भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. १ अ. २१ पान ५१

पते ज्येष्ठराजाय तेऽस्तु ॥२७॥ नमो ब्रह्मणे सृष्टिकर्त्रे सदा वै रजोधारिणे वेदशास्त्रादिकर्त्रे । सदा सृष्टिहीनाय साम्याय धात्रे नमो मायिने मध्यवृत्तिस्थिताय ॥२८॥ नमः सत्वरूपाय विष्णुप्रेभेदाज्जगत्पालकायाथ मायाधराय । नमः सत्त्वहीनाय सर्वातिगाय कवीनां पते विघ्नहंत्रे नमस्ते ॥२९॥ नमस्तामसायाऽथ संहारकर्त्रे त्रिनेत्रप्रदीपाय शक्तेर्धराय । सदा कालरूपाय कैलासदाय तमोहीनरूपाय लंबोदराय ॥३०॥ नमः कर्मणां मूलबीजाय तेऽस्तु नमो भानुरूपाय तेजोमयाय । त्रिकालादिबोधाय सूर्याय भूम्ने प्रकाशैर्विहीनाय हेरंब तेऽस्तु ॥३१॥ नमः शक्तिरूपाय मोहप्रदाय क्रिया- धारभूताय नानाभ्रमाय । अनंतस्वरूपाधिलीलाधराय नमः शक्तिहीनाय सिद्धीश तुभ्यम् ॥३२॥ नमश्चंद्ररूपाय पुष्टिप्रदाय कलाभिस्त्रिलोकस्थभूतादिकेभ्यः । सुधाधारकायाऽथ नक्षत्रकादिप्रकाशाय ते ह्यन्नहीनाय ढुंढे ॥३३॥ नमः कामरूपाय कामारये ते नमस्ते गजाकारतुंडाय तुभ्यम् । हरींद्रादिदेवैः सदा संस्तुताय शुकाद्यैर्महद्भिश्च वंद्याय तेऽस्तु ॥३४॥ अनित्याय नित्याय देवेश देव सकामाय निष्कामभावप्रदाय । सदा सर्वपूज्याय सर्वाधिपाय जलेशेंद्रशेषादिभिः संस्तुताय ॥३५॥ नमः काश्यपायाऽथ वै कापिलाय वरेण्यस्य पुत्राय पाराशराय । नमः शंभुपुत्राय पार्श्वात्मजाय नमो भक्तिभोक्त्रे गणाधीश तेऽस्तु ॥३६॥ नमो माधवस्त्रीसुतायाऽथ तुभ्यं नमः सर्वमात्रे नमः सर्वपित्रे । नमः सर्वपुत्राय सर्वात्मकाय नमः सर्वसर्वाय नानामयाय ॥३७॥ नमः पाशधारिन् नमो दंतधारिन् सृणिं बिभ्रते वै सदानंददायिन् । नमः पुत्रपौत्रादि राज्यप्रदात्रे नमो भुक्तिमुक्तिप्रदायाऽथ तुभ्यम् ॥३८॥ नमोऽनंतशक्ते गुणानामधीश मयूरेश योगेश मायेश तुभ्यम् । नमोऽव्यक्तसुव्यक्तरूपाय दंतिन् गजाकारसाकारमोहाय तेऽस्तु ॥३९॥ नमो ह्येकरूपाय नानाप्रभेददाये विघ्नपालाय शुंडाधराय । अनाथाय नाथाय देवादिकानां निवासाय सर्वात्मनां ते नमो वै ॥४०॥ नमस्त्वंपदाकारदेहाय तुभ्यं नमस्तत्पदाकारतुंडाय तेऽस्तु । तयोरेकभावाऽसिरूपप्रयुक्तशरीराय साक्षात् सुधाग्ने नमस्ते ॥४१॥ नमो वामभागेन सिद्धि- स्वरूपाधुनामोहमायाजनानां जनित्री । सदा बुद्धिरूपा धृता दक्षिणांगे न पुंस्त्रीस्वरूपाऽसिरूपाय तेऽस्तु ॥४२॥ नमो आमरी त्वंपदाधारशक्तिः सदा तत्पदा कामदात्री ह्यभेदा । तयोरेकभावे स्वसंवेद्यनाम्नि पुरे मस्तके वासकारिंश्च तासाम् ॥४३॥ अखंडामृतं यत्र तोयं सुताम्रं समुद्रे स्थितं चेक्षुसंज्ञे नमस्ते । निराधाररूपे च पानेन तस्य न पुंस्त्री- प्रदायाऽत्र खेलंश्च तेऽस्तु ॥४४॥ जनानां सदा त्र्यक्षरं शृण्वतां च गणेशेति चानंददायिन्नमस्ते । सकृज्जल्पतां जन्ममृत्यू न

खं. १ अ. २२ पान ५२ 卐卐 तेषामपारप्रधाम्ने च ढुंढीश्वराय ॥४५॥ तवोपासका ब्रह्मभूता न चित्रं जनेभ्यश्च संस्पर्शनैर्ब्रह्मदा वै । सुरेंद्रादिपूज्या गणेशस्वरूपा भवेयुर्नमस्ते नमस्ते गणेश ॥४६॥ सूत उवाच । इति स्तुत्वा गणेशानं मुद्गलो मौनधारकः । पादौ धृत्वा गणेशस्य पतितो दंडवत् क्षितौ ॥४७॥ समुत्थाप्य स्वभक्तं तं सस्वजे परमादरात् । गजाननः प्रसन्नात्मा तमुवाच महामुनिम् ॥४८॥ गणेश उवाच । त्वया स्तोत्रं कृतं यच्च मदीयं मम संनिधौ । स्तोत्रोत्तमं प्रविख्यातं भविष्यति न संशयः ॥४९॥ स्तोत्रोत्तमेन मां स्तौति तस्मै मुक्तिं सभुक्तिकाम् । ददामि दृढभक्तिं च मदीयां नात्र संशयः ॥५०॥ न संकटं न रोगं च प्राप्नोति स नरोत्तमः । पुत्रपौत्रादिकं सर्वं धनं धान्यं ददामि वै ॥५१॥ मारणोच्चाटनादीनि नश्यंति पठनेन च । एकविंशतिवारं चं तथा तावद्दिनावधि ॥५२॥ कारागृहादिजाः पीडा नश्यंति पठनेन च । मनसेप्सितमाप्नोति नरो मे परमप्रियः ॥५३॥ त्वं तु मत्तो वरान् ब्रूहि दास्येऽहं भक्तियंत्रितः । त्वत्समो नास्ति भावज्ञो वशे तेऽहं सदा स्थितः ॥५४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते गणेशस्तोत्रोत्तमवर्णने एकविंशतितमोऽध्यायः ॥ ❖❖❖ ॥ श्रीगणेशाय नमः ॥ सूत उवाच ॥ गणेशवचनं श्रुत्वा भक्तिभावसमन्वितः । मुद्गलः प्रणिपत्यैनमूचिवान् हर्षपूरितः ॥१॥ मुद्गल उवाच ॥ किं मां लोभयसे ढुंढे वृणोमि च न किंचन । तव वाक्यानुरोधेन वृणोमि त्वं ददासि चेत् ॥२॥ तव भक्तिं दृढां देहि सदाऽखंडात्मिकां प्रभो । संपूर्णां भक्तिमिच्छामि गाणेशीं यत्रकुत्र च ॥३॥ मुद्गलस्य वचः श्रुत्वा विस्मितो गणराट् स्वयम् । अहो संपूर्णभावेन भक्तिमेकां वृणोषि यत् ॥४॥ गणेश उवाच ॥ मदीया त्वचला भक्तिः संपूर्णा प्रभविष्यति । त्रैलोक्ये तव भाग्येन समं भाग्यं न विद्यते ॥५॥ भक्तिः सा नवधा विप्र चित्ते ते रसदायिका । दशमं नास्ति संस्थानं चित्तस्य रसधारणे ॥६॥ श्रवणं कीर्तनं चैव स्मरणं पादसेवनम् । अर्चनं वंदनं दास्यं सख्यं देहनिवेदनम् ॥७॥ नवचिह्नं प्रवक्ष्यामि भक्तिमाहात्म्यमुत्तमम् । तेनैव प्राप्यते भक्तिर्जनैर्मे नाऽत्र संशयः ॥८॥ श्रवणं मद्गुणानां च मननं तादृशं 卐

खं. १ अ. २२ पान ५३ पुनः । तस्यानुकूलं कर्तव्यं जायतेऽनुभवस्ततः ॥९॥ रसोत्पत्तिस्त्वनुभवे तत्र सर्वा प्रजायते । श्रवणं मे तया कार्यं गुणानां जंतुना सदा ॥१०॥ प्रियं भवति नान्यच्च मदेकरसभावतः । तेनान्यश्रवणे प्रीतिर्यदा नोत्पद्यते क्वचित् ॥११॥ तदा संपूर्णतां प्राप्ता भक्तिर्मे श्रवणात्मिका । अहं वसामि तत्कर्णे सदा तद्भक्तिलालसः ॥१२॥ मद्गुणानां सदा यस्य कीर्तनं रसदायकम् । नान्यकीर्तनभावेषु तस्य वै मनसो रसः ॥१३॥ तदा भक्तिः सुसंपूर्णा मदीया कीर्तनात्मिका । प्राप्ता तेन सदा तस्य जिह्वाग्रे प्रवसाम्यहम् ॥१४॥ मदीयकार्यभावस्य विस्मृतिर्नैव जायते । समये सावधानो यो व्रतपूजादि- मार्गतः ॥१५॥ तेन स्मरणरूपा सा भक्तिः प्राप्ता महामुने । स्मृत्यां वसामि तस्याऽहं भक्तिभोगार्थमेव हि ॥१६॥ मदीय- पादपद्मं यत्सत्यमन्यदसत्यकम् । ज्ञात्वा देहश्रमे वै यो नालस्येन प्रवर्तते ॥१७॥ मम पादाश्रयः पूर्णः सदा येन कृतो मुने । अन्यत्राऽलस्यभावेन मिथ्याभूते स्थितेन च ॥१८॥ तस्य भक्तिः समुत्पन्ना पादसेवनरूपिका । तस्याऽलस- विहीनेऽहं देहे स्थास्यामि निश्चलः ॥१९॥ सांगोपांगं प्रकर्तव्यं मदीयं कर्म भावतः । अन्यच्च यादृशं जातं तादृशं किल तद्भवेत् ॥२०॥ अर्चनात्मकभक्तिः सा सदा प्राप्ता नरेण वै । सांगोपांगतया तत्र वसेयं भक्तिभावितः ॥२१॥ न मत्समं भवेज्जातु वेदादिषु विचारतः । मयि श्रेष्ठत्वमापन्नं श्रेष्ठं मन्मननं भवेत् ॥२२॥ यदा वै मत्समं नास्ति चित्ते यस्य प्रतिष्ठितम् । तदा वदनजा भक्तिः प्राप्ता तेन न संशयः ॥२३॥ तस्य श्रेष्ठत्वभावेऽहं सदा तिष्ठामि सर्वतः । भक्तिभोक्ता स्वयं भूत्वाऽन्यत्र श्रेष्ठत्वनाशकः ॥२४॥ गणेशोपासनामार्गो यथा शास्त्रेषु दृश्यते । तं दृष्ट्वा तादृशं भूत्वा गाणपत्योऽभिमानतः ॥२५॥ मां भजेत् यः स्वभावेन गाणेशाऽहंकृतेर्धरः । तेन दास्यं समापन्नं भक्तिभावेन भावितम् ॥२६॥ गाणपत्यस्वभावेऽहं तं स्थास्यामि स्वभावतः । दास्यभक्तिविभोगार्थमेकनिष्ठाप्रकाशकः ॥२७॥ मित्रस्य सन्निधाने तु यथा गोप्यं न विद्यते । बाह्यांतरं च मित्रस्य मित्रं जानाति सर्वतः ॥२८॥ तथा बाह्यांतरैर्हीनो दंभहीनः स्वभावतः । भजते मां नरो यस्तु सख्यं प्राप्तं मदीयकम् ॥२९॥ यत्र कुत्र स्थितेनैव यद्यन् मनसि संधृतम् । गणेशेवरेण तज्ज्ञातं सर्वांतर्यामिनाऽखिलम् ॥३०॥ एतादृशविचारेण भययुक्तेन चेतसा । सर्वभावेन मां यस्तु भजतेऽनन्यचेतसा ॥३१॥ तस्य सख्ये सदाऽहं वै तिष्ठेयं भक्तिलोलुपः । बाह्यांतरैकभावेषु मोहितस्तस्य चेष्टया ॥३२॥ पंचधा चित्तभूमिर्या तां त्यक्त्वाऽहं तया विना । गणेशोऽहं न संदेहो येनात्मेति निवेदितः ॥३३॥ अहंभावविहीनेऽहं भक्तिभावेन संस्थितः । नैव

