भारतकोश
संग्रह पर लौटें

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

INTRODUCTION. XLIII Ṭakka and Bhādānaka were fond of Apabhraṁśa, those living in Avanti, Pāriyātra and Daśapura used Bhūtabhāshā, while those living in the Madhyadeśa were well-versed in all languages. Rājas'ekhara’s love for Prākrita languages. It is said in the prologue of the Bālarāmāyaṇa that Rājaśekhara was well- versed in all languages.¹ His definition of a Kavirāja also re- quires that he should be proficient in various languages. To him all the languages should be equal.² His Karpūramañjarī would seem to be an illustration of this. In another place, he says that a³ good poet should pay attention to all the languages according to his ability, taste and curiosity. ⁴One and the same idea assumes, different forms of beauty according to the language in which it is expressed. A poet, whose intellect is thus ready in all the languages acquires fame all throughout the world. In the Bāla- rāmāyaṇa, he describes ⁵Prākrita as elegant and possessing natural sweetness, Apabhraṁśa as very elegant, and Bhūtabhāshā as well-formed. ⁶In the Karpūramañjarī, it is said that Sanskrit compositions are harsh, while those in Prākrit are smooth. The modes of speech and recitation of ancient Indians. Much interesting information about the modes of speech and recital of peoples of different countries of ancient India can be derived from the 7th chapter of the Kāvyamīmāṁsā. ⁷Māgadhās and some others living east of Benares speak Sanskrit well, but are 1 सर्वभाषाविचक्षणश्च स एवमाह। 2 स्वतन्त्रस्य पुनरेकवत् सर्वा अपि भाषाः स्युः। काव्यमीमांसा p. 51. 3 संस्कृतवत् सर्वासपि भाषासु यथासामर्थ्यं यथारुचि यथाकौतुकं चावहितः स्यात्। Ibid. p. 48. 4 एकोऽर्थः संस्कृतोक्त्या ससुकविरचनः प्राकृतेनापरोऽस्मिन् अन्योऽपभ्रंशगीर्भिः किमपरमपरो भूतभाषाक्रमेण। द्वित्राभिः कोऽपि वाग्भिर्भवति चतसृभिः किञ्च कश्चिद्विवेक्तुं यस्येत्थं धीः प्रपन्ना रूपयति सुकवेस्तस्य कीर्तिर्जगन्ति॥ Ibid. pp. 48 and 49. 5 गिरः श्रव्या दिव्याः प्रकृतिमधुराः प्राकृतधुरः सुभव्योऽपभ्रंशः सरसरचनं भूतवचनम्। विभिन्नाः पन्थानः किमपि कमनीयाश्च त इमे निबद्धा यस्त्वेषां स खलु निखिलेऽस्मिन् कविवृषा॥ Bālarāmāyaṇa, Act. I, 10. 6 परुसा सक्कअबन्धा पाउअबन्धो वि होइ सुउमारो। पुरिसमहिलाणं जेत्तिअमिहन्तरं तेत्तिअमिमाणं॥ Karpūramañjarī, Act, I, 4. 7 “पठन्ति संस्कृतं सुष्ठु कुण्ठाः प्राकृतवाचि ते। वाराणसीतः पूर्वेण ये केचिन्मगधादयः॥” p. 33.

XLIV. INTRODUCTION. blunt in Prākrit. ¹A Gauḍa cannot speak Prākrit well. Either he should give up the attempt or the Prākrit language should be otherwise. A Gauḍa Brāhman is neither a very clear nor a con- fused, neither a harsh nor a very soft, neither a deep nor a very loud speaker. ²Whatever may be the sentiment, style or quality, all the Karṇāṭas recite proudly making a twangling sound at the end. ³Drāviḍas, without any exception, recite either prose, poetry or mixture of both in a musical way. ⁴The Lāṭas who have hatred for Sanskrit, speak beautiful Prākrit with their warbling tongue. ⁵The people of Surāshṭra and Travaṇa, etc., speak Sanskrita, stimulating it with an admixture of Apabhraṁśa, so as to impart beauty to their speech. ⁶The Kashmirians are good poets through the favour of Sarasvatī; yet their mode of reciting sounds to the ear like a mouthful of Guḍūchī (cocculus cordifolius). ⁷The poets of the Uttarāpatha, though refined, recite with a nasal sound. ⁸Rich in properties, with the voice corresponding to the style and the perfection of arrangement of words, and divided into cæsuras, the sweet recitation of the Pānchāla poets is, as it were, a flow of honey in ears. Female education in Rājaśekhara's time. Rājaśekhara's views in this connection were very forward and liberal. He says 1 आह स—"ब्रह्मन्विज्ञापयामि त्वां स्वाधिकारजिहासया । गौडस्त्यजतु वा गाथामन्या वाऽस्तु सरस्वती ॥ नातिस्पष्टो न चाश्लिष्टो न रूक्षो नातिकोमलः । न मन्द्रो नातितारश्च पाठी गौडेषु बाडवः ॥ 2 रसः कोऽप्यस्तु काप्यस्तु रीतिः कोप्यस्तु वा गुणः । सगर्वं सर्वकर्णाटाष्टंकारोत्तरपाठिनः ॥ 3 गद्ये पद्येऽथवा मिश्रे काव्ये काव्यमना अपि । गेयगर्भः स्थितः पाठे सर्वोऽपि द्रविडः कविः ॥ 4 पठन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः । जिह्वया ललितोलापलब्धसौन्दर्यमुद्रया ॥ 5 सुराष्ट्रत्रवणाद्या ये पठन्त्यर्पितसौष्ठवम् । अपभ्रंशावदंशानि ते संस्कृतवचांस्यपि ॥ 6 शारदायाः प्रसादेन काश्मीरः सुकविर्जनः । कर्णे गुडूचीगण्डूषस्तेषां पाठक्रमः किमु ! ॥ 7 ततः पुरस्तात्कवयः ये भवन्त्युत्तरापथे । ते महत्यपि संस्कारे सानुनासिकपाठिनः ॥ 8 मार्गानुगेन निनदेन निधिर्गुणानां सम्पूर्णवर्णरचनो यतिभिर्विभक्तः । पाञ्चालमण्डलभुवां सुभगः कवीनां श्रोत्रे मधु क्षरति किञ्चन काव्यपाठः ॥ pp. 33 & 34.

INTRODUCTION. XLV that ¹women too may become poetesses like men. Accomplish- ment is intimately connected with the soul, but does not depend upon the distinction of the sex. In his time daughters of princes and prime ministers, courtezans and wives of jesters were found well-versed in sciences, and poetesses too. Foreign travel and the dress question. It appears from the Kāvyamīmāṁsā that ²ancient poets used to travel to foreign countries and islands, and utilized their experience in those coun- tries in their works. As regards the ³dress to be worn, it is said that divine and other beings should be represented as putting on the dress of the country where they live for the time being. In one’s own country, however, one may adopt any dress one likes. The Colour question of Indians. From the ⁴Kavisamaya, we get some idea of the colours of Indians. The colour of the easterners has been described as brown, that of southerners as dark, that of westerners as white, that of northerners as fair, while that of persons living in the Madhyadeśa as dark, brown and white.


