भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

यहाँ पृष्ठ की सामग्री का अक्षरशः लिप्यंतरण (लाइन नंबर सहित), अन्वय, विस्तृत सरल हिन्दी अनुवाद एवं कथानुवाद प्रस्तुत है:


मूल पाठ (चित्रानुसार पंक्तियाँ):

खं. ६ अ. १६ $\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad$ पान ४०

वैश्योऽपि चतुःषष्टिश्च योगिनीः ॥५१॥ ततः श्रमेण संयुक्तः पुनर्गणपतिं ययौ । पूजयित्वा जगामाऽसौ यथेष्टं विषय- प्रियः ॥५२॥ ततो बुद्धिश्च वैश्यस्य विपरीता बभूव ह । तया युक्तो महेशान विचारमकरोद् हृदि ॥५३॥ मया विषय- युक्तेन कृतं कर्म भयावहम् । का गतिर्मरणे मे तु भविष्यति सुदारुणा ॥५४॥ अहो क्षेत्रस्य माहात्म्यं मया वक्तुं न शक्यते । विपरीता मतिर्जाता ममापि दुष्टचेतसः ॥५५॥ योगिनीनां दर्शनेन शुद्धचित्तो भवेन्नरः । योगप्रियस्तथाऽहं वै जातः सत्यं च शास्त्रगम् ॥५६॥ योगिनीसंयुतं ढुण्ढिं वैश्यः स्वधर्ममास्थितः । अभजन्नित्यमानंदान्निंदयन् विषयान् सदा ॥५७॥ अंते जगाम कैलासे गणेशे कामनायुतः । तत्र भुक्त्वा महाभोगान् पुनः पपात भूतले ॥५८॥ मयूरक्षेत्रगो भूत्वा क्षत्रियो धर्मसंयुक्तः । क्षेत्रसंन्यासभावेन विघ्नेशमभजत् सदा ॥५९॥ अंते विघ्नेश्वरः सोऽपि ब्रह्मभूतो बभूव ह । पूर्वसंस्कारभावेन योगसिद्धो महेश्वराः ॥६०॥ एवं नाना जनास्तत्र ययुः सिद्धिमनुत्तमाम् । तत्रैवं कति वो ब्रूयां संख्यातुं न प्रशक्यते ॥६१॥ अतः परं प्रवक्ष्यामि संपूर्णां तु महेश्वराः । गर्भागाराश्रितां यात्रां परां माहात्म्यसंयुताम् ॥६२॥ आत्रेयो ब्राह्मणः कश्चित् पुरा मूर्खो बभूव ह । पितरौ संमृतौ तस्याऽनाथो बभ्राम भूतले ॥६३॥ विषयेषु विशेषेण प्रीतियुक्तस्तथाऽमराः । भ्रमन् समागतः सोऽपि मयूरे दैवगौरवात् ॥६४॥ तत्र कश्चिद् द्विजः सुज्ञः सेवार्थं क्षेत्रगोऽभवत् । तं गृह्य ब्राह्मणो गर्भागारयात्रां चकार ह ॥६५॥ संसर्गेण द्विजस्याऽसौ यात्रां चकार दुष्टधीः । स्वयं विद्यानिधिर्जातो यथाऽन्ये ब्राह्मणास्तथा ॥६६॥ पूर्वद्वारं समालोक्य दक्षिणस्थं जगाम ह । तत्र मार्गे पपाताऽसौ तथापि द्वारगोऽभवत् ॥६७॥ प्रमोदादीन् समालोक्य विषये निःस्पृहोऽभवत् । पश्चिमे सिद्धिमालोक्य भाग्ययुक्तो महेश्वरः ॥६८॥ योगिनींस्तत आलोक्य पुण्यशीलो बभूव ह । एवं यात्रां सकृत् कृत्वा पुनः स्वगृहगोऽभवत् ॥६९॥ ततो द्विजं प्रणम्याऽसौ स्वदेशं तु जगाम ह । तं तादृशं विलोक्यैव विस्मिताः सुहृदोऽभवन् ॥७०॥ विवाहं कारयामासुः सुहृदस्तस्य धीमतः । स गणेशं विचिंत्यैवाऽभजद्धर्माश्रितं तदा ॥७१॥ अंते कैलासगो भूत्वा गणेशं तत्र चाभजत् । भुक्त्वा भोगान् पपाताऽसौ मयूरे ब्राह्मणोऽभवत् ॥७२॥ गणेश्वरं तत्र देवा अभजन् नान्यचेतसा । अंते स्वानंदगः सोऽपि ब्रह्मभूतो बभूव ह ॥७३॥ मयूरे गर्भयात्रायां निरताः सकृदप्यहो । ययुस्ते सिद्धिमाद्यं कथयितुं न प्रशक्यते ॥७४॥ गर्भागारस्य माहात्म्यं शृणोति द्वारजं त्विदम् । पठेद्वा तस्य विघ्नेशो ददते चेप्सितं फलम् ॥७५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते गर्भागारयात्रामाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥


श्लोकवार अन्वय एवं हिन्दी अनुवाद

श्लोक ५१-५२

वैश्योऽपि चतुःषष्टिश्च योगिनीः ॥५१॥ ततः श्रमेण संयुक्तः पुनर्गणपतिं ययौ । पूजयित्वा जगामाऽसौ यथेष्टं विषयप्रियः ॥५२॥

  • अन्वय: वैश्यः अपि चतुःषष्टिः योगिनीः (दृष्ट्वा) ततः श्रमेण संयुक्तः पुनः गणपतिं ययौ। विषयप्रियः असौ पूजयित्वा यथेष्टं जगाम।
  • हिन्दी अर्थ: वैश्य ने भी चौंसठ योगिनियों के दर्शन किए। तत्पश्चात् थकावट से युक्त होकर वह पुनः गणपति के पास गया और पूजन करके अपनी इच्छानुसार अपने विषय-भोगों में चला गया।

श्लोक ५३-५५

ततो बुद्धिश्च वैश्यस्य विपरीता बभूव ह । तया युक्तो महेशान विचारमकरोद् हृदि ॥५३॥ मया विषययुक्तेन कृतं कर्म भयावहम् । का गतिर्मरणे मे तु भविष्यति सुदारुणा ॥५४॥ अहो क्षेत्रस्य माहात्म्यं मया वक्तुं न शक्यते । विपरीता मतिर्जाता ममापि दुष्टचेतसः ॥५५॥

  • अन्वय: हे महेशान! ततः वैश्यस्य बुद्धिः विपरीता (सन्मार्गगामिनी) बभूव ह। तया युक्तः (सः) हृदि विचारम् अकरोत्—विषययुक्तेन मया भयावहं कर्म कृतम्। मरणे मे सुदारुणा का गतिः तु भविष्यति? अहो! क्षेत्रस्य माहात्म्यं मया वक्तुं न शक्यते, दुष्टचेतसः मम अपि मतिः विपरीता (पवित्र) जाता।
  • हिन्दी अर्थ: हे महेश्वर! इसके बाद उस वैश्य की बुद्धि विपरीत (संसार से विमुख होकर सन्मार्ग की ओर) हो गई। उसने मन में विचार किया—"मुझ विषयासक्त ने अत्यंत भयानक पापकर्म किए हैं। मृत्यु के पश्चात् मेरी कैसी दारुण दुर्गति होगी? अहो! इस मयूरक्षेत्र की महिमा का वर्णन नहीं किया जा सकता, जिससे मुझ जैसे दुष्टचित्त की बुद्धि भी परिवर्तित (पवित्र) हो गई।"

श्लोक ५६-५८ (क)

योगिनीनां दर्शनेन शुद्धचित्तो भवेन्नरः । योगप्रियस्तथाऽहं वै जातः सत्यं च शास्त्रगम् ॥५६॥ योगिनीसंयुतं ढुण्ढिं वैश्यः स्वधर्ममास्थितः । अभजन्नित्यमानंदान्निंदयन् विषयान् सदा ॥५७॥ अंते जगाम कैलासे गणेशे कामनायुतः ॥५८॥

  • अन्वय: योगिनीनां दर्शनेन नरः शुद्धचित्तः भवेत्, तथा अहं वै योगप्रियः जातः, शास्त्रगम् एतत् सत्यं च। स्वधर्मम् आस्थितः वैश्यः सदा विषयान् निन्दयन् योगिनीसंयुतं ढुण्ढिं नित्यम् आनन्दात् अभजत्। अन्ते गणेशे कामनायुतः कैलासे जगाम।
  • हिन्दी अर्थ: "योगिनियों के दर्शन से मनुष्य का चित्त शुद्ध हो जाता है और मैं भी योगप्रिय हो गया हूँ, शास्त्र का यह कथन सर्वथा सत्य है।" अपने स्वधर्म में स्थित होकर वह वैश्य सदा विषय-भोगों की निंदा करता हुआ आनंदपूर्वक योगिनी-सहित ढूँढिराज गणेश का नित्य भजन करने लगा। अंत में गणेश जी में भक्ति-कामना रखकर वह कैलास को गया।

श्लोक ५८ (ख)-६०

तत्र भुक्त्वा महाभोगान् पुनः पपात भूतले ॥५८॥ मयूरक्षेत्रगो भूत्वा क्षत्रियो धर्मसंयुक्तः । क्षेत्रसंन्यासभावेन विघ्नेशमभजत् सदा ॥५९॥ अंते विघ्नेश्वरः सोऽपि ब्रह्मभूतो बभूव ह । पूर्वसंस्कारभावेन योगसिद्धो महेश्वराः ॥६०॥

  • अन्वय: तत्र महाभोगान् भुक्त्वा पुनः भूतले पपात। मयूरक्षेत्रगः धर्मसंयुक्तः क्षत्रियः भूत्वा क्षेत्रसंन्यासभावेन सदा विघ्नेशम् अभजत्। हे महेश्वराः! पूर्वसंस्कारभावेन योगसिद्धः सोऽपि अन्ते विघ्नेश्वरः (विघ्नेशे लीनः) ब्रह्मभूतः बभूव ह।
  • हिन्दी अर्थ: वहाँ दिव्य भोगों को भोगकर वह पुनः भूतल पर आया और मयूरक्षेत्र में धर्मपरायण क्षत्रिय के रूप में जन्म लेकर 'क्षेत्र-संन्यास' के भाव से निरंतर विघ्नेश्वर की उपासना करने लगा। हे महेश्वरों! पूर्वजन्म के संस्कारों के प्रभाव से योग-सिद्ध होकर वह अंत में ब्रह्मभूत (मुक्त) हो गया।

श्लोक ६१-६२

एवं नाना जनास्तत्र ययुः सिद्धिमनुत्तमाम् । तत्रैवं कति वो ब्रूयां संख्यातुं न प्रशक्यते ॥६१॥ अतः परं प्रवक्ष्यामि संपूर्णां तु महेश्वराः । गर्भागाराश्रितां यात्रां परां माहात्म्यसंयुताम् ॥६२॥

  • अन्वय: एवं तत्र नाना जनाः अनुत्तमां सिद्धिं ययुः। वो कति ब्रूयां, एवं तत्र संख्यातुं न प्रशक्यते। हे महेश्वराः! अतः परं माहात्म्यसंयुतां संपूर्णां परां गर्भागाराश्रितां यात्रां तु प्रवक्ष्यामि।
  • हिन्दी अर्थ: इस प्रकार वहाँ अनेक लोगों ने उत्तम सिद्धि प्राप्त की। मैं किस-किसका वर्णन करूँ, उनकी गणना करना संभव नहीं है। हे महेश्वरों! अब इसके आगे मैं परम माहात्म्य से युक्त संपूर्ण 'गर्भागार-यात्रा' का वर्णन करता हूँ।

श्लोक ६३-६६

आत्रेयो ब्राह्मणः कश्चित् पुरा मूर्खो बभूव ह । पितरौ संमृतौ तस्याऽनाथो बभ्राम भूतले ॥६३॥ विषयेषु विशेषेण प्रीतियुक्तस्तथाऽमराः । भ्रमन् समागतः सोऽपि मयूरे दैवगौरवात् ॥६४॥ तत्र कश्चिद् द्विजः सुज्ञः सेवार्थं क्षेत्रगोऽभवत् । तं गृह्य ब्राह्मणो गर्भागारयात्रां चकार ह ॥६५॥ संसर्गेण द्विजस्याऽसौ यात्रां चकार दुष्टधीः । स्वयं विद्यानिधिर्जातो यथाऽन्ये ब्राह्मणास्तथा ॥६६॥

