किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पञ्चदशः सर्गः ३३१
पञ्चदशः सर्गः ३३१
मल्लि०--अयेति । अथाग्रे । बलानामित्यर्थः । हसता तद्भङ्गदर्शनात्समय- मानेन साचिस्थिततेन तन्निवारणाय तिर्यग्व्यवस्थितेन । 'तिर्यगर्थे साचि तिरः' इत्यमरः । स्थिरकीर्तिना । स्वयमभङ्ग्त्वादिति भावः । किंचिदीषद् बायस्तं खिन्नं चेतो यस्य तेन स्वकीयगणभङ्गादीपरिखिन्नचित्तेन सेनान्या स्कन्देन । 'पार्वतीन्दनः स्कन्दः सेनानीरग्निभूर्गुहः' इत्यमरः । ते गणाः प्रमथादयो जगदिरे उक्ताः । ओष्ठ्यवर्णाभावान्निरोष्ठ्यमेतत् ॥ ७ ॥
हिन्दी—अनन्तर सेनाओंके सामने हँसते हुए उनको रोकनेके लिए तिरछे होकर रहे हुए स्थिर कीर्तिवाले और कुछ खिन्न चित्तवाले होकर सेनापति कार्तिकेय उन सैनिकोंको कहने लगे । यह निरोष्ठ्य नामक चित्रकाव्य है, इसमें ओष्ठस्थानीय वर्ण नहीं हैं ॥ ७ ॥
अथैकविंशतिभिः श्लोकैः स्कन्दवाक्यमेवाह--
मा विहासिष्ट समरं समरन्तव्यसंयतः । क्षतं क्षुण्णासुरगणैरगणेरिव किं यशः ॥ ८ ॥ ( पादान्तादियमकम् )
मल्लि०--मा विहासिष्टेत्यादि । रन्तव्यं रमणं क्रीडा । बहुलग्रहणाद्भावे तव्यप्रत्ययः । संयद्युद्धम् । 'समुदायः स्त्रियः संयत्समिदाजिरिमियुधः' इत्यमरः । समे रन्तव्यसंयती येषां ते समरन्तव्यसंयतः तुल्यक्रीडासंगरा इति तेषां संबोधनम् । यूयं समरं संग्राम मा विहासिष्ट न त्यजत । जहातेर्भाङि लुङ् । मध्यमबहुवचनम् । क्षुण्णाः पराजिता असुरगणा यैस्तैः । भवद्भिरिति शेषः । अगणैरिव गणेभ्योऽन्यै- रिव किं किमर्थं यशः क्षतं नाशितम् । नैतद्युक्तं महाशूराणां भवादृशानामित्यर्थः ८।
हिन्दी-रमण और युद्धको समान समझनेवाले हे प्रमथो ! तुमलोग संग्रामको मत छोड़ो । दैत्यगणोंको जीतनेवाले तुमलोग गणोंसे इतर ( भिन्न )के समान होकर अपने यशको क्यों नष्ट कर रहे हो ? । यह 'पादान्तादियमक' नामका चित्रकाव्य है ॥ ८ ॥
विवस्वदंशुसंश्लेषद्विगुणीकृततेजसः । अमो वो मोघमुद्गूर्णा हसन्तीव महासयः ॥ ९ ॥
मल्लि०--विवस्वदिति । विवस्वदंशुसंश्लेषणे सूर्यकिरणसंपर्केण द्विगुणी- कृतानि उत्तेजितानि तेजांसि येषां ते तथोक्ता मोघं व्यर्थम् उद्गूर्णा उद्यताः ।
३३२ किरातार्जुनीयम्
'गुरी उद्यमने' इति धातोः कर्मणि क्तः। वो युष्माकम्। अमो महासयः सङ्गा हसन्तीवेत्युत्प्रेक्षा। किं पलायमानानां खड्गैरिति हासः ॥ ९ ॥
हिन्दी—सूर्यकी किरणोंके सम्पर्कसे द्विगुण तेजवाला व्यर्थ ही उठाया गया तुमलोगोंका यह विशाल खड्ग मानों उपहास कर रहा है ॥ ९ ॥
वनेऽवने वनसदां मार्गं मार्गमुपेयुषाम्।
वाणैर्वाणैः समासक्तं शङ्केऽशं केन शाम्यति ॥ १० ॥
[ पादादियमकम् ]
मल्लि०—वन इति। वनसदां वनेचराणाम्। अवने रक्षके, वने मार्गं मृगसंबन्धिनं मार्गं पन्थानम्। उपेयुषाम्। पलायमानामित्यर्थः। युष्माकमिति शेषः। बाणो ध्वनिरेषामस्तीति तैर्बाणैर्ध्वनियुक्तैः। 'वण संशब्देने' इति धातोरर्घम्। ततः 'अर्शआदिभ्योऽच्' इत्यच्प्रत्ययः। यमकत्वाद् बवयोरभेदः। उक्तं च—'रलयोर्डलयोस्तद्वज्जशययोर्बवयोरपि। सविन्दुकाबिन्दुकयोः स्यादभेदेन कल्पनम्।' इति। वाणैः शरैः समासक्तं समासङ्गितम् अशं दुःखं तत् केन शाम्यतीति शङ्के। केनोपायेन शाम्येदिति विचारयामीत्यर्थः ॥ १० ॥
हिन्दी—वनचरोंके रक्षक वनमें रास्ते रास्तेमें प्राप्त होनेवाले (भागते हुए) तुमलोगोंके ध्वनियुक्त बाणोंसे सम्बद्ध दुःख किस उपायसे शान्त होगा ? मैं ऐसी आशङ्का कर रहा हूँ। यह 'पादादियमक' नामक चित्रकाव्यका उदाहरण है। १०।
पतितोत्तुङ्गमाहात्म्यैः संहतायतकीर्तिभिः।
गुर्वी कामापदं हन्तुं कृतमावृत्तिसाहसम् ॥ ११ ॥
मल्लि०—पातितेति। पातितं भ्रंशितम् उत्तुङ्गमहात्म्यमुन्नतभावा यैस्तैः संहता आहृता आयता विस्तुताः कीर्तयो यैस्तैः। युष्माभिरिति शेषः। कां गुर्वीमापदं हन्तुम्। न कांचिदपीत्यर्थः। आवृत्तिर्युद्धाद्विनिवृत्तिः। सैव साहसं कृतम्। अतः पापादन्यत्र किंचित्फलमस्तीति भावः। तदुक्तं मनुना—'यस्तु भीत परावृत्तः संग्रामे हन्यते परैः। भर्तुर्यद्दुष्कृतं किचित्तत्सर्वं प्रतिपद्यते॥ यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम्। भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥' इति ॥ ११ ॥
हिन्दी—उन्नत महत्त्वको भ्रष्ट करनेवाले, विस्तृत कीतिका संहार करनेवाले तुमलोगोंने कौन-सी बड़ी आपत्तिको नाश करनेके लिए युद्धसे भागने का साहस कर लिया है ? ॥ ११ ॥
पञ्चदशः सर्गः ३३३
नासुरोऽयं, न वा नागो घरसंस्थो न राक्षसः ।
ना सुखोऽयं नवाभोगो धरणिस्थो हि राजसः ॥ १२ ॥
( गोमूत्रिक बन्ध )
मल्लि०— नेति । वि.च, अयमसुरो दैत्यो न । नागो नागराजो वा पन्नगश्च न । घर इव संस्था यस्य स घरसंस्थः पर्वताकारः । 'अहार्य्यघरपर्वताः' इत्यमरः । 'संस्था व्यवस्थाप्रणिधिसमाप्त्याकारमृत्युषु' इति वैजयन्ती । राक्षसो न । किंतु अयं सुखयतीति सुखः । सुखसाध्य इत्यर्थः । नवाभोगोऽभिनवप्रयत्नः । महोत्साह इत्यर्थः । 'आभोगो वरुणच्छत्रे पूर्णतायत्नयोरपि' इति विश्वः । धरणिस्थो भूतलचारी राजसो रजोगुणप्रधानो ना पुरुषो हि । कश्चिन्मानुष इत्यर्थः । 'पुरुषाः पूरुषा नरः । मनुष्या मानुषा मर्त्या मनुजा मानवा नरा' इत्यमरः । अतो न पलायनमुचितमिति भावः । गोमूत्रिकाबन्धः—'वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः । गोमूत्रिकेति तत्प्राहुर्दुष्करं तद्विदो विदुः ।' इति लक्षणात् । षोडशकोष्ठद्वयेऽर्धद्वयं क्रमेण विलिख्यैकान्तरविनिमयेन वाचने श्लोकनिष्पत्तिरित्युद्धारः ॥ १२ ॥
