कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
देवयाज्ञिकभाष्यसमेतम् । ९५
मुष्टिः पृथक्पृथक्पदार्थस्तत एकैकेनानुसमयः। अथ चतुर्मुष्टिनिर्वाप एकः पदार्थस्त- तश्चतुर्भिर्मुष्टिभिरिति। एवं कपालोपधाने किमेकैकेन कपालेनानुसमयः, उताष्टाभि- रेकादशभिश्चेति, तथा द्विरवद्यति [१,९,२,] द्विर्दक्षिणमनक्ति त्रिरुत्तरम् [७,२,३४,] इति वपने च दक्षिणोत्तरगोदाने [७,२,९,] पावने च त्रिः पावय- तीति किं प्राप्तम्, एकैकमुष्टिनेति । कुतः, एकमुष्टिनिर्वापो ह्येकः पदार्थः। न चतुर्मुष्टिनिर्वापः । कथम्, एकस्मिन्मुष्टौ निरुप्ते प्रयत्नः पर्यवसितो भवतीति न शक्यं वदितुं किंचिन्न निरुप्तमिति । न च निरुप्ते निर्वापो न कृतः स्यात् । न च मुष्टिमात्रेण निरुप्तेन न प्रयोजनम्। न ह्येकस्मिन्निरुप्ते चत्वारः सम्भवन्ति । मुष्टि- समानाधिकरणो हि चतुःशब्दः तस्मान्मुष्टिनानुसमयः कार्यः । एवं कपालान्यु- पदधातीति। तत्राप्येकैककपालेनानुसमयः कार्यः, एकैकेनावदानेन सांनाय्यसव- नीयादौ अक्ष्यञ्जने एकैकवाराञ्जनेन च वपने अनेकयजमानके एकैकगोदान- संस्कारणेन पावने वानेकयजमानक एव एकैकवारपावनेनेति । तदुक्तं जैमि- निना मुष्टिकपालावदानाभ्यञ्जनवपनपावनेषु चैकैकनेति ( ७, २, १, ) । एवं प्राप्त आह— ( चतुर्मुष्टिनिर्वापस्यैकपदार्थत्वं न मुष्टेः ) नैककर्मणि सम्बन्धात् ॥ १ । ५ । ११ ॥ एककर्मणि एकस्मिन्निर्वापकपालोपधानादिरूपे कर्मणि पदार्थे तदवयवेन एकैकमुष्टिना एकैककपालोपधानरूपेणानुसमयो न भवति, किन्तु चतुर्मुष्टिभिः अष्टाभिरेकादशभिश्च कपालैः, न ह्येकैको मुष्टिः पृथक् पदार्थः। किं तर्हि चतुर्मुष्टिनि- र्वाप एकः पदार्थः । कुतः ? सम्बन्धात् । चतुःशब्दस्य मुष्टीनां च निर्वापसम्ब- न्धात् । एवं च सह कर्मणानेकगुणविधानं न्याय्यम् । इतरथा चतुःसंख्याया मुष्टिसम्बन्धे मुष्टीनां च निर्वापसम्बन्धे सति वैरूप्यलक्षणो वाक्यभेदः प्रसज्येत। अनिर्वापाङ्गं च सङ्ख्या स्यात् । वैरूप्यं चैवम्, चतुरो मुष्टीन्निर्वपतीत्यत्र निर्वापं प्रतिमुष्टीनामुपादेयत्वं विधेयत्वमङ्गत्वं चेति त्रिकं सङ्ख्या प्रति च तेषामुद्देश्यत्वमनु- वाद्यत्वं चेति एतत्परस्परविरुद्धं त्रिकद्वयं मुष्टीनामापद्यते, तस्मात् सङ्ख्याया मुष्टीनां चोभयोर्निर्वपतिनैव सम्बन्धः, ये चत्वारस्ते मुष्टयः, ये मुष्टयः ते च- त्वार इति परस्परव्यवच्छेद्यव्यवच्छेदकभावोऽरुणैकहायनीन्यायेन द्रव्यस्य गुणा- वच्छेदकत्वेन गुणस्य च द्रव्यावच्छेदकत्वेनार्थाद्भवति न तु वाक्यात् । तेन वा- क्यभेदो न भवति। तस्माच्चतुर्मुष्टिनिर्वाप एकः पदार्थः, अङ्गपर्यायो हि पदार्थ-