  • अन्वय: पुरा कश्चित् आत्रेयः ब्राह्मणः मूर्खः बभूव ह। तस्य पितरौ संमृतौ, अनाथः (सः) भूतले बभ्राम। हे अमराः! तथा विषयेषु विशेषेण प्रीतियुक्तः सोऽपि भ्रमन् दैवगौरवात् मयूरे समागतः। तत्र कश्चित् सुज्ञः द्विजः सेवार्थं क्षेत्रगः अभवत्, तं गृह्य ब्राह्मणः गर्भागारयात्रां चकार ह। द्विजस्य संसर्गेण असौ दुष्टधीः यात्रां चकार, (तेन) यथा अन्ये ब्राह्मणाः तथा स्वयं विद्यानिधिः जातः।
  • हिन्दी अर्थ: प्राचीन काल में अत्रि-गोत्रीय एक अत्यंत मूर्ख ब्राह्मण था। उसके माता-पिता की मृत्यु हो जाने पर वह अनाथ होकर पृथ्वी पर भटकता रहा। हे देवगण! वह विषयों में विशेष आसक्त था, परंतु भटकते-भटकते दैवयोग से मयूरक्षेत्र में पहुँच गया। वहाँ कोई ज्ञानी ब्राह्मण भगवान की सेवा हेतु आया था; उसने इस मूर्ख ब्राह्मण को साथ लेकर गर्भागार-यात्रा की। उस श्रेष्ठ ब्राह्मण की संगति से इस दुर्बुद्धि ने भी यात्रा की, जिससे वह अन्य विद्वान ब्राह्मणों की भाँति स्वयं भी विद्या का निधान बन गया।

श्लोक ६७-६९

पूर्वद्वारं समालोक्य दक्षिणस्थं जगाम ह । तत्र मार्गे पपाताऽसौ तथापि द्वारगोऽभवत् ॥६७॥ प्रमोदादीन् समालोक्य विषये निःस्पृहोऽभवत् । पश्चिमे सिद्धिमालोक्य भाग्ययुक्तो महेश्वरः ॥६८॥ योगिनींस्तत आलोक्य पुण्यशीलो बभूव ह । एवं यात्रां सकृत् कृत्वा पुनः स्वगृहगोऽभवत् ॥६९॥

  • अन्वय: (सः) पूर्वद्वारं समालोक्य दक्षिणस्थं जगाम ह। तत्र मार्गे असौ पपात, तथापि द्वारगः अभवत्। प्रमोदादीन् समालोक्य विषये निःस्पृहः अभवत्। पश्चिमे सिद्धिम् आलोक्य भाग्ययुक्तः महेश्वरः (बभूव)। ततः योगिनीः आलोक्य पुण्यशीलः बभूव ह। एवं सकृत् यात्रां कृत्वा पुनः स्वगृहगः अभवत्।
  • हिन्दी अर्थ: उसने पूर्व द्वार के दर्शन कर दक्षिण द्वार की ओर प्रस्थान किया। मार्ग में वह गिरा, फिर भी द्वार तक पहुँच गया। आमोद-प्रमोद आदि के दर्शन कर वह विषयों से निःस्पृह (विरक्त) हो गया। पश्चिम दिशा में सिद्धि के दर्शन कर वह परम भाग्यशाली बन गया। तदनंतर योगिनियों के दर्शन कर वह पुण्यात्मा हो गया। इस प्रकार एक बार यह यात्रा संपन्न करके वह पुनः अपने घर लौटा।

श्लोक ७०-७३

ततो द्विजं प्रणम्याऽसौ स्वदेशं तु जगाम ह । तं तादृशं विलोक्यैव विस्मिताः सुहृदोऽभवन् ॥७०॥ विवाहं कारयामासुः सुहृदस्तस्य धीमतः । स गणेशं विचिंत्यैवाऽभजद्धर्माश्रितं तदा ॥७१॥ अंते कैलासगो भूत्वा गणेशं तत्र चाभजत् । भुक्त्वा भोगान् पपाताऽसौ मयूरे ब्राह्मणोऽभवत् ॥७२॥ गणेश्वरं तत्र देवा अभजन् नान्यचेतसा । अंते स्वानंदगः सोऽपि ब्रह्मभूतो बभूव ह ॥७३॥

  • अन्वय: ततः द्विजं प्रणम्य असौ स्वदेशं तु जगाम ह। तं तादृशं विलोक्य एव सुहृदः विस्मिताः अभवन्। सुहृदः तस्य धीमतः विवाहं कारयामासुः। सः तदा गणेशं विचिन्त्य एव धर्माश्रितम् अभजत्। अन्ते कैलासगः भूत्वा तत्र च गणेशम् अभजत्। भोगान् भुक्त्वा असौ पपात, मयूरे ब्राह्मणः अभवत्। हे देवाः! तत्र नान्यचेतसा गणेश्वरम् अभजत्। अन्ते सोऽपि स्वानन्दगः ब्रह्मभूतः बभूव ह।
  • हिन्दी अर्थ: उस मार्गदर्शक ब्राह्मण को प्रणाम करके वह अपने देश गया। उसे इतना विद्वान और शांत देखकर उसके सभी बंधु-बांधव विस्मित रह गए। मित्रों ने उस बुद्धिमान ब्राह्मण का विवाह करा दिया। वह धर्म का आश्रय लेकर निरंतर श्रीगणेश का ही चिंतन और भजन करने लगा। अंत में कैलास जाकर वहाँ भी गणेश जी की आराधना करता रहा। दिव्य भोगों को भोगकर वह पुनः मयूरक्षेत्र में ब्राह्मण के रूप में जन्मा। हे देवगण! वहाँ उसने अनन्य चित्त से गणेश्वर का भजन किया और अंत में स्वानंदलोक में जाकर ब्रह्मलीन (मुक्त) हो गया।

श्लोक ७४-७५ (फलश्रुति)

मयूरे गर्भयात्रायां निरताः सकृदप्यहो । ययुस्ते सिद्धिमाद्यं कथयितुं न प्रशक्यते ॥७४॥ गर्भागारस्य माहात्म्यं शृणोति द्वारजं त्विदम् । पठेद्वा तस्य विघ्नेशो ददते चेप्सितं फलम् ॥७५॥

  • अन्वय: अहो! मयूरे गर्भयात्रायां सकृत् अपि निरताः ते आद्यां सिद्धिं ययुः, (यत्) कथयितुं न प्रशक्यते। इदं गर्भागारस्य द्वारजं माहात्म्यं शृणोति वा पठेत्, तस्य विघ्नेशः ईप्सितं फलं ददते।
  • हिन्दी अर्थ: अहो! मयूरक्षेत्र में एक बार भी गर्भागार-यात्रा करने वाले मनुष्य आद्य (परम) सिद्धि को प्राप्त होते हैं, जिसकी महिमा कही नहीं जा सकती। जो मनुष्य गर्भागार एवं उसके द्वारों के इस माहात्म्य को सुनता या पढ़ता है, श्रीविघ्नेश उसे उसका मनोवांछित फल प्रदान करते हैं।

अध्याय समाप्ति पुष्पिका:

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते गर्भागारयात्रामाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥ (इस प्रकार पुराण-उपनिषद स्वरूप अंतिम श्रीमौद्गल महापुराण के छठे खण्ड विकट-चरित के अंतर्गत 'गर्भागार-यात्रा-माहात्म्य-वर्णन' नामक सोलहवाँ अध्याय पूर्ण हुआ।)

शीर्षक (Header): खं. ६ अ. १७ | पान ४१


॥ श्रीगणेशाय नमः ॥ शिवाद्या ऊचुः । एतादृशा महाभागाः कथं कैलासमाययुः । अंजसा सेव्य योगींद्र गणेशं वद कारणम् ॥१॥ भृशुंड्युवाच । सकामा गणराजस्य भक्ता ये देवसत्तमाः । अंतरे विषयेष्वेते संसक्ताः संभवंति च ॥२॥ न तेषां गणराजस्य स्वानंदे गतिरुच्यते । निष्कामानां पदं तद्वै भक्तानां जन्मनाशनम् ॥३॥ अतः कैलासगाः सर्वे गणेशं पूज्य योगिनः । बभूवुस्तत्र विघ्नेशमभजन्नान्यचेतसः ॥४॥ तदा कैलासनाथे ते स्वानंदं देवसत्तमाः । गमिष्यंति न संदेहः पुनरावृत्तिवर्जितम् ॥५॥ भुक्तिमुक्तिप्रिया ये वै कैलासात् संपतंति चेत् । ते पुनार्विघ्नराजं तं भजंते नान्यचेतसः ॥६॥ कैलासे गणपं गत्वा भोगयुक्ता भवंति ये । ते पुनर्मृत्युलोकेषु पतंत्यत्र न संशयः ॥७॥ ब्रह्मभूता भवंत्यंते स्वानंदस्था महेश्वराः । गणेशेनैव रचितं क्रीडार्थं तत्तथाऽभवत् ॥८॥ अधुना क्षेत्रबाह्या वै देवभूमिः प्रकीर्तिता । तस्या माहात्म्यमुख्यं यत् कथयामि समासतः ॥९॥ दंडकारण्यदेशस्थः शूद्रः कश्चिद्बभूव ह । दारिद्रयदोषसंयुक्तो बभ्राम वसुधातले ॥१०॥ क्षुधया पीडितोऽत्यंतं ज्वरयुक्तो बभूव ह । स पूर्वद्वारबाह्यायां देवभूम्यां ममार ह ॥११॥ संगृह्य वैष्णवा देवा विमानेन गणा नरम् । वैकुंठे स्थापयामासुः शूद्रं क्षेत्रप्रभावतः ॥१२॥ पूर्वद्वारात् समारभ्य योजनं वैष्णवं मतम् । तत्र सिद्धिं ययुः केचिद्वक्तुं शक्यं न वै भवेत् ॥१३॥ अन्यच्च देवदेवशाः शृणुध्वं दक्षिणे भवम् । चरित्रं शिवभावाख्यं द्वारात् संक्षेपतः परम् ॥१४॥ ब्राह्मणस्तत्र संभूतो जगाम वृत्तिकारणात् । तस्मात् समा- गतः सोऽपि श्रमयुक्तोऽभवत् परम् ॥१५॥ ममाराह्नि द्वितीये स सद्यः कैलासगोऽभवत् । माहात्म्याद्देवभूम्यास्तु शैव्याः क्षेत्रान् महेश्वराः ॥१६॥ अथ पश्चिमभागात्तु द्वाराच्छाक्तं मतं परम् । क्षेत्रं योजनमात्रं तु तस्य वक्ष्यामि चेष्टितम् ॥१७॥ चांडालः कोऽपि देवेशा विदर्भादागतोऽभवत् । कार्यार्थं ज्वरयुक्तश्च बभूवाऽतीव पीडितः ॥१८॥ ममार पंचमे देवा दिवसे दैवगौरवात् । शक्तिलोकं जगामाऽसौ माहात्म्याच्छाक्तसंभवात् ॥१९॥ अथोत्तरभवं चित्रं चरित्रं शृणुत प्रियाः । सौर- लोकप्रदं पूर्णं क्षेत्रादुत्तरभागतः ॥२०॥ भिल्लः कश्चिन् महाभागाः कदा कार्यार्थमाययौ । दष्टः सर्पेण तत्रैव ममार भाग्य- गौरवात् ॥२१॥ सौरं लोकं समाश्रित्य मुमुदे सोऽपि देवपाः । मयूरक्षेत्रद्वारात्तुत्तरे सौरप्रभावतः ॥२२॥ अनेकनार्य एवं च नरा वर्णाश्रमस्थिताः । अष्टाश्चाऽपि महेशान ययुः सिद्धिं विशेषतः ॥२३॥ तेषां चरित्रकं कैस्तु वक्तुमत्र न शक्यते । संक्षेपेण मया किंचित् कथितं पूर्वसंभवम् ॥२४॥ फलं मयूरक्षेत्रेऽपि मरणेनाऽधुना लभेत् । तस्य माहात्म्यमुख्यं यत्