हिन्दी— ( हे प्रमथो ! ) यह ( तपस्वी ) दैत्य नहीं है, न नाग है, न पर्वताकार राक्षस है, किन्तु यह सुखसाध्य और महान् उत्साहसे युक्त भूतलमें रहनेवाला रजोगुणी पुरुष है ॥ १२ ॥
मन्दमस्यन्निषुलतां घृणया मुनिरेष वः ।
प्रणुदत्यागतावज्ञं जघनेषु पशूनिव ॥ १३ ॥
मल्लि०— मन्दमिति । एष मुनिर्घृणया कृपया । इषुं लतां शाखामिव मन्दमस्यन् क्षिपन् वो युष्मान् पशूनिवागतावज्ञं यथा तथा जघनेषु प्रणुदति चोदयति । किमतः परं कष्टमस्तीति भावः ॥ १३ ॥
हिन्दी— ( हे प्रमथो ! ) यह ( तपस्वी ) कृपासे शाखाकी तरह बाणको छोड़ता हुआ तुमलोगोंको पशुओंकी तरह अनादरपूर्वक जघन स्थानोंमें प्रहार कर रहा है, ( इससे ज्यादा कष्ट क्या है ? ) यह 'गोमूत्रिका बन्ध' नामक चित्रकाव्यका उदाहरण है ॥ १३ ॥
न नोननुन्नो नुन्नोनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥ १४ ॥
( एकाक्षरः । )
३३४ | किरातार्जुनीयम्
मल्लि०—नेति। पदच्छेदस्तावत्—न ना ऊननुन्नः नुन्नोनः ना अना नानानना ननु। नुन्नः अनुन्नः ननुन्नेनः ना अनेनाः नुन्ननुन्ननुत्। अथ योजना—हे नानाननाः नानाप्रकाराण्याननानि येषां ते। नानाविधास्या इत्यर्थः। ऊनेन = निकृष्टेन नुन्नो विद्ध ऊननुन्नो यः स ना न = पुरुषो न। तथा नुन्न ऊनो येन स नुन्नोनो ना = पुरुषोऽना ननु अपुरुषः खलु। ऊनाद्भीतः पलायमानस्तु किं वक्तव्यमिति भावः। किञ्च, नुन्न इनः स्वामी यस्य स नुन्नेनः। स न भवतीति ननुन्नेनः। नञर्थस्य 'न' शब्दस्य सुप्सुपेति समासः। सनुन्नो विद्धोऽपि अनुन्नोऽविद्ध एव। यूयमनुन्नस्वामिकत्वादनुन्ना एवेति भावः। तथा नुन्ननुन्ननुदतिशयेन नुन्ना नुन्ननुन्नास्तान् दुदतीति नुन्ननुन्ननुत्। अतिपीडितपीडको ना पुरुषोऽनेना निर्दोषो न भवतीति, किन्तु सदोष एवेति। 'नातं नातिपरिक्षतम्' इति निषेधादित्यर्थः। अयं तु नैतादृश इति। न पलायितव्यमिति भावः। अयमेकव्यञ्जनः। अन्त्यस्तकारस्तु न दोषावहः 'नान्त्यवर्णस्तु भेदकः' इत्यभ्यनुज्ञानात् ॥ १४ ॥
हिन्दी—हे नानाऽऽननाः = हे नाना (अनेक) प्रकारके आननों (मुखों) वाले ! ऊननुन्नः = ऊन (निकृष्ट) से नुन्न (विद्ध) जो पुरुष है, वह ना (पुरुष) न = नहीं है। नुन्नोनः = नुन्न, (विद्ध) है ऊनः (निकृष्ट) पुरुष जिससे, वह ना = पुरुष, अना = पुरुष नहीं है और नुन्नेनः = नुन्नः (विद्ध) है इन (स्वामी) जिसका, वह नुन्नेनः = जो ऐसा नहीं है ननुन्नेनः, वह नुन्नः (विद्ध) होकर भी अनुन्नः (विद्ध) नहीं है, तुम अनुन्न (अविद्ध) स्वामीवाले होनेसे अनुन्न विद्ध नहीं हो। नुन्ननुन्ननुत् = नुन्ननुन्नान् (अत्यन्त विद्ध जनोंको) नुत्, पीड़ित करनेवाला, ना = पुरुष, अनेनाः = निर्दोष, न = नहीं होता है अर्थात् दोषी होता है (यह तपस्वी ऐसा नहीं है, इस कारण तुमलोगोंको भागना उचित नहीं है)। यह पद्य 'एकाक्षर' नामक चित्रकाव्यका उदाहरण है ॥ १४ ॥
वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान्।
प्रकृत्या ह्यमणिः श्रेयानालङ्कारश्च्युतोपलः ॥ १५ ॥
मल्लि०—वरमिति। कृताः पूर्वमुत्पादिताः पश्चाद् ध्वस्ता नष्टास्ते कृतध्वस्ताः 'पूर्वकाले'त्यादिना समासः। कृतध्वस्ता गुणा यस्य तस्मात् पुंसः। अत्यन्तमतिशयेनागुणो निर्गुणः पुमान् वरं = मनाक्प्रियः। किञ्चित्प्रिय इत्यर्थः। 'वरं क्लीबे मनाक्प्रिये' इत्यमरः। तथा हि—प्रकृत्या स्वभावेन। अमणिर्मणिरहितोऽलङ्कारो...
पञ्चदशः सर्गः [३३५]
श्रेयान्। च्युतोपलो मणिरत्नो न श्रेयान्। ‘उपलः प्रस्तरे रत्ने’ इति विश्वः। पलायितुः समरादसमर एव वरमिति भावः। अत्र समानविद्यनारोपयोः प्रतिबिम्ब-करणाद् दृष्टान्तालङ्कारः॥ १५॥
हिन्दी—पहले गुणोंको उत्पन्न करनेवाला पीछे उनको नष्ट करनेवाले पुरुषसे निर्गुण पुरुष कुछ अच्छा है। जैसे कि स्वभावसे मणिरहित अलङ्कार विशेषतः अच्छा होता है परन्तु भ्रष्ट रत्नवाला अलंकार अच्छा नहीं होता है अर्थात् युद्धसे भागनेवालेको युद्धमें न जाना ही अच्छा होता है ॥ १५ ॥
स्यन्दना नो चतुरगाः सुरेभा वाऽविपत्तयः।
स्यन्दना नो च तुरगाः सुरेभा वा विपत्तयः॥ १६॥
(समुद्गकः।)
मल्लि०—स्यन्दना इति स्यन्दन्ते गच्छन्तीति स्यन्दना जवनाः। स्यन्दना रथा नो सन्ति। नन्दगामिनस्त्वल्पम् ... चतुरं गच्छन्तीति चतुरगाः। तुरगाश्च अश्वा नो सन्ति। सुरेभाः शोभनबृंहिताः। सुरेभा वा सुरगजाश्च नो सन्ति। अविपत्तयो विपत्तिरहिताः विपत्तयो वा विगतायः पदातयो नो सन्ति। अतो न भेतव्यमिति भावः। अत्र पूर्वोत्तरार्धगतानां विशेषणानां विशेष्याणां चोद्देश्योद्देश्यीभूतानां यथासंख्यसंबन्धानुक्रमाद्यथासंख्यालंकारो यमकेन संसृष्टः॥ १६॥
हिन्दी—इस पुरुषके, स्यन्दनाः = वेगवाले, स्यन्दनाः = रथ, नो = नहीं हैं। अथवा चतुरगाः = अच्छी तरह चलनेवाले, तुरगा = घोड़े, नहीं = नहीं हैं। वा = अथवा, सुरेभा = सुन्दर आवाजवाले सुरेभाः = सुरों (देवताओं) के इभाः (हाथी) भी, नो = नहीं हैं। वा = अथवा अविपत्तयः = विपत्तिसे रहित, वि-पत्तयः = विशिष्ट, पत्तियां = पैदल सेनाएँ, भी, नो = नहीं है। (इस कारणसे तुमलोगोंको डरना उचित नहीं है)। यह 'समुद्गक' नामक चित्रकाव्यका उदाहरण है। इसमें यमक और यथासंख्य अलंकारकी संसृष्टि है ॥ १६ ॥
