भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ
७४किरातार्जुनीयम् ।[ द्वितीयः

दशा क्षीणा, किन्त्वभ्युदयोन्मुखी तादृशस्य शत्रोरुपेक्षा नहि युक्तेति । अर्थात्स च दुर्योधनोऽनुदिनमभ्युदयोन्मुख एवातोऽसौ नोपेक्ष्यः। यथोक्तं शिशुपालवधे 'उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च' इति ॥ ८ ॥

समासः— शोभना मेधा यस्य सः सुमेधास्तेन सुमेधसा । शोभनोऽन्तोऽवसानो यस्य सः स्वन्तः, न स्वन्तः अस्वन्तः, अतिशयेनास्वन्तः अस्वन्ततरः । फलस्य सम्पत् फलसम्पत्, तस्या प्रवणः फलसम्पत्प्रवणः ॥ ८ ॥

व्याकरणम्— उदयः = उत् + इन् + भावे घञ् । परिक्षय=परि + क्षि भावे घञ् ।

वाच्यान्तरम्— भूतिमिच्छन् सुमेधाः गुरुमप्यस्वन्ततरं द्विषतामुदयं सहते । वा गुरुणा अस्वन्ततरेण द्विषतामुदयेन सुमेधनेन भूयते । महतापि फलसम्पत्प्रवणेन परिक्षयेण न सुमेधनेन भूयते ॥ ८ ॥

कोषः— 'रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृदः' इत्यमरः । 'विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा' इत्यमरः ॥ ८ ॥

सारार्थः— यदि वर्त्तमानसमये शत्रोर्दशा उत्तमा, किन्त्वनुदिनं क्षीयमाणा, तर्हि स च शत्रुरुपेक्ष्यः तदर्थं नहि विशेषसावधानताया आवश्यकता । अथ यस्य च दशा तत्काले क्षीणाऽपि, शनैरुदयभिमुखी, स चोपेक्ष्योऽपि न जातु पराभवं करोति । स्वयमेव भाविनि काले नश्यति । तथा कृष्णपक्षादौ चन्द्रः पूर्णोऽपि परिक्षीयमाणः अत एव तं राहुरुपेक्षते; तथा च शुक्लपक्षादौ चन्द्रं कृशतममपि प्रतिदिनं वर्द्धमानमवलोक्य पश्चान्ते स्वर्भानुर्ग्रसति । इति ॥ ८ ॥

भाषार्थः— उन्नति की चाह रखने वाले बुद्धिमान् वर्तमान समय में शत्रु की तरक्की और धीरे-धीरे अवनति देखकर सहते हैं और तत्काल में गई-गुजरी हालत और आगे बढ़ती हुई दशा देखकर नहीं सह सकते हैं ॥ ८ ॥

द्वयोर्द्वयोरपि मध्य एकतरस्योदयक्षययोर्गतिमुक्त्वाेदानीं युगपत्परिक्षयागमे गतिमाह—

अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः ।
क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥ ९ ॥

अचिरेणेति । कृतमनेनेति कृती । कुशल इत्यर्थः । 'इष्टादिभ्यश्च' इतीनिप्रत्ययः । परस्य शत्रोः क्षययोगमचिरेणाशुभाविनीं भूयसीं दुरन्तां च, तथात्मनः क्षययुक्तिं विपरीतां चिरभाविनीमल्पीयसीं च विगणय्य विचार्य । 'ल्यपि लघूपूर्वात्' इत्ययादेशः । उपेक्षते । अन्यथोक्तवैपरीत्ये । परस्य क्षययुक्तावल्पीयस्याम्, स्वस्य भूयस्यां च सत्यामित्यर्थः । तत्प्रतिकारं तस्याः क्षययुक्तेः प्रतिकारमचिरेणाशु कुरुते । एवं सति यदा शत्रोरभ्युदयः स्वस्य चातिपरिक्षयो यथास्माकं तदा किं वक्तव्यम् । सद्यः प्रतिकुरुते इत्यर्थात्सिद्धमनुसंधेयम् ॥ ९ ॥

सर्गः १ ] घण्टापथ-सुधान्याख्याद्वयोपेतम् । ७५

अन्वयः—कृती, परस्य, अचिरेण, भूयसीं, क्षययुक्तिम्, आत्मनः, च, विपरीतां, विगणय्य, उपेक्षते । अन्यथा, तत्प्रतिकारं, कुरुते ॥ ९ ॥

सुधाकृती = कुशलः, बलवान् वा, परस्य = शत्रोः, अचिरेण = अल्पकालेन, भूयसीं = महीयसीं, क्षययुक्तिम् = नाशप्रकारम्, संहारगतिमित्यर्थः । तथा, आत्मनः = स्वस्य, अपि, विपरीताम् = तद्विलोमाम्, चिरेण भाविनीं स्वल्पीयसीं च क्षययुक्तिमित्यर्थः । विगणय्य = विविच्य, विचार्येति वा, उपेक्षते = उपेक्षां कुरुते । अन्यथा = उक्तभिन्नदशायाम् अर्थात् शत्रोश्चिरेण भाविनीं, स्वस्य चाशु सम्भाविनीं क्षययुक्तिमालोक्येति भावः । तत्प्रतिकारम् = तत्प्रतिक्रियाम्, अर्थाद्येन सा क्षय-युक्तिर्नश्यति स्वस्य, परस्य चाशु साऽऽयाति तथा, कुरुते = करोति ॥ ९ ॥

समासःन चिरमचिरं तेनाचिरेण । क्षयस्य युक्तिः क्षययुक्तिस्तां क्षययुक्तिम् । तस्याः ( क्षययुक्तेः ) प्रतिकारस्तत्प्रतिकारस्तं तत्प्रतिकारम् ॥ ९ ॥

व्याकरणम्विगणय्य = वि + गण् + णिच् + क्त्वा + ल्यप् । उपेक्षते = उप + ईक्ष्+कर्त्तरि लट् । कुरुते = कृ + लट् ॥ ९ ॥

वाच्यान्तरम्कृतिना अचिरेण, परस्य भूयस्यापि, क्षययुक्तिः स्वस्य च विपरीता क्षययुक्तिरुपक्ष्यते, अन्यथा तत्प्रतिकारः क्रियते ॥ ९ ॥

कोषः‘चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः’ इत्यमरः । ‘विपरीतो विपर्यासो व्यत्यासो व्यत्ययश्च सः’ इत्यमरः । ‘वैज्ञानिकाः कृतमुखाः कृती कुशल इत्यपि’ इत्यमरः ॥ ९ ॥

सारार्थः—कुशलो जनस्तु, शत्रोराशु भाविनं नाशोपापं, तथा निजस्य चिरेण सम्भवं तं समवलोक्य तत्प्रतिकारकरणे वेगवान् नहि भवति । अथ चेद् दीर्घकाले-नायान्तीं शत्रोर्विपत्तिम्, स्वस्य च सत्वरमेव भाविनीं तां ज्ञात्वा सत्विति तथोद्योगं शत्रोर्विपत्तिः शीघ्रमेव भवति यथा स्वस्य च विपत्तिर्दूरोभवति, तथा यतते ॥ ९ ॥

भाषार्थः—समझदार लोग, थोड़ी ही देर में होने वाली दूसरों की भारी विपत्ति देख और खुद की देर से आने वाली थोड़ी समझ कर टाल देते हैं। लेकिन, वे शत्रुओं की देर से आने वाली और अपनी तुरन्त पहुँचनेवाली विपद् को हटाने के लिये उपाय करते हैं ॥ ९ ॥

तथाप्युपेक्षायामनिष्टमाचष्टे—

अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामलीहया ।
अपयान्त्यचिरान्महीभुजां जननिर्वाणमयाण्येव श्रियः ॥ १०॥

अनुपालयतामिति । उदेष्यतीं वर्धिष्यमाणाम् । ‘आपूर्योत्थानमूर्द्धम्' इति विश्वरूपात्पुम्भावः। द्विषतां प्रभुशक्तिं कोशदण्डजं तेजः । ‘स प्रभावो यदाज्ञत्वं यत्तेजः कोशदण्डजम्' इत्यमरः । अलीहयाऽनुकूलोत्साहेनावस्थातव्यतयाऽवसाने...

७६ किरातार्जुनीयम्। [ द्वितीयः

महीभुजां श्रियः सम्पदः जननिर्वादभयाद्विनष्टपुरुषानुरागेभ्यल्लोकापवादभयाद्वि- वेति हेतूत्प्रेक्षा। अचिरादपयान्त्यपसरन्ति। यथाह—कामन्दक—'दीप्तिः क्ली- इव श्रीभिरलसः परिभूयते' इति। अतः पराक्रमितव्यमित्यर्थः ॥१०॥

अन्वयः—उदेष्यतीम्, द्विषताम्, प्रभुशक्तिम्, अनीहया, अनुपालयताम्, महीभुजाम्, श्रियः, जननिर्वादभयात्, इव, अचिरात्, अपयान्ति ॥ १० ॥

सुधा—उदेष्यतीम् = वर्धिष्यमाणाम्, द्विषतां = शत्रूणां, प्रभुशक्तिम् = कोश-दण्डसामर्थ्यम्, अनीहया = अनिच्छया, अवहेलयेत्यर्थः। अनुपालयताम् = उपेक्षमाणानाम्, महीभुजाम् = भूभुजाम्, राज्ञाम्, श्रियः = राजलक्ष्म्यः, जननिर्वादभयात् इव, अचिरात् = सत्वरमेव, अपयान्ति = निर्गच्छन्ति, दूरीभवन्ति। न तादृशानां जनानां समीपे तिष्ठन्तीति भावः ॥ १० ॥

समासः—प्रभोः शक्तिः प्रभुशक्तिस्तां प्रभुशक्तिम्। महीं भुञ्जन्तीति महीभुजस्तेषां महीभुजाम्। जनानां निर्वादः जननिर्वादः तस्माद्भयं जननिर्वादभयम्, तस्माज्जननिर्वादभयात् ॥ १० ॥

व्याकरणम्—अनुपालयताम् = अनु + पाल् + णिच् + शातृ । द्विषताम् = द्विष् + शतृ । महीभुजाम् = मही + भुज् + क्विप् । अपयान्ति = अप + या + लट् ॥१०॥

