भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. ३ अ. ४४ | पान ९६ प्रणम्य तं महाविष्णुं जगाद सर्वमंजसा । वृत्तांतं सोऽपि तं श्रुत्वा हर्षितस्तामुवाच ह ॥५२॥ धन्याऽसि जलधेः पुत्रि साक्षाद् दृष्टस्त्वया विभुः । पुत्रभावेन ते गेह आगमिष्यति विघ्नपः ॥५३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते महालक्ष्मीवरप्रदानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ युधिष्ठिर उवाच । तव कृष्णमुखांभोजान्निःसृतां सर्वपावनीम् । कथां श्रुत्वा न मे तृप्तिर्जायतेऽमृतपानवत् ॥१॥ ज्ञानारिर्नाम दैत्येशः कस्य पुत्रो बभूव ह । किं कर्म तस्य यत् कृपण चेष्टितं वद विस्तरात् ॥२॥ यदर्थं गणराजः स देहधारी बभूव ह । न सामान्यं चरित्रं वै दैत्येशस्य जगद्गुरो ॥३॥ कथं विष्णोश्च पुत्रोऽभूद्गणेशो ब्रह्मनायकः । चरित्रं किं कृतं तेन विस्तराद्वद केशव ॥४॥ मुद्गल उवाच । युधिष्ठिरस्य भावं स ज्ञात्वा वृष्णिकुलोद्भवः । नारायणः कथां तस्मा अवदद्भवनाशिनीम् ॥५॥ श्रीकृष्ण उवाच । युधिष्ठिर कथां रम्यां शृणु पापापनोदिनीम् । ब्रह्मभूयप्रदां ढुंढेः सुचरित्राश्रितां प्रभोः ॥६॥ दुर्बुद्धिर्नाम दैत्येशो हतो विघ्नहरेण च । शिवपुत्रस्वरूपेण त्रैलोक्यविजयी पुरा ॥७॥ तस्य पुत्रोऽयमुत्पन्नः संस्थितः स्वगृहे तथा । बालभावाच्च धर्मज्ञाऽभवत् ज्ञानारिामकः ॥८॥ प्रह्लादः स्वसुतां तस्मै ददौ हर्षसमन्वितः । रूपलावण्यसंयुक्तां सुकलां नामतः स्वयम् ॥९॥ स तु यौवनमापन्नो दुर्मतिं पितरं सदा । सस्मार दुःखसंयुक्तो गणेशेन हतं पुरा ॥१०॥ स शुक्रमुपसंगम्य विद्यां पंचाक्षरीमगात् । शैवीं तया वने गत्वाऽऽराधयामास शंकरम् ॥११॥ वायुभक्षो महादैत्यो ज्ञानारिर्यत्नमास्थितः । तताप तप उग्रं स वर्षाणामयुतं प्रभो ॥१२॥ ततस्तं प्रययौ शंभुः पार्वत्या सहितः स्वयम् । उवाच तं महाभक्तं भक्तवाञ्छाप्रपूरकः ॥१३॥ श्रीशिव उवाच । वरं वृणु महाभाग तपसा तोषितस्त्वया । दास्यामि वाञ्छितं दैत्य यद्यपि स्यात् सुदुर्लभम् ॥१४॥ शिवस्य वचनं श्रुत्वा प्रबुद्धो दैत्यपुंगवः । दृष्ट्वा शंभुं मुदा युक्तः प्रणाम कृतांजलिः ॥१५॥ प्रणम्य पूजयामास ततस्तं दैत्यपः पुनः । तुष्टाव सुस्थिरो भूत्वा शंकरं भक्तवत्सलम् ॥१६॥ ज्ञानारिरुवाच । नमस्ते शंकरायाैव पार्वतीसहिताय ते । वृषध्वजाय शैलादिवाहनाय नमो नमः ॥१७॥ अव्यक्तदेवाय च शिवाय शूलप्रधारिणे । निर्गुणाय गुणानां ते चालकाय नमो नमः ॥१८॥ सदाशिवाय मायाया आधाराय नमो नमः ।

मायामोहविहीनाय शंभवे ते नमो नमः ॥१९॥ सृष्टेः कर्त्रे च पात्रे ते संहर्त्रे त्रिस्वरूपिणे । अनाथाय च सर्वेषां नाथाय परमात्मने ॥२०॥ चराचरस्वरूपाय नमोऽचरचरात्मने । महादेवाय देवानां पतये ते नमो नमः ॥२१॥ मनोवागतिरूपाय योगिध्येयाय ते नमः । योगिनां पतये चैव महेश्वर नमोऽस्तु ते ॥२२॥ धन्यो वंशो मदीयोऽद्य येन दृष्टो महेश्वरः । तपो ज्ञानं पिता माता धन्या मे नाऽत्र संशयः ॥२३॥ प्रसन्नोऽसि महेशान तदा देहि महाप्रभो । चराचरस्य वै राज्यं तस्मान् मृत्युर्न मे भवेत् ॥२४॥ यद्यदिच्छामि देवेश तत्तत् सिद्ध्यतु सर्वदा । आरोग्यादि समायुक्तं मां कुरुष्व सदाशिव ॥२५॥ तथेति शिव ऊचे तमंतर्धानं चकार ह । स दैत्यो हर्षितोऽत्यंतं स्वगृहं प्रत्यपद्यत ॥२६॥ ज्ञानारिकृतमेतत्तु स्तोत्रं पठति यो नरः । शृणोति शंकरस्तस्मै वाञ्छितं ददते परम् ॥२७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते ज्ञानारिवरप्राप्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । ज्ञानारिर्वरसंयुक्तोऽभवद्दैत्यैः प्रपूजितः । शुक्रेणाऽऽगत्य विप्रैः सोऽभिषिक्तो राज्यकर्मणि ॥१॥ नमुचिः शंबरः कालासुरश्चैव प्रतापवान् । जंभो बलासुरः पंच प्रधानास्तस्य चाऽभवन् ॥२॥ नानादैत्य- गणैर्युक्तः पृथिवीं सप्तसागराम् । दैत्यो विजिग्ये सद्वीपां तथा पातालमोजसा ॥३॥ ततः स्वर्गं ययौ दैत्यो दैत्यपैश्च समावृतः । इंद्रः सुरगणैः सार्धं पपाल भयसंकुलः ॥४॥ ज्ञानारिः सत्यलोकं च ययौ दैत्यसमन्वितः । तत्र ब्रह्मस्थितो देवैर्ज्ञात्वा दैत्यं पपाल सः ॥५॥ विष्णुर्वैकुंठमुत्सृज्य पपाल च युधिष्ठिर । दैत्यस्तत्र समागम्य हर्षितः संबभूव ह ॥६॥ जगाम तत आनंदात् कैलासं दैत्यनायकः । शंकरं प्रणिपत्याऽऽह कैलासं देहि मे प्रभो ॥७॥ नोचेद्युद्धेन जेष्यामि त्वामहं नात्र संशयः । शंकरः क्षुभितो भूत्वा कंपितः प्रददौ तथा ॥८॥ पपाल भयसंयुक्तः सामरः स वनं ययौ । कैलासे संस्थितो दैत्यो ननंद भृशमोहितः ॥९॥ ततः स्वर्गेषु दैत्येशान् स्थापयामास निर्भयः । ययौ स्वनगरे धर्मं दैत्यपैः संवृतो बभौ ॥१०॥ सुकलायां महादैत्यात् पुत्रोऽभूच्च युधिष्ठिर । सुमुहूर्ते महातेजा रूपेणाऽप्रतिमः परः ॥११॥ पुत्रजन्मप्रहृष्टः स ददौ दानानि भूमिप । जातकर्मादिकं कर्म चकार विधिपूर्वकम् ॥१२॥ सदा कर्मविनाशार्थं प्रेषयामास दैत्यपान् । तैः सर्वत्र

खं. ३ अ. ४५ [space] पान ९८ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ कृतो नाशः कर्मणां भूममंडले ॥१३॥ न स्वाहा न वषट्कारो न स्वधा कुत्रचित् प्रभो । कर्महीनतया देवा दुःखिता अभवंस्ततः ॥१४॥ उपोषणसमायुक्ता विचारं चक्रुरादरात् । ज्ञानारिनाशनार्थाय न प्रापुस्ते विचक्षणाः ॥१५॥ गते बहुतेरे काले किं कुर्यामिति विह्वलाः । तत्र विष्णुरुवाचेदं वचनं हितकारकम् ॥१६॥ श्रीविष्णुरुवाच । चराचरमयं सर्वं तस्मात्तस्य भयं नहि । अतो विघ्नेश्वरं देवा भजामाऽत्र न संशयः ॥१७॥ स वै बुद्धिपतिः साक्षाद्बुद्ध्या छिद्रं प्रकाशयेत् । तेन तं निहनिष्यामः सिद्धिदाता स नो भवेत् ॥१८॥ विष्णोर्वचनमाकर्ण्य साधु साधु दिवौकसः । ऊचुस्तं ते ततो ढुंढिमभजन् भक्तिसंयुताः ॥१९॥ दशाक्षरेण मंत्रेण ध्यात्वा देवं गजाननम् । अतुष्यन्नमराः सर्वे विभो नानातपोन्विताः ॥२०॥ गते वर्षे गणाधीशः प्रसन्नः स समाययौ । रात्रौ स्वप्ने च लक्ष्म्यास्तामुवाच वचनं हितम् ॥२१॥ शृणु मातस्त्वया पूर्वं याचितः पुत्रकाम्यया । सोऽहं ते पुत्रभावेन संस्थितः पश्य भामिनि ॥२२॥ एवमुक्त्वांतर्दधेऽसौ गणेशो गणवल्लभः । लक्ष्म्युत्संगे ततो बालो भूत्वा चिक्रीड विघ्नपः ॥२३॥ जजागार महालक्ष्मीर्गणेशं मनसाऽस्मरत् । ददर्श निजशय्यायां बालं शुंडाधरं परम् ॥२४॥ विस्मिता हर्षिताऽत्यंतं नारायणमुवाच ह । वृत्तांतं सा महाभागा दर्शयामास विघ्नपम् ॥२५॥ सस्त्रीकः प्रणनामाऽथ तुष्टाव गणपं प्रभुम् । गाणपत्यैर्महासूक्तैर्हर्षयुक्तश्च माधवः ॥२६॥ धन्योऽहं सर्वभावेन त्वदंघ्रियुगदर्शनात् । पुत्रभावेन मां पालयसि नाथ न संशयः ॥२७॥ ततस्तत्रामराः सर्वे मुनयश्च समागताः । विस्मितास्तुष्टुवस्तं ते नानास्तोत्रै- र्युधिष्ठिर ॥२८॥ ततस्ते जातकर्माऽपि चक्रुः परमभाविताः । एकादशदिने तस्य मुनयो नाम चक्रिरे ॥२९॥ द्वंद्वभावविहीनो- ऽयं साक्षादानंददायकः । समो द्वंद्रेषु सर्वेषु तद्विकारविवर्जितः ॥३०॥ अतो नामाऽस्य देवेशाः पूर्णानंद इति स्फुटम् । कुरुध्वं सर्वदाऽऽनंददायको नो भविष्यति ॥३१॥ तथेति नाम तैः सर्वैः कृतं तस्य महात्मनः । चकार व्रतबंधं च पंचमे विष्णुरव्ययः ॥३२॥ कश्यपस्य गृहे देव्यौ संभूते पुत्रिकात्मिके । विद्याऽविद्ये ततोऽदित्यां तपसाऽऽराधिते विभो ॥३३॥ तस्मै ददौ मुदा युक्तः कश्यपः संप्रहर्षितः । ननाम पूर्णानंदाय विप्रेशो भक्तिसंयुक्तः ॥३४॥ द्वादशाब्दवयो युक्तो बभूव गणनायकः । बालक्रीडनकेनैव मोहयामास देवपान् ॥३५॥ स्तनपानादिकं तस्य भोजनाच्छादनादिकम् । लक्ष्मीः स्वयं चकारैव हर्षयुक्तेन चेतसा ॥३६॥ विष्णुस्तं लालयामास नित्यं देवगणैर्वृतः । जामातरं कश्यपश्च तथा विप्रैर्युधिष्ठिर ॥३७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते पूर्णानंदावतारो नाम पंचचत्वारिंशोऽध्यायः ॥ ❖❖❖ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖

खं. ३ अ. ४६ पान ९९ ॥ श्रीगणेशाय नमः ॥ युधिष्ठिर उवाच । कृष्ण कृष्ण महाभाग वद दैत्यस्य चेष्टितम् । पूर्णानंदः कथं दैत्यं जघान कौतुकं महत् ॥१॥ चराचराङ्गयं तस्य नास्ति नारायण प्रभो । अत आश्चर्यभूतं वै चरित्रं मे प्रभासते ॥२॥ मुद्गल उवाच । युधिष्ठिर- वचः श्रुत्वा कृष्णस्तं प्रत्युवाच यत् । तदेव शृणु दक्ष त्वं चेष्टितं गणपस्य च ॥३॥ श्रीकृष्ण उवाच । पुत्रो बभूव दैत्यस्य ज्ञानारेः सर्वसंमतः । एकादशदिने तत्र ब्राह्मणा प्रययुर्गृहम् ॥४॥ सुबोध इति नाम्ना तं चक्रुर्दैत्येशसत्तमाः । द्विजेरिता द्विजेभ्यस्ते ददुर्दानानि हर्षिताः ॥५॥ स तु ज्ञानसमायुक्तो गाणेशो दैत्यजो नृपः । बालभावेऽपि विघ्नेशं चिंतयामास सर्वदा ॥६॥ स्तनपानादिकं बालः सस्मार न कदाचन । माता तस्मै यदा स्मृत्वा स्तनपानं ददौ पपौ ॥७॥ एवं सोऽपि स्वमातृस्थः स्तनपानं चकार ह । सदा ध्यानसमायुक्तः सस्मार गणपं हृदि ॥८॥ ततः पंच तथा सप्त मासास्तस्य गता विभो । वयसः स तदा चक्रे क्रीडनं शृणु तत्प्रभो ॥९॥ धूलिमध्ये स्वहस्तेन चकार गणपाकृतिम् । चिक्षेप तत्र धूलिं पूजोपचारककारणात् ॥१०॥ त्रिकालपूजनं तत्र चकार नियमेन सः । ध्यानयुक्तेन विघ्नेशमभजच्च ततः परम् ॥११॥ एकदा भोजनार्थं च संस्थितो दैत्यनायकः । ज्ञानारिस्तं ददर्शैव क्रीडंतं बालभावतः ॥१२॥ गणेशाकारमूर्तिं वै भूमिमध्ये चकार सः । पूजयामास तां पुत्रस्ततो धूल्युपचारकैः ॥१३॥ ततोऽतिकुपितः पत्नीमूचिवान् विस्मयान्वितः । पितुर्मम निहंतारं भजतेऽयं तवात्मजः ॥१४॥ अधुना निश्चयाभावान्न सुतं हन्मि ते प्रिये । सावधानमना भूत्वा चेष्टाहीनं सुतं कुरु ॥१५॥ पितृहंतारमेवायं करोति तनयो यतः । पुनर्हष्टो मया चेत्तं हनिष्यामि सुतं प्रिये ॥१६॥ सा तथेति तमुच्चार्य स्थिता विनयसंयुता । पतिव्रता महाभागा पतिवाक्यपराऽभवत् ॥१७॥ भर्तुर्गमनकाले सा संयता पुत्रमाददे । लालयामास तं तत्र न पश्यति यथा नृपः ॥१८॥ ततः सुबोधनामाऽसौ वर्षादूर्ध्वं वयःस्थितः । चकार भाषणं तत्र वाचाऽस्पष्टस्वरूपया ॥१९॥ नमो हेरंब विघ्नेश गणेशाय महोदर । लंबोदराय विकटाय नमो ढुंढये नमः ॥२०॥ इत्यादिभावयुक्तश्च सस्मार गणपं सदा । अनन्यमनसा धर्मं तथा पूजापरायणः ॥२१॥ माताऽऽगृह्य ततः स्नेहवशात्पुत्रं युधिष्ठिर । भर्त्रा गमनकाले सा दूरं चक्रे सखीजनैः ॥२२॥ यत्नमास्थाय सा देवी पुत्रं नित्यं ररक्ष ह । कदाचित् सा स्वपतिनाऽऽज्ञप्ता पुत्रं नयस्व च ॥२३॥ निद्रितोऽयं सुतः स्वामिन्नेवं प्रोच्य महासती । कालातिक्रमणं चक्रे दुःखयुक्ता युधिष्ठिर ॥२४॥ पंचमे व्रतबंधं च ज्ञानारिस्तस्य हर्षितः । चकार स सुतस्तत्र गणेशं मनसा स्मरन् ॥२५॥ कर्मभंगभयात्

सोऽपि पूजां चक्रे सुमानसीम् । ततः कर्मसमाप्तौ वै ननाम सकलान्नृप ॥२६॥ ततो गुरुकुले राज्ञा स्थापितोऽभूत् सुबोधकः । तत्र दैत्यसुताः सर्वे नानारूपाः स्थिता बभुः ॥२७॥ शुक्रशिष्या महाभागाः तान् सर्वान् यत्नतः सदा । विद्यां तां शिक्षयामासुरासुरीं देवमोहिनीम् ॥२८॥ तत्राऽयं राजपुत्रश्च गुरुभिर्मानितो भृशम् । अतिष्ठद्विघ्नराजं स संस्मरन् भक्तिलालसः ॥२९॥ विद्यां शिक्षयितुं राजपुत्रो गुरुभिरासुरीम् । सम्मानितश्च तान् सोऽपि नमस्कृत्य स्थितो- ऽभवत् ॥३०॥ गुरुभिः कथितं यच्च श्रुत्वा विस्मितमानसः । उवाच तान् महाबुद्धिः सुबोधो विषयात्मकान् ॥३१॥ सुबोध उवाच । ब्राह्मणा ब्रह्मनिष्ठाश्च सदा योगपरायणाः । गाणपत्या विशेषेण भजंते गणनायकम् ॥३२॥ भेदाभेदादिभिर्हीने गणेशार्थे विचक्षणाः । मोहदामासुरीं विद्यां त्यक्त्वा वंद्या भवंत्यतः ॥३३॥ भवंतो ज्ञानशीलाश्च किं मां वदथ विप्रपाः । गणेशं सर्वपूज्यं वै त्यक्त्वा मोहप्रदं परम् ॥३४॥ यदा स्वधर्मनिष्ठाश्चेद्व्राह्मणा वचनं तदा । तेषां ग्राह्यं न संदेहो नान्यथा मोहकं कदा ॥३५॥ गुणयुक्तविहीनाश्चेद्व्राह्मणा मानवैः सदा । वंदनीया न संदेहः पूज्या सर्वत्र संमताः ॥३६॥ अतोऽहं ब्राह्मणान् सर्वान्नमामि वचनं तथा । हितं चेत्तद् ग्रहीष्यामि नान्यथा गुरवः कदा ॥३७॥ श्रीकृष्ण उवाच । सुबोधस्य वचः श्रुत्वा विस्मितास्ते महर्षयः । ऊचुस्ते दैत्यपुत्रं वै शृणु धर्मं सुखप्रदम् ॥३८॥ दैत्याचार्या ऊचुः । सुबोध त्वं च बालोऽसि योगं वदसि सूत्तमम् । स्वधर्मादि समायुक्तं साक्षाद्योगीश्वरो यथा ॥३९॥ न त्वया वेदविद्या या शिक्षिता सा महामते । तथाऽपि कथमेतत्ते ज्ञानं प्राप्तं वदस्व भोः ॥४०॥ सुबोध उवाच । माता गर्भवती मे गता पितृगृहं एकदा । तत्राऽऽययौ महाभागः शुकः सर्वार्थकोविदः ॥४१॥ तं प्रणम्य स योगीशं प्रह्लादो हर्षसंयुतः । संपूज्य तं महात्मानं पप्रच्छ विनयान्वितः ॥४२॥ प्रह्लाद उवाच । व्यासपुत्र महायोगिन् शुक साक्षाच्छिवः स्वयम् । त्वं जातोऽसि न संदेहो योगींद्राणां गुरोर्गुरुः ॥४३॥ पूर्वपुण्य- बलेनैव प्राप्तं ते दर्शनं महत् । अतस्त्वां परिपृच्छामि वद त्वं करुणानिधे ॥४४॥ सर्वमान्यं च सर्वेषां योगशांतिप्रदं भवेत् । नानामतविमोहस्य छेदकं वद विस्तरात् ॥४५॥ सुबोध उवाच । प्रह्लादस्य वचो रम्यं श्रुत्वा योगींद्रसत्तमः । जगाद तं महाभागं योगशांतिपरायणम् ॥४६॥ श्रीशुक उवाच । प्रह्लाद त्वं महाभागाऽसि सुज्ञो योगधारकः । अतस्त्वां हि विशेषेण वदामि हितकारकम् ॥४७॥ सर्वमान्यं तथा राजन् सर्वेभ्यः शांतिदायकम् । नानामतेषु सेव्यं यत् कथयामि सविस्तरम् ॥४८॥ एकदा नैमिषारण्ये समाजग्मुर्महर्षयः । ब्रह्मांडस्था महाभागा ब्रह्मयज्ञस्य कारणात् ॥४९॥ यत्र योगमयी