भवद्भिरधुनाऽरातिपरिहापितपौरुषैः।
ह्रदैरिवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्तरः॥ १७॥
मल्लि०—भवद्भिरिति। अधुनाऽरातिभिः परिहापितानि त्याजितानि पौरुषाणि यैस्तैर्भवद्भिः। अर्कनिष्पीतैरर्केण संशोषितैर्ह्रदैरिव। दुरुत्तरो दुस्तरः पङ्क इव पङ्को दुष्कीर्तिरूपः प्राप्तः ॥ १७ ॥
३३६ | किरातार्जुनीयम्
हिन्दी—इस समय शत्रुसे पुरुषार्थका त्याग कराये गये तुमलोगोंने दुःखसे सुखाये गये तालाब जैसे दुस्तर पङ्क (कीचड़) को प्राप्त करता है वैसे ही दुःखसे हटाये जानेवाला पङ्क (कलङ्क) को प्राप्त कर लिया है ॥ १७ ॥
वेत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे ।
यात किं विदिशो जेतुं तुञ्जेशो दिवि किंतया ॥ १८ ॥
(प्रतिलोमानुलोमपादः)
मल्लि०—वेत्रेति । वेत्राणि = वंशाः फलिन्यो वा । शाका बर्बराश्च कुजा वृक्षा यस्मिंस्तस्मिन् वेत्रशाककुजे । शत्रुष्णा दुष्प्रवेश इत्यर्थः । 'वेत्रं वंशफलिनीद्रोः' इति विश्वः । 'शाकः बर्बरवर्धकाः' इत्यमरः । लेशेन स्तोकेनाव्यजते कम्पत इति लेशैजः । स न भवतीति अलेशैजस्तस्मिन् । अत्यन्ताकम्पन इत्यर्थः 'एज् कम्पने' पचाद्यच् । न कोकते नादत्त इत्यकुकः ग्रहणासमर्थः शात्रवो यस्मिंस्तस्मिन् अकुकशात्रवे । 'कुक आदाने' । पचाद्यच् । शैले पर्वते । केषां भावः किता कुत्सितता तयोपलक्षिताः सन्तः । 'कुत्साप्रश्नवितर्केषु क्षेपे किं शब्द इष्यते' । इति शाश्वतः । विदिशो जेतुं यात गच्छत किम् । यातेः संप्रश्ने लोट् । मध्यमपुरुषबहुवचनम् । दिवि स्वर्गेऽपि । तुञ्जेश इति तेषां संबोधनम् । तुञ्जन्ति इति तुञ्जा हिंसका दैत्याः। 'तुजि हिंसायाम्' पचाद्यच् । तेभ्यो दैत्येभ्य ईशते इति तुञ्जेशः । ईशेः क्विप् । तेभ्योऽपि शक्ता इत्यर्थः । स्वर्गेऽप्यसुरविजयिनां युष्माकमत्र क्षुद्रस्थले क्षुद्रशत्रोः पलायनमनुचितमिति भावः ॥ १८ ॥
हिन्दी—तुमलोग बांस, शाक (बर्बर) और वृक्षोंसे युक्त अर्थात् शत्रुसे दुष्प्रवेश्य, कम्पित न होनेवाले, जहाँ ग्रहण करनेमें शत्रु असमर्थ हैं, ऐसे पर्वतमें निन्दितरूपसे उपलक्षित होते हुए अनेक दिशाओंको जीतनेके लिए जाते हो क्या ? तुमलोग स्वर्गमें भी हिंसकों (दैत्यों) से समर्थ हो । स्वर्गमें भी दैत्योंको जीतनेवाले तुमलोगोंको ऐसे क्षुद्र स्थलमें क्षुद्र शत्रुसे डरकर भागना उचित नहीं है यह भाव है । यह 'प्रतिलोमानुलोमपाद' नामक चित्रकाव्यका उदाहरण है ॥ १८ ॥
अयेशे तिष्ठति पलायनमेतद्धो न युक्तमित्याह—
अयं वः क्लैब्यमापन्नान् दृष्टपुष्टानरातिना ।
इच्छतीशश्च्युताचारान् दारानिव निगोपितुम् ॥ १९ ॥
मल्लि०—अयमिति । अयमीशः स्वामी शिवः क्लैब्यं निष्पौरुषत्वम् । आप-
पञ्चदशः सर्गः ३३७
म्नान् प्राप्तांस्तथा अरातिना दृष्टपृष्ठान् । पलायमानानित्यर्थः । वो युष्मान् व्युता- चारान् स्खलितव्रतान् दारान् कलत्राणीव । 'अथ पुंभूम्नि दाराः' इत्यमरः । निगोपितुं गोप्तुम् । ऊदित्वानिङ्विकल्पः । दारदोषं भर्तेव स्वमहिम्ना युष्मद्दोषं संवर्तितुम् । इच्छति । अतः कुतो युष्माकमनर्थ इत्यर्थः ॥ १९ ॥
हिन्दी—ये स्वामी शिवजो नपुंसकत्वको प्राप्त ( पुरुषार्थहीन ) और शत्रुने जिनकी पीठ देख ली है ( भागते हुए ) तुमलोगोंको पत्नीकी तरह रक्षा करना चाहते हैं ( तुम्हारे दोषोंको छिपाना चाहते हैं ) ॥ १९ ॥
ननु हो मथना राधो घोरा नाथमहो नु न । तयदातवदा भीमा माभीदा बत दायत ॥ २० ॥
( प्रतिलोमानुलोमार्धः )
मल्लि०—नन्विति । 'ननु' इत्यामन्त्रणे । 'हो' इत्याह्वाने । 'हे है भोस्तो समस्तो च हृतसंबोधनार्थयोः । हो हो चैवंविधो ज्ञेयो संबुद्ध्याह्वानयोरपि' । इति विश्वः । मथन्तीति मथनाः । 'मन्थ विलोडने' कर्तरि ल्युट् । राधन्ति = समर्था भवन्तीति राधः । 'राधू सामर्थ्ये, क्विप् । घोरा क्रूराः । शत्रूणामिति भावः । नाथ महयन्ति पूजयन्तीति नाथमहः । दृशिग्रहणात्कर्मण्यपपदे क्विप् । तयन्ति=रक्ष- न्तीति तया रक्षकाः । पचाद्यच् । दायन्तीति दाताः = शुद्धाः । 'दैप् शोधने' कर्तरि क्तः । वदन्तीति वदा वक्तारः । पचाद्यच् । तेषां द्वन्द्वः तयदातवदाः । भीमा भयंकराः । माभीः । नञर्थ'मा'शब्दस्य सुप्सुपेति समासः । तां ददतीति माभीदा अभयप्रदाः एवंविधा यूयमिति शेषः । 'बत' इति खेदे । बवयोरभेदः । न दायत नु न शुद्धाः किम् । 'नु' पृच्छायाम् । किंतु शुद्धा एव । न काकुरत्रानुसंधेया । 'दैप् शोधने' लोट्मध्यमपुरुषबहुवचनम् ॥ २० ॥
हिन्दी—हे सैनिको ! शत्रुओंको मथन करनेवाले, समर्थ, शत्रुओंके लिए क्रूर, अपने स्वामीकी पूजा करनेवाले, रक्षा करनेवाले, शुद्ध, वक्ता, भयङ्कर और अभयदान करनेवाले तुमलोग क्या शुद्ध नहीं हो ? ( शुद्ध ही हो ) । यह 'प्रति- लोमानुलोमार्ध' नामक चित्रकाव्यका उदाहरण है ॥ २० ॥
किं त्यक्तापास्तदेवत्वमानुष्यकपरिग्रहैः । ज्वलितान्यगुणैर्गुर्वी स्थिता तेजसि मानिता ॥ २१ ॥
मल्लि०—किमिति । अपास्तोऽवधीरतो देवत्वमानुष्यकयोः परिग्रहः स्वीकारो
१२ कि०
३३८ | किराताजुर्नीयम्
यैस्तैः । अतिदेवमानुषैरित्यर्थः । मनुष्याणां भावो मानुष्यकम् । 'योद्धादुपसंख्यानाद्बुञ्' । ज्वलितान्यदूर्तः ज्वलिता उज्ज्वलिताः । प्रकाशिता इति यावत्। अन्यगुणा अमन्दगुणा यैस्तैः । 'अन्यो विभिन्नासदृशो' इति वैजयन्ती । ईदृशैर्भवद्भिरिति शेषः । तेजसि प्रतापे स्थिता प्रतापैकशरणा धूर्वी मानिता शौर्यादिना विना किमिति त्यक्ता । किमिति निर्लज्जैः पलायन इति भावः ॥ २१ ॥