खं. १ अ. २२ पान ५४ भिन्नो भविष्यामि तस्माज्जानीहि भो मुने ॥३४॥ इत्येवं नवधा भक्तिं रसयुक्तां करोति यः। सहते क्षणमात्रं न चित्तं मदरसहीनकम् ॥३५॥ तदा संपूर्णभक्तो मे जातो वै नात्र संशयः। अहं मोहेन संयुक्तस्तत्र तिष्ठामि सर्वदा ॥३६॥ न क्षणं तं परित्यक्तुं शक्तोऽहं भक्तियंत्रितः। नवधा चित्तभावेन तं रक्षिष्यामि सर्वदा ॥३७॥ न च भक्तिसमो भावो मम प्रीतिकरः कदा। तेन बद्धो भविष्यामि हृदये तस्य धीमतः ॥३८॥ नवधा मां भजंते ये नरा नानाविधाः सदा। तेषां यत्राधिकत्वं च भक्तावेकस्वभावतः ॥३९॥ अधिका च रसोत्पत्तिर्यत्र भक्तौ समागता। तस्यां मुख्यत्वमापन्नं नवधा भवने सति ॥४०॥ तत्र मुख्यस्वभावेन भक्तराजाश्च ये स्थिताः। तान् वदामि महाभाग शृणु तत्त्वमिदं महत् ॥४१॥ श्रवणे मद्गुणानां यदाधिक्यं खलु विद्यते। तत्र वै कार्तिकेयश्च भक्तराजः प्रकीर्तितः ॥४२॥ कीर्तने भक्तराजस्तु सूर्य आत्मा शरीरिणाम्। स्मरणे रामचंद्रो वै भक्तराजः स्मृतो बुधैः ॥४३॥ पार्वती पादसेवायां भक्ताधीशा च संस्मृता। महाविष्णुः स्वयं राजा भजतामर्चने मम ॥४४॥ वंदने भक्तराजेन्द्रः शंकरः सर्वभावतः। दास्यं भक्ताधिपः प्रोक्तो रामो वै जमदग्निजः ॥४५॥ सख्ये चतुर्मुखः साक्षाद्भक्तानामधिपः स्मृतः। वैयासकिः शुको भूपो मयि त्वात्मनिवेदिनाम् ॥४६॥ एते भक्ताधिपाः प्रोक्ता अंतरायविहीनकाः। मां भजंते महाभागा ब्रह्मभूतास्ततोऽप्यहो ॥४७॥ त्वं तेषां च सदा राजा कृतो मे नाऽत्र संशयः। पूर्णभक्तिस्वभावेन मां भजिष्यसि यत्नतः ॥४८॥ नवधा भक्तिभावेषु तवाधिक्यं भविष्यति। पूर्णभक्तो मदीयस्त्वं भक्तेशेशः कृतो मया ॥४९॥ मद्भक्तो त्वत्समो नैवाऽभवन्न प्रभविष्यति। वर्तते न कदा विप्र त्वदधीनोऽहमंजसा ॥५०॥ तवांगवायुना स्पृष्टाः पूता वै दर्शनादिभिः। भविष्यंति न संदेहो ब्रह्मबुद्धियुतास्तथा ॥५१॥ सूत उवाच ॥ एवमुक्त्वांतर्दधेऽसौ गणेशो ब्रह्मनायकः। तदादि स मुनिः प्रोक्तः सर्वेषां वंद्यतां गतः ॥५२॥ मुद्गलस्य चरित्रं यः शृणुयाद्वा पठेन्नरः। श्रावयेद्भावयुक्तेभ्यः स वै सर्वार्थसिद्धिभाक् ॥५३॥ इह भुक्त्वाऽखिलान् भोगानंते ब्रह्ममयो भवेत्। भक्तराजेंद्रता तस्य विघ्नेशस्य भविष्यति ॥५४॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते मुद्गलवरप्रदानं नाम द्वाविंशोऽध्यायः ॥

[खं. १ अ. २३] [पान ५५]

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच ॥ धन्योऽसि योगिराजोऽसि भक्तराजेन्द्रता च ते। मदीयं भाग्ययोगेन संप्राप्तं दर्शनं प्रभो ॥१॥ अष्टौ ये गणराजस्य ह्यवताराः प्रकीर्तिताः। तान् मे कथय योगीश विस्तरेण महामुने ॥२॥ दैत्याः संनिहिता- स्तैस्तु तेषां जन्मादिकं परम्। सकलं युद्धभागं मां कथयस्व विशेषतः ॥३॥ एतादृशा महादैत्या न श्रुताः कुत्रचित्प्रभो। विस्मापयति चेयं मां कथा पापापनोदिनी ॥४॥ मुद्गल उवाच। प्रजापते कथां दिव्यां तव भावनियंत्रितः। कथयामि समासेन गणनाथप्रमोदिनीम् ॥५॥ प्रथमं वक्रतुंडस्य चरित्रं शृणु पुण्यदम्। मत्सरासुरयुद्धं च गणेशेन महाद्भुतम् ॥६॥ इंद्रस्येंद्रपदप्राप्तिर्जाता यस्मिन् दिने परा। तस्मिन् दिने महोत्साहो वार्षिकः क्रियते मुने ॥७॥ कदाचिदमरावत्यां महोत्सवपरायणः। सुभद्रासनगोतिष्ठद्देवेंद्रः सर्वपूजितः ॥८॥ तावद्देवाः सगंधर्वा अप्सराभिः समागताः। नागा यक्षा मुनींद्राश्च राक्षसा देवयोषितः ॥९॥ आगतो भगवांस्तत्र सर्वभूतगणैर्वृतः। स्कंदनंदीश्वराद्यैश्च पार्वत्या सह शंकरः ॥१०॥ लक्ष्म्या सह स्वयं विष्णुर्विष्वक्सेनादिभिर्गणैः। वेदादिभिर्वृतो ब्रह्मा प्रजापतिभिराययौ ॥११॥ सर्वग्रहैः समायुक्तो भानुस्तत्रागमत् स्वयम्। अग्निश्च धर्मराजश्च कुबेरो वरुणस्तथा ॥१२॥ आदित्या मनवश्चैव वसवो रुद्रकास्तथा। साध्या विद्याधरा विश्वेदेवास्तत्राययुः प्रभो ॥१३॥ अश्विनौ शेषनागश्च बहवस्तत्र चागताः। उपविष्टा मुदा युक्ता उत्सवे वै शतक्रतोः ॥१४॥ तत्र नाना कथाश्चक्रुरानंदपरिवर्धिनीः। मुनयो भावसंयुक्ताः पुरातनभवा मुने ॥१५॥ नृत्यमप्सरसश्च- क्रुर्गंधर्वा ललितं जगुः। हाहाहूहूमुखा अन्ये तुंबुरुर्नारदस्तथा ॥१६॥ वादयन्ति स्म वादित्रं तान् स्तुवंति स्म चारणाः। हृष्टा पुष्टा जनास्तत्र स्त्रियः परमहर्षिताः ॥१७॥ तत्र रंभा विचित्राणि नृत्यादीनि चकार ह। हावभावप्रयुक्तानि चेष्टितानि प्रजापते ॥१८॥ कंदुकक्रीडनोद्युक्ता सभायां यत्र तत्र सा। बभ्राम तां प्रपश्यन् सन्निंद्रोऽभूत् कामपीडितः ॥१९॥ मोहितो मंजुलरवैर्नृत्यादिकलया तथा। कर्तव्यं नैव संजज्ञौ तन्मनाः स सुरेश्वरः ॥२०॥ शीघ्रमेव समाप्तं तमुत्सवं कृतवान् स्वयम्। सर्वे स्वस्वस्थलं जग्मुर्मानिता हर्षिता विभो ॥२१॥ रंभां निमंत्र्य चेंद्रश्च जगाम वनमेकलः। नानापरिमलैर्युक्ता यत्र वृक्षाः सुपुष्पिताः ॥२२॥ नानाप्रस्रवयुक्तानि निर्मलानि जलानि च। सुवर्णपद्मशोभानि षट्पदैः शोभितानि च ॥२३॥ इत्यादिकामपुष्टानि नानावस्तुयुतानि च। वनानि तत्र रेमे साविंद्रः कामविमोहितः ॥२४॥ रंभायासक्तचित्तस्य वज्रिणः क्रीडतो भृशम्। न तृप्तिरभवत्तत्र घृतेन दहनस्य वा ॥२५॥ तत्राजगाम दुर्वासाः स्वेच्छया विचरन् मुनिः। तं दृष्ट्वा लज्जितो