९६ कात्यायनश्रौतसूत्रम् । शब्दः। तेनोभयोः प्रधानयोः सहानुष्ठानं तयोर्यदङ्गं तदेकस्य कृत्वापरस्य कर्तव्यम्। चतुरो मुष्टीन्निर्वपतीति शास्त्रान्नचतुर्मुष्टिनिर्वापोऽङ्गम्। स च पदार्थः। तदवयवैश्चैको मुष्टिः, न पदार्थः । न चावयवेनानुसमयः, किन्तु पदार्थेन । एवं कपालोपधा- नादिष्वपि। अष्टाकपालमेकादशकपालं निर्वपतीति निर्देशात्तावतामुपधानमेकैकः पदार्थः। द्विरवद्यति त्रिरभ्यनक्ति दक्षिणोत्तरगोदानवपने त्रिःपावयतीति च। एवं च संख्यादीनां क्रियाङ्गत्वं च भवति । तस्मात्समुदायेनानुसमय इति सिद्धम् ॥११॥ एवं सर्वत्र पदार्थानुसमये प्राप्ते क्वचित्तदपवादं काण्डानुसमयमाह— ( ग्रहणावदानयोः क्रमेण सादनप्रदानान्तत्वम् ) ग्रहणसादनावदानप्रदानेषु तु वचनात् ॥ १ । ५ । १२ ॥ सोमे ग्रहाणां ग्रहणे एक
देवयाज्ञिकभाष्यसमेतम् । ९७ च सति नियतस्य नियतकालस्याग्निहोत्रपितृयज्ञादेः काले आगते सति किं तन्म- ध्यऽएव तत्कर्म कर्तव्यमिति । यद्यपि चात्र भिन्नप्रयोगयोः प्रारब्धकर्माग्निहोत्र- योर्न मिथः क्रमोऽङ्गम्, तथापि सायंकाले द्वयोः सन्निपतितयोरवश्यम्भाविनि क्रमे प्रारब्धं समाप्याग्निहोत्रे हूयमाने तस्य स्वकालातिपत्तिप्रसङ्गे सति किं युक्तमिति- चिन्त्यते । तत्रेष्टिपश्वादिकं च स्वकालादप्रतिपन्नमेव तस्योभयथापि न कश्चिद्- विशेषः । अग्निहोत्रस्य तु तस्मिन्काले क्रियमाणस्योद्धरणस्य लोपः स्यात्, उत्कर्षे तु काललोपः, तत्र कस्यानुग्रहः कस्य लोप इति चिन्त्यते। तत्रोद्धरणानुग्रहे साङ्ग- प्रयोगावधारणोत्तरं कालप्राप्तेः, कालस्य जघन्यत्वेन बाधः प्राप्नोतीति किं पूर्वस्य व्यवधानं च स्यान्मध्ये क्रियमाणे, तस्मात्कालबाध इति प्राप्त आह— ( प्रक्रान्तेऽसमाप्तेऽपि नित्यस्य स्वकालेऽनुष्ठानम् ) प्रवृत्ते नियतं दोषविशेषात् ॥ १ । ५ । १४ ॥ प्रवृत्ते प्रारब्धे इष्टिपश्वादिके कर्मणि नियतस्य कालऽआगते नियतं नि- यतकालीनमग्निहोत्रपितृयज्ञादिकं तन्मध्य एव कर्तव्यम् , कालस्यानुपादेयत्वेन निमित्तत्वात्तस्मिन्प्राप्तमग्निहोत्रमुद्धरणमनादृत्यापि कर्तव्यम् । कुतः ? दोषविशेषात्। यतो नित्यस्याकरणे दोषो भवति। ननु पूर्वस्य कर्मणो व्यवधानेऽपि दोषोऽस्त्ये- व, सत्यम् , अक्रियमाणे तु विशेषेण यतो नित्यकर्मणः प्रधानरूपस्याक्रियेति, क्रियमाणे पुनरङ्गभूतानां पदार्थानां व्यवधानमात्रम्, न तु कस्यचन लोपः, अत एवोक्तं दोषविशेषादिति, अपि चासम्बन्धने व्यवधानेऽपि दोषः, तस्मा- न्नियतकालीनं कर्म मध्येऽपि कर्तव्यम् ॥ अथेदं विचार्यते—ज्योतिष्टोमे षोडशिनं प्रकृत्याम्नायते “तं पराश्वमु- क्थ्येभ्यो विगृह्णाति” इति तथेदमपरं श्रूयते “तं वै पुरास्तमयादुपाकरोत्यस्तमिते ऽनुश सतीति” (४, ७, ३, ११,) शाखान्तरे च समयाध्युषिते षोडशिनः स्तोत्रमुपाकरोतीति, एवं सति यदि दैवादुक्थ्यानामुत्कर्षः स्यात्,तदा किं षोड- शिनोत्कृष्यते उक्थ्येभ्यः पूर्वमपि प्रागस्तमयात्षोडशिन उपाकरणं कर्तव्यम्, अथवोक्थ्योत्कर्षे सति षोडश्यप्युत्कृष्यते, उक्थ्यविग्रहेभ्यः पर एव भवतीति । तत्र पूर्वाधिकरणोक्तन्यायेन नियतकालत्वादनुत्कर्षो युज्यते, तथा सति स्तोत्रस्य कालोऽनुगृहीतो भवति, यदि हि षोडशिग्रहयागाभ्यासं उत्कृष्येत ततः प्रधान- कालत्वादङ्गानां ग्रहं गृहीत्वा चमसं चोन्नीय स्तोत्रमुपाकुर्यादिति वचनात्तदङ्गभूतं
९८ कात्यायनश्रौतसूत्रम् । स्तोत्रमप्युत्कृष्येत तत्र पुरास्तमयादिति (४, ५, ३, ११,) विहितः कालो बाध्येत । ॥१४॥ नन्वनुत्कर्षपक्षेऽप्युपरिभावो बाध्यते बाध्यतां क्रममात्रं हि तत् कालस्तु बलीयानित्युक्तम्, तस्मादनुत्कर्ष इति प्राप्त आह— ( षोडशिनिस्तोत्रस्योक्थ्यविग्रहोत्तरमेवानुष्ठानं न स्वकाले ) षोडशिनि त्वानुपूर्व्यभूयस्त्वात् ॥ १ । ५ । १५ ॥ तु शब्दः पूर्वाधिकरणसिद्धान्ताद्भेदे, षोडशिनि तु अनुत्कर्षो न भवति किं तूत्कर्ष एव । कुतः आनुपूर्व्यभूयस्त्वात् आनुपूर्व्यस्य क्रमस्य भूयस्त्वात्, महत्त्वात् बलवत्त्वादित्यर्थः, कथम्, तं पराञ्चमुक्थ्येभ्य इति वचनात्षोडशिया- गाभ्यासस्योक्थ्येभ्य उपरिभावोऽङ्गं सोऽनुत्कृष्यमाणे प्रधानाङ्गं सद् बाध्येत, न चैतद्युक्तम्, अतोऽङ्गभूतस्तोत्राङ्गस्यैव कालस्य बाध इत्युत्कर्ष एव षोडशिन इति सिद्धम्, निःसन्दिग्धं च स्तोत्रस्य संनिहितग्रहयागाङ्गत्वम् । तथा चोक्तं पञ्चमस्य प्रथमपादान्त्याधिकरणे (जैमिनि. ५, १, ३२,) तन्त्ररत्ने न ग्रहणक्रमानुग्रहार्थ- मुत्कर्षो विधीयते किं तर्हि यागक्रमानुग्रहार्थम् , तस्य च स्तोत्रं प्रति प्राधान्य- मविवादम्, अतस्तस्य यागाभ्यासस्य कालेनाङ्गस्य स्तोत्रकालो बाध्यत इति युक्त एवोत्कर्ष इति । किं च अनुत्कर्षे षोडशिनो वैगुण्यम्, उक्थ्यविग्रहाणां च उत्कर्षे त्वेकस्य षोडशिन इति अतोऽपि उत्कर्ष एव ॥१५॥ इदानीमिदं चिन्त्यते—अथैवं स्वाध्यायविहिते पाठे क्रमार्थवत्त्वाद्यागेषु समिधादिषु क्रमनियमः, तथा क्रत्वन्तरेष्वपि, तद्वाक्यानामपि हि विवक्षितक्रम- मेवाध्ययनं स्वाध्यायविधिना विधीयते, तस्य च प्रयोजनान्तरं नास्त्यतः क्रमानु- ष्ठानात् , तस्मात्क्रत्वन्तराणामपीष्टिपशुसोमयागादीनां पाठक्रमेणानुष्ठानमिति पूर्वः पक्षः । सिद्धान्तमाह— ( प्रधानकर्मसु क्रमोऽनियत: ) अनियमः फलसंयुक्तेषु ॥ १ । ५ । १६ ॥ फलसंयुक्तेषु प्रधानकर्मसु इष्टिपशुसोमयागाद्यात्मकेषु अनुष्ठानेऽनियमः क्रमनियमो न भवतीत्यर्थः । तत्र काम्येषु तावत् न क्रमनियमः, अनियमेन हि कामा उत्पद्यन्ते तेषां च नास्ति क्रमः । न हि ते वाक्यक्रमेण नियन्तुं शक्यन्ते