हिन्दी - देवत्व और मनुष्यत्वका अतिक्रमण करनेवाले, असाधारण गुणोंको प्रकाशित करनेवाले तुमलोगोंने प्रतापमें स्थित शूरत्वके अभिमानको क्यों छोड़ दिया ? अर्थात् क्यों निर्लज्ज होकर पलायन कर रहे हो ? ॥ २१ ॥
निशितासिरतोऽभीको न्येजतेऽमरणा रुचा ।
सारतो न विरोधी नः स्वाभासो भरवानुत ॥ २२ ॥
मल्लि०—निशितेति । हे अमरणा मरणरहिताः ! निशितासिरितोऽन्वितोऽस्य खड्गरतः । अभीको निर्भीकः । रुचा तेजसोपलक्षितः सुष्ठु आभासत इति स्वाभासो रमणीयः पचाद्यच् । उतात्यर्थमतिशयेन भरवान् । रणभरसहिष्णुरित्यर्थः । 'उतात्यर्थविकल्पयोः' इति विश्वः । ईदृशो नोऽस्माकं विरोधी शत्रुः सारतो बलतो न न्येजते न कम्पते । प्रचलतीत्यर्थः । 'एजृ कम्पने' । लट् । अतो भवद्भिरपि स्थातव्यमेव । न चलितव्यमिति भावः ॥ २२ ॥
हिन्दी--हे अमर प्रमथगण ! तीक्ष्ण खड्गको लिया हुआ, निर्भीक, तेजसे उपलक्षित, रमणीय, युद्धभारका सहिष्णु ऐसा हमलोगोंका विरोधी (शत्रु) बलके कारण कम्पित नहीं हो रहा है । (इस कारणसे तुमलोगोंको भी अचल होकर रहना चाहिए) ॥ २२ ॥
नन्वयं न चलतीति कथं ज्ञायते ? तत्राह प्रतिलोमानुलोमेन श्लोकद्वयम्—
तनुवारभसो भास्वानधीरोऽविनतोरसा ।
चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥ २३ ॥
मल्लि०—तन्विति । तनुमावृणोत्याच्छादयतीति तनुवारं=वर्म । कर्मण्यण् । जेतुं रभसो भासन इति तनुवारभसः । 'भस दीप्तौ' । पचाद्यच् । भास्वान्=तेजस्वी, चारुणा भास्वताऽविनतेनोन्नतेन । उरसा वक्षःस्थलेनोपलक्षितः । एवंविधोऽर्जुनोऽधीरो धैर्यसहितो रसितेन शब्दितेनैवाश्नाति ग्रसतीति रसिताशी तस्मिन् । रखेणैव विश्वप्राणहारिणीत्यर्थः । आभीक्ष्ण्ये णिनिः । जन्ये युद्धे । 'युद्धमायोधनं जन्यम्'
पञ्चदशः सर्गः ३३९
पञ्चदशः सर्गः ३३९
इत्यमरः । अनीतः निर्भीकः सन् को रमते=कः क्रीडति ? यदि रमत तर्ह्ययमेवेति भावः । निर्भयतयाऽङ्गदेवाश्य निश्चकत्वं निश्चीयत इत्यर्थः । पूर्वश्लोकस्यायं प्रतिलोमः ॥ ३३ ॥
हिन्दी—कवचसे शोभित, तेजस्वी, सुन्दर और उन्नत वक्षःस्थलसे उपलक्षित, ऐसा होकर भी धैर्य्यरहित, शब्द करतेहुए ही निरन्तर त्रास करनेवाले युद्धमें निर्भीक होकर कौन-सा पुरुष क्रीड़ा करता है ? (यही तपस्वी क्रीड़ा कर रहा है) ॥ ३३ ॥
अथ पञ्चभिः कुलकमाह—विभिन्नेत्यादिभिः—
विभिन्नपातिताश्वीयनिरुद्धरथवर्त्मनि ।
हतद्विपनगष्ठ्यूतरुधिराम्बुनदाकुले ॥ २४ ॥
मल्लि०—आहवं विशिनष्टि—विभिन्नानि विदारितान्यत एव पातितान्यश्वीयान्यश्वसमूहाः । 'पूर्वकाले-'ति समासः । तैरश्वसमूहैर्निरुद्धानि रथानां वर्त्मनि यस्मिंस्तथोक्ते । 'वृन्दे त्वश्वीयमाइश्ववत्' इत्यमरः । 'केशाश्वाभ्यां यञ्छावन्यतरस्याम्' इति छप्रत्ययः । हतास्ताडिता द्विपा गजा एव नगाः शैलाः । 'शैलवृक्षौ नगावगौ' इत्यमरः । तै ष्ठ्यूतानि उज्झितानि । ष्ठीवतेः कर्मणि क्तः । 'ष्ठिवोः ष्ठूढनुनासिके च' इत्यूठादेशः । तानि रुधिराण्येवाम्बूनि तेषां नदैः प्रवाहैराकुले व्याप्ते ॥ २४ ॥
हिन्दी—(युद्धका और भी विशेषण दिखलाते हैं)—विदारित अश्वसमूहोंसे जहाँ रथोंका मार्ग रुका हुआ है, ताड़ित हाथी-रूप पर्वतोंसे छोड़े गये रुधिररूप जलके प्रवाहोंसे व्याप्त (युद्धमें) ॥ २४ ॥
देवाकानिंनिकावादे
वाहिकास्वस्वकाहिवा ।
काकारेभभरेकाका
निस्वभव्यव्यभस्वनि ॥ २५ ॥
मल्लि०—देवेति । पुनः, देवानाकनयतुद्वांशयत्युत्साहयतीति देवाकानि तस्मिन् देवाकानिनि । 'कन दीप्तौ' इति धातोर्ण्यन्ताण्णिनिः । यद्वा,—'के शब्दे' इति धातोराङ्पूर्वस्य भावे ल्युटि आकानम् आश्चन्दनमीषद्रदनमिति यावत् । देवानां तच्चतोत्यर्थः । कावाद ईषद्वादो वावकलहः । 'ईषदर्थे' इति 'कु'शब्दस्य कादेशः ।
| ३४० | किरातार्जुनीयम् |
|---|
तदर्हति कावादे। अर्शआदिभ्योऽच् । वाहिका = पर्यायेण रणभारोद्वहनम्। सं पर्याये धात्वर्थनिर्देशे ण्वुल्वक्तव्यः। वाहिकया कमप्राप्तरणक्रियया सुष्ठु शोभं यथा तथाऽस्वकान्=परानाजिहीतेऽभियुङ्क्ते। योजयतीति यावत् । वाहिकास्वस्वकाहास्तस्मिन् । योद्धृधर्मो युद्ध उपचर्यते । 'ओहाङ् गतौ' इति धातोर्विच्प्रत्ययः। 'सोमपा' शब्दवत्प्रक्रिया । 'वा' शब्दश्चार्थे । कं मदोदकमाकिरन्तीति काकारा मदस्राविणः । किरतेराङ्पूर्वात्कर्मण्यण, एवंविधा इभभरा गजघटा यत्र तस्मिन् काकारेभभरे । काका इव काका गर्ह्या इति लक्षणया तेषामामन्त्रणम् । निस्ता निरुत्साहा भव्याः = सोत्साहास्तानुभयान्व्ययन्ति संवृण्वन्तीति निस्वमव्ययाः 'व्येञ् संवरणे' । 'आतोऽनुपसर्गे कः' । तैर्भासिस्त भासत इति निस्वभव्यव्ययस्तस्तस्मिन्,। 'अन्येष्वोऽपि दृश्यन्ते' इति क्वनिप् । सर्वतो भ्रमणात्सर्वतोभद्राख्यश्चित्रबन्धः । तथाह दण्डी-तदिदं सर्वतोभद्रं भ्रमणं यदि सर्वतः' इति । उद्धारस्तु-चतुष्कोष्ठे चतुरङ्गबन्धक्रमेणाद्यपङ्क्तिचतुष्टये पादचतुष्टयं विलिख्यानन्तरपङ्क्तिचतुष्टयेऽप्यधः क्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषु पङ्क्तिषु प्रथमः पादः सर्वतो वाच्यते, द्वितीयादिषु द्वितीय इत्यादि ॥ २५ ॥
