कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
१६ कात्यायनश्रातसूत्रम् । सर्वदा। अतस्त्रैवणिकस्य रथकारस्याभावात्, विचारहितस्यापि ऋभुसौधन्वन- सात्वनापरपर्यायस्य जात्यन्तरस्य रूढ्यवगतस्य वचनादाधानेऽधिकारो भवति । अत्र पार्थसारथिमिश्रा आहुः। रथकारस्यैव ऋभुसौधन्वनसात्वताद्यपर- नामधेयस्याऽऽधानान्तरं वर्षासु विधीयते वचनात्। नहि वचनस्य किञ्चिदश- क्यमस्ति। तेन तावद्रूढिबलेन योगं बाधित्वा सौधन्वनानामाधाने विहिते तद्व- लेनैव यथाकञ्चिन्मात्रौपयिकं विद्यार्जनमपि विनोपनयनमाक्षिप्यते। स्वाध्याय- विधिविहिताध्ययनाङ्गत्वान्दुपनयनस्य रथकारस्य तदभावादाधानविधिनेव विद्या- र्जनमाक्षिप्यते। नचास्याऽऽधानसम्भवेऽपि क्रत्वधिकारः सम्भवति। विद्याभावात्। आधानविधिस्तु तावन्मात्रोपक्षीणत्वान्नक्रतुष्वधिकारं कल्पयितुमर्हति । तेन प्रधानकर्मैव तस्याधानं विश्वजिदादिवत्कल्प्यफलम्। नचास्याऽऽहवनीयाद्युत्पा- दकत्वम्, अर्थकर्मत्वेनाग्निसंस्कारानर्हत्वात् । तस्मादाधानं प्रधानकर्म रथकार- स्य विधीयत इति ॥११॥ रथकारस्याधान इत्येवमादीनां सूत्राणामपरा व्याख्या। रथकारस्याधा- नेऽधिकारो भवति तत्र श्रुतत्वादित्युक्तम् । रथकारशब्दस्तु जात्यन्तर एव रूढः। अतो यौगिकाशङ्कैवनास्ति। अतः प्रकारान्तरेण व्याख्यानं क्रियते। रथकारस्य किमाधानमात्रेऽधिकार उत त्रैवर्णिकवत्सर्वकर्मस्वपीति ? तत्र
देवयाज्ञिकभाष्यसमेतम् । १७
तत्र; कुतः ? अभावात् । लिङ्गाभावस्यैवाभावात् । लिङ्गसद्भावादित्यर्थः । कानि पुनस्तानि लिङ्गानि यै रथकारस्यापि कर्मस्वधिकारो व्याक्रियते ? उच्यते— “ आधावेति शूद्रस्य ” “अष्ठीवद्दध्नं शूद्रस्य” “मस्तु शूद्रस्य” इति । शूद्रस- म्बन्धाद्रथकारोऽत्र शूद्रशब्देनाभिधीयते, तस्य मातामही शूद्रेति । चतुर्थवर्णस्य शूद्रस्य तु प्रतिषेध उक्तः, “ शूद्रवर्जम् ” इति । तेनैतानि गौणशूद्रविषयकाणीति । रथकारस्याधानमात्रेऽधिकारपक्षे, एतानि निर्विषयान्येव स्युः । तस्माद्रथ- कारस्योत्तरकर्मस्वप्यधिकार इति सिद्धम् । तथाचोक्तं याज्ञवल्क्यस्मृतिविवृत्तौ मिताक्षरायां विज्ञानेश्वरेण, “क्षत्रियेण वैश्यायामुत्पादितो माहिष्यः, वैश्याच्छू- द्रायामुत्पादिता करणी, तस्यां माहिष्येणोत्पादितो रथकारो नाम जात्या भवति । तस्य चोपनयनादि सर्वं कार्यं वचनात् ; तथाह शङ्खः—क्षत्रियवैश्यानुलोमान- न्तरोत्पन्नजो रथकारस्तस्याध्ययनेज्यादानोपनयनसंस्कारक्रियाश्चाप्रतिषिद्धा, रथसूत्रं वास्तुविद्याध्ययनवृत्तिता चेति । रथसूत्रं रथविधेति मञ्जर्य्या व्याख्यातम् । तत्र तु संस्कारक्रियाश्चाप्रतिषिद्धा रथसूत्रमित्येवं पाठः । अतो याज्ञवल्क्योक्त एव रथकारोऽत्र गृहीतुं न्याय्यः, तस्य च शङ्खोक्तयज्ञादिकर्मस्वधिकारः । तथासति “ आधावेति शूद्रस्य ” इत्यादीनि वेदवाक्यानि सार्थकानि भवन्ति ।
१ “ लिङ्गाभावानधिकारो गम्यते । एवमभिधाय पुनराधिक्येन व्याख्यायते । अभावाल्लिङ्गानामुपरितनकर्मस्वधिकारो न स्यात् । अस्ति तु लिङ्गस्य भावः । न च लिङ्गभा- वमात्रेणैवानधिकारो गम्यते । आधानं हि तस्य श्रुतम् । तद्धि संस्कार्याग्निद्वारेण परार्थमिति वात्स्यग्रहणमुक्तार्थम् ” इति कर्कः । ‘ अस्ति तु भावः’ इति सामान्येनोक्तं लिङ्गसत्त्वं प्रदर्शयति अपिचेत्यादिना । नाभावादिति सौत्रपदे न अभावो नाभाव इति नञ्शब्देन सुप्सुपेति समासः । उत्तरकर्मस्वनधिकारप्रयोजकत्वेनाभिमतस्य लिङ्गाभावस्याभावादित्यर्थः । उत्तरकर्मसु रथकारस्याधिकारोऽस्त्येवेति शेष इति महामहोपाध्यायश्रीनित्यानन्दपर्वतीयगुरु- चरणाः । २ अत्राह भगवान् खण्डदेवः—मम तु प्रतिभाति—नाधानस्यार्थकर्मत्वं प्रमाणाभावा- त् । अग्नीनिति द्वितीयान्तपदे लक्षणादेरावश्यकत्वे रथकारपदे योगाङ्गीकारस्यैव न्याय्यत्वाच्च; अपि त्वाहवनीयाद्युत्पादकत्वमेव । न च तेषामनुपयोगः, अविद्वत्तया क्रत्वधिकाराभावेन