1 पुरुषवद् योषितोऽपि कवीभवेयुः। संस्कारो ह्यात्मनि समवैति। न स्त्रैणं पौरुषं वा विभागमपेक्षते। श्रूयन्ते दृश्यन्ते च राजपुत्र्यो महामात्रदुहितरो गणिकाः कौतुकिभार्याश्च शास्त्रप्रहतबुद्धयः कवयश्च ॥ p. 53. 2 किञ्चन महाकवयोऽपि देशद्वीपान्तरकथापुरुषादिदर्शनेन तत्रत्यां व्यवहृतिं निबध्नन्ति स्म। p. 12. पूर्वे हि विद्वांसः सहस्रशाखं साङ्गं च वेदमवगाह्य शास्त्राणि चावबुध्य देशान्तराणि द्वीपान्तराणि च परिभ्रम्य p. 78. 3 ततः परं दिव्याद्या अपि यं देशमधिवसेयुस्तद्देश्यं वेषमाश्रयन्तो निबन्धनीयाः। स्वभूमौ तु कामचारः। p. 10. 4 तत्र पौरस्त्यानां श्यामो वर्णः, दाक्षिणात्यानां कृष्णः, पाश्चात्यानां पाण्डुः, उदीच्यानां गौरः, मध्यदेश्यानां कृष्णः, श्यामो गौरश्च। p. 96.

ABBREVIATIONS. A—the palm-leaf MS. of काव्यमीमांसा deposited in the Fofalia Wada Bhandār at Pattan. B—the paper MS. comprising काव्यमीमांसा and कविरहस्यवृत्ति depo- sited in the Wādi Pārśvanātha Bhandar at Pattan. C—the palm-leaf MS. in the Bhandar at Jaisalmere dated Saṁv. 1216 from which B was copied. K—काव्यानुशासन of हेमचन्द्र printed in the ‘Kāvyamālā’ Series. V—काव्यानुशासनविवेक of हेमचन्द्र printed in the same Series. VA—the first MS. of काव्यानुशासनविवेक. VB—the second MS. of the same work dated Saṁv. 1668. VC—the third MS. of the same work dated as above. (Of the three MSS. of विवेक two are in the Central Library and the third cannot be traced).

SUMMARY. प्रथमोऽध्यायः श्रीकण्ठस्य परमेष्ठिवैकुण्ठादिभ्यश्चतुःषष्टये शिष्येभ्यः काव्यशास्त्रोपदेशः । सार- स्वतकाव्यपुरुषात्काव्यविद्याप्रवृत्तिः । सहस्राक्षादिभ्यो दिव्येभ्यः काव्यविद्यास्नात- केभ्यः काव्यविद्याया अष्टादशाधिकरणोप्रवचनम् । तेषां पृथक्पृथक् स्वशास्त्रविरचनम् । प्रकीर्णत्वात्तेषां किञ्चिदुच्छेदेन ग्रन्थकर्त्रा सङ्क्षेपेणास्य ग्रन्थस्य प्रणयनम्, एतद्ग्रन्था- ध्यायनिर्देशश्च । p. 2 द्वितीयोऽध्यायः शास्त्रं काव्यं चेति वाङ्मयं द्विधा । शास्त्राणां परिसंख्यानं, लक्षणं, सूत्रादि- भिश्चैषां प्रणयनम् । वृत्तिपद्धतिभाष्यसमीक्षाटीकापञ्जिकाकारिकावार्तिकानीति शास्त्रभेदाः, तेषां व्याख्याश्च । साहित्यविद्याया व्याख्या । p. 5 तृतीयोऽध्यायः सरस्वत्याः पुत्रेच्छा । स्वयम्भूवरदानम् । सरस्वत्याः काव्यपुरुषोत्पत्तिः । तस्य छन्दस्त्वागुच्चारणम् । काव्यपुरुषस्य स्तुतिर्वर्णनं च । सारस्वतेयस्य उशनसे बाल्मी- कये च छन्दस्त्वाक्सञ्चारणम् । काव्यपुरुषस्य सरस्वत्या ब्रह्मलोकेऽनुगमनम् । तन्निवर्तनाय तद्वशीकरणार्थं साहित्यविद्यावधूत्पादनं, तस्यै काव्यपुरुषानुवर्तनाय, का- व्यविद्यास्नातकेभ्यश्चैतयोः चरितस्तवनायादेशः । प्रथमं प्राचीं प्रति चलनम् । तत्र काव्यपुरुषमभियुञ्जाना सा औमेयी यं वेषं यथेष्टमसेविष्ट स तत्रत्याभिः स्त्रीभिरनुकृतः । सा औड्रमागधीप्रवृत्तिः । गौडाङ्गनावेषवर्णनम् । तयोरनुसारेण भारतीवृत्तिगौडीरीत्योः प्रादुर्भावः । ततः पाञ्चालान् प्रति चलनम् । पाञ्चालमध्य- मप्रवृत्तिसात्वतीवृत्तिपाञ्चालीरीतीनां प्रादुर्भावः । ततोऽवन्तीं प्रति चलनम् । तद्वेषध्यानानुसारेण आवन्तीप्रवृत्तिसात्वतीकैशिकीवृत्तीनां प्रादुर्भावः । ततो दक्षिणां प्रति चलनम् । तत्र दाक्षिणात्याप्रवृत्तिकैशिकीवृत्तिवैदर्भीरीतीनां प्रादुर्भावः । सम्पू- र्णतया च काव्यपुरुषस्य वशीकरणम् । विदर्भेषु वत्सगुल्मे तयोर्गान्धर्ववत्परि- णयनम् । ततो विनिवृत्य तेषु प्रदेशेषु विहृत्य तुषारगिरिर्गमनम् । गौरीसरस्वतीभ्यां वन्दनम् । तयोराशीर्वादेन कविमानसनिवासकरणं कविलोकस्वर्गसर्गश्च । p. 10

XLVIII SUMMARY.

चतुर्थोऽध्यायः शिष्यो द्विविधः बुद्धिमानाहार्यबुद्धिश्च । ताभ्यामन्यथाबुद्धिर्दुर्बुद्धिः । समा- ध्यभ्यासयोर्व्याख्ये । तयोः शक्त्युद्भासनम् । शक्तिकर्तृके प्रतिभाव्युत्पत्तिकर्मणी । प्रतिभाव्याख्या । तस्याः कारयित्रीभावयित्रीभेदेन द्वैविध्यम् । सहजाहार्यौपदे- शिकीति त्रिविधा कारयित्री । तासां व्याख्याः । तदनुसारेण सारस्वतः, आभ्या- सिकः, औपदेशिक इति त्रिविधाः कवयः । तेषां लक्षणानि । भावयित्रीव्याख्या । भावकत्वकवित्वयोः पृथक्त्वम् । अरोचकिनः, सतृणाभ्यवहारिणः, मत्सरिणः, तत्त्वाभिनिवेशिनश्चेति चत्वारः भावकाः । तेषां लक्षणानि । तत्त्वाभिनिवेशिनः विर- लत्वम् । भावकविषये सङ्ग्रहश्लोकाः । p. 15