हिन्दी—देवताओंको उत्साहित करनेवाले, घोड़ेसे बचनके कलहसे युक्त बारी-पारीसे युद्धके भारको प्राप्त क्रियासे अच्छी तरहसे शत्रुओंसे युद्ध करनेके साधन मद गिरानेवाली गजघटासे युक्त हे कौएके समान निन्दनीय ! उत्साहरहित और उत्साहयुक्त दोनों प्रकारके जनोंसे सवरण करनेवाले शोभित (युद्धमें) ।
इस पद्यमें चारों चरणोंमें बाएँ और दाहिने भागके अक्षर दुहराये गये हैं अतः यह सर्वतोभद्रनामक चित्रकाव्यका उदाहरण है ॥ २५ ॥
प्रवृत्तशववित्रस्ततुरगाक्षिप्तसारथौ ।
मारुतापूर्णतूणीरविक्रुष्टहतसादिनि ॥ २६ ॥
मल्लि०—प्रवृत्तेति । प्रवृत्तशवेभ्यो नृत्यत्कबन्धेभ्यो वित्रस्तैः क्षुभितैस्तुरगैराक्षिप्ता अवधूताः सारथयो यत्र तस्मिन् । तथा मारुतेनापूर्णेभ्यस्तैस्तूणीनिषङ्गेर्विक्रुष्टाः शब्दायमाना हतास्ताडिताः सादिनस्तोरङ्गिका यत्र तस्मिन् पाठान्तरे मारुतापूर्णतूणीरैर्विकृष्टा आकर्षिता अतएव हता मारिताः सादिनोऽश्ववारा यत्र तस्मिन् ॥ २६ ॥
हिन्दी—नाचते हुए कबन्धों (शिरसे रहित शवों) से डरे हुए घोड़ों
पञ्चदशः सर्गः ३४१
गिराये गये सारथियोंवाले, वायुसे पूर्ण तरकशोंसे शब्द करते हुए ताडित घुड़-सवारोंवाले ( युद्धमें ) ॥ २६ ॥
ससत्त्वरतिदेनित्यं
सदरामर्षनाशिनि ।
त्वराधिककसंनादे
रमकत्वमकर्षति ॥ २७ ॥
मल्लि० — ससत्त्वेति । ससत्त्वानां सत्त्ववतां रतिदे = रागप्रदे नित्यं सदराणां सभयानाममर्षनाशिनि = क्रोधहारिणि, त्वरयोत्साहेन अधिकं कसन्तो विकसन्तो नादा यत्र तस्मिन् । रमयतीति रमकः । रमधातोर्वुल् । तस्याकादेशः तद्भावो रमकत्वम् । रणकर्मण पररञ्जकत्वम् । अकर्षत्यपनुदति । परस्परमुत्साहं रणकर्मणा स्फोरयतीत्यर्थः ॥ २७ ॥
हिन्दी — बलवानोंको हर्ष देनेवाले और नित्य डरनेवालोंके क्रोधको हटानेवाले, उत्साहसे अधिक फैलते हुए शब्दोंसे युक्त, युद्धक्रियासे दूसरोंको प्रसन्न करनेके भावको विस्तार करनेवाले ( युद्धमें ) ।
यह पद्य मर्द्दभ्रमक-नामक चित्रकाव्यका उदाहरण है ॥ २७ ॥
आसुरे लोकवित्रासविधायिनि महाहवे ।
युष्माभिरुन्नतिं नीतं निरस्तमिह पौरुषम् ॥ २८ ॥
मल्लि०—आसुर इति । एवंविधः आसुरेऽसुरसंबन्धिनि लोकवित्रासविधायिनि=लोकभयंकरे महाहवे = महायुद्धे युष्माभिरुन्नतिं वृद्धिं नीतं प्रापितं पौरुषं पुरुषकर्म निरस्तं = नाशितम् । इह सङ्ग्रामे । कुलकम् ॥ २८ ॥
हिन्दी — ( हे सैनिको ! ) लोकको त्रस्त करनेवाले असुरोंके साथ किये गये महायुद्धमें तुमलोगोंसे बढ़ाये गये पुरुषार्थको नष्ट कर दिया ॥ २८ ॥
इति शासति सेनान्यां गच्छतस्ताननेकधा ।
निषिध्य हसता किञ्चित्तस्थे तत्रान्धकारिणा ॥ २९ ॥
( निरोष्ठ्यम् )
मल्लि०—इतीति । इति=इत्थं, सेनान्यां=स्कन्दे शासत्याज्ञापयति । अनेकधा गच्छतः पलायमानांस्तानाणान्निषिध्य=निवार्य, अन्धकारिणा = हरेण किंचिद्धसता तस्थे स्थितम् । भावे लिट् ॥ २९ ॥
| ३४२ | किरातार्जुनीयम् |
|---|
हिन्दी— इस प्रकार सेनापति कात्तिकेयके समझानेपर चारों ओर भागते हुए सैनिकोंको रोककर शिवजी कुछ हँसते हुए खड़े हुए ।
इस पद्यमें ओष्ठ्यस्थानीय वर्ण नहीं है ॥ २९ ॥
मुनीषूदहनात्तप्ताँल्लज्जया निविवृत्सतः ।
शिवः प्रह्लादयामास तान्निषेधहिमाम्बुना ॥ ३० ॥
मल्लि०— मुनीति । मुनेरिषव एव दहनस्तेनाऽऽतप्तान् पीडितांस्तथा लज्जया रणभङ्गाच्छालीनत्वेन निविवृत्सतो निर्वतितुकामान् । ‘वृद्भ्यः स्यसनोः’ इति विकल्पात्परस्मैपदम् । तान् गणान् शिवो निषेधो मा भैष्ट मा पलायतेति निवारकवचनं स एव हिमाम्बु शीतोदकं तेन । प्रह्लादयामास । रूपकालंकारः ॥ ३० ॥
हिन्दी— तपस्वी (अर्जुन) के बाणरूप अग्निसे सन्तप्त और भागनेकी इच्छा करते हुए उन सैनिकोंको शिवजीने निषेधरूप शीतल जलसे आह्लादित कर दिया ॥ ३० ॥
दूनास्तेऽरिवलादूना निरेभा बहु मेनिरे ।
भीताः शितशराभीताः शङ्करं तत्र शङ्करम् ॥ ३१ ॥
मल्लि०— दूना इति । दूनाः = शरतप्ताः 'ल्वादिभ्यः' इति निष्ठानत्वम् । अरिबलात् शत्रुबलात् । ऊना ऊनबलाः । 'पञ्चमी विभक्ते' इति पञ्चमी । निरेभाः निःशब्दाः । कुतः । भीतास्त्रस्ताः । कुतः । यतः शितैस्तीक्ष्णैः शरैरभीता अभिव्याप्ताः । इणः कर्म्मणि क्तः । ते गणास्तत्र रणे शङ्करमभयवचनेन सुखकरं शम्भुं शिवं बहु यथा तथा मेनिरेऽमन्यन्त ॥ ३१ ॥
हिन्दी— अर्जुनके बाणोंसे सन्तप्त, शत्रुके बलसे हीन बलवाले, मौन किये हुए, अर्जुनके तीखे बाणोंसे विद्ध डरे हुए वे गण युद्धमें अभय वचनसे सुख देनेवाले शङ्करको अधिक मानने लगे ॥ ३१ ॥
महेषुजलधौ शत्रोर्वर्तमाना दुरुत्तरे ।
प्राप्य पारमिवेशानमाश्वसास पताकिनी ॥ ३२ ॥
मल्लि०— महेष्विति । दुरुत्तरे = दुस्तरे शत्रोः सम्बन्धिनि महेषुजलधौ महति बाणसागरे वर्तमाना पताकिनी = सेना । ईशानं शिवं पारं परतीरमिव । 'पारावारं परार्वाची' इत्यमरः । प्राप्य, आश्वसास प्राणिति स्म ॥ ३२ ॥
पञ्चदशः सर्गः ३४३
**हिन्दी—**शत्रु (अर्जुन) के दुस्तर महान् बाणरूप समुद्र में विद्यमान शिवजी-की सेना शिवजीको पार करनेवाले तटके समान पाकर आश्वस्त हुई ॥ ३२ ॥
स बभार रणापेतां चमू पश्चादवस्थिताम् ।
पुरःसूर्यादपावृत्तां छायामिव महातरुः ॥ ३३ ॥
**मल्लि०—**स इति । स शिवो रणापेतां=रणादपावृत्तां पराङ्मुखीभूतामत एव पश्चात् पृष्ठभागेऽवस्थितां चमू पुरोऽग्रे स्थितः सूर्यः पुरःसूर्यः । रणोपमानमेषः । तस्मात्, अपावृत्तां परावृत्तां छायां महातरुरिव बभार । छायां तरुरिवात्मकशरणं तां चमूं न मुमोचेत्यर्थः ॥ ३३ ॥
**हिन्दी—**शिवजीने युद्धसे विमुख अत एव पृष्ठ भागमें अवस्थित सेनाको आगे रहे हुए सूर्यसे हटी हुई छायाको जैसे महावृक्ष धारण करता है वैसे ही धारण कर लिया अर्थात् नही छोड़ा ॥ ३३ ॥
मुञ्चतीशे शराञ्जिष्णौ पिनाकस्वनपूरितः ।
