १० ॥

तामात्मनो दारैः सह विस्रम्भगोष्ठ्यां विविक्तासने च यो- जयेद् विश्वासानार्थं च ॥ ११ ॥

विस्रम्भगोष्ठ्यां विविक्तासने चेति। तामुपनिमन्त्र्यास्माभिः प्रच्छन्ने

३० का० सू०

२३४ सटीके कामसूत्रे [ ५ अधिकरणे

समुपविश्य; पानगोष्ठी कर्तव्येत्यभिधाय; स्वदारैः सह तत्र विश्वासनाथं योजयेत् ॥ ११ ॥

नित्यदर्शनार्थं सुवर्णकारमणिकारवैकटिकनीलीकुसुम्भरञ्जकादिषु च कर्मार्थिन्यां सहात्मनो वश्यैश्चैषां तत्सम्पादने स्वयं प्रयतेत ॥ १२ ॥

नित्यदर्शनार्थं चेति । प्रतिक्षणं दर्शनार्थं, स्वयं प्रयतेतेति, वक्ष्यमाणेन सम्बन्धः, वैकटिकः = रत्नानां परिशोधकः, नीलीरञ्जककुसुम्भरञ्जकौ प्रतीतौ, आदिशब्दात्त्वष्टृकांस्यकारादयः, तेषां कर्मार्थिन्यां सत्यामात्मवश्यैर्विधेयैः सुवर्णकारादिभिः, तत्सम्पादने = सुवर्णादिकर्मसम्पादने॥ १२॥

तदनुष्ठाननिरतस्य लोकविदितो दीर्घकालं संदर्शनयोगः ॥१३॥

तदनुष्ठाननिरतस्येति । सुवर्णादिकर्म स्वयमधिष्ठाय कारयतः संदर्शनयोगो न प्रच्छन्नयोगः स्याद्, अपि तु दीर्घकालं लोकस्य विदितः, अन्यथा लोकस्तं दृष्ट्वा सहसा विकल्पयति ॥ १३ ॥

तस्मिन्नान्येषामपि कर्मणामनुसन्धानं येन कर्मणा द्रव्येण कौशलेन चार्थिनी स्यात्तस्य प्रयोगमुत्पत्तिमागममुपायं विज्ञानं चात्मायत्तं दर्शयेत् ॥ १४ ॥

तस्मिन्निति । कर्मण्यनुष्ठीयमानेऽसमाप्त एवान्येषां कर्मणामनुसन्धानं कर्तव्यं, मा भूद्दर्शनविच्छेद इति, येनेति । कर्मणा = दुष्करेण, द्रव्येण = दुष्प्रापेण, कौशलेन = दुरागमैन, तस्येति । यथोक्तस्य कर्मणः प्रयोगं यथा तत्प्रयुज्यते, द्रव्यस्योत्पत्तिं यथा तद् भवति, कौशलस्यागमं यथा तदागम्यते, उपायं विज्ञानं चेति । त्रयाणामपि यथासंभवमुपायं विज्ञानं चात्मायत्तं, सर्वमेतद् दर्शयेत् ॥ १४ ॥

पूर्वप्रवृत्तेषु लोकचरितेषु द्रव्यगुणपरीक्षासु च तया तत्परिजनेन च सह विवादः ॥ १५ ॥

पूर्वप्रवृत्तेष्विति । नेदानीं प्रवृत्तेषु तेषामनार्षत्वाद्, लोके प्रवृत्तेषु पुराणरामायणभारतोक्तेषु प्रसङ्गादुदीरितेषु, द्रव्याणां च गुणपरीक्षासु, तया नायिकयाऽन्यैस्तत्परिजनेैः सह विवादः कर्त्तव्यः, नैवमिदमेवमिति ॥ १५ ॥

तत्र निर्दिष्टानि पणितानि तेष्वेनां प्राश्निकत्वेन योजयेत् ॥१६॥

तत्रेति । विवादे, निर्दिष्टानीति । यद्यन्यथा स्यादिदं देयमिति, तेषु च पणितेषु, एनां नायिकाम्, प्राश्निकत्वे नियोजयेद्, यद्यन्यैः सह

शास्त्रकार एव प्रकरणसम्बन्धमाह—

२ अध्याये ] अभियोगप्रकरणम् । २३५

विवादः ॥ १६ ॥

तया तु विवदमानोऽन्यं तद्भक्तमिति परिचयकारणानि॥ १७॥

तया त्विति । नायिकया, अन्यमिति । परिजनं, तद्भक्तमिति । नायिकापक्षपातिनं, योजयेद् नायिकाविजयस्याभिप्रेतत्वात् ॥ १७ ॥

इति परिचयकारणानि त्रयश्चत्वारिंशं प्रकरणम् ॥

शास्त्रकार एव प्रकरणसम्बन्धमाह—

कृतपरिचयां दर्शितेङ्गिताकारां कन्यामिवोपायतोऽभियुञ्जीतेति ॥ १७ ॥

कृतपरिचयामिति । कन्यामिवेति । तस्या अपि दर्शितेङ्गिताकाराया-एवाभियोग उपायत इत्युपाया अभियोगाः, अभियुज्यन्त एभिरिति कृत्वा त एवात्रापि द्रष्टव्या; ये कन्यासंप्रयुक्तकेऽभिहिताः ॥ १७ ॥

विशेषमाह—

प्रायेण तत्र सूक्ष्मा अभियोगाः कन्यानामसम्प्रयुक्तत्वात् ॥१८॥

प्रायेणेति । तत्रेति । कन्यायां, सूक्ष्मा इत्यनभिव्यक्तभावाः, असम्प्रयुक्तत्वादव्युत्पन्नत्वादित्यर्थः ॥ १८ ॥

इतरासु तानेव स्फुटमुपदध्यात् सम्प्रयुक्तत्वात् ॥ १९ ॥

इतरासु तु परस्त्रीषु, तानेव ये कन्यासूक्ताः, स्फुटमिति । क्रियाविशेषणम् , अभिव्यक्तभावं प्रयुञ्जीतेत्यर्थः, तासां संप्रयोगे प्रवृत्तत्वाद्, ये तु तास्वेव विशेषेण युज्यन्ते, ते द्विविधाः-बाह्या आभ्यन्तराश्च, ॥ १९ ॥

तत्र पूर्वानधिकृत्याह—

संदर्शिताकारायां निर्भिन्नसद्भावायां समुपभोगव्यतिकरे तदीयान्युपयुञ्जीत ॥ २० ॥

संदर्शिताकारायामिति । निर्भिन्नसद्भावायामिति । प्रकटितसद्भावायां सत्यां, समुपभोगव्यतिकरे तदीयानीति । नायिकावस्तूनि स्वयमपयुञ्ज्यात्स्वकानि च स्वमिव तामुपयोजयेत् ॥ २० ॥

तत्र महार्हगन्धमुत्तरीयं कुसुमं चात्मीयं स्यादङ्गुलीयकं च तद्धस्तात् ताम्बूलग्रहणं गोष्ठीगमनोद्यतस्य केशहस्तपुष्पयाचनम् ॥२१॥

तत्रेति । परिवर्तमाने, महार्हगन्धम् = अत्यन्तसुरभि, उत्तरीयं कुसुमं च, आत्मीयं स्यात् = स्वीकुर्यादित्यर्थः, अङ्गुलीयकं च महार्हं स्यात्, तद्धस्तान्नायकहस्ताद्यदि तया ताम्बूलं गृहीतं, गोष्ठीगमनोद्यतस्येति ।

२३६ सटीक कामसूत्रे [ ५ अधिकरणे,

कर्तरि षष्ठी, केशहस्तः = केशकलापः, तत्रत्यपुष्पयाचनं, सिद्धिकरमेतदिति ॥ २१ ॥

तत्र महार्हगन्धं स्पृहणीयं स्वनखदशनपदचिह्नितं साकारं दद्यात् ॥ २२ ॥

स्वयं तु ददन्नायको यन्महार्हगन्धं स्पृहणीयं लोकस्य, तदन्यहस्तेन यदा दद्यात्तदा स्वनखदशनपदचिह्नितं, यदा स्वहस्तेन तदा साकारं, क्रियाविशेषणमेतद्, एवं प्रकारद्वयेऽपि भावः सूचितो भवति ॥ २२ ॥