शीर्षक (Header): खं. ६ अ. १७ | पान ४२


कथयामि समासतः ॥२५॥ चांडालः कोऽपि पापात्मा परस्त्रीलालसोऽभवत् । आंध्रे वनं समाश्रित्य जघ्ने लोकान् समागतान् ॥२६॥ नानापापयुतो दुष्टो वर्णने न प्रशक्यते । ग्रंथबाहुल्यभावाद्धै परदोषप्रकीर्तनात् ॥२७॥ दुष्टो जगाम मयूरे सुहृज्जनयुतः कदा । भगिनीगृहसंस्थे स भागिनेयविवाहगः ॥२८॥ पापानि तस्य दुष्टस्य बहिः क्षेत्रात् स्थितानि च । पुनः प्रतीक्ष्यंते तं क्रोधयुक्तानि देवपाः ॥२९॥ नरं मयूरे पापानि यत्र कुत्र कृतानि वै । तं मुक्त्वा बहिरेवाऽपि प्रवेशात् संस्थितानि तु ॥३०॥ पुनर्यदि समायातमनु तं पापानि तु । गच्छंति शुद्धरूपस्थं यत्र सोऽपि गमिष्यति ॥३१॥ कदाचित्तेन किंचिद्वै यदि पापं कृतं भवेत् । ततः पुनः प्रविश्याऽपि भुंजते तानि तं नरम् ॥३२॥ अतो मयूरक्षेत्रं वै न त्याज्यं देहधारिणा । पापप्रवेशहीनत्वात् सदा सेव्यं महेश्वराः ॥३३॥ यदा नरः समुद्युक्तो भवति स्वगृहात् कदा । मयूरेशं गमि- ष्यामि यात्रार्थं नात्र संशयः ॥३४॥ तदा पापानि तस्यैव विचारं कुर्वते परम् । महाभयकरो विघ्नः प्राप्तश्चास्माक- मुल्बणः ॥३५॥ मयूरे यदि देही तु गमिष्यति तदा वयम् । स्थास्यामः कुत्र पापानि चरितुं विघ्नमुत्तमम् ॥३६॥ ततः पापानि सर्वाणि तं नरं यत्नभावतः । पीडयामासुरत्यंतं येन व्यग्रो नरो भवेत् ॥३७॥ द्रव्यहानिं तथा पुत्रं पुरं पशुगृहा- दिकम् । पापानि कुर्वते नाशसंयुक्तं देवसत्तमाः ॥३८॥ तेन संपीडितो धत्ते यात्रार्थं न मनोऽपि सः । अतः सर्वमनादृत्य मयूरेशं समाश्रयेत् ॥३९॥ कामं नानाविधान्येव पापानि कुरुतां सदा । अंते मयूरकं गच्छेत् किं करिष्यंति तानि तम् ॥४०॥ येन केन विचारेण मयूरे देवसत्तमाः । वासः सदा प्रकर्तव्यो ब्रह्मभूयस्य कारणात् ॥४१॥ अन्यत्र विविधैर्युक्तो भोगै राज्यादिभिस्तथा । मयूरे श्रेष्ठकस्तस्माद्दारिद्र्यादियुतो भवेत् ॥४२॥ मयूरक्षेत्रे मरणे स्वानंदं लभते नरः । अन्यत्र भोगयुक्तश्चेज्जन्ममृत्युयुतो भवेत् ॥४३॥ विषयासक्तचित्तश्चेन् मयूरेशं तथापि हि । समाश्रयेद् दुराचारो यातनां लभते पराम् ॥४४॥ अधुना शृणुत प्राज्ञा अंत्यजस्य तु चेष्टितम् । प्रकृतं कथयिष्यामि बहुना किं विचक्षणाः ॥४५॥ चांडालो भगिनीगेहे मयूरे संस्थितोऽभवत् । ममार तत्र सर्पेण स दष्टो देवसत्तमाः ॥४६॥ गाणपत्या विमानं तु समानीय तदर्थतः । संगृह्य ब्रह्मभूतं तं चक्रुः क्षेत्रमृतेः फलात् ॥४७॥ मयूरे न चकाराऽसौ चांडालः पापमल्पकम् । तेन सद्यो बभूवैव ब्रह्मस्थो नीचयोनिजः ॥४८॥ मरणे ब्रह्मभूतश्च भवत्यत्र न संशयः । मयूरे तस्य किं देवाः कथयामि चरित्रकम् ॥४९॥ एवं नाना जनाद्याश्च पशुपक्ष्यादि संभवाः । मयूरे ब्रह्मभूताश्च बभूवुर्मरणात् पुरा ॥ ५० ॥ अथो देवेशमुख्याश्च शृणुध्वं

खं. ६ अ. १८ पान ४३ त्वेकचेतसः । चित्रं चरित्रकं वक्ष्ये मयूरे संभवं परम् ॥२१॥ वणिजो गर्दभं चैकं धृत्वा कार्यार्थमादरात् । भारेण संयुतं चक्रुरन्नाद्यैस्तं महेश्वराः ॥२२॥ ते तं गृह्य मयूरेशं समाजग्मुः स्वकारणात् । गर्दभस्तत्र भारेण पीडितस्तु ममार ह ॥२३॥ स ब्रह्मणि तदाकारो बभूवे देवसत्तमाः। पशुजातिज एवं तु नराणां तत्र का कथा ॥२४॥ एवं क्षेत्रप्रभावेण जना नाना महेश्वराः। सिद्धिं प्राप्ता विशेषेण मया वक्तुं न शक्यते ॥२५॥ इदं क्षेत्रभवं चित्रं चरितं शृणुयान्नरः। पठेद्यः श्रावयेद्वाऽपि सर्वार्थं प्रलभेत सदा ॥२६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते मयूरक्षेत्रमरणप्राप्तिमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । क्षेत्रस्थानां च यात्राया माहात्म्यं वद योगिप। के के मुख्या महाक्षेत्रे पूज्या लोकैर्निरं- तरम् ॥१॥ भृशुंड्युवाच । उत्तराभिमुखो देवो गणेशः क्षेत्रमध्यगः। संस्थितस्तस्य वामांगे सिद्धिः सेवार्थमास्थिता ॥२॥ चामरैर्व्यजनैर्युक्ता नानासिद्धिसमन्विता। सेवते गणराजं सा सती भक्तिसमन्विता ॥३॥ दक्षिणांऽगे तथा बुद्धिर्विद्याभिः संयुता स्वयम् । कलाभिश्च ससख्याः समीपे सेवने स्थिता ॥४॥ सुगंधिवस्तुभिर्युक्ता सती परमार्थवाचका। गणेशं भावसंयुक्ता भजते नित्यमादरात् ॥५॥ पुरतो लक्षलाभौ तु भक्तिनम्रात्मकंधरौ। सेवेते तं गणाध्यक्षं नानोपचारसंयुक्तौ ॥६॥ पृष्ठभागे महादेव्यो भ्रामर्या धारका मदाः । नानाशक्तियुता देवं सेवंते भक्तिसंयुताः ॥७॥ समास्थितश्चासनाधो गणेशस्येक्षुसागरः। कमलं सागरोत्थं तु सहस्रदलराजितम् ॥८॥ तीव्रादिशक्तिसंयुक्ते तत्र विघ्नेश्वरः सदा । तिष्ठंतीमे हितं देवाः सेवंते रससंयुताः ॥९॥ एवं गणेश्वरः सर्वैः पूजनीयो विशेषतः । तैर्युक्तः सर्वदश्चैव भवत्यत्र न संशयः ॥१०॥ मयूराखू तत्पुरश्च संस्थितौ करसंपुटैः। तत्पुरः सिद्धयोगिन्यो नीराजयंति विघ्नपम् ॥११॥ पृष्ठभागे तथा तस्य प्रमोदाद्याश्च सायुधाः । संस्थिता भक्तिसंयुक्ताः पूजनीया नरेण ते ॥१२॥ अथ पूर्वदिशायां तु धर्ममंडप उच्यते। तत्र विष्णुः स्वयं साक्षात्तिष्ठति सेवनोत्सुकः ॥१३॥ सर्वान् कथयते धर्मान् गाणेशान् तत्र संस्थितः। गाणपत्यप्रियत्वात् स पूजनीयो विशेषतः

पान ४४

॥१४॥ तथा दक्षिणगः शंभुरर्थमंडपमाश्रितः । स गाणेशान् कथयते शब्दार्थान् विविधान् परान् ॥१५॥ गुह्यानर्थान् सदा देवः प्रकाशयति सर्वदा। गाणेशज्ञानकुशला भवंते तेन मानवाः ॥१६॥ मंडपः कामसंज्ञस्तु दिशि देवाः समीपगाः । पश्चिमायां स्थिता तत्र महाशक्तिर्महेश्वरः ॥१७॥ गणेशकामानायां सा कुरुते सर्वमानवान् । सौख्यमाद्यं कथयते गाणेशं परमा- द्भुतम् ॥१८॥ उत्तरे मंडपो मुक्तेस्तत्र सूर्यः प्रतिष्ठते । गणेशभक्तियुक्तो बोधयते विविधान् नरान् ॥१९॥ गाणेशीं मुक्ति- मायां तु पूर्णमोक्षप्रदायिनीम् । प्रकाशयति तत्रस्थो जनैः संपूजितो रविः ॥२०॥ गणेशसन्निधाने तु मुद्गलाद्या महेश्वराः । महाभक्ताः प्रतिष्ठंते भक्तिं संबोधयंति ते ॥२१॥ दक्षिणांगे पुरस्तस्य मुद्गलो भक्तनायकैः । अव्याहतगतिः सोऽपि गुह्य- धारक उच्यते ॥२२॥ वामांगे गणराजस्य पुरो योगिसमन्वितः । शुको गाणेशयोगं बोधयते सकलान् परम् ॥२३॥ पूजनीयौ प्रयत्नेन गणेशपुरतः स्थितौ । मुद्गलश्च शुको देवाः प्रियौ विघ्नेश्वरस्य तौ ॥२४॥ मंडपा देवमुख्यानां कथिताश्च ततः परम् । विनायकाः स्थिता अष्टौ वक्रतुंडादयः पराः ॥२५॥ ततोऽष्टमातरः प्रोक्तास्ततोऽष्टौ भैरवा मताः । दिशां भागेषु देवेशाः पूजनीयाः प्रयत्नतः ॥२६॥ ततो गणेशवामांगे चतुर्थी संकटा स्थिता । दक्षिणांगे तथा शुक्ला तिष्ठति सेवनोत्सुका ॥२७॥ पृष्ठभागे शमी तद्वत् पुरो मंदार एव च । दूर्वा पुरः स्थिता एते सेवंते गणनायकम् ॥२८॥ नग्नभैरवदेवश्च पूर्वभागे समाश्रितः । भक्तियुक्तः स्वभावेन सेवते गणनायकम् ॥२९॥ तथा दक्षिणगो देवा नीलकंठः प्रतापवान् । सेवते विघ्नराजं स समागत्य निरंतरम् ॥३०॥ पश्चिमे कृत्तिवासास्तु भीमेशश्चोत्तरे तथा । समागत्य गणेशानं सेवेते भक्तिसंयुतौ ॥३१॥ ततो दिक्पालरूपाश्च सेवंते द्विरदाननम् । समागत्य सशस्त्रास्ते नित्यं भक्तिसमन्विताः ॥३२॥ एते मुख्यात्मकाः प्रोक्ता गर्भागारनिवासिनः । केचिद्दासकरास्तत्र केचित् सेवार्थमागताः ॥३३॥ अतः परं प्रवक्ष्यामि सदा गर्भगृहस्थितान् । विनायकान् महाभागान् सर्वसिद्धिप्रदायकान् ॥३४॥ विदर्भाद्वक्रतुंडश्च बल्लाळः यल्लिगः तथा । हेरंबश्च महेशाना विचापुरसमाश्रितः ॥३५॥ विघ्नेशः पारिनेरस्थो भालचंद्रस्तथैव च । गंगातटस्थो ज्ञानेशो दत्तात्रेयेण संयुतः ॥३६॥ चिंतामणिः स्थावरस्थोऽमराः सिद्धिविनायकः । सिद्धिक्षेत्रस्थ एवं तु महागपतिस्तथा ॥३७॥ मणिपूःस्थो विघ्नहरो विजयस्थो विनायकः । कश्यपालयसंस्थश्च एलास्थो लक्षविघ्नपः ॥३८॥ बंगालस्थो गणेशानो विघ्नराजो महेश्वराः । जीर्णपूःस्थस्तथाऽऽशापूरको ह्यमलक्षेत्रगः ॥३९॥ प्रवालस्थो गणेशश्च राजवेश्मस्थ एव च । इत्यादि बहवस्तत्र भवंति गणपाः स्थिताः ॥४०॥ मयूरेशं