दध्वान ध्वनयन्नाशाः स्फुटन्निव धराधरः ॥ ३४ ॥
**मल्लि०—**मुञ्चतीति । ईशे=हरे कर्तरि, जिष्णावर्जुने विषये शरान्मुञ्चति सति पिनाकस्य=शिवकार्मुकस्य स्वनेन=ध्वनिना पूरितो धराधर इन्द्रकीलः स्फुटन्निव = विदीर्यमाण इवेत्युत्प्रेक्षा । आशा दिशो ध्वनयन्=शब्दयुक्ताः कुर्वन्, दध्वान = शब्दमकरोत् । 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' । इत्यमरः ॥ ३४ ॥
**हिन्दी—**शिवजीने अर्जुनके प्रति बाण छोड़नेपर शिवधनु पिनाकके शब्दके पूर्ण इन्द्रकील पर्वत मानों विदीर्ण होता हुआ दिशाओंको शब्दमय करता हुआ शब्द करने लगा ॥ ३४ ॥
तद्गणा ददृशुर्भीमं चित्रसंस्था इवाचलाः ।
विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचलाः ॥ ३५ ॥
(द्विचतुर्थयमकम्)
**मल्लि०—**तदिति । भीमं तयोर्हरपाण्डवयोः । तत् प्रसिद्धं युद्धं गणाः प्रमथाश्चित्रसंस्थाश्चित्राकारा अचलाः शैला इव । तथा चित्रे आलेख्ये, संस्था = स्थितिर्येषां ते चित्रसंस्थाश्चित्रलिखिता इव, अचला आश्चर्यवशान्निश्चलाः सन्तो विस्मयेन ददृशुः ॥ ३५ ॥
**हिन्दी—**शिवजी और अर्जुनके उस युद्धको प्रमथलोग चित्राकार पर्वतोंके
| ३४४ | किरातार्जुनीयम् |
|---|
समान और आश्चर्यसे चित्रलिखित पर्वतोंके समान निश्चल होते हुए आश्चर्यसे देखने लगे। यह पद्य द्वितीय और चतुर्थ चरणमें समान वर्णन्यास होनेसे द्विचतुर्यमक-का उदाहरण है ॥ ३५ ॥
परिमोहयमाणेन शिक्षालघवलीलया ।
जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ॥ ३६ ॥
मल्लि०—परीति । शिक्षालघवलीलयाऽभ्यासपाटवातिशयेन हेतुना परिमोहयमाणेन व्यामोहयता । 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदे प्राप्ते 'न पादम्या'त्यादिना तत्प्रतिषेधादात्मनेपदं शानच् । 'णेर्विभाषा' इति कृत्वस्य नस्य वा णत्वम् । पिनाकिना = हरेण जिष्णोरर्जुनस्येयं जैष्णवी विशिखश्रेणी बाणसंघातः परिजह्रे = निरस्ता ॥ ३६ ॥
**हिन्दी—**अधिक अभ्यासकी कुशलतासे परिमोहित करनेवाले शिवजीने अर्जुनके बाणसमूहको दूर कर डाला ॥ ३६ ॥
अवद्यन्पत्रिणः शंभोः सायकैरवसायकैः ।
पाण्डवः परिचक्राम शिक्षया रणशिक्षया ॥ ३७ ॥
( आद्यन्तयमकम् )
मल्लि०—अवद्यन्निति । पाण्डवोऽर्जुनः । अवसायकैरवसानकरैः । स्यतेर्ण्यन्तात् ण्वुल्प्रत्ययः । सायकैर्बाणैः शंभोः पत्रिणः = शरान् । अवद्यन् = खण्डयन् । द्यतेः शतृप्रत्ययः । 'ओतः श्यनि' इत्योकारलोपः । शिक्षया शक्तुं प्रभवितुमिच्छया । उत्साहेनेत्यर्थः । रणे शिक्षयाऽभ्यासेन च परिचक्राम । उत्साहेनेष्वभ्यासाच्चचारेत्यर्थः ॥ ३७ ॥
**हिन्दी—**अर्जुनने अन्त करनेवाले बाणोंसे शिवजीके बाणोंको खण्डित कर दिया, उत्साहसे और युद्धके अभ्याससे भी वे घूमने लगे ।
इस श्लोकमें चतुर्थ चरणमें 'शिक्षया रणशिक्षया' इस प्रकार आदि और अन्तमें 'शिक्षया' की आवृत्ति होनेसे आद्यन्तयमक अलंकार है ॥ ३७ ॥
चारुचुञ्चुशिरारत्नो चञ्चच्चीररुचा रुचः ।
चचार रुचिरश्चारु चारोराचारचञ्चुरः ॥ ३८ ॥
( द्वयक्षरः )
पञ्चदशः सर्गः [३४५]
मल्लि०—चारेति। चारं गतिविशेषं वेत्तीति चारचुञ्चुः। 'तेन वित्तश्चुञ्चु-
प्चणपौ' इति चुञ्चुप्प्रत्ययः। चिरमारेचयति = रिक्तीकरोति शत्रूनिति चिरारेची।
सञ्चतश्चलतश्चीरस्य = वल्कलस्य, रुचा = प्रभया। रोचत इति रुचः = शोभमानः।
'इगुपधे—'ति कः। रुचिरः = सुन्दरः। चञ्चूर्यते भृशं चरतीति चञ्चूरः।
चरतेर्यङन्तात्पचाद्यच्। 'वररुलोम्व' इति नुमागमः। 'यङोऽचि च' इति यङो
लुक्। आचारस्य = युद्धव्यवहारस्य, चञ्चूरो भृशमाचरितः स मुनिश्चारु यथा तथा
चारैश्चक्रादिद्वन्द्यंगतिविशेषैः। चचार। 'चारः प्रियाऽवृत्ते स्याद् गतौ बन्धापसर्पयोः'
इति विश्वः ॥ ३८ ॥
**हिन्दी—**गतिविशेषसे प्रसिद्ध, बहुत समय तक शत्रुओंको रिक्त करनेवाले,
हिलते हुए वल्कलकी कान्तिसे शोभित, युद्ध व्यवहारका अतिशय आचरण किये
हुए वे मुनि (अर्जुन) सुन्दर गतिभेदोंसे घूमने लगे।
इस श्लोकमें च और र इन दो अक्षरोंका अनुप्रास है ॥ ३८ ॥
स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः।
धुतोल्कानलयोगेन तुल्यमंशुमता बभौ ॥ ३९ ॥
मल्लि०—स्फुरदिति। स मुनिरर्जुनः स्फुरन्ती पिशङ्गी=पिशङ्गवर्णा मौर्वी =
ज्या यस्य तत्तथोक्तम्। 'नद्यृतश्च' इति कप्प्रत्ययः। बृहद्धनुर्गाण्डीवं, धुनानः =
कम्पयन्। उल्कैवानलस्तेन धुतो योगो येन तेन। अंशुमताऽर्केण सूर्येण तुल्यं बभौ।
उपमा ॥ ३९ ॥
**हिन्दी—**अर्जुन चमकती हुई पीली प्रत्यञ्चासे युक्त विशाल धनु (गाण्डीव)-
को कम्पित करते हुए उल्कारूप अग्निसे युक्त सूर्यके समान शोभित हुए ॥ ३९ ॥
पार्थबाणाः पशुपतेरावव्रुर्विशिखावलीम् ।
पयोमुच इवारन्धाः सावित्रीमंशुसंहतिम् ॥ ४० ॥
मल्लि०—पार्थेन। पार्थबाणा अर्जुनशराः पशुपतेर्विशिखावलीं=शरसंघातम् ।
सवितुरियं सावित्रीं ताम्। अंशुसंहति किरणसमूहम् । अरन्धा निबिडाः पयोमुचो
मेघा इव। आवव्रुस्तिरोदधुः ॥ ४० ॥
**हिन्दी—**अर्जुनके बाणने शिवजोको बाणपङ्क्तिको जैसे घने मेघ सूर्यकी
किरणपङ्क्तिका आच्छादित करते हैं उसी तरह आच्छादित कर दिया ॥ ४० ॥