राजा देवानां विनयं श्रितः ॥२६॥ त्यक्त्वा रंभां नमस्कृत्य तं मुनिं प्रांजलिः स्थितः । तादृशं तं परित्यज्य जगाम मुनिसत्तमः ॥२७॥ अतिविह्वलगात्रत्वाच्चस्कंद सुरशत्रुहा । रेतोऽभूत् पतितं भूमौ तस्माद्दैत्यसमुद्भवः ॥२८॥ इंद्रोऽपि स्वगृहं गत्वा रंभां त्यक्त्वा चकार ह । सुराणामखिलं राज्यमात्मानं निंदयन्मुहुः ॥२९॥ अहो धिक् बत राज्यं मे सुराणां स्त्रीजितस्य च । असुराणामिवात्यंतं मनो मे चंचलं भृशम् ॥३०॥ पुंश्चल्या मोहितं नित्यं धिङ् मां साध्वभिनिंदितम् । कुकर्मकृत्यदोषाच्च भयमग्रे भविष्यति ॥३१॥ इत्येवमात्मनात्मानं निंदयामास देवपः । स्वधर्मे संस्थितो दक्ष वृत्तहा पुनरेव च ॥३२॥ इंद्रवीर्याच्च कालेन भूम्यां जातो महासुरः । तं पृथिवी पालयामास स्तनपानादिना भृशम् ॥३३॥ स तु संववृधे तत्र हिमाचल इवापरः । आजानुबाहुर्दीर्घाक्षो महावक्षा महाबलः ॥३४॥ रक्तवर्णः क्रूरकर्मा यथाग्निरूर्ज्वलितो बभौ । नाम तस्याऽकरोद्भूमिर्मत्सरेति स्वभावतः ॥३५॥ पंचवर्षवयोगस्य चोपवीतप्रदानकम् । ब्राह्मणैः कारयामास धरित्री स्नेहभावतः ॥३६॥ स तु वेदादिकं सर्वं शिक्षितुं गुरुसन्निधौ । स्थित आर्जवसंयुक्तो ग्राहकः श्रवणेन वै ॥३७॥ महाबुद्धिः स कालेनाल्पेन वेदादिपारगः । दुर्बुद्धेः कन्यकां रम्यां तामुवाह विलासिनीम् ॥३८॥ नाम्ना मदकराख्याता सर्वावयव- शोभिनी । चतुरा सर्वकार्येषु विषयस्य विवर्धिनी ॥३९॥ एकस्मिन् दिवसे तस्य मतिर्जाता दुरात्मनः । विपुलं सुतपस्तप्त्वा जेयं ब्रह्मांडमोजसा ॥४०॥ स शुक्रमुपसंगम्य विद्यां पंचाक्षरीमगात् । तपसा च तया शंभुं तोषयामास भक्तितः ॥४१॥ निर्जने वन एकांते पुष्पपल्लवशोभिते । कंदमूलफलोपेते सुजले संस्थितोऽतपत् ॥४२॥ दिव्यवर्षसहस्रं स निराहारतया स्थितः । जपन् पंचाक्षरं मंत्रं ध्यात्वा हृदि सदाशिवम् ॥४३॥ दीक्षां पाशुपतीं धृत्वा तोषयामास शंकरम् । तस्य प्रतपसा देवाः क्षुभिताश्च समंततः ॥४४॥ न प्रकाशो खेरासीन्नाग्निर्जज्वाल भास्करः । भूतान्याकुलतां तत्र प्राप्तानि तपसो बलात् ॥४५॥ देवाः सर्षिगणाः सर्वे शंकरं शरणं ययुः । मत्सरस्य तपस्तप्तान् रक्ष नो जगदीश्वर ॥४६॥ शंकरस्तैः समायुक्तः पार्वत्या स्वगणैः सह । तं देशमगमद् दृष्टो भक्तं ज्ञातुं महाद्भुतम् ॥४७॥ अस्थित्वचासमायुक्तं श्वास- मात्रावशेषितम् । हीनांगमावृतं तत्र वल्मीकेन समंततः ॥४८॥ महोग्रतपसा युक्तं देवाः सर्वे विसिस्मिरे । ऋषयोऽपि महाभागा दृष्ट्वा तं तापसं परम् ॥४९॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते मत्सरासुरतपोवर्णनं नाम त्रयोविंशतितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। मत्सरासुरमुग्रं तं तापसं शांभवं प्रभो। बोधयामास तं शंभुर्दानवेंद्रं महाबलम् ॥१॥ शंकर उवाच। भो भो मत्सर चोत्तिष्ठ वरान् वरय सुव्रत। तवोग्रतपसा भक्त्या संतुष्टोऽहं ददामि तान् ॥२॥ अहो धैर्यमहो धैर्यं धन्यं ते तापसोत्तम। देहभावमतिक्रम्य स्थितोऽसि दृढभक्तितः ॥३॥ क्लेशं त्यज तपो जातं सिद्धिं प्राप्तां तपोभुवम्। पश्येच्छसि तथा यं यं तं तं दास्यामि दुर्लभम् ॥४॥ शिवस्य वचनं श्रुत्वा प्रबुद्धो मत्सरासुरः। उन्मील्य लोचनेऽपश्यच्छंकरं पुरतः स्थितम् ॥५॥ शिवदर्शनमात्रेण सत्तावान्भवत्किल। उत्थाय तं नमस्कृत्य विनम्रः प्रेम- विह्वलः ॥६॥ उवाच तं महाबुद्धिः शिवं कल्याणकारकम्। भक्तानां कल्पवृक्षं च पार्वतीसहितं प्रभुम् ॥७॥ मत्सरासुर उवाच। धन्यो वंशो मदीयोऽद्य जन्म संपत्तिशास्त्रजम्। ज्ञानं मे जनको माता तपो धन्यं महत्प्रभो ॥८॥ मुनयो यं न जानंति योगिनो ध्यानशालिनः। वेदाः स्मृतिसमायुक्तास्तं पश्यामि सदाशिवम् ॥९॥ एवमुक्त्वा नमस्कृत्य पूजयामास हर्षतः। ऋषिदेवयुतं शंभुं भक्तिभावसमन्वितः ॥१०॥ यथाविधि स संपूज्य शंकरं दंडवत् क्षितौ। प्रणिपत्य समुत्थाय प्रांजलिः स्तोत्रमाकरोत् ॥११॥ मत्सरासुर उवाच। नमस्ते त्रिदशेशाय शंकराय शिवाय च। निर्गुणाय गुणानां चेशाय सर्व- गुणाय ते ॥१२॥ अपाराय महादेव पिनाकधर ते नमः। नमो नमो महेशाय सर्वाधिपतये नमः ॥१३॥ उमाकांत नमस्तुभ्यं भक्तसंरक्षकाय च। भक्तिप्रियाय देवाय सर्पहाराय ते नमः ॥१४॥ वृषध्वजाय नंदीशवाहनाय त्रिशूलिने। भस्मांग- रागधाराय व्याघ्रांबरधराय ते ॥१५॥ भालचंद्र नमस्तुभ्यं पंचवक्त्राय शंभवे। दशबाहुधरायैव त्रिनेत्राय कपालिने ॥१६॥ जटाजूटधरायैव नमो गंगाधराय ते। गिरीशाय नमस्तुभ्यं गजचर्मधराय ते ॥१७॥ सदा ब्रह्ममयायैव नमो ब्रह्मप्रदायिने। निराधाराय नित्याय सुयोगिपतये नमः ॥१८॥ अपारगुणधाराय रुद्राय तु नमो नमः॥ किं स्तौमि त्वां महादेव यत्र वेदा विकुंठिताः ॥१९॥ इति स्तुत्वा महेशानं मत्सरः प्रणनाम तम्। उत्थितं तं शिवः प्राह वरं वरय सुव्रत ॥२०॥ इदं त्वया कृतं स्तोत्रं मम प्रीतिविवर्धनम्। पठते शृण्वते सर्वकामदं प्रभविष्यति ॥२१॥ विद्यामायुः सुखं राज्यं पुत्रपौत्रादिकं च यत्। भुक्तिं मुक्तिं प्रदास्यामि स्तोत्रेण स्तुवतेऽसुर ॥२२॥ श्रुत्वा शिववचो रम्यं प्रहृष्टो मत्सरोऽब्रवीत्। विनयावनतो भूत्वा शिवं भक्तवरप्रदम् ॥२३॥ मत्सर उवाच। यदि देवेश तुष्टोऽसि यदि दास्यसि मे वरान्। तदाऽभयं ते सर्वत्र भक्तिं देहि सदाशिव ॥२४॥ पंचभूतात्मकं सर्वं त्रिगुणैः सुविराजितम्। तस्मान्मे मरणं शंभो न कदाचिद्भवेदिह ॥२५॥

खं. १ अ. २४ पान ५८ आरोग्यादिसमायुक्तमैश्वर्यं देहि शाश्वतम् । ब्रह्मांडस्य च राज्यं मे देहि देहि सदाशिव ॥२६॥ मुद्गल उवाच । तस्यैतद्वचनं श्रुत्वा शिवो विस्मितमानसः । देवाः सर्षिगणाः सर्वे विस्मिताः प्राभवन् तदा ॥२७॥ किमुक्तं मत्सरेणैवं का गतिर्वा भविष्यति । तपसोग्रेण संतुष्टः शिवस्तं प्रत्युवाच ह ॥२८॥ शिव उवाच । यत्त्वया प्रार्थितं दैत्य तत्सर्वं ते भविष्यति । उग्रेण तपसा तुभ्यं मया दत्तं सुदुर्लभम् ॥२९॥ मुद्गल उवाच । वरान् सुदुर्लभान् प्राप्य मत्सरो गृहमागमत् । हर्षितो हर्षयन् सर्वान् सुहृदो मातरं श्रियम् ॥३०॥ आह्लादेन सदा तत्र स्थितो मान्यैः स मानितः । नानाभोगान् प्रभुंजानः सुहृद्द्वयः सुखदायकः ॥३१॥ पुत्रौ मदकरायां द्वौ जनयामास मत्सरः । अतिक्रांतियुतौ तुल्यौ पित्रा वीर्येण तेजसा ॥३२॥ सुंदरप्रिय इत्येवं नाम ज्येष्ठस्य सोऽकरोत् । विषयप्रियनामाभूत्कनिष्ठः प्रीतिदः परः ॥३३॥ एकस्मिन् दिवसे दैत्यः श्वशुरस्य गृहं गतः । तत्र नानाविधा दैत्या मिलितास्तमबोधयन् ॥३४॥ दैत्या ऊचुः । किं स्थितोऽसि महातेजस्त्वद्दास्यवशगा वयम् । जेष्ष्यामः सर्वदेवादींस्त्वत्साहाय्येन मत्सर ॥३५॥ त्वत्समो नैव वीरोऽस्ति ब्रह्मांड कुत्रचित्प्रभो । वरदान- बलाढ्यस्त्वं निर्भयोऽसि महासुर ॥३६॥ आज्ञां देहि गमिष्यामो जेतुं देवान्न संशयः । शस्त्रास्त्रैस्तान्विनिर्भिद्य भवाम स्वर्गभोगिनः ॥३७॥ मुद्गल उवाच । दैत्यानां वचनं श्रुत्वा मत्सरस्तानुवाच ह । भवद्भिः कथितं सर्वं हितकारकमुत्तमम् ॥३८॥ ममापि हृदये नित्यमेवं वसति दानवाः । किं करोमि च मे माता निवारयति मां सदा ॥३९॥ इंद्रस्ते स पिता पुत्र देवाः पूज्याः सवासवाः । अतो धर्मेण वर्तस्व येनेहपरलोकभाक् ॥४०॥ मत्सरस्य वचः श्रुत्वा दैत्यास्ते त्वब्रुवन् वचः । अखिलं धर्मकरणं बाधादं भावपूर्वकम् ॥४१॥ दैत्या ऊचुः । शृणु मत्सर वृत्तांतं पुराभूतं स्वधर्मजम् । अस्माकमेव मान्यं यत्तव संशय- नाशनम् ॥४२॥ जलंधरः समुत्पन्नः शिववीर्यान्महाबलः । तेन शंभुजितः संख्ये देवाः सर्वे च निर्जिताः ॥४३॥ पार्वतीं दारभावार्थं ग्रहीतुं तूद्यतोऽभवत् । दैत्या एतादृशा जाता बहवो मत्सरासुर ॥४४॥ यत्र मान्याः संति देवास्तत्र दैत्याः प्रदूषिताः । दैत्या मान्यास्तदा देवा दूषिताः प्रभवंति वै ॥४५॥ देवेंद्राः शत्रवः संति दैत्यानां सततं प्रभो । अतस्त्यक्त्वा स्वसंदेहं जय देवान् महाबल ॥४६॥ त्यज तां मातरं पृथ्वीं मुनिदेवसहायिनीम् । वसात्र त्वं महाभाग अस्माभिः सहितः सदा ॥४७॥ तेषां वचनमाकर्ण्य मत्सरोऽहितकारकम् । तथैव कृतवांस्तत्र त्यक्त्वा पृथवीमुवास ह ॥४८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुण्डचरिते मत्सरासुरसमागमो नाम चतुर्विंशतितमोऽध्यायः ॥