अधिकैरधिकैश्चाभियोगैः साध्वसविच्छेदनम् ॥ २३ ॥

अधिकैरधिकैः पूर्वपूर्वेभ्यः, साध्वसविच्छेदनम्, प्रायेण परयोषित्परपुरुषेषु ससाध्वसा भवति ॥ २३ ॥

आभ्यन्तरानधिकृत्याह--

क्रमेण च विविक्तदेशे गमनमालिङ्गनं चुम्बनं ताम्बूलस्य ग्राहणं दानान्ते द्रव्याणां परिवर्तनं गुह्यदेशाभिमर्शनं चेत्यभियोगाः ॥ २४ ॥

क्रमेण चेति । यदैकान्तेन गतसाध्वसा, तदा विविक्तदेशगमनं यस्मिन्प्रच्छन्ने देशे तिष्ठति, तत्र चालिङ्गनादयः प्रयोक्तव्याः, गुह्यदेशाभिमर्शनं = कक्षोरुमूलजघने विमर्दनम् , उत्क्षिप्तकेन ॥ २४ ॥

अभियोगस्याविषयमाह-

यत्र चैकाभियुक्ता न तत्रापरामभियुञ्जीत, तत्र या वृद्धाऽनुभूतविषया प्रियोपग्रहैश्च तामुपगृह्णीयात् ॥ २५ ॥

यत्र चेति । गृहे, परामिति । द्वितीयां नाभियुञ्जीत, परस्परकलहाद् विगोपनं स्याद्, यत्र वा गृहे वृद्धा स्त्री, अनुभूतविषया प्रवृत्तपरपुरुषसंप्रयुक्तत्वाद्, न तत्र स्त्रियमभियुञ्जीतेत्येव, प्रियोपग्रहैश्चेति । प्रियं यदा स्वसुखकारणं तदैवोपग्रहः, उपगृह्यतेऽनेनेति, उपगृह्य स्वीकृत्योपन्यस्यात् ॥ २५ ॥

श्लोकावत्र भवतः-

अन्यत्र दृष्टसंचारस्तद्भर्ता यत्र नायकः ।
न तत्र योषितं कां चित्सुप्रापामपि लङ्घयेत् ॥ २६ ॥

यत्रेति । यस्मिन्गृहे नायिकाया भर्ता, अन्यस्यां योषिति दृष्टसंचारो दृष्टाभिगमो न तत्र गृहे, सुप्रापामपि = सुलभामपि, लङ्घयेदधिगच्छेदित्यर्थः ॥ २६ ॥

३ अध्याये ] भावपरीक्षाप्रकरणम् । २३७

शङ्कितां रक्षितां भीतां सश्वश्रूकां च योषितम्।
न तर्कयेत मेधावी जानन्प्रत्ययमात्मनः॥ २७॥

इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे परिचयकारणान्यभियोगा द्वितीयोऽध्यायः।

शङ्कितामभियोक्तरि जाताशङ्कां, रक्षितां शत्रिभिः, भीतां पत्युः, सश्वश्रूकां श्वश्रूवधिष्ठितां, न तर्कयेत = नाभिलषेद्, जानन्प्रत्ययमिति। अहमत्राशक्त इति निश्चयमधगिच्छन्॥ २७॥

इत्यभियोगाश्चतुश्चत्वारिंशं प्रकरणम्॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां पारदारिके पञ्चमेऽधिकरणे परिचयकारणान्यभियोगा द्वितीयोऽध्यायः।


तृतीयोऽध्यायः।

सत्यप्यभियोगे धीराः प्रगल्भाः परीक्षिप्यो याः स्त्रियस्ता न निर्भि-न्नसद्भावास्ततश्च न तासु विशेषाभियोग इति भावपरीक्षोच्यते--

अभियुञ्जानो योषितः प्रवृत्तिं परीक्षेत तया भावः परीक्षि-तो भवति ॥ १ ॥

कन्यामिवामियुञ्जानः, प्रवृत्तिं = चेष्टां, परीक्षेत, अनया हि परीक्षि-तया भावः परीक्षितो भवति ॥ १ ॥

कथं साधयेत्याह—

मन्त्रमवृण्वानां दूत्यैनां साधयेत् ॥ २ ॥

मन्त्रमवृण्वानामिति। सांप्रयोगिकं भावमप्रकाशयन्तीं, दूत्या साध-येद् अप्रगल्भत्वात् ॥ २ ॥

अप्रतिगृह्णाभियोगं पुनरपि संसृज्यमानां द्विधाभूतमानसां वि-द्यात् तां क्रमेण साधयेत् ॥ ३ ॥

अप्रतिगृह्याभियोगं नायकेन क्रियमाणं प्रत्याख्याय, पुनरपि कियतो-दिवसान्स्थित्वा; संसृज्यमानां नायकेन संसर्गे यातां, द्विधाभूतमानसां-विद्यात्, परीक्षणीयत्वात्, किं कुर्यामहं न वेद्मीति, तां क्रमेण साधयेदु न सहसा परित्यजेत् ॥ ३ ॥

अत्र विशेषमाह—
अप्रतिगृह्णामियोगं सविशेषमलंक्रुता च पुनर्द्दश्येत तथैव त-

२३८ सटीक कामसूत्रे [ ५ अधिकरणे,

मभिगच्छेच्च विविक्ते बलाद्ग्रहणीयां विद्यात् ॥ ४ ॥

सविशेषमिति । यथा पूर्वमलंक्रियमाणा ततः सविशेषमलंकृता, पुनर्नायकेन दृश्येत, तथैव चाभिगच्छेन्नायकं, नायिकां विविक्ते स्थितां, बलाद् ग्रहणीयां = हठाद् ग्राह्यां, विद्याद् धीरत्वात् ॥ ४ ॥

बहूनपि विषहेतेऽभियोगान्न च चिरेणापि प्रयच्छत्यात्मानं सा शुष्कप्रतिग्राहिणी परिचयाद्विघटनसाध्या ॥ ५ ॥

बहूनपि विषहते ये ये क्रियन्ते, न च चिरेणापीति । बहुभिरपि दिवसैः, शुष्कप्रतिग्राहिणीति । अर्थशून्यानभियोगान्प्रतिग्रहीतुं शीलमस्याः, अतिपरोक्षणीयत्वात्, परिचयविघटनसाध्येति । परिचयापनयसाध्या ॥ ५ ॥

कथं तदपनयनात्सिध्यतीत्याह—

मनुष्यजातेश्चित्तानित्यत्वात् ॥ ६ ॥

मनुष्यजातेरिति । तद्गतोऽभिधानं, चित्तानित्यत्वादिति । मनसश्चलत्वाद्, यतो विच्छिन्ने परिचये पुनः स्वयं संघत्ते ॥ ६ ॥

अभियुक्ताऽपि परिहरति न च संसृज्यते न च प्रत्याचष्टे तस्मिन्नात्मनि च गौरवाभिमानात् साऽतिपरिचयात्कृच्छ्रसाध्या मर्मज्ञया दूत्या तां साधयेत् ॥ ७ ॥

अभियुक्ताऽपि परिहरति, अभियोगं परिहृत्यापि का चित्संसर्गं यास्यतीत्याह-न च संसृज्यत इति । तस्या आत्मन्यभिमानाद्, न च प्रत्याचष्टे, नायकमेकान्तेन, तस्मिन्नायके च गौरवाभिमानात्, साऽतिपरिचयात्कृच्छ्रेण साध्या तस्या ह्यतिधीराया अतिपरिचयेन गौरवाभिमानौ कृच्छ्रेण स्फुटतः, मर्मज्ञया वा दूत्या साध्या तद्वशत्वात् ॥ ७ ॥