पञ्चमोऽध्यायः व्युत्पत्तिप्रतिभयोर्व्याख्ये । तयोः कतरा श्रेयसीति विचारः । उभययोगः श्रेयानिति यायावरीयमतम् । शास्त्रकविः, काव्यकविः, उभयकविश्चेति कवयस्त्रिधा । तेषां स्वस्वविषये गरीयस्त्वमिति यायावरीयमतम् । त्रिधा शास्त्रकविः, यः शास्त्रं विधत्ते, यश्च शास्त्रे काव्यं विधत्ते, योऽपि काव्ये शास्त्रार्थं निधत्ते । काव्यकविः पुनरष्टधा रचनाकविः, शब्दकविः, अर्थकविः, अलङ्कारकविः, उक्तिकविः, रस- कविः, मार्गकविः, शास्त्रार्थकविरिति । रचनाकवेरुदाहरणम् । त्रिधा शब्दकविर्ना- माख्यातार्थभेदेन । तेषामुदाहरणानि । अर्थकवेरुदाहरणम् । द्विधाऽलङ्कारकविः शब्दार्थभेदेन । तयोरुदाहरणे । उक्तकविरसकविमार्गकविशास्त्रार्थकवीनामुदा- हरणानि । दश च कवेरवस्थाः । बुद्धिमदाहार्यबुद्ध्योः सप्त, तिस्रश्चौपदेशिकस्य । तद्यथा काव्यविद्यास्नातको, हृदयकविः, अन्यापदेशी, सेविता, घटमानो, महाकविः, कविराजः, आवेशिकः, अविच्छेदी, सङ्क्रामयिता च । तेषां लक्षणानि । पाकविवेकः । पिचुमन्दपाकं, बदरपाकं, मृद्वीकापाकं, वार्ताकपाकं, तिन्तिडीकपाकं, सहकारपाकं, क्रमुकपाकं, त्रपुसपाकं, नालिकेरपाकमिति नवधा काव्यम् । तेषां त्रिकत्रये आद्यानां हेयता इतरेषाञ्चोपादेयता । अनवस्थितपाकस्य कपित्थपाकता । p. 21

षष्ठोऽध्यायः पदस्य व्याख्या । तस्य सुब्वृत्तिः, समासवृत्तिः, तद्धितवृत्तिः, कृद्वृत्तिः, तिङ्- वृत्तिश्चेति पञ्च वृत्तयः । पदजातस्यानन्त्यम् । वाक्यस्य व्याख्या। तस्य त्रिधाऽभिधा-

SUMMARY. XLIX व्यापारः वैभक्तः, शाक्तः, शक्तिविभक्तिमयश्चेति । तेषां व्याख्या उदाहरणानि च । एकाख्यातम्, अनेकाख्यातम् (सान्तरं निरन्तरञ्च), आवृत्ताख्यातम्, एकाभिधेया- ख्यातम्, परिणताख्यातम्, अनुवृत्ताख्यातम्, समुच्चिताख्यातम्, अध्याहृताख्यातम्, क्षुदभिहिताख्यातम्, अनपेक्षिताख्यातमिति वाक्यं दशधा । गुणवदलङ्कृतञ्च वाक्य- मेव काव्यम् । असत्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यमिति मतनिरासः । असदुप- देशकत्वान्नोपदेष्टव्यमिति मतनिरासः । असभ्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्य- मिति मतस्य श्रुतौ च शास्त्रे चैतदर्थस्योपलब्धेर्निरासः । p. 28 सप्तमोऽध्यायः ब्राह्मं, शैवं, वैष्णवमिति प्रणेतृभेदेन पुराणादिमतेन वाक्यं त्रिधा । स्वायम्भुवं, ऐश्वरं, आर्षम्, आर्षिकम्, आर्षिपुत्रकं चेति ब्राह्मं वचः पञ्चधा तेषां व्याख्याः । सारस्वतकवीनां मते तु ब्रह्मविष्णुवादिशिष्येषु चतुःषष्टावुपदिष्टं वचः पारमेश्वरम् । क्रमेण चैतस्य देवैर्देवयोनिभिश्च यथामत्युपजीव्यमानत्वादिव्यत्वेन व्यपदेशः । तच्च वैबुधं, वैद्याधरं, गान्धर्वं, योगिनीगतं चेति चतुर्धा । तेषां सव्याख्योदाहरणानि । वैष्ण- वस्य मानुषत्वेन व्यपदेशः । तच्च वैदर्भी, गौडीया पाञ्चाली चेति रीतित्रयभेदेन त्रिधा । काकुर्वक्रोक्तिर्नाम शब्दालङ्कारोऽयमिति रुद्रटमतस्य निरासः । काकोः पाठधर्मत्वम् । साकाङ्क्षा निराकाङ्क्षा, चेति तस्या द्वैविध्यम् । आक्षेपगर्भा, प्रश्नगर्भा, वितर्कगर्भा, चेति त्रिधा साकाङ्क्षा । निराकाङ्क्षाऽपि विधिरूपा, उत्तररूपा, निर्णयरूपेति त्रिविधा । तासामुदाहरणानि । अभ्युपगमानुनयकाकूदाहरणम् । अभ्यनुज्ञोपहासकाकूदा- हरणम् । त्रिचतुरकाकुयोगोदाहरणे । काकुकलनायां सामान्यपाठप्रतिष्ठायां च सङ्ग्रहश्लोकाः । मगधगौडकर्णाटद्रविडलाटसुराष्ट्रकाश्मीरोत्तरापथपाञ्चालोद्भवानां कवीनां पाठप्रतिष्ठायां परिकरश्लोकाः । p. 34 अष्टमोऽध्यायः श्रुतिः, स्मृतिः, इतिहासः, पुराणं, प्रमाणविद्या, समयविद्या, राजसिद्धान्तत्रयी, लोको, विरचना, प्रकीर्णकं, उचितसंयोगः, योक्तृसंयोगः, उत्पाद्यसंयोगः, संयो- गविकारः इत्येताः काव्यार्थानां षोडश योनयः । श्रौत-स्मार्त-ऐतिहासिक-पौराणिक- मैमांसिक-सांख्यीय-न्यायवैशेषिकीय-बौद्धीय-लौकायतिक-आर्हत-शैवसिद्धान्तीय-पा- ञ्चरात्र-बौद्धसिद्धान्तीय-नाट्यशास्त्रीय-कामसूत्रीय-लौकिक-विरचनाविषयक-हस्तिशि- 7

क्षीय-रत्नपरीक्षीय-धनुर्वेदीय-योगशास्त्रीयाणामुचितसंयोगयोक्तृसंयोगोत्पाद्यसंयोगसं- योगविकाराणां काव्यार्थानामुदाहरणानि । \hfill p. 41

नवमोऽध्यायः दिव्यः, दिव्यमानुषः, मानुषः, पातालीयः, मर्त्यपातालीयः, दिव्यपातालीयः, दिव्यमर्त्यपातालीयश्चेति सप्तधा अर्थः, । दिव्यमानुषश्चतुर्धा दिव्यस्य मर्त्या- गमनेन मर्त्यस्य स्वर्गगमनेन, दिव्यस्य मर्त्यभावेन मर्त्यस्य दिव्यभावेन, दिव्येतिवृत्त- परिकल्पनया, प्रभावाविर्भूतदिव्यरूपतया च । तेषामुदाहरणानि । मर्त्य-पातालीय- मर्त्यपातालीय-दिव्यपातालीय-स्वर्ग्यमर्त्यपातालीयानामुदाहरणानि । निःसीमार्थसार्थे रसवत एव निबन्धो युक्तः । सरिद्वर्णनरसवत्ता, अद्रिवर्णनरसवत्ता, सागरवर्णनरस- वत्ता, विप्रलम्भेऽप्यरसवत्ता । तासामुदाहरणानि । वस्तुस्वरूपविचारः । मुक्त- कपबन्धविषयत्वेनार्थस्य द्वैविध्यम् । तावपि प्रत्येकं पञ्चधा शुद्धः, चित्रः कथोत्थः, संविधानकभूः, आख्यानकवांश्चेति । तेषामुदाहरणानि । संस्कृतवत्सर्वास्वपि भाषासु अवधानावश्यकता । \hfill p. 49