यहाँ प्रस्तुत पृष्ठ का यथारूप (अक्षरशः) देवनागरी लिप्यंतरण दिया गया है:


[शीर्षक / Header] खं. ६ अ. १८ | पान ४५


समाश्रित्य गर्भागारनिवासिनः। भवंति विघ्नराजाश्च सर्वे तस्य कलात्मकाः ॥४१॥ गर्भांगारं गणेशस्य मूर्तिरूपं महत्परम् । ज्ञातव्यं सर्वभावेन सेवनीयं विशेषतः ॥४२॥ शतकोटिगणेशानाः संस्थिता देवसत्तमाः । गर्भांगारं समाश्रित्य निश्चितं गणपेन च ॥४३॥ नरैश्च मुनिभिर्देवैः स्थापिता गणनायकाः । गर्भागारे च ते सर्वे बुधैस्तभ्योऽधिका मताः ॥४४॥ गर्भागारे गणेशानं खनाङ्गांकितमादरात् । स्थापयेत्तेन देवेशा जगद्ब्रह्म च स्थापिते ॥४५॥ केनाऽपि पुण्यं वक्तुं न शक्यते देवसत्तमाः । मयूरे गणनाधस्य स्थापने संभवं परम् ॥४६॥ जीर्णोद्धारं तु यः कुर्यात् स संपूर्णफलं लभेत् । मूर्तिखंडं नरो दृष्ट्वा सांगं कुर्यात्तथा फलम् ॥४७॥ देवेशा ऊचुः । आश्चर्यं भासते वाक्यं त्वदीयं गुरुसत्तम । एते गणेश्वरास्तत्र कथं तिष्ठंति तद्वद ॥४८॥ मानं वद महाभाग सर्वेषां च यथातथम् । तेन संशयहीनाश्च भविष्यामो वयं प्रभो ॥४९॥ भृगुंडयुवाच । परमाणुस्वरूपेण केचित्तत्र गणेश्वराः । केचित्तु त्रसरेणुभिः समाने देहधारकाः ॥५०॥ अंगुष्ठपर्वमात्रेण देहेन शंभुमुख्याः । देवाश्च मुनयः सर्वे तिष्ठंत्यत्र न संशयः ॥५१॥ चतुर्हस्तप्रमाणेण मयूरेशश्च तिष्ठति । पीठादिसंयुतो देवाः सिद्धिबुद्धी द्विहस्तगे ॥५२॥ हस्तमात्रेण सर्वे ते पूर्वस्मिन् कथिता मया । तिष्ठंति गणराजस्य सदा सेवार्थलालसाः ॥५३॥ चतुर्धनुः- प्रमाणेण धर्ममंडप एव यः । तस्माद् द्विगुणितः प्रोक्तः समंतादर्थमंडपः ॥५४॥ तस्माद् द्विगुणितः प्रोक्तः काममंडप एव च । पादहीनस्तथा प्रोक्तस्तस्मान् मुक्तेश्च मंडपः ॥५५॥ गणेशाद्वै दशधनुर्दूरे धर्मस्य मंडपः । पूर्ववद् द्वारगाः सर्वे मंडपाः स्वस्वमानतः ॥५६॥ मंडपात् पूर्वदिग्देशे वक्रतुंडः स्थितो मतः । बुधैर्दशधनुर्दूरे ज्ञातव्यं मानतोऽमराः ॥५७॥ दश पंचधनुर्दूरे संस्थस्तत्रैकदंतकः । एवं पंच प्रवृद्धया तु धनुषां दिक्षु विघ्नपाः ॥५८॥ अष्टभ्यो गणनाथेभ्यो दूरे पंचधनुष्कतः । मातृका संस्थिताश्चैव वृद्धया क्षेत्रं यथाऽभवत् ॥५९॥ तेभ्यः पंचधनुष्के तु चतुर्थी संस्थिता मता । वृद्धिन्यूनत्वमानेन क्षेत्र- सामान्यभावतः ॥६०॥ तेभ्यः पंचधनुष्के तु चतुर्थी संस्थिता मता । पूर्वभागे तथाऽन्याश्च वृद्धिन्यूनत्वमानतः ॥६१॥ ततः पंचधनुष्के तु दूरे पूर्वदिशि स्थितः । नग्नभैरवनामा चान्ये तद्वत् क्षेत्रमानतः ॥६२॥ तेभ्यः पंचधनुष्के तु दिक्पालाः संस्थिता मताः । वृद्धिन्यूनत्वमानेन यथा क्षेत्रं प्रकीर्तितम् ॥६३॥ पूर्वेशानदिशोर्मध्ये प्रजापतिः स्थितः स्वयम् । नैर्ऋती पश्चिमाऽऽशागः शेषस्तत्र महेश्वराः ॥६४॥ तेभ्यः पंचधनुष्के तु वज्रादीनि स्थितानि च । क्षेत्रमानप्रमाणेण वृद्धिन्यूनेन

खं. ६ अ. १९ पान ४६

निश्चितम् ॥६५॥ एवं सर्वं मया प्रोक्तं यथाशास्त्रं विधानतः । गर्भागारस्य विस्तारमाहात्म्यं देवसत्तमाः ॥६६॥ अन्ये नाना गणेशाना गाणेशाः संस्थिताः परे । सेवार्थं गणनाथस्य गर्भागारे जगद्धिताः ॥६७॥ इदं शृणोति पठति यश्चित्रं भक्तिसंयुतः । स सर्वपापहीनश्च भवेद्वै देवसत्तमाः ॥६८॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते गर्भागारस्य प्रमाणवर्णनं नाम अष्टादशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । अधुना वद माहात्म्यं देवागारस्य मानद । के के मुख्या जनैः पूज्याः संस्थिता गणपे रताः ॥१॥ भृशुंड्युवाच । द्वारकासहितो विष्णुर्देवागारे समाश्रितः । पूर्वभागे गणेशात्तु दिशि देवेंद्रसत्तमाः ॥२॥ यावंति वैष्णवान्येव क्षेत्राणि विविधानि च । मथुराद्यानि सर्वाणि पूर्वभागे स्थितानि वै ॥३॥ तत्र मध्ये महेशान द्वारका- शतमंजसा । धनुषां तु प्रमाणेन गर्भागारात् प्रकीर्तिता ॥४॥ तत्र कृष्णश्च रामश्च प्रद्युम्नो ह्यनिरुद्धकः । समातस्थुर्गणेशस्य भक्त्यर्थं भक्तसत्तमाः ॥५॥ गणेशानं पुष्टिपतिं स्थापयित्वा जनार्दनः । सेवते तं महाभागा द्वारकावासिनस्तथा ॥६॥ गोमती कुंडरूपेण स्वयं तत्रैव संस्थिता । स्नानमात्रेण जंतूनां ब्रह्महत्यां विनश्यति ॥७॥ कृष्णपक्षे नरो नारी श्रावणे तु जनार्दनम् । मयूरे पूजयेत् क्षेत्रे वासकृत् सर्वदायकम् ॥८॥ तेषां पूजनमात्रेण सद्यः पापविवर्जितः । मनेप्सितं लभेद् देवाः शतयज्ञफलं तथा ॥९॥ मथुरावामभागे तु द्वारकायाः समास्थिता । तावन्मानेन देवेशाः सर्वार्थस्य प्रदायिनी ॥१०॥ बालरूपधरौ तत्र रामकृष्णौ समास्थितौ । पूजनीयौ नरेणैव सर्वकामफलप्रदौ ॥११॥ गौरीविनायकं तत्र स्थापयित्वा स्वहर्षतः । जनैः सह महाभक्तौ सेवेते तं जनार्दनौ ॥१२॥ तत्रैव यमुना साक्षात् संस्थिता हृदरूपिणी । तस्यां स्नानेन देवेशाः सर्वपापक्षयो भवेत् ॥१३॥ कृष्णाष्टम्यां विशेषेण तयोर्यात्रा प्रकीर्तिता । मासे मासे जनानां सा दहति ह्यशुभं महत् ॥१४॥ अयोध्या दक्षिणांगेऽस्यास्तावन्मानेन संस्थिता । द्वारकायाश्च तत्रैव शरयूकुंडकं स्थितम् ॥१५॥ तत्र स्नानेन जंतूनां पापं नश्यति तत्क्षणात् । इहजन्मकृतं सर्वं स्वर्गदं कुंडमंजसा ॥१६॥ तत्र रामो लक्ष्मणश्च भरतः शत्रुसूदनः ।

खं. ६ अ. १९ पान ४७


स्थिताः संस्थाप्य हेरंबं सेवायां तत्परा जनैः ॥१७॥ चैत्रशुक्लनवम्यां तु यात्रां तत्र प्रकुर्वते । क्षेत्रवासिन आनंदाद्वार्षिकीं दुरितापहाम् ॥१८॥ द्वारकायाः पुरोभागे व्यासः सत्यवतीसुतः । संस्थितः सर्वधर्मज्ञो दशधनुःप्रमाणतः ॥१९॥ तत्पुरो नृहरिश्चैव वामनस्तत्पुरोऽभवत् । मत्स्यस्तत्पुरतो विष्णुस्ततो बुद्धः प्रकीर्तितः ॥२०॥ नरनारायणौ देवौ तत्पुरः संस्थितौ किल । हयग्रीवस्ततः प्रोक्तः समानमानतः स्थितः ॥२१॥ तथा वामांगभागे ये धनुषां दशके परे । तिष्ठंति विष्णुरूपाश्च मथुरायाः सुखप्रदाः ॥२२॥ तान् शृणुध्वं महेशानः कथयामि समासतः । कूर्मः परशुरामश्च कल्की पृश्निसुतस्तथा ॥२३॥ कपिलः सिद्धेशः शेषः सनकाद्याश्च योगिनः । भजंति स्वस्वनामांकानास्थाप्य गणनायकान् ॥२४॥ अयोध्यायाः पुरः सप्त संस्थिताश्च जनार्दनाः । तावन्मानेन देवेशास्तान् शृणुध्वं समासतः ॥२५॥ नारदः कार्तवीर्यश्चात्रितो यज्ञस्तथा परः । ऋषभश्च पृथुर्वैन्यो मोहिनी या स्मृता बुधैः ॥२६॥ स्वस्वेष्टनामाकांस्तत्रास्थाप्य विघ्नेश्वरान् परान् । भजंते भावयुक्ताश्च सदा क्षेत्रनिवासिनः ॥२७॥ द्वादश्यां प्रतिमासेषु पूजनीयाः क्रमेण तु । चतुर्विंशतिदेवेश विष्णवः क्षेत्रवासिभिः ॥२८॥ द्वारकास्थसमायुक्तास्तत्र विष्ण्वंशसंभवाः । अवांतरे स्थिताः सर्वे मयूरे हितकारकाः ॥२९॥ स्वयं विष्णुस्ततस्तत्र तिष्ठति क्षेत्रगोऽमराः । विकुंठं तत् समाख्यातं धनुषां द्विशतात्मकम् ॥३०॥ एकादश्यां जनाः साक्षात् पूजयंति निरंतरम् । तेन सौभाग्यसंयुक्ता भविष्यंति मयूरके ॥३१॥ अन्ये नानाऽवताराश्च क्षेत्राणि विविधानि तु । संस्थितानि मयूरेऽस्मिन् गणेशे भक्तिकारणात् ॥३२॥ विकुंठवासी भगवान् सदा सिद्धिविनायकम् । स्थाप्य पूज्यं विधानेन भजतेऽनन्यभावतः ॥३३॥ अन्ये ये स्वस्वनाम्ना ते गणेशान् स्वेष्टरूपकान् । विष्णवः स्थापयित्वा तं भजंतेऽनन्यभावतः ॥३४॥ गर्भागारस्य देवेशाः पूर्वांगं वर्णितं मया । संक्षेपेणाधुना तद्वत् दक्षिणांगं तु वर्णये ॥३५॥ गर्भागारात् स्वयं काशी संस्थिता मध्यभागतः । धनुषां द्वे शते तस्या मानं क्षेत्रे प्रकीर्तितम् ॥३६॥ तत्र तिष्ठति विश्वेशो देवो भक्तिपरायणः । ढुंढिराजं समास्थाप्य भजतेऽनन्यचेतसा ॥३७॥ मणिकर्णी हृदस्तत्र वर्तते पापहारकः । स्नानेन मानवस्यैव ब्रह्मघ्नः पातकं व्रजेत् ॥३८॥ भागीरथी सरस्तत्र वर्तते देवनायकाः । सद्यः स्नानेन पापानि लयं गच्छंति निश्चितम् ॥३९॥ प्रदोषे पूजनं तस्य कुर्वंति क्षेत्रवासिनः । माघकृष्णचतुर्दश्यां यात्रां कुर्वंति मानवाः ॥४०॥ वार्षिकीं विश्वनाथस्य यात्रां क्षेत्रनिवासिनः । जनाः कुर्वंति ते सर्वे भवंति सुखभोगिनः ॥४१॥ तस्या वामांगके देवास्तावन्मानेन संस्थिता । अवंती सर्वदा पुण्या महाकालश्च शंकरः ॥४२॥ क्षिप्रानदी-