तत्र विशेषमाह—

सा चेदभियुज्यमाना पारुष्येण प्रत्यादिशत्युपेक्ष्या ॥ ८ ॥

सा चेदिति । पारुष्येण प्रत्यादिशति, निष्ठुरवाक्येन नायकं प्रत्याचष्टे, उपेक्षेत नाभियुञ्जीत ॥ ८ ॥

अत्रापि विशेषमाह—

परुषयित्वाऽपि तु प्रीतियोजिनीं साधयेत् ॥ ९ ॥

परुषयित्वाऽपि त्विति । परुषमुक्त्वाऽपि, प्रीतियोजनशीलां, साधयेत्पुनरभियुञ्जीत, तस्या जातविप्रतिपत्तिसारत्वात् ॥ ९ ॥

कारणात्संस্পর্শनं सहते नावबुध्यते नाम द्विधाभूतमानसा सा-

३ अध्याये ] भावपरीक्षाप्रकरणम् । २३६

तत्येन क्षान्त्या वा साध्या ॥ १० ॥

कारणादिति। कुतश्चिन्निमित्तात्संस्पर्शनमभियोगं सहते न शुष्कप्रतिग्राहिणीत्यर्थः, नावबुध्यते नामेति। नायकाभिप्रायमजानतीव संस्पर्शनं सहते सैवम्भूता द्विधाभूतमानसा परीक्षणीयत्वात्, सातत्येन क्षान्त्या वा साध्येति। अविच्छेदेन संस्पर्शस्य क्षमणं कार्यमित्यर्थः ॥ १० ॥

समीपे शयानायाः सुप्तो नाम करमुपरि विन्यस्येत् साऽपि सुप्ता नामोपेक्षते जाग्रती त्वपनुदेद् भूयोऽभियोगाकाङ्क्षिणी ॥ ११ ॥

समीपे शयानाया आन्तरमभियोगेन प्रवृत्तिं परीक्षेत, सुप्ता नामेति। कृतकसुप्तः करमुपरि विन्यस्येन्नायिकायाः, सुप्ता नामेति। कृतकसुप्तोपेक्षते हस्तं नापनुदति, जाग्रती त्विति। पुनर्जागरणमपदिश्यापनयति, किमर्थमित्याह-भूयोऽभियोगाकाङ्क्षिणीति। अन्यथा किं सुप्तेनैव न्यस्तः किंवाऽभियोगार्थं कृतकसुप्तेनेति सन्देहः ॥ ११ ॥

एतेन पादस्योपरि पादन्यासो व्याख्यातः ॥ १२ ॥

एतेन हस्तन्यासेन ॥ १२ ॥

तस्मिन्प्रसृते भूयः सुप्तसंश्लेषणमुपक्रमेत ॥ १३ ॥

तस्मिन्निति। हस्तन्यासे पादन्यासे च, प्रसृते निर्बन्धेन प्रवृत्ते, सुप्तसंश्लेषणमिति। कृतकसुप्ताया आलिङ्गनमेवोपक्रमेत न चुम्बनादिकम् ॥ १३ ॥

तदसहमानामुत्थितां द्वितीयेऽहनि प्रकृतिवर्तिनीमभियोगार्थिनीं- विद्याद् अदृश्यमानां तु दूतीसाध्याम् ॥ १४ ॥

तदिति संश्लेषणम्, उत्थितां शयनात्, प्रकृतिवर्तिनीमकुपिताम्, अभियोगार्थिनीं विद्याद्, दृश्यमानां पुनरभियुञ्जीतेत्यर्थः, अस्या अप्रगल्भत्वाद्, अदृश्यमानां तु प्रकृतिवर्तिनीं दूतीसाध्यां विद्यात्, तद्विषयत्वात् ॥ १४ ॥

चिरमदृष्टाऽपि प्रकृतिस्थैव संसृज्यते कृतलक्षणां तां दर्शिता- कारामुपक्रमेत ॥ १५ ॥

यदा तु तदसहमानोत्थिता चिरं बहून्दिवसानदृष्टा सती पुनरपि प्रकृतिस्थैवाकुपिता संसृज्यते संसर्गं करोतीति, यद्यप्येवं तथाऽपि, कृतलक्षणां तामिति। जातावसरां दर्शिताकारामुपक्रमेताभियुञ्जीत, तस्या-अतिशयेनाप्रगल्भत्वात् ॥ १५ ॥

अनभियुक्ताऽप्याकारयति विविक्ते चात्मानं दर्शयति ॥ १६ ॥

२४० सटीके कामसूत्रे [ ५ अधिकरणे,

अनभियुक्तेति । अभियुक्ता सुतरां तावद्भावसूचकमाकारं दर्शयत्येव ॥१६॥

सवेपथुगद्गदं वदति ॥ १७ ॥

तत्र च यदि वदति सवेपथु सगद्गदम् ॥ १७ ॥

स्विन्नकरचरणाङ्गुलिः स्विन्नमुखी च भवति ॥ १८ ॥

स्विन्नकरचरणाङ्गुलिः स्विन्नमुखी च भवत्येकान्तेनाहितभावत्वात् ॥ १८ ॥

शिरःपीडेन संवाहने चोर्वोरात्मानं नायके नियोजयति ॥१९॥

आतुरा संवाहिका चैकेन हस्तेन संवाहयन्ती द्वितीयेन बाहुना स्पर्शमावेदयति श्लेषयति च ॥ २० ॥

आतुरेति । कामातुरैकान्तेन प्रगल्भा, एवमवस्थाऽपि विविक्ते, संवाहिका चेति । कदा चिदप्रगल्भसंवाहनद्वारेण प्रवृत्तिं दर्शयति, स्पर्शमावेदयतीत्यात्मीयं नायकं ज्ञापयति ॥ २० ॥

विस्मितभावा निद्राऽन्धा वा परिस्पृश्योरुभ्यां बाहुभ्यामपि तिष्ठति ॥ २१ ॥

विस्मितभावेति । विस्मिताख्यो भावो यस्याः, स्पर्शं निवेदयमाना तत्स्पर्शसुखाज्जातविस्मया सती तेनैव द्वितीयबाहुना श्लेषं करोति, निद्राऽन्धा वेति । वा शब्दो भिन्नक्रमः, उभाभ्यां बाहुभ्यां कृतकनिद्रा परिस्पृश्याप्यूरुभ्यां तिष्ठति ॥ २१ ॥

अलिकैकदेशमूर्वोरुपरि पातयति ॥ २२ ॥

अलिकैकदेशमग्रभागं पातयति ॥ २२ ॥

ऊरुमूलसंवाहने नियुक्ता न प्रतिलोमयति ॥ २३ ॥

संवाहयन्ती न प्रतिलोमयति, तत्संवाहनस्येष्टत्वात् ॥ २३ ॥

तत्रैव हस्तमेकमविचलं न्यस्यति ॥ २४ ॥

तत्रैवेति । ऊरुमूले, अविचलं, न्यस्यति लज्जया न व्यापारयति, मा भूज्जघनपार्श्वसंस्पर्श इति ॥ २४ ॥

अङ्गसंदंशेन च पीडितं चिरादपनयति ॥ २५ ॥

अङ्गसन्दंशेन चेति । ऊरुद्वयसंदंशेन नायकेन पीडितं चिरादपनयति, मा भूदिच्छाविघातोऽस्येति ॥ २५ ॥

प्रतिगृह्यैवं नायकाभियोगान् पुनर्द्वितीयेऽहनि संवाहनायोपगच्छति ॥ २६ ॥

इति भावपरीक्षा पञ्चचत्वारिंशं प्रकरणम् ॥

३ अध्याये ] भावपरीक्षाप्रकरणम् । २४१

नायकाभियोगानिति । तस्यामवस्थायामन्यदा वा नायकाभि- योगान्दृष्ट्वा; तदीयं भावं प्रतिगृह्य पुनःसंवाहनायोपगच्छति कार्यस्या- निष्पन्नत्वात् ॥ २६ ॥