देवयाज्ञिकभाष्यसमेतम् । ९९
वस्तुस्वभावस्य निरङ्कुशत्वात् , अतोऽनियतक्रमाः कामाः कर्मणामप्यनियमं प्रति- पादयन्तीति तद्बलेन पाठक्रमस्य बाधः । अपि च क्रतूनामनङ्गत्वदेकप्रयोग- वचनाभावाच्च नास्ति क्रमः, यदि च क्रतवः परस्परस्याङ्गं भवेयुः, यदि वा सर्व- एवान्यस्य कस्यचित्समिधादिवदङ्गं स्युः, यदि वा सत्यप्यङ्गत्वे आग्नेयादिवदेक- प्रयोगवचनपरिगृहीताः स्युः, ततः सर्वेषां सहानुष्ठानं बोधयन्प्रयोगविधिः क्रम- नियममन्यतोऽपेक्षमाणः पाठनियामकत्वेन गृह्णीयात्, न ह्येतदस्ति, न च पाठः स्वयमेव क्रमस्य विधायकः, अविधायकत्वात् । स्वाध्यायविधिरपि यद्येन शक्यते कर्तुं तत् तत्रैव नियुङ्क्ते । पाठक्रमश्च प्रयोगवचनाकाङ्क्षितक्रमनियममात्रं श- क्नोति कर्तुम्, न क्रमं विधातुम्, तस्माद्भिन्नप्रयोगवचनपरिगृहीतानां न पाठतः क्रमनियम इति सिद्धम् ॥१६॥ तर्हि पाठक्रमः किमर्थ इत्यत आह— क्रमो विध्यर्थः कर्मण्यसम्भवात् ॥१।५।१७।। क्रमो विध्यर्थः विधानार्थो जपपारायणाध्यापनादिष्वनेनैव क्रमेण पठ- नार्थः नानुष्ठानार्थः । कुतः? सर्वस्वारात्परे कर्मण्यसम्भवात् पाठक्रमेणानुष्ठाना- सम्भवात्, यतः सर्वस्वारो मरणकामस्य विहितः, यदि पाठक्रमेणानुष्ठीयेतं तर्हि सर्वस्वारेण मरणे सिद्धे सति, कथं तत ऊर्ध्वं कर्माणि कर्तुं शक्यन्ते,तस्मात्क्रत्व- नुष्ठाने क्रमनियमो न भवतीति सिद्धम् ॥ १७ ॥ ॥ इति पञ्चमी कण्डिका ॥ इदानीमिदं विचार्यते किमवत्तस्योद्धृतस्य द्व्यवदानमात्रस्य नाशे हविरन्तर- मुत्पाद्यते उत तस्मादेव हविःशेषात् पुनरवदेयमिति । तत्र सूत्रेणैव प्रथमं सिद्धान्तमाह— ( अवत्तस्य हविषो नाशे हविरन्तरमुत्पाद्यम् ) अवत्तनाशेऽन्यद्गुणानुग्रहणात् ॥ १ । ६ । १ ॥ अवत्तस्य पुरोडाशचर्वादेः सकाशात्पृथक्कृतस्यावदानद्वयमात्रस्य नाशेऽ- न्यद्धविरुत्पादनीयं यागार्थम्। कुतः ? गुणानुग्रहात् । एवं कृते मध्यपूर्वार्धावदान- रूपेण गुणेनाङ्गेन साधनभूतेन यागोऽनुगृहीतो भवति । यदि पूर्वहविःशेषादेव पुनरवदाय यागः क्रियते, तदा तस्य पूर्वार्धविक्लत्वाद्द्विगुण एव यागो भवेत्। कथम् ? द्व्यवदानस्यैव यागार्थत्वपक्षे तस्य विनष्टत्वादवशिष्टस्यायागार्थत्वात्,
समस्तपुरोडाशस्य यागार्थत्वेऽपि द्व्यवदाननाशेन तस्य विकलत्वात् । न चासौ यागो विगुण इष्यते, तस्माद्विरन्तरमेवोत्पाद्यमुद्धृतद्व्यवदान नाश, इति प्राप्त आह— न पूर्वशेषात् ॥ १ । ६ । २ ॥ यदुक्तमवत्तनाशेऽन्यदुत्पादनीयमिति, तन्न, किं तु पूर्वशेषात्पूर्वस्यैवाव- शिष्टस्य हविषः शेषात्पुनरवदेयम् । कुतः ? विनष्टेऽपि द्व्यवदाने पुनर्मध्यपूर्वार्ध- सम्भवात् तावन्मात्रस्य च शास्त्रार्थत्वात् , पुरोडाशस्य यौ मध्यपूर्वार्धावयवौ तदपादानकं तदवयवभूतभवदानद्वयं यागसाधनम्, नष्टे च मध्ये पूर्वार्धावयवनि पूर्वसकलरूपे पुरोडाशे यो मध्यावयवः पूर्वार्धावयवश्चावदानापादानभूतः, स एवावदानापेक्षयावयवी, तस्मिन्नवदानोद्धरणे , विनष्टेऽपि मध्यान्तरस्य पूर्वार्- धान्तरस्य चावदानद्वयोपलक्षणत्वेन विद्यमानत्वात्तत एव पुनरवदेयम् । ननु कृत्स्नस्य मध्यपूर्वार्धेऽवदेयम्, न विकलस्येति चेत्, तन्न, कुतो शास्त्रार्थत्वात्, मध्यादवदीत्येतावदेव श्रूयते, न तु सकलस्य सकलपुरोडाशस्य मध्यादिति । तस्मात्पूर्वशेषादेवावदेयम् ॥ २ ॥ अचोदित्वाच्च ॥ १ । ६ । ३ ॥ किञ्च अवत्तद्व्यवदाननाशेऽन्यद्विरुत्पादनीयमित्येवमचोदित्वात् कुत्रा- प्यविहित्वात् पूर्व शेषादेवावदेयम्॥३॥ स्विष्टकृददानुपूर्व्ययोगात् ॥१।६।४॥ अपि च शेषादवदीयमाने तद्धविः स्विष्टकृदङ्गं भवति, स्विष्टकृदस्यास्तीति स्विष्टकृद्वत् । अन्यस्मिन्हविष्युत्पादिते तु इदं पूर्वहविः स्विष्टकृदङ्गं न भवति, नहि तदा ततः स्विष्टकृदर्थमप्यवदानं गृह्यते किन्तु नूतनोत्पादितादेव । कुतः ? आनुपूर्व्ययोगात् । यतः स्विष्टकृदवदानस्यानुपूर्व्ययोगः क्रमयोगोऽस्ति, प्रधाना- वदानान्तरं ततः स्विष्टकृदर्थमवदानं भवति, यदि च प्रधानावदानमेव पूर्वस्मान्न गृह्यते स्विष्टकृदर्थमपि ततो न गृह्यते, ततः पूर्वस्य हविष उत्पत्ति- र्व्यर्थैव स्यात् , शेषात्तु प्रधानार्थेऽवदीयमाने स्विष्टकृदर्थमपि ततोऽवदी यतऽएवेति पूर्वहविः स्विष्टकृदङ्गं भवति इति पूर्वपक्षे गुणः ॥४॥
देवयाज्ञिकभाष्यसमेतम् । १०१ अथोक्तमेवसिद्धान्तं दृढयति— गुणहानौ तु शेषाभावात् ॥१।६।५॥ तुशब्दः पक्षव्यावृत्तौ, गुणहानौ इति गुणस्य यागं प्रति गुणभूतस्य यागसाधनभूतस्य व्यवदानस्य हानिर्गुणहानिः हविषो मध्यपूर्वभागस्य यागं प्रति गुणभूतस्य यागसाधनभूतस्य हानौ सत्यां नाशे सति न पूर्वशेषादवदेयम् । कुतः? शेषाभावात् । शेषत्वादेव तस्यावशिष्टस्य शेषकार्यार्थत्वादित्यर्थः । कृत्स्न- स्य हि पुरोडाशस्य यो मध्यदेशः तदपादानको यस्तस्योपरितनोऽङ्गुष्ठपर्वमात्रो वयवः सोऽवदातव्यः, अन्यस्त्ववदेयस्यापादानभूतः, न त्वसाववदातव्यः, सत्विडादि- शेषकार्यार्थो न प्रधानकार्यार्थः, अतो नासौ हविः । यत्तु हविस्तद्विनष्टम्, तद्वि- नाशे च हविरन्तरमेवोत्पाद्यम् । यदा च व्यवदानस्यैव यागार्थता ततस्तद्विनाशे शेषस्य कार्यार्थत्वाभावात् द्रव्यान्तरं यागार्थमुत्पाद्यम् । यद्यपि समस्तपुरोडाश- साध्यो यागस्तदापि व्यवदाननाशे तस्य विकलत्वादविकलं हविरन्तरमुत्पाद्यम् । तस्मात्साधूक्तम्, अवत्तनाशेऽन्यदिति । तदुक्तम् संस्काराणां पुरोडाशे व्यवदानं प्रयोजकम् । तद्विनाशाच्च नष्टास्ते नावदेयमतस्ततः गृहीतौ मध्यपूर्वार्धौ तौ च नष्टावुभावपि, अतः शेषस्य शेषत्वात्प्रधानत्वं न युज्यत इति ॥