खं. १ अ. २५ | पान ५९

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच ॥ शृणु दक्ष महाभाग कथां पापप्रणाशिनीम् । वक्रतुंडावतारस्य प्रयोजनविका- शिनीम् ॥१॥ दैत्याः संभूय सर्वे ते गताः शुक्रं महामुनिम् । दंडवत्तं प्रणेमुश्च मत्सरेण समन्विताः ॥२॥ शुक्रस्तान् मानयामास किमर्थं यूयमागताः । भवता कार्यसिद्धिर्या तां करिष्यामि यत्नतः ॥३॥ शुक्रस्य वचनं श्रुत्वा सुधारससमं मुने । हर्षिताः प्रणिपत्यैनमूचुः सर्वे हितावहम् ॥४॥ तव स्वामिन् प्रसादेन मत्सरः कुलधारकः । अस्माकं सर्वभाग्यस्य फलरूपस्तथा कृतः ॥५॥ वरान् प्राप्य महाबाहुरस्माकं हितमाश्रितः। दैत्यानां दानवादीनां राजाऽयमिति निश्चितम् ॥ ६॥ तस्य राज्याभिषेकार्थं याहि त्वं सर्वमानद । अस्माकं धामसर्वस्वं त्वमेव मुनिसत्तम ॥७॥ दैत्यानां वचनं श्रुत्वा शुक्लो- ऽवादीत् तथेति च । अगमत् राज्यलाभार्थं मत्सरस्य दुरात्मनः ॥८॥ मिलितास्तत्र सर्वे ते दैत्यदानवराक्षसाः । हर्षेण महता युक्ता महोत्सवपरायणाः ॥९॥ तेषां मुख्यान् महाभागांस्तान् शृणुष्व प्रजापते । संक्षेपेण प्रवक्ष्यामि प्राधान्येन महत्तमान् ॥१०॥ नमुचिः शंबरः शुंभो निशुंभः कालभैरवः । विरोचनो विप्रचित्तिः प्रह्लादो महिषासुरः ॥११॥ अंधकासुरनामा च रुरुदैत्यः प्रतापवान् । इत्याद्या बहवो दैत्या मिलितास्तस्य चोत्सवे ॥१२॥ यथाविधि तथा तत्र ब्राह्मणै- र्वेदपारगैः । ऋग्यजुःसाममंत्रैश्चाभिषिक्तो मत्सरोऽभवत् ॥१३॥ उशनाः सर्वकर्ताभूत्तेषां मध्ये प्रतापवान् । साक्षा- द्योगी गणेशस्य महाभक्तो महामुनिः ॥१४॥ दैत्यादीनां स राजाभून् मत्सरः परवीरहा । शुशुभेऽतीव तेजस्वी मध्या- ह्नार्क इव श्रिया ॥१५॥ सर्वे स्वस्वगृहं जग्मुः सनाथाश्च वयं कृताः । शुक्रेणेति वदन्तस्ते हर्षयुक्ता प्रजापते ॥१६॥ गते कियति काले च मत्सरः स मनो दधे । ब्रह्मांडजयने दुष्टो जुहाव सकलासुरान् ॥१७॥ आगतास्ते त्वराभाजः किं कार्यं वद मानद । तानुवाच जयाकांक्षी त्रैलोक्यं वशमानये ॥१८॥ तस्य तद् वचनं श्रुत्वा हृष्टाः सर्वे महाऽसुराः । नदंतो मेघसन्नादैः कालानां कलनात्मकैः ॥१९॥ शस्त्रास्त्राणि ह्यमोघानि धृत्वा वाहनगा बभुः । सन्नद्धाः सर्वभावेन चतुरंगबलान्विताः ॥२०॥ पदातयो ह्यसंख्याता नानाशास्त्रधरास्तथा । पर्वतद्रुमपाषाणहस्ताः संनिःसृताः प्रभो ॥२१॥ सिंदूरारुणभालाश्च मुक्त- केशा महाबलाः । उड्डीयोड्डीय धावंतः शिक्षायुद्धकरास्ततः ॥२२॥ शस्त्रयुद्धे मल्लयुद्धे गदायुद्धे विशारदाः । अस्त्रयुद्ध- विचारज्ञा निःसृताः प्रासधारकाः ॥२३॥ धूलिव्रजेन तेषां तु भास्करो निष्प्रभः कृतः । अग्रे दैत्यस्य सेनाया भूषणानि यथा बभुः ॥२४॥ तथा हस्तिसहस्राणां सहस्राणि ययुः पुरः । धातुभी रंजितान्येव नानाचित्रैर्महामुने ॥२५॥ सिंदूरारुण-

खं. १ अ. २६ पान ६० भालानि लसत्कुंभधराणि च । घंटासांद्रनिनादैश्च नादितानि त्वितस्ततः ॥२६॥ महावीराश्रितान्येव कुंतलाद्यस्त्रकैस्तथा । पूर्णानि चंचलाश्चैव पर्वता इव शोभिताः ॥२७॥ गिरीणां चैव दंताग्रैर्भेदकानि प्रजापते । शुंडाभिर्वृक्षजालानां छेदकानि महांति च ॥२८॥ मदेनासिक्रभालानि भ्रमरैर्गुजितानि च । रणे शत्रुसहस्राणां नाशकाराणि सर्वशः ॥२९॥ निःसृतानि पुरेभ्यश्च सेनाशोभाकराणि च । दैत्यैः सुदारुणैस्तानि स्वाश्रितानि समंततः ॥३०॥ ततोऽश्वानां महासेना निःसृता बलवत्तराः । चंचला वायुवेगाश्च तत्राऽश्वाः पूर्णभूषिताः ॥३१॥ चामरैर्वीजिताश्चैव मनोवेगा महाबलाः । उड्डीयोड्डीय धावंत आकाशे वायवो यथा ॥३२॥ खुराघातैर्विस्फुलिंगान् प्रस्रवंत इतस्ततः । नानाशास्त्रधरास्तत्र दैत्या रेजुर्यथा घनाः ॥३३॥ कालस्य भयदाः सर्वे नानायुद्धविशारदाः । अपाराश्च समारूढा दारुणाः पापनिश्चयाः ॥३४॥ तत्र केचिन्महादैत्याः खरारोहा विनिःसृताः । अजयानाधिरूढाश्च गोवाहनविराजिताः ॥३५॥ महिषारूढकाश्चान्ये व्याघ्रारूढा महाबलाः । सिंहशार्दूलवाहाश्च खगवाहास्तथापरे ॥३६॥ इत्यादिरूपेषु वाहनेषु विराजिताः । निःसृता असुराः सर्वे यममत्तुमि- वोद्यताः ॥३७॥ ततो रथसमारूढा रथिनो निःसृताः प्रभो । अपाराश्च महाक्रोधारुणनेत्रा भयंकराः ॥३८॥ रथाश्चालंकृतास्तत्र मणिमुक्तादिभिः परैः । नानाशस्त्रास्त्रभारैश्च पूरिता मेघघोषिणः ॥३९॥ ध्वजैरलंकृताः पूर्णा अश्वैर्जवनशालिभिः । संयुताश्चतुरैः सूतैर्महावीरैः समाश्रिताः ॥४०॥ रथाः खरयुताः केचिद् वृकैर्वै वाहिताः परे । सिंहैर्गोभिर्गजैर्ऋक्षैर्नानापशु- भिराबभुः ॥४१॥ तत्र वज्रसमांगैश्च खरैः शतमितैर्युतम् । अलंकृतं रथं दैत्यो मत्सरः स समारुहत् ॥४२॥ तस्याऽग्रे तत्सुतौ शूरावश्वारूढौ प्रजग्मतुः । विरोचनादयो दैत्याः समंताज्जग्मुराजिषु ॥४३॥ पृथिव्यां तस्य सैन्यं तत् समुद्र इव संबभौ । महारथमहावीरयुद्धभूषणभूषितम् ॥४४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते मत्सरासुरसेनावर्णनं नाम पंचविंशोऽध्यायः ॥ ॥ श्रीगणशाय नमः ॥ मुद्गल उवाच । ततो दक्ष महत्सैन्यं पृथिवीजयनोद्यतम् । हनने क्षत्रियाणां तत्प्रवृत्तं कालचक्रवत् ॥१॥ विरोचनादयो दैत्याः स्थिता यत्र यमोपमाः । युद्धं तैः सह कुर्वाणः कः स्थास्यति पुमान् भुवि ॥२॥ दैत्याः पादप्रहारेण