नात्यर्थं संसृज्यते न च परिहरति ॥ २७ ॥

नात्यर्थमिति । कदा चिदतिधैर्याद् गूढभावैव प्रवृत्तिं दर्शयति, स्व- यं नात्यन्तं संसृज्यते, न च परिहरति संसृज्यमाना ॥ २७ ॥

विविक्ते भावं दर्शयति निष्कारणं चागूढमन्यत्र प्रच्छन्न- प्रदेशात् ॥ २८ ॥

विविक्ते भावं दर्शयति, माऽन्यो ज्ञासीदिति, अन्यत्र प्रच्छन्नप्रदेशा- दिति । जनसंबाधे गूढ इत्याह-निष्कारणमिति । कारणं विना, गूढत्वा- दिति । प्रच्छन्नत्वात् ॥ २८ ॥

संनिकृष्टपरिचारकोपभोग्या सा चेदाकारिताऽपि तथैव स्यात् सा मर्मज्ञया दूत्या साध्या ॥ २९ ॥

गूढभावत्वेनैव; यः संनिकृष्टः परिचारकस्तेनोपसृज्यते, तेनैव तिष्ठ- तीति ज्ञातव्या, कथं तर्हि ? तस्यां नायकस्य प्रतिपत्तिरित्याह-सा चेदिति । यथोक्ता, आकारिताऽपि नायकेन पुनराकारं ग्राहिताऽपि, तथैव स्याद्- यथैव प्रागुक्ता, मर्मज्ञया दूत्या साध्या तद्वशत्वाद् ॥ २९ ॥

व्यावर्तमाना तु तर्कणीयेति भावपरीक्षा ॥ ३० ॥

व्यावर्त्तमाना दूत्या साध्यमाना मा भूवमिति, सद्भूतं व्यावर्त्तन- कारणमुपन्यस्यति, किं वा सव्याजमिति ॥ ३० ॥

इति भावपरीक्षा पञ्चचत्वारिंशं प्रकरणम् ॥

उक्तमेवार्थं यथाक्रमं दर्शयन्नाह—

भवन्ति चात्र श्लोकाः—
आदौ परिचयं कुर्यात्ततश्च परिभाषणम् ।
परिभाषणसंमिश्रं मिथश्चाकारवेदनम् ॥ ३१ ॥

आदाविति । दर्शनानन्तरं प्रथमं परिचयः, तत इति । प्रकृतात् परिच- यान्न्यासनिक्षेपादिना, परिभाषणसंमिश्रमिति । परिभाषणकाल एवा- कारवेदनं भावसूचकोपलक्षणत्वाद्, इतीङ्गितवेदनं च, यमधिकृत्योक्तं- कृतपरिचयाद् दर्शितेङ्गिताकारामिति ॥ ३१ ॥

३१ का० सु०

इति भावपरीक्षा पञ्चचत्वारिंशं प्रकरणम् ।

२४२ सटीक कामसूत्रे [ ४ अधिकरणे,

प्रत्युत्तरेण पश्येच्चेदाकारस्य परिग्रहम् । ततोऽभियुञ्जीत नरः स्त्रियं विगतसाध्वसः ॥ ३२ ॥

प्रत्युत्तरेणेति । नायकेन दर्शितस्याकारस्य परिग्रहं नायिकया प्रत्युत्तरेण प्रत्याकारेण प्रक्रियमाणं पश्येत्, तत इति । दृष्टात् परिग्रहाद्, विगतसाध्वस इति । निःशङ्कः, किं सेत्स्यति न वेति शङ्काशून्यः ॥ ३२ ॥

द्विविधाः-स्त्रियः, स्फुटा अस्फुटाश्च, तत्र स्फुटासु नायं विधिरिति दर्शयन्नाह—

आकारेणात्मनो भावं या नारी प्राक्प्रयोजयेत् । क्षिप्रमेवाभियोज्या सा प्रथमे स्वेव दर्शने ॥ ३३ ॥

आकारेणेति । नारी याऽन्यदृष्टपूर्वा, प्राक् प्रदर्शयेद् भावम्, प्रथमे स्वेव दर्शने, न द्वितीयादिदर्शनमपेक्षते ॥ ३३ ॥

श्लक्ष्णमाकारिता या तु दर्शयेत्स्फुटमुत्तरम् । साऽपि तत्क्षणसिद्धेति विज्ञेया रतिलालसा ॥ ३४ ॥

श्लक्ष्णमाकारितेति । अस्फुटमाकारं ग्राहिता, स्फुटमुत्तरं प्रत्याकारम्, रतिलालसेति । रतिश्रद्धा ॥ ३४ ॥

अस्फुटासु विधिमाह—

धीरायामप्रगल्भायां परीक्षायां च योषिति । एष सूक्ष्मो विधिः प्रोक्तः सिद्धा एव स्फुटं स्त्रियः ॥ ३५ ॥

इति वात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे भावपरीक्षा तृतीयोऽध्यायः ।

धीरायामिति । धीरायां शनैः प्रवर्त्तते, अप्रगल्भा न शनैरपि परीक्षणीया विमृष्य स्फुटा इति, अनन्तरोक्ते द्वे, याश्चाभियोगमात्रसाध्या उक्तास्ताः स्फुटाः सिद्धा एव ॥ ३५ ॥

इति भावपरीक्षा पञ्चचत्वारिंशं प्रकरणम् ।

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां पारदारिके पञ्चमेऽधिकरणे भावपरीक्षा तृतीयोऽध्यायः ।

४ अध्याये ] दूतीकर्मप्रकरणम् । २४३

चतुर्थोऽध्यायः ।

अभियुञ्जानः प्रवृत्तिं परीक्षेत, यत्र स्वयमभियोगासम्भवस्तत्र दूतीप्रयोग इति दूतीकर्माण्युच्यन्ते यदाह—

दर्शितेङ्गिताकारां तु प्रविरलदर्शनामपूर्वां च दूत्योपसर्पयेत् ॥ १ ॥

दर्शितॆङ्गिताकारामिति । इङ्गिताकारौ दर्शयित्वा; का चिदात्मानं दर्शयति न दर्शयति च, कार्ययोगात्, तामपूर्वां चापरिचितां, न दर्शितेङ्गिताकारामित्यर्थः, दूत्योपसर्पयेदात्मसमीपं ढौकयेत् ॥ १ ॥

तत्र मूलभूतस्तिस्रो दूत्यः—निसृष्टार्था परिमितार्था पत्रहारी चेति, तासां सामान्येन कर्माण्वाह—

सैनां शीलतोऽनुप्रविश्याख्यानकपटैः, सुभगङ्करणयोगैः, लोकवृत्तान्तैः, कविकथाभिः, पारदारिककथाभिश्च, तस्याश्च रूपविज्ञानदाक्षिण्यशीलानुप्रशंसाभिश्च तां रञ्जयेत् ॥ २ ॥

सैनामिति । शीलत इति । शीलेनादावनुप्रविश्य, विश्वासार्थं शीलवती भूत्वेत्यर्थः आख्यानकपटैरिति । येषु पटेष्वाख्यानकानि चित्रलिखितानि, सुभगङ्करणयोगैर्वक्ष्यमाणैः, लोकवृत्तान्तैः=पुराणनिबन्धनैः, कविकथाभिरिति । कविभिर्निबद्धाभिर्बिन्दुमतीप्रभृतिभिः, अन्ते पारदारिककथाभिर्गौतमबृहस्पत्यादिदाराणामिन्द्रचन्द्रादिभिरपहरणकथाभिः, अनुप्रविश्य किं कुर्यादित्याह—तस्या इति । नायिकाया रूपं वर्णं संस्थानं च, विज्ञानं शास्त्रकलासु, दाक्षिण्यम्=आनुकूल्यं, शीलं=सुस्वभावता, तेषां प्रशंसाभिः ॥ २ ॥