१८ कात्यायनश्रौतसूत्रम् । 'मनूक्त व्रात्यवैश्यजातसुधन्वपर्याये रथकारे गृह्यमाणे तेषां वैयर्थ्यमेव स्यात् । न च तदिष्यते । तस्माद्याज्ञवल्क्योक्तमेव श्रुतम् , श्रुतिसम्मतत्वादिति ॥११॥ ( स्थपतिनिषादस्य गावेधुकेष्टावधिकारः ) निषादस्थपतिर्गावेधुकेऽधिकृतः ॥ १ । १ । १२ ॥ निषादस्थपतिर्गावेधुके चरावधिकृतोऽधिकारी भवति । एवं हि श्रूयते- “ यस्य रुद्रः प्रजाः शमयेत्स वास्तुमध्ये रौद्रं चरुं निर्वपेत् ” इति, एतामिष्टिं प्रक्रम्य श्रुतम् , “ एतया निषादस्थपतिं याजयेत् ” इति; निषादस्थपतिर्यजे- तेत्यर्थः । तत्रायं सन्देहः, किमयं षष्ठीसमासः, निषादानां स्थपतिर्निषादस्थपति- रिति, निषादश्चासौ स्थपतिश्च निषादस्थपतिरिति कर्मधारयो वा । तत्र यदि षष्ठीसमासस्तदा यो द्विजातिरेव विद्वान् निषादानामाधिपत्यं करोति, तस्यात्रा- धिकारः, यदि च कर्मधारयस्तदा निषाद एव यः स्थपतिस्तस्यात्राधिकार इति । तत्र त्रैवर्णिकस्यैव समर्थत्वाद्द्विद्त्वाद्वाग्निमत्वाच्चात्राधिकारो युज्यते, अन्य- जातीयस्य निषादस्यावैधत्वेनानग्नित्वेन चासमर्थत्वात् । तस्मात् षष्ठीसमास एवायमिति पूर्वः पक्षः । तत्रानुपयोगेऽपि “ आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्च” इति वचनविहिते दाहे, उपयोग- सम्भवात् । न ह्ययं दाहः कर्मोपयुक्ताहिताग्निप्रतिपत्त्यर्थः, येन कर्माभावेनाभावः शङ्क्येत । तथात्वे, आहिताग्निपदेनाधानस्यैवोपस्थितेस्तदङ्गत्वस्यैवापत्तौ क्रत्वङ्गत्वानापत्तेः, न चेष्टाप- त्तिः। तथात्वे प्रतिपत्तिं विना आधानफलाहवनीयादेरनिष्पत्त्यापत्तेः । अतः फ- लश्रवणादर्थकर्मैवेदमिति युक्तस्तत्राहवनीयादेरुपयोगः । पवमानेष्ट्यङ्गभूतपात्रसत्त्वाच्च यज्ञ- पात्रसमुच्चयेऽपि न क्षतिः । अत एव पवमानेष्ट्युत्तरं प्राक् ऋतुभ्यो मरणे अग्निभिः पात्रैश्च दाहः, पवमानेष्टिभ्यः पूर्वं मरणे तु, उक्तवचनबलादग्निभिरेव दाह इति । तन्त्ररत्ने तु- यद्यपि च विद्याभावादस्योत्तरक्रतुष्वनधिकारः स्यात्तथाप्याधानमात्रमरणिममथितलौकिकाग्नि- गुणकं कल्प्यस्वर्गफलं सधर्मकमनुष्ठेयम् । एवं चाहवनीयादेरनुपयोगादभावेन तदुद्देशेन विहितानां ' नक्तं गार्हपत्यमादधाति ' इत्यादीनां धर्माणां लोपेऽपि, एकस्मिन्नेव कुण्डे स्थण्डिले वा त्रिषु वा तेष्वग्न्याधानमितराङ्गयुक्तं कार्यमिति । १ व्रात्यात्तु जायते वैश्यात्सुधन्वाचार्य एव च ।
देवयाज्ञिकभाष्यसमेतम् । १९ सिद्धान्तस्तु—कर्मधारयो निषादश्चासौ स्थपतिश्चेति । कुतः ? षष्ठीसमा- सपक्षे निषादपदे लक्षणाप्रसक्तेः । न ह्यत्र षष्ठी श्रूयते यतः सम्बन्धः प्रतीयेत, अतो निषादपदे¹नैव षष्ठ्यर्थो लक्षणीयः । इतरस्मिंस्तु पक्षे द्वयोरपि पदयोर्मु- ख्यार्थतैव, न लक्षणा । तस्मान्निषाद एव स्थपतिरत्राधिकारी । श्रुति- बलादविद्वाननग्निमानपीति सिद्धम् । अपि चात्र निषादद्रव्यं दक्षिणा श्रूयते “२कूटं दक्षिणा काणो वा गर्दभः ” इति । कूटं हि निषादानामेवोपकारकम्, ३नार्या- णामिति ॥ १२ ॥ १ शब्देनेत्यपि पाठः ख पुस्तके । २ कूटं हलाग्रसंस्थितं लौहम् । ३ अत्राहुः प्राञ्चः—पक्षद्वयेऽपि शब्दोऽयं योगादेव प्रवर्तते । तत्र षष्ठीसमासत्वे विदुषः स्यादधिक्रिया ॥
२० । कात्यायनश्रौतसूत्रम् । ( स्त्रीप्रसङ्गे ब्रह्मचारिणः प्रायश्चित्तम् ) वाऽवकीर्णिनो गर्दभेज्या ॥ १ । १ । १३ ॥ यो ब्रह्मचारी सन् स्त्रियं गच्छति, सोऽवकीर्णी, तस्यावकीर्णिनः स्ख- लितब्रह्मचर्यस्य गर्दभेज्या, गर्दभेनेज्या यागो गर्दभेज्या प्रायश्चित्तार्था भवति । वाशब्दो विकल्पार्थः । तेन 'गृह्योक्तमपि प्रायश्चित्तान्तरमाज्याहुतिद्वयरूपं विक- ल्पेन भवति, "अथापरमाज्याहुती जुहोति, कामावकीर्णोऽस्मि." इत्यादि- कम् । शाखान्तर उभयस्य विकल्पेन श्रुतत्वात् ॥१३॥ चानुभवात् , राज्ञः पुरुषोऽस्तीत्यादौ व्यधिकरणपदस्थले च भेदसम्बन्धेनैवानुभवाल्लाघ- वेन नामप्रयोज्यतदर्थान्वयबोधस्याभेदविषयकत्वमेवेति नियमकल्पनात् स्वस्वामिभावादि- सम्बन्धस्य षष्ठीतत्पुरुषादौ संसर्गविधया भानानुपपत्तेरवश्यं पूर्वपदे स्वार्थसम्बन्धिलक्षणा- मङ्गीकृत्य तस्योत्तरपदार्थेऽभेदेनान्वय इत्यङ्गीकार्यम् । अत एव नामप्रयोज्यनामार्थविशे- ष्यकनामार्थप्रकारकाभेदसंसर्गबोधकत्वावच्छिन्नं प्रत्येकाधिकरणवृत्तिप्रातिपदिकार्थतावच्छे- दकनामद्वयसमभिव्याहारस्य द्वन्द्वभिन्ननामद्वयसमभिव्याहारस्य वा तन्त्रत्वमित्यपि बोध्यम् । तेन धवखदिरौ नीलघटावित्यादौ नामेदबोध इत्यपि बोध्यम् । न चैवं समासे सम्बन्धि- नोऽभेदान्वयाद्विग्रहे च राज्ञः पुरुष इत्यत्र षष्ठ्यर्थसम्बन्धस्य