खं. १ अ. २६ पान ६१ चूर्णयंतोऽद्रिसंचयान् । शेषमस्तकमानम्य भारेणैव प्रचक्रिरे ॥३॥ तान् मेघसदृशान् दृष्ट्वा पर्वताकारसंस्थितान् । अभवन् यमरूपान् ते क्षत्रिया गतजीविनः ॥४॥ केचित्पलायितास्तत्र केचिच्च शरणं ययुः । महावीरास्तु ते युद्धं कृत्वा स्वर्गं ययुर्मृताः ॥५॥ ये मृतास्तत्सुतास्तैस्तु स्थापिताः करदायिनः । शरणागतराजानः स्थापिताः स्वपदे तथा ॥६॥ यच्च राजविहीनं तु दैत्यास्तत्राधिपाः कृताः । राजानः सर्वविषये बभूवुर्भोगसंयुताः ॥७॥ देशे देशे तथा दैत्याः क्षत्रियाणां च सन्निधौ । स्थापिता भावबोधार्थमेवं सर्वत्र कारितम् ॥८॥ सद्वीपां वसुधां सर्वां जित्वा दैत्यो ननंद ह । मत्सरोऽतिवशां पृथिवीं तत्र दृष्ट्वा प्रजापते ॥९॥ पातालमगमद्दैत्यो दैत्यवृंदसमन्वितः । मत्सरो नागसर्पाणां जयार्थं बलवांस्ततः ॥१०॥ नागोद्या- नानि गत्वा ते बभंजुर्दितिनंदनाः । तान् दृष्ट्वा नागराजा वै युद्धार्थं समुपाययुः ॥११॥ वासुकिस्तक्षकश्चैव कंबलाश्वतरौ तथा । इत्याद्या बहवो नागा नागराजाः समाययुः ॥१२॥ सन्नद्धाः क्रोधयुक्तास्ते महाभोगा महाबलाः । रथादिषु समारूढा नानावाहनगा बभुः ॥१३॥ शस्त्रास्त्रनिचयैर्बाणैर्दैत्यान् जघ्नुर्महाबलान् । दैत्यास्तान् शस्त्रसंघातैः पातयामासुरोजसा॥१४॥ नागैर्महाबलैस्तत्र निहता दैत्यसंचयाः । भग्नदर्पाः पलायंत दशदिक्षु सुविह्वलाः ॥१५॥ दैत्यानां कदनं दृष्ट्वा विरोचन- मुखाऽऽययुः । असुराः क्रोधसंयुक्ता नागांश्चामर्दयंस्तु ते ॥१६॥ शस्त्रास्त्रैर्विविधैर्दैत्या मारयामासुरोजसा । केषांचिन् मस्तका भग्नाः पादहस्तोदरं तथा ॥१७॥ शोणितानां महानद्यः प्रास्रवन् वै दिशो दश । भग्नदर्पा भयान्नागाः पलायनमकुर्वत ॥१८॥ केचित्तान् शरणं जग्मुर्दैत्यान् परमदारुणान् । हाहाकाररवैर्युक्ता नागास्त्राससमन्विताः ॥१९॥ दैत्यानां पौरुषं दृष्ट्वा वासुकि- प्रमुखाऽऽययुः । क्रोधेन परितप्तांस्तान् वारयामासुरोजसा ॥२०॥ तक्षकादिमहानागा विषं क्षुब्धाश्च तत्त्यजुः । विवरं तद्विषैः सर्वं व्याप्तं तत्र प्रजापते ॥२१॥ महाविषभवा ज्वाला ददाहासुरपुंगवान् । मृता दैत्या अनेके च गरलेन प्रपीडिताः ॥२२॥ न स्थातुं शक्यते तत्र दैत्यैः संग्राममंडले । शस्त्राणि तेषां सर्वाणि दग्धानि च तदा किल ॥२३॥ गजाश्वरथपादातं मृतं दग्धं च सर्वशः । मूर्च्छिताः पतिता भूमौ विरोचनमुखास्ततः ॥२४॥ नागा मोदं प्रचक्रुस्ते नादयंतो दिशो दश । हर्षेण महता युक्ता नृत्यंति स्म स्थिताः परे ॥२५॥ एतस्मिन्नंतरे तत्र प्रतापी च विरोचनः । उत्थितः समरश्लाघी गतपीडो महाबलः ॥२६॥ शुक्रेण तत्र दैतेया विद्यया निर्विषाः कृताः । उत्थिताः सर्वतः सर्वे अंधकप्रमुखा बभुः ॥२७॥ असुराः क्रोधसंयुक्ता गरुडास्त्रं च तत्त्यजुः । तस्मात्तु गरुडा जाता नागान् सर्वानभूंजत ॥२८॥ तत्र वासुकिना तेन विषज्वाला प्रवर्तिता ।

खं. १ अ. २७ पान ६२ गरुडाश्च तया दग्धा गरुडास्त्रं तथाऽभवत् ॥२९॥ एतत् दृष्ट्वा महाश्चर्यं वासुकेः पौरुषं महत् । विरोचनादयः सर्वे गरुडा माययाऽभवन् ॥३०॥ तैः सर्वैर्भक्षितं सैन्यं नागानां तद्दिशो दश । पलायंत भयोद्विग्ना महानागाश्च भीरवः ॥३१॥ सर्पराट् तक्षकाद्या ये गरुडैः पीडिता भृशम् । मूर्च्छिताश्च मृतप्राया जाता युद्धे च दारुणे ॥३२॥ शेषेण सर्ववृत्तांतो ज्ञातो ज्ञातिभयंकरः । आययौ सामभावेन शरणं दैत्यसन्निधौ ॥३३॥ किमर्थं क्रोधसंयुक्ता दैत्या ब्रूत महाबलाः । भ्रातरस्त्व- सुरा यूयं मदीया नात्र संशयः ॥३४॥ किमर्थं युद्धमारब्धं वक्तव्यं दितिनंदनाः । पातालवासिनः सर्वे भवंतो वयमेव च ॥३५॥ मुद्गल उवाच । शेषस्य वचनं श्रुत्वा प्रतापी च विरोचनः । उवाच तं वचो रम्यं तेजायुक्तं स्वभावतः ॥३६॥ विरोचन उवाच । शेष शेष महाभाग मान्योऽसि च महामते । स्नेहेन वदसि प्राज्ञ सत्यं शृणु च मद्वचः ॥३७॥ अस्माकं मत्सरो राजा ब्रह्मांडं वशमात्मनः । इच्छत्याशासनं तस्य ग्राह्यं युष्माभिराहतैः ॥३८॥ नोचेन्नागासुराणां च विनाशः प्रभ- विष्यति । त्वं श्रेष्ठः सर्वभावेन सर्वेषां हितमाचर ॥३९॥ विरोचनवचः श्रुत्वा शेषः सर्वार्थकोविदः । प्रहसंस्तमुवाचेदं सामयुक्तं महामतिः ॥४०॥ यदिच्छति महाभागो मत्सरस्तत् करोम्यहम् । इत्युक्त्वा दातुमुद्युक्तः करभारं च वार्षिकम् ॥४१॥ नानारत्नानि दत्त्वा वै साम चक्रेऽसुरैः सह । नागान् वासुकिमुख्यान् स गृहीत्वा स्वस्थलं ययौ ॥४२॥ असुरा हर्षिताः सर्वे जितनागा महाबलाः । पातालजयिनो भूत्वा वरुणं जेतुमाययुः ॥४३॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते पातालविजयो नाम षड्विंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । असुरा जयशोभाढ्या वरुणालयमागताः । दूतं संप्रेषयामासुर्वरुणस्य सभां प्रति ॥१॥ वरुणस्य सभां गत्वा दूतो वचनमब्रवीत् । शृणु तोयेंद्र वाक्यं मे प्रेषितो मत्सरेण यत् ॥२॥ मम वै वशगो भूत्वा तिष्ठ स्थाने महाबल । नोचेत्संग्रामभूमौ त्वां वधिष्यामि सुरांस्तथा ॥३॥ दूतस्य वचनं श्रुत्वा वरुणः क्रोधमूर्च्छितः । संग्राम्याय च सन्नद्धो बभूवातिभयानकः ॥४॥ मकरारूढ एवाऽसौ पाशायस्त्रप्रधारकः । यादांसि देवरूपाणि गृहीत्वा बहिराययौ ॥५॥ दूतेन कथितः सर्वो वृत्तान्तो वरुणस्य तम् । श्रुत्वा मत्सरदैतेयो दैत्यैर्युद्धोद्यतोऽभवत् ॥६॥ देवानांमसुराणां च सैन्ये

खं. १ अ. २७ पान ६३

परमदारुणे । परस्परं सुसन्नद्धे रणभूमौ प्रजग्मतुः ॥७॥ देवानां सैन्यमत्युग्रं दृष्ट्वा खलु विरोचनः । महिषासुरनामा च शुंभश्चैवांधकासुरः ॥८॥ अन्ये ते बहवस्तत्र धावंतो रणमूर्धनि । नादयंतो दिशः सर्वे जघ्नुर्देवांश्च साहसात् ॥९॥ मिलिता देवदैत्यास्ते परस्परजयेप्सवः । शस्त्रास्त्रैर्वृक्षपाषाणैर्जघ्नुर्वीराननेकंशः ॥१०॥ अभवत्तुमुलं युद्धं दैत्यदेवविनाशनम् । दिनत्रयं महाघोरं दैत्या भग्नास्ततोऽभवन् ॥११॥ जलशायिन एवं स्म देवा गर्जति भैरवम् । मूर्च्छिता दैत्यभूपाश्च विरो- चनमुखास्तथा ॥१२॥ तान् काव्यः सावधानांश्च चकार स्वेन तेजसा । उत्थिताः सर्ववीरास्ते युयुधुस्तवसुराः पुनः ॥१३॥ क्रोधेन महता युक्ता जघ्नुर्देवान् महाबलान् । पुनश्च तुमुलं युद्धं बभूवातिभयानकम् ॥१४॥ युद्धं चक्रुरहोरात्रं सुराः सर्वे जलौकसः । यादसां च गणाः सर्वे मृता भग्नाः प्रचूर्णिताः ॥१५॥ सर्वे देवगणास्तत्र वव्रजुः सर्वतोदिशम् । वरुणं च दधाराऽपि बलवान् स विरोचनः ॥१६॥ धृतं वरुणमाश्रुत्य दुद्रुवुश्च जलौकसः । मृताः केचित् क्षताः केचिच्छरणं के च तान् ययुः ॥१७॥ हर्षिता नादसंयुक्ता दैतेया जग्मुराहताः । उत्तरे धननाथं ते जलमार्गत एव च ॥१८॥ कुबेरेण स वृत्तांतः श्रुतो वरुणलोकतः । पलायनं समालंब्य कैलासे शंकरं ययौ ॥१९॥ तं तथागतमाश्रुत्य दैत्या परमदारुणाः । अलकायां प्रवेशं ते चक्रुश्च जयशालिनः ॥२०॥ एवं जित्वा कुबेरं तं वरुणेन समन्विताः । धर्मराजं ययुः सर्वे दैतेया मृत्युरूपकम् ॥२१॥ यमराजस्तु संनद्धः श्रुत्वा दूतमुखात् कथाम् । यमो रागैश्च रक्षोभिर्विविधैः परिवारितः ॥२२॥ महिषारूढ एवाऽसौ दंडहस्तो महाबलः । आययौ रणभूमिं च महामृत्युसमन्वितः ॥२३॥ यमं समागतं दृष्ट्वा मृत्युरोगादिभिर्युतम् । दैतेयाः क्रोधसंयुक्ता युयुधुः सहसा बलात् ॥२४॥ देवानां चैव दैत्यानां वीराश्च युयुधुर्भृशम् । परस्परं बोधयंतो जघ्नुर्नानाप्रहारतः ॥२५॥ महाद्भुतं पंचदिनं युद्धं दारुणरूपकम् । नाशकं देवदैत्यानां बभूवैवं प्रजापते ॥२६॥ याम्यैश्च मर्दिता दैत्या मृताः केचित् क्षताः परे । वव्रजुः सर्वशस्तत्र मृत्युसंत्रासतापिताः ॥२७॥ एतस्मिन्नंतरे तत्र विषयप्रिय आगतः । मत्सरासुरपुत्रस्तु युयुधे मृत्युना सह ॥२८॥ मत्सरप्रेरणात् शीघ्रं नराणां हृद्यताडयत् । तेनास्त्रेण च शस्त्रेण रोगाः परमपीडिताः ॥२९॥ याम्यास्ते मृत्युरूपा वै पलायनमकुर्वत । यमेन बहुधा शस्त्रैर्योधयामास दारुणम् ॥ महिषं मूर्च्छितं कृत्वा पातयामास वै यमम् ॥३०॥ उत्थितो धर्मराजश्च कालदंडेन वेगतः । अताडयद्दैत्यपुत्रं तं गर्जन्विषयप्रियम् ॥३१॥ कालदंडस्तु तं दृष्ट्वा पतितो धरणीतले । आगत्य सहसा तेन प्रतापेन धृतो यमः ॥३२॥ तस्यैतच्च महत्कर्म दैत्यपुत्रस्य दैत्यपाः । तुष्टुवुः