कथमेवंविधायास्तवायमित्थम्भूतः पतिरिति चानुशयं ग्राहयेत् ॥ ३ ॥

कथमेवंविधायाः=यथोक्तगुणायाः, इत्थंभूतो वैरूप्यादिप्रकारमापन्नः, अनुशयं=विप्रतीसारं, ग्राहयेद्, न भद्रकं पतितं यदहमनेनोढेति ॥ ३ ॥

न तव सुभगे ! दास्यमपि कर्तुं युक्त इति ब्रूयात् ॥ ४ ॥

सुभगे ! इत्यामन्त्रणं जनसौभाग्यख्यापनार्थं, दास्यमपि किमु तव पतित्वम् ॥ ४ ॥

मन्दवेगतामीर्ष्यालुतां शठतामकृतज्ञतां चासम्भोगशीलतां- कदर्यतां चपलतामन्यानि च यानि तस्मिन्गुप्तान्यस्या अभ्याशे

२४४ सटीके कामसूत्रे [ ४ अधिकरणे,

सति सद्भावेऽतिशयेन भाषेत ॥ ५ ॥

मन्दवेगतां च भाषेत, यदि सा चण्डवेगा, उपलक्षणं चैतद्, शीघ्र- वेगतां च यदि चिरवेगा, असंभोगशीलतामिति । विषयान्भोक्तुमशी- लतां, कदर्यतामहीनकामताम्, अन्यानि चेति । पारुष्यनैर्घृण्यदाम्भि- कत्वादीनि, तस्मिन्पत्यौ, अस्या अभ्यास इति । नायिकायाः समीपे यथा- ऽन्यो न शृणोति, सति सद्भाव इति । विश्वासे सति, अतिशयेन भाषेत, येन सा तथैव प्रतिपद्येत ॥ ५ ॥

येन च दोषेणोद्विग्नां लक्षयेत्तेनैवानुप्रविशेत् ॥ ६ ॥

येन चेति । प्रत्यक्षीकृतेन तद्दोषेण तेनैवैनामनुप्रविशेत्, कथितमेव मया यथाऽयं दोषबहुल इति ॥ ६ ॥

यदाऽसौ मृगी तदा नैव शशतादोषः॥ ७ ॥

नैव शशतादोषः, किं त्वश्वत्वदोषो वाच्यः ॥ ७ ॥

एतेनैव वडवाहस्तिनीविषयश्चोक्तः ॥ ८ ॥

एतेनैवेति । अनन्तरोक्तेन स्वजातीयन्यायेन, वडवाहस्तिनीविषयो न दोषो वृषत्वमश्वत्वं च, किं तु शशत्वं दोषः ॥ ८ ॥

दूत्योपसर्पयेदिति सामान्येनोक्तमत्र गोणिकापुत्रदर्शनमाह—

नायिकाया एव तु विश्वास्यतामुपलभ्य दूतीत्वेनोपसर्पये- त्प्रथमसाहसायां सूक्ष्मभावायां चेति गोणिकापुत्रः ॥ ९ ॥

विश्वास्यतामुपलभ्य दूतीत्वेनोपसर्पयेत्, कस्मिन्विषय इत्याह—प्र- थमसाहसायामिति । या प्रथमं चारित्रं खण्डयति, सूक्ष्मभावायामस्फुट- भावायाम्, एतदनुमतमप्रतिषिद्धत्वात् ॥ ९ ॥

सा नायकस्य चरितमनुलोमतां कामितानि च कथयेत् ॥१०॥

चरितं शोभनमनुलोमतामानुलोम्यं कामितानि चेति, त्रिविधं कामि- तं, रतस्यारम्भे मध्येऽवसाने च ॥ १० ॥

प्रसृतसद्भावायां च युक्त्या कार्यशरीरमित्थं वदेत् ॥ ११ ॥

प्रसृतसद्भावायां नायिकायां सत्याम् अन्यथाक्तं दोषकरमपि स्याद्, युक्त्या, न यथा कथंचिद्, यदर्थं दूतीकल्पस्तत्कार्यशरीरम्, इत्थमिति । वक्ष्यमाणप्रकारम् ॥ ११ ॥

शृणु विचित्रमिदं सुभगे ! त्वां किल दृष्ट्वाऽमुत्रासावित्थं गोत्र- पुत्रो नायकश्चित्तोन्मादमनुभवति प्रकृत्या सुकुमारः कदा चिदन्य-

४ अध्याये ] दूतीकर्मप्रकरणम् । २४५

त्रापरिक्लिष्टपूर्वस्तपस्वी ततोऽधुना शक्यमनेन मरणमप्यनुभवितु- मिति वर्णयेत् ॥ १२ ॥

चित्रमिदं, यदार्याभिः काम्यमानोऽपि त्वां दृष्ट्वाऽपि चित्तोन्माद- मनुभवति, एवं च सुभगे ! इत्यामन्त्रणमर्थवद्भवति, किलेति । त्वं दृष्टा- ऽसीति, परोक्षं ममेत्याह, इत्थं गोत्रपुत्रः, न यस्य कस्य चित्पुत्रः, कार्य- स्य बलीयस्त्वं दर्शयन्नाह—प्रकृत्येति । अन्यत्रेति । अन्यस्याम्, अपरिक्कि- ष्टपूर्वस्तद्वचनसिद्धत्वात्स्त्रीणां, तपस्वीति । अनुकम्पायां, शक्यमनेन मर- णमप्यनुभवितुं विनश्यतीत्यर्थः ॥ १२ ॥

तत्र सिद्धा द्वितीयेऽहनि वाचि वक्त्रे दृष्ट्यां च प्रसादमुपलक्ष्य पुनरपि कथां प्रवर्तयेत् ॥ १३ ॥

तत्रेति । तस्मिन्नभिधीयमाने, सिद्धा=न प्रत्याख्याता, वाचि वक्त्रे दृष्ट्यां च त्रिष्वपि, प्रसादं=प्रसन्नतां:, कथां प्रवर्तयेत्सामान्याम् ॥ १३ ॥

शृण्वत्यां चाहल्याऽविमारकशाकुन्तलादीन्यन्यान्यपि लौकि- कानि च कथयेद्युक्तानि ॥ १४ ॥

शृण्वत्यां स्वकथाम्, अहल्या=गोतमभार्या, तयोत्कण्ठितया देवराजः- कामितः, अग्निहोत्रकेणाग्निपरिचरणे वधूर्नियुक्ता, सा च कुण्डादुत्थि- तेन मूर्तिमत्ताऽग्निना कामिता, जातगर्भा च तां श्वशुरः कुलदोषभयाद- टव्यां तत्याज, प्रसूतां च सह सुतेन शबरसेनापतिरपत्यबुद्ध्या सं- बर्धितवान् , तत्पुत्रश्चाजाविकसमूहेन बालवयस्त्वात्क्रीडमानः परिश्रमं- स्तत्क्षीरपानान्महाबलोऽभूद्, येन शिशुरेव हस्तग्रहणादजाविकं जघान, सेनापतिरप्यन्वर्थमस्य नाम चक्रेऽविमारक इति, ततः प्रवृद्धयौवनः- कदा चिद्राज्ञोऽटव्यां समावासितस्य दुहितरं हस्तिना व्यापाद्यमानां तं- हत्वा ररक्ष, ततो जातोत्कण्ठा सा स्वयमेव पाणिं ग्राहितवती, तद्यु- क्तानि=पारदारिकयुक्तानि ॥ १४ ॥

वृषतां चतुःषष्टिविज्ञतां सौभाग्यं च नायकस्य, श्लाघनीयतां- चास्य प्रच्छन्नं संप्रयोगं भूतमभूतपूर्वं वा वर्णयेदाकारं चास्य लक्षयेत् ॥ १५ ॥