सं. ३ अ. ४७ | पान १०१

गाथा वर्तते दानवोत्तम । वेदेषु स ब्रह्मयज्ञ इत्युक्तो वेदवादिभिः ॥५०॥ मरीचिः कश्यपश्चैव कण्वोऽत्रिः पुलहः क्रतुः । विश्वामित्रो महातेजा याज्ञवल्क्यस्तथाऽऽरुणिः ॥५१॥ अष्टावक्रो वसिष्ठश्च भरद्वाजः पराशरः । व्यासः परशुरामः श्वेतकेतु- र्मुद्गलो मुनिः ॥५२॥ अगस्त्यो हनुमांश्चैव राक्षसश्च विभीषणः । अश्वत्थामा गृत्समदः कृपश्चैव प्रतापवान् ॥५३॥ मार्कंडेयो मृकंडश्च बकदाल्भ्यस्तथा विभो । नारदः कपिलो रैभ्यः कर्दमश्च महायशाः ॥५४॥ एको द्वितस्त्रितश्चैव देवलो ह्यसितस्तथा । पुलस्त्यश्च भृगुश्चैव च्यवनो गौतमो मुनिः ॥५५॥ अंगिरा वै दीर्घतमा उतथ्यो गालवस्तथा । दधीचिरुशना जीवो जमदग्निर्महामुनिः ॥५६॥ वैशंपायन एवं वै शौनकः शुनकः प्रभो । वामदेवः सुमंतुश्च पैलः शाकलको मुनिः ॥५७॥ जैमिनिर्धौम्यकाद्याश्च स शिष्यास्तत्र ते ययुः । अन्ये नाना मुनिवरा हर्षयुक्ता ययुः किल ॥५८॥ दत्तात्रेयश्च दुर्वासा निदाघो भरतो जडः । सनातनः सनंदः सनत्कुमारक आययुः ॥५९॥ अहं रिभुश्च सनक इत्याद्या बहवोऽपरे । अवधूता योगिनश्च जग्मुर्यज्ञस्य दर्शनात् ॥६०॥ इंद्रो ब्रह्मा तथा विष्णुः शंकरो भानुरेव च । सस्त्रीका देवराजाश्च देवा अन्ये समाययुः ॥६१॥ शेषो वासुकिनागश्च कंबलोऽश्वतरस्तथा । तक्षकाद्या महाभागा नागास्तत्र समाययुः ॥६२॥ गंधर्वाश्चारणा- श्चैव सिद्धाः साध्यगणास्तथा । आदित्या वसवो यक्षा आययुश्चाप्सरोवराः ॥६३॥ कर्मनिष्ठास्तपोनिष्ठा ज्ञाननिष्ठाश्च योगिनः । नानादेवरताः सर्वे आययुस्तत्र मानद ॥६४॥ प्रह्लाद ब्रह्मयज्ञस्य दर्शनार्थं विशेषतः । तत्रैव निश्चये सक्ताः सर्वमान्येऽभवञ्जनाः ॥६५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते ब्रह्मयज्ञवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ श्रीशुक उवाच । तत्र नानाकथां चक्रुर्नानामतविकासिनीम् । स्वस्वबुद्ध्या विशेषेण मुख्याः प्रह्लाद आदरात् ॥१॥ केचिदाहुर्विधातारं विष्णुं शक्तिं शिवं रविम् । ब्रह्मरूपं गणेशानं नानामतपरायणाः ॥२॥ केचिदन्नं च प्राणं च मनोविज्ञानकं तथा । आनंदं सोऽहमेकं वै चैतन्यं बिंदुकं परे ॥३॥ बोधमात्मानमेके च सांख्यं कर्म तथाऽपरे । सममव्यक्तरूपं ते आहुर्ब्रह्म तथाऽपरम् ॥४॥ स्वसंवेद्यं तथा केचिन्निर्वृत्तिं शांतिरूपकम् । योगमध्यात्मरूपं त आहुर्वेदपरायणाः ॥५॥ असत्यं सत्यमेके च पूर्णानंदं तथाऽसुर । सहजं च परं ब्रह्म वादयुक्ता बभूविरे ॥६॥

खं. ३ अ. ४७ पान १०२ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ निश्चयस्तत्र दैत्येश न बभूव मतैषिणाम् । स्वस्वज्ञानसमायुक्ता वादं चक्रुरपंडिताः ॥७॥ ततो वादस्य शांत्यर्थमवोचद् विष्णुरव्ययः । सर्वान् समागतांस्तत्र सर्वज्ञः शंकरेरितः ॥८॥ श्रीविष्णुरुवाच । वेदा गुरुस्वरूपाश्च सर्वेषां नात्र संशयः । तैर्यत् संपादितं देव मुनयः सर्व आगताः ॥९॥ संपाद्यतां विशेषेण ब्रह्मणो निश्चयार्थिनः । सुखं तदेव सर्वेषां सर्वमान्यं भविष्यति ॥१०॥ वेदैः स्वानुभवं गीतं याथातथ्यं मुनीश्वराः । अतो वेदैश्च सर्वेषां ज्ञानं संजायते परम् ॥११॥ योगादिभिर्जनाः केचिन् मुनयो देवराक्षसाः । साक्षाद्रूपं च तद्ब्रह्म कुर्वते नात्र संशयः ॥१२॥ तथापि वेदसंमान्यं वचस्तेषां न विद्यते । वेदानां न समो विप्रा योगज्ञः कुत्र दृश्यते ॥१३॥ संपूर्णयोगिनो वेदा अतस्ते गुरवो मताः । महाभागाः स्मरध्वं तांस्तदा निःसंशयो भवेत् ॥१४॥ ततो मुनिगणाः सर्वे योगिनो देवनायकाः। साधु साधु समृचुस्तं विष्णुं बुद्धिमतां वरम् ॥१५॥ ततः शंकरमुख्यैस्तैः संस्मृताः कार्यसिद्धये । सांगाः समाययुर्वेदा ओंकारेण समन्विताः ॥१६॥ तान् दृष्ट्वा सहसोत्थाय देवाः सर्षिगणाः परे । प्रणम्य पूजयामासुः कृतांजलिपुटाः पुरः ॥१७॥ आसनेषु समासीनाः सोंकारा वेदमुख्यकाः। ऊचुस्तान् शिवमुख्यान् वै प्रहृष्टमनसोऽभवन् ॥१८॥ वेदा ऊचुः । किमर्थं स्मरणं देवा मुनयश्च कृतं जनाः । अस्माकं ब्रूत कार्यं तत् करिष्यामो न संशयः ॥१९॥ वेदानां वचनं श्रुत्वा शिवस्तानब्रवीद्वचः । विनयेन विशेषज्ञो निश्चयार्थं हितैषिणाम् ॥२०॥ शिव उवाच । ब्रह्मयज्ञः समारब्धोऽस्माभिः सर्वैर्हितेप्सुभिः । तत्र वादसमायुक्ता न तदंतं लभामहे ॥२१॥ अतो भवत्स्मृतिर्वेदाः कृताऽस्माभिर्विशेषतः । निश्चयं गुरवो यूयं वदध्वं भेदनाशकम् ॥२२॥ योगिनो न भवतीह कदापि च भवत्समाः । भवदूचःप्रमाणेने योगज्ञा वयमप्युत ॥२३॥ शिवस्य वचनं श्रुत्वा वेदास्तत्र जगुर्वचः । देवान् मुनीन् जनान् सर्वान् दीनपा असुरेश्वर ॥२४॥ वेदा ऊचुः । ब्रह्मयज्ञस्य पारं वै गमिष्यामः कथं वयम् । अक्षरात्मक- देहत्वात्तथापि कथयामहे ॥२५॥ न वयं ब्रह्मरूपाश्च ब्रह्मज्ञाः किंचिदप्यहो । योगमार्गबलेनैव वदिष्यामो यथातथम् ॥२६॥ प्रत्येकनिश्चयं देवाः शृणुत ब्रह्मधारणम् । येन संशयसंहीना गमिष्यथ परां गतिम् ॥२७॥ ब्रह्म नानाविधं प्रोक्तं मया योगबलेन च । प्रज्ञानादिमहावाक्यैस्तेषु योगो विशिष्यते ॥२८॥ सर्वब्रह्मसुयोगस्य स्थानं योगात्मकं भवेत् । योगे ब्रह्माणि सर्वाणि तदाकाराणि वर्णितम् ॥२९॥ न योगात् परं ब्रह्म योगशांत्या प्रलभ्यते । ब्रह्मणस्पतिरेकोऽयं मया प्रोक्तो गणेश्वरः ॥३०॥ ब्रह्मणां सकलानां च पातृपालयितृत्वतः । तं भजध्वं सुरश्रेष्ठा मुनयो भक्तिसंयुताः ॥३१॥ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸

[सं. ३ अ. ४७] [पान १०३]

भवंति ब्रह्मभूताः सर्वे जनास्तेन निश्चितम् । एवमुक्त्वा बह्वृचस्तु तूष्णींभावधरोऽभवत् ॥३२॥ ततो यजुः स्वयं साक्षाद- वोचत् सर्वसंसदि । ब्रह्मप्रदं च वचनं तत्र स्वानुभवात्मकम् ॥३३॥ यजुरुवाच । नानाविधं मया ब्रह्म वर्णितं योगसेवया । महावाक्यैश्च सर्वज्ञाः क्रमार्थं नात्र संशयः ॥३४॥ तत्र योगस्वरूपाख्यमांत्यं ब्रह्म विशिष्यते । सर्वब्रह्मसुयोगेन योग स्तेन प्रकथ्यते ॥३५॥ तदेव गणराजश्च भक्तैः संप्रार्थितः पुरा । योगप्राप्त्यर्थमत्यंतं तेन साकारकोऽभवत् ॥३६॥ गणः समूह- रूपाख्यः समूहा ब्रह्मरूपिणः । तेषां स्वामी न संदेहस्तं भजध्वं विधानतः ॥३७॥ अन्नानां सकलानां च सदैवकानेकरूपिणाम् । समूहे ब्रह्म ज्ञातव्यमन्नात्मकमिति श्रुतिः ॥३८॥ नानाविधानि च ब्रह्माण्येवं भो दैवतर्षयः । ज्ञातव्यानि विचारेण गणरूपाणि निश्चितम् ॥३९॥ अतो गणेशभक्त्या वै सकलं सुलभं भवेत् । ब्रह्मभूयप्रदः प्रोक्तो मया योगेन योगपः ॥४०॥ इत्युक्त्वा विररामाऽथ यजुर्योगविदां वरम् । उवाचाऽथ ततः साम ब्रह्म निर्णयकारणम् ॥४१॥ साम उवाच । योगसेवनसामर्थ्यात् समर्थोऽहं च वर्णने । किंचित् शृणुत देवेशा ब्रह्मणो मुनयो वचः ॥४२॥ प्रोक्तानि नाना ब्रह्माणि महावाक्यादिभिर्मया । पात्रभेदार्थमत्यंतं ज्ञातव्यं योगसेवया ॥४३॥ तत्र शांतिप्रदं ब्रह्म योगाख्यं नात्र संशयः । भवति ब्रह्मणां योगो यत्र तेन च योगकः ॥४४॥ नास्ति योगात् परं ब्रह्म शांतिमार्गेण लभ्यते । तदेव मुनयो देवा गणेशो नात्र संशयः ॥४५॥ मनोवाणी- मयं देवा मया यद्यत् प्रकीर्तितम् । गकाराक्षरसंभूतं ज्ञातव्यं विबुधैः सदा ॥४६॥ मनोवाणीविहीनं यद्वर्ण्यते विविधं तथा । णकाराक्षरगं सर्वं निश्चितं योगसेवया ॥४७॥ तयोः स्वामी गणेशानो योगाकारः प्रकीर्तितः । तं भजध्वं विशेषेण ब्रह्मभूतपदप्रदम् ॥४८॥ नानाभावेन युक्तास्तं भजंते तद्ददाति सः । एवमुक्त्वा महायोगी विरराम स सामगः ॥४९॥ ततोऽथर्वा महायोगी जगाद सकलांस्तदा । ब्रह्मयज्ञस्य वेत्ताऽसौ प्रह्लाद शृणु तद्वचः ॥५०॥ अथर्वा उवाच । आत्माऽहमिति वाक्याद्यैर्ब्रह्म नानाविधं मया । संपादितं च योगेन तदेवोपाधिसंयुतम् ॥५१॥ योगाख्यं परमं ब्रह्म तद्योगेन प्रलभ्यते । संयोगायोगहीनोऽयं योगो ब्रह्म सुतिष्ठति ॥५२॥ शांतिस्तत्र समाख्याता योगे योगविदां वरः । स एव गणनाथस्तु सर्व- शांतिप्रदोऽभवत् ॥५३॥ एक एव गणेशानो जगतां ब्रह्मणां स्वयम् । ईशः समूहरूपाणां योगरूपस्ततः स्मृतः ॥५४॥ सर्वेषामादिरूपोऽयं योगाकारः प्रभावतः । मध्ये नानाविधः स्वांशैर्जगत् सुब्रह्म सुप्रभुः ॥५५॥ अंते स्वयं तथा तिष्ठेत्तेनादौ पूजितोऽभवत् । सर्वपूज्यश्च देवेशा मुनयो निश्चयार्थिनः ॥५६॥ य आदिः सोंऽतरूपस्तु भवते सर्वसंमते ।