यहाँ पृष्ठ का मूल पाठ पंक्ति-दर-पंक्ति (Line-by-Line) दिया गया है:

खं. ६ अ. १९ | पान ४८

भवं कुंडं वर्तते तत्र पापहृत् । महाकालस्य कुंडं तु स्नानेन पापनाशनम् ॥४३॥ सोमवारे प्रदोषे तमर्चयंति विशेषतः । ते सर्वे धनधान्यैश्च संयुक्ता निवसंति हि ॥४४॥ काश्या दक्षिभागे तु तावन्मानेन संयुता । मायापुरी महेशाना दक्षयज्ञच्छि- दीश्वरः ॥४५॥ प्रदोषे च त्रयोदश्यां शनियुक्ते महेश्वरम् । पूजयेत्तं नरश्चैव क्षेत्रस्थः सर्वमाप्नुयात् ॥४६॥ तत्र द्वारं च गंगायाः संस्थितं कुंडरूपकम् । नरः स्नानेन सद्यश्च फलं प्राप्नोति वाञ्छितम् ॥४७॥ काश्याश्च पुरतो देवारुत्र्यंबकः संस्थितो महान् । धनुषां शतकेनैव मानेन तस्य क्षेत्रकम् ॥४८॥ नदीस्वरूपेण गोदावरी तत्र महानदी । संस्थिता स्नानमात्रेण गोघ्नाद्यघं विनश्यति ॥४९॥ कपिलं गणनांथं स त्र्यंबकः स्थाप्य नित्यदा । पुपूज भक्तिसंयुक्तो गाणपत्यप्रभाववित् ॥५०॥ क्षेत्रगो वैद्यनाथस्तु तावन्मानेन तत्पुरः । स्थितः सर्वार्थदो देवो भक्तानां भवनाशकृत् ॥५१॥ भवरोगविनाशार्थं वैद्य एकः शिवः स्मृतः । ददाति गणनाथाख्यमौषधं योगमिच्छताम् ॥५२॥ उत्कटेशस्तत्पुरश्च तावन्माने संस्थितः । उत्कंठां भक्तिमिच्छन् सन् गणेशस्य महात्मनः ॥५३॥ त्र्यंबकस्य तथा वामे रामेशः संस्थितः शिवः । तावन्मानेन तत् क्षेत्रे समुद्रः कुंडरूपतः ॥५४॥ तत्पुरः सोमनाथस्तु तत्पुरो मल्लिकार्जुनः । तावन्मानेन संयुक्तौ स्वस्वतीर्थसमन्वितौ ॥५५॥ दक्षिणांगे त्र्यंबकस्य घुस्तृणेशः स्थितः प्रभुः । तथोंकारेश्वरो देवोऽप्यमलेश्वरसंयुक्तः ॥५६॥ सरःस्वरूपेण तत्र नर्मदा संस्थिता नदी । दर्शनेनेह यत् पापं जंतूनां नाशयेत् सदा ॥५७॥ स्नानमात्रेण देवेशा दशजन्मकृतं महत् । पापं नश्यति जंतोश्च निश्चितं मुनिभिः पुरा ॥५८॥ ततः केदारशंभुश्च क्रमेण देवसत्तमोः । तावन्मानेन संयुक्ताः शिवा एते प्रकीर्तिताः ॥५९॥ स्वस्वनाम्नांकितान् सर्वे सदाऽऽस्थाप्य गणेश्वरान् । सेवंते भक्तिसंयुक्ताः शिवा एते प्रकीर्तिताः ॥६०॥ कृष्णपक्षे चतुर्दश्यां मासे मासे महेश्वराः । सेवनीयाः प्रयत्नेन क्षेत्रवासिभिरादरात् ॥६१॥ ततः पुरो महाक्षेत्रे कैलासे वासकारकः । शिवः साक्षात् स्थितस्तत्र धनुषां च चतुःशते ॥६२॥ क्षेत्रं कैलासनाथस्य तत्र भागीरथी नदी । स्वयं स्थिता विशेषेण स्नानमात्रेण सर्वदा ॥६३॥ महागणापतिं स्थाप्य पूजति नित्यमादरात् । भजते तं शिवः साक्षाद्गाणपत्याग्रणीर्महान् ॥६४॥ अन्यशंकरक्षेत्राणि शिवा नानाविधा मताः । संस्थितानि स्थिताः सर्वे क्षेत्रसंन्यासभक्तिः ॥६५॥ तेषां स्थानादिकथयितुं देवा न प्रशक्यते । स्वस्वनाम- युतान् पूजंत्यास्थाप्य गणनायकान् ॥६६॥ दक्षिणे कथितं शैवं परं देवालयं मया । संक्षेपेण महाभागा अधुना पश्चिमं वदे ॥६७॥ शतेषु गर्भागाराच्च धनुषां पंचसु स्थिता । महालक्ष्मीः स्वयं साक्षाद्भक्तेभ्यः कामदायिनी ॥६८॥ लक्ष्मीकुंडभवं

खं. ६ अ. १९ पान ४९

तीर्थं संस्थितं तत्र पापहृत् । स्नानमात्रेण सद्यो दरिद्रतानाशकारकम् ॥६९॥ तस्या वामांगके शक्तिर्महाकाली समास्थिता । कालीसरश्च तत्रैव संस्थितं पापनाशनम् ॥७०॥ महासरस्वती शक्तिर्दक्षिणांगे स्थिता तथा । सारस्वतं महत् कुंडं तत्र जाड्य- विनाशनम् ॥७१॥ स्वानंदवासमास्थाप्य भजते गणनायकम् । महालक्ष्मीर्महेशाना अष्टम्यां पूज्यते नरैः ॥७२॥ सिद्धीशं तु महाकाल्यास्थाप्य भक्तिपरायणा । भजते नित्यमानंदाद्भूतायां पूज्यते तथा ॥७३॥ बुद्धीशं तु तृतीयायां महासरस्वती नरैः । शक्तियुक्ता स्थाप्य नित्यं भजते पूज्यते परा ॥७४॥ महालक्ष्‌म्याः पुरश्चैव विष्णुकांची स्थिता पुरी । लक्ष्म्या विष्णुः स्थितस्तत्र भजते स्थाप्य विघ्नपम् ॥७५॥ अष्टम्यां पूजनीयोऽसौ क्षेत्रवासिभिरादरात् । पापनाशकरस्तेषां भवते सर्वदायकः ॥७६॥ तत्पुरो मातृकाणां च धनुषां द्विशतात्मकम् । क्षेत्रं तु संस्थितं तत्र माहेश्वर्या महाद्भुतम् ॥७७॥ तत्पुर- स्तावता मानेन युतं क्षेत्रमुत्तमम् । कौमार्यस्तत्र संस्था सा तीर्थेनैव समायुता ॥७८॥ ततः क्षेत्रं समाख्यातं वाराह्याः सर्वदं परम् । तत्र शक्तिः स्थिता साक्षाद्वाराही दुरितापहा ॥७९॥ तत ऐंद्रया महाक्षेत्रं पूर्वमानेन कीर्तितम् । ऐंद्री गणेश्वरं तत्र भजतेऽनन्यचेतसा ॥८०॥ महाकाल्याः पुरश्चैव पूर्वमानेन संस्थिता । नारसिंही महाशक्तिर्दैत्येभ्यो भयदायिनी ॥८१॥ ततः शाकंभरी शक्तिश्च ततो रक्तदंतिका । ततो भीमा महेशानः संस्थिता तीर्थसंयुता ॥८२॥ अथो महासरस्वत्यास्तावन्मानेन संस्थिता । पुरस्तु वैष्णवी देवी ततो ब्राह्मी स्थिता मता ॥८३॥ चामुंडा च ततः प्रोक्ता तत्पुरस्त्रिपुरा मता । समानमानभावेन संस्थिता शक्तयः पराः ॥८४॥ कुंडरूपेण तीर्थानि स्वस्वक्षेत्रगतानि तु । कृत्वा ताः शक्तयः सर्वा मयूरे संस्थिताः सदा ॥८५॥ स्वस्वनाम्नांकितानास्थाप्य गणेशांश्च देवपाः । भजंतेऽनन्यभावेन गाणपत्यस्वभावतः ॥८६॥ अन्यानि शक्तिक्षेत्राणि शक्तयश्च समाश्रिताः । नरैस्तासां नवम्यां तु यात्रा कार्या सुखप्रदा ॥८७॥ तासां नामादिकं देवा मया वक्तुं न शक्यते । मुख्यास्तु नवकोष्ठ्यो वै ज्ञातव्यं विबुधैः सदा ॥८८॥ धनुः पंचशतं तस्माच्छक्तिर्लंबोदरं परम् । आस्थाप्य भजते तस्या यात्राऽष्टम्यां प्रकीर्तिता ॥८९॥ अथोत्तरगतान् वक्ष्ये देवान् देवालये स्थितान् । समासेन महेशानः शृणुत परमार्थदान् ॥९०॥ गर्भागारात् समारभ्य चतुःशतं पितामहः । धनुषां क्षेत्रगः सोऽपि तिष्ठति वेदसंयुतः ॥९१॥ तावन्मानेन वामांगे तस्याग्निः संस्थितो महान् । अग्निभिः सहितस्तत्र सेवते गणनायकम् ॥९२॥ दक्षिणांगे स्वयं कर्म सह तिष्ठति कर्मभिः । सूर्यकलांश- संभूतास्त्रयो मुख्या इति स्मृताः ॥९३॥ ब्रह्माणं च समाश्रित्य सरः सारस्वतं स्थितम् । सरस्वती नदीरूपा तत्र तिष्ठति