वाच्यान्तरम्—उदेष्यती द्विषतां प्रभुशक्तिम् अनीहया अनुपालयतो महीभुजो श्रीभिः, जननिर्वादभयात् इव अपयायते ॥ १० ॥

कोषः—'स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्' इत्यमरः। 'अववादोऽप-निर्वादपरीवादापवादवत्' इत्यमरः ॥ १० ॥

सारार्थः—यः कश्चिन्महीपतिः शत्रोरुन्नतिमवलोक्योपेक्षां कुरुते, तस्य समीपे चाण्डालस्पर्शपातकभयादिव सम्पदौ नहि आयान्ति, वर्तमाना अपि दूरतो गच्छन्तीति ॥ १० ॥

भाषार्थः—बढ़ती हुई, दुश्मनों की शौकत को देख चुपचाप ठहरनेवाले राजाओं की सम्पत्तियाँ, लोगों के अपवाद के भय से मानो निकल जाती हैं ॥१०॥

ननु परिक्षीणः कथं प्रबलेनाभियुज्यत इत्यत्राह—

क्षययुक्तमपि स्वभावजं दधतं धाम शिवं समृद्धये ।
प्रणमन्त्यनपायमुत्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम् ॥ ११॥

क्षयेति। क्षययुक्तमपि तया सम्बं क्षीणमपि स्वभावजं सहजमनपायं शिवं सर्वलोकाह्लादकं धाम शास्त्रं तेजः प्रकाशं च दधतं समृद्धये वृद्धयर्थमुत्थितमुद्युक्तम् । वर्धिष्णुमित्यर्थः। नृपं प्रजाः प्रतिपच्चन्द्रं द्वितीयाचन्द्रमित्यर्थः। प्रतिपच्छब्देन द्वितीयाग्रहणम् । प्रतिपदि तस्यादृश्यत्वादिति । प्रणमन्ति प्रह्वीभावेन वर्तन्त इति

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ७७

भावः । चन्द्रं तु नमस्कुर्वन्ति । क्षीणस्याप्युत्साहः कार्यसिद्धेर्निदानमित्यर्थः । 'क्षयी हि सततोत्साही दुर्बलोऽपि समश्नुते' इति कामन्दकः ॥ ११ ॥

**अन्वयः—**प्रजाः, क्षययुक्तम्, अपि, स्वभावजं, शिवं, धाम, दधतम्, समुद्यये, उत्थितम्, अनपायम्, नृपम्, प्रतिपच्चन्द्रम्, इव प्रणमन्ति ॥ ११ ॥

**सुधा—**प्रजा = जनाः, करदा लोका इति यावत् । क्षययुक्तम् = हानिमन्तम्, स्वभावजम् = प्राकृतिकम्, शिवम् = भाविकल्याणकरम्, धाम = तेजः, दधतं = धारयन्तम्, समुद्यये = ऐश्वर्योन्नतये, उत्थितम् = उद्योगपरम्, अनपायम् = निर्दोषम्, नृपम् = राजानम्, $^१$क्षययुक्तम् = परिक्षीणम्, कलामात्रावशेषमित्यर्थः । अपि, स्वभावजम् = प्रकृतिजम्; एवमेव, परिक्षीणोऽपि शुक्लपक्षेऽनुदिनं प्रकृत्या वर्धतेऽतः स्वाभाविकम् । यद्यपि चन्द्रबिम्बे स्वतस्तेजो न वर्तते, किन्तु रविकिरणसम्बन्धागत उज्ज्वल इवावलोक्यते । तथापि रविकिरणयोगोऽपि प्राकृतिक एवोच्यते । यदि स्वगतं तेजोऽङ्गीक्रियते, तदा सर्वस्यां तिथौ कथं नाखिलं बिम्बमुज्ज्वल-मवलोक्यते ? शिवम् = भाविकल्याणसूचकम्, वा शिवशिरोभूषणम्, नामैकदेशे नामग्रहणेन इत्यभावात् । धाम = तेजः, किरणमिति यावत्; समुद्यये = दर्श-नाय, क्रमकुलोपचयायेति यावत् । उत्थितम् = प्राग्दिग्भागगत्वेन उच्चैःस्थितम् पूर्व-क्षितिजादुपरि समुन्नतं, इति यावत् । अनपायम् = निष्कलङ्कम्, पूर्णबिम्बे एक-कलङ्कपूर्णत्वावलोकनात् कलामात्रावशेषे कलङ्कादर्शनाच्चेति ज्ञेयः प्रतिपच्चन्द्रम् = प्रतिपत्तिथ्यन्तश्चन्द्रम्, इव प्रणमन्ति = नमस्कुर्वन्ति, अत्र क्षययुक्तमिति नृपचन्द्रयोर्वा धाम्नोऽपि विशेषणमवगन्तव्यम् । चन्द्रः सूर्यसान्निध्यवशेन ह्यदृश्यताङ्गतो यदा तदा समुज्ज्वलभागोऽस्मदादिरूपवृत्तान्तर्गतो न भवति । यदा पुनः क्रमात्तोऽग्रे गच्छति, तदा क्रमात्स्थित्यवस्थितया स्वल्पप्रभागो तन्मुखमार्गस्थ भवेत्तदा तन्मुखवृत्तिर्भवतीति कलावृद्धेः कारणम् ॥ ११ ॥

**समासः—**क्षयेण युक्तः क्षययुक्तस्तम् । स्वस्य भावः स्वभावस्तस्माज्जायते इति स्वभावजः, तं स्वभावजम् । न अपायाः सन्ति यस्मिन् सः अनपायस्तमनपायम् । प्रतिपद्यश्चन्द्रः प्रतिपच्चन्द्रस्तं प्रतिपच्चन्द्रम् ॥ ११ ॥

**व्याकरणम्—**दधतम् = धा + शतृ + अम् । प्रणमन्ति = प्र + नम् + लट् । उत्थितम् = उद् + स्था + क्तः ॥ ११ ॥

**वाक्यान्तरम्—**प्रजाभिः क्षययुक्तोऽपि वा क्षययुक्तमपि स्वभावजं धाम दधते समुद्यये उत्थितोऽनपायो नृपः प्रतिपच्चन्द्र इव प्रणम्यते ॥ ११ ॥

कोशः—'स्वभावश्च निसर्गश्च प्रकृतिर्वा' इति कोशः 'धाम तेजसि दीप्तौ च गृहे स्थाने शरीरके' इति । 'भव्येशं शिवं भद्रं कल्याणं मङ्गलं शुभम्' इत्यमरः । 'हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः' इत्यमरः ॥ ११ ॥


१. क्षयेण राजयक्ष्मणा युक्तमित्यपि व्याख्येयम् ।

७८ | किरातार्जुनीयम्। | [ द्वितीय

सारार्थः—यदि वर्तमानसमये न्यायपरो राजा हतविभवोऽपि; स्वाभ्युदयार्थं प्रयासं करोति, तदा चिरानुरागिः प्रजाजनास्तस्य सादरं साहाय्यं कुर्वन्ति ॥११॥

भाषार्थः—वर्तमान परिस्थिति में दुर्दशाग्रस्त होने पर भी, आगे के लिये अच्छी प्रतिभा बनाये हुये, उन्नति के लिये तैयार और दोषों से रहित राजा को प्रतिपदा के चन्द्रमा के सदृश प्रजा लोग प्रणाम करते हैं अर्थात् उनका साथ देते हैं ॥ ११ ॥

ननु प्रभुशक्तिशून्यस्योत्साहः कुत्रोपयुज्यत इत्यत्राह—

प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः ।
स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥ १२ ॥

प्रभव इति। कर्मणामारम्भोपायः पुरुषद्रव्यसम्पद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्चेति पञ्चाङ्गानि । यथाह कामन्दकः—'सहायाः साधनोपाया विभागो देशकालयोः । विनिपातप्रतिकारः सिद्धिः पञ्चाङ्गमिष्यते ॥' इति पञ्चानाम् अङ्गानां विनिर्णयः पञ्चाङ्गविनिर्णयः । 'तद्धितार्थ—'इत्यादिनोत्तरपदसमासः । कृतः पञ्चाङ्गविनिर्णयो यस्य येन वा स तथोक्तः । नयो नीतिः । मन्त्र इति यावत् । कोशोऽर्थराशिः । 'कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थाघविष्ययोः' इत्यमरः । दण्डश्चतुरङ्गसैन्यम् । 'दण्डोऽस्त्री शासने राज्ञो हिंसायां लगुडे यमे । यात्रार्थो सैन्यभेदे' इति वैजयन्ती । तयोः कोशदण्डयोः । प्रभुशक्तेरित्यर्थः प्रभवत्यस्मादिति प्रभवः कारणम् । 'ऋदोरप्' स नयो विधेयपदेषु कार्यवस्तुषु 'पदंव्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः, दक्षतां क्षिप्रकारित्वम् । उत्साहमित्यर्थः । लोकः कृष्यादिप्रवृत्तो जनः । नियतिं दैवमिव । 'नियतिर्नियमे दैवे' इति विश्वः । अनुरुध्यतेऽनुसरति । रुधेर्दैवादिकात्कर्तरि लट् । मन्त्रस्यापि मूलमुत्साहस्तन्मूलायाः प्रभुशक्तेर्मूलमिति किमु वक्तव्यम्, अतः स एवाश्रयणीयः । यतो नक्तन्दिवं सम्प्रयतस्तस्यापि प्रभोर्निरुत्साहस्य न किञ्चित्सिद्ध्यतीति ॥ १२ ॥

अन्वयः—कृतपञ्चाङ्गविनिर्णयः, नयः, कोशदण्डयोः प्रभवः खलु । स ( नयः ), विधेयपदेषु, दक्षताम्, लोकः, नियतिम्, इव अनुरुध्यते ॥ १२ ॥

सुधाकृतपञ्चाङ्गविनिर्णयः = विहितसहायाद्यङ्गपञ्चकनिश्चयः, अर्थात् राजनीतौ पञ्चाङ्गानि वर्तन्ते तेषु प्रथमे के मम सहायकाः सन्तीत्यस्य परिज्ञानमेकम्, तथा च जयस्योपकरणानामेकत्रकरणं द्वितीयम्, एवं देशविभागस्तृतीयम्, तथा कालविभागश्च, यस्मिन् समये इदं कर्तव्यमिति । तथा विरक्तेः प्रतिकारः, कुत्रचिद्रागे तज्ञा विपदो दूरीकरणायायासः, इति चतुर्थम्, तथा परिणामे कार्यसिद्धिरिति पञ्चमम्, नयः = नीतिः, कोशदण्डयोः = धनराशिचतुरङ्गसैन्ययोः प्रभवः = उत्पत्तिकारणम् । खलु भवति । सः = नयः, विधेयपदेषु = कृत्यवस्तुषु, दक्षताम् =