५॥ अथेदं चिन्त्यते—इन्द्रादिसोमादिदेवतानामाहवनीयादीनामग्नीनां मन्त्राणामिषेत्वेत्यादीनां क्रियाणामदृष्टार्थानां प्रयाजप्रोक्षणादीनामस्मरणादिना- ऽपचारे किं देवतान्तरमग्न्यन्तरं शब्दान्तरं क्रियान्तरं च प्रतिनिधेयम्, उत नेति? पूर्वेण न्यायेन प्रतिनिधौ प्राप्त आह— [ अग्निशब्ददेवताक्रियाणां प्रतिनिधिर्नास्ति ] न देवताग्निशब्दक्रियाः परार्थत्वात् ॥१।६।६॥ देवताऽग्न्यादिकाः, अग्नय आहवनीयादयः, शब्दो मन्त्रः, क्रियाः प्रोक्षण- प्रयाजादिकाः, अदृष्टार्थाः। दृष्टार्थेषु त्ववघातादिष्वस्त्येव प्रतिनिधिः, नखनिर्लुण्ठ- नादिभिरपि तत्कार्यसिद्धेः । तदेतेषां देवतादीनामस्मरणादिनाऽपचारे प्रतिनि- धिर्न भवति। कुतः? परार्थत्वात् अदृष्टार्थत्वादित्यर्थः। प्रतिनियतानि ह्येषामदृष्टानि, तथाहि—यत्र हि प्रतिनिधीयमानं मुख्यस्य कार्यं साधयति, तत्र प्रतिनिधिः। नत्विह तथा सम्भवति । देवता तावद्विधिलक्षणा, न त्वन्या, आनीयमाना देवता भवति न चादेवतायै संकल्प्यमानो यागो भवति, अतो न देवता कार्यमन्यतः सम्भवति।
१०२ कात्यायनश्रौतसूत्रम् । अतोऽग्न्यादिके विधिशब्दे विस्मृते तदर्थवाचकं वा न प्रतिनिधिधातव्यम्। एवं च गत्यभावाद्यागस्यापि लोपः, न हि त्यागमात्रं यागः, किन्तु देवतोद्देशेन त्यागः। तेनासत्यां देवतायां प्रधानस्यैव यज्ञार्थस्य स्याल्लोपः, किं च सदृशं प्रतिनिधिधात- व्यम्। देवताया अभावश्च शब्दनाशे,शब्दद्वारेण च देवतात्वम्। अतो मुख्यदेवता- शब्दं स्मृत्वोत्तरकालं तत्सदृशशब्दस्य स्यादुपादानम्, न ह्यस्मृते मुख्ये तत्सदृशो बुद्धावारोपयितुं शक्यः। न च स्मृतस्य मुख्यस्य परित्यागो युक्तः। तस्माद्देवताया न प्रतिनिधिरिति। तथाग्निरप्याहवनीयादिरदृष्टार्थो विनाप्याधारेण प्रक्षेपसम्भ- वात्। न चाहवनीये प्रक्षेपे कृते यददृष्टं तदन्येन सिध्यतीति प्रमाणमस्ति,तस्मा- दग्नीनां न प्रतिनिधिः। नीवारादिना तु पुरोडाशनिष्पत्तिः प्रत्यक्षत एव दृश्यते। मन्त्रस्तु यद्यपि पदार्थप्रकाशनार्थत्वाददृष्टार्थः। तथापि तस्य ध्यानादपि सिद्धेर्न मन्त्रान्तरं प्रतिनिधेयम्। अत्रार्थेन स्मृतेन प्रयोजनमस्ति न मुख्येन मन्त्रेण, नापि तत्सदृशेन शब्दान्तरेण। अवश्यं हि मन्त्रार्थप्रतिपादकं शब्दान्तरं प्रतिनि- धता येन केनचिदुपायेनार्थः प्रथमं स्मर्त्तव्यः, तदभावे तत्प्रतिपादकशब्दान्तरोपा- दानासम्भवात्, ततश्च सिद्धे स्मरणे न प्रतिनिधिना कार्यम्। स्मरणार्थमेव हि प्रतिनिधीयते, न च शब्देन