[खं. ३ अ. ४८] [पान १०४]

मध्ये मायाविहारेण भेदाभेदयुतोऽभवत् ॥५७॥ अतस्तं योगरूपाख्यं भजध्वं योगसेवया । भविष्यथ ब्रह्मभूता ब्रह्मयज्ञस्य पारगाः ॥५८॥ एवमुक्त्वा महायोगी विरराम महामते । अथर्वा सर्वयोगज्ञस्तत्रोंकारोऽब्रवीद्वचः ॥५९॥ ओंकार उवाच । चतुर्वेदप्रचुरोऽहं मया योगस्य सेवया । ब्रह्म साक्षात् कृतं देवास्तेन योगिमतोऽभवम् ॥६०॥ मयोपदेशिता वेदाः साधयामासुरन्वहम् । योगं ब्रह्मपदं तेन ब्रह्मज्ञाः सर्वसंमताः ॥६१॥ योगात् परं न विद्येत ब्रह्म सर्वत्र संमतम् । जगत् सुब्रह्म सुप्रोक्तं योगेन ब्रह्म शाश्वतम् ॥६२॥ तदेव गणराजो वै निश्चितो योगिभिः सदा । संयोगायोगभावेन क्रीडते योगरूपधृक् ॥६३॥ सिद्धिर्भ्रांतिमयी माया बुद्धिर्भ्रांतिधरा मता । तयोः स्वामी गणेशानो मायाभ्यां खेलते विभुः ॥६४॥ मुक्तेः सिद्धिस्तथा मुक्तेः सिद्धिर्ब्रह्मप्रदायिनी । चित्तं पंचविधं बुद्धिरस्तयोर्योगेन लभ्यते ॥६५॥ स्वसंवेद्यात्मकं ब्रह्म वेदेषु कथितं परम् । सर्वसंयोगरूपाख्यं तत्राऽयं दृश्यते स्वयम् ॥६६॥ तेन स्वानंदवासी च मायायुक्तः प्रकीर्तितः । अयोगे दर्शनं तस्य जायते न कदाचन ॥६७॥ निर्मायिकस्ततः प्रोक्तस्तयोर्योगेन लभ्यते । गकारश्चैव संयोगो णकारोऽयोग उच्यते ॥६८॥ तेन नाम्ना समाख्यातो गणेशो वेदवादिभिः । तं भजध्वं विशेषेण ब्रह्मीभूतस्य कारणात् ॥६९॥ ब्रह्मभूता द्विजा देवा भविष्यथ न संशयः । एवमुक्त्वा तदोंकारस्तूष्णीमासीन् महामते ॥७०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते ब्रह्मयज्ञे वेदनिर्णयो नाम सप्तचत्वारिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ श्रीशुक उवाच । सोंकारवेदमुख्यानां वचनं हितकारकम् । श्रुत्वा जहृषिरे नागादयः सर्षिगणाः सुराः ॥१॥ त्यक्त्वा स्वस्वमतं सर्वे तान् प्रणम्य प्रपूज्य वै । ओंकारादीन् महाभागा ऊचुः प्रांजलयो वचः ॥२॥ देवादय ऊचुः । ओंकारसहिता वेदा भवद्भिः कथितं वचः । तदेव सर्वमान्यं वै ब्रह्मभूयप्रदं भवेत् ॥३॥ सर्वेषां गुरवः प्रोक्ता वेदास्तैः कथितं भवेत् । तदेव करणीयं यद् गतिदं सर्वसंमतम् ॥४॥ वेदाधारविहीनं यत्त्याज्यं सर्वैर्न संशयः । नो चेन्नरकगो भूत्वा यातनां लभते नरः ॥५॥ ब्रह्मयज्ञस्य पारं वै भवंतो देवनायकैः । मुनिभिर्जनसंघैश्च गता भवथ निश्चितम् ॥६॥ देवादयो महाभागा एवमुक्त्वा विशेषतः । प्रह्लाद तुष्टुवुर्वेदमुख्यांस्ते हर्षसंयुताः ॥७॥ पूजितास्तैरुक्तवेदाः सोंकारा दैत्यनायक ।

अन्तर्दधुस्ततः सर्वे हृष्टाः स्थानं ययुः स्वकम् ॥८॥ एवं सर्वैः पुरा साधो ब्रह्मयज्ञः कृतोऽभवत् । तेन संशयहीनास्ते भजंते गणनायकम् ॥९॥ एतत्ते कथितं पूर्णयोगशांतिप्रदं परम् । सर्वमान्यं विशेषेण भज तं गणनायकम् ॥१०॥ सुबोध उवाच । एवमुक्त्वा महायोगी शुकश्चांतर्हितोऽभवत् । प्रह्लादो भक्तिसंयुक्तो भजते गणनायकम् ॥११॥ संश्रुतं मातुरुदरसंस्थेन सकलं ततः । मया धृतं विशेषेण तदेवं योगदायकम् ॥१२॥ पूर्वपुण्यबलेनैव स्मृतिर्मेऽत्र प्रसंस्थिता । जनितोऽहमतो विप्रा भजामि गणनायकम् ॥१३॥ एतत् सर्वं मया प्रोक्तं यत्पृष्टं गुरुमुख्यकाः । अतो मे मोहदां विद्यां मा वदेत दयायुताः ॥१४॥ श्रीकृष्ण उवाच । सुबोधस्य वचः श्रुत्वा ब्राह्मणा हर्षसंयुताः । ऊचुस्तं योगनिपुणं भावज्ञा भावसिद्धये ॥१५॥ विप्रा ऊचुः । सुबोध यत्त्वया प्रोक्तं तत्तथा न तदन्यथा । तथापि शृणु वत्स त्वं हितकारकमुत्तमम् ॥१६॥ पितामहो महाभाग दुर्बुद्धिस्ते महासुरः । गणेशेन हतो रोषाद्देवपक्षप्रधारिणा ॥१७॥ तं द्वेष्टि गणराजं च पिता ते पितृवत्सल । पितृद्रुहं ततस्त्वं तं त्यज विघ्नेशमादरात् ॥१८॥ नोचेत्त्वां ते पिता पुत्र हनिष्यति न संशयः । तस्मादाग्रहमत्यंतं मा कुरुष्व महामते ॥१९॥ असुराणां कुले पश्य जनिस्तव हितावहा । स्वकुलस्थस्य मार्गस्य सेवनं कुरु सर्वदा ॥२०॥ तेषां वचनमाकर्ण्य सुबोधो रक्तलोचनः । जगाद तान् द्विजांस्तत्र वचनं धर्मसंयुक्तम् ॥२१॥ सुबोध उवाच । सर्वत्र योगरूपेण गणेशस्तिष्ठति द्विजाः । स्वस्वधर्मनियंताऽसौ नानाक्रीडापरायणः ॥२२॥ स्वर्गे देवा नराः पृथ्व्यां पाताले तेन दैत्यपाः । स्थापिताः स्वस्वमार्गेषु स्थातव्यं तैर्हितेप्सुभिः ॥२३॥ पितामहश्च मे विप्रास्त्रिलोकी राज्यमुत्कटम् । चकार धर्महीनः स तस्मात्तेन हतो बलात् ॥२४॥ पिता मेऽपि तथा विप्रा धर्महीनतया स्थितः । तं हनिष्यति वेगेन गणेशो नात्र संशयः ॥२५॥ अतः किं गणराजेन विपरीतं कृतं द्विजाः । स्वधर्मस्य प्रियेणैव मां वदेत विशेषतः ॥२६॥ सर्वेषां हितकर्ताऽसौ विघ्नराजो न संशयः । तं भजिष्यामि यत्नेन त्यक्त्वा स्वपितरं खलम् ॥२७॥ गणेशं भजमानं मां वधिष्यति यदा खलः । तदेव मरणं श्रेष्ठं ब्रह्म- भूयप्रदं भवेत् ॥२८॥ मशके कुपिते किं वै गृहं त्यक्त्वा मनीषिणः । तिष्ठंति ब्राह्मणाः सर्वे मां वदेत हि सांप्रतम् ॥२९॥ बुद्धेः पतेर्गणेशस्य सत्ता सर्वत्र वर्तते । सिद्धेः पतेर्न संदेहः किं करिष्यति मां पिता ॥३०॥ स्वधर्मः सर्वभूतानां धर्म- कामार्थमुक्तये । ब्रह्मभूयार्थमत्यंतं गणेशभजनात्मकः ॥३१॥ तं तादृशं स्वधर्मं किं त्यक्त्वा विषयलंपटः । भविष्याम्य- सुराधीनो ब्राह्मणाः कुलपांसवः ॥३२॥ न ब्राह्मणा भवंतोऽपि विषयेषु परायणाः । त्यक्त्वा धर्मं स्थिता अत्र दैत्याधीना

न संशयः ॥३३॥ गणेशभजने सक्ता ब्रह्मभूयपरायणाः । ब्राह्मणास्ते मताः शास्त्रे किं मां वदथ बालिशाः ॥३४॥ श्रीकृष्ण उवाच । शुक्रशिष्यान् प्रजानाथ एवमुक्त्वा महामतिः । सुबोधो गणनाधस्य भजने तत्परोऽभवत् ॥३५॥ नमो गणेशाय नमो महात्मने नमः परेशाय परात्पराय ते । अनादिमध्यांतमयाय ढुंढये नमो नमो विघ्नपते सुशांतिद ॥३६॥ एवं विवदमानं तं ज्ञात्वा काव्यस्य शिष्यकाः । भयभीता विशेषेण ज्ञानारिं ते ययुः प्रभो ॥३७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते शुक्रशिष्यसुबोधसंवादो नामाष्टचत्वारिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । काव्यशिष्या गतास्तत्र यत्र दैत्याधिपोऽभवत् । सभासनस्थमूचुस्तं दृष्ट्वा भयसमन्विताः ॥१॥ शुक्रशिष्या ऊचुः । ज्ञानारे शृणु वाक्यं नो दारुणं विपरीतगम् । पुत्रस्तेऽभून् मदोत्सिक्तः सर्वदा- ऽस्मानुपेक्षते ॥२॥ उल्लंघ्य सर्वमस्माभिः कथितं जातिदूषणम् । करोति स्वमतेनायमन्यान् संबोधयंस्तथा ॥३॥ पितृहंतार- मत्यंतं सदा स्मरति भक्तितः । तिरस्कृत्य महाराज त्वामस्मान्नात्र संशयः ॥४॥ अतः कथयितुं याताः शिक्षयस्व स्वपुत्रकम् । वयं शिक्षयितुं शक्ता नाविनीतं महामते ॥५॥ श्रीकृष्ण उवाच । तेषां वचनमाकर्ण्य क्षोभितो दैत्यनायकः । प्रेषयामास दूतं स पुत्रमानेतुमंतिके ॥६॥ दूतेनागतमेवं तं पुत्रं दृष्ट्वा महासुरः । उवाच कृतवंतं तं प्रणामं क्रोधसंयुक्तः ॥७॥ ज्ञानारिरुवाच । किं तिरस्कृत्य रे वत्स गुरून् स्मरसि तद्वद । हितं ते हृदये किं च वर्तते कुलपांसन ॥८॥ पितुर्वचनमाकर्ण्य क्रोधयुक्तः सुबोधकः । उवाच पितरं भ्रांतं मायया गणपस्य सः ॥९॥ सुबोध उवाच । सर्वेषां कुलदेवं च सर्वेषां हितकारकम् । भुक्ति- मुक्तिप्रदं तात भजामि गणनायकम् ॥१०॥ ब्रह्मविष्णुवादिभिर्देवैः कश्यपादिमुनीश्वरैः । पूजितं कुलवृद्ध्यर्थं योगशांत्यर्थ- मादरात् ॥११॥ कश्यपात् वयमुत्पन्ना देवा दैत्यास्तथा नराः । जंतवो विविधाश्चैव तेषां स्वामी तथाऽभवत् ॥१२॥ भजामि गणनांथं वै अतोऽहं सर्वभावतः । तमनादृत्य दैत्येश न सिद्धिं लभते पुमान् ॥१३॥ तस्य तद्वचनं श्रुत्वा क्रोधयुक्तो महासुरः । जगाद तं धर्मराजमुखादनलमुद्वमन् ॥१४॥ ज्ञानारिरुवाच । अस्माकं शत्रवो देवा दैत्यानां नात्र संशयः । सुरासुराश्च वेदेषु प्रोक्ताः पश्य सुदुर्मते ॥१५॥ तत्राप्ययं पितृहंता मम तं भजसे मुधा । बालभावे मया ज्ञातं चेष्टितं ते