भेदेनान्वयाद् वृत्तिवाक्ययोर्भि- न्नार्थत्वापत्तेरकविधानेनेतरनिवृत्त्यनापत्तौ विभाषासूत्रवैयर्थ्यापत्तिरिति वाच्यम् । एकतरबो- धस्यावश्यकत्वेनार्थैक्याभिप्रायत् । अतश्च षष्ठीतत्पुरुषे लक्षणापत्तेर्निषादश्वासौ स्थपतिश्चेति कर्मधारय एवायम् । तेन तावद्विषये विद्यामाक्षिप्यानाहिताग्नेरपि निषादस्यैवाधिकारः । अत एव 'कूटं दक्षिणा स्वं हि तन्निषादानाम्' इति लिङ्गमपि सङ्गच्छते । तत्र च परप्रयुक्तोपजीवित्वादाहवनीयाद्यनाक्षेपेऽपि 'यत्र क्वचन होष्यन् स्यात् स पञ्चभूसंस्कारान् कृत्वा लौकिकाग्निं प्रतिष्ठापयेत्' इति स्मृतिवचनेनाग्न्यन्तराभावे होममात्रोद्देशेन लौक- काग्निविधानात्तमेव तत्तद्देशे स्थापयित्वा तस्मिन्निष्टिः कर्तव्येति ध्येयमिति । १ अथातोऽवकीर्णिप्रायश्चित्तममावास्यायां चतुष्पथे गर्दभं पशुमालभते निर्ऋतिं पाक- यज्ञेन यजेताप्त्ववदानहोमो भूमौ पुरोडाशश्रपणं तां छविं परिदधीतोर्ध्वबालमित्येके संव- त्सरं भिक्षाचर्यं चरेत्स्वकर्म परिकीर्तयन्, अथापरमाज्याहुती जुहोति कामावकीर्णोऽस्म्य- वकीर्णोऽस्मि कामकामाय स्वाहा, कामाभिद्रुग्धो (दुग्धो )ऽस्म्यभिद्रुग्धो (दुग्धो )ऽस्मि कामकामाय स्वाहेत्यथोपत्तिष्ठते, सं मा सिञ्चन्तु मरुतः समिन्द्रः सम्बृहस्पतिः । सं माय-
अत्रैतद्विचाय॑ते—किं स्थपतीष्टिरवकीर्णी पशुश्चैतदुभयमाधानसंस्कृतेष्वा- हवनीयादिषु भवति, उत लौकिक इति । तत्र प्रकृतित आहवनीयादिषु प्राप्तेरा- हवनीयादीनां चाधाननिष्पाद्यत्वात्स्थपतेरवकीर्णिनश्चाधानविध्यभावेऽपीष्टिपशू आधानं प्रयोजयतः । अत एतदर्थमेवाधानेनाहवनीयादीनुत्पाद्य तेषु तदुभयं कर्तव्यमिति प्राप्त आह— लौकिके ॥ १ । १ । १४ ॥ एतौ स्थपतीष्ट्यवकीर्णिपशू लौकिकेऽग्नौ भवतः । कुतः ? नहीमाविष्टि- पशू आधानं प्रयोजयतः; आभ्यां हि तदेव गृह्यते यद्दर्शपूर्णमासाङ्गं भवति । 'मग्निः सिञ्चतु प्रजया च धनेन चेत्येतदेव प्रायश्चित्तम् ॥ इति (पारस्करगृह्यसूत्रे तृतीयकाण्डे द्वादशी कण्डिका) रेणुकारिकास्वपि—अवकीर्णिप्रायश्चित्तमिदानीमभिधीयते । ब्रह्मचारी स्त्रियं गच्छेदवकीर्ण्युच्यते बुधैः ।। पशुना गर्दभेनाधिक्रियते नैर्ऋतेनसः । शाखापशुविधा- नेन पशुः कार्यश्चतुष्पथे । न च श्राद्धार्थ आरब्धः पशुः प्रोक्तः प्रसङ्गतः ।। आह नैमि- त्तिकं वक्तुमिति षष्ठचन्तरं मुनिः । पाकयज्ञो हविर्यज्ञः पशोरेष द्विधा मतः ।। इहोच्यते पाकयज्ञः पाकयज्ञेन सूत्रणात् । अवकीर्णीन इत्यस्मिन् युक्तोऽधिकरणे यतः ।। स्वयं कर्तृक आद्यः स्यात् परोऽर्त्व्यादिकर्तृकः । लौकिके स्यादिदं कर्म काले चन्द्रमसः क्षये ।। पुरोडाशविधानं स्यान्नशाखात्पशुवच्चरुः । संस्कारानुष्ठितिस्तस्य सहाय्येनैव चोदिता ।। भूमौ पशुः पुरोडाशः श्रप्यते प्रोक्षणादिषु । आदिशेन्निर्कृतिं तत्र निर्ऋत्यै च निमन्त्रितः ।। अप्सु होमोऽवदानानां पुरोडाशेन तैः सह । वपा स्विष्टकृतेस्तद्वत्तेषामग्न्युपवादतः ।। आघारादि भवेद्वह्लावाज्यसम्बन्धि कर्म च । अवकीर्णाघ(कीर्णित्व)निःकृत्यै पाकयज्ञ- विधानतः ।। पशुना गर्दभेनाहं यक्ष्य इत्थं गुरुं वदेत् । स्थापयेल्लौकिकं वह्निं भूमौ संस्कार- पूर्वकम् ।। तदुत्तरेणोदपात्रं तथा भूशुद्धिपूर्वकम् । होमार्थमवदानानां स्वा(चा)ख्यानाद्य- पवर्गतः ।। परिष्कृतिर्द्वयोरेका साधनत्वात्तथोभयोः। स्नापयित्वोपकरणे पशुसंस्कारकर्मवत् ।। तच्छाखापशुवत्सर्वं वचनस्यातिदेशतः ।। तदन्ते परिसन्दधत्ते त्वचं (छर्वि) तामेव त (?) च्छुचिः । ऊर्ध्वपुच्छं ब्रुवन्त्यन्ये, चरेद्भिक्षां हि वत्सरम् ।। स्वकर्मजाह्यत्र तिष्ठेत्स्वपापं परि- कीर्तयेत् । 'निरुक्तं वा एन एव कनीयो भवति' श्रुतेः ।। संवत्सरान्ते पूतः सन्पुनस्तद्व्र- तमाचरेत् । नैमित्तिकान्तरं तस्यावकीर्णिन इहोच्यते ।। स्थापयित्वोद्धरेद्वह्निं लौकिकं न चतुष्पथे । वरणादि यथोक्तं स्यादाज्येनैवात्र हूयते । क्रमेण जुहुयादेता आघाराद्याश्चतु- र्दश ।। तेनाज्येनैव जुहुयादाहुती प्रतिमन्त्रतः। आद्या कामावकीर्णोऽस्मि कामभिर्दग्ध इत्यथ ।।
- पा - त्य - पा - क... wait! Look at the characters: प - क्षा - दि - नि - पा - त्य - पा - क - प्र - का - शा - दि - क - म् Yes, पक्षादिनिपात्यपाकप्रकाशादिकम्!