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ७९

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ७९

वृद्धत्वम्, उद्योगमिति यावत्। लोकः = जनः, नियतिम् = दैवम्, भाग्यमिति, वासवं वा इन्द्रम्, अनुरुध्यते = अनुसरति।

अथ लोकपक्षे व्याख्यायते = कृतपञ्चाङ्गविनिर्णयः = सम्यग्विहितपञ्चाङ्गपत्रविचारः, नयः = न्यायवान्, गणक इति शेषः। कोशदण्डयोः = अर्थशासनयोः। प्रभवः = उत्पादको भवति, नहि पञ्चाङ्गपत्रं विना धनं, तिथ्यादीनां घटीपलं च ज्ञायते। एवम्भूतः सः = विचारवान्, विधेयपदेषु = कर्तव्यलक्षणेषु वा कृत्यवस्तुषु, च कार्यस्थानेषु राज्ञ इति शेषः। दक्षतां = स्फूर्तिम्, लोकः = अवलोककः, जन्मपत्रद्रष्टा गणक इति, नियतिम् = भाग्यम्, इव, अनुरुध्यते = अनुसरति। यथैव भावी, तथैव गणको वदति, नैवंविधस्य गणकस्य कथनं मिथ्या भवतीति भावः ॥ १२ ॥

समासः — कोशश्च कोशदण्डौ तयोः कोशदण्डयोः। पञ्च अङ्गानि पञ्चाङ्गानि, पञ्चाङ्गानां विनिर्णयः पञ्चाङ्गविनिर्णयः, कृतः पञ्चाङ्गविनिर्णयो येन यस्य वा सः कृतपञ्चाङ्गविनिर्णयः। विधेयानां पदानि विधेयपदानि तेषु विधेयपदेषु ॥ १२ ॥

व्याकरणम् — अनुरुध्यते = अनु + रुध + श्यन् + लट् ॥ १२ ॥

वाच्यान्तरम् — कृतपञ्चाङ्गविनिर्णयेन नयेन कोशदण्डयोः प्रभवेन भूयते बभूवे। तेन विधेयपदेषु दक्षता, लोकेन नियतिरिवानुरुध्यते ॥ १२ ॥

कोषः — 'सहायाः साधनोपाया विभागो देशकालयोः। विनिपातप्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते' इति कामन्दकः। 'कोशोऽस्त्री कुड्‌मले खड्गपिधानेऽर्थौघदिव्ययोः' इत्यमरः। 'दण्डोऽस्त्री शासने राज्ञो हिंसायां लगुड़े दमे। यात्रायाञ्च सैन्यभेदे' इति वैजयन्ती। 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः। 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः' इत्यमरः। 'लोकस्तु भुवने जने' इति ॥ १२ ॥

सारार्थः — यः कश्चित् राजा नीतेः पञ्चाङ्गानां परिपोषकस्तदनुसारं चलति च, तस्य धनराशिः सैन्यसमूहश्च न कदापि अल्पतां याति। परन्तु सो नीतिः सामयिक एव दक्षो जनः पालयति। नहि दीर्घसूत्रेण हतोत्साहेन पाल्यते, इति विवेचक भक्त्या सा नीतिरनुसर्तव्या ॥ १२ ॥

भावार्थः — जिस राजनीति के पाँचों अंगों का निर्णय किया जाता है, वैसी नीति, खजाना और सेनाविभाग की बुनियाद होती है। लेकिन वह नीति उसी बाजी का पीछा करती है, जैसे लोग दैव (भाग्य) ही का भरोसा रखते हैं ॥१२॥

ननु सोत्साहस्यासहायस्य कथमर्थसिद्धिरित्याह—

अभिमानवतो मनस्विनः प्रियसक्त्यैः परमार्ददक्षतः।
विनिपातनिवर्तनक्षमं मतमालम्बतमात्मपौरुषम् ॥ १३ ॥

अभिमानवत इति। अभिमानवतो सोऽवग्रहेन निमग्निसमूर्ध्वस्थानं पदं चतुरं राज्यादिकमारुरुक्षत आरोहुमिच्छतः प्राप्नुकामक मनस्विनो धीरस्य परमार्ददक्षतः

८०किरातार्जुनीयम्[ द्वितीयः

स्वपुरुषकार एव विनिपातनिवर्तनक्षममनर्थप्रतिकारसमर्थमालम्बनं सहकारि ३.तमिष्टम् । यथा कस्यचित्तुङ्गमूारोहतः किञ्चित्पतनप्रतिबन्धकमनुचरहस्तादिक ३.लम्बनं तद्वदिति ध्वनिः । किं पौरुषादन्यैः शूराणामिति भावः ॥ १३ ॥

अन्वयः—अभिमानवतः, प्रियम्, उच्चैः, आरुरुक्षतः, मनस्विनः, विनिपातनिवर्तनक्षमम्, आत्मपौरुषम्, आलम्बनम्, मतम् ॥ १३ ॥

सुधाअभिमानवतः = मानधनस्य, जातिकुलाभिमानशालिन इत्यर्थः । प्रियम् = अभीष्टम्, उच्चैः = उन्नतम्, योग्यतायोग्यम्, आरुरुक्षतः = आरोढुमिच्छतः, मनस्विनः = गम्भीरस्य, विनिपातनिवर्तनक्षमम् = विपत्तिध्वंसयोग्यम्, वाऽनर्थप्रतीकारसमर्थम्, आत्मपौरुषम् = निजोद्योग एव, आलम्बनम् = अवलम्बनम्, सहायकमित्यर्थः, मतम् = इष्टम्, वा स्वीकृतम् ॥ १३ ॥

समासः—अभिमानोऽस्यास्तीति अभिमानवान् तस्याभिमानवतः । विनिपातस्य निवर्त्तनं विनिपातनिवर्त्तनम्, तस्य क्षमं विनिपातनिवर्त्तनक्षमम् । आत्मनः पौरुषम् आत्मपौरुषम् ॥ १३ ॥

व्याकरणम्—आरुरुक्षतः = आङ् पूर्वात् रुहेः=सन्नन्तात् शतृप्रत्ययः ॥ १३ ॥

वाच्यान्तरम्—अभिमानवतो मनस्विनः प्रियम् उच्चैः पदम् आरुरुक्षता विनिपातनिवर्तनक्षमेण आत्मपौरुषेण आलम्बनेन भूयते ॥ १३ ॥

कोषः—'गर्बोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः' इत्यमरः । 'पदं व्यवस्थितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः ॥ १३ ॥

सारार्थः—यः स्वजातिकुलाभिमानवान् महीपतिः स्वाभीष्टस्थानलाभाय यतते, तेन अन्यसाहाय्याशा न कर्तव्या केवलं निजभुजविक्रमस्यैव साहाय्याशा विधेया, यत्कृत्यं स्वेन सिद्ध्यति, तद्रम्यं कथयेदिति ॥ १३ ॥

भावार्थः—अपनी जाति और कुल के अभिमान वाला जो राजा अभीष्ट स्थान को चाहे उसको चाहिए कि पराये की आशा छोड़कर केवल आपद् को दूर करने लायक अपने उद्योग का अवलम्बन करे ॥ १३ ॥

पौरुषानङ्गीकारे दोषमाह—

विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ॥ १४ ॥

विपद इति । अविक्रमं पौरुषहीनं विपदोऽभिभवन्त्याक्रामन्ति । आपदुपेतं विपन्नम् आयतिः उत्तरकालः 'उत्तरकाल आपतिः' इत्यमरः । रहयति त्यजति । निरायतेः, आसन्नक्षयस्येत्यर्थः । लघुताऽगौरवं नियताऽवश्यम्भाविनी । न कश्चिदेनमाश्रियत इत्यर्थः । अगरीयाँल्लघीयमान्नृपश्रियी राजलक्ष्म्याः पदमास्पदं भवति

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५१

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५१

यद्वा नृपेति पृथक्पदः। तस्मात्पौरुषं कर्तव्यमेवेत्यर्थः। अत्र पूर्वपूर्वस्यातिक्रमसद्भावे- रुत्तरोत्तरविपदादिकं प्रति कारणत्वात्कारणमालाख्योऽलङ्कारः तथा च सूत्रम्— 'पूर्वपूर्वस्योत्तरेहेतुत्वे कारणमाला ॥ १४ ॥'

अन्वयः—विपदः, अविक्रमम्, अभिभवन्ति, आपदुपेतम्, आयतिः, रहयति । निरायतेः लघुता नियता, अगरीयान्, नृपश्रियः, पदं, न ( भवति ) ॥ १४ ॥

सुधा—विपदः = आपदः नानाविधाः क्लेशा इत्यर्थः । अविक्रमं = निरुद्योगम्, पौरुषहीनमलसमिति यावत्, अभिभवन्ति = आक्रामन्ति, अथ चाविक्रमत्वेनापदा- ऽन्वितो भवति, तदा किं तदाह—आपदुपेतम् = विपद्युक्तम्, आयतिः = उत्तर- कालः, भाविसमय इति यावत् । रहयति = त्यजति, अर्थाद्धिरुद्योगिनो विपद्ग्रस्त- तया भाविसुभोदयोपि दूरीभवति । निरायतेः = अनागामिशुभस्य, अदृष्टेष्टार्थः । लघुता = क्षुद्रता, अवमानना, नियता = निश्चिता सा च महती न भवति । अतः, अगरीयान् = लघीयान्, नीचो जन इति शेषः । नृपश्रियः = राजलक्ष्म्याः, पदम् = स्थानम्, न भवति, अतो वसन्ते सर्वासामवनतीनां मूलं तु अनुद्योग एव, अतो भवता यत्नपरेण भाव्यमित्यर्थः ॥ १४ ॥