दशमोऽध्यायः नामधातुपारायणादिकाव्यविधानां काव्यमातृणां च परिगणनम् । शुचि शीलनं कवेरावश्यकम् । तस्य भवनस्य, परिचारकस्य, मित्राणां, लेखकस्य च वर्णनं, तस्य गृहे भाषानियमश्च । शिशुनागकुविन्दसातवाहनसाहसाङ्कानां प्राक्तननृपाणां स्वभवने वर्णभाषानियमः । कवेर्लेखनसाधनानि, काव्यप्रबन्धे भाषानियमश्च । कवेराहोरात्रि- कम् । असूर्यम्पश्यनिषण्णदत्तावसरप्रायोजनिकानां चतुर्विधानां कवीनां लक्षणानि । पुरुषवत् योषितामपि कवीभवनम् । सिद्धस्य प्रबन्धस्यानेकादर्शकरणम् । प्रबन्ध- विनाशकारणानि । राज्ञः कविसमाजवर्णनम् । काव्यशास्त्रपरीक्षार्थं महानगरेषु ब्रह्मसभाकरणम् । \hfill p. 55

एकादशोऽध्यायः पञ्चविधं शब्दहरणं पदतः, पादतः, अर्द्धतः, वृत्ततः, प्रबन्धतश्च । श्लिष्टस्य श्लिष्टपदेन हरणम्, श्लिष्टपदैकदेशेन हरणम्, । श्लिष्टस्य यमकेन हरणम्, श्लिष्टस्य प्रश्नोत्तरेण हरणम्, यमकस्य यमकेन हरणम् । अप्रसिद्धादिकारणैः शब्दार्थहरणेऽ- भिरमेत इत्यवन्तिसुन्दर्या मतम् । द्वयधिकपदहरणं हरणं न वेति विचारः । पादहरणं

SUMMARY. LI स्वीकरणापरनामधेयं हरणम् । तद्वदर्थप्रयोगे व्यस्तार्थप्रयोगे च । पाद एवान्यथात्व- करणं पादोनहरणं वा न स्वीकरणम्। भिन्नार्थानां पादानामेकेन पादेनान्वयनं कवि- त्वमेव, तद्वत् कतिपयपदैकदेशप्रयोगौ । वाक्यस्यान्यथा व्याख्यानमपि न स्वीकरणं हरणं वा । परकीयस्य स्वीयत्वेन विल्पनं दोषोदाहरणम् । मूल्यक्रयोऽपि हरणम् । नास्त्यचौरः कविजनः, परं तु यो निगूहितुं जानाति, स विना वाच्यं नन्दति । कविः कश्चिदुत्पादकः, कश्चित्परिवर्तकः, कश्चिदाच्छादकः, कश्चित्संवर्गकः, परं तु यः शब्दार्थोक्तिषु किञ्चन नूतनं पश्येत् , प्राच्यं किञ्चन चोल्लिखेत् , स महाकविः। p. 62 द्वादशोऽध्यायः अर्थहरणस्य विचारः । अन्ययोनिर्निह्नुतयोनिरयोनिरिति त्रयो भेदाः । अन्ययो- निर्द्विधा प्रतिबिम्बकल्प आलेख्यप्रख्यश्च । निह्नुतयोनिरपि द्विधा तुल्यदेहितुल्यः पर- पुरप्रवेशसदृशश्च । अयोनिः पुनरेकादश एव । व्याख्या उदाहरणानि च प्रतिबिम्ब- कल्पादिचतुर्णामर्थानाम् । अमीषामर्थानामयस्कान्तवद्धान्वर्थाः भ्रामकचुम्बककर्षक- द्रावकाः चत्वारः लौकिकाः कवयः । पञ्चमश्च चिन्तामणिरलौकिकोऽदृष्टचरार्थदर्शी । तेषां व्याख्याः । चिन्तामणेः लौकिकालौकिकमिश्रत्वेन त्रयो भेदाः । तेषामुदाहर- णानि । प्रतिबिम्बकल्पादिचतुर्णामर्थानां प्रत्येकमाष्टक्यवशाद्द्वात्रिंशद्धरणोपायाः । तत्र प्रतिबिम्बकल्पस्याष्टौ विकल्पाः व्यस्तकः, खण्डं, तैलबिन्दुः, नटनेपथ्यं, छन्दोविनिमयः, हेतुव्यत्ययः, सङ्क्रान्तकं, सम्पुटश्च । तेषामुदाहरणानि । सोऽयं कवेरकवित्वदायी सर्वथा प्रतिबिम्बकल्पः परिहरणीयः । p. 68 त्रयोदशोऽध्यायः आलेख्यप्रख्यतुल्यदेहितुल्यपरपुरप्रवेशसदृशानां प्रत्येकमष्टौ भेदाः । तत्र सम- क्रमः, विभूषणमोषः, व्युत्क्रमः, विशेषोक्तिः, उत्तंसः, नटनेपथ्यम्, एकपरिकार्यः, प्रत्यापत्तिः इति आलेख्यप्रख्यस्य अष्टौ भेदाः । विषयपरिवर्तः, द्वन्द्वविच्छित्तिः, रत्नमाला, सङ्ख्योल्लेखः, चूलिका ( संवादिनी विसंवादिनीति द्विरूपा ), विधानाप- हारः, माणिक्यपुञ्जः, कन्द इति तुल्यदेहितुल्यस्याष्टौ भेदाः । अनयोर्मार्गयोरनुग्रा- ह्यत्वम् । हुडुयुद्धं, प्रतिकञ्चुकं, वस्तुसंचारः, धातुवादः, सत्कारः, जीवञ्जीवकः, भावमुद्रा, तद्विरोधी इति परपुरप्रवेशसदृशस्य अष्टौ भेदाः इति द्वात्रिंशद्धर- णोपायाः । अर्थवैपरीत्येन च तेषां प्रतियोगिनः । एतेषां हानोपादानविज्ञाने कवित्वम् । p. 78

LII SUMMARY. चतुर्दशोऽध्यायः कविसमयलक्षणम्। स्वर्ग्यभौमपातालीयभेदैः कविसमयत्रैविध्यम्। तेषां मध्ये भौमस्य जातिद्रव्यगुणक्रियारूपतया चतुष्प्रकारत्वम्। तेषां प्रत्येकमसतो निबन्धनात्, सतोऽप्यनिबन्धनान्, नियमतश्चेति त्रैविध्यम्। p. 82 पञ्चदशोऽध्यायः गुणसमयस्यापि असतो गुणस्य निबन्धनं सतोप्यनिबन्धनं, नियमतश्चेति त्रैविध्यम्। p. 86 षोडशोऽध्यायः भौमवत्स्वर्ग्योऽपि कविसमयः, विशेषस्तु चन्द्रमसि ऐक्यकल्पनादि। भौम- स्वर्ग्यवत् पातालीयः कविसमयः। विशेषस्तु नागसर्पयोः दैत्यदानवासुराणां च ऐक्यकल्पनम्। p. 89 सप्तदशोऽध्यायः जगत एकद्वित्रिसप्तचतुर्दशैकविंशतिरिति पृथक् पृथक् कल्पनाभेदेन भेदाः। भूलोकस्य द्वीपाः समुद्राश्च। जम्बूद्वीपस्य वर्षाणि वर्षगिरयश्च। भारतवर्षस्य नव भेदाः सम्राट्सूचक्रवर्तिनोर्व्याख्ये। आर्यावर्तस्य पूर्वदेशो, दक्षिणापथः, पश्चाद्देशः, उत्तरापथः, मध्यदेशश्चेति पञ्च विभागाः। विभागपञ्चके जनपदानां, पर्वतानां, सरितामुत्पन्नद्रव्याणां च निर्देशः। दिग्विचारः। पौरस्त्यदाक्षिणात्यपाश्चात्योदी- च्यानां देहवर्णनियमः। p. 98 अष्टादशोऽध्यायः सौरचान्द्रमसे माने। ऋतुषु वायुदिग्विचारः। वर्षाधर्मवर्णनम्। शरद्धर्मवर्ण- नम्। हेमन्तधर्मवर्णनम्। शिशिरधर्मवर्णनम्। वसन्तधर्मवर्णनम्। ग्रीष्मधर्मवर्णनम्। सन्धिः, शैशवः, प्रौढिः, अनुवृत्तिश्चेति ऋतूनां चतस्रोऽवस्थाः। तासामुदाहरणानि। शोभान्भोगगन्धरसैः फलार्चनाभ्यां च पुष्पस्य षोढा उपयोगः। अन्तर्व्याजं, बहिर्व्याजं, बाह्यान्तर्व्याजं, सर्वव्याजं, बहुव्याजं, निर्व्याजमिति फलानां षोढा भेदः। p. 112