खं. ३ अ. ४९ पान १०७ रिपुश्रितम् ॥१६॥ बालं मत्वा न दुष्ट त्वां हतवान् कृपया शठ । अधुना तादृशं मत्वा न मुंचामि कदाचन ॥१७॥ त्यज शत्रुं महामूर्ख नोचेद्धन्म्यधुना किल । एवमुक्त्वा खड्गहस्तो दुद्राव स्वसुतं नृप ॥१८॥ ततस्तं दैत्यराजं स उवाच तनयो वचः । किं धर्षयसि मां तात भ्रांतिभावेन मोहितः ॥१९॥ सर्वसत्ताधरः प्रोक्तो वेदेषु गणनायकः । तस्य सत्तां परित्यज्य किं मां हंसि त्वमेव च ॥२०॥ सुरासुरमयः साक्षाद्गणेशो नात्र संशयः । उद्धतं हंति वेगेन नानारूपधरः प्रभुः ॥२१॥ ब्रुवंतं स्वसुतं दृष्ट्वा भयहीनं युधिष्ठिर । क्रोधयुक्तः स्वयं तत्र संस्थितो दैत्यनायकः ॥२२॥ दूतानाज्ञापयामास शस्त्रास्त्रैः स्वसुतस्य सः । वधार्थं ते दैत्यगणाः क्रोधयुक्ता बभूविरे ॥२३॥ नानानादयुताः सर्वे नग्नशस्त्रधरा ययुः । हंतुं तं तानथो दृष्ट्वा सुबोधो निर्भयो बभौ ॥२४॥ गणेशभजने सक्तो बभूव न चचाल ह । देहप्रारब्धभावेन भवेत्तन् मे गजानन ॥२५॥ विघ्नेश हेरंब जयाखिलेश स्वानंदवासिन् जय वक्रतुंड । नाथोऽसि सर्वत्र जगत् सुढुंढे लंबोदर ब्रह्मसुते नमो वै ॥२६॥ इत्याद्यैर्विविधैर्वाक्यैर्गणेशमभजत् सुतः । तं तथा क्रोधसंयुक्ता जघ्नुर्दैत्या महाबलाः ॥२७॥ नानाशस्त्रनिपातैस्तेऽस्त्रैः सर्वत्र युधिष्ठिर । गणेशस्तस्य देहस्थो निष्फलांस्तांश्चकार ह ॥२८॥ क्रोधानलेन सर्वान् स दाहयामास विघ्नपः । ततः पलायनं चक्रुर्दैत्याः प्राणपरीप्सया ॥२९॥ तत् दृष्ट्वा परमाश्चर्यं ज्ञानारिः क्रोधमूर्च्छितः । श्रेष्ठानाज्ञापयामास वधाय स्वसुतस्य वै ॥३०॥ चतुरंगबलैर्युक्ता दैत्येशास्तं समाययुः । अमोघास्त्रैः सुबोधं ते जघ्नुः परमदारुणाः ॥३१॥ गणेशभक्तिं तां सोऽपि चक्रे वै निर्भयो दृढाम् । जय देवेश विघ्नेश महोदर नमोऽस्तु ते ॥३२॥ तस्य देहान् महानग्निः शस्त्रघातच्छलेन सः । समुत्पन्नः प्रजज्वाल दैत्येशान् क्षणमात्रतः ॥३३॥ ते मेघास्त्राणि ससृजुस्तैर्न शांतो बभूव ह । ददाह सकलांस्तत्र प्रलयाग्निसमश्च तान् ॥३४॥ मृताः सर्वे सुराणां वै नायकास्तत्र भूमिप । ज्ञानारिः परमाश्चर्ययुक्तोऽभूत् खेदसंयुतः ॥३५॥ प्रधानैः स विचार्यैवं पुत्रं तत्याज तत्क्षणात् । शुक्रं तपसि तिष्ठंतं ज्ञात्वा क्रोधं नियम्य च ॥३६॥ मेधावी स यदा शुक्र आगमिष्यति वै गृहे । तदा तेन समायुक्ता हनिष्यामः सुबोधकम् ॥३७॥ एवं निश्चितसंकल्पाः स्थितास्ते दैत्यनायकाः । ज्ञानारिः स तथा चक्रे हृदयेन विदूयता ॥३८॥ सुबोधो गणपं तत्राऽभजत् सोऽनन्यमानसः । निर्भयो दानवान् सर्वान् तृणीकृत्य विशेषतः ॥३९॥ ततस्तेन सुबोधेन दैत्यपुत्रा युधिष्ठिर । शिक्षिताः प्रत्ययं दृष्ट्वा तथा गणपमाभजन् ॥४०॥ सत्यं गणेशमाहात्म्यं महत्तन्नात्र संशयः । संदश्य दैत्यभूपाला मृताः कक्षवदप्यहो ॥४१॥ एवं विचार्य सर्वत्र बाला

पान १०८

विघ्नेशमादरात् । अभजन् सर्वभावेन तिरस्कृत्य गुरोः सुतान् ॥४२॥ यत्र तत्र गणेशस्य कीर्तनं ह्यर्चनादिकम् । अकुर्वन् दैत्यपुत्रास्ते सुबुधेन समन्विताः ॥४३॥ नमो नमो विघ्नपते गणेश सदा स्वसंवेद्यपुरे निवासिन् । अनादिमध्यांतविहीनकाय सुशांतिदात्रे जय सर्वपूज्य ॥४४॥ एवं दृष्ट्वा स सर्वत्र ज्ञानारिः क्रोधमादधे । सहने न समर्थोऽभून् मतिं चक्रे वधाय वै ॥४५॥ हनिष्यामि सुतं दुष्टं वरयुक्तप्रभावतः । न मे मृत्युर्भवेन्नूनमिति व्यवसितोऽभवत् ॥४६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सुबोधभक्तिवर्णनं नामैकोनपंचाशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । अधुना शृणु धर्मज्ञ देवादीनां वनेषु वै । यज्जातं तत् प्रवक्ष्यामि पूर्णानंदस्य चेष्टितम् ॥१॥ विष्णुमुख्यान् सुरानाह पूर्णानंदः प्रतापवान् । किमर्थं दुःखसंयुक्ता भवंतः सर्वजंतुभिः ॥२॥ ज्ञानारिणा कृतं सर्वं जगत् स्थावरजंगमम् । दुःखयुक्तं विशेषेण तं हनिष्यामि निश्चितम् ॥३॥ मयि पुत्रत्वमापन्ने दुर्लभं किं भविष्यति । तस्माद्देवगणैस्तात गच्छ वैकुंठमादरात् ॥४॥ ज्ञानारिः पुत्रनाशार्थं यतते चाधुना प्रभो । तस्य पुत्रो महाभक्तो मदीयो नात्र संशयः ॥५॥ भक्तरक्षार्थमेवाहं गमिष्याम्यधुना स्वयम् । तं हत्वा सुखमेष्यामि स्वभक्तद्वेषिणं खलम् ॥६॥ चराचरमयात्तस्य भयं नास्ति कदाचन । चराचरमयं सर्वं त्रैगुण्यं नात्र संशयः ॥७॥ अतो द्वंद्वविहीनेन तं रूपेण महासुरम् । हनिष्यामि स्वभक्तार्थं पश्य मे त्वं कुतूहलम् ॥८॥ एतस्मिन्नंतरे चैव ज्ञानारिः खड्गमादधौ । सुबोधं हंतुमत्यंतं क्रोधयुक्तो युधिष्ठिर ॥९॥ ज्ञानारिं तादृशं दृष्ट्वा सुबोधो भक्तिसंयुतः । गणेशस्य जगादाऽपि तच्छृणुष्व युधिष्ठिर ॥१०॥ सुबोध उवाच । अहंकारेण संयुक्तस्तात त्वं मायया भृशम् । न जानासि गणेशानं चित्ते संस्थितमेव ते ॥११॥ चिंतामणिः स वेदेषु कथितो वेदवादिभिः । तं गच्छ शरणं तात नोचेत्त्वं वै मरिष्यसि ॥१२॥ न ते भयेन भावेन त्यजेयं विघ्ननायकम् । किमु श्राम्यसि मूर्ख त्वं सत्ताधारं न पश्यसि ॥१३॥ इति पुत्रं ब्रुवंतं स जघान दृढरोषतः । खङ्गेन तीक्ष्णधारेण स खङ्गो निष्फलोऽभवत् ॥१४॥ ततो नानास्त्रवर्षैस्तमवर्षद्दैत्यनायकः । तानि निष्फलरूपाणि बभूवुश्च युधिष्ठिर ॥१५॥ अश्मस्त्रादीनि शस्त्राणि निष्फलानि महासुरः । वीक्ष्य विस्मितचित्तोऽसौ मल्लयुद्धोद्यतोऽभवत् ॥१६॥ पुत्रं पादे शिलायां