परमप्रीता धन्यं धन्यं तमब्रुवन् ॥३३॥ यमं धृत्वा च दैतेया आययुश्चामरावतीम् । इंद्रोऽपि देवसंघैश्च सन्नद्धो वैरभावतः ॥३४॥ अग्निवायुः प्रसन्नद्वावागतौ बलसंयुतौ । देवाः सर्वे महाभागाः स्वस्वलोकात् समाययुः ॥३५॥ विश्वेदेवाश्च साध्याश्च रुद्रा वसव एव च । गंधर्वाश्चैव यक्षाश्च विद्याधरसमायुताः ॥३६॥ ग्रहाश्चंद्रश्च सूर्यश्च आदित्या बलवत्तराः । सन्नद्धाः सर्वदेवास्ते वज्रिणं जग्मुराहताः ॥३७॥ सर्वदेवगणैरिंद्रो रणभूमिं समाययौ । ऐरावतसमारूढो वज्रपाणिर्महाबलः ॥३८॥ देवसैन्यं सुसन्नद्धमागतं स्वबलान्वितम् । दृष्ट्वा दैत्यगणाः सर्वे जघ्नुः शस्त्रप्रहारतः ॥३९॥ देवा जघ्नुश्च तान् शस्त्रैर्महाक्रोधसमन्विताः । एवं परस्परं तत्र तुमुलं युद्धमप्यऽभूत् ॥४०॥ मृता दैत्यास्तथा देवैस्ताडिताः शस्त्रघाततः । दैत्यैर्हताश्च देवास्ते छिन्ना भिन्नाः सुमूर्च्छिताः ॥४१॥ एवं परस्परं युद्धं देवदैत्यविनाशनम् । सप्तरात्रमभूत्तीव्रं ततो दैत्याः पलायिताः ॥४२॥ विरोचनादयः सर्वे मूर्च्छिता धरणीतले । जयवंतः सुरेंद्रास्ते वदंतः स्म प्रहर्षिताः ॥४३॥ एतद् दृष्ट्वा महाश्चर्यं सुंदरप्रिय आगतः । ज्येष्ठपुत्रो मत्सरस्य युयुधे सर्वदैवतैः ॥४४॥ शस्त्रास्त्रैर्मल्लयुद्धैस्तन् मर्दितं तेन सर्वशः । देवसैन्यं दिक्षु तत्र पलायत भयातुरम् ॥४५॥ शोणितप्रस्रवास्तत्र नद्यो जाताः प्रजापते । इंद्रोऽपि युयुधे तेन दैत्यपुत्रेण धीमता ॥४६॥ वज्रेण निहतस्तत्रेंद्रेण दैत्यो महाबलः । न चचाल तदाश्चार्यमिंद्रचेतसि संगतम् ॥४७॥ दैत्यपुत्रः समागत्य खड्गेनैरावतं गजम् । मूर्छितं कारयामास वज्रिणं च पदाग्रहीत् ॥४८॥ मर्दयित्वा सुरेशानं स्ववशं च चकार ह । धृत्वा पुरंदरं सोऽपि स्वस्थानमगमन्मुदा ॥४९॥ दैत्यैः संपूजितस्तत्र महाबलपराक्रमः । सुंदरप्रियपुत्रोऽभून् मत्सरस्य प्रहर्षितः ॥५०॥ देवाः केचिद् धृतास्तत्र केचिद्वै मूर्च्छिताः कृताः । केचित् पलायिता दक्ष भग्नाः केऽपि विचूर्णिताः ॥५१॥ एवं स सकलान् देवान् वशांश्चक्रे महाबलः । मत्सरासुर एवाऽयं स्वर्गाधीशो बभूव ह ॥५२॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते मत्सरासुरविजय इंद्रपराजयो नाम सप्तविंशतितमोऽध्यायः ॥

शीर्षक (Header): खं. १ अ. २८ | पान ६५


॥ श्रीगणेशाय नमः॥ मुद्गल उवाच । देवाश्च शरणं केचित् कश्यपादीन् समाययुः । विह्वला भयभीतास्ते शशंसुर्दैत्यचेष्टितम् ॥१॥ देवा ऊचुः। मत्सरेण प्रदुष्टेन जिता देवाः सवासवाः । इंद्रो धृतो महाभाग वयं शरणमागताः ॥२॥ रक्ष त्वं मुनि- शार्दूल त्वं पिता भयविह्वलान् । जीवनाशसमाद् दुःखानिंद्रं मोचय मत्सरात् ॥३॥ देवानां वचनं श्रुत्वा वसिष्ठादिसमन्वितः । ब्रह्माणं प्रययौ देवैः कश्यपो वंशवृद्धये ॥४॥ सत्यलोके समासीनं गत्वा दृष्ट्वा ननाम च । स्तुत्वा तं विविधैर्वाक्यैः प्रांजलिः प्रत्युवाच ह ॥५॥ कश्यप उवाच । मत्सरेण धृतः स्वामिन्निंद्रो देववरैः सह । देवस्थानपतिर्जातो दैत्यः परमदारुणः ॥६॥ देवा दैत्याः पदे स्वे स्वे यथायोग्ये वसंतु वै । तथा कुरु जगन्नाथ त्वं धाता च गतिर्हि नः ॥७॥ कश्यपस्य वचः श्रुत्वा देवांश्चर्षींनथाऽब्रवीत् । पितामहः प्रजानाथ हृदयेन विदूयता ॥८॥ ब्रह्मोवाच । शृणुध्वं मुनयो देवाः शिवप्राप्तवरोऽसुरः । अजेयः सर्वभूतानां देवादीनां विशेषतः ॥९॥ न शक्तोऽहं कदा कर्तु यथायोग्यं स्वभावतः । गच्छामि शरणं विष्णुं भवद्भिः सह पालकम् ॥१०॥ वैकुंठमगमद् ब्रह्मा देवैश्च मुनिभिः सह। गत्वा विष्णुं नमस्कृत्य स्तुत्वोवाच प्रजापतिः ॥११॥ मत्सरेण धृतो युद्धे इंद्रो देववरः प्रभो । किं स्थितोऽसि महाविष्णो त्वं पालक इति श्रुतः ॥१२॥ ब्रह्मणो वचनं श्रुत्वा विष्णुस्तं प्रत्युवाच ह । न शक्यते मया धातर्वशं कर्तुं महासुरम् ॥१३॥ शिवस्य वरदानेन मत्तोऽसौ दैत्यपुंगवः । तस्माच्च शरणं यामः शंकरं नात्र संशयः ॥१४॥ ब्रह्मादिभिः स्वयं विष्णुः कैलासमगमत्किल । शंकरं प्रणिपत्याऽह सर्वैर्मुनिगणैः सह ॥१५॥ विष्णुरुवाच । नमस्ते भगवन् शंभो नमस्ते शूलपाणये । नमस्ते जगतां नाथ सर्वसाक्षिन्नमोस्तु ते ॥१६॥ नमो नमो महादेव स्रष्ट्रे राजसरूपिणे । पात्रे विष्णुस्वरूपाय हंत्रे रुद्रस्वरूपिणे ॥१७॥ पंचवक्त्रधरायैव योगिने योगदायिने । निर्गुणाय निरूपाय ब्रह्मभूताय ते नमः ॥१८॥ मत्सरेण महादेव पीडितास्ते सुरर्षयः । धृत इंद्रः सुराधीशो मर्दयित्वा सुरान् परम् ॥१९॥ भयभीता वयं तेन शरणं त्वामुपागताः । रक्ष नो देवदेवेश त्वं श्रेष्ठो देवपालक ॥२०॥ विष्णो- र्वचनमाकर्ण्य शिवश्चिंतामुरः स्वयम् । उवाच तान् देवमुनीन् विष्णुमुख्यान् महेश्वरः ॥२१॥ शिव उवाच । तपसोग्रेण देवेश मया दैत्यो विवर्धितः । वरैर्महादुर्लभैश्च किं करोमि जनार्दन ॥२२॥ दैत्यो नाशयितुं विष्णो न शक्यः स कदाचन । विचारं कुरु देवेश त्वं बुद्धियुत एव हि ॥२३॥ शिवस्य वचनं श्रुत्वा विष्णुः परमकंपितः । उवाच दुःखयुक्तेन हृदयेन सुरेश्वरम् ॥२४॥ विष्णुरुवाच । कर्ता त्वमन्यथा कर्ता ह्यकर्ता नात्र संशयः । विपरीतं त्वयोक्तं चेद्वयं किं करवामहे ॥२५॥ तव वै सन्निधौ