वृषतां=व्यवायितां, चतुःषष्टिविज्ञतामिति । गीतादिकायां पाञ्चालि- कायां च विज्ञतां, सौभाग्यं पुरुषेणाप्यभिलष्यत इति, श्लाघनीयेति । यां स्त्रियं श्लाघते, प्रच्छन्नं लोकस्याविदितम्, एवं चाभूतमपि भूतमिव जातम्, आकारमिति । आक्रियते गृह्यते भावो येनेति, वाक्कायव्यापारोऽत्र

२४६ सटीक कामसूत्रे [ ४ अधिकरणे,

गृह्यते ॥ १५ ॥

सविहसितं दृष्ट्वा संभाषते ॥ १६ ॥

सविहसितमिति । सम्भाषणक्रियाविशेषणमेतत् ॥ १६ ॥

आसने चोपनिमन्त्रयते ॥ १७ ॥

उपनमन्त्रयते, इदमासनमास्यतामिति ॥ १७ ॥

क्वासितं क्व शयितं क्व भुक्तं क्व चेष्टितं किं वा कृतमिति पृच्छति ॥ १८ ॥

चेष्टितं भ्रान्तं, कृतमवश्यकर्तव्यमिति पृच्छति, तेन द्वारेण नायकसम्बद्धं किञ्चिदभिधास्यतीति ॥ १८ ॥

विविक्ते दर्शयत्यात्मानम् ॥ १९ ॥

विविक्ते दर्शयत्यात्मानं, रहस्यं किञ्चिद्वक्ष्यतीति ॥ १९ ॥

आख्यानकान्यनुयुङ्क्ते ॥ २० ॥

आख्यानकान्यनुयुङ्क्तेऽधृतिकथनार्थं नायककथां वा करिष्यतीति ॥ २० ॥

चिन्तयन्ती निःश्वसिति विजृम्भते च ॥ २१ ॥

चिन्तयन्तीति । अन्यगतमानसा, निःश्वसिति विजृम्भते मदनलालसा ॥ २१ ॥

प्रीतिदायं च ददाति ॥ २२ ॥

प्रीतिदायमिति । यत्प्रीत्या दीयते कटकमुत्तरीयं वा तदस्यै ददाति ॥ २२ ॥

इष्टेषूत्सवेषु च स्मरति ॥ २३ ॥

इष्टेषु कार्येषूत्सवेषु च स्मरति, कथमद्य नायातेति ॥ २३ ॥

पुनर्दर्शनानुबन्धं विसृजति ॥ २४ ॥

पुनर्दर्शनानुबन्धमिति । पुनर्मया द्रष्टव्याऽसीति ॥ २४ ॥

त्वद्दर्शनवन् नामश्रवणमपि तं सुखयतीति दूत्या कथायां प्रवर्त्तितायामाह—

साधुवादिनी सती किमिदमशोभनमभिधत्स इति कथामनुबध्नाति ॥ २५ ॥

साधुवादिनीति । साधुवादिनी सती किमिदमशोभनमयुक्तमभिधत्स इत्यभिधाय; कथामनुबध्नाति प्रवर्तयति ॥ २५ ॥

४ अध्याये ] दूतीकर्मप्रकरणम् । २४७

नायकस्य शाठ्यचापल्यसम्बद्धान्दोषान्ददाति ॥ २६ ॥

दोषान्ददातीति । शठोऽसौ न निर्व्याजं व्यवहरति लोके, चपलश्च नैकस्यां रमत इति ॥ २६ ॥

पूर्वप्रवृत्तं च तत्सन्दर्शनं कथाऽभियोगं च स्वयमकथयन्ती तयोच्यमानमाकाङ्क्षते ॥ २७ ॥

तत्सन्दर्शनमिति । नायकदर्शनं यत्तस्याः पूर्वप्रवृत्तं यत्र यदा यथा, कथाऽभियोगं च, पुनः पुनः कथायोगं पूर्ववृत्तं स्वयमकथयन्ती लज्जया, तयोच्यमानं=दूत्या कथ्यमानं, काङ्क्षते तेनापि सुखं स्थीयते ॥ २७ ॥

नायकमनोरथेषु च कथ्यमानेषु सपरिभवं नाम हसति न च निर्वदतीति ॥ २८ ॥

नायकमनोरथेष्विति । स सुदिवसो भविष्यति, यत्र पादपतनैः प्रसादिताया अधरं पास्यामीत्येवमादिषु, दूत्या कथ्यमानेषु, सपरिभवमिव हसति दुराशा तस्य धूर्तस्येति, न च निर्वदति, निश्चयेनाभिधत्ते, सिद्ध्यत्येव तस्य मनोरथ इति ॥ २८ ॥

दूतीविषये नायिकाया आकारे लक्षिते किं फलमित्याह—

दूत्येनां दर्शिताकारां नायकाभिज्ञानैरुपबृंहयेत् ॥ २९ ॥

नायकाभिज्ञानैरिति । यानि नायकस्य तया सह पूर्वं वृत्तानि, तैरुपबृंहयेदत्यन्तमनुरक्तां कुर्यात् ॥ २९ ॥

असंस्तुतां तु गुणकथनैरुरागकथाभिश्चावर्जयेत् ॥ ३० ॥

असंस्तुतामिति । अपरिचिताम्, अभिज्ञानासम्भवाद्, नायकस्य गुणकथनैरुरागकथाभिश्चावर्जयेदभिमुखीकुर्यात् ॥ ३० ॥

अत्राचार्याणां मतभेदमाह—

नासंस्तुतादृष्टाकारयोर्दूत्यमस्तीत्यौद्दालकिः ॥ ३१ ॥

नासंस्तुतादृष्टाकारयोरिति । ययोर्न परिचयो न चाकारदर्शनं च, तस्मिन्विषये न दूत्या कर्म विषयो वाऽस्ति, यत्रेदमुक्तम्—

‘कृतपरिचयां दर्शितेङ्गिताकारां कन्यामिवोपायतोऽभियुञ्जीत’ ॥ ३१ ॥

संसृष्टाकारयोरसंस्तुतयोरप्यस्तीति बाभ्रवीयाः ॥ ३२ ॥

संसृष्टाकारयोरिति । यौ परस्परस्य संसृष्टाकारौ, तयोरसंस्तुतयोरप्यस्त्याकारस्यैव दूत्यनिमित्तत्वाद्, यथोक्तम्—

‘आकारेणात्मनो भावं या नारी प्राक्प्रदर्शयेत् ।
क्षिप्रमेवाभियोज्या सा प्रथमे चैव दर्शने’ ॥ ३२ ॥

२४८ सटीक कामसूत्रे [ ४अधिकरणे,

संस्तुतयोरप्यसंसृष्टाकारयोरस्तीति गोणिकापुत्रः ॥ ३३ ॥

असंसृष्टाकारयोरिति । व्यामिश्रभावत्वात्तदाकारोऽपि संसृष्टशुद्धौ भवति, ततश्च तयोस्संस्तुतयोरपि, यत्रेद्मुक्तम्--
इत्यादि ॥ ३३ ॥
‘धीरायामप्रगल्भायाम्-

असंस्तुतयोरदृष्टाकारयोरपि दूतीप्रत्ययादिति वात्स्यायनः ॥३४॥

दूतीप्रत्ययादिति । दूतीसामर्थ्यादसंसतुतोरपि, अस्मिन्पक्षे त्रितयाभावेऽपि दूत्यमस्ति, यत्रे॒दं वक्ष्यति- कौतुकाख्यानुरूपौ युक्ताविमौ परस्परस्येति ॥ ३४ ॥

तासां मनोहराण्युपायनानि ताम्बूलमनुलेपनं स्रजमङ्गुलीयकं वासो वा तेन प्रहितं दर्शयेत् ॥ ३५ ॥

तासामिति । असंस्तुतानां नायिकानाम्, मनोहराण्युपायनानि कौश-लिकास्ताम्बूलादीनि ॥ ३५ ॥