समासः—न विक्रमः यस्य असौ अविक्रमस्तमविक्रमम् । आपदा उपेत आप- दुपेतस्तमापदुपेतम् । निर्गता आयतिर्यस्मात्सः निरायतिः । अतिशयेन गुरुर्गरी- यान्, न गरीयान् अगरीयान् । नृपस्य श्रीः नृपश्रीः, तस्याः नृपश्रियाः ॥ १४ ॥

व्याकरणम्—अभिभवन्ति=अभि + भू + लट् । रहयति=रह + णिच् + लट् ॥ १४ ॥
वाक्यान्तरम्—अविक्रमो जनः विपद्भिः अभिभूयते । आपदुपैतो जनः आयत्या रह्यते । निरायतेर्लघुता नियता भूयते । अगरीयसा नृपश्रियः पदेन न भूयते ॥ १४ ॥
कोषः—'शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिसक्तिता' इत्यमरः । 'विपत्त्यां विपदापदौ' इत्यमरः । 'उत्तरः काल आयतिः' इत्यमरः । 'पदं व्यवसितत्राणस्थान- लक्ष्माङ्घ्रिवस्तुषु' इत्यमरः ॥ १४ ॥

सारार्थः—य उद्योगं न कुरुते, स विपदधीनो भवति । तथा च विगतायत्याश्च अमान्यो जनो राज्यकरणयोग्यो नहि भवतीति । अतो भवता सम्यग्लोकः सुखः करणीयः ॥ १४ ॥

भाषार्थः—आलसी को विपत्तियाँ घेरती हैं, विपत्ति से ग्रसित को होनहार भी छोड़ देता है । बिना होनहार वाले की नीचता आ जाती है और नीच लोग राजपद के लायक नहीं रहते ॥ १४ ॥

फलितमाह

सबलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायमक्षताम् ।
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥ १५ ॥

१ कि० सं० टि०

८२ | किरातार्जुनीयम्। | [ द्वितीय

तदिति। तत्तस्माद् उपेक्षायां दोषसम्भवादित्यर्थः। उन्नतेरभ्युदयस्य प्रतिपक्ष- मन्तरायं व्यवसायबन्ध्यतामुद्योगशून्यतामवलम्ब्यालम्। अवलम्बनेनालमित्यर्थः। 'अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा' इति क्त्वा प्रत्ययः। तस्य ल्यबादेशः। तथाहि पराक्रम आश्रयः कारणं यासां तास्तथोक्ताः समृद्धयः सम्षदो विषादेन सममनुत्साहेन निवसन्ति। पौरुषसाध्याः। सम्पदो नानुत्साहसाध्याः, उभयोः सहावस्थानविरोधादित्यर्थः। वैधर्म्येण कार्यकारणरूपोऽर्थान्तरन्यासः॥ १५॥

अन्वयः—तत्, उन्नतेः प्रतिपक्षम्, व्यवसायबन्ध्यताम्, अवलम्ब्य, अलम्, (यतः) पराक्रमाश्रयाः, विषादेन, समं, न, निवसन्ति ॥ १५ ॥

सुधातत् = तस्मात्कारणात्, उन्नतेः = अभ्युदयस्य, प्रतिपक्षम् = बाधकम्, व्यवसायबन्ध्यताम् = उद्योगशून्यताम्, आलस्यमित्यर्थः। अवलम्ब्य = स्वीकृत्य अलम् = व्यर्थम्। नहि किमपि शुभफलमनशो भवतः प्रकृत्या वर्त्तमानयेति भावः। यतो यस्मात् कारणादिति शेषः। पराक्रमाश्रयः = विक्रमाधीनाः, उद्योगाश्रया इत्यर्थः। समृद्धयः = सम्पदः, ऐश्वर्याणीत्यर्थः। विषादेन = अनुत्साहेन, समं=सह, न निवसन्ति = न तिष्ठन्ति, अर्थादुत्साहेन सहैवैश्वर्याणि वर्त्तन्तेऽत उत्साहामयो भवतु भवान्, जहातु हानिमूलमालस्यम्। तथोक्तं भारते— 'आलस्यं यदि न भवेज्जगत्यनर्थः को न स्याद्बहुधनवान् बहुश्रुतश्च। आलस्यादियमवनी च सागराम्ता सङ्कीर्णा नरपशुभिश्च निर्धनैश्च ॥' इति ॥१५॥

समासः—व्यवसायस्य बन्ध्यता व्यवसायबन्ध्यता, तां व्यवसायबन्ध्यताम्। पराक्रम एवाश्रयो यासां ताः पराक्रमाश्रयाः ॥ १५ ॥

व्याकरणम्—अवलम्ब्य = अव + लबि + क्त्वा + ल्यप् । निवसन्ति = नि + वस् + लट् ॥ १५ ॥

वाच्यान्तरम्—पराक्रमाश्रयाभिः समृद्धिभिः विषादेन समं न न्युष्यते ॥ १५॥

कोषः—'अलम्भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः। 'उद्योगो व्यवसायश्च पौरुषम्' इति कोषः। 'पराक्रमो विक्रमश्च साहसः पौरुषम्' इति कोषः। 'खेदो विषादो दुःखञ्च क्लेश इत्यपि कथ्यते' इति ॥ १५ ॥

सारार्थः—यतो हि उद्योगहीनानां न कदाप्युन्नतिर्भवति, अतो भवद्भिः सत्वर- मुद्योगशीलैर्भाव्यम्। सम्पदस्तु तत्रैव तिष्ठन्ति, यत्रैव पराक्रमः, यत्राऽनुत्साहो वर्तते, तत्र वर्तमाना अपि सम्षदोऽपययन्ति। तेन भवद्भिः समयोचित- माचरणमाचरितव्यमिति ॥ १५ ॥

भाषार्थः—क्योंकि बिना उद्योग के सब विपत्तियाँ घेरती हैं, इसलिए आप जान-बूझकर भी ऐसे चुपचाप बैठे हैं, यह ठीक नहीं है। सम्पत्तियाँ तो पराक्रमियों के यहाँ ठहरती हैं न कि उद्योगहीन अनुत्साहियों के यहाँ ॥ १५॥

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ८३

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ८३

ननु समयः प्रतीक्ष्यते, किं वेगेनेत्यत्राह—

अथ चेदवधिः प्रतीक्ष्यते कथमविष्कृतजिह्मवृत्तिना ।
धृतराष्ट्रसुतेन सुत्यजाश्चिरमास्वाद्य नरेन्द्रसम्पदः ॥ १६ ॥

अथेति । अथावधिः कालः प्रतीक्ष्यते चेत् । 'अवधिस्स्ववसाने स्यात्सीम्नि काले बिलेऽपि च' इति विश्वः । आविष्कृतजिह्मवृत्तिना प्रकटितकपटव्यवहारेण धृतराष्ट्रसुतेन दुर्योधनेन नरेन्द्रसम्पदो राज्यसम्पदः । नरेन्द्रेति वा पदच्छेदः चिरं चतुर्दशवर्षाण्यास्वाद्यानुभूय कथं सुत्यजाः । ज्ञातास्वादेन तेन पश्चादपि सुखेन युद्धक्लेशं बिना न त्यक्ष्यन्त एवेत्यवधिप्रतीक्षणं व्यर्थमित्यर्थः ॥ १६ ॥

**अन्वयः—**अथ, चेत्, अवधिः, प्रतीक्ष्यते, (तर्हि) आविष्कृतजिह्मवृत्तिना, धृतराष्ट्रसुतेन, नरेन्द्रसम्पदः, चिरम्, आस्वाद्य, कथं, सुत्यजाः (भविष्यन्ति) ॥ १६ ॥

**सुधा—**अथ = पक्षान्तरे, चेत् = यदि, अवधिः = समयसीमा, (द्यूतपराजिता वनवासे द्वादश वर्षाणि, गुप्तरूपेण चैकं वर्षं यदा वत्स्यथ, तदाऽहं राज्यमर्पयिष्यामीत्येवंरूपो दुर्योधनकृतकालावधिरिति भावः), प्रतीक्ष्यते = पाल्यते, भवतेति शेषः । तदाऽस्योत्तरं मह्यं दीयतां तावत्—यतु आविष्कृतजिह्मवृत्तिना=प्रकटीकृतकपटव्यवहारेण, वञ्चितविविधव्यापारेणेत्यर्थः । लाक्षागृहदाहे विषप्रयोगे, कपटद्यूते इत्यादि बहुषु वृत्तस्वकीयस्वभावपरिचयेनेति भावः । धृतराष्ट्रसुतेन = दुर्योधनेन, नरेन्द्रसम्पदः = राजलक्ष्मीः, चिरम् = दीर्घकालम्, त्रयोदशवर्षात्मकमित्यर्थः । आस्वाद्य = उपभुज्य, अनुभूयेति वा कथं=केन प्रकारेण, सुत्यजाः = सुखेन त्याज्या, भविष्यन्तीति शेषः । दुर्योधनो बिना युद्धक्लेशं न दास्यति केनापि त्यक्ष्यति स्वराज्यमिति ध्रुवं ज्ञात्वा, स्वसमयप्रतीक्षणं व्यर्थमिति जानीहि ॥ १६ ॥

**समासः—**जिह्मा वक्रा वृत्तिर्जिह्मवृत्तिः आविष्कृता जिह्मवृत्तिर्येन तेन आविष्कृतजिह्मवृत्तिना । धृतं राष्ट्रं येनासी धृतराष्ट्रः, तस्य सुतो धृतराष्ट्रसुतस्तेन धृतराष्ट्रसुतेन । नराणामिन्द्रः नरेन्द्रः नरेन्द्रस्य सम्पदो नरेन्द्रसम्पदः ॥ १६ ॥

**व्याकरणम्—**प्रतीक्ष्यते = प्रति + ईक्ष् + कर्मणि लट् । आस्वाद्य = आ + स्वाद् + क्त्वा + ल्यप् ॥ १६ ॥

**वाच्यान्तरम्—**अथ चेदवधिं प्रतीक्षसे, तदा आविष्कृतजिह्मवृत्तिः धृतराष्ट्रसुतः नरेन्द्रसम्पदश्चिरमास्वाद्य कथं त्यक्ष्यति । आविष्कृतजिह्मवृत्तिना धृतराष्ट्रसुतेन चिरमास्वाद्य, कथं नरेन्द्रसम्पद्भिः सुत्यजाभिर्भूयते ॥ १६ ॥