ॐ राजशेखरविरचिता काव्यमीमांसा। कविरहस्यम्। प्रथमोऽध्यायः शास्त्रसङ्ग्रहः। अथातः काव्यं मीमांसिष्यामहे यथोपदिदेश श्रीकण्ठः परमेष्ठि- वैकुण्ठादिभ्यश्चतुःषष्टये शिष्येभ्यः, सोऽपि भगवान्स्वयम्भूरिच्छा- जन्मभ्यः स्वान्तेवासिभ्यः । तेषु सारस्वतेयो वृन्दीयसामपि वन्द्यः काव्यपुरुष आसीत्। तं च सर्वसमयविदं दिव्येन चक्षुषा भविष्य- दर्थदर्शिनं भूर्भुवःस्वस्त्रितयवर्त्तिनीषु प्रजासु हितकाम्यया प्रजापतिः काव्यविद्याप्रवर्त्तनायै प्रायुङ्क । सोऽष्टादशाधिकरणं दिव्येभ्यः काव्यविद्यास्नातकेभ्यः सप्रपञ्चं प्रोवाच। तत्र कविरहस्यं सहस्राक्षः समाम्नासीत्, औक्तिकमुक्तिगर्भः, रीतिनिर्णयं सुवर्णनाभः, आनुप्रा- सिकं प्रचेतायनः, यमकानि चित्रं चित्राङ्गदः, शब्दश्लेषं शेषः, वास्तवं पुलस्त्यः, औपम्यमौपकायनः, अतिशयं पाराशरः, अर्थश्लेषमुतथ्यः, उभयालङ्कारिकं कुबेरः, वैनोदिकं कामदेवः, रूपकनिरूपणीयं भरतः, रसाधिकारिकं नन्दिकेश्वरः, दोषाधिकरणं धिषणः, गुणौपादानिक- मुपमन्युः, औपनिषदिकं कुचमारः इति ततस्ते पृथक् पृथक् स्वशा- स्त्राणि विरचयाञ्चक्रुः। इत्थङ्कारञ्च प्रकीर्णत्वात् सा किञ्चिदुच्छिच्छद इतीयं प्रयोजका(ना)ङ्गवती सङ्क्षिप्य सर्वमर्थमल्पग्रन्थेनाष्टादशाधि- करणी प्रणीता। तस्या अयं प्रकरणाधिकरणसमुद्देशः। शास्त्रसङ्ग्रहः १ चित्राङ्गद may go with यमकानि too, or all MSS may have omitted the name of the teacher of Yamakas.

शास्त्रनिर्देशः, काव्यपुरुषोत्पत्तिः, पदवाक्यविवेकः, पाठप्रतिष्ठा, अर्थानुशासनं, वाक्यविधयः, कविविशेषः, कविचर्या, राजचर्या, काकुप्रकाराः, शब्दार्थहरणोपायाः, कविसमयः, देशकालविभागः, भुवनकोश, इति कविरहस्यं प्रथममधिकरणमित्यादि । इति सूत्राण्यथैतेषां व्याख्या भाष्यं भविष्यति । समासव्यासविन्यासः सैष शिष्यहिताय नः ॥ चित्रोदाहरणैर्गुरु्वी ग्रन्थेन तु लघीयसी । इयं नः काव्यमीमांसा काव्यव्युत्पत्तिकारणम् ॥ इयं सा काव्यमीमांसा मीमांसा यत्र वाग्लवः । वाग्लवं न स जानाति न विजानाति यस्त्विमाम् ॥ यायावरीयः सङ्क्षिप्य मुनीनां मतविस्तरम् । व्याकरोत्काव्यमीमांसां कविभ्यो राजशेखरः ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे प्रथमोऽध्यायः शास्त्रसङ्ग्रहः ॥ द्वितीयोऽध्यायः शास्त्रनिर्देशः । इह हि वाङ्मयमुभयथा शास्त्रं काव्यं च । शास्त्रपूर्वकत्वात् का- व्यानां पूर्वं शास्त्रेष्वभिनिविशेत । नह्यप्रवर्त्तितप्रदीपास्तमसि तत्त्वा- र्थसार्थमध्यक्षयन्ति । तच्च द्विधा — अपौरुषेयं पौरुषेयं च । अपौरुषेयं श्रुतिः । सा च मन्त्रब्राह्मणे । विवृतक्रियातन्त्रा मन्त्राः । मन्त्राणां स्तुति- निन्दाव्याख्यानविनियोगग्रन्थो ब्राह्मणम् । ऋग्यजुःसामवेदास्त्रयी । अथर्वणश्च तुरीयः । तत्रार्थव्यवस्थितपादा ऋचः । ताः सगीतयः सा- मानि । अच्छन्दांस्यगीतानि यजूंषि । ऋचो यजूंषि (सामानि) चाथ- र्वणं त इमे चत्वारो वेदाः । इतिहासवेदधनुर्वेदौ गान्धर्वायुर्वेदौचापि चोपवेदाः । “वेदोपवेदात्मा सार्ववर्णिकः पञ्चमो गेयवेदः” इति द्रौहि- णिः । “शिक्षा, कल्पो, व्याकरणं, निरुक्तं, छन्दोविचितिः, ज्योतिषं च १ A. B. प्रदीपास्ते.