त्यादयो वैतानिकाः सर्वार्थाः । कुतः ? यद्धि द्रव्यमुत्पत्तिकाल केनचिदर्थेनासंयु- Wait, "उत्पत्तिकाल" or "उत्पत्तिक़ाले"? Look closely at "उत्पत्तिकाल": द् - र - व्य - मु - त्प - त्ति - का - ल Wait, is there an e-matra on ल? Look at 'ल' in 'द्रव्यमुत्पत्तिकाल': The top has no matra! It says "द्रव्यमुत्पत्तिकाल" or is there a faded e-matra? Wait, look at 'केनचिदर्थेनासंयु-': के has clear e-matra. On 'ल', there is no e-matra visible, but wait, look at the very top: Wait, above 'ल' is the u-matra of 'षु' from line 21? No, line 21 above it has 'श्रौतं च हविः,'. Wait, in line 22, it is printed "द्रव्यमुत्पत्तिकाल" (without e-matra) or maybe
देवयाज्ञिकभाष्यसमेतम् । २३ सामर्थ्येन न सर्वाग्निकार्यार्थता विज्ञायते, तस्माच्छ्रौतं स्मार्तं च यद् गृह्यसूत्रोक्तम्, स्मृत्युक्तं च पाकादिकं तत्सर्वं गार्हपत्यादिषु भवतीति ॥ १८ ॥ दर्शनाच्च ॥ १ । १ । १९ ॥ दृश्यते चायमर्थो यत्स्मार्तमपि होमपाकादिकं वैतानिकेषु क्रियत इति । दक्षिणाग्निं प्रकृत्य श्रूयते—“ मांसं तु तत्र न पचयेयुः ” इति । अत एव प्रतिषेधात्प्राप्तिरनुमीयते, प्रतिषेधस्य प्राप्तिपूर्वकत्वात् । नच श्रौतो मांसपाको दक्षिणाग्नौ विहितोऽस्ति, तस्यैव प्रतिषेधः स्यात्, यतः स १शामित्रेऽग्नौ विहितः । अस्तित्वविहिताप्रतिषिद्धः स्मार्तो मांसपाकः, तस्यायं प्रतिषेधो विज्ञायते । स्मृ- तावपि दर्शश्राद्धं प्रकृत्याग्नौकरणार्थमभिमाह मार्कण्डेयः— आहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः । अनाहिताग्निस्त्वौपासनेऽग्न्यभावे तथाप्सु (स्तु ?) वा ॥ इति । शङ्खलिखितौ-“ धूपगन्धमाल्यैरलङ्कृत्य ब्राह्मणान् सघृतमन्नमनुज्ञाप्य दभ्रं दक्षिणाग्निं परिस्तीर्य जुहुयादग्नये कव्यवाहनाय ” इत्यादि । वायुपुराणेऽपि- आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः । इति अतोऽस्माद्दर्शनात्स्मार्तमपि वैतानिकेषु कर्तव्यमिति पूर्वः पक्षः । सिद्धान्तमाह- ‘नौपासनश्रुतेः ॥ १ । १ । २० ॥ यदुक्तं वैतानिकेष्वेवाग्निषु श्रौतं स्मार्तं च कर्तव्यमिति, तन्न, कुतः ? औपा- सनश्रुतेः । यतः, अहिताग्नेरपि औपासनः श्रूयते पितृमेधे “ ३अद्वारेणौपासनं निरस्यति ” इति । यदि स्मार्तमेव वैतानिकेषु क्रियेत, तदाऽऽहिताग्नेः पितृमेधे औपासनदर्शनं न स्यात् । अस्ति च । तस्मात्तान्यौपासने कर्तव्यानीति । १ शामित्रः पशुश्रपणोऽग्निरुच्यते, तथाचापस्तम्बः—अभिपर्यग्निकृते देश उल्मुकं निदधाति स शामित्रः । २ कात्यायनश्रौतसूत्र एव वक्ष्यत्येकविंशाध्याये चतुर्थकण्डिका- यामेकोनत्रिंशत्तमं सूत्रम् । ३ अत्र पूर्वतन्त्रोक्तं विहाराग्नेर्वैदिककर्ममात्राधिकरणं (१२ । २।१) अनुसन्धेयं विशेषजिज्ञासुभिः ।
२४ कात्यायनश्रौतसूत्रम् । तथा च ( याज्ञवल्क्य )स्मृतिः— कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही । दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥ इति ॥ ‘तस्मिन् गृहाणि’ इत्यापस्तम्बस्मरणाच्च । अतश्च यत्किञ्चिद्दम्पत्योर्विहितं कर्म शान्तिकपौष्टिकव्रताङ्गहोमादिकं स्मार्तं तत्सर्वमावसथ्येऽग्नौ भवतीति । अत एवाह कात्यायनः— न स्वेऽग्नावन्वयोहोमः स्यान्मुक्त्वाैकां समिदाहुतिम् । स्वस्य गर्भक्रियार्थांश्च यावन्नासौ प्रजायते ॥ अग्निस्तु नामधेयादौ होमे सर्वत्र लौकिकः । न हि पित्रा समानीतः पुत्रस्य भवति क्वचित् ॥ अतश्च सीमन्तोन्नयनमपि स्मार्ताग्नावेव कार्यम् । अपिच, आधानेनोत्पादितानां गार्हपत्यादीनामग्नीनां प्रयोजनापेक्षायां स- त्यां गार्हपत्ये हवींषि श्रपयन्त्याहवनीये जुह्वति, दक्षिणाग्नावन्वाहार्यं पचन्तीति प्रत्यक्षवचननिर्दिष्टैरेव प्रयोजनैर्निराकाङ्क्षाणां न सामर्थ्यमात्रेणोक्तादन्यत्र विनियोगः कल्पयितुं शक्यते । ननु माभूत्सामर्थ्यमात्रेण विनियोगः, वाक्येनैव स्मार्तेष्वपि पार्वणस्थाली- पाकादिहोमेषु भवत्विति चेत्, न; न च स्मार्तहोमास्तेषु विधातुं शक्याः, ते हि सहैवाधानेनावसथ्येनोत्पाद्यन्ते, यथा होमादयः। अत्राह जैमिनिः "सति चौपा- सनस्य दर्शनात् ” ( १२-२-१-४) इति । सति च विहारे औपासनेऽग्नि- र्दृश्यते । “ यः कामयेत राष्ट्रमस्यै प्रजायाै स्यादिति तस्यौपासने प्रजुहुयात् ” इति राजसूये प्रवृत्ते कर्मण्येेतद्वचनम् । तस्मिंश्च काले विहारोऽस्ति । यदि च विहार एव स्मार्तान्यपि कर्माणि स्युस्तदा कार्याभावादौपासनदर्शनं न स्यात् । अस्ति च । तस्मात्स्मार्तान्यौपासन एव कार्याणि ॥ २० ॥ यद्येवं तर्हि मांसपाकप्रतिषेधस्य का गतिरित्यत आह— अधिश्रपणीये मांसप्रतिषेधः ॥ १ । १ । २१ ॥ य एष उक्तो मांसपाकप्रतिषेधो “ मांसं तत्र न पचयेयुः”इति सोऽधि- श्रपणीयेऽहनि ज्ञेयः। नवगृहे यदा वासः क्रियते तदा तस्मिन्नेवाहनि । तत्र CC.0- Jangamwadi Math Collection. Digitized by eGangotri