खं. ३ अ. ५० पान १०९ स संगृह्याऽऽस्फालयद्यदा । तावत् स्वयं पपातैव मूर्च्छितस्ताडितोऽभवत् ॥१७॥ अदृश्यरूपभावेन हतो विघ्नविनाशिना । पुनः संज्ञासमायुक्तोऽपश्यत्पुत्रं सुदुर्मतिः ॥१८॥ गणेशभजने सक्तं वीक्ष्य विस्मितमानसः । विचारं हृदये सोऽपि चकार परमाद्भुतम् ॥१९॥ अहो मां को जघानैवं न पश्यामि महारिपुम् । केन मार्गेण मे पुत्रं हनिष्यामि कुलांतकम् ॥२०॥ पुत्रस्य मरणार्थाय यतेऽहं विविधं सदा । तदर्थं दैत्यनाथाश्च सुहृद्भिरभवन् मृताः ॥२१॥ अहं किं वा मरिष्यामि हनिष्यामि सुतं नु वा । अधुना किं मया कार्यमेवं व्यवसितोऽभवत् ॥२२॥ ततस्तेन वधार्थाय प्राप्तं ज्ञानं विशेषतः । पुत्ररक्षाकरं चादौ हन्मि पश्चात् सुतं खलम् ॥२३॥ मृतो रक्षाकरस्तस्य रक्षिता न भविष्यति । पुत्रस्य तेन मृत्युं मे गमिष्यति सुतोऽधुना ॥२४॥ एवं निश्चितसंकल्पो जगाद क्रोधसंयुतः । पुत्रं सुबोधनामानं मोहेनामोहितोऽसुरः ॥२५॥ सुबोध कुत्र ते रक्षिता विशेषेण वर्तते । तमानय महादुष्टं हनिष्याम्यधुना शठ ॥२६॥ ततस्तं मोहितं प्राह सुबोधः करुणायुतः । तात पश्य हृदिस्थं तं चित्तवृत्तिप्रचालकम् ॥२७॥ वैरभावं परित्यज्य तथाऽहंकारमद्य वै । शरणं गच्छ विघ्नेशं ब्रह्मभूतो भविष्यसि ॥२८॥ सर्वत्र संस्थितं पश्य स्वामिनं मे गजाननम् । तं हंतुमुद्यतस्त्वं वै मरिष्यसि न संशयः ॥२९॥ ततस्तं प्रत्युवाचेदं ज्ञानारिर्वचनं नृप । दर्शयस्व महाभाग तं भजिष्यामि निश्चितम् ॥३०॥ एवं कपटभावेन सुबोधं स जगाद ह । सुबोधस्तं गणेशानं सस्मार पितृकारणात् ॥३१॥ ततस्तं मूषकारूढो विष्णुपूत्रः समाययौ । तमन्वयुर्द्विजा देवा भयभीता युधिष्ठिर ॥३२॥ आकाशे गूप्तरूपेण मुनयो देवतागणाः । संस्थिता अभवंस्तत्र पश्यंतश्चेष्टितं प्रभोः ॥३३॥ सुबोधस्य समीपे तं संस्थितं गणनायकम् । पश्यन् क्रूरो महादुष्टो ज्ञानारिर्हर्षितोऽभवत् ॥३४॥ सुबोधस्तं प्रणम्यादौ स्तुत्वा च विविधैः स्तवैः । उवाच पितरं योगी पश्य तात गजाननम् ॥३५॥ सुबोधस्य वचः श्रुत्वा क्रोधयुक्तो महासुरः । अमोघं सर्वसंहारकारकं शस्त्रमाददे ॥३६॥ एतस्मिन्नंतरे तत्र पूर्णानंदो हृदि स्थितः । जीवभावं स दैत्यस्य कर्षयामास भूमिप ॥३७॥ ततः स पतितो भूमौ गतचैतन्यकोऽञ्जसा । हाहाकारं प्रचक्रुस्ते दैत्याः पातालमाययुः ॥३८॥ ततस्ते देवविप्राद्या नभःस्थाः सहसाऽऽगताः । प्रणम्य तुष्टुवुस्तं वै पूर्णानंदं गणेश्वरम् ॥३९॥ स्तुवतां पश्यतां भूप सुबोधं गृह्य विघ्नपः । अंतर्धानं चकाराऽपि सर्वे खिन्ना इवाऽभवन् ॥४०॥ लक्ष्मीनारायणश्चैव मूर्च्छितौ धरणीतले । पेततुर्दुःखसंयुक्तौ पूर्णानंदवियोगतः ॥४१॥ द्विमुहूर्तात् प्रबुद्धौ तौ ततो हृदि तयोः प्रभुः । प्रकटोऽभूदुवाचाऽथ मूर्तौ मां भजतं युवाम् ॥४२॥ न वियोगो भवेत्तत्तौ

यहाँ दिए गए पृष्ठ का मूल पाठ (पंक्ति-दर-पंक्ति), श्लोक-संख्या सहित संस्कृत मूल, अन्वय, हिन्दी अनुवाद तथा अध्याय-समाप्ति (पुष्पिका) प्रस्तुत है:


[पृष्ठ ११०]

मूल पाठ (Line-by-Line Transcription):

पश्यतं बुद्धिचालकम् । एवमुक्त्वांतर्दधेऽसौ हृदिस्थो गणनायकः ॥४३॥ ततस्तौ दुःखसंयुक्तौ चक्रतुः परमाहृतौ । लक्ष्मीनारायणौ मूर्तिं भक्त्या प्रभजने रतौ ॥४४॥ एवं महोदरः सर्वप्रदाता वै प्रतापवान् । हर्ता च ब्रह्मभूतोऽसौ ब्रह्मभूयप्रदो मतः ॥४५॥ शिवविष्ण्वादिभिर्देवैः सेवितो भक्तिभावतः । मुनिभिर्योगिभिर्नानाजंतुभिर्नात्र संशयः ॥४६॥ तं भजस्व महीपाल विघ्नहीनो भविष्यसि । स्वधर्मस्थो महाभाग शांतियोगमवाप्स्यसि ॥४७॥ मुद्गल उवाच । एवं नारायणं तं स ब्रुवंतं धर्मपालकः । युधिष्ठिर उवाचाऽथ प्रेमयुक्तो महामतिः ॥४८॥ युधिष्ठिर उवाच । कृष्ण कृष्ण महाप्राज्ञ कथां ब्रह्मप्रदायिनीम् । सर्वकामप्रदां पूर्णां वदस्यत्र न संशयः ॥४९॥ त्वदीयसंगयोगेन मया ज्ञातो गजाननः । वद त्वं तस्य मंत्रं मे सस्त्रीकाय सबंधवे ॥५०॥ स तस्मै देवकीपुत्रो ददौ मंत्रं षडक्षरम् । देवेशो धौम्यमुखतस्तथा सर्वेभ्य आदरात् ॥५१॥ मुद्गल उवाच । पांडवा द्रौपदीयुक्तास्तेन मंत्रेण विघ्नपम् । अभजन् भक्तिसंयुक्ताश्चतुर्थीव्रतकारकाः ॥५२॥ ततो दुःखविहीनास्ते सूर्यात् प्राप्य यथेप्सितम् । स्थालीस्थमन्नमत्यंतं पोषयामासुरग्रजान् ॥५३॥ वनस्थाः दुखहीनाश्च भ्रमंतस्ते समाययुः । व्यासेन वासुदेवेन युताः स्वानंदके पुरे ॥५४॥ मयूरेशं च तत्रैवाऽपूजयन् भक्तिसंयुताः । पांडवेशं समास्थाप्य श्राद्धं चक्रुः पितुस्ततः ॥५५॥ तत्र पिंडप्रदानेन पांडुं स्वर्गस्थमादरात् । नानासुहृद्गणैर्युक्तं समानेतुं ययुर्गणाः ॥५६॥ गाणेशेन विमानेन स्वानंदे ब्रह्मरूपिणम् । चक्रुर्दक्ष महाभाग महिम्ना क्षेत्रजेन ते ॥५७॥ गुप्तरूपेण वर्षं ते निर्विघ्ना अवसंस्ततः । पश्चात् प्राकट्यमास्थाय सस्त्रीकाः पांडवा ययुः ॥५८॥ हत्वा दुर्योधनं वीराः ससैन्यं कर्णसंयुतम् । राज्यं प्राप्याऽभजंस्ते तं गणेशं सर्वनायकम् ॥५९॥ एवं युधिष्ठिरेणैवाराधितः स महोदरः । मोहशून्यस्वभावेन योगिना शांतिधारिणा ॥६०॥ पूर्णानंदावतारो महोदरांतर्गतः स्मृतः । एवं नानावतारैश्च कुरुते क्रीडनं स्वयम् ॥६१॥ तेषां कथितुं पुण्यं चरित्रं न प्रशक्यते । वर्षाणामयुतैर्दक्ष मया केनापि निश्चितम् ॥६२॥ इदं युधिष्ठिरस्यैव चरित्रं पापनाशनम् । शृण्वते पठते वाऽपि तस्मै सर्वार्थदं भवेत् ॥६३॥ `` ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते युधिष्ठिरचरितं नाम पंचाशत्तमोऽध्यायः ॥


श्लोकवार अन्वय एवं हिन्दी अनुवाद

श्लोक ४३ (उत्तरार्ध) – ४४

पश्यतं बुद्धिचालकम् । एवमुक्त्वांतर्दधेऽसौ हृदिस्थो गणनायकः ॥४३॥ ततस्तौ दुःखसंयुक्तौ चक्रतुः परमाहृतौ । लक्ष्मीनारायणौ मूर्तिं भक्त्या प्रभजने रतौ ॥४४॥

  • अन्वय: बुद्धिचालकं पश्यतम्। एवम् उक्त्वा असौ हृदिस्थः गणनायकः अन्तर्दधे। ततः तौ लक्ष्मीनारायणौ दुःखसंयुक्तौ परमाहृतौ (परमाह्लादितौ) भक्त्या मूर्तिं चक्रतुः प्रभजने रतौ (च अभवताम्)।
  • हिन्दी अनुवाद: "तुम दोनों अपनी बुद्धि को प्रेरित करने वाले मुझे ही देखो"—ऐसा कहकर सबके हृदय में स्थित वे गणनायक गणेशजी अन्तर्धान हो गए। तदनन्तर वे लक्ष्मीनारायण विरह-दुःख से युक्त होकर भी परम प्रसन्न हुए और भक्तिपूर्वक श्रीगणेश की मूर्ति बनाकर उनके भजन-पूजन में लीन हो गए।

श्लोक ४५ – ४७

एवं महोदरः सर्वप्रदाता वै प्रतापवान् । हर्ता च ब्रह्मभूतोऽसौ ब्रह्मभूयप्रदो मतः ॥४५॥ शिवविष्ण्वादिभिर्देवैः सेवितो भक्तिभावतः । मुनिभिर्योगिभिर्नानाजंतुभिर्नात्र संशयः ॥४६॥ तं भजस्व महीपाल विघ्नहीनो भविष्यसि । स्वधर्मस्थो महाभाग शांतियोगमवाप्स्यसि ॥४७॥

  • अन्वय: एवं प्रतापवान् महोदरः वै सर्वप्रदाता, हर्ता, ब्रह्मभूतः असौ ब्रह्मभूयप्रदः मतः। शिव-विष्णु-आदिभिः देवैः, मुनिभिः, योगिभिः, नाना-जन्तुभिः भक्तिभावतः सेवितः, अत्र संशयः न। हे महीपाल! तं भजस्व, विघ्नहीनः भविष्यसि। हे महाभाग! स्वधर्मस्थः (त्वं) शांतियोगम् अवाप्स्यसि।
  • हिन्दी अनुवाद: (श्रीकृष्ण कहते हैं—) इस प्रकार महाप्रतापी महोदर गणेश ही सबको सब कुछ देने वाले, संकटों को हरने वाले, परब्रह्म स्वरूप और ब्रह्मभाव (मोक्ष) प्रदान करने वाले माने गए हैं। शिव, विष्णु आदि देवताओं, मुनियों, योगियों और नाना प्रकार के प्राणियों द्वारा वे भक्तिभाव से सेवित हैं; इसमें कोई संशय नहीं है। अतः हे राजन्! तुम उन्हीं का भजन करो, तुम विघ्नों से मुक्त हो जाओगे तथा अपने धर्म में स्थित रहकर शांतियोग को प्राप्त करोगे।

श्लोक ४८ – ५०

मुद्गल उवाच । एवं नारायणं तं स ब्रुवंतं धर्मपालकः । युधिष्ठिर उवाचाऽथ प्रेमयुक्तो महामतिः ॥४८॥ युधिष्ठिर उवाच । कृष्ण कृष्ण महाप्राज्ञ कथां ब्रह्मप्रदायिनीम् । सर्वकामप्रदां पूर्णां वदस्यत्र न संशयः ॥४९॥ त्वदीयसंगयोगेन मया ज्ञातो गजाननः । वद त्वं तस्य मंत्रं मे सस्त्रीकाय सबंधवे ॥५०॥