कविरहस्ये द्वितीयोऽध्यायः । ३

षडङ्गानि” इत्याचार्याः। “उपकारकत्वादलङ्कारः सप्तममङ्गमू” इति यायावरीयः । ऋते च तत्स्वरूपपरिज्ञानाद्वेदार्थानवगतेः। यथा— “द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति ॥” सेयं शास्त्रोक्तिः । प्रत्यधिकरणं च ऋचं यजुः सामाथर्वणं ब्राह्मणं 5 चोदाहृत्य भाषामुदाहरिष्यामः । तत्र वर्णानां स्थानकरणप्रयत्ना- दिभिः निष्पत्तिनिर्णयिनी शिक्षा आपिशलीयादिका । नानाशा- खाधीतानां मन्त्राणां विनियोजकं सूत्रं कल्पः । सा च यजुर्विदा । शब्दानामान्वाख्यानं व्याकरणम् । निर्वचनं निरुक्तम् । छन्दसां प्रतिपादयित्री छन्दोविचितिः । ग्रहगणितं ज्योतिषम् । अलङ्कार- 10 व्याख्यानं तु पुरस्तात् । पौरुषेयं तु पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रमिति चत्वारि शास्त्राणि । तत्र वेदाख्यानोपनिबन्धनप्रायं पुराणमष्टाद- शधा । यदाहुः— “सर्गः प्रतिसंहारः कल्पो मन्वन्तराणि वंशविधिः । 15 जगतो यत्र निबद्धं तद्विज्ञेयं पुराणमिति ॥” “पुराणप्रविभेद एवेतिहासः” इत्येके। स च द्विधा परि(र)क्रियापु- राकल्पाभ्याम् । यदाहुः— “परि(र)क्रिया पुराकल्प इतिहासगतिर्द्विधा । स्यादेकनायका पूर्वा द्वितीया बहुनायका ॥” 20 तत्र रामायणं भारतं चोदाहरणे । आन्वीक्षिकीं तु विद्यावसरे वक्ष्यामः । निगमवाक्यानां न्यायैः सहस्रेण विवेक्त्री मीमांसा । सा च द्विविधा विधिविवेचनी ब्रह्मनिदर्शनी च । अष्टादशैव श्रुत्यर्थस्मरणात्स्मृतयः । “तानीमानि चतुर्दश विद्यास्थानानि, यदुत वेदाश्चत्वारः, षडङ्गानि, चत्वारि शास्त्राणि” इत्याचार्याः। तान्येतानि 25 कृत्स्नामपि भूर्भुवःस्वस्त्रयीं व्यासज्य वर्तन्ते । तदाहुः— “विद्यास्थानानां गन्तुमन्तं न शक्तो जीवेद्वर्षाणां योऽपि साग्रं सहस्रम् । १ A B. वेदार्थानवगतिः.

४ काव्यमीमांसायाम् तस्मात्सङ्क्षेपादर्थसन्दोह उक्तो व्यासः संत्यक्तो ग्रन्थभीरुप्रियार्थम् ॥” “सकलविद्यास्थानैकायतनं पञ्चदशं काव्यं विद्यास्थानम्” इति यायावरीयः । गद्यपद्यमयत्वात् कविधर्मत्वात् हितोपदेशकत्वाच्च तद्धि शास्त्राण्यनुधावति । “वार्त्ता कामसूत्रं शिल्पशास्त्रं दण्ड- नीतिरिति पूर्वैः सहाष्टादश विद्यास्थानानि” इत्यपरे । आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्चेति विद्याः । “दण्डनीतिरेवैका विद्या” इत्यौशनसाः । दण्डभयाद्धि कृत्स्नो लोकः स्वेषु स्वेषु कर्मस्ववतिष्ठते । “वार्त्ता दण्डनीतिर्द्वे विद्ये” इति बार्हस्पत्याः । वृत्तिर्विनयग्रहणं च स्थितिहेतुर्लोकयात्रायाः । “त्रयीवार्त्तादण्डनीतयस्तिस्रो विद्याः” इति मानवाः । त्रयी हि वार्त्तादण्डनीत्योरुपदेष्ट्री । “आन्वीक्षिकी- त्रयीवार्त्तादण्डनीतयश्चतस्रो विद्या” इति कौटिल्यः । आन्वी- क्षिक्या हि विवेचिता त्रयी वार्त्तादण्डनीत्योः प्रभवति । “पञ्चमी साहित्यविद्या” इति यायावरीयः । सा हि चतसृणामपि विद्यानां निष्यन्दः । आभिर्धर्मार्थौ यद्विद्यात्तद्विद्यानां विद्यात्वम् । तत्र त्रयी व्याख्याता । द्विधा चान्वीक्षिकी पूर्वोत्तरपक्षाभ्याम् । अर्ह- द्भदन्तदर्शने लोकायतं च पूर्वः पक्षः । साङ्ख्यं न्यायवैशेषिकौ चोत्तरः । त इमे षट् तर्काः । तत्र च तिस्रः कथा भवन्ति वादो, जल्पो, वितण्डा च । मध्यस्थयोस्तत्त्वावबोधाय वस्तुतत्त्वपरामर्शो वादः । विजिगीषोः स्वपक्षसिद्धये छलजातिनिग्रहादिपरिग्रहो जल्पः । स्वपक्षस्यापरिग्रहीत्री परपक्षस्य दूषयित्री वितण्डा । कृषिपाशुपाल्ये वणिज्या च वार्त्ता । आन्वीक्षिकीत्रयीवार्त्तानां योगक्षेमसाधनो दण्डस्तस्य नीतिर्दण्डनीतिः । तस्यामायत्ता लोक- यात्रा । इति शास्त्राणि । सामान्यलक्षणं चैषाम्— “सरितामिव प्रवाहास्तुच्छाः प्रथमं यथोत्तरं विपुलाः । ये शास्त्रसमारम्भा भवन्ति लोकस्य ते वन्द्याः ॥” १ A B ॰ण्यनुधावन्ति. २ B omits षट् तर्काः । तत्र च.

कविरहस्ये तृतीयोऽध्यायः ।

सूत्रादिभिश्चैषां प्रणयनम् । तत्र सूत्रणात् सूत्रम् । यदाहुः— “अल्पाक्षरमसन्दिग्धं सारवद्विश्वतो मुखम् । अस्तोभमनवद्यञ्च सूत्रं सूत्रकृतो विदुः ॥” सूत्राणां सकलसारविवरणं वृत्तिः । सूत्रवृत्तिविवेचनं पद्धतिः । आक्षिप्य भाषणाद्भाष्यम् । अन्तर्भाष्यं समीक्षा । अवान्तरार्थवि- च्छेदश्च सा । यथासम्भवमर्थस्य टीकनं टीका । विषमपदभञ्जिका पञ्जिका । अर्थप्रदर्शनकारिका कारिका । उक्तानुक्तदुरुक्तचिन्ता वार्त्तिकमिति शास्त्रभेदाः । “भवति प्रथयन्नर्थं लीनं समभिप्लुतं स्फुटीकुर्वन् । अल्पमनल्पं रचयन्नल्पमल्पं च शास्त्रकविः ॥” शास्त्रैकदेशस्य प्रक्रिया प्रकरणम् । अध्यायादयस्त्ववान्तरवि- च्छेदाः कृतिभिः स्वतन्त्रतया प्रणीता इत्यपरिसङ्ख्येया अनाख्येयाश्च । शब्दार्थयोर्यथावत्सहभावेन विद्या साहित्यविद्या । उपविद्यास्तु चतुःषष्टिः । ताश्च कला इति विदग्धवादः । स आजीवः काव्यस्य । तमौपनिषदिके वक्ष्यामः । इत्यनन्तोऽभियुक्तानामत्र संरम्भविस्तरः । त्यक्तो निपुणधीगम्यो ग्रन्थगौरवकारणात् ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे द्वितीयोऽध्यायः शास्त्रनिर्देशः ॥

तृतीयोऽध्यायः काव्यपुरुषोत्पत्तिः । एवं गुरुभ्यो गिरः पुण्याः पुराणीः शृणुमः स्म, यत्किल धिषणं शिष्याः कथाप्रसङ्गे पप्रच्छुः, कीदृशः पुनरसौ सारस्वतेयः काव्यपुरुषो वो गुरुः ? इति । स तान् बृहताम्पतिरूचे । पुरा पुत्रीयन्ती सरस्वती तुषारगिरौ तपस्यामास । प्रीतेन मनसा