देवयाज्ञिकभाष्यसमेतम् । २६ दक्षिणाग्नेराहरणं कार्यं नाहवनीयवत्प्रतिहोममिति विकल्पं वक्ष्यति-“नवावसिते वा ” इति । श्रूयते च-“ नवावसिते वैनमाहरेयुः ” इति । तदा च तस्मि- न्नवगृहे दक्षिणाग्नावविशेषेण भोजनार्हस्यानियतद्रव्यस्य पाको विहितोऽस्ति “ तस्मिन्पचेयुस्तद्ब्राह्मणा अश्रीयुः” इति । तत्र कदाचिन्मांससम्पत्तौ तस्यापि पाकस्तत्र प्राप्नोति तस्यैष प्रतिषेधो ‘ मांसं तत्र न पचेयुः ’ इति । पक्षान्तरमपि दुग्धाधिश्रयणरूपमेतस्य विद्यते “ यद्धृतं न विन्देद्यत्पचेद- पि गोरेव दुग्धमधिश्रयीत वै ब्रूयात् ” इति । तेनाधिश्रयणं सम्बन्धि अहः अधिश्रयणीयम्, तात्सम्बन्धिश्रयण इति । अनेन च सम्बन्धि दक्षिणाग्न्याहरण- दिनं लभते । अतः श्रौतान्येव वैतानिकेषु गार्हपत्यादिषु कर्तव्यानि । स्मार्तानि त्वावसथ्येऽग्नावेवेति सिद्धम् । यत्तु स्मृतौ दक्षिणाग्नावग्नौकरणहोम उक्तः, स सर्वाधानपक्षे त्वावस- थ्याग्नावेवेति तत्रैव निर्णीतमांस्त ॥ २१ ॥ ॥ इति प्रथमा कण्डिका ॥ कर्मणां फलवत्त्वोक्तिपूर्वकं तेष्वधिकारो निरूपितः । अधुना तस्यैव साङ्गस्य फलवतः कर्मणो निरूपणमाह— ( यागस्वरूपनिरूपणप्रतिज्ञा ) यज्ञं व्याख्यास्यामः ॥ १ । २ । १ ॥ यज्ञो यागो यजनमिष्टिरिति पर्यायाः । यज्ञं यागं व्याख्यास्यामः, याग- स्वरूपं कथयिष्यामः ॥१॥ ( यागस्वरूपनिरूपणम् ) तदेवाह— द्रव्यं देवतात्यागः ॥ १ । २ । २ ॥ द्रव्यं देवतात्यागो यज्ञः । द्रव्यं पुरोडाशचरुसान्नाय्यपशुसोमादिकम् । देवता अग्निसोमेन्द्रविष्ण्वादिकाः । तद्धितचतुर्थी मन्त्रवर्णान्यतमा बोध्या । तत्रा- ग्न्यादिकां देवतामुद्दिश्य यो द्रव्यस्य पुरोडाशादेस्त्याग उत्सर्गः स यज्ञः स याग इत्यर्थः । तथा चोक्तम्- तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन चेष्यते । देवतासङ्गतिस्तत्र दुर्बलं तु परं परम् ॥ इति ।
२६ कात्यायनश्रौतसूत्रम्। तत्र तद्धितेन देवता सङ्गतिर्यथा-आग्नेयोऽष्टाकपालः, अग्नीषोमीय उ- पांशुयागः, अग्नीषोमीयः पुरोडाशः, ऐन्द्राग्नः पुरोडाशः, ऐन्द्रं दधि, ऐन्द्रं पयः, ‘ अग्नीषोमीयं पशुमालभेत ’ इत्यादौ । चतुर्थ्या देवतासङ्गतिर्यथा-अग्नयेऽनीकवतेऽष्टाकपालम्, मरुद्भ्यः सा- न्तपनेभ्यः, अथ मरुद्भ्यो गृहमेधिभ्यः, इत्यादौ । मन्त्रवर्णेन देवतासङ्गतिर्यथा उत्तराघारे, यथाच प्रयाजेषु । क्वचित्प्राकरणिकदेवतासम्बन्धोऽपि भवति तद्धितादीनामभावे, यथा- उलूखले मुसल इत्यत्र कर्काचार्याणां....(?) अत एवोच्यते यास्केन “ यद्यनादिष्टदेवतामन्त्रास्तेषु यद्दैवतोपरिष्ठाद्य- दैवतः स यज्ञो वा यज्ञाङ्गं वा तद्देवता भवन्त ” इत्यादि । तेनैतत्
देवयाज्ञिकभाष्यसमेतम् । २७ व्याहारादेव योग्यत्वमालोच्य शेषशेषित्वं कल्प्यते । यथा ' स्वर्गकामो यजेत ' इति । अत्र वाक्येन विनियोग इति । न ह्यत्र स्वर्गस्य साध्यत्वं केनचिदुपात्तम् । अतः पदद्वयसमभिव्याहारादेव कल्प्यते । प्रकरणं चोभयाकाङ्क्षा । तथाहि–दर्शपूर्णमासाभ्यां स्वर्गं साधयेत् । कथमित्येतस्यामाकाङ्क्षायामविद्यमानायां च श्रुतप्रयोजनान्यग्न्यन्वाधानादीनि ब्राह्मणतर्पणान्तानि कर्माणि पठ्यन्ते । दर्शपूर्णमासयोश्चोपकारकापेक्षा, अग्न्य- न्वाधानादीनां चास्माभिः किं कर्तव्यमिति कार्यापेक्षा । न च दर्शपूर्णमासयोरुप- कारकं किञ्चिद्दृश्यते, न चाग्न्यन्वाधानादीनामपि कार्यं किञ्चिद्दृश्यते, अवश्य- मुभयेनापि कुतश्चिद्भवितव्यम् । यदि तु केनचित्प्रमाणेन ज्ञायते तदा नास्तीति बुद्धिर्भवति, अस्ति च प्रमाणम् । न ह्यत्यन्तसन्निकर्ष एव सम्बन्धकारणम् । यदा सन्निकृष्टं न लभ्यते, तदा विप्रकृष्टे वेदस्याशक्तिः सञ्चरति । तदिहोपकारकक- ल्पनाप्रमाणं सन्निकृष्टं श्रुतिलिङ्गवाक्यलक्षणप्रलब्धाद्विप्रकृष्टमभ्यनुज्ञातमित्युभया- काङ्क्षावशेनैव विज्ञायते–यद्दर्शपूर्णमासावुपकारमाकाङ्क्षतः, स नूनमेभिरग्न्य- न्वाधानादिभिः क्रियते । यच्चाग्न्यन्वाधानादयः कर्तव्यमपेक्षन्ते तद्दर्शपूर्णमास- योरुपकार इति । नह्युभयोरन्यत्सन्निकृष्टतरमस्ति । यच्चान्यफलादि कल्प्येत तस्यान्येन सह सम्बन्धेन निराकाङ्क्षीभूतस्य नेह सम्बन्धाकाङ्क्षा विद्यते । तेनाग्न्यन्वाधानादीनां न विश्वजिदादिवत्फलकल्पनम्, नापि दर्शपूर्णमासानु- षङ्गः । उभयाकाङ्क्षालक्षणसम्बन्धाभावे ह्यन्यतराकाङ्क्षालक्षणः सम्बन्धो गृह्यते, न सम्भवे; तस्मान्नष्टाश्वदग्धरथवदेव परस्परनियमः, सिद्धिः । किञ्चाग्न्यन्वाधानादेः फलान्तरकल्पने ऋतुक्रत्वोः फलमित्युपकारका- काङ्क्षाऽनिवृत्तैव स्यात् । अस्ति चासावाकाङ्क्षा, यागेन स्वर्गं कुर्यादित्येवं करण- त्वेन विधानात् । तदुक्तम्– न हि तत्करणं लोके वेदे वा किञ्चिदीदृशम् । इतिकर्तव्यता साध्ये यस्य नानुग्रहेऽर्पिता ॥ इति । एवमुभयाकाङ्क्षावत्वे सति सम्बन्ध प्रतिपादकं वाक्यं कल्प्यते । अग्न्य- न्वाधानादिभिरुपकृतेन यागेन स्वर्गं कुर्यादित्येवम् । ततो वाक्याल्लिङ्गमग्न्यन्वा- धानादिगतं सामर्थ्यं कल्प्यते । लिङ्गाच्च विनियोक्त्री श्रुतिः कल्प्यते । एभिः प्रधानस्योपकारः कार्य इति ।
२८ | कात्यायनश्रौतसूत्रम् । ननु सूत्रकारेणाङ्गत्वे प्रमाणद्वयमेव कथमुक्तम् ? जैमिनिना तु *श्रुति- लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यासंज्ञानि षट् प्रमाणान्युक्तानि सन्ति। नैष- दोषः । प्रमाणचतुष्टयस्यसोदाहरणस्याग्रे ✕वक्ष्यमाणात् । तत्र स्वार्थाभिधाने +निरपेक्षं वचनं श्रुतिः । सा त्रिविधा-[१] विधात्री, [२] अभिधात्री, [३] विनियोक्त्री च । तत्र विनियोक्त्री लिङाद्यात्मिका । अभिधात्री व्रीह्यादिश्रुतिः । विनि- योक्त्री त्रिधा-[१] एकाभिधानरूपा, [२] एकपदरूपा, [३] विभक्तिरूपा च । यस्य च श्रवणादेव सम्बन्धः प्रतीयते सा विनियोगश्रुतिः । तत्र, यत्राने- कार्थाभिधानमेकेन शब्देन युगपद्भवति विभक्त्यैव लिङ्गसङ्ख्याकारकाणां तत्र तेषामन्वितानामेवाभिधानं तदेकाभिधानम् । यथा पशुनेति पशुः प्रतीयते तयैक- त्वं च । अतः सङ्ख्यादेरेकशब्दोपादानलक्षणया श्रुत्या कारकसम्वन्धः । प्रति- पदिकार्थस्य तु पदश्रुत्या । यजेतेत्यत्र यागस्य प्रकृत्यर्थस्यैकपदेनोपात्ततया याग- स्य प्रकृत्यर्थस्यैकपदेनोपात्ततया स्वर्गादिकं प्रति करणत्वम् , विभक्तिस्तु सम्ब- न्धमेव साध्यत्वं वा प्रतिपादयन्ती विनियोगकरणम् । तत्र द्वितीया साध्यत्वं प्रतिपादयति, तृतीयाद्यस्तु साधनत्वम् । तत्र " व्रीहीनवहन्ति " इति द्वितीयां साध्यत्वेन व्रीहीनभिधानावघातस्य तेषु विनियोगकारणं भवति । सर्ववस्तु ·| सामर्थ्यं लिङ्गम् । तद्यथा- " श्रुवेणावद्यति " " स्वधितिना- वद्यति " " हस्तेनावद्यति " " कोष्ठेनावद्यति " इति अवदानसाधनत्वेन श्रु- तानां लिङ्गेन वस्तुसामर्थ्यात्मकेन विशेषविनियोगो भवति । तदुक्तम्- सामर्थ्यात्स्वधितिर्मांसे द्रवेषु स्यात्स्रुवस्तथा । हस्तकेन पुरोडाशमवदातुं प्रकल्प्यते ॥ मन्त्राणां च लिङ्गेन पदार्थस्मारकत्वे विनियोगः । वाक्यं तु पदसङ्घातात्मकं प्रागुक्तम् ।
- तृतीयाध्याये । ✕ तत्तत्स्थलेषु । +श्रुतिर्नामाङ्गत्वघटकीभूतोद्देश्यताकृतिकार- कत्वयोरन्यतस्य प्राधान्येन वाचकः शब्दः । ·| लिङ्गं नामाङ्गत्वघटकीभूतपरोद्देश्यताकृ- तिकारकत्ववाचकपदकल्पनानुकूला क्लृप्त पदपदार्थनिष्ठा योग्यता । ऽ समभिव्याहारो वाक्यम् ।
? No, it's र्ना(repha onना). Then मorनै? It looks like म, but wait, why is there a diagonal stroke? That diagonal stroke is from line 10's भ्रातृव्यंanusvara/halanta, or is it a matra? Wait, aboveमin line 11, line 10 hasअग्नीषामौ! Under अग्नी, there is nothing hanging down. Wait! Let's look at दन्धिर्यानैर्कर्मायुधम्: Could it be: दन्धिर्यानैर्कर्मायुधम्? Wait, why would it be र्यानैर्? No, look at द, then न्धि, then र्, then या? No, that's ना! Wait, look at नinमन्त्र: न्त्. Look at नाinनामास्य: ना. In line 11, it is र्ना! Then next letter: म! Then क र्मा यु ध म् । Wait, is there any reason to think it's notदन्धिर्नाम कर्मायुधम् ।orदब्धिर्नाम कर्मायुधम् ।`?
representation. In Unicode, standard Sanskrit spelling is सङ्ख्य or संङ्ख्य? Standard is सङ्ख्य (or संंख्य / सङ्ख्य). Let's check how faithful transcription should be: usually, transcription normalizes this printing convention to सङ्ख्य or संङ्ख्य? Let's check standard practice: सङ्ख्य is the true reading, but writing संङ्ख्य or सङ्ख्य? Wait, is it ङ्ख or ङ्ख्य? It is ङ्ख + य = ङ्ख्य. In Unicode, सङ्ख्य doesn't have the redundant anusvara, but if the user wants pure Devanagari as printed, wait: "Do NOT transcribe handwritten marginalia... Transcribe the text from the provided image... pure, clean Markdown in Unicode Devanagari."