कोशः—'अवधिस्स्ववसाने स्यात्सीम्नि काले बिलेऽपि च' इति विश्वः । 'कौटिल्ये कुटिलं जिह्ममूर्म्मिसङ्कुचितं छतम् । आवित्तं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि' इत्यमरः । 'विहार चिरस्त्वाद्यश्चिरसार्थकाः' इत्यमरः ॥ १६ ॥

८४ किरातार्जुनीयम् । [ द्वितीय

सारार्थः—बहुधा यो दुर्योधनः स्वस्वभावस्य परिचयं दत्तवान्, स कथमपि अनुभूतं भुक्तं राज्यं नहि समर्पयिष्यति, इति हेतोस्तव समयप्रतिपालनम् सम्यगिति ध्रुवमवेहि ॥ १६ ॥

भाषार्थः—अगर आप उनके तेरह वर्षवाले इकरार पर निर्भर हों, याने तेरह वर्ष बीतने पर खुद मेरा राज्य लौट आवेगा तो यह कभी नहीं हो सकता क्योंकि जो दुर्योधन बार-बार आप पर अपना कपट (धोखा) व्यवहार प्रकट कर चुका है, वह तेरह साल तक राज्य का मजा चखकर कैसे बिना क्लेश के वापस दे सकता है ॥ १६ ॥

अथवा तदा दैववशात्स्वयमेव सम्पदौ दास्यति चेत्तथापि तत्कथं रोचतेमहीत्याह—

द्विषता विहितं त्वयाऽथवा यदि लब्धा पुनरात्मनः पदम् ।
जननाथ तवानुजन्मनां कृतमाविष्कृतपौरुषैर्भुजैः ॥ १७ ॥

द्विषतेति । अथवा द्विषता विहितं पुनः प्रत्यर्पितमात्मनः पदं राज्यं त्वया लब्धा लप्स्यते यदि । लभेः कर्मणि लुट् । हे जननाथ, तवानुजन्मनाममुजानामाविष्कृतपौरुषैः प्रकटितपराक्रमैर्भुजैर्नः कृतमलम् । अस्मद्भुजैर्न किञ्चित्साध्यमित्यर्थः । राज्यदानादानयोर्द्विषतामेव स्वातन्त्र्येऽस्मद्भुजवैफल्यात् । 'क्षत्रियस्य विजेतव्यम्' इति शास्त्राच्छात्रेणैव राज्यं ग्राह्यमिति भावः । कृतमिति प्रतिषेधार्थमव्ययं वारिणे पठ्यते । 'कृतमिति निवारणनिषेधयोः' इति गणव्याख्याने । भुजैरिति राज्यप्राप्तिसाधनक्रियापेक्षा करणत्वात्तृतीया । उक्तं च न्यासोद्योते—'न केवलं श्रूयमाणा क्रियः निमित्तं कारकभावस्यापि तु गम्यमानापि' इति ॥ १७ ॥

अन्वयः—हे जननाथ ! यदि, त्वया, अथवा, द्विषता, पुनः, विहितम्, आत्मनः, पदं, लब्धा (तदा) तव अनुजन्मनाम् आविष्कृतपौरुषैः भुजैः, कृतम् ॥ १७ ॥

सुधा — हे जननाथ ! नरेन्द्र, राजन्, यदि = चेत्, त्वया = युधिष्ठिरेण, द्विषता = शत्रुना, दुर्योधनेनेत्यर्थः, पुनः = भूयः, विहितम्, पुनः समर्पितमित्यर्थः । आत्मनः = स्वस्य, पदम् = स्थानम्, राज्याधिकार इत्यर्थः । लब्धा = लप्स्यते, तदा = दुर्योधनकृपाप्राप्तविभवे त्वयि सति, तव = भवतः, युधिष्ठिरस्येत्यर्थः । अनुजन्मनाम् = अनुजानाम्, कनिष्ठानामस्माकमित्यर्थः । आविष्कृतपौरुषैः = प्रकाशितपराक्रमैः, प्रख्यातसामर्थ्यैरिति यावत् । भुजैः = बाहुभिः, शत्रुशासनलब्धपरमयशोभिर्भुजैरित्यर्थः । कृतम् = अलम्, निरर्थकम्, नहि तैः किमपि फलमित्यर्थः ॥ १७ ॥

समासः—जनानां नाथः, जननाथस्तत्सम्बोधने हे जननाथ ! अनु पश्चात् जायन्ते येषां तेऽनुजन्मानस्तेषामनुजन्मनाम्। पुरुषस्य भावः पौरुषम्, आविष्कृतं पौरुषं यैस्तैराविष्कृतपौरुषैः ॥ १७ ॥

व्याकरणम्—लब्धा = लभ् + कर्मणि लुट् । विहितम् = वि + धा + क्तः ॥ १७ ॥

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् । [ ८५

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् । [ ८५

वाच्यान्तरम्—हे जननाथ ! द्विषता विहितमात्मनः पदं यदि त्वं लप्स्यसि तदा तवानुजन्मनाम् आविष्कृतपौरुषा भुजा बलं ( व्यर्थाः ) एवेति ॥ १७ ॥

कोषः—'रिपौ वैरिसपत्‍नारिद्विषद्वेषणदुर्हृदः' इत्यमरः । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । 'जघन्यजे स्युः कनिष्ठयवीयोजवरजानुजाः' इत्यमरः । 'भुजबाहू प्रवेष्ठो दोः' इत्यमरः ॥ १७ ॥

भावार्थः—यदि वनवासावधिसमयेऽतीते दुर्योधनेन समर्पितमपि राज्यं युद्धं विना भवान् लब्ध्वा महाराजो भविष्यति, तदा सर्वत्रास्माकं शौर्यताप्रकाशनं सम्भविष्यति, परन्तुधुनाऽपि ससुरासुरनरा जानन्ति यत्पाण्डवसमाना न सन्ति केऽपि वीरास्त्रिलोक्यामिति ख्यातिमिथ्यैव भवेत् । पाण्डवा अपि परप्रदत्तपिण्डभोजिन एवेति दुर्यशोवितानं विततं स्यात् ॥ १७ ॥

भाषार्थः—एक तो वह दुर्योधन लौटावेगा ही नहीं, यह जानता हूँ, पर तो भी थोड़ी देर के लिये मैं मान लेता हूँ कि अगर आप अपने दुश्मनों से लौटाये हुये राज्य को पावेंगे भी तो महाराज ! आपके भाइयों की भुजाओं का बल बरबाद हो जायेगा ॥ १७ ॥

ननु साम्नैव कार्यसिद्धौ किं दानेन ? यथाह—मनु—'साम्ना दानेन भेदेन समस्तैरथवा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥' इति । तन्किमाक्रन्दनेत्याशङ्कयाह—

मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयते स्वयं हतैः ।
लघयन् खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः ॥ १८ ॥

मदेति । मृगाधिपः सिंहो मदसिक्तमुखैः मदवर्षिभिरित्यर्थः । स्वयं स्वेनैव हतैः करिभिर्वर्तयते वृत्तिं करोति । जीवतीत्यर्थः । भौवादिकाद् वृत्तेर्लट् । सौत्रादिकस्य तु 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदनियमादिति । तथाहि—तेजसा प्रभावेण । 'तेजो बले प्रभावे च ज्योतिर्वीर्येऽग्नि रेतसि' इति वैजयन्ती । जगल्लघयंल्लघु कुर्वन्महान्तेजस्व्यन्यतोऽन्यस्मात्पुरुषात् मूर्तिं वृद्धिं नेच्छति खलु । नहि तेजस्विनः परायत्तवृत्तित्वं युक्तम् । मनुवचनं त्वशूरविषयमिति भावः । विशेषेण वक्तव्यसामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ १८ ॥

अन्वयः—मृगाधिपः, मदसिक्तमुखैः स्वयं, हतैः, करिभिः, वर्तयते । तेजसा, जगत्, लघयन्, महान्, अन्यतः, अन्यतः, मूतिम्, न इच्छति ॥ १८ ॥

सुधा—मृगाधिपः = केशरी, सिंह इत्यर्थः । मदसिक्तमुखैः = दानवारिक्लिन्नवदनैः, गण्डस्थलनिःसृतमदजलवाछितकपोलसन्धिभिरित्यर्थः । स्वयम् = आत्मना, हतैः = मारितैः, करिभिः = गजैः हस्तिभिरित्यर्थः वर्तयते = वृत्तिं कुरुते, स्वयमयमेव हस्तिनं हत्वा, न तु दुर्बलं हस्तिनमपि हन्त्री सिंहः कृत्वा निर्वतयति । तथा

८६ | किरातार्जुनीयम् | [ द्वितीय सर्ग ]

कथाऽम्यवत्यजन्तूनाम्। तथैव, तेजसा = ओजसा पराक्रमेणेत्यर्थः। जगत् = [...] रम्, लघयन् = लघुकुर्वन्, तुणीकुर्वन्नित्यर्थः। स्वपराक्रमस्य पुरतो [...] कस्यापि गणयन्नित्यर्थः। महान् = तेजःप्रभाववान्, जन इति शेषः, अन्यतः [...] अन्यजनसाहाय्याद् = इति यावत्। भूतिम् = ऐश्वर्यं नहि, इच्छति = [...] लषति। स्वबलेनैव वैरिणं विजित्य लब्धुमिच्छतीति ॥ १८ ॥

समासः—मदेन सिक्तं मदसिक्तं, मदसिक्तं मुखं येषां ते मदसिक्तमुखाः [...] मदसिक्तमुखैः मृगाणामधिपो मृगाधिपः ॥ १८ ॥

व्याकरणम्—वर्तयते = वृत् + णिच् + लट्। लघयन् = लघ् + णिच् + [...] इच्छति = इष् + लट् ॥ १८ ॥

वाक्यान्तरम्—मृगाधिपेन स्वयं हतैर्मदसिक्तमुखैः करिभिः वर्त्यते। [...] जगत् लघयता महता अन्यतो भूतिर्न इष्यते ॥ १८ ॥

कोषः—'मदो दर्पेऽभिमाने च गजागण्डस्थलाम्बुनि' इति। 'सिंहो [...] पञ्चास्यो हर्यक्षः केसरी हरिः' इत्यमरः। 'त्रिष्वथो जगती लोको विष्टपं [...] जगत' इत्यमरः। विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा' इत्यमरः ॥ १८ ॥