१४६ | किरातार्जुनीयम्
शरवृष्टि विधूयोर्वीमुदस्तां सव्यसाचिना ।
रुरोध मार्गणैर्मार्गं तपनस्य त्रिलोचनः ॥ ४१ ॥
मल्लि०-- शरेति । त्रिलोचनः=शिवः । सव्येन सचते = समवैतीति तेन सव्यसाचिनाऽर्जुनेन । उदस्तां क्षिप्तामुर्वीं महतीं शरवृष्टिं मार्गणैः शरैर्विधूय = निरस्य तपनस्य रवेर्मार्गं रुरोधावव्रे ॥ ४१ ॥
हिन्दी— शिवजीने अर्जुनसे छोड़ी गई घनी बाणवृष्टिको अपने बाणोंसे हटाकर सूर्यके मार्गको अवरुद्ध कर डाला ॥ ४१ ॥
तेन व्यातेनिरे भीमा भीमार्जनफलाननाः ।
न नानुकम्प्य विशिखाः शिखाधरजवाससः ॥ ४२ ॥
( शृङ्खलायमकम् )
मल्लि०-- तेनेति । तेन = शिवेन भीमा भयंकरास्तथा भियो भयस्य मार्जनं निरासस्तदेव फलं प्रयोजनं येषां तान्याननान्यग्राणि येषां ते भीमार्जनफलाननाः । तथा शिखाधरा मयूरास्तेषु जातानि शिखाधरजानि = बर्हाणि तानि वासांसीव पक्षाः येषां ते शिखाधरजानि मयूरपक्षिण इत्यर्थः । विशिखा बाणा अनुकम्प्य=कृपां कृत्वा न व्यातेनिर इति न । किन्त्वनुकम्प्यैवेत्यर्थः । अनुजिघृक्षुत्वादिति भावः । संभाव्यनिषेधने द्वौ प्रतिषेधावित्युक्तम् ॥ ४२ ॥
हिन्दी— शिवजीने भयङ्कर भयनिवारणरूप प्रयोजनरूप अग्रभाग ( नोक )-वाले तथा मयूरके पंखरूप जिनके वस्त्र थे ऐसे बाणोंको दयासे नहीं छोड़ा था यह नहीं, किन्तु दयासे छोड़ा था ।
इस श्लोकमें प्रथम चरणके अन्तमें और द्वितीय चरणके आरम्भमें भीमाः इन दो वर्णोंकी और तृतीय चरणके अन्त्यमें 'शिखा( : )' और चतुर्थ चरणके आरम्भमें 'शिखा—' इन दो वर्णोंकी आवृत्तिसे 'शृङ्खलायमक' नामक अलंकार है ॥ ४२ ॥
द्युवियद्गामिनी तारसंरावविहतश्रुतिः ।
हैमीषुमाला शुशुभे विद्युतामिव संहतिः ॥ ४३ ॥
( गूढचतुर्थपादः )
मल्लि०-- द्युवियदिति । द्यां = स्वर्गं वियदन्तरिक्षं च गामिनी व्यापिनी
पञ्चदशः सर्गः ३४७
द्युवियद्गामिनी । द्वितीयाप्रकरणे श्रितादिषु गम्यादीनामुपसंख्यानात्समासः । तारेणोच्चैस्तरेण संरावेण = नादेन विहता विद्धाः श्रुतयः कर्णा यया सा तथोक्ता । हैमी हेममयी इषुमाला शिवशरावलिर्विद्युतां संहतिरिर्वोक्तविशेषणा । विद्युन्मालेव । शुशुभे चतुर्थपादवर्णानां त्रिपाद्यां संभवाद् गूढचतुर्थपादमाहुः ॥ ४३ ॥
हिन्दी—स्वर्ग और आकाशको व्याप्त करनेवाली और ऊँची आवाजसे कानोंको विद्ध करनेवाली ( फाड़नेवाली शिवजीकी सुनहली बाणपङ्क्ति बिजलीके श्रेणीकी तरह शोभित हो गई ।
इस पद्यके चतुर्थ चरणके वर्णोंका पहलेके तीन चरणोंमें सम्भव होनेसे 'गूढचतुर्थपाद' कहते हैं ॥ ४३ ॥
विलङ्घ्य पत्रिणां पङ्क्ति भिन्नः शिवशिलीमुखैः ।
ज्यायो वीर्यमुपाश्रित्य न चकम्पे कपिध्वजः ॥ ४४ ॥
मल्लि०—विलङ्घ्येति । शिवशिलीमुखैः पत्रिणां पङ्क्तिं निजशरावलिं विलङ्घ्यातिक्रम्य भिन्नो विद्धः कपिध्वजोऽर्जुनो ज्यायः = प्रशस्तम् । 'वृद्धप्रशस्ययोर्ज्यायान्' । इत्यमरः । वीर्यं सत्त्वम् । उपाश्रित्यावस्थाय, न चकम्पे = न चचाल । किन्तु तान्सहन्नवतस्थवित्यर्थः ॥ ४४ ॥
हिन्दी—शिवजीके बाणोंसे अपने बाणोंकी पङ्क्ति को काटकर विद्ध होकर अर्जुन उत्तम बलका अवलम्बन करके युद्धस्थलसे विचलित नहीं हुए ॥ ४४ ॥
जगतोशरणे युक्तो हरिकान्तः सुधासितः ।
दानवर्षी कृतार्थंसो नागराज इवाबभौ ॥ ४५ ॥
( अर्थत्रयवाची )
मल्लि०—जगतीति । अर्थत्रयवाची श्लोकोऽयम् । तत्रादौ 'अगराज' इति पदच्छेदमाश्रित्य प्रथमोऽर्थोऽभिधीयते—( १ ) ईशस्य रणे युक्तः शक्तः । अन्यत्र, जगतोशरणे = भूरक्षणे, युक्तः = स्थितः । विधिनेति शेषः । हरिः = सिंह इव कान्तो मनोहरः । अन्यत्र, हरीणा = सिंहानां कान्त आवासदानात्प्रियः । सुष्ठु दधाति = पालयति प्रजा इति सुधाः । क्विबन्तः । असितः कृष्णवर्णः । ततो विशेषणसमासः । अन्यत्र—सुधालेपद्रव्यविशेषस्तद्वत् सितो = धवलः । दानवर्षी = बहुप्रदः, कृतार्थंसः = कृतजयाभिलाषः । अन्यत्र, दानवैर्दैत्यैर्ऋषिभिः इना कामेन न च कृतार्शसा = नानाफलाभिलाषी यस्मिन्स ना = नरोऽर्जुनः । अगराजो हिमवानिव अगस्त्यावभावित्ये-
३४८ | किरातार्जुनीयम्
-कोऽर्थः ॥ ( २ ) अथ ऐरावतसाम्यमुच्यते—जगतीं=भुवं, श्यन्ति=तनुकुर्वन्तीति ते जगतीशा राक्षसास्तेषां रणस्तत्र युक्तो विहितसमर्थः । हरिकान्त इन्द्रप्रियः । उभयत्रापि समानमेतत् । सुधासितोऽमृतः स्वच्छः । एकत्र—शीलतः, अन्यत्र—वर्णत इति विवेकः । दानवर्षी = धनप्रदो मदस्रावी च । कृताशंस उभयत्र कृतजिगीषः । पार्थो नागराज इव=ऐरावत इव । आवभाविति द्वितीयोऽर्थः । ( ३ ) अथ शेषौपम्यमुच्यते—जगतोशरणे=भूरक्षणे युक्तो नियुक्तः । दैवेनेति शेषः । 'शरणं गृहरक्षित्रोः' इत्यमरः । हरिकान्तः = कृष्णप्रियः । उभयत्रापि तुल्यम् । सुष्ठु दधातीति सुधा । वसुधेति केचित् । एकदेशग्रहणात् समुदायग्रहणम् । तत्र सितो बद्धः । 'षिञ् बन्धने' क्तः । वन्यत्र—सुधयाऽमृतेन सितो बद्धः । अमृतप्रिय इत्यर्थः । दानवाश्च क्ष्म्यश्च ( ईर्लक्ष्मीश्च ताभिः ) कृताशंसो = विहितशंसः । उभयत्रापि तुल्यमेतत् । सोऽर्जुनो नागराजः=शेष इवावभाविति तृतीयोऽर्थः ॥ ४५ ॥
हिन्दी--इस श्लोकमें अर्जुन की पर्वतमें, ऐरावत हाथी में और शेषनागमें समानता दिखलाई गई है । पहले पर्वत पक्षमें—