Let's see if line 4 has साकाङ्क्षं: साकाङ्क्षं or साकांङ्क्षं? Writing साकाङ्क्षं is the standard transcription of that ligature. Let's look at सङ्ख्या: standard is सङ्ख्य. Wait, look at सङ्ख्या vs सङ्ख्य:
Line 17: यथासङ्ख्यलक्षणश्च
Line 21: यथासङ्ख्य-
Line 23: यथासङ्ख्यम्
Line 25
तेषामारम्भेऽर्थतो व्यवस्थानवचनत्वादिति । “मन्त्रलिङ्गाच्च” इति च लिङ्गमु- क्तम् । “वत्सजानुं त्रिवृतं मूतकार्यं वा पशुब्रह्मवर्चसान्नाद्यकामा यथासङ्ख्यम्” इति यथासङ्ख्यरूपं स्थानमुक्तम् । “प्रयोजेषु सन्निधेर्दुर्गमेवासन्निधेः” इति सन्निधिपाठलक्षणं स्थानम् । “शेषमितरे यथासङ्ख्यमुन्नेतोन्नयति समाख्यानात्” इति समाख्या । एतेषां श्रुत्यादीनां परस्परविरोधे, उत्तरोत्तरस्य दौर्बल्यम् । तदुक्तं जैमि- निना—“श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्र- कर्षात्” इति । तत्र श्रुतिलिङ्गयोर्विरोधे “अनपेक्षमेत्य शालाद्वार्योपस्थानं निवेशने” इति । अत्र श्रुतिः “प्रत्येत्याग्निमुपतिष्ठते यद्वेत्योपतिष्ठते यं वै लोको गार्हपत्ये” इति । निवेशन इति ।
३२ कात्यायनश्रौतसूत्रम् । ननु “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इत्यनेन यागमात्रस्य फलस- म्बन्ध उक्तः, कुतोऽफलयुक्ता यजतय इति ? अत्रोच्यते--नात्र यागमात्रस्य फल- सम्बन्ध उच्यते । किं ताह, ? ये यागा दर्शपूर्णमाससंज्ञास्तेषामेव । के च ते दर्शपूर्णमाससंज्ञाः? ये दर्शपूर्णमाससंयोगेनोत्पन्नाः । तद्यथा- “ आग्नेयोष्टाकपालः पौर्णमास्याममावास्यायां चाच्युतो भवति” इत्याग्नेयस्य दर्शपूर्णमाससंयोगेनो- त्पत्तिः । तथा “तावब्रूतामग्नीषोमावाज्यस्यैव नोपांऽशु पौर्णमास्यां यजन्” इति उपांशुयाजस्य पौर्णमासयोगेनोत्पत्तिः । “ताभ्यामेतमग्नीषोमीयमेकादशकपालं पौर्णमास्यां प्रायच्छत्” इत्यग्नीषोमीयस्य च । तथा- “ऐन्द्रं दध्यमावास्यायाम्” “ऐन्द्रं पयोमावास्यायाम्” इत्यनयोर्दर्शसंयोगेनोत्पत्तिः । अमावास्यां प्रकृत्य “तस्मादैन्द्राग्नोद्वादशकपालः पुरोडाशो भवतीत्यैन्द्राग्नस्य च । एते चाग्नेयादयो यागा दर्शपूर्णमाससम्बन्धाद्दर्शपूर्णमासपदेन लक्ष्यन्ते । तेषामेव च फलसम्बन्धोऽ- नेन “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इति वाक्येन क्रियते । अत एव फलवन्तः प्रधानभूताश्च । इतरे प्रयाजादयो निष्फलाः । अतः फलवतां प्रधान- भूतानामङ्गं भवति, उपकारका भवन्ति, प्रकरणात् । तदुक्तं “फलवत्सन्निधा- वफलं तदङ्गम्” इति । तदङ्गमित्यनुवर्तमानॆऽपि पुनस्तदङ्गग्रहणं प्रयाजादीनां केवलादृष्टार्थत्वज्ञापनार्थम् । इतराणि चाङ्गानि कानिचिद्दृष्टार्थानि, कानिचिदुभ- यार्थानि । प्रयाजादीनित्वदृष्टार्थान्येव भवन्ति । तदुक्तम्— दृष्टादृष्टोभयार्थं वा त्रिधाङ्गानि प्रचक्षते । दृष्टार्थानि चतुर्द्धास्युर्जातिद्रव्यगुणक्रियाः ॥ अदृष्टार्थं द्विधा कर्म द्वयार्थमपि तन्मतम् । दृष्टार्थेष्वपि सर्वेषु नियमादृष्टमिष्यते ॥ इति त्रिविधमङ्गजातं दृष्टार्थमदृष्टार्थमुभयार्थमिति । दृष्टार्थमपि जातिद्रव्य- गुणक्रियात्मकम् । तत्र जातिगुणौ “पशुना यजेत” “अरुणया क्रीणाति” इति क्रियासाध्यत्वेन विनियुक्तौ । तत्साधनद्रव्यावच्छेदेन दृष्टेनैवोपकारेण तस्याः शेषभावमनुभवतः । द्रव्यस्य तु साक्षादेव क्रियानिर्वृत्तिर्दृष्टमेव प्रयोजनम् । क्रिया- पि चावघातादिर्दृष्टार्थैव । या सन्निपत्योपकारकरूपत्वेनोच्यते । अदृष्टार्थत्वं तु क्रियाया एव । सा च द्वेधा । सन्निपत्योपकाररूपा प्रोक्षणादिका । आरादुपका- ररूपा प्रयाजादिका । सन्निपत्योपकारकाणि च दृष्टार्थानि कर्माणि स्वकारकाणां कर्मादीनामुत्पत्तिं प्राप्तिं विकारं वा कुर्वन्ति, तत्साध्यस्य प्रधानस्योपकुर्वन्ति ।
तथा सम्पवनं पिण्डस्योत्पत्तिं दोहनं पयसः प्राप्तिम् । अवघातो व्रीहीणां विकार- मदृष्टार्थं तु सन्निपाति संस्कारं स्वकारकस्य कुर्वत्प्रधानेनोपकारि भवति । तदेव- मुत्पत्त्यादिसाध्यभेदासन्निपाति चतुर्विधं भवति । तच्च कर्मादीनामन्यतमे कारके यथायथमुत्पत्त्यादि करोति । कर्मण्यवघातः । कर्तरि व्रतम् । करणे प्रयाजे शेषा- भिधारणम् । सम्प्रदाने पशुपुरोडाशयागः । अपादाने “अग्नेस्तृणान्यपचिनो- ति” इति । अधिकरणे दध्यानयनम् । आरादुपकारकं तु न कारकद्वारम् । अपूर्वद्वारं तु प्रधानस्योपकरोतीति । दृष्टादृष्टार्थं च किञ्चित्कर्म, यथा पशुपुरोडाशयागः । स हि त्यागांशेनादृष्टमुपदे- शांशेन देवतास्मरणं करोतीत्युभयार्थः । एवमेव स्विष्टकृद्यागादयोऽप्युभयार्थाः। तत्रापि त्यागांशेनादृष्टमुत्पद्यते । प्रधानयागोपयुक्तहविरुत्तरार्धा च प्रतिपाद्यते ॥४॥ यजतयश्चाफलयुक्ता इत्यत्र यजतिजुहोतयः प्रस्तुताः, अतस्तयोर्विवेकं पृच्छति— यजतिजुहोतीनां को विशेषः ॥ १ । २ । ५ ॥ यजतीनां यागानां जुहोतीनां होमानां को भेद इति प्रश्नः ॥ ५ ॥ तत्र यजतीनां विशेषमाह— ( यागानां विवेचनम् ) तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्यावन्तो यजतयः ॥ १ । २ । ६ ॥ तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्यावन्तो यजतय उच्यन्ते, इति विशेषः । तिष्ठता होमो येषु ते तिष्ठद्धोमाः, वषट्कारेण प्रदानं येषु ते वषट्कारप्रदानाः, तथा, याज्यावन्तः पुरोडाशवन्तश्च ये, ते यजतय उच्यन्ते ॥६॥ अथ जुहोतीनां विशेषमाह— ( होमानां विवेचनम् ) उपविष्टहोमाः स्वाहाकारप्रदाना जुहोतयः ॥ १ । २ । ७ ॥ उपविष्टेन कर्त्रा होमो येषु ते उपविष्टहोमाः, स्वाहाकारेण प्रदानं येषु ते स्वाहाकारप्रदानाः । ये उपविष्टहोमाः स्वाहाकारप्रदानाश्च ते जुहोतयः, इत्यु- च्यन्ते ॥ ७ ॥