सारार्थः—यथा पशूनां राजा सिंहोऽपि दुर्बलं गजमप्यपहृत्य हत्वा [...] निर्वर्तयति अपि तु मदमत्तान् यूथनायकान् दन्तिनः स्वविक्रमेणैव विहत्य [...] नाशां पूरयति। भवांस्तु सर्वेषां राज्ञां शासकः पूर्वमासीत्तथाविधोऽपि स्वपौ [...] किमपि करोति। नैतन्महतां योग्यः स्वभावः। महान्तो जनां निजौजसाऽ[...] भूतलं तृणवन्मन्यमानाः नान्यतोऽभ्युदयमभिलषन्ति ॥ १८ ॥

भावार्थः—जैसे सिंह खुद मतवाले हाथियों को मारकर भूख को मिटाता [...] वैसे (बड़े) आदमी सामने दुनिया को तुच्छ समझकर पराये की सहा[...] से ऐश्वर्य नहीं चाहते ॥ १८ ॥

ननु 'युद्धात् पाक्षिको लाभः उपायान्तरैस्तु न तथेत्याशङ्क्याह—

अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः।
अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥ १९ ॥

अभिमानेति। अभिमानधनस्य वैरानिर्यातजनमाननिधस्य। अत एव [...] र्गमनशीलैरस्थिरैः। गत्वरैश्च' इति करबन्तो निपातः। असुभिः प्राणैः क[...] पुंसि भूम्न्यसवः प्राणा' इत्यमरः। स्थास्नु स्थिरम्। 'ग्लाजिस्थश्च गस्नु' [...] स्नुप्रत्ययः। यशश्चिचीषतश्चेत् संगृहीतुमिच्छतः। विमोलेः सर्वक्षान्प्रवृत्तप्रत्य[...] अचिरांशुवो यस्याः सोऽचिरांशुविद्युत्तस्या विलासः स्फुरणं तद्वच्चञ्चला। च[...] त्यर्थः। लक्ष्मीः सम्पदतुमहाकारातमानुषङ्गिकमव्यापयसिंहमण्यं फलम्। सा[...] त्राणं यश एव मुख्यं फलमभ्युपपद्यस्तु कत्ततीरिति मानिनामिदमेव श्लाघ्यमित्यर्थः[...]

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् । ८३

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् । ८३

अत्रास्थिरप्राणत्यागेन स्थिरयशस्वीकारामिधानान्न्यूनाधिकविनिमयरूपः परिवृत्त्यलङ्कारः। तदुक्तं काव्यप्रकाशे—'परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः' इति ॥

अन्वयः—अभिमानधनस्य, गत्वरैः, असुभिः स्यास्नु, यशः, चिचीषतः, अचिरांशुविलासचञ्चला लक्ष्मीः आनुषङ्गिकं, फलं, ननु ॥ १९ ॥

सुधा—अभिमानधनस्य = गौरवरक्षणैकलक्ष्यस्य, वा वैरनिर्यातनावमात्रविकलस्येत्यर्थः गत्वरैः = गमनशीलैः, अस्यायिभिरिति यावत् । असुभिः = प्राणैः, स्यास्नु = स्थिरम् सदा वर्तमानमित्यर्थः । यशः = कीर्त्तिम् चिचीषतः = संग्रहीतुमिच्छतः, अचिरांशुविलासचञ्चला=विद्युत्स्फुरणवच्चपला, लक्ष्मीः=राजलक्ष्मीः, आनुषङ्गिकम्=आकस्मिकम्, फलं, ननु = निश्चितम् ॥

समासः—अभिमान एव धनं यस्य सोऽभिमानधनस्तस्य अभिमानधनस्य । अचिरम् अंशवो यस्याः सा अचिरांशुः, तस्याः विलासः स्फुरणम्, इव चञ्चला या सा अचिरांशुविलासचञ्चला ॥ १९ ॥

व्याकरणम्—गत्वरैः—गम् क्वप् । स्यास्नु = स्था-स्नुः । चिचीषतः—चि-सन्—शतृ ॥ १९ ॥

वाच्यान्तरम्—अभिमानधनस्य गत्वरैरसुभिः स्यास्नु यशश्चिचीषता अचिरांशुविलासचञ्चलया, आनुषङ्गिकेन फलेन सूयते ननु ॥ १९ ॥

कोषः—'पुंसि भूम्न्यसवः प्राणाः' इत्यमरः । 'स्यास्नुः स्थिरतरः स्थेयान्' इत्यमरः । 'यशः कीर्त्तिः समज्ञा च' इत्यमरः । 'अचिरांशुस्तडित् सौदामनी चञ्चला चापि' इति कोषः ॥ १९ ॥

सारार्थः—जातिकुलगौरवरक्षणैकलक्ष्यो महापुरुषो युद्धनावसरे प्राणेभ्यः परं स्थायि यश एव प्रधानं फलं मन्यते । यदि प्राणस्य रक्षां कुर्यात्तर्हि यशः परित्यजेत्। तन्न युद्धे कृते यशस्वतः स्यादतोऽल्पमहत्त्वो भवतु वा काऽपि हानिश्चेन्न, किन्तु धनं क्षणिकं मन्यते, मुख्यं स्थायि वस्तु यश एव पश्यति ॥ १९ ॥

भावार्थः—गौरव ही धन है, जिसका ऐसे लोग विनाशशील प्राणों से अविनाशी को जमा करने की इच्छा करते हुये बिजली की चमक की तरह लक्ष्मी का संयोग क्षणिक समझते हैं ॥ १९ ॥

नन्वल्पस्य मानस्य हेतोः कथं प्राणत्यागः सम्भवते, कथोक्तं यशः 'जीवन्नरो भद्रशतानि पश्येत्' इत्याशङ्क्याह—

ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः ।
अभिभूतिमयादसून्वतः सुखमुज्झन्ति न धाम मानिनः ॥ २० ॥

ज्वलितमिति । अयं भस्मनां चयं पुञ्जम् स्कन्दति आच्छादयत्याक्रमति अवगाहत्यवगाहिति यावत् । ज्वलन्तं प्रकाशमानम् । हिरण्यरेतसं । अभिभूतिः=तिरस्कारोऽस्माद्

८८किरातार्जुनीयम् ।[ द्वितीय-

चकारादुत्तंमानाद्यैत्वम्। हिरण्यं रेतो यस्य तं हिरण्यरेतसमग्निं नास्कन्दति। वह्निकरवादिति भावः। अतो हेतोर्मानिनोऽभिभूतिभयात्प्राणलाभेन तेजस्त्यागोपरिमयो भविष्यतीति भयादसूनेव सुखमक्लिष्टमुज्झन्ति, त्यजन्ति, धाम तेजस्तु नोञ्झन्ति। मानहानिकराजीवनात्स्वतेजसा मरणमेव वरमित्यर्थः। पूर्वतरश्लोकवदर्थान्तरन्यासः॥

अन्वयः—जनः भस्मनां, चयम्, आस्कन्दति ( किन्तु ) ज्वलितं, हिरण्यरेतसं, न, ( आस्कन्दति ) अतः, अभिभूतिभयात्, सुखम्, असून्, उज्झन्ति, धाम, न, ( उज्झन्ति ) ॥ २० ॥

सुधा—जनः लोकः भस्मनाम् = भसितानाम्, चयम् = समूहम्, आस्कन्दति = आक्रामति। किन्तु, ज्वलितम् = प्रज्वलितम्, सोष्माणमित्यर्थः। हिरण्यरेतसम् = अग्निं न = नहि, आस्कन्दति, अतः = अस्मात्कारणात्, मानिनः = कुलगौरववन्तः, अभिभूतिभयात् = अपमानभवात्, सुखम् = अव्यथम्, असून् = प्राणान् अपि, उज्झन्ति = त्यजन्ति, परन्तु, धाम = तेजः, विक्रमशालित्वं न उज्झन्ति। तेजोवन्तः शत्रुर्नाभिभवति ॥ २० ॥

समासः—हिरण्यं रेतो यस्य स हिरण्यरेतास्तं हिरण्यरेतसम्, अभिभूतेर्भयं भिभूतिभयम्, तस्मादभिभूतिभयात् ॥ २० ॥

व्याकरणम्—आस्कन्दति = आ + स्कन्द् + लट्। ज्वलितम् = ज्वल् + क्तः। उज्झन्ति = उज्झ् + लट् ॥ २० ॥

वाच्यान्तरम्—जनेन भस्मनां चयः आस्कन्द्यते, किन्तु ज्वलितोऽग्निर्न। अतो मानिभिः अभिभूतिभयात् असवः सुखम्, उज्झ्यन्ते, किन्तु धाम नेति ॥ २० ॥

कोषः—'हिरण्यरेता हुतभुग्वह्नो हव्यवाहन' इत्यमरः। 'समुदायः समुदयः समवायश्चयो गणः इत्यमरः। 'भूतिर्भसितभस्मनि' इत्यमरः 'धाम रश्मौ गृहे देहे तेजस्यापि निगद्यते' इति ॥ २० ॥

सारार्थः—सामर्थ्यवन्तं न कोऽप्याक्रामति, दुर्बलं तु सर्वे आक्रामन्ति। अत इदं ज्ञात्वा सामर्थ्यवान् भव, सामार्थ्यवन्तस्तु प्राणान् प्रत्युत त्यक्तुमिच्छन्ति किन्तु स्वतेजो न कदापि मुञ्चन्ति ॥ २० ॥

सारार्थः—लोग राख की ढेर पर चल सकते हैं, पर प्रज्वलित आग पर नहीं। इसलिये तेजस्वी लोग अपमान के डर से प्राण को बिना तकलीफ छोड़ते हैं, पर तेज नहीं छोड़ते क्योंकि प्राण से विशेष तेज को ही मानते हैं ॥ २० ॥

अथवा किमत्र प्रयोजनचिन्तया। किन्तु तेजस्विनामयं स्वभाव एव यन्निगीड़त्वमित्याशयेनाह—

किमपेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः।
प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥ २१ ॥