खं. ६ अ. १९ पान ५० नित्यदा ॥९४॥ तत्र स्नानेन पापानि प्रणश्यंति महांति चेत् । जाड्यभावो नश्यति च नराणां देवसत्तमाः ॥९५॥ सिद्धिबुद्धिपतिं स्थाप्य सेवते चतुराननः । सदा गणेशपूजायां तत्परो भक्तिसंयुतः ॥९६॥ तथाऽग्निश्च महात्मानं विनायकं निरंतरम् । आस्थाप्य भक्तिसंयुक्तो भजते नित्यमादरात् ॥९७॥ आग्नेयं तत्र कुंडं तु सर्वाघशमनं स्थितम् । स्नानमात्रेण जंतूनामग्निलोकप्रदं भवेत् ॥९८॥ कर्मनाशकरं कुंडं समीपं कर्मणः स्थितम् । स्नानेन त्रिविधं तत्र कृतं कर्म विनश्यति ॥९९॥ ब्रह्मणः पुरतो देवा धनुषां द्विशतात्मकम् । क्षेत्रं वेदांगनाम्नश्च परं सूर्यस्य संस्थितम् ॥१००॥ भानुक्षेत्रं तत्पुरस्तावता मानेन संयुतम् । इंद्रनाम्नस्तत्पुरस्तु क्षेत्रं सर्वप्रदायकम् ॥१॥ अग्नेः पुरस्तथा क्षेत्रं रखेस्तावत्प्रमाणकम् । ततः क्षेत्रं गभस्तेश्च यमस्य च ततः परम् ॥२॥ कर्मणश्च पुरोभागे तावन्मानयुतं महत् । सुवर्णरेतसः क्षेत्रं ततो दैवाकरं मतम् ॥३॥ ततः क्षेत्रं तु मित्रस्य ततो विष्णोः प्रकीर्तितम् । वरुणस्य क्षेत्रमिंद्रात् पुरः सर्वाघनाशनम् ॥४॥ यमात् पुरस्तु सूर्यस्य क्षेत्रं तत्र प्रकीर्तितम् । समानमानभावेन स्थिता द्वादश भानवः ॥५॥ स्वस्वतीर्थैः समायक्ताः कुंडस्वरूपैर्महेश्वराः । स्वस्वनाम्ना स्थाप्य सेव॑ते गणेशान्निरंतरम् ॥६॥ तत्पुरः शिवकांची तु तस्यां शक्त्या शिवः स्थितः । सोमयुक्तो प्रदोषे स जनैः पूज्यः सुखप्रदः ॥७॥ भजते सर्वभावेनास्थाप्य हेरंबमादरात् । तीर्थं तस्य स्थितं तत्र सर्वाघशमनं परम् ॥८॥ जनैः पूज्यः प्रतिपदि क्षेत्रस्थोऽग्निः प्रतापवान् । सर्वपापनिहंता च द्रव्यलाभप्रदो भवेत् ॥९॥ सप्तम्यां सर्वदा देवाः पूजनीयः पितामहः । जाड्यभावहरः सोऽपि भवत्यत्र न संशयः ॥११०॥ भानुसप्तमिकायां तु कर्म संपूजयंति ये । सर्वदोषविहीनाश्च कर्मणां संभवंति ते ॥११॥ संक्रमेषु सदा पूज्य भानून् द्वादश संस्थितान् । सर्वरोगादिनिर्मुक्ता भवंति क्षेत्रवासिनः ॥१२॥ तेषां पुरः स्वयं नित्यं तिष्ठति सौरलोकगः । चतुःशतं तु धनुषां क्षेत्रं तस्य महात्मनः ॥१३॥ रविवारे तु देवेशः पूजनीयो निरंतरम् । नरः सर्वार्थसंसिद्धिं लभते मुक्तिमुत्तमाम् ॥१४॥ वरदं गणनाथं संस्थाप्य पूजापरायणः । भजते आदिदेवस्तं सूर्यः कालभृतां वरः ॥१५॥ तत्पुरश्चंद्रमा देवाः संस्थितः शतमानतः । धनुषां क्षेत्रमेतत्तु तस्य सर्वान्नदायकम् ॥१६॥ ततः पुरो बुधः प्रोक्तस्तावता मानकेन च । तत्पुरः संस्थितो जीवः क्षेत्रवासपरायणः ॥१७॥ चंद्रवामांगसंस्थश्च भौमो देवपरायणः । तत्पुरो भार्गवः श्रेष्ठस्तत्पुरस्तु शनैश्चरः ॥१८॥ चंद्रस्य दक्षिणे भागे राहुः सर्वारिमर्दनः । तत्पुरः केतुरेवं च नक्षत्राणि ततः पुरः ॥१९॥ आस्थाप्य स्वस्वनामांकान् गणेशान् भक्तितत्परः । भानि ग्रहा भजंते तं क्षेत्रवासपरायणाः ॥१२०॥

खं. ६ अ. १९ | पान ५१ स्वस्वांकितेषु वारेषु पूजनीया इमे नरैः । पूर्णिमायां तमश्चैवामावास्यायां च केतुकः ॥२१॥ अन्ये सूर्यावताराश्च स्वस्वक्षेत्रैः स्थिताः किल । तेषां नामादि कथितुं देवाः शक्यते न वै ॥२२॥ देवालयादष्टदिक्षु भैरवा अष्टमुख्यकाः । नाना भैरवसंयुक्ताः संस्थिता देवतत्पराः ॥२३॥ तत इंद्रो हव्यवाहः पूर्वभागे समाश्रितौ । यमपो निर्ऋतिस्तद्वद्दक्षिणांगे च तिष्ठतः ॥२४॥ पश्चिमे वरुणो वायुः तिष्ठतः क्षेत्रसेवकौ । धनपो निर्ऋतिस्तद्वदुत्तरांगे समास्थितौ ॥२५॥ अष्टम्यां भैरवाः पूज्या जनैः पैशाचनायकाः । भूतादीनां विशेषेण भवंति भयनाशकाः ॥२६॥ दशम्यां दश दिक्पालाः पूजनीयाः प्रयत्नतः । चौरादिजं भयं सर्वं नाशयिष्यंति सर्वदा ॥२७॥ स्वस्वनामांकितानास्थाप्य दिगीशा गणेश्वरान् । पूजयंति भजंते तं भैरवाश्च महेश्वराः ॥२८॥ पूजनीयौ द्वितीयायामश्विनौ पूर्वदिक् स्थितौ । द्वारस्य सन्निधाने तु धनुषां शतमानतः ॥२९॥ देवागारे गणेशं संस्थाप्य नित्यं महाप्रभुम् । भजतस्तेन सर्वेषां रूपलावण्यदौ मतौ ॥३०॥ दक्षिणे संस्थितौ तद्वद्गौरीस्कंदौ परेश्वरम् । आस्थाप्य पूज्य विघ्नेशं भजतो नित्यमादरात् ॥३१॥ तयोः पूजनमात्रेण भवेत् सौभाग्यसंयुतः । स्वाचारनिष्ठभावेन चित्तं सुनियतं भवेत् ॥३२॥ षष्ठ्यां स्कंदं भजेन्नित्यं तृतीयायां च पार्वतीम् । मयूरेशयुते देवास्ताभ्यां सौख्यं लभेन्नरः ॥३३॥ सर्वे वासुकिमुख्याः पश्चिमे नागा महाबलाः । संस्थिता द्वारसामीप्ये नागकुंडं तथाऽमलम् ॥३४॥ पंचम्यां पूजनीयास्ते दारिद्र्यनाशकारकाः । सर्वव्याधिविहीनं तु कुर्वते मानवं सदा ॥३५॥ उत्तरे धननाथं तु पूजयेद्धननायकम् । एकादश्यां विशेषेण द्वारसामीप्यसंस्थितम् ॥३६॥ त्रयोदश्यां धर्मराजं पूजयेन्नात्र संशयः । धर्मप्रदं जनानां च सदा पुण्यविवर्धनम् ॥३७॥ अन्ये देवगणाः सर्वे स्थिता देवालये किल । पूर्णिमायां जनैः पूज्याः क्षेत्रवासिभिरादरात् ॥३८॥ यमस्य सन्निधाने तु पितरः क्षेत्रवासिनः । संस्थितास्ते नरैः पूज्या अमायां वंशवर्धनाः ॥३९॥ त्रयस्त्रिंशत् कोटिमिता देवाः सर्वत्र संस्थिताः । तेषां स्थानादि देवाः कथितुं नैव शक्यते ॥४०॥ देवागारस्य देवेशाः कथितं यात्रया युतम् । माहात्म्यं देवजातीनां सर्वकामफलप्रदम् ॥४१॥ मयूरस्यापि अधुना कथयामि चरित्रकम् । तत्कथां शृणुत प्राज्ञाः सर्वसिद्धिप्रदायकम् ॥४२॥ देवागाराच्छते द्वे तु धनुषां संस्थितो भृगुः । भृगुतीर्थं महत् क्षेत्रे कुंडं पापप्रदाहकम् ॥४३॥ तत्र स्नानेन जंतूनां वंध्यदोषो विनश्यति । तथा पूज्य प्रजानाथं भृगुं सर्वमवाप्नुयात् ॥४४॥ रोहिण्यां तस्य यात्रा वै कर्तव्या क्षेत्रवासिभिः । तेन तुष्टो महायोगी भृगुः सर्वार्थदो भवेत् ॥४५॥ स्वनामसंयुक्तं सोप्यास्थाप्य विघ्नेश्वरं परम् । पूजयत्यनन्यभावेन गाणपत्यस्वभावतः ॥४६॥

तस्य वामांगगः साक्षात्तावन्मानेन संस्थितः। पुलहस्तं प्रपूज्यैव कर्मयुक्तो भवेन्नरः ॥४७॥ कुंडं पुलहतीर्थाख्यं दोषहंतृ स्थितं परम्। भजत्यास्थाप्य गाणेशो गणेशं नान्यभावतः ॥४८॥ यात्रा मृगशिरसि च तस्य प्रोक्ता मयूरके। कर्तव्या क्षेत्रवासि- भिर्महापुण्यप्रवर्द्धिनी ॥४९॥ दक्षिणांगे क्रतुश्चैव कुंडं कृत्वा स्वतीर्थजम्। गणेश्वरं स्थाप्य योगी भजतेऽनन्यचेतसा ॥५०॥ आर्द्रायां स जनैः सर्वैः पूजनीयः प्रयत्नतः। यज्ञस्य फलदाता च भवेद्यात्राविधानतः ॥५१॥ भृगोः पुरश्च धनुषां शतं तत्र स्थितो मतः। च्यवनश्च तथा धाता विधाता देवसत्तमौ ॥५२॥ क्रमेण भार्गवाः सर्वे मुनयस्तत्र संस्थिताः। शतानि पंच तत् क्षेत्रं धनुषां शौनकादयः ॥५३॥ पूजनीयाश्च पंचम्यामृषयः सर्वभावनाः। श्रवणे मानवैस्तस्त्यैः पुण्यदाः संभवंति च ॥५४॥ पुलहस्य पुरस्तद्भूत् पौलहा मुनयः सदा। तिष्ठंति पूजनीयास्ते रेवत्यां सर्वदा मताः ॥५५॥ क्रतोरग्रे महेशानाः क्रतुवंशसमुद्भवाः। तिष्ठंति मुनयः सर्वयोगज्ञाः पुण्यवर्धनाः ॥५६॥ अश्विन्यां पूजनीयाश्च मताः सर्वार्थदायकाः। गणेश- मास्थाप्य विप्राः सेवंते भक्तितत्पराः ॥५७॥ तत्पुरो देवगंधर्वा विश्वावसुपुरोगमाः। धनुषां द्वे शते तेषां क्षेत्रं ख्यातं मयूरके ॥५८॥ उर्वशी चैव रंभाद्यास्ततो ह्यप्सरसः पुरः। धनुषां शतकं क्षेत्रं तासां तत्र प्रकीर्तितम् ॥५९॥ पूजनीया नरैः पुष्पैर्गंधर्वाः पुण्यवर्धनाः। पुर्नवसावप्सरसः पूजनीया विशेषतः ॥६०॥ नानामुनिगणा अन्ये भवंते संस्थिताः पराः। विश्वामित्रो याज्ञवल्क्यस्तथा पाराशरोऽग्रणीः ॥६१॥ श्वेतकेतुर्वामदेवो परो रैभ्यो निदाघकः। इत्याद्याः बह्ववो देवाः कथयितुं न शक्यते ॥६२॥ स्वखनाम्नांकितांस्ते संस्थाप्य लंबोदरान् सदा। भजंते तीर्थसंयुक्ताः पूजनीयाः सुखप्रदाः ॥६३॥ पूर्वभागाश्रितं सर्वं कथितं वः समासतः। अधुना दक्षिणं वक्ष्ये मयूरं सर्वदायकम् ॥६४॥ देवालयाद्दक्षिणाच्चतुःशतं च प्रकीर्तितम्। धनुषां क्षेत्ररूपं तु वसिष्ठस्य महात्मनः ॥६५॥ खनामांकितमास्थाप्य गणेशं भजते सदा। तत्र कुंडं तु वासिष्ठं स्नानेन पाप- नाशनम् ॥६६॥ भरण्यां पूजनीयोऽसौ वंशवृद्धिकरो भवेत्। यात्रा तस्य समाख्याता मयूरे सुखदायिका ॥६७॥ तस्य वामांगभागे चात्रिः सर्वार्थप्रदायकः। गणेश्वरं स संस्थाप्य भजते स्वाभिधानकम् ॥६८॥ तीर्थं तत्र स्थितं तस्य स्नानमात्रेण मानदम्। कृत्तिकायां विशेषेण पूजनीयो नरैः सदा ॥६९॥ दक्षिणांगे वसिष्ठस्य पुलस्त्यः संस्थितोऽभवत्। खनामांकित- मास्थाप्य ढुंढिं भजति देवपाः ॥७०॥ कुंडं तस्य च तीर्थाख्यं परं स्नानेन सत्वदम्। आसुरभावसंभूतं मलं दहति सेविनाम् ॥७१॥ पूजनीयो धनिष्ठायां विशेषेण महामुनिः। सर्वार्थदायको भावी यात्राकारिण एव च ॥७२॥ वसिष्ठाच्च