पूर्वमग्न्यन्वाधानादानां चाङ्गत्वं सप्रमाणकमुक्तम् । तानि चाङ्गानि ऋत्वि- जः कुर्वन्तीति वक्ष्यति । “शेषमितरे यथाख्यम्” इति कर्माणि पुरुषाणामि- ति च । तत्रेदं चिन्त्यते-दर्शपूर्णमासज्योतिष्टोमादिषु किं त्रयोऽपि वर्णा ब्राह्मण- क्षत्रियवैश्या ऋत्विजो भवन्ति, उत ब्राह्मणा एवेति । किं तावत्प्राप्तम् ? त्रयो- ऽपि वर्णा ऋत्विजो भवेयुरिति । कुतः ? प्रभुत्वात् । सर्वेप्यध्ययनवन्तो विद्वांस- श्चेत्यतः सर्वेपि कर्तुं शक्नुवन्ति । यजनाध्यापनप्रतिग्रहा ब्राह्मणस्यैव वृत्त्युपाया इति नियमः पुरुषार्थतया स्मर्यते, न क्रत्वर्थतया । तेन क्षत्रियवैश्यावार्त्विज्यं कुर्वन्तौ नियमातिक्रमात्कामं प्रत्यवेयाताम्, न तावता क्रतोः काचिद्गुणहानिः । तस्मात्त्रयोऽपि वर्णा ऋत्विजो भवन्तीति पूर्वपक्षे सिद्धान्तमाह—
( ब्राह्मणानामेवार्त्विज्येऽधिकारः )
ब्राह्मणा ऋत्विजो भक्षप्रतिषेधादितरयोः ॥ १ । २ । ८ ॥
ब्राह्मणा एव ऋत्विजो भवेयुः, न क्षत्रियवैश्याः । कुतः ? इतरयोः क्षत्रि- यवैश्ययोर्भक्षप्रतिषेधात् । अग्निहोत्रशेषं प्रकृत्य श्रूयते— “ते. होचुः, को न इद ९ होष्यति” इति प्रकृत्य “तस्मात्तद्य एव कश्च पिबेत्तद्वै नाब्राह्मणः पिबे- दग्नौ ह्यधिश्रयन्ति तस्मान्नाब्राह्मणः पिबेत्” इति, किम्पुनरग्निहोत्रोच्छिष्टमिति । ननु स्थाल्यामपि यदवशिष्टं तदप्यग्निहोत्रोच्छिष्टमेव स्यात् । नेत्याह । अथ यत्स्थाल्यामिति । यत्स्थाल्यां परिशिष्टं तद्यथा परिमहः । अनग्नौ निर्वपेत् । तद्यथा कुटुम्बार्थे सर्वसाधारणं तादृशं तद्यत्स्थाल्यां परितोद्धपरिश्रितं चान्यं पूर्णं शकटस्योपरिष्टान्नं परिणत् । यथा ततो हविषो निर्वायेपि तद्गतं धान्यं न शेषः । किं तर्हि ? पुनरपि योगान्तरयोग्यमेव । एवमेव तद्यत्स्थाल्यां पय इत्य- र्थः । तस्मात्तद्यः कश्चिदकर्मसम्बन्धोऽपि पिबेत् । तथापि त्वग्नावधिश्रितत्वाद- ब्राह्मणो न पिबेत् । ब्राह्मणस्त्वसम्बन्धोऽपि पिबेदिति । शाखान्तरे तयोः सान्ना- य्यभक्षप्रतिषेधः श्रूयते । “न राजन्यो न वैश्यो वा सान्नाय्यं पिबेदसोमपीथी ह्येषः” इति । तथा दर्शपूर्णमासयोः शाखान्तरे चतुर्थाकरणे ब्राह्मणा एव नि- र्दिश्यन्ते । “ब्राह्मणानामेवेदं हविः सोम्यानां सोमपानां नेहाब्राह्मणस्यास्ति” इति शेषभक्षणार्थं हि चतुर्थाकरणम् । शेषभक्षाश्चर्त्विजाम् । यदि च राजन्यवैश्य- योरप्यार्त्विज्यं स्यान्न ब्राह्मणानामेवेदं हविः स्यात् । राजन्यवैश्ययोरपि पक्षे स्यात् । तत्रेदमवधारणमसङ्गतं भवेत् ॥ ८ ॥
२. अध्याय ६-१०: अग्निहोत्र, चातुर्मास्य एवं पशुबन्ध विधान
देवयाज्ञिकभाष्यसमेतम् । ३५ दर्शनाच्च ॥ १ । २ । ९ ॥ श्रुतावप्ययमर्थो दृश्यते, यत्, ब्राह्मणा एवर्त्विजो भवन्ति, न क्षत्रियवैश्या इति । तथाहि-“ द्वया वै देवा-देवा आहैव देवा अथ ये ब्राह्मणाः शुश्रुवाꣳ- सोऽनूचानास्ते मनुष्यदेवास्तेषां द्वेधा विभक्त एवं यज्ञ आहुतय एवं देवानां दक्षिणा मनुष्यदेवानां ब्राह्मणानाꣳ शुश्रुषुषामनूचानानामाहुतिभिरेव देवान्प्री- णाति दक्षिणाभिर्मनुष्यदेवान्ब्राह्मणान् ” इति “ तस्मादृत्विग्भ्य एव दक्षिणा दद्यान्नानृत्विग्भ्यः ” इति । ऋत्विग्भ्यो यद्दीयते परिक्रयार्थं तद्दक्षिणाशब्दाभि- धेयम् । “ दक्षिणाभिर्ब्राह्मणान् प्रीणाति ” इत्यनेन दक्षिणानां ब्राह्मणसम्बन्धो दृश्यते । अतोऽपि ब्राह्मणा एवर्त्विजः । किञ्च, दर्शपूर्णमासिक्यां चान्वाहार्यदक्षिणायां ब्राह्मणा एव दृश्यन्ते । तदेवं “ ते वै देवा अहुतादो यद्ब्राह्मणायान्वाहार्यमाहरति ” इति । दक्षिणा चार्त्विग्भ्यो दीयते । तस्माद्ब्राह्मणा एवर्त्विजो न क्षत्रियवैश्या इति सिद्धान्तः। ब्राह्मणा एवर्त्विज इति नियमः क्रत्वर्थः । यतोऽब्राह्मणस्यार्त्विज्ये क्रतु- वैगुण्यापत्तेः । तथाहि रामायणे- “ क्षत्रियो याजको यस्य चाण्डालस्य विशेषतः । कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ” इति । तथा-“ राजयाजकयाज्यस्य विनश्यति तथा हविः ” इति चाब्राह्मणा- र्त्विज्ये हविर्विनाशः स्मृतः । तथा-“ प्रतिग्रहोऽधिको विप्रो याजनाध्यापने तथा ” इतिस्मृतिश्च । अत एवाग्न्यधिश्रितस्य भक्षणप्रतिषेधात् क्षत्रियवैश्ययो- र्ऋतौ यजमान भागस्यापि होम एव विहितो न भक्षणमिति ॥९॥ इदानीमिदं विचार्यते “चित्रया यजेत पशुकामः” “ द्वादशाहमृद्धिकामा उपेयुः” “ स्वर्गकामस्यर्तयेयः” इत्येवमादीनां फलयुक्तानां कर्मणामारम्भे किं कर्तुर्यथाकाम्यतांवश्यं तेषां करणमिति । तत्र विधिबलादवश्यकरणे प्राप्त आह- ( फलयुक्तकर्मानुष्ठाने याथाकाम्यम् ) फलयुक्तानामारम्भे याथाकामी फलार्थित्वात् ॥ १ । २ । १० ॥ फलयुक्तानां फलसम्बन्धवतामारम्भे कर्मकर्तुर्याथाकाम्यं भवेत् । इच्छयां