किमिति—मृगाधिपः सिंहः किं फलं प्रयोजनमपेक्ष्य ध्वनतो गर्जतः। पयोधरान्

सर्गः ] घण्टापथ-सुधान्याख्याद्वयोपेतम् [ ८३

सर्गः ] घण्टापथ-सुधान्याख्याद्वयोपेतम् [ ८३

धरा। पवायन् पयसां धरास्तान्पयोधरान्मेघान्वाभ्यर्थयतेऽभियाति 'याच्ञायामभि- धाने च प्रार्थना कथ्यते बुधैः' इति केशवः। यद्वाऽवकूजतीत्यर्थः। प्रा अभ्यर्थते। 'प्रा स्पादाच्चाऽवरोधयोः, इत्यभिधानात्प्रा अवरोधेन प्रा इति तृतीयान्तरम्। आका- रान्तस्य प्राशब्दस्य योगविभागात् 'आतो धातोः' इत्याल्लोपः। तथापि महीयसो महत्तरस्य सा प्रकृतिः खलु यथा प्रकृत्याऽन्यसमुच्छ्रितिं परवृद्धिं न सहते। महतः परमर्द्दनमेव पुरुषार्थः इत्यर्थः। पूर्ववदलङ्कारः ॥ २१ ॥

अन्वयः—मृगाधिपः, किं फलम्, अपेक्ष्य, ध्वनतः पयोधरान् प्रार्थयते। सा महीयसः प्रकृतिः खलु। यथा अन्यसमुच्छ्रितिं न सहते ॥ २१ ॥

सुधा—मृगाधिपः = मृगेन्द्रः, सिंह इति यावत्, किम् = किंरूपम्, फलम्=प्रयो- जनम्, वा लाभम्, अपेक्ष्य = उद्दिश्य, मनसि निश्चित्येति भावः ध्वनतः = गर्जतः, पयोधरान् = जलधरान्, मेघानित्यर्थः। प्रार्थयते = याचते, अब्रूतेच किमपीति। तदा कथं तदन्तं वारिदं ज्ञात्वा सिंहो गर्जतीत्याह—सा = अन्योत्कर्षामर्षणा, मही- यसः = गरीयसः, मनस्विन इत्यर्थः। प्रकृतिः—स्वभावः। खलु = किल, वर्तते यया = प्रकृत्या, अन्यसमुच्छ्रितिम् = पराभ्युदयम्, न सहते = न मर्षयति, महान् इति शेषः। शत्रोरुत्कर्षनाशनमेव महतः पुरुषार्थफलम् ॥ २१ ॥

समासः—मृगाणामधिपः मृगाधिपः। धरन्तीति धराः पयसां धराः पयोधराः स्तान् पयोधरान्। अन्यस्य समुच्छ्रितिरन्यसमुच्छ्रितिस्तामन्यसमुच्छ्रितिम् ॥ २१ ॥

व्याकरणम्—अपेक्ष्य = अप + ईक्ष् + क्त्वा + ल्यप्। प्रार्थयते=प्र + अर्थ + लट्। सहते = सह् + लट् ॥ २१ ॥

वाच्यान्तरम्—मृगाधिपेन किं फलमपेक्ष्य ध्वनन्तः पयोधराः प्रार्थ्यन्ते तथा महीयसः प्रकृत्या भूयते, यया अन्यसमुच्छ्रितिः न सह्यते ॥ २१ ॥

कोषः—'स्त्रीस्तनाब्दौ पयोधरौ' इत्यमरः। 'संसिद्धिप्रकृतीत्विमे। स्वरूप स्वभावश्च निसर्गश्च' इत्यमरः। 'विषेषवाक्यालङ्कारजिज्ञासानुनये खलु' इत्यमरः॥

सारार्थः—भूस्थोऽपि सिंहः आकाशगतस्य मेघस्य गर्जनं श्रुत्वा 'कः कोऽयम- स्मत्समशब्द्यकरोऽन्यः' इति धिया तं प्रति गर्जति। एवं महतां स्वभावः यन्न केन प्रतिपक्षिण उत्कर्षं दृष्ट्वा स्वस्यापि तदधिकोत्कर्षार्थं यतते ॥ २१ ॥

भावार्थः—सिंह गर्जते हुए बादल से क्या कुछ माँगता है ? (नहीं उसको झपटता है) वह महान् लोगों (बड़ों) की आदत होती है कि जिससे वे औरों की उन्नति नहीं सहते ॥ २१ ॥

संप्रति उक्तप्रयोजनं विगमयति—उक्तार्थोपसंहारं जिगस उच्यते—

कुरु सम्प्रतिसेव विक्रमे नृप निर्धूत तमः प्रमादजम्। ध्रुवमेतदवेहि विद्विषां स्वबलात्सम्पदमा विपत्पया ॥ २२ ॥

९० | किरासार्जुननीयम् । | [ द्वितीय

कुरु तदिति । हे नृप, तत्तस्मादुक्तरीत्या पराक्रमोत्साहयोर्हेतुत्वाद्धेतोः 'यत्तच्छब्दस्ततो हेतौ' इत्यमरः। प्रमादजं तमो मोहं निर्धूय निरस्य विक्रमे पौरुष एव मतिं कुरु। विक्रममेवाङ्गीकुरु, नतूपायान्तरमित्यर्थः । न च विक्रमवैफल्यशङ्का कार्येत्याह—ध्रुवमिति। विद्विषां विपत्तयस्त्वदनुत्साहहतास्तवानुत्साहेनावसादेन हताः प्रतिबद्धाः। अन्यथा प्रागेव विपद्येरन्निति भावः। इत्येतद् ध्रुवं निश्चितमवेहि 'विद्धि। ध्रुवं नित्ये निश्चिते च' इति शाश्वतः॥ २२॥

अन्वयः—हे नृप, तत्, प्रमादजं, तमः, निर्धूय, विक्रमे, एव मतिं कुरु, विद्विषां विपत्तयः, त्वदनुत्साहहताः (सन्ति) । एतद्, ध्रुवम्, अवेहि ॥ ॥

सुधा—हे नृप = हे राजन्, तत् = तस्मात्कारणात्, प्रमादजम् = अनवधानेन जनितम्, तमः = मोहम्, निर्धूय = निरस्य, दूरीकृत्येत्यर्थः । विक्रमे = पराक्रमे मतिं = बुद्धिम्, कुरु = विधेहि, नान्यथा कार्यसिद्धिरित्यर्थः । तथाहि, विद्विषाम् = शत्रूणाम्, विपत्तयः = विपदः, क्लेशा इत्यर्थः । त्वदनुत्साहहताः = भवदनुद्योगक्षीणाः, अर्थाद्यदा भवानुत्साहमङ्गीकरिष्यति, तदा तेषां विपत्तयो भविष्यन्ति। यावदेव भवानुद्योगतत्परो न, तावदेव तेषां विपत्तयो न, अपितु सम्पदत्यः सन्तीत्येतत् = इति, ध्रुवम् = निश्चितम्, अवेहि = जानीहि । नास्त्यत्र सन्देहलेशोऽपीति शेषः ॥ २२ ॥

समासः—प्रमादाज्जायते इति प्रमादजस्तं प्रमादजम् । न उत्साह इत्यनुत्साहः तव अनुत्साह इति त्वदनुत्साहस्तेन त्वदनुत्साहेन हता इति त्वदनुत्साहहताः ॥२२॥

व्याकरणम्—कुरु = कृ + लोट् । निर्धूय = निर् + धूञ् + क्त्वा + ल्यप् । अवेहि = अव + इण् + लोट् ॥ २२ ॥

वाच्यान्तरम्—हे नृप ! तत् प्रमादजं तमो निर्धूय विक्रमे मतिः क्रियताम् । विद्विषां विपत्तिभिः त्वदनुत्साहहताभिर्भूयते, एतत् ध्रुवं भवता अवेद्यताम् ॥२२॥

कोशः—'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । 'शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता' इत्यमरः । 'प्रमादोऽनवधानता' इत्यमरः ॥२२॥

सारार्थः—यतो विक्रमेण विना कार्यसिद्धिर्न हि भवति, अतो भवताऽप्यनुत्साहं परित्यज्य उद्योगतत्परेण भवितव्यम् । तावदेव शत्रोः सम्पदौ वर्तन्ते, यावद्भवतोत्साहो नाङ्गीकृतः। यदैव उत्साहमङ्गीकरिष्यति तदैव शत्रोर्विपत्तयः उत्पत्स्यन्ते ।

भाषार्थः—हे महाराज ! आप भूल से किये हुए मोह को दूर कर उद्योग में बुद्धि लगाइये । आप ही के अनुत्साह (अनुद्योग व आलस्य) से दुश्मनों की विपत्तियाँ रुकेंगी, यह आप निश्चित समझें ॥ २२ ॥

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ९१

न च नः पराजयशङ्का कार्येत्याह—

द्विरदानिव दिग्‌विभावितांश्चतुरस्तोयनिधीनिवार्यतः ।
प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः ॥ २३ ॥

द्विरदानिति । दिग्‌विभावितानिक्षु प्रसिद्धांस्तानायत आगच्छतः । याङ्पूर्वा-द्विण्‌धातोः शतृप्रत्ययः । चतुरो द्विरदान्दिग्गजानिव, तथोक्तविशेषणांश्चतुरस्तोय-निधीनिव, रण आयतो दिग्‌विभावितान्‌शतमन्युतेजस इन्द्रविक्रमांश्चतुरस्तवानुजा-न्द्धिषतां मध्ये कः प्रसहेत । सोढुं शक्नुयादित्यर्थः । 'शकि लिङ् च' इति शक्यार्थे लिङ् । अतो निःशङ्कं प्रवर्तस्वेति भावः ॥ २३ ॥

**अन्वयः—**द्विषतां, कः, दिग्‌विभावितान्, चतुरः, द्विरदान्, इव, तोयनिधीन्, इव, रणे, आयतः शतमन्युतेजसः, तव, अनुजान्, प्रसहेत ? ॥ २३ ॥

**सुधा—**द्विषतां = शत्रूणाम्, पक्षे इति शेषः, कः = को वीरः वर्तते य इति गजान्, इव । रणे = समरे, चतुरः = चतुर्मितान्, तोयनिधीन् = समुद्रान्, इव, आयतः = आगच्छतः, शतमन्युतेजसः = इन्द्रसमविक्रमान्, तव = युधिष्ठिरस्य, अनुजान् = कनिष्ठान्, अस्मदादीनित्यर्थः प्रसहेत = सोढुं शक्नुयात् ? न कोऽपि तादृशोऽस्मत्प्रतिपक्षयोग्यो वीरवरो लक्ष्यते विपक्षपक्षे इति भावः ॥ २३ ॥