१ B विच्छेदः.

६ काव्यमीमांसायाम्

तां विरिञ्चः प्रोवाच ‘पुत्रं ते सृजामि’ [इति]। अथैषा काव्यपुरुषं सुषुवे। सोऽभ्युत्थाय सपादोपग्रहं छन्दस्वतीं वाचमुदीचरत्। “यदेतद्वाङ्मयं विश्वमर्थमूर्त्त्या विवर्त्तते। सोऽस्मि काव्यपुमानम्ब पादौ वन्देय तावकौ॥” [इति] तामाम्नायददृष्टचरीमुपलभ्य भाषाविषये छन्दोमुद्रां देवी ससम्भ्र- ममङ्कपर्येङ्कनादाय तमुदलापयत्। “वत्स सच्छन्दस्काया गिरः प्रणे- तर्वाङ्मयमातरमपि मातरं मां विजयसे। प्रशस्यतमं चेदमुदाहरन्ति यदुत ‘पुत्रात्पराजयो द्वितीयं पुत्रजन्म’ इति। त्वत्तः पूर्वे हि विद्वांसो गद्यं ददृशुर्न पद्यम्। त्वदुपज्ञमथातः छन्दस्वद्वचः प्रवर्त्स्यति। अहो श्लाघनीयोऽसि। शब्दार्थौ ते शरीरं, संस्कृतं मुखं, प्राकृतं बाहुः, जघनमपभ्रंशः, पैशाचं पादौ, उरो मिश्रम्। समः प्रसन्नो मधुर उदार ओजस्वी चासि। उक्तिचणं च ते वचः, रस आत्मा, रोमाणि छन्दांसि, प्रश्नोत्तरप्रवह्लिकादिकं च वाक्केलिः, अनुप्रासोपमादयश्च त्वामलङ्कु- र्वन्ति। भविष्यतोऽर्थस्याभिधात्री श्रुतिरपि भवन्तमभिष्टौति॥ “चत्वारि शृङ्गास्त्र(त्र)योऽस्य पादा द्वे शीर्षे सप्तहस्तासोऽस्य। त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यमा(र्याँ आ)विवेश॥” इति तथापि संवृणु प्रगल्भस्य पुंसः कर्म। बालोचितं चेष्टस्व” इति निगद्य निवेश्य चैनमनोकहाश्रयिणि गण्डशैलनततल्पे स्नातुमभ्र- गङ्गां जगाम। तावच्च कुशान् समिधश्च समाहर्त्तुं निःसृतो महामुनि- रुशना परिवृत्ते पूषण्यूष्मोपप्लुतं तमद्राक्षीत्। कस्यायमनाथो बाल इति चिन्तयन्स्वमाश्रमपदमनैषीत्। क्षणादाश्वस्तश्च स सारस्वतेय- स्तस्मै छन्दस्वतीं वाचं समचारयत्। अकस्माद्विस्मापयन्स चाभ्युवाच। “या दुग्धाऽपि न दुग्धेव कविदोग्धृभिरन्वहम्। हृदि नः सन्निधत्तां सा सूक्तिधेनुः सरस्वती॥” इति॥ तत्पूर्वकमध्येतृणां च सुमेधस्त्वमादिदेश। ततः प्रभृति तमुशनसं सन्तः कविरित्याचक्षते। तदुपचाराच्च कवयः कवय इति लोक-


१ B विरंचः.

कविरहस्ये तृतीयोऽध्यायः । ७

यात्रा । कविशब्दश्च कवृ वर्ण इत्यस्य धातोः काव्यकर्मणो रूपम् । काव्यैकरूपत्वाच्च सारस्वतेयेऽपि काव्यपुरुष इति भक्त्या प्रयुञ्जते । ततश्च विनिवृत्ता वाग्देवी तत्र पुत्रमपश्यन्ती मध्येहृदयं चक्रन्द । प्रसङ्गागतश्च वाल्मीकिर्मुनिर्वृषा सप्रश्रयं तमुदन्तमुदाहृत्य भगवत्यै भृगुमूर्तेराश्रमपदमदर्शयत् । सापि प्रस्रुतपयोधरा पुत्रायाङ्कपालीं ददाना शिरसि च चुम्बन्ती स्वस्तिमना चेतसा प्राचेतसायापि महर्षये निभृतं सच्छन्दांसि वचांसि प्रायच्छत् । अनुप्रेक्षितश्च स तया निषादनिहतसहचरीकं क्रौञ्चयुवानं करुणक्रेङ्कारया गिरा क्रन्दन्तमुदीक्ष्य शोकवान् श्लोकमुज्जगाद । “मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥” [ इति ] ततो दिव्यदृष्टिर्देवी तस्मा अपि श्लोकाय वरमदात्, यदुतान्यदन- धीयोनो यः प्रथममेनमध्येष्यते स सारस्वतः कविः सम्पत्स्यत इति । स तु महामुनिः प्रवृत्तवचनो रामायणमितिहासं समदृभत् । द्वैपायनस्तु श्लोकप्रथमाध्यायी तत्प्रभावेन शतसाहस्रीं संहितां भारतम् । एकदा तु ब्रह्मर्षिवृन्दारकयोः श्रुतिविवादे दाक्षिण्यवा- न्देवः स्वयम्भूस्तामिमां निर्णेत्रीमुदिदेश । उपश्रुतवृत्तान्तश्च मातरं व्रजन्तीं सोऽनुवव्राज । 'वत्स परमेष्ठिनाऽननुमतस्य ते न ब्रह्मलोक- यात्रा निःश्रेयसाय' इत्यभिदधाना हठाद्यवर्त्तयदेनमात्मना तु प्रव- वृते । ततः स काव्यपुरुषो रुषा निष्क्रक्राम । प्रियं मित्रमस्य च कुमारः साक्रन्दं रुदन्नभ्यधीयत गौर्या 'तात तृष्णीमास्स्व साऽहमेषा निषेधोमि' इति निगदन्ती समचिन्तयत् । प्रायः प्राणभृतां प्रेमाण- मन्तरेण नान्यद्वन्धनमस्ति, तदेनस्य वशीकरणं कामपि स्त्रियं सृजामीति विचिन्तयन्ती साहित्यविद्यावधूमूदपादयत् । आदिशच्चैना- मेष ते रुषा धर्मपतिः पुरः प्रतिष्ठते। तदनुवर्त्तस्वैनं निवर्त्तय च । भव- न्तोऽपि हन्त मुनयः काव्यविद्यास्नातकाश्ररितमेतयोः स्तुध्वमेनंर्द्धि


पादटिप्पण्यः (Footnotes): १ A भृगूभूतेः. २ A B अनुप्रेषितश्च. ३ A भयात्. ४ B omits रुषा. ५ B निषेधयामीति. ६ B एतद्विधं.