खं. १ अ. २९                              पान ६६ देव वसामश्च सदाशिव । वयं दैत्यवशा नैव चराम इति मे मतिः ॥२६॥ वैकुंठादिपदं त्यक्त्वा तव सन्निधिमागताः । अधुना मत्सरो दैत्य आगमिष्यति तत्र सः ॥२७॥ वैकुंठं सत्यलोकं च गृहीत्वा सुखमेष्यति । तव स्थानं न कैलासं भक्तत्वाद्धै ग्रहीष्यति ॥२८॥ विष्णोश्च वचनं श्रुत्वा शिवो निःश्वाससंयुतः । स्थितस्तत्रैव दक्ष त्वं शृणु मत्सरचेष्टितम् ॥२९॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते मत्सरासुरचेष्टितकथनं नाम अष्टाविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । इंद्रं धृत्वा महादैत्यो मत्सरो हर्षसंयुक्तः । ऐरावतसमारूढो ययौ ताममरावतीम् ॥ १ ॥ विरोचनमुखैर्वीरैः संवृत्तो दैत्यपुंगवः । शुशुभे तत्र तेजस्वी प्रभावेण बलेन च ॥२॥ इंद्रासने समासीनं तं ययु- श्चाप्सरोगणाः । गंधर्वाश्चारणाश्चैव भयभीताः समंततः ॥ ३॥ सिषेविरे महाभागं मत्सरं त्वमितौजसम् । सर्वभावेन तं हृष्टं चक्रुः सर्वे स्वविद्यया ॥ ४॥ देवोद्यानेषु सर्वेषु विचचार महासुरः । कुशलो देवभोगेषु भोगांश्च बुभुजे परान् ॥५॥ देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् । दैत्येभ्यो मुख्यमुख्येभ्यो बलेन सहितो मुने ॥ ६॥ दत्तानि यानि स्थानानि स्थितास्तेषु महासुराः । नानारूपान् देवभोगान् बुभुजुस्तत्र संस्थिताः ॥ ७॥ मत्सरं सेवमानास्ते ह्यतिदर्पेण संवृताः । एकस्मिन् दिवसे भौम इंद्रासनसमाश्रितः ॥ मत्सरो हर्षयुक्तः सन् दैत्यान् प्रोवाच गर्वितः ॥ ८ ॥ मत्सरासुर उवाच । भो भो विरोचनाद्याश्च शृणुध्वं च वचोऽसुराः । ब्रह्मादयो महाभागाः कथमत्रैव नागताः ॥ ९ ॥ नमस्यंति न देवेशा मां यदा मत्सरान्विताः । सर्वं मदं तदा तेषां हरिष्यामि न संशयः ॥१०॥ मत्सरस्य वचः सर्वे तुष्टुवुर्दैत्यदानवाः । दूतं संप्रेषयामास मत्सरः क्रोधसंयुतः ॥११॥ गच्छ दूत त्रयाणां त्वं ब्रह्मादीनां पदेषु वै । देवेशान् वद वाक्यं मे सावधानेन चेतसा ॥१२॥ दर्शनार्थं मत्सरस्य यांतु देवा मया सह । नोचेन्मत्सरदैतेयस्ताडयिष्यति निश्चितम् ॥१३॥ मत्सरस्य वचः श्रुत्वा गतो दूतो बलान्वितः । अंधको नाम दैत्येंद्रो महावेगसमन्वितः ॥१४॥ सत्यलोके स धातारं न ददर्श महाबलः । शून्यां तां नगरीं वीक्ष्य गतो वैकुंठमादरात् ॥१५॥ तत्राऽपि तादृशं दृष्ट्वा गतः कैलासमेव सः । तत्रानंदयुतान् सर्वान् देवां- श्चर्षीन् ददर्श च ॥१६॥ सभामध्यगतो दैत्यः शिवचरैः प्रवेशितः । आसनस्थेन शर्वेण आसने विनिवेशितः ॥१७॥ कैलासविभवं दृष्ट्वा विस्मितो मानसेऽभवत् । सदानंदमयं धन्यं मन्यमानः स्वचेतसि ॥१८॥ पृच्छंतं शंकरं दैत्य उवाच

खं. १ अ. २९ पान ६७ बलगर्वितः । तृणीकृत्य महेशानं सर्वान् देवांस्तदांधकः ॥१९॥ अंधक उवाच । मत्सरासुरवाक्यं च शृणुध्वं सुरसत्तमाः । जित्वेंद्रं देवनाथं च जातोऽहं जगदीश्वरः ॥२०॥ अतो मद्दर्शनार्थं च भवंतोऽपि सहानुगाः । ब्रह्मा विष्णुश्च रुद्रश्च आगच्छंतु मदंतिकम् ॥२१॥ तस्माद्भवद्भिश्चैव मया सह सुरेश्वराः । आगंतव्यं मत्सरस्य दर्शनार्थं तु सत्वरम् ॥२२॥ अंधकस्य वचः श्रुत्वा शिवः क्रोधसमन्वितः । उवाच तं महादैत्यं मुखादग्निं समुद्विरन् ॥२३॥ शिव उवाच । किं मां वदसि पापिष्ठ तृणीकृत्य च यत् वचः । मद्धरस्य प्रभावेण मत्सरो विजयी ध्रुवम् ॥२४॥ यदाऽहं क्रोधसंयुक्तस्तदा भस्ममयं खलम् । करिष्यामि न संदेहः सासुरं मत्सरं खलु ॥ २५ ॥ मत्सराज्ञावशोऽहं रे किं प्रजातोऽसुराधम । मत्वा त्वां मूढ दूतेति मोच्यामि न संशयः ॥ २६ ॥ गच्छ तं मत्सरं दैत्यं वद वाणीं मयेरिताम् । नोचेत्त्वां भस्मसात् कुर्यां कुपितोऽहं खलोत्तम ॥ २७ ॥ शिवस्य वचनं श्रुत्वा मत्सरं त्वंधको ययौ । कथयामास वृत्तांतं सर्वदैत्ययुताय च ॥ २८ ॥ विभवं वर्णयामास कैलासस्य यथायतथम् । ब्रह्मांडॆ न समं किंचित् कैलासस्य महासुराः ॥ २९ ॥ अंधकस्य वचः क्रूरं श्रुत्वा दैत्याः महाबलाः । विरोचनमुखाः सर्वे मत्सरं क्रूरमब्रुवन् ॥ ३० ॥ किं स्थितोऽसि महाबाहो जेष्यामस्त्वत्प्रसादतः । देवत्रयं न संदेह आज्ञां देह्यासुरेश्वर ॥३१॥ दैत्यानां वचनंश्रुत्वा तेजोयुक्तं स मत्सरः । उवाच क्रोधसंयुक्तान् दैत्यान् हर्षयन्निव ॥३२॥ मत्सर उवाच । मया तपःप्रभावेण प्राप्तं तेजो महाद्भुतम् । तत्र शंभुर्वृथा मानी स्वात्मानं मन्यतेऽर्थदम् ॥ ३३॥ तपोहीनाय राज्यं वै ब्रह्माण्डस्य ददाति चेत् । तदायं जगदीशॊ वै मन्यते नान्यथा मया ॥ ३४ ॥ अतः शंभुं विजेष्यामस्तपस्तेजः- समन्वितः । दर्पं तस्य हरिष्यामि वृथा ब्रह्मेति मानिनम् ॥ ३५ ॥ वेदांते ब्रह्मवेदेषु कथितं निर्विकल्पकम् । तदेव सर्वमान्यं वै जगदीशतया बभौ ॥ ३६ ॥ सकामकर्मणा सर्वं प्राप्यते मनुजस्तथा । ब्रह्मार्पणतया कर्म कृतं चेन्मुक्तिराप्यते ॥ ३७ ॥ अखिलं कर्मणा सृष्टं पालितं च प्रहीयते । तत्र किं तैस्त्रिभिर्देवैः क्रियते कर्मजैः खलु ॥ ३८ ॥ कर्मणाऽहं सृजाम्येव पालयामि हरामि च । कर्माधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ ३९ ॥ एवमुक्त्वा महादैत्यो विरोचनमुखैर्वृतः । आययौ शंकरस्थानमावेशेन समन्वितः ॥ ४० ॥ नानाशस्त्रास्त्रधाराभिर्हतास्तत्र बहिः स्थिताः । शिवचाराश्च तैः सर्वे पलायंत च पीडिताः ॥ ४१ ॥ छिन्नभिन्नांगदेहाश्च ययुः शंकरसंनिधौ । ऊचुः समागतो दैत्यैः सर्वैः साकं स मत्सरः ॥ ४२ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते शिवमत्सरासुरसमागमो नाम एकोनत्रिंशोऽध्यायः ॥

खं. १ अ. ३० पान ६८ ॥ श्रीगणेशाय नमः॥ मुद्रल उवाच । गणानां च पिशाचानां वचनं दारुणं महत् । श्रुत्वा शिवः स्वयं तत्र युद्धार्थं दंशितोऽभवत् ॥ १ ॥ ब्रह्मा विष्णुश्च कामश्च वसवो धनदोऽभवत् । चंद्रः सूर्यस्तथा वह्निस्समीराद्याश्च दंशिताः ॥ २ ॥ कालाग्निरुद्रमुख्या ये भैरवो भूतनायकः । कृत्वा युद्धक्षमं वेषं स्थिताः शंकरसन्निधौ ॥३॥ अष्टभैरवमुख्याश्च वीरभद्रा- दयोऽभवन् । नंदी भृंगी पुष्पदंतमहाकालरवाः स्थिताः ॥४॥ महाकालीमुखास्तत्र देव्यः शस्त्रधराऽऽययुः । एवं नानाविधैः सैन्यैर्वृतः शंभुर्महेश्वरः ॥५॥ वृषारूढो महातेजा आययौ युद्धलालसः । यत्र दैत्याः स्थितास्तत्र कार्तिकेयादिभिर्युतः ॥६॥ शंकरं सैन्यसंयुक्तं नानायुद्धविशारदम् । नानाशस्त्रधरं दृष्ट्वा दैत्येशाश्चिक्षिपुः शरान् ॥७॥ तद् दृष्ट्वा कुपिता देवाः शस्त्रास्त्रैस्तानताडयन् । एवं परस्परं युद्धमभवद्दारुणं महत् ॥८॥ देवानां चैव दैत्यानामन्योन्यजयकांक्षिणाम् । शस्त्रास्त्र- निचयैर्बाणैरंधकारः प्रवर्तितः ॥९॥ सैन्यानां रजसा व्याप्तमाकाशं सर्वतो बभौ । न प्राज्ञायत तत्रैव स्वीयो वाऽपर एव च ॥१०॥ घंटानां शंखतूर्याणां वीराणां रथिनां तथा । बृंहितानां हेषितानां शब्दैस्तद्वधिरीकृतम् ॥ ११ ॥ देवान् दृष्ट्वा सुरा जघ्नुर्दैत्यान् देवास्तथापरे । असंबंधं महायुद्धं चक्रिरे सुरदानवाः ॥१२॥ शस्त्रैः शस्त्राणि संवार्य तथास्त्रैरस्त्रसंचयम् । मल्लयुद्धं महावीराश्चक्रुस्तत्र मदान्विताः ॥१३॥ संग्रामे तुमुले तत्र प्रवृत्ते घोररूपिणि । मृता मुमूर्षवः केचिच्छिन्नभिन्ना- स्तथाऽभवन् ॥१४॥ नानाजंतुशरीरेभ्यः प्रवृत्ता रक्तसंभवा । नदी बभौ महाघोरा मांसकर्दमशालिनी ॥१५॥ रक्ता चास्थिबलाका च केशशैवालशोभिता । चापसर्पाशिरःपद्माकबंधद्रुमवाहिनी ॥ १६ ॥ भल्लकाष्ठा महाघोरा चामरैस्तृणकै- र्युता । छत्रावर्ता दुर्गमा च चर्मपट्टिशदर्दुरा ॥ १७॥ भीरुभीतिकरा चैव वीरहर्षप्रवर्धिनी । तां दृष्ट्वा दैत्यराजास्ते क्रोधयुक्ताः समाययुः ॥१८॥ तैः समंताद्वलं भग्नं देवानां सर्वमंजसा । बाणजालैर्दिशो व्याप्ता गंतुं मार्गो न विद्यते ॥१९॥ पलायनपरा देवाः सर्वे दशदिशोऽगमन् । तद् दृष्ट्वा देवराजास्तान् वारयामासुरोजसा ॥२०॥ द्वंद्वयुद्धं च तत्रासीत्परस्पर- विनाशनम् । देवानां मुख्यदैत्यानां किंचित्तेषां वदामि ते ॥२१॥ नमुचिः कामदेवेन युयुधे बलसंयुतः । शंबरो वायुना सार्द्धं शुंभो देव्या महाबलः ॥२२॥ चंद्रेणाऽपि निशुंभश्च गुहेन च विरोचनः । कालभैरवदेवेन कालभैरवदानवः ॥२३॥ महिषासुरदैतेयः कालाग्न्याख्यहरेण च । प्रह्लादो विष्णुना सार्धं विप्रचित्तिश्च भानुना ॥२४॥ अंधकासुरनामा च वीरभद्रेण संयुतः । अग्निना चैव दुर्बुद्धिर्युयुधे बलसंयुतः ॥२५॥ विषयप्रिय एवाऽसौ ब्रह्मणा युयुधे भृशम् । शंभुना