तेषु नायकस्य यथाऽर्थं नखदशनपदानि तानि तानि च चिह्नानि स्युः ॥ ३६ ॥

तेष्विति । उपायनेषु, यथाऽर्थमिति । यथाप्रयोजनं च संप्रयोगसूचकमेव चिह्नं स्यात् ॥ ३६ ॥

वाससि च कुङ्कुमाङ्कमञ्जलिं निदध्यात् ॥ ३७ ॥

कुङ्कुमाङ्गमञ्जलिमिति । कुङ्कुमेनाङ्कितमञ्जलिं निदध्याद्यथा प्रतिबिम्बमुत्पद्यते, स्वदाराधनपरोऽयं जन इति ख्यापनार्थम् ॥ ३७ ॥

पत्रच्छेद्यानि नानाऽभिप्रायाकृतीनि दर्शयेद्, लेखपत्रगर्भाणि कर्णपत्राण्यापीडांश्च ॥ ३८ ॥

नानाऽभिप्रायाकृतीनीति । नानाऽभिप्राया रतिशोकक्रोधविस्मयादिभावसूचना आकृतिः संस्थानं येषां, लेखपत्रगर्भाणि, मध्ये लेखपत्रंप्रक्षिप्य वेष्टितानि, आपीडांश्च लेखपत्रगर्भान् ॥ ३८ ॥

तेषु स्वमनोरथाख्यापनम् प्रतिप्राभृतदाने चैनां नियोजयेत् ॥३९॥

मनोरथाख्यापनमिति । लेखे लिखित्वा; आचक्षीत, प्रतिप्राभृतं=प्रतिकौशलिकाम् ॥ ३९ ॥

एवं कृतपरस्परपरिग्रहयोश्च दूतीप्रत्ययः समागमः ॥ ४० ॥

कृतपरस्परपरिग्रहयोरिति । कृतान्योन्यस्वीकारयोः, दूतीप्रत्ययः, तयैव तदानीं निर्दिश्यमानत्वात् ॥ ४० ॥

४ अध्याये ] दूतीकर्मप्रकरणम् । २४९

स तु देवताऽभिगमने यात्रायामुद्यानक्रीडायां जलावतरणे विवाहे यज्ञव्यसनोत्सवेष्वग्न्युत्पाते चौरविभ्रमे जनपदस्य चक्रारोहणे प्रेक्षाव्यापारेषु तेषु तेषु च कार्येष्विति बाभ्रवीयाः ॥ ४१ ॥

देवताऽभिगमने, देवतामभिपूजयितुं यद्गमनं तत्र, यात्रायां कस्याञ्चिद्देवतायाः, जलावतरण इति । यदा स्नातुं जनसमूहो जलमवतरति, न चालक्ष्यते स्थानात्स्थानान्तरगमनम्, अग्न्युत्पाते, दह्यमानात्प्रातिवेश्यगृहाद् गृहान्तरगमनं संभवति, चौरविभ्रमे, चौराः किल पतन्तीत्यन्यत्र सुप्यते, चक्रारोहणे, जनपदं निवेशयितुं शिविकारोपणे, तदा ह्यनुष्ठापितप्रकारत्वात्स्त्रीजनो न रक्षितो भवति, तेषु तेषु च कार्येष्विति । तेषु तेषु जनानां संमर्दः शून्यता वा ॥ ४१ ॥

सखीभिक्षुकीक्षपणिकातापसीभवनेषु सुखोपाय इति गोणिकापुत्रः ॥ ४२ ॥

सुखोपाय इति । यदैवेच्छति तदैव भवति ॥ ४२ ॥

तस्या एव तु गेहे विदितनिष्क्रमप्रवेशे चिन्तितात्ययप्रतीकारे प्रवेशनमुपपन्नं च निष्क्रमणमविज्ञातकालं च तन्नित्यं सुखोपायं चेति वात्स्यायनः ॥ ४३ ॥

तस्या एवेति । नायिकायाः, निष्क्रम्यते प्रविश्यते च येन मार्गेण तदुभयं विदितं वीक्षितं यत्र, गेह इति । तत्राप्यविज्ञातकालमनियतकालं, प्रवेशनं निष्क्रमणं चोपपन्नं युक्तमनुपलक्ष्यमाणत्वात् , तदिति । प्रवेशनं निष्क्रमणं चानित्यं, तस्याः सदा संनिहितत्वाद्, न सख्यादिगृहेषु, सुखोपायं च, विदितमार्गत्वात्प्रतिविहितदोषत्वाच्च ॥ ४३ ॥

सामान्येन कर्माण्युक्त्वा दूतीभेदं प्रदर्शयन्नाह—

निसृष्टार्था परिमितार्था पत्रहारी स्वयंदूती मूढदूती मायादूती मूकदूती वातदूती चेति दूतीविशेषाः ॥ ४४ ॥

निसृष्टार्थेति ॥ ४४ ॥

नायकस्य नायिकायाश्च यथामनीषितमर्थमुपलभ्य स्वबुद्ध्या कार्यसम्पादिनी निसृष्टार्था ॥ ४५ ॥

यथामनीषितमिति । यथेप्सितम् , अयमेनां जिगमिषुरियमेनमिति, स्वबुद्ध्या = स्वप्रज्ञया, कार्यसम्पादिनीति । यथा तावनुरज्येते, यथा कृतपरस्परपरिग्रहौ संप्रयुज्येते, तत्तद्विधं कार्यं सम्पादयति दूती, निसृष्टा-

३२ का० सू०

२६० सटीके कामसूत्रे [ ५ अधिकरणे,

र्थेति। इदं करणीयमित्येतावतोऽर्थस्य निसृष्टत्वात् ॥ ४५ ॥

अस्या विषयमाह—

सा प्रायेण संस्तुतसम्भाषणयोः ॥ ४६ ॥

सम्भाषत इति सम्भाषणः, 'कृत्यल्युटो बहुलम्' इति ल्युट्, संस्तुतौ च तौ सम्भाषणौ च, यदि वा संस्तुतं च संभाषणं च ययोरस्तीति मत्वर्थीयोऽकारः, तयोः प्रायेण दृश्यते ॥ ४६ ॥

नायिकया प्रयुक्ता संस्तुतासम्भाषणयोरपि ॥ ४७ ॥

अन्यतरप्रयुक्तविषयस्य सिद्धिगोचरत्वाद्, नायिकया प्रयुक्ता, प्रायेण संस्तुतासम्भाषणयोरपि परिचितावेव केवलं, न तु सम्भाषणमनयोरस्ति यत इदमुक्तम्— 'आदौ परिचयं कुर्यात्ततश्च परिभाषणम्' इति, तत्रासंभाषमाणोऽपि नायकः संस्तुतत्वात्सुसाध इति प्रायेण दृश्यते, न तु नायिकेति न प्रायेण ॥ ४७ ॥

कौतुकाच्चानुरूपौ युक्ताविमौ परस्परस्येत्यसंस्तुतयोरपि ॥ ४८ ॥

युक्ताविति। युक्ताविमौ समानरूपशीलवयस्कत्वात्परस्परसंयोजने, निसृष्टार्थाया यद्वा कौतुकमुत्पद्यते तस्माच्चासंस्तुतयोरपि द्रष्टव्या न तु प्रायेण, तथाविधार्थस्य कादाचित्कत्वात् ॥ ४८ ॥

कार्यैकदेशमभियोगैकदेशं चोपलभ्य शेषं सम्पादयतीति परिमितार्था ॥ ४९ ॥

कार्यस्याभियोगस्य चैकदेशमसमापितमन्यतरस्मादुपलभ्य, शेषम् = असमापितं, सम्पादयतीति परिमितार्था, परिमितः परिच्छिन्नोऽर्थोऽस्याइति ॥ ४९ ॥

विषयमाह—

सा दृष्टपरस्पराकारयोः प्रविरलदर्शनयोः ॥ ५० ॥

सेति। दृष्टपरस्पराकारयोरिति। आकारग्रहणेन दृष्टं परस्परं याभ्यां किञ्चित्तयोः कार्यशेषं संभाषणं, प्रविरलदर्शनयोरभियोगमात्रशेषम् ॥५०॥