वः काव्यसर्वस्वं भविष्यतीत्यभिधाय भगवती भवानी जोषमासिष्ट। तेऽपि तथा कर्तुमवतस्थिरे । अथ सर्वे प्रथमं प्राचीं दिशं शिश्रियुर्यत्राङ्गवङ्गसुह्मब्रह्मपुण्ड्राद्या जनपदाः । तत्राभियुञ्जाना तन्मौमेयी यं वेषं यथेष्टमसेविष्ट स तत्रत्याभिः स्त्रीभिरन्वक्रियत । सा प्रवृत्तिरौड्रमागधी । तां ते मुनयोऽभितुष्टुवुः— “आद्रार्द्रचन्दनकुचार्पितसूत्रहारः सीमन्तचुम्बिसिचयः स्फुटबाहुमूलः । दूर्वाप्रकाण्डरुचिरास्वगुरूपभोगा- द्रौडाङ्गनासु चिरमेष चकास्तु वेषः ॥” यदृच्छयाऽपि यादृङ्नेपथ्यः स सारस्वतेय आसीत् तद्वेषाश्च पुरुषा बभूवुः । साऽपि सैव प्रवृत्तिः । यदपरं वृत्तवाद्यादिकमेषा चक्रे सा भारती वृत्तिः । तां ते मुनय इति समानं पूर्वेण । तथाविधाकल्प- यापि तया यद्वशंवदीकृतः समासवदनुप्रासवद्योगवृत्तिपरम्परा- गर्भं जगाद सा गौडीया रीतिः । तां ते मुनय इति समानं पूर्वेण । वृत्तिरीतिस्वरूपं यथावसरं वक्ष्यामः । ततश्च स पञ्चालान्प्रत्युच्चचाल यत्र पाञ्चालशूरसेनहस्तिनापुरका- श्मीरवाहीकबाहीकबाह्लवेयादयो जनपदाः । तत्राभियुञ्जाना तन्मौ- मेयीति समानं पूर्वेण । सा पाञ्चालमध्यमा प्रवृत्तिः । तां ते मुन- योऽभितुष्टुवुः— “ताटङ्कवल्गनतरङ्गितगण्डलेख- मानाभिलम्बिदरदोलिततारहारम् । आश्रोणिगुल्फपरिमण्डलितोत्तरीयं वेषं नमस्यत महोदयसुन्दरीणाम् ॥” किञ्चिदार्द्रितमना यन्नेपथ्यः स सारस्वतेय आसीदिति समानं पूर्वेण । साऽपि यदीषन्नृत्तगीतवाद्यविलासादिकं दर्शयाम्बभूव सा सात्त्वती वृत्तिः । आविद्धगतिमत्त्वात्सा चारभटी । तां ते मुनय इति समानं पूर्वेण । तथाविधाकल्पयाऽपि तया यदीषद्वशंवदीकृत


१ A तान्तरीयं.

कविरहस्ये तृतीयोऽध्यायः । ९

ईषदसमासमीषदनुप्रासमुपचारगर्भञ्च जगाद सा पाञ्चाली रीतिः । तां ते मुनय इति समानं पूर्वेण । ततः सोऽवन्तीन्प्रत्युच्चचाल यत्रावन्तीवैदिशसुराष्ट्रमलवार्बुदभृ- गुकच्छादयो जनपदाः । तत्राभियुञ्जाना तमौमेयतीति समानं पूर्वेण । सा प्रवृत्तिरावन्ती । पाञ्चालमध्यमादाक्षिणात्ययोरन्तरचारिणी हि सा। अत एव सात्त्वतीकैशिक्यौ तत्र वृत्ती । तां ते मुनयोऽभितुष्टुवुः— “पाञ्चालनेपथ्यविधिर्नराणां स्त्रीणां पुनर्नन्दतु दाक्षिणात्यः । यज्जल्पितं यच्चरितादिकं त- दन्योन्यसंभिन्नमवन्तिदेशे ॥” ततश्च स दक्षिणां दिशमाससाद यत्र मलयमेकलकुन्तलकेरल- पालमञ्जरमहाराष्ट्रगङ्गकलिङ्गादयो जनपदाः । तत्राभियुञ्जाना तमौमेयीति समानं पूर्वेण । सा दाक्षिणात्या प्रवृत्तिः । तां ते मुनयोऽभितुष्टुवुः । “आमूलतो वलितकुन्तलचारुचूड- श्चूर्णालकप्रचयलाञ्छितभालभागः । कक्षानिवेशनिबिडीकृतनीविरेष वेषश्चिरं जयति केरलकामिनीनाम् ॥” तामनुरक्तमनाः स यन्नेपथ्यः सारस्वतेय आसीदिति समानं पूर्वेण । साऽपि यद्विचित्रनृत्तगीतवाद्यविलासादिकमाविर्भावया- मास सा कैशिकी वृत्तिः । तां ते मुनय इति समानं पूर्वेण । यदत्यर्थं च स तया वशंवदीकृतः स्थानानुप्रासवदसमासं योगवृत्तिगर्भं च जगाद सा वैदर्भी रीतिः । तां ते मुनय इति समानं पूर्वेण । तत्र वेषविन्यासक्रमः प्रवृत्तिः, विलासक्रमो वृत्तिः, वचन- विन्यासक्रमो रीतिः । “चतुष्टयी गतिर्वृत्तीनां प्रवृत्तीनां च, देशानां पुनरानन्त्यं तत्कथमिव कार्त्स्न्येन परिग्रहः” इत्याचार्याः । “अनन्ता- मपि हि देशांश्चतुर्धैवाकल्प्य कल्पयन्ति चक्रवर्तिक्षेत्रं सामान्येन,


१ B मानिनीनाम्. २

१० काव्यमीमांसायाम् तदवान्तरविशेषैः पुनरनन्ता एव” इति यायावरीयः । दक्षिणा- त्समुद्रादुदीचीं दिशं प्रति योजनसहस्रं चक्रवर्तिक्षेत्रं, तत्रैष नेपथ्य- विधिः । ततः परं दिव्याद्या अपि यं देशमधिवसेयुस्तद्देश्यं वेषमा- श्रयन्तो निबन्धनीयाः । स्वभूमौ तु कामचारः । द्वीपन्तरभवानां तदनुसारेण वृत्तिप्रवृत्ती । रीतयस्तु तिस्रस्तास्तु पुरस्तात् । तत्रास्ति मनोजन्मनो देवस्य क्रीडावासो विदर्भेषु वत्सगुल्मं नाम नगरम् । तत्र सारस्वतेयस्तामौमेयीं गन्धर्ववत्परिणिनाय । ततस्तद्वधूवरं विनिवृत्य तेषु प्रदेशेषु विहरमाणं तुषारगिरिमेवाजगाम यत्र गौरी सरस्वती च मिथः सम्बन्धिन्यौ तस्थतुः । तौ च कृतवन्दनौ दम्पती दत्त्वाऽऽशिषं प्रभावमयेन वपुषा कविमानवनिवासिनौ चक्रतुः । तयोश्च कविलोकस्वर्गसर्गं तमकल्प[ये]तां, यत्र काव्यमयेन शरीरेण मर्त्त्यमधिवसन्तो दिव्येन देहेन कवय आकल्पं मोदन्ते । इत्येष काव्यपुरुषः पुरा सृष्टः स्वयम्भुवा । एवं विभज्य जानानः प्रेत्य चेह च नन्दति ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे तृतीयोऽध्यायः काव्यपुरुषोत्पत्तिः ॥ चतुर्थोऽध्यायः पदवाक्यविवेकः । द्विविधं शिष्यमाचक्षते यदुत बुद्धिमानाहार्य्यबुद्धिश्च । यस्य निस- र्गतः शास्त्रमनुधावति बुद्धिः स बुद्धिमान् । यस्य च शास्त्राभ्यासः संस्कुरुते बुद्धिमसावाहार्य्यबुद्धिः । त्रिधा च सा, स्मृतिमतिः प्रज्ञेति । अतिक्रान्तस्यार्थस्य स्मर्त्री स्मृतिः । वर्त्तमानस्य मन्त्री मतिः । अना- गतस्य प्रज्ञात्री प्रज्ञेति । सा त्रिप्रकाराऽपि कवीनामुपकर्त्री । तयो- र्बुद्धिमान् शुश्रूषते शृणोति गृह्णीते धारयति विजानात्यूहतेऽपोहति तत्त्वं चाभिनिविशते । आहार्य्यबुद्धेरप्येत एव गुणाः किन्तु प्रशा- स्तारमपेक्षन्ते । अहरहः सुगुरूपासना तयोः प्रकृष्टो गुणः । सा हि बुद्धिविकासकामधेनुः । तदाहुः—