समासः द्वौ रदौ वर्त्तेते येषां ते द्विरदास्तान् । दिक्षु विभाविता दिग्‌विभावितास्तान् दिग्‌विभावितान् । तोयानां निधयस्तोयनिधयस्तांस्तोयनिधीन् । शतं मन्यवो यस्य सः शतमन्युः, शतमन्योस्तेज इव तेजो येषां ते शतमन्युतेजसस्तान् शतमन्युतेजसः ॥ २३ ॥

**व्याकरणम्—**आयातः = आ + इण् + शतृ, प्रसहेत = प्र + षह् + लिङ् ॥ २३ ॥

**वाक्यान्तरम्—**दिग्‌विभाविताः द्विरदा इव चत्वारस्तोयनिधय इव चायन्तः शतमन्युतेजसः तव अनुजाः, द्विषतां मध्ये केन प्रसहेरन् ॥ २३ ॥

कोषः—'हस्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः । 'कलियो समरानीकरणः कलहविग्रहौ' इत्यमरः । 'जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः' इत्यमरः ॥ २३ ॥

**सारार्थ—**यदि भवानधुना परिमितपरिजनात्सर्वोऽसमर्थो युद्धकरणे भवेदितमिति जानाति तदा यत्नं विचारयतु, यत् सबल इन्द्रसमविक्रमाः भ्रातरो वयं च दिग्गजाः इव आकारेण, युद्धे तु सागरा इवामतिक्रमणीयाश्च स्मः । तस्मादस्माकं पञ्चानां सम्मिलितानां पुरः शत्रुयशीयः को निजबलवीर्यान्वितः जनं तिष्ठेत्, यो न पराभवनासिद्धिंर्भविष्यतीति ॥ २३ ॥

**भाषार्थः—**चारों दिग्गजो के समान बलवान् और आकार से अथाह सागर के

किरातार्जुनीयम् [ द्वितीय

समान आक्रमण योग्य नहीं, ऐसे इन्द्र के समान पराक्रम वाले आपके भाइयों से दुश्मनों के पक्ष में कौन है ? जो ठहर कर क्षण भर युद्ध करे ॥ २३ ॥

आशीर्वादव्याजेन फलितमाह—

ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि।
विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ॥ २४ ॥

ज्वलत इति । तव चेतसि सततं ज्वलतो वैरिकृतस्य जातवेदसः । क्रोधाग्नेरित्यर्थः शिवेतराऽशिवाऽमङ्गला । वैधव्यदुःखजनकत्वादिति भावः । रिपुनारीनयनाम्बुसन्ततिर्वैरिवनिताऽश्रुप्रवाहः शमं विदधातु । वैरिकृतस्य क्रोधस्य वैरिवधमन्तरेण शान्त्यसम्भवादवश्यं तद्वधस्त्वया कर्तव्य इत्यर्थः । क्रोधस्य विषयस्य निगरणेन विषयिणो जातवेदस एवोपनिबन्धादतिशयोक्तिरलङ्कारः । तदुक्तम्—'विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात्कवेः प्रौढोक्तिजीविता ॥' इति । तत्रापि क्रोधस्य जातवेदसो भेदेऽप्यभेदाध्यवसायादभेदेऽभेदरूपा । सा एवाम्बुनिर्वाप्यत्वोक्तिश्च घटते । तथा च तथाम्बुसेकेनाग्निः शाम्यति तथा शत्रुवधेन क्रोध इत्यौपम्यं गम्यते ॥ २४ ॥

**अन्वयः—**शिवेतरा, रिपुनारीनयनाम्बुसन्ततिः, तव; चेतसि सततं, वैरिकृतस्य, ज्वलतः, जातवेदसः शमं विदधातु ॥ २४ ॥

**सुधा—**शिवेतरा = अमङ्गला, अभद्रेति यावत्, वैधव्यक्लेशेत्पन्नत्वादिति भावः । रिपुनारीनयनाम्बुसन्ततिः = शत्रुस्त्रीनेत्राश्रुधारा (कर्त्री), तव = युधिष्ठिरस्येत्यर्थः । चेतसि = मनसि, सततम् = अनिशम्, नित्यमिति यावत् । वैरिकृतस्य = शत्रुप्रयुक्तस्य ज्वलतः = प्रदीप्तस्य, उच्छिखस्येत्यर्थः । जातवेदसः = अग्नेः, शत्रुविहितमहापराधजनितदुःखाग्निज्वलाया इति भावः । शमम् = उपशान्तिम्, विदधातु = करोतु । अग्निर्गलधारायाः पातेन शाम्यति, तथैव तव दुःखाग्निरपि वैरिरमणीवैधव्यजनिताश्रुधारया शाम्यतु इति भावः ॥ २४ ॥

**समासः—**वैरिणा कृतयः वैरिकृतः तस्य वैरिकृतस्य । शिवादितरा शिवेतरा । नयनानामम्बूनि, तेषां सन्ततिः, नयनाम्बुसन्ततिः । रिपूणां नार्यः रिपुनार्यस्तासां नयनाम्बुसन्ततिरिति रिपुनारीनयनाम्बुसन्ततिः ॥ २४ ॥

**व्याकरणम्—**ज्वलतः = ज्वल् + शतृ । विदधातु = वि + धा + लोट् ॥ २४ ॥

**वाच्यान्तरम्—**शिवेतरया रिपुनारीनयनाम्बुसन्तत्या तव चेतसि सततं ज्वलतः वैरिकृतस्य जातवेदसः शमः विधीयताम् ॥ २४ ॥

कोषः—'शुचीटयोनिर्ज्वलनो जातवेदास्तनू्नपात्,' इत्यमरः । 'सततानावरताश्रान्तसन्तताविरतानिशम्' इत्यमरः । 'चित्ते तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । 'शमयस्तु शमः शान्तिः' इत्यमरः ॥ २४ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५३

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५३

सारार्थः—तावत्तव दुःखाग्निश्चिर्वं विलीनो भविष्यति, यावत्ते रिपवो न मरिष्यन्ति, अतो निजदुःखरोगस्य भेषजं शत्रुसंहाररूपं कुर्विति ॥ २४ ॥

भाषार्थः—आप के हृदय में कौरवों के कारण हरदम जलती हुई दुःखरूपी आग को अमङ्गल दुश्मन की रमणियों की आँसू की धारा बुझाये ॥ २४ ॥

इति दर्शितविक्रियां सुतं मरुतः कोपपरीतमानसम् ।
उपसान्त्वयितुं महीपतिर्नृरदं दुष्टमिवोपचक्रमे ॥ २५ ॥

इतीति । इत्युक्तरीत्या दर्शिता विक्रिया विकारो वागारम्भात्मको येन तं कोपपरीतमानसं कोपाक्रान्तचित्तं म् । इदं विशेषणद्वयं द्विरदेऽपि योज्यम् । मरुतः सुतं भीमं महीपतिर्युधिष्ठिरो दुष्टं द्विरदमिव । एतेन भीमस्य शौर्यमेव, न बुद्धिरस्तीति गम्यते । उपसान्त्वयितुमनुनेतुमुपचक्रमे प्रवृत्तः । 'प्रोपाभ्यां समर्थाभ्याम्' इत्यात्मनेपदम् । राजा तावदुपकारविशेषापेक्षया कस्यचिद्वचसो जनः सर्वैरीश्वरवद्वशीकरणीयः, न तु त्याज्य इति भावः ॥ २५ ॥

अन्वयः—महीपतिः, इति, दर्शितविक्रियं, कोपपरीतमानसं, मरुतः सुतम्, दुष्टं द्विरदम्, इव, उपसान्त्वयितुम्, उपचक्रमे ॥ २५ ॥

सुधा—महीपतिः = पृथिवीपतिः, युधिष्ठिर इत्यर्थः । इति = इत्थम्, पूर्वोक्तम्, चतुर्विंशतिश्लोकोक्तरूपम् । दर्शितविक्रियम् = प्रकटीकृतमनःक्षोभम्, कोपपरीतमानसम् = क्रोधाव्याप्तचित्तम्, मरुतः = वायोः, सुतम् = पुत्रम्, भीममित्यर्थः । यस्य वायोदंशाज्जनितत्वात्, दुष्टं = मदमत्तम्, द्विरदम् = गजम्, इव, उपसान्त्वयितुम् = सान्त्वयितुं वानुनेतुम्, वा, उपचक्रमे = आरब्धवान्, प्रवृत्त इत्यर्थः ॥ २५ ॥

समासः—दर्शिता विक्रिया येन स दर्शितविक्रियस्तं दर्शितविक्रियम् । कोपेन परीतं मानसं यस्य सः कोपपरीतमानसस्तं कोपपरीतमानसस् मरुतः पतिर्महीपतिः । द्वौ रदौ ( मुखनिर्गतौ ) यस्य स द्विरदस्तं द्विरदम् ॥ २५ ॥

व्याकरणम्—उपसान्त्वयितुम् = उप + सान्त्व + णिच् + तुमुन् । उपचक्रमे = उप + क्रम् + लिट् ॥ २५ ॥

वाच्यान्तरम्—महीपतिना इति दर्शितविक्रिये कोपपरीतमानसे मरुतः सुते उपसान्त्वयितुं दुष्टे द्विरदे इव उपचक्रमे ॥ २५ ॥

कोषः—'आत्मजस्तनयः सूनुः सुतः पुत्रः' इत्यमरः । 'समीरमारुतमरुज्जगत्प्राणसमीरणाः' इत्यमरः । 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । 'दन्ती दन्तावल्रो हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः ॥ २५ ॥

सारार्थः—एवं पूर्वोक्तरूपेण वक्तुं प्रवृत्तं क्रुद्धं भीमं युधिष्ठिर उपशमनरूपया सान्त्वनक्रियया निवृत्तं विधातुं तत्परो बभूव यथा कश्चिद्गजारूढो मदमत्तं हस्तिनं सान्त्वनेन प्रकृतित्वं करोति ॥ २५ ॥