खं. ६ अ. १९ | पान ५३

पुरोभागे वासिष्ठा मुनयोऽपरे । द्वे शते धनुषां क्षेत्रं तेषां तत्र स्थिता द्विजाः ॥७३॥ अत्रेः पुरस्थात्रेयास्तावन्मानेन संस्थिताः । पुलस्त्याग्रे च पौलस्त्या भवंति मुनयः स्थिताः ॥७४॥ स्वस्वतीर्थसमासक्ताः स्थाप्य विघ्नेश्वरांस्तथा । पूजयंति स्वनामस्थान् भक्तियुक्ता महर्षयः ॥७५॥ मघायां चैव वासिष्ठाश्चित्रायामत्रिसंभवाः । हस्ते पौलस्त्यकाः पूज्याः क्षेत्रवासिभिरादरात् ॥७६॥ अन्ये मुनिगणा नाना सदा तत्रैव संस्थिताः । तेषु मुख्यान् प्रवक्ष्यामि शृणुध्वं देवसत्तमाः ॥७७॥ कण्वश्च जैमिनिश्चैको द्वितश्च त्रितरैवतौ । मेधातिथिर्भरद्वाजो जमदग्निश्च गौतमः ॥७८॥ इत्यादि बहवोऽन्ये स्थिताः संस्थाप्य गणेश्वरान् । पूजनीया नरेणैव सर्वधर्मविवर्धनाः ॥७९॥ कथितेषु महेशान नक्षत्रेषु विशेषतः । यात्रा तेषां समाख्याता सर्वाघशमनी परा ॥८०॥ ततः पुरः पिशाचेशा भूतेशाः सिद्धचारणाः । संस्थिताः पूजनीयास्ते भौमवारे विशेषतः ॥८१॥ अतः परं पश्चिमस्थं वदामि पापहारकम् । चित्रं मयूरे माहात्म्यं क्षेत्रवासिभवं परम् ॥८२॥ देवालयादष्टशतं धनुषां स्थानमुत्तमम् । दक्षस्य तत्र देवेशा दक्षतीर्थं सरः स्थितम् ॥८३॥ तत्र स्नानेन दुर्बुद्धिः परा नश्यति तत्क्षणात् । सुबुद्धि- र्जायते सद्यो जनानां भावितात्मनाम् ॥८४॥ महायात्राऽप्यभिजिति तस्य प्रोक्ता सुखप्रदा । कर्तव्या क्षेत्रवासीभिः परा सद्बुद्धिदायिका ॥८५॥ दक्षस्य वामभागे तु मरीचिः संस्थितो महान् । तावन्मानेन संयुक्तः स्वतीर्थेन समन्वितः ॥८६॥ स्वातौ तस्य महायात्रा कर्तव्या वृद्धिदायिनी । क्षेत्रवासिभिरानंदायोगींद्रस्य महात्मनः ॥८७॥ अंगिरास्तस्य दक्षस्य दक्षिणे योगिसत्तमः । पूजनीयो विशेषेण ज्ञानदाता भवेत् सदा ॥८८॥ तीर्थं तत्र समाख्यातं कुंडरूपेण योगिनः । स्नानेन भक्तिसंयुक्तो लभेज्ज्ञानं च मानवः ॥८९॥ दक्षादयस्त्रयः प्रोक्ताः संस्थाप्य गणनायकम् । स्वस्वनामांकितं देवाः पूजयंति निरंतरम् ॥९०॥ दक्षाग्रे दक्षसंभूताश्चतुर्वर्णप्रकाशिकाः । पुष्यः षष्ठीर्महाभागाः सेवंते गणनायकम् ॥९१॥ तासां क्षेत्रं समाख्यातं चतुः शतधनुर्मितम् । रविवारे पूजनीया वंशसौभाग्यवर्धनाः ॥९२॥ तासां पुरः प्रजाः सर्वा नरैस्ताभ्यः समुद्भवाः । संस्थिता पूजनीयास्ता धनिष्ठायां सुखप्रदाः ॥९३॥ द्वे शते धनुषां तासां क्षेत्रं चैव प्रकीर्तितम् । गणेशमास्थाप्य सर्वाः सेवंते नित्यमादरात् ॥९४॥ मरीचेस्तु पुरोभागे मारीचाः काश्यपादयः । संस्थितास्ते नरैः पूज्याः शततारे धनप्रदाः ॥९५॥ चतुःशतानि तत् क्षेत्रं धनुषां च प्रकीर्तितम् । स्थाप्य विघ्नेश्वरान् सर्वे पूजयंति निरंतरम् ॥९६॥ पुरोभागे ह्यंगिरसः स्थिता आंगिरसाः सदा । तावन्मानेन संयुक्तास्तीर्थयुक्ता महर्षयः ॥९७॥ लंबोदरांस्त आस्थाप्य स्वस्वनामांकितान् सदा ।

पान ५४

पूजयंति विशेषेण भक्तिभावसमन्विताः ॥९८॥ आश्लेषायां महायात्रा तेषां कार्या नरैः परा । पुत्रपौत्रप्रवृद्ध्यर्थ क्षेत्रवासि- भिरादरात् ॥९९॥ अन्ये मुनिवरास्तत्र संस्थिता गणपे रताः । तेषु श्रेष्ठान् प्रवक्ष्यामि महायोगींद्रकांस्तथा ॥२००॥ दुर्वासा गालवश्चैव त्रिशिरा नै वो मुनिः । अगस्त्यश्च मृकंडस्तु मार्कंडेयो दधीचिकः ॥१॥ कथितेषु दिनेष्वेते पूजनीया महात्मभिः । सर्वसौख्यप्रदातारो भवंते योगिसत्तमाः ॥२॥ तीर्थयुक्तां गणेशानास्थाप्य संपूजयंति ते । मुनयो भक्तिसंयुक्ता क्षेत्रवासपरायणाः ॥३॥ अतश्च किंनराः साध्याः पुरो विद्याधरास्तथा । सेवंते गणनांथं संस्थाप्य क्षेत्रनिवासिनः ॥४॥ पूजनीया नरैः सर्वे सर्वकारिण आदरात् । एवं संक्षेपतः प्रोक्तं माहात्म्यं पश्चिमाश्चितम् ॥५॥ अथोत्तरभवं देवाः कथयामि समासतः । मयूरक्षेत्रसंस्थानां चरित्रं सुखदं भवेत् ॥६॥ देवागारात्तु धनुषां देवपाः शतपंचके । वसवोऽष्टौ स्थिताश्चैवास्थाप्य गाणेश्वरं परम् ॥७॥ स्वस्वतीर्थभवं कुंडं कृत्वा भक्तिपरायणाः । भजंते पूर्णिमायां ते पूजनीया विशेषतः ॥८॥ तेषां वामांगभागे तु धेनवः कामदायिकाः । संस्थिता तावता मानेन युतास्तीर्थसंयुताः ॥९॥ गणेश्वरं ताः संस्थाप्य स्वस्वनामयुतं पराः । पूजयंति विधानेन भक्तियुक्ता महौजसः ॥२१०॥ द्वादश्यां ता नरैः पूज्याः कामधेनुमुखाः सुराः । क्षेत्रवासिभिरानंददायिकाः कामपूरिकाः ॥११॥ दक्षिणांगे सितश्चैव देवलश्च समास्थितौ । गणेश्वरं तौ संस्थाप्य पूजतो योगिसत्तमाः ॥१२॥ उत्तरायां विशेषेण पूजनीयौ नरैः सदा । एकनिष्ठाप्रदौ स्यातां नराणां पापहारकौ ॥१३॥ वसूनां च पुरोभागे क्षेत्रं शतधनुर्द्वयम् । गार्ग्याणां ते नरैर्विद्याप्रदाः पूज्या विशेषतः ॥१४॥ उत्तराषाढनक्षत्रे यात्रा तेषां प्रकीर्तिता । गर्गः स्वयं महायोगी भजते गणनायकम् ॥१५॥ गवां पुरो महेशाना मौद्गला गणप्रियाः । सेवंते विघ्नराजं ते तावन्मानेन संस्थिताः ॥१६॥ देवा विप्राश्च मांडूका देवलासितयोः पुरः । सेवंते गणनांथं ते सर्वे भक्तियुताः सदा ॥१७॥ उत्तराभाद्रनक्षत्रे मौद्गला मानवैः सदा । पूजनीया विशेषेण योगदाः संभवंति ते ॥१८॥ मांडूकाः पूर्वफल्गुन्यां पूजनीया नरैः सदा । व्याधि- दोषहरास्ते तु भवंत्यत्र न संशयः ॥१९॥ असिताद्या इमे सर्वे स्वस्वनामांकितं परम् । पूजयंति गणेशं संस्थाप्य तीर्थ- समन्विताः ॥२२०॥ तेषां पुरो महात्मानो मुनयस्तत्र संस्थिताः । मुख्यांस्तेषु प्रवक्ष्यामि शृणुध्वं योगिसत्तमान् ॥२१॥ धौम्यश्च वाल्मिकीवाचक्रवी मंकणको मुनिः । कहोडश्च सुमंतुर्वै वैशंपायन एव च ॥२२॥ जाबालिः पर्वतः पैल ऋष्य-

खं. ६ अ. २० पान ५५ शृंगः प्रतापवान् । लोमशश्च विभांडोऽन्यो बह्लवाद्या महर्षयः ॥२३॥ स्वस्वतीर्थयुतास्ते संस्थाप्य विघ्नेश्वरान् सदा । पूजयंति महाभागाः स्वस्वनामसमन्वितान् ॥२४॥ उत्तराषाढनक्षत्रे पूजनीया नरैः सदा। सर्वपापहरास्ते वै भवंते योगिसत्तमाः ॥२५॥ तत्पुरो गुह्यकाश्चैव हनूमान् पवनात्मजः । यक्षा रक्षोगणाः सर्वे भजंते गणनायकम् ॥२६॥ स्थाप्य ढुंढिं खतीर्थैस्तु युता ध्यानपरायणाः । उत्तराभाद्रनक्षत्रे पूजनीयाः शुभप्रदाः ॥२७॥ मुक्तेरीशानभागे तु सरः प्रणवसंज्ञितम् । प्रणवाकृति तत्रैव स्नाने मूर्ध्नि ध्वनिर्भवेत् ॥२८॥ तत्रोंकारगणेशश्च सरस्वत्या समन्वितः । चतुर्थ्यां पूज- नीयोऽसौ सर्वसिद्धिप्रदायकः ॥२९॥ तत्पुरो भैरवस्यैव दूता नगरस्य सर्वतः । रक्षार्थं संस्थिता देवा महाबलसमन्विताः ॥३०॥ अन्ये नानाविधास्तत्र स्थितास्तेषां महात्मनाम् । नामादिकं बहुत्वात् कथितुं नैव शक्यते ॥३१॥ इदमउत्तरगं प्रोक्तं मयूरस्य चरित्रकम् । संक्षेपेण महादेवाः सर्वसिद्धिप्रदायकम् ॥३२॥ यात्रादिसंयुतं यस्तु शृणोति क्षेत्रवासिनाम् । मुख्यानां चरितं पुण्यं स सर्वं प्रलभेत सुखम् ॥३३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते क्षेत्रवासिचरितवर्णनं नामैकोनविंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । मयूरं कीदृशं देवालयं विप्र किमात्मकम् । गर्भागारं तथा योगिन् वद गाणेशरूपकम् ॥१॥ भ्रुशुंड्युवाच। चित्रं नानाविधं सर्वं मायारूपं मयूरकम् । तदेव गणनाथस्य रूपं ज्ञातव्यमुत्तमम् ॥२॥ दिवुः क्रीडात्मको धातुर्माया- क्रीडाकरः स्वयम् । गणेशस्तस्य रूपं यद्देवागारं प्रकीर्तितम् ॥३॥ यथा गर्भश्च देवेंद्र्राः शुक्रशोणितसंभवः । द्वाभ्यामेकत्व- मापन्नो जायते द्वंद्वधारकः ॥४॥ मायामायिकयोर्योगे तथा स्वानंद उच्यते। गर्भागारं तदेवाऽपि ज्ञातव्यं योगिभिः परम् ॥५॥ स्वानंदे वसतिस्तस्य गणेशस्य महात्मनः । स एव मूर्तिमास्थाय संतस्थावुत्तरामुखः ॥६॥ एतत् सर्वं रहस्यं यत् कथितं सर्वमंजसा । तं सेवध्वं महेशानास्तेन सर्वमवाप्स्यथ ॥७॥ देंवेंद्रा ऊचुः । क्षेत्रं गणपतेर्योगिन् सर्वं गाणेशरूपकम् । तत्र स्थिता विशेषेण देवविप्रादयः प्रभो ॥८॥ तेषां पुरीषमूत्रादिव्यवहारः कथं भवेत् । स्त्रीसंगपुत्रपौत्राद्यं सर्वं तद्दुर्धटं भवेत् ॥९॥ भ्रुशुंड्युवाच ।