स्मरणं कर्तव्यमिति वचनमस्ति। किं तर्हि, मन्त्रवि- शेषााम्नानसामर्थ्यादुपद्रष्ट्राद्युपायनिवृत्तिः। असति च मन्त्रे उपद्रष्ट्रादि केन वार्यते, अतो नास्ति शब्दान्तरं प्रतिनिधिः। ये तु मन्त्रनियमकृतं यददृष्टं न तदन्येन सिध्यतीत्यप्रतिनिधिमाहुः। तेषां व्रीह्याद्यपचारोपि तत्कृतनियमादृष्टस्या- न्यथासिद्धिर्द्रव्यान्तरप्रतिनिधिर्न सिध्येत्, क्रियायाऽपि प्रतिनिधिर्न भवति, य- त्यजादिभिरदृष्टं क्रियते तदन्या क्रिया करिष्यतीति नास्ति प्रमाणम् , हन्त्यादीनां तु दृष्टार्थत्वात् द्रव्यवदस्त्येव प्रतिनिधिः। क्रियाग्रहणं त्वदृष्टार्थक्रियाभिप्राय- मिति ॥६॥ कामं देवताम् ॥ १ । ६ । ७ ॥ योऽग्निशब्दक्रियाः प्रतिनिधत्ते स कामं स्वेच्छया देवतामपि प्रतिनिदध्यात्। अकामानुमतौ
( निषिद्धानां माषादीनां प्रतिनिधित्वं नास्ति ) प्रतिषिद्धं प्रत्यवायात् ॥ १ । ६ । ८ ॥ नेत्यनुवर्तते । यद्द्रव्यं कोद्रवमाषवरटादि प्रतिषिद्धं न तत्प्रतिनिधेयम् । कुतः ? प्रत्यवायात्। यतः प्रतिषेधातिक्रमे प्रत्यवायो भवति। तथाहि "अयज्ञिया वै कोद्रवा अयज्ञिया वै वरटका अयज्ञिया वै माषा इति प्रतिषिद्ध्यज्ञसाधनभावा मा- षादयः मौद्गे चरौ मुद्गानामभावे सादृश्यान्माषाः प्राप्नुवन्ति श्यामाकचरौ च कोद्रववरटकाद्या इति, अत्र माषाद्याः प्रतिनिधित्वेन ग्राह्याः न वेति संदेहः, तत्र यज्ञाङ्गत्वं माषादीनां प्रतिषिध्यते, प्रतिनिधित्वे तु न माषस्य यज्ञाङ्गत्वम्, किन्तु तद्गतस्य मुद्गाद्यंशस्य, अतः प्रतिनिधेया माषादय इति चेत्, मैवम्, अयज्ञिया इत्य- नेन यज्ञार्हतामात्रं प्रतिषिध्यते । प्रतिनिधित्वे चावर्जनीयं साधनत्वम् । अतो न माषादीनां प्रतिनिधित्वम् । तदुक्तम् "व्रीहिर्यवो वा श्यामाको नीवारो वा हवि- र्भवेत्। वेणुर्यवा मसूरं वा शाकं मूलं फलं जलम्। सत्यं वा हविरेतेषु यथा सम्भ- वमाचरेत् । प्रतिनिध्यन्तरवत्सत्यं विज्ञेयं हविरत्यये । प्रधानदेवतोद्देशात्संत्यज्येतस- त्यमात्मनः। अतोऽन्यदपि वा ग्राह्यं सदृशं धान्यमात्रकम् । न ग्राह्यं सर्वथामाष- वरटोदारकोद्रवम् । यद्वा व्रीहियवाभावे तुषतण्डुलयोगिनीः । ओषधीः परिगृह्णीयादणुकद्रोववर्जिताः। ग्राम्याणां वा भवेद्ग्राम्यमारण्यानामरण्यजम् । यवाभावे तु गोधूमास्ततो वेणुयवादयः" इति ॥८॥ अथेदं विचार्यते, प्रोषिते कार्यान्तरव्यापृते मृते वा यजमाने तत्स्थाने किं याजमानपदार्थकरणाय पुरुषान्तरं प्रतिनिधेयमुत नेति, तत्र व्रीह्याद्यपचार इव प्रतिनिथौ प्राप्त आह— ( यजमानस्य प्रधानकार्ये प्रतिनिधिर्नास्ति ) स्वामी फलयोगात् ॥ १ । ६ । ९ ॥ नेत्यनुवर्तते । स्वामी यजमानो न प्रतिनिधेयः। मृते तावत्कः पुरुषान्तरं प्रतिनिधिध्यात् । को वाध्वर्य्यादीन्प्रवर्तयेत् स्वयमप्रवर्तमानेषु च तेषु न मृतस्या- कर्तुः फलं सिध्यति । यदि तु प्रतिनिहितो दक्षिणादानं द्रव्यत्यागं च करोति तदा तस्य सम्यक्फलसम्बन्धान्मुख्य एव स्वामी स्यान्न प्रतिनिधिः। पत्नीत्वस्व- तन्त्रा अनग्निश्च मृते पत्यौ पुरुषान्तरं प्रतिनिधाय प्रयोक्ष्यतीत्यनाशङ्कनीयमेव,