संदेशमात्रं प्रापयतीति पत्रहारी ॥ ५१ ॥

सन्देशमात्रमिति। कार्यस्य स्थिरत्वात्तन्मात्रं, पत्रेण वचसा वा प्रापयतीति पत्रहारीत्यर्थः ॥ ५१ ॥

कस्मिन्विषय इत्याह—

सा प्रगाढसद्भावयोः संसृष्टयोश्च देशकालसम्बोधनार्थम् ॥ ५२ ॥

४ अध्याये ] दूतीकर्मप्रकरणम् । २५१

सेति। प्रगाढसद्भावयोः सम्प्रयोगं प्रत्यभिमुखीभूतत्वात् , संसृष्टयोश्च कृतसंसर्गयोर्द्रष्टव्या, किमर्थमित्याह—देशकालेति। अस्मिन्काले स्थाने वाऽनयोः समागम इति, प्रबोधनार्थमन्यतरेण प्रयुज्यते, आसा·मुक्तेष्वेव कर्मसु यथासम्भवं कर्म द्रष्टव्यम् ॥ ५२ ॥

निसृष्टार्था द्विविधा-तत्रैका परार्था या परेण प्रयुज्यते, द्वितीयाऽऽत्मार्था सा स्वयंदूतीति द्वितीयं नाम लभते, तस्या विधिमाह—

दौत्येन प्रहिताऽन्यया स्वयमेव नायकमभिगच्छेदजानती नाम तेन सहोपभोगं स्वप्ने वा कथयेद्, गोत्रस्खलिते भार्यां चास्य निन्देत्, तद्रूव्यपदेशेन स्वयमीर्ष्या दर्शयेद्, नखदशनचिन्हितं वा किं चिद्दद्याद्, भवतेऽहमादौ दातुं सङ्कल्पितेति चाभिदधीत, मम त्वद्भार्याया वाऽऽकाररमणीयतेति विविक्ते पर्य्यनुयुञ्जीत, सा स्वयंदूती ॥ ५३ ॥

दौत्येनेति। दूतक्रीयया, अन्यया नायिकया प्रहिता या स्वयमेव नायकमभिगच्छेत्कामयेत्सा स्वयंदूतीति संबन्धः, अभिगमोपायोपदेशमाह —अजानतो नामेति। अद्य स्वप्ने त्वयाऽहं किलापभुक्तेति, गोत्रस्खलितं निन्देद्, नैतदीदृशं तदस्मदीयं नाम भूतं येन त्वया भार्याऽऽहूयत इति, भार्यां चास्य निन्देद् युक्तमाह्लातुं यदेयं रूपवती गुणवती वा स्याद्, तद्रूपव्यपदेशेनेति। गोत्रस्खलितमपदिश्य स्वयमीर्ष्या दर्शयेत् सा हि दर्शिता कामं सूचयति, नखादिचिन्हितं भावसूचनार्थं, कचिदिति। ताम्बूलशेखरपूगादिकं ददती चानुरागख्यापनार्थमिदं ब्रूयादित्याह-भवतइति। आकाररमणीयतेति । रमणहिततेति, विविक्तं तमपर्य्यनुयुञ्जीत, किमयं ? प्रतिपत्स्यत इति ॥ ५३ ॥

तस्या विविक्ते दर्शनं प्रतिग्रहश्च ॥ ५४ ॥

तस्या इति। स्वयं दूत्याः, विविक्ते दर्शनं प्रतिग्रहश्चाभियोगश्चास्या·नायकेन कार्यं, यदि तामभिगच्छेद् ॥ ५४ ॥

नायिकाऽपि कदा चिदातुरा विश्वास्यामपश्यन्ती स्वयं दूत्यं प्रतिपद्यत इत्याह--

दूतीच्छलेनान्यामभिसन्धायस्याः सन्देशश्रावणद्वारेण नायकं साधयेत् तां चोपहन्यात्साऽपि स्वयंदूती ॥ ५५ ॥

दूतीच्छलेनेति। दूतीव्याजेनान्यं काश्चिदमिसंधाय; देवदत्तया प्रहिताऽहमिति, तस्या नायिकायाः सन्देशश्रावणद्वारेण नायकं साध-

२५२ सटीक कामसूत्रे [ ५ अधिकरणे,

येत्, तां तु नायिकामुपहन्याद् दोषख्यापनेनेति, स्वयंदूती साऽपि स्वयं सिद्धये प्रवृत्तत्वान्निस्सृष्टार्था एव द्रष्टव्या ॥ ५५ ॥

एतया नायकोऽप्यन्यदूतश्च व्याख्यातः ॥ ५६ ॥

एतयेति। स्वयं दूत्या, दूतो व्याख्यातो त्रिविधः ॥ ५६ ॥

यदा सैव नायिका गूढत्वान्न स्वयं दूत्यं प्रतिपद्यते, तदा नायकं-तद्भार्ययाऽऽकारयेदित्याह--

नायकभार्यां मुग्धां विश्वास्यायन्त्रणयाऽनुप्रविश्य नायकस्य चेष्टितानि पृच्छेद्, योगाञ्शिक्षयेत्, साकारं मण्डयेत्, कोपमेनां ग्राहयेद्, एवं च प्रतिपद्यस्वेति श्रावयेत्, स्वयं चास्यां नखदशनपदानि निर्वर्तयेत्, तेन द्वारेण नायकमाकारयेत्सा मूढदूती॥५७॥

नायकभार्यां चेति । मुग्धां = मूढां, विश्वास्य = विश्वासं प्राप्य, अयन्त्रणयेति । तस्या आत्मनश्च विविक्ते वियोगावेगेनानुप्रविश्य चेष्टितानि पृच्छेत्, साऽभिमुखा विश्वासिता निर्विशेषा सती नायकचेष्टितानि कथयति, योगाञ् शिक्षयेदिति । बुद्ध्वा चेष्टितानि, तदनुरूपान् योगाञ् शिक्षयेद्, योगज्ञां नायको ज्ञास्यतीति, साकारं मण्डयेत्, स्वाभिप्रायसूचनार्थं, कोपमस्मिन्ग्राहयेद्, आत्मनोऽपीर्ष्यां दर्शयितुं; चपलोऽयमन्यस्यां सक्तः किमस्ति ? येन न कुप्यसीति, एवं च प्रतिपद्यस्व, यथाऽहमाचक्ष इति तां श्रावयेत्, तत्प्रतिपत्त्या नामानुकूल्यं ज्ञास्यतीति, स्वयं चास्यां भार्यायां नखदशनपदानि विदधीत संप्रयोगाभिलाषख्यापनार्थं, तेनेति । यथोक्तेन द्वारेण, नायकमाकारयेदाकारं ग्राहयेद्, येनासौ संप्रयोगार्थिनीति विद्यात्, सेति । भार्या मूढदूती, दूत्यर्थापरिज्ञानादियं पत्रहारीप्रकारा द्रष्टव्या ॥ ५७ ॥

तस्यास्तयैव प्रत्युत्तराणि योजयेत् ॥ ५८ ॥

तस्या इति । नायिकायाः, तयैवेति । मूढदूत्या, प्रत्युत्तराणि = प्रत्यभियोगान् योजयेत् ॥ ५८ ॥

'नायकोऽप्यन्यदूतश्च व्याख्यातः' इत्युक्तं, तत्रागोचरे लज्जायां वा यदि स्वयं दौत्यं न प्रतिपद्येत, तदा स्वभार्यया तामाकारयेदित्याह--

स्वभार्यां वा मूढां प्रयोज्य तया सह विश्वासेन योजयित्वा। तयैवाकारयेदात्मनश्च वैचक्षण्यं प्रकाशयेत्, सा भार्यादूती तस्यास्तयैवाकारग्रहणम् ॥ ५९ ॥

मूढाम् = अज्ञां, विज्ञा हि विकल्पयति, किमिति ? मामनया योजयतीति,