  • अन्वय: मुद्गलः उवाच—एवं ब्रुवन्तं तं नारायणं सः धर्मपालकः महामतिः युधिष्ठिरः अथ प्रेमयुक्तः उवाच। युधिष्ठिरः उवाच—हे कृष्ण! हे कृष्ण! हे महाप्राज्ञ! अत्र ब्रह्मप्रदायिनीं सर्वकामप्रदां पूर्णां कथां वदसि, न संशयः। त्वदीय-सङ्ग-योगेन मया गजाननः ज्ञातः। मे सस्त्रीकाय सबन्धवे तस्य मन्त्रं त्वं वद।
  • हिन्दी अनुवाद: मुद्गल ऋषि बोले—भगवान् नारायण के ऐसा कहने पर, धर्मरक्षक और महाबुद्धिमान् युधिष्ठिर ने प्रेमपूर्वक उनसे कहा। युधिष्ठिर बोले—"हे कृष्ण! हे महाप्राज्ञ! आपने ब्रह्मपद देने वाली और समस्त कामनाओं को पूर्ण करने वाली यह पावन कथा कही, इसमें कोई संशय नहीं। आपके सत्सङ्ग के प्रभाव से मैंने गजानन के स्वरूप को जान लिया है। अब मुझे, मेरी पत्नी (द्रौपदी) तथा भाइयों सहित उनका वह षडक्षर मंत्र बताइए।"

श्लोक ५१ – ५४

स तस्मै देवकीपुत्रो ददौ मंत्रं षडक्षरम् । देवेशो धौम्यमुखतस्तथा सर्वेभ्य आदरात् ॥५१॥ मुद्गल उवाच । पांडवा द्रौपदीयुक्तास्तेन मंत्रेण विघ्नपम् । अभजन् भक्तिसंयुक्ताश्चतुर्थीव्रतकारकाः ॥५२॥ ततो दुःखविहीनास्ते सूर्यात् प्राप्य यथेप्सितम् । स्थालीस्थमन्नमत्यंतं पोषयामासुरग्रजान् ॥५३॥ वनस्थाः दुखहीनाश्च भ्रमंतस्ते समाययुः । व्यासेन वासुदेवेन युताः स्वानंदके पुरे ॥५४॥

  • अन्वय: सः देवकीपुत्रः देवेशः तस्मै तथा धौम्यमुखतः सर्वेभ्यः आदरात् षडक्षरं मन्त्रं ददौ। मुद्गलः उवाच—द्रौपदीयुक्ताः ते पाण्डवाः तेन मन्त्रेण भक्तिसंयुक्ताः चतुर्थीव्रतकारकाः (सन्तः) विघ्नपम् अभजन्। ततः दुःखविहीनाः ते सूर्यात् यथेप्सितं प्राप्य स्थालीस्थम् अत्यन्तम् अन्नं अग्रजान् पोषयामासुः। वनस्थाः दुःखहीनाः भ्रमन्तः ते व्यासेन वासुदेवेन युताः स्वानन्दके पुरे समाययुः।
  • हिन्दी अनुवाद: देवेश्वर देवकीपुत्र श्रीकृष्ण ने युधिष्ठिर को तथा कुलगुरु धौम्य के माध्यम से सभी पांडवों को आदरपूर्वक गणेशजी का षडक्षर मंत्र दिया। मुद्गल ऋषि बोले—द्रौपदी सहित सभी पांडव उस मंत्र से भक्तिपूर्वक चतुर्थी का व्रत करते हुए विघ्नहर्ता गणेश का भजन करने लगे। इसके पश्चात् वे दुःखों से मुक्त हो गए और सूर्यदेव से मनवांछित (अक्षय) पात्र प्राप्त कर उसके अन्न से ब्राह्मणों व श्रेष्ठजनों का पोषण करने लगे। वन में रहते हुए दुःखों से रहित होकर वे व्यासजी और वासुदेव श्रीकृष्ण के साथ 'स्वानंदपुर' तीर्थ में पहुँचे।

श्लोक ५५ – ५७

मयूरेशं च तत्रैवाऽपूजयन् भक्तिसंयुताः । पांडवेशं समास्थाप्य श्राद्धं चक्रुः पितुस्ततः ॥५५॥ तत्र पिंडप्रदानेन पांडुं स्वर्गस्थमादरात् । नानासुहृद्गणैर्युक्तं समानेतुं ययुर्गणाः ॥५६॥ गाणेशेन विमानेन स्वानंदे ब्रह्मरूपिणम् । चक्रुर्दक्ष महाभाग महिम्ना क्षेत्रजेन ते ॥५७॥

  • अन्वय: तत्र एव भक्तिसंयुताः मयूरेशम् अपूजयन्। पाण्डवेशं समास्थाप्य ततः पितुः श्राद्धं चक्रुः। तत्र आदरात् पिण्डप्रदानेन स्वर्गस्थं नानासुहृद्गणैर्युक्तं पाण्डुं समानेतुं गणाः ययुः। हे दक्ष! गाणेशेन विमानेन स्वानन्दे ब्रह्मरूपिणं ते क्षेत्रजेन महिम्ना (पाण्डुं) महाभागं चक्रुः।
  • हिन्दी अनुवाद: वहाँ पांडवों ने भक्तिपूर्वक 'मयूरेश' (गणेशजी) की पूजा की। फिर 'पाण्डवेश' नामक गणेश की स्थापना कर अपने पिता पाण्डु का श्राद्ध किया। वहाँ आदरपूर्वक पिंडदान करने से, स्वर्ग में स्थित महाराज पाण्डु को उनके सभी सुहृदों सहित लेने के लिए गणेशजी के गण पहुँचे। हे दक्ष! वे गण पाण्डु को गाणेश-विमान में बैठाकर स्वानंदलोक ले गए और उस क्षेत्र की महिमा से उन्हें ब्रह्मरूप बना दिया।

श्लोक ५८ – ५९

गुप्तरूपेण वर्षं ते निर्विघ्ना अवसंस्ततः । पश्चात् प्राकट्यमास्थाय सस्त्रीकाः पांडवा ययुः ॥५८॥ हत्वा दुर्योधनं वीराः ससैन्यं कर्णसंयुतम् । राज्यं प्राप्याऽभजंस्ते तं गणेशं सर्वनायकम् ॥५९॥

  • अन्वय: ततः ते गुप्तरूपेण एकं वर्षं निर्विघ्नाः अवसन्। पश्चात् प्राकट्यम् आस्थाय सस्त्रीकाः पाण्डवाः ययुः। वीराः ससैन्यं कर्णसंयुतं दुर्योधनं हत्वा राज्यं प्राप्य ते सर्वनायकं तं गणेशम् अभजन्।
  • हिन्दी अनुवाद: इसके पश्चात् वे पांडव एक वर्ष तक अज्ञातवास में निर्विघ्न रहे। तत्पश्चात् प्रकट होकर द्रौपदी सहित सभी वीर पांडवों ने कर्ण और सेना सहित दुर्योधन का वध किया और अपना राज्य प्राप्त करके उन सर्वनायक गणेशजी का निरंतर भजन किया।

श्लोक ६० – ६३

एवं युधिष्ठिरेणैवाराधितः स महोदरः । मोहशून्यस्वभावेन योगिना शांतिधारिणा ॥६०॥ पूर्णानंदावतारो महोदरांतर्गतः स्मृतः । एवं नानावतारैश्च कुरुते क्रीडनं स्वयम् ॥६१॥ तेषां कथितुं पुण्यं चरित्रं न प्रशक्यते । वर्षाणामयुतैर्दक्ष मया केनापि निश्चितम् ॥६२॥ इदं युधिष्ठिरस्यैव चरित्रं पापनाशनम् । शृण्वते पठते वाऽपि तस्मै सर्वार्थदं भवेत् ॥६३॥

  • अन्वय: एवं शान्तिधारिणा मोहशून्यस्वभावेन योगिना युधिष्ठिरेण एव सः महोदरः आराधितः। पूर्णानन्दावतारः महोदरान्तर्गतः स्मृतः। एवम् असौ स्वयम् नानावतारैः क्रीडनं कुरुते। हे दक्ष! तेषां पुण्यं चरित्रं मया केनापि वर्षाणाम् अयुतैः कथितुं न प्रशक्यते, निश्चितम्। इदं पापनाशनं युधिष्ठिरस्य चरित्रं शृण्वते पठते वा अपि तस्मै सर्वार्थदं भवेत्।
  • हिन्दी अनुवाद: इस प्रकार परम शांति धारण करने वाले और मोहरहित योगी युधिष्ठिर ने उन महोदर गणेश की आराधना की। पूर्णानंद के अवतार महोदर गणेश सबके अंतःकरण में विद्यमान कहे गए हैं। वे स्वयं नाना अवतार धारण करके लीला करते हैं। हे दक्ष! उनके पवित्र चरित्र का पूरा वर्णन दस हज़ार वर्षों में भी मेरे या किसी के द्वारा नहीं किया जा सकता, यह निश्चित है। युधिष्ठिर का यह पापनाशक चरित्र जो भी सुनता या पढ़ता है, उसे यह समस्त पुरुषार्थों (धर्म, अर्थ, काम, मोक्ष) को प्रदान करने वाला होता है।

अध्याय पुष्पिका (Colophon):

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते युधिष्ठिरचरितं नाम पंचाशत्तमोऽध्यायः ॥५०॥

  • अनुवाद: इस प्रकार श्रीमुद्गल महापुराण के तीसरे खंड के अंतर्गत महोदर-चरित्र में "युधिष्ठिर-चरित" नामक पचासवाँ (५०वाँ) अध्याय समाप्त हुआ।