[पृष्ठम् १०४] कात्यायनश्रौतसूत्रम् ।
प्रोषितेऽन्यत्र व्यापृते वा यजमाने ये तावत्क्रत्वर्था आज्यावेक्षणादयः तेषु यथा- समाख्यमध्वर्य्वादय एव कर्तारो विद्यन्त इति न प्रतिनिधिना कार्यम् । पुरुष- संस्काराणां च ऋत्विग्वरणादीनां क्रत्वर्थत्वात् विनापि यजमानेन नास्ति वैगु- ण्यम् । पत्न्याऽपि तदनुष्ठानसम्भवात् । यानि च ब्रह्मचर्यादीनि फलं प्रति योग्य- तायाः कारणानि तानि बहिरवस्थितेनापि यजमानेन क्रियमाणानि क्रतोरुप- कारकान्येव । तस्माद्वेदबन्धनाज्यावेक्षणादावध्वर्य्वादेर्विद्यमानत्वादितरत्र ब्रह्म- चर्यादावसम्भवात्प्रतिनिधेरनुत्पन्नो यजमानप्रतिनिधिः । कुतः ? फलयोगात् । न हि पुरुषान्तरेण क्रियमाणानि ब्रह्मचर्यादीनि यजमानस्य फलयोग्यतां सम्पादयन्तीत्यसम्भवः प्रतिनिधेः । तस्मान्न प्रवासादिनापचरिते स्वामिनि त- त्स्थाने स्वाम्यन्तरं प्रतिनिधेयमिति । ननु पत्न्यां मृतायां किमस्ति प्रतिनिधिरुत नेति नायमस्याधिकरणस्य विषयः, तदा हि यदा तावत् भार्यायै पूर्वमारिण्यै दत्वाग्नीनन्त्यकर्मणीत्ययं ( मनु० ५, १६८, ) पक्षः समाश्रीयते तदाग्न्य- [L1
इस पृष्ठ पर कोई देवनागरी ग्रन्थ-पाठ (सूत्र, भाष्य, मन्त्र आदि) उपलब्ध नहीं है। यह पुस्तक का आवरण/प्रारम्भिक पृष्ठ है, जिस पर केवल पुस्तकालय की मुहर और पाद-टिप्पणी अंकित है:
SRI JAGADGURU VISHWARADHYA JNANA SIMHASAN JNANAMANDIR LIBRARY, Jangamwadi Math, VARANASI. Acc. No. 5895 [हस्ताक्षर] CC-0 Jangamwadi Math Collection. Digitized by eGangotri
इस पृष्ठ पर कोई देवनागरी पाठ (सूत्र, भाष्य अथवा अनुवाद) उपलब्ध नहीं है। यह एक रिक्त पृष्ठ (blank page) है।
(केवल पृष्ठ के निचले भाग में डिजिटलीकरण का विवरण अंकित है: "CC.0- Jangamwadi Math Collection. Digitized by eGangotri")
इस पृष्ठ पर कोई देवनागरी पाठ या सूत्र उपलब्ध नहीं है (यह एक रिक्त पृष्ठ है)।
केवल पृष्ठ के निचले भाग में डिजिटलीकरण का पादलेख (footer) अंकित है:
CC.0- Jangamwadi Math Collection. Digitized by eGangotri
इस पृष्ठ पर कोई देवनागरी या सूत्र/भाष्य पाठ उपलब्ध नहीं है। यह पुस्तक का सज्जा-पृष्ठ (decorative endpaper / cover pattern) है, जिस पर केवल ज्यामितीय अलंकरण (पैटर्न) बना हुआ है।