खं. १ अ. ३० | पान ६९ ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ युयुधे तत्र सुंदरप्रिय एव सः॥ २६॥ मत्सरासुरदैत्येशो युद्धं द्रष्टुं स्थितोऽभवत् । एवं नानाद्वंद्वयुद्धं शतशोथ सहस्रशः॥ २७॥ संख्यातुं नैव शक्यं तदपारत्वात् प्रजापते । शस्त्रास्त्रैरसुरा जघ्नुः सुरांस्तानपि ते सुराः॥ २८॥ अग्नवाय्वादिकास्त्राणि तत्यजुः क्रोधसंयुताः । चकंपे च त्रिभुवनं दारुणे संयुगे तदा ॥ २९ ॥ देवासुरप्रणाशश्च महांस्तत्र प्रवर्तितः । शोणितौघैः प्रवृत्तास्तु नद्यः परमदारुणाः॥ ३०॥ एवं सप्त दिवानक्तं गतं तेषां प्रयुध्यताम् । नासुरा न च देवास्ते विरामं चक्रुरंजसा ॥ ३१ ॥ ततश्च कुपिता देवा अत्यंतं शंकरादयः । दैत्यानामस्त्रसंघातानस्त्रैः संवार्य तान् पुनः॥ ३२॥ ताडयामासुरव्यग्रा अस्त्रैर्नानाविधैः परम् । मूर्च्छितान् पतितांश्चक्रुर्मृतान् संचूर्णितान् परान् ॥ ३३ ॥ ततो दश दिशो दैत्या वव्रजुर्भयसंकुलाः । त्रिशूलादि महाशस्त्रैस्तत्राऽपि तु सुरा बभुः ॥ ३४ ॥ सुंदरप्रियकायाश्च मूर्च्छिता धरणीं गताः । मृतप्रायाः कृतास्तैस्ते विष्ण्वादिभिरथो मुने ॥ ३५ ॥ तद् दृष्ट्वा क्रोधसंयुक्तो मत्सरः स्वयमाययौ। कृत्वा नादं महाघोरं ब्रह्मांडं कंपयन्निव ॥ ३६ ॥ धनुश्चक्रे सनादं वै तेन संशयिताः सुराः । बाणवृष्टिं ससर्जासौ दारुणां शत्रुनाशिनीम् ॥ ३७ ॥ तस्य बाणैः सुराः सर्वे मर्दिता बलवत्तरम् । मृताः केचित् क्षताः केचिन् मूर्च्छिता पतिता मृधे ॥ ३८॥ पंचबाणैश्च सेनान्यं ताडयामास वक्षसि । पतितः स धरापृष्ठे मूर्च्छितो भृशविह्वलः ॥ ३९ ॥ अग्निं च सप्तभिर्बाणैर्नंदिनं दशभिस्तथा । ताडयामास दैत्येंद्रः पतितं रणमूर्धनि ॥ ४० ॥ दशभिर्वीरभद्रं स सवितारं ततोष्टभिः । चंद्रं च सप्तभिर्बाणैः पातयामास दैत्यपः॥ ४१॥ अनिलं नवभिश्चैव कालाग्निं रुद्रमष्टभिः । दशभिश्च महाकालीं ताडयामास मत्सरः ॥ ४२ ॥ पंचभिः पंचभिश्चैव गणपान् भृंगिमुख्यकान् । बाणैः स पातयामास प्रलयाग्निसमद्युतिः ॥ ४३ ॥ कुबेरं दशभिश्चैव ताडयामास वक्षसि । ब्रह्माणं शतबाणैश्च पातयामास भूतले ॥ ४४॥ एवं तस्याद्भुतं कर्म दृष्ट्वा विष्णुः समाययौ । बाणैः सहस्रसंख्याकैर्ववर्ष घनवद् भृशम् ॥ ४५ ॥ दैत्यो बाणान्निवार्यैव तैः शरैः क्रोधसंयुतः । शतेन ताडयामास पतितः स धरातले ॥ ४६ ॥ ततश्च शंकरः क्रुद्धस्त्रिशूनेनाहनद् भृशम् । त्रिशूलं निष्फलं तत्र पतितं धरणीतले ॥ ४७॥ पाशं दैत्यपतिः क्षिप्त्वा सहसा शंकरं ततः । गृहीत्वा पशुवत् कंठे आनयामास सन्निधौ ॥ ४८ ॥ धृत्वा शंभुं महाबाहुर्वदति स्म च तं मुने । अतुलं किं त्वया मेऽद्य दत्तं वद सदाशिव ॥ ४९ ॥ कर्मणा त्वं समर्थश्च तथाहं कर्मणा किल । जगदीश्वरतां प्राप्तो वृथाहं- ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ

शीर्षक (Header): खं. १ अ. ३१ | पान ७०


कारवानसि ॥ ५० ॥ क्रमेण विष्णुमुख्यांश्च देवान् धृत्वा महाबलः । कैलासशिखरे रम्ये रेमे दैत्यसमन्वितः ॥ ५१ ॥ सर्वपूज्यतमो भूत्वा दैत्यः परमहर्षितः । नानाकौतुकयुक्तश्च भोगांश्च बुभुजे परान् ॥ ५२ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते शिवादिपराजयो नाम त्रिंशोऽध्यायः ॥


॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच ॥ शृणु दक्ष महाश्चर्यं दैत्यस्य च विचेष्टितम् । ब्रह्मांडाधिपतिर्जातो मत्सरः कर्मणा स्वयम् ॥ १ ॥ सुंदरप्रियपुत्रं च कैलासाधिपतिं ततः । चक्रे वैकुंठनाथं तं पुत्रं स्वं विजयप्रियम् ॥ २ ॥ प्रह्लादं सत्यलोकेशं माहेंद्रेशं विरोचनम् । एवं चक्रे च राजेशः स्वर्गाधीशान् स दैत्यपान् ॥ ३ ॥ स्वयं भूमिं समागम्य नगरं निर्ममे ततः । मत्सरावासकं नाम तत्रैव न्यवसन्मुदा ॥ ४ ॥ त्रैलोक्यं वशगं सर्वं चकार स्वेन तेजसा । शिवाद्यश्च देवेंद्र गृहे तस्य समास्थिताः ॥ ५ ॥ तान् समानाय्य दैत्येशो हर्षयुक्तेन चेतसा । उवाच मधुरं वाक्यं सामयुक्तं महासुरः ॥ ६ ॥ शृणु शंभो महाभाग देवेंद्रैः सह देवप । यत्रेच्छा गच्छ तत्र त्वं मदाज्ञां पालयन् सदा ॥ ७ ॥ एवमुक्त्वा स दैत्येंद्रो मोचयामास शंकरम् । देवैः सह महाभागो मत्सरो हर्षसंयुतः ॥ ८ ॥ शिवोऽपि देवसंघातैः पर्वतद्रोणिमाश्रितः । चिंताविष्टो महादेवः कालं पश्यंश्च संस्थितः ॥ ९ ॥ यत्र तत्र गुहायां ते देवा विष्णुपुरोगमाः । संस्थिता भयभीताश्च दिवसानतिचक्रमुः ॥ १० ॥ पृथिव्यां दैत्यराजेन ततो धर्मस्य खंडनम् । कृतं सर्वत्र तेनैव हाहाकारोऽभवन् महान् ॥ ११ ॥ देवानां प्रतिमा यत्र तां भङ्क्त्वा चिक्षिपुर्जले । दैत्यास्तदाज्ञया दक्ष धर्मलोपं प्रचक्रिरे ॥ १२ ॥ मत्सरस्य च दैतेयाः प्रतिमाः सर्वभावतः । देशे देशे पुरे ग्रामे स्थापयामासुरंजसा ॥ १३ ॥ गृहे गृहे च देवानां प्रतिमां संस्थितां पराम् । तां भङ्क्त्वा जलमध्ये ते चिक्षिपुश्च प्रजापते ॥ १४ ॥ मत्सरप्रतिमां कृत्वा प्रतिगेहं ददुस्ततः । दैत्याः सुदारुणा विश्वं त्रासयामासुरेव च ॥ १५ ॥ ब्राह्मणांश्च समानीय ताडयामास मत्सरः । ममैव मंत्रसूक्तेन यज्ञादि क्रियतां द्विजाः ॥ १६ ॥ मम नाम्ना च गायत्रीं युक्तां जपत मा चिरम् । अग्निहोत्रादिकं कर्म कुरुध्वं मन्मतं तथा ॥ १७ ॥ अहमेवेश्वरो देवो ब्राह्मणादि जनस्य च । भजतां मम पादौ च दुर्लभं किं भविष्यति ॥ १८ ॥ धनधान्यादिकं सर्वं स्वर्गभोगादिसंयुतम् । दास्यामि नात्र संदेहो मदधीनं