सं. ३ अ. ५१ पान १११ ॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। महोदरस्य क्षेत्रं यद्दक्षिणस्यां दिशि स्थितम् । देवैश्च मुनिभिस्तत्र स्थापितो गणनायकः ॥१॥ दशयोजनविस्तारस्तस्य क्षेत्रस्य मानद । महोदरश्च तन्मध्ये चतुरस्रे स्थितोऽभवत् ॥२॥ स्वस्वखंडेषु सर्वत्र द्वीपेषु मुनिभिः पुरा । स्थापितो दक्षिणस्यां स दिशि ब्रह्ममयः प्रभुः ॥३॥ तत्र देवाद्यः सर्वे ऋषयो योगिनस्तथा। तीर्थानि क्षेत्रमुख्यानि संस्थितानि भवंति च ॥४॥ समुद्रे स्नानकर्त्तारः स्वस्वतीर्थेषु नित्यदा । गणेशानं भजंतस्ते परस्परहिते रताः ॥५॥ नानारूपाणि ते सर्वे महोदर कृतानि च । चेष्टितानि स्मरंतो वै हृष्टरोमाण आभवन् ॥६॥ सिद्धिबुद्धियुतं तं ते मूषकं पुरतः स्थितम् । दूर्वादिभिः पूजयंति विशेषेण प्रजापते ॥७॥ भाद्रशुक्लचतुर्थीजस्तत्र मुख्यो महोत्सवः। वर्षमध्ये वै भवति भक्ता यात्रां प्रकुर्वते ॥८॥ ततो महोदरस्यैव दर्शनेन हृदीप्सितम् । लभते मानवः सर्वं स्मरणेन तथा विभोः ॥९॥ क्षेत्रे मरणतो दक्ष ब्रह्मभूतो भवेन्नरः । अष्टौ विनायकाः प्रोक्तास्तेषां क्षेत्राणि सर्वदा ॥१०॥ ब्रह्मभूतमयान्येव तेषु सर्वे शिवादयः । संस्थिता भक्तिकार्यार्थं ज्ञातव्यं विबुधैः सदा ॥११॥ त्रैलोक्ये श्रेष्ठरूपा ये शेषादय उदाहृताः । ते सर्वे निवसंत्यत्र क्षेत्रेष्वष्टसु निश्चितम् ॥१२॥ तत्र गाणेशतीर्थं महोदरस्य च हर्षदम् । स्नानेनात्रकृतेनैव पुमान् सर्वार्थ- सिद्धिभाक् ॥१३॥ विष्ण्वादिषु तथाऽन्येषु तीर्थेषु च विशेषतः। गणेशक्षेत्रगेष्वेव स्नानमात्रेण देहिनाम् ॥१४॥ तत्तत पदप्रदानि स्युस्तेषामंते प्रजापते । ब्रह्मभूता भविष्यंति स्वानंदे वासकारिणः ॥१५॥ अन्यदेवस्य भक्ता ये क्षेत्रे गाणेशके मृताः। तस्य देवस्य लोके ते गमिष्यंति न संशयः ॥१६॥ महालये त्रयो देवा लयं गच्छंति चेत् प्रभो । तदा ते निजलोके वै गमिष्यंति सुखप्रदे ॥१७॥ क्षेत्रे मरणसंस्काराद्ब्रह्मभूता भवंति च । अतो नरेण तद्भक्त्या गाणेशं सेव्यमादरात् ॥१८॥ यत्र कुत्र स्थिता भक्ता ये भजंति महोदरम् । ते सर्वे ब्रह्मभूता वै ज्ञातव्याः पावना नृणाम् ॥१९॥ कुर्वंति ये शिवादीनां भजनं जन्मजन्मसु । तेन संस्कारयोगेन गाणेशास्ते भवंति वै ॥२०॥ गाणेशान्न परं ब्रह्म कथितं सर्वसंमतम् । अतो गणेशभक्ता ये ब्रह्मभूताश्च ते मताः ॥२१॥ इदं महोदराख्यानं कथितं ते प्रजापते । सर्वसिद्धिप्रदं पूर्णं समासेन यथामति ॥२२॥ शृणुयाद्यो नरो भक्त्या श्रावयेद्वा पठेद्यदि । अंते स ब्रह्मभूतश्च भविता नात्र संशयः ॥२३॥ अनेन न समं किंचित् त्रिषु लोकेषु विद्यते । सर्वदं मानवादीनां ब्रह्मादीनां च योगिनाम् ॥२४॥ व्रतानि विविधन्नाना कुरुते मानवोत्तमः। अस्य श्रवणमात्रेण तत् फलं लभते प्रभो ॥२५॥ नानातीर्थेषु यः स्नायात्तर्पयेद्देवतादिकान् । यथाशास्त्रं फलं तस्य तदस्य

यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यंतरण प्रस्तुत है:

श्रवणाल्लभेत् ॥२६॥ क्षेत्रेषु भक्तिसंयुक्तो नरो वासं करोति यः । विधिवद्धर्मशीलज्ञस्तत् फलं श्रवणाल्लभेत ॥२७॥ यज्ञैर्नाना- विधैर्दक्ष दृष्ट्वा देवान् यथार्थतः । यत्फलं लभते मर्त्यस्तदस्य श्रवणात् फलम् ॥२८॥ इष्टापूर्तादिकं सर्वं यः करोति नरोत्तमः । अस्य श्रवणतः सद्यस्तत्फलं लभते पुमान् ॥२९॥ बहुनाऽत्र किमुक्तेन ब्रह्मभूयप्रदं भवेत् । श्रवणेन न संदेहो धर्मकामार्थ- मोक्षदम् ॥३०॥ पुत्रपौत्रादिकं सर्वं धनं धान्यं विशेषतः । राज्यमश्वादिकं सर्वं लभते श्रवणेन च ॥३१॥ महोदरस्य माहात्म्यं गृहे संलिखितं भवेत् । न तत्र राक्षसादिभ्यश्चोराग्न्याथाद्भयं भवेत् ॥३२॥ ग्रहरोगदिका पीडा पूजनेन च नश्यति । पुस्तकस्यास्य भो दक्ष नात्र कार्या विचारणा ॥३३॥ इच्छंति जंतवो यद्यदस्य श्रवणकारकाः । तत्तन् महोदरः सुप्रीतो ददाति प्रतापवान्॥३४॥ वाचकं परितोष्यैव लभते तत्क्षणात् फलम् । गणेशसन्निधाने च श्रवणेन न संशयः ॥३५॥ पतिता उद्धरिष्यंति श्रवणेनास्य निश्चितम् । किं पुनर्भावसंयुक्ता ब्रह्मभूता भवंति चेत् ॥३६॥ नानेन सदृशं कुत्र वर्तते ब्रह्मगोलके । साक्षाद्योगपतिर्यत्र वर्ण्यते स महोदरः ॥३७॥ इति ते कथितं सर्वं संक्षेपेण मया प्रभो । महोदरस्य माहात्म्यं श्रोतुमिच्छसि किं पुनः ॥३८॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । तदेतत् कथितं सर्वं मया ते नात्र संशयः ॥३९॥ सर्वमान्यं विशेषेण मतमान्यं महामते । वेदादीनां तथा सारं ज्ञातव्यं ब्राह्मणा इदम् ॥४०॥ नानाशास्त्र- पुराणानि मंथयित्वा महामुनिः । व्यासः संकथयामास मह्यं ब्रह्मप्रदं प्रभुः ॥४१॥ न गणेशात् परं ब्रह्म न गणेशात् परं तपः । न गणेशात् परं कर्म ज्ञानं न गणपात्परम् ॥४२॥ त्यक्त्वा गणेशमेकं यो नरः कर्मपरायणः । ब्रह्मज्ञानादिकं सर्वं साधयेच्चेत् सुनिष्फलम् ॥४३॥ सिद्धेः पतिं परित्यज्य सिद्धमिच्छति शाश्वतीम् । फलहीनः स्वभावेन नारकी जायते नरः ॥४४॥ बुद्धेः पतिं परित्यज्य स्थिरबुद्धिं य इच्छति । न योगं लभते सोऽपि भस्मनि प्रहुतं यथा ॥४५॥ सर्वपूज्योऽयमेकश्च सर्वादिः सर्वभावनः । तं भजध्वं विशेषेण द्विजा वेदादिसंमतम् ॥४६॥ कथितं सर्वसारं ते महोदरकथानकम् । किं श्रोतुमिच्छसि प्राज्ञ वद शौनक ते नमः ॥४७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते श्रवणफलवर्णनं नामैकपंचाशत्तमोऽध्यायः ॥ ॥ इति तृतीयः खंडः समाप्तः ॥

॥ इति श्रीमुद्गलपुराणे तृतीयः खंडः समाप्तः ॥

॥ अथ श्रीमुद्गलपुराणे चतुर्थः खंडः प्रारभ्यते ॥

खं. ४ अ. १ पान १


॥ श्रीगणेशाय नमः ॥ शौनक उवाच । त्वया सूत महाप्राज्ञ महोदरचरित्रकम् । कथितं शांतिदं मोहनाशकं संश्रुतं मया ॥१॥ तथा तृप्तिं न याम्येव पायं पायं सुधामिव । नानेन सदृशं किंचिच्छांतिदं विद्यते द्विज ॥२॥ अतो गजाननस्यापि चरित्रं वद विस्तरात् । सर्वज्ञस्त्वं महाभाग मतोऽस्माभिर्न संशयः ॥३॥ मुद्गलस्य च दक्षस्य संवादं वद मानद । किं पृष्टं ब्रह्मपुत्रेण दक्षेणाग्रे सुबुद्धिना ॥४॥ सूत उवाच । शृणु भार्गव विप्रेंद्र महाज्ञानकरं प्रभो । गजाननस्य माहात्म्यं कथयामि यथा श्रुतम् ॥५॥ श्रुत्वा महोदराख्यानं नानाख्यानसमन्वितम् । मोहनाशकरं दक्षो हर्षितो ह्यभवन् मुने ॥६॥ मुद्गलं पुनरप्याह योगींद्रं वेदपारगम् । विनयेन समायुक्तो गणेशज्ञानलालसः ॥७॥ दक्ष उवाच । महोदरस्य माहात्म्यं श्रुतं भक्तियुतेन भोः । तेनाऽऽनंदसमायुक्तः कृतोऽहं योगिना त्वया ॥८॥ अधुना वद विप्रेश गजाननचरित्रकम् । कीदृशोऽवतरद्देवः कीदृशं ब्रह्म तत्र च ॥९॥ किमर्थं देहधारी स बभूव मुनिसत्तम । किं कर्मा किं गुणज्ञश्च वद सर्वं महामते ॥१०॥ पूर्वपुण्यप्रभावेण संगतिस्ते प्रजायते । धन्योऽहं सर्वभावेन शृणोमि च कथां शुभाम् ॥११॥ सूत उवाच । दक्षेणैवं महायोगी स पृष्टो बुद्धिशालिना । तं प्रत्युवाच भावज्ञो गाणपत्यपरायणः ॥१२॥ मुद्गल उवाच । शृणु दक्ष महाभाग धन्योऽस्यत्र न संशयः । कथां वर्धयसि प्राज्ञ गाणेशीं योगदां पराम् ॥१३॥ तव भावेन संतुष्टो वदामि सकलं प्रभो । गजाननस्य माहात्म्यं योगशांतिपदप्रदम् ॥१४॥ सांख्यं ब्रह्म विदेहाख्यं कथितं योगिभिः परम् । तदेव गजवक्त्रं वै जानीहि त्वं प्रजापते ॥१५॥ बिंदुब्रह्मात्मको देहः सोऽहं वक्त्रं प्रकीर्तितम् । तयोरभेदको बोधो बभावेव स देहवान् ॥१६॥ त्रिविधेषु स्थितो देवो तथापि तद्विवर्जितः । विदेहो गजवक्त्रश्च शोभत सांख्यधारकः ॥१७॥ बोधत्यागे महाभाग कः संख्यां कुरुते वद । ब्रह्मणां तेन सांख्यं तद्ब्रह्म वेदे प्रकाशितम् ॥१८॥ लोभासुरविनाशाय प्रकटोऽभूद्गजाननः । देवैर्विप्रैः प्रजानाथ प्रार्थितो भक्तिलालसः ॥१९॥ चतुर्थ्यां मध्यगे भानौ देहधारी समागतः । सा तिथिः परमा तस्य प्रीतिदा संबभूव वै ॥२०॥ सूत उवाच । इति श्रुत्वा वचो रम्यं दक्षो हृष्टमना मुने । जगाद मुद्गलं विप्रं चतुर्थीज्ञानसिद्धये ॥२१॥ दक्ष उवाच । का चतुर्थी तिथिः प्रोक्ता शुक्ला कृष्णा वद प्रभो । गणनाथप्रियाऽत्यंतं बभूव कथमेव सा ॥२२॥ पुनः पुनस्त्वया ब्रह्मन् कथितं तद् व्रतं शुभम् । अतो ब्रूहि चतुर्थ्यास्त्वं माहात्म्यं सकलं परम् ॥२३॥ दक्षस्य वचनं श्रुत्वा हर्षयुक्तो महामुनिः । मुद्गलस्तमथोवाच चतुर्थीसंभवां कथाम् ॥२४॥ मुद्गल उवाच । संक्षेपेण प्रवक्ष्यामि चतुर्थ्याश्च चरित्रकम् । गणनाथप्रियं पूर्ण