( १ )—जगति = लोकमें, ईशरणे = शिवजीके युद्धमें, युक्तः = समर्थ, हरिकान्तः=हरि ( सिंह ) के समान कान्त ( सुन्दर ), सुधासितः = सुधाः ( प्रजाओंके पालक ) असित ( कृष्ण वर्ण ), दानवर्षी = दानकी वृष्टि करनेवाले, कृताशंसः = जयकी आशंका ( संभावना ) किये हुए अर्जुन, जगतोशरणे = जगती ( पृथ्वी ) की रक्षामें युक्तः = ब्रह्माजीसे नियुक्त, हरिकान्तः = हरि ( सिंह ) को आश्रय देनेसे, कान्तः ( प्रिय ) सुधासितः=सुधा ( चूने ) के समान सित ( शुक्लवर्ण ) । दानवर्षी=अनेक प्रकारके रत्नोंके दानकी वृष्टि करनेवाला, ऐसा अगराजः=अगों ( पर्वतों ) के राजा हिमालयके समान । आवभौ=शोभित हुए ।
( २ )—नागराज ऐरावत हाथीके पक्षमें योजना—
जगतींशरणे=जगती=पृथ्वीको जो श्यन्ति = क्षीण करते हैं ऐसे राक्षसोंके रण- ( युद्ध ) में युक्त=समर्थ । हरिकान्तः = हरि ( इन्द्र ) का कान्त=प्रिय, सुधासितः = सुधा ( अमृत ) के समान सितः = स्वच्छ । दानवर्षी=दान ( मदजल ) की वृष्टि करनेवाला, कृताशंसः = जयकी संभावनावाला ऐसे ऐरावतके समान अर्जुन शोभित हुए । अबभौ = शोभित हुए ।
( ३ )—शेषनागके पक्षमें योजना—
जगतींशरणे=जगती ( पृथ्वी ) के शरणे ( रक्षामें ) अर्थात् धारण करनेमें युक्तः=
पञ्चदशः सर्गः ३४९
ब्रह्माजीसे नियुक्त, हरिकान्तः = हरि ( भगवान् विष्णु ) के कान्तः = शयनका आधार होनेसे प्रिय। सुधासितः = सुधा ( अमृत ) के पान करानेमें, सितः = बद्ध अर्थात् आसक्त। दानवर्षा कृताशंसः = दानव, ऋषि और ( ई ) लक्ष्मीसे आशंसा ( प्रशंसा ) किये गये, ऐसे नागराज = नागोंके राजा शेषके समान, आवभौ=अर्जुन शोभित हुए। इस पद्यमें श्लेष और उपमाका सङ्कर अलङ्कार है ॥ ४५ ॥
विफलीकृतयत्नस्य क्षतबाणस्य शंभुना।
गाण्डीवधन्वनः खेभ्यो निश्चक्राम हुताशनः ॥ ४६ ॥
मल्लि०--विफलीति। शंभुना क्षतबाणस्य अत एव विफलीकृतयत्नस्य निष्फलप्रयत्नस्य, गाण्डीवं धनुर्यस्य तस्य गाण्डीवधन्वनोऽर्जुनस्य। 'वा संज्ञायाम्' इत्यनङादेशः। खेभ्य इन्द्रियरन्ध्रेभ्यः। 'खमिन्द्रिये सुखे स्वर्गे' इति विश्वः। हुताशनोऽग्निः। निश्चक्राम = निष्क्रान्तः। क्रोधादिति भावः ॥ ४६ ॥
**हिन्दी--**शिवजीसे क्षीण बाणोंवाले, निष्फल यत्नवाले, अर्जुनके इन्द्रियोंके छिद्रोंसे क्रोधके कारण आग निकल पड़ी ॥ ४६ ॥
स पिशङ्गजटावलिः किरन्नुरु तेजः परमेण मन्युना।
ज्वलितोषधिजातवेदसा हिमशैलेन समं विदिद्युते ॥ ४७ ॥
मल्लि०--स इति। पिशङ्गजटावलिः पिशङ्गजटाजूटः परमेणोत्कृष्टेन मन्युना क्रोधेन। उरु = महत्तेजः किरन् = विक्षिपन् सोऽर्जुनो ज्वलिता ओषधयस्तृणज्योतींषि जातवेदा दवाग्निश्च यस्मिंस्तेन हिमशैलेन समं=तुल्यं हिमाद्रिरिव विदिद्युते हिमाद्रिवच्छुशुभे इति बिम्बप्रतिबिम्बभावोपमा ॥ ४७ ॥
**हिन्दी--**पीली जटापङ्क्ति वाले बढ़े हुए क्रोधसे अधिक तेजको विकीर्ण करते हुए अर्जुन जलती हुई तृणज्योति और दवाग्निवाले हिमालयकी तरह शोभित हुए ॥ ४७ ॥
शतशो विशिखानवद्यते भृशमस्मै रणवेगशालिने।
प्रथयन्ननिवार्यवीर्यतां प्रजिघायेसुमघातुकं शिवः ॥ ४८ ॥
मल्लि०--शतश इति। शिवः शतशो विशिखानवद्यते खण्डयते रणवेगशालिने रणसंरम्भशोभिनेऽस्मै पार्थाय भृशमत्यर्थम्। अनिवार्यवीर्यताम्। विद्धामिति शेषः। तस्मै प्रथयन् दर्शयन्। किं तु अघातुकममारकम्। 'लष पते'--त्यादिना
| ३१० | किरातार्जुनीयम् |
|---|
हन्तेरक्वन् । इषुम् । जातावेकवचनम् । प्रजिघाय=प्रयुयुजे । 'हि गतौ' इति धातो- लिट् । 'हेरचङि' इति कुत्वम् ॥ ४८ ॥
हिन्दी--शिवजीने सैकड़ों बाणोंको खण्डित करते हुए, युद्ध-वेगसे शोभित होनेवाले अर्जुनको अपने अनिवार्य पराक्रमको दिखलाते हुए हत्या न करनेवाले बाणोंसे प्रहार किया ॥ ४८ ॥
शम्भोधनुर्मण्डलतः प्रवृत्तं तं मण्डलादंशुमिवांशुभर्तुः ।
निवारयिष्यन्विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीम् ॥ ४९ ॥
मल्लि० - शम्भोरिति । सिताश्वोऽर्जुनः शम्भोधनुर्मण्डलतो धनुर्वलयात् प्रवृत्तं निष्क्रान्तं तमिषुम् । अंशुभर्तुरर्कस्य मण्डलात् प्रवृत्तं अंशुमिव । अत्रापीषुषुज्जातावेक- वचनम् । निवारयिष्यन्=निवारयितुकामः । क्रियार्थक्रियायाम् लुटि तस्य शत्रादेशः । धरित्रीं = भुवं, शिलीमुखानां छाया शिलीमुखच्छायम् । 'छादा बाहुल्ये' इति नपुंसकत्वम् । तेन वृतां = व्याप्तां विदधे = कृतवान् । शरजालच्छायावृतां धरित्रीं मकरोदित्यर्थः । उपमालंकारः ॥ ४९ ॥
हिन्दी--अर्जुनने सूर्यमण्डलसे निकले हुए किरणके समान शिवजीके धनु- (पिनाक) से निकले हुए बाणको निवारण करनेकी इच्छा कर पृथिवीको बाणोंकी छायासे व्याप्त कर डाला ॥ ४९ ॥
घनं विदार्यार्जुनबाणपूगं ससारबाणोऽयुगलोचनस्य ।
घनं विदार्यार्जुनबाणपूगं ससारबाणोऽयुगलोचनस्य ॥ ५० ॥
मल्लि०--घनमिरिति । अयुगलोचनस्य=विषमनेत्रस्यालोचनस्य । लोच्यतेऽसौ लोचनः । कर्मणि ल्युट् । न लोचनोऽलोचनस्तस्य अलोचनस्याचाक्षुषज्ञानविषयस्य संबंधी सारो बलं बाणः शब्दताभ्यां सारबाणाभ्यां सह वर्तत इति ससारबाणः । बवयोरभेद इत्युक्तम् । न युज्यते कुत्रापोत्यपीत्ययुक्=सङ्गरहितः । क्विप् । बाणः= शरः । जातावेकवचनम् । घनं सान्द्रम् अर्जुनस्य बाणपूगं=शरव्रातं, विदार्य=विभिद्य घनं = निबिडं विदार्या भूमिकूष्माण्डयो लताविशेषा अर्जुनाः = ककुभवृक्षा बाणा नीलसैरेयकाः पूगाः क्रमुकास्तेषाम् । 'विभाषा वृक्षे—'त्यादिना द्वन्द्वैकवद्भावः । विदार्यार्जुनबाणपूगं ससार । विवेशेत्यर्थः । 'सृ गतौ' । यद्वा,—तदानीमेव युगलो- चनस्यार्जुनस्य ससारेत्यर्थः ॥ ५० ॥