[Header] पान ५६

[Main Text] साक्षाद्गणेश्वरस्यैव देहो योगमयोऽमराः। न तस्य बाधते किंचित् मृत्यरूपमिदं कदा॥१०॥ लोकानामुपकाराय जलपृथ्व्यादिकं तथा। रचितं सर्वसामान्यं तत्र वासेन लभ्यते॥११॥ गणेशः सर्वयोगानामधिपो नात्र संशयः। न गणेशस्वरूपस्य विक्रिया जायते ततः॥१२॥ योगरूपे नरास्तत्र निश्चये न मृताः किल। गाणेशे संभविष्यंति तदाकारा न संशयः॥१३॥ तथा नरादयश्चान्ये वसंति क्षेत्रवासिनः। कुर्वंति मलमूत्रादि देवादीनां न बाधते ॥१४॥ देवविप्रादयस्तत्र संस्थिता व्याप्य देवपाः। अंगुष्ठपर्वमात्रेण रूपेण क्षेत्रवासिनः ॥१५॥ मयूरं तन्मयं क्षेत्रं ज्ञातव्यं दिव्यचक्षुषा। मृन्मयं मानवानां तु तद्दोषस्तत्र नो भवेत्॥१६॥ तथापि मृन्मये क्षेत्रे गर्भागारं विशेषतः। मलमूत्रादिदोषैश्च संयुक्तं नैव कारयेत्॥१७॥ तेन सर्वं शुभं सर्वैर्लभ्यते मानवैः परम्। यथा धर्मयुतैर्नित्यं सेवनीयं मयूरकम्॥१८॥ भवेद्द्विपथभावेन मयूरे संस्थितो यदि। स यातनां लभेच्चोग्रां नग्नभैरवकारिताम्॥१९॥ देवेशा ऊचुः। गर्भागारे मलस्यैव नरस्त्यागं समाचरेत्। तस्मै भैरवदत्तां तां यातनां कीदृशीं वद ॥२०॥ मयूरे पापकर्माणि यः करोति तु मानवः। स भुंक्ते यातनां विप्र कीदृशीं तां वदख नः ॥२१॥ मयूरं केन पुण्येन लभ्यते तद्वदस्व च। क्षेत्रसंन्यासिनां चैव द्वारयात्रां किमात्मिकाम्॥२२॥ भृशुंड्युवाच। इतिहासं प्रवक्ष्यामि पुराकल्पसमुद्भवम्। तेन संशयहीनाश्च भविष्यथ सुरोत्तमाः॥२३॥ देवागारे द्विजः कश्चिद्देवानीकेति नामतः। अत्रिगोत्रोद्भवः सुज्ञः संस्थितोऽभूत् सुकर्मवान्॥२४॥ स्वधर्मसंयुतो नित्यं सिषेवे गणनायकम्। देवविप्रातिथिप्रेप्सुः क्षेत्रयात्रापरायणः ॥२५॥ एवं बहौ गते काले वृद्धस्तत्र बभूव ह। तथापि नित्ययात्रायां रतो- ऽभूद् धर्मधारकः॥२६॥ एकदा ज्वरयुक्तश्चाजीर्णानेन प्रपीडितः। जगाम स मयूरेशं पूजनाय महायशाः॥२७॥ पूजयित्वा गणेशानं नित्ययात्रां चकार ह। तत्रापानभवो वायुः पीडयन्नतिदूषितः॥२८॥ हठात् संगृह्य विप्रस्तं त्यक्त्वा यात्रां महामतिः। स्वगृहं प्रजगामाऽसौ त्वरायुक्तोऽतिदुःखितः ॥२९॥ गच्छतोऽजीर्णदोषेणातिसारेण महात्मनः। मलः शिथिलभावेन निःस्रुतो गर्भमंदिरे ॥३०॥ ततोऽतिदुःखसंयुक्तः स्नानं चक्रे स वाडवः। शनैः स्वगृहमागम्य शोकयुक्तो बभूव ह॥३१॥ अहो मयाऽतिमूर्खेण गर्भागारे कृतं परम्। मल्यागभवं पापं का गतिर्मे भविष्यति॥३२॥ ततस्तत्र ममारैव स्वल्पकालेन विप्रपः। रोगेण पीडितोऽत्यंतं देवानीको महायशाः॥३३॥ ततस्तं भैरवस्यापि दूता नेतुं समागताः। बद्ध्वा संताड्य विप्रं संगृह्य ते भैरवं ययुः॥३४॥ दृष्ट्वा स भैरवो देवस्तमुवाच द्विजाधमम्। किमर्थं रोगयुक्तस्त्वं गर्भागारं गतो वद ॥३५॥

खं. ६ अ. २० | पान ५७ अत्यसाध्यशरीरेण गमनं यत्त्वया कृतम् । भुंक्ष्व पापं महादुष्ट मलत्यागभवं परम् ॥३६॥ साक्षाद्गणपतेः स्थाने गर्भागारे गतो भवान् । तस्य मस्तकमध्ये तु पपात किल ते मलः ॥३७॥ अस्माभिश्च सुवासेन जलेन क्षालितं तदा । मस्तकं तस्य देवस्य विष्ठायुक्तं तया कृतम् ॥३८॥ इत्युक्त्वा क्रूररूपं स दर्शयामास भैरवः । देवानीकाय तं सोऽपि दृष्ट्वा मूर्च्छामवाप ह ॥३९॥ ततस्तं सावधानं स पुनः कृत्वाऽग्निचक्रगम्। चकार दूतवर्यैश्च नग्नभैरव एव च ॥४०॥ अग्निचक्रे द्विजो नित्यं दाहयुक्तो बभूव ह । बभ्राम देवमुख्याश्च हाहाकाररवाकुलः ॥४१॥ भैरवाणां महावह्निर्मतः कोटिगुणाधिकः । यमस्याग्रेश्च जंतूनां तं स्प्रष्टुं कः क्षमो भवेत् ॥४२॥ शतवर्षाणि विप्रेशोऽग्निचक्रं तत् समाश्रितः । बभ्राम दाहसंयुक्तो न ममार स मायया ॥४३॥ भैरवेण निबद्धः स दुःखमेव सुदारुणम् । बुभुजे ब्राह्मणस्तत्र मया वक्तुं न शक्यते ॥४४॥ ततो हैमगुहायां स निक्षिप्तो ब्राह्मणाधमः । शतवर्षाणि तत्रैवाभवच्छैलेन पीडितः ॥४५॥ ततः स रौरवे तेन निक्षिप्तो जंतुभिस्तथा । दंशितस्तत्र संस्थश्च कोटिवृश्चिकसन्निभैः ॥४६॥ शतवर्षाणि तत्रैव पीडितस्तेन दारुणम् । ततस्तप्तशिलायां स पोथितोऽभूत् पुनः पुनः ॥४७॥ शतवर्षाणि तत्रैव यातनां बुभुजे पराम् । ततः पिशाचयोनिस्थः क्षेत्रे पीडायुतोऽभवत् ॥४८॥ अन्नवस्त्रजलादिभ्यो हीनो बभ्राम वाडवः । अशुचीन् स नरान् प्राप्य तद्देहस्थो बभूव ह ॥४९॥ तत्रैव शास्त्रमंत्रेण वैदिकेन द्विजोत्तमैः । ताडितस्तान् परित्यज्य बभ्राम यत्र तत्र ह ॥५०॥ एवं वर्षाणि देवेशाः शतं कृत्वा पुनश्च तम्। आनाय्य भैरवो देवो जगाद वचनं हितम् ॥५१॥ देवानीक त्वया भक्त्या यात्रार्थं गर्भमंदिरम् । अशक्तेन कृतं चैव मलयुक्तं महामते ॥५२॥ तेन त्वं पंचशतकं वर्षाणां यातनाभवम् । दुःखं भुक्त्वा महाविप्राऽधुना तं गणपं व्रज ॥५३॥ इत्युक्त्वा तं महेशाना ब्रह्मभूतं चकार ह । एवं वः कथितं तत्र मलत्यागे महद्भयम् ॥५४॥ यदि स्वाधीनदेहश्चेत् ज्ञात्वा गर्भालये मलम् । त्यजेत् सोऽपि नरः पूर्णां यातनां प्रलभेत् पराम् ॥५५॥ इदं श्रुत्वा नरो यस्तु त्रासयुक्तो भवेत् कदा । तदारभ्य मलत्यागं न कुर्यात् स लभेद्गतिम् ॥५६॥ तं निर्भर्त्स्य महा क्रूरा भैरवा यातनाभवम् । दर्शयित्वा महत् दुःखं ब्रह्मभूतं तु चक्रिरे ॥५७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते मलत्यागयातनाकथनं नाम विंशतितमोऽध्यायः ॥

ख ६ अ. २१ | पान ५८ ॥ श्रीगणेशाय नमः॥ भुशुंड्युवाच। विकर्मकारिणां क्षेत्रे कथयिष्यामि चाधुना। यथा दंडः स्वहस्तैश्च क्रियते भैरवैर्महान् ॥१॥ मयूरे क्षत्रियः कश्चिद्वासं कृत्वा स्थितोऽभवत्। गत्वा वनांतरे लोकान् हत्वा द्रव्यं समग्रहीत् ॥२॥ कुटुंबपोषणे सक्तः शिश्नोदरपरायणः। चकार विविधं पापं क्षेत्रे मायूरसंज्ञिते ॥३॥ परस्त्रियं बलाद् गृह्यायभक्तां निरपत्रपः। जातिभेदादिकं सोऽपि मान्यं नैव चकार ह ॥४॥ भगिनीमेकलां दृष्ट्वा कदा मदेन विह्वलः। हठात् गृह्य महेशानो बुभुजे कामनायुतः ॥५॥ चौरादीनि चकारापि ब्रह्महत्यां तथा खलः। गोस्त्रीवधादिकं दुष्टः किं वदामि विशेषतः ॥६॥ गणेशं न पुपूजासौ कदाचिदमरान् परान्। यात्रां नैव चकारापि पापनिष्ठो ममार ह ॥७॥ भैरवास्तं समागृह्य बद्ध्वा ताड्य नराधमम्। निन्युः स्वस्थानगं ते तु नग्नं भैरवनायकम् ॥८॥ क्षत्रियोऽथ महाक्रूरं दृष्ट्वा भैरवनायकम्। हाहा कृत्वा पपाताऽसौ मूर्च्छितो धरणीतले ॥९॥ सावधानं ततः कृत्वा मायया नग्नभैरवः। मृतिर्मूर्च्छाविहीनं च दुष्टं चकार सर्वपः ॥१०॥ तंतस्तं गृह्य दूतास्ते भैरवस्य महात्मनः। अग्निकुंडेषु संक्षिप्य दाहयामासुरंजसा ॥११॥ सहस्रे ते तं गतेषु वर्षेषु क्रोधसंयुतः। अग्नि- चक्रे समाक्षिप्य भ्रामयामासुरंजसा ॥१२॥ हाहाकाररवैर्युक्तो बभ्रामाग्नौ नराधमः। न ममार न मूर्च्छां सोऽलभद्वैरव- मायया ॥१३॥ ततः सहस्रवर्षांते हैमकुंडे समाक्षिपन्। भैरवास्तं महादुष्टं शीतैश्चक्रुः प्रपीडितम् ॥१४॥ ततः सहस्रवर्षांते शिलायां स्थाप्य मुद्गरैः। चूर्णयामासुरुग्रैस्तं खलं कंटकसंयुतैः ॥१५॥ एवं गतानि वर्षाणि सहस्रं देवसत्तमाः। ततो याम्यां ददुस्तस्मै यातनां दारुणां पराम् ॥१६॥ रुरुजंतुभिरादष्टो रौरवेऽभून्नराधमः। स सहस्रं वर्षकाणि महोग्रैर्वह्नि- सन्निभैः ॥१७॥ ततस्तैलकटाहेशु संतप्तेषु च तं भटाः। चिक्षिपुर्दारुणां सोऽपि वेदनां बुभुजे पराम् ॥१८॥ ततः सहस्र- वर्षांते तप्तवालुभिरेव तम्। आच्छाद्य स्थापयामासुर्भैरवाः क्षत्रियाधमम् ॥१९॥ सहस्रं तत्र वर्षाणि बुभुजे दुःखमुल्बणम्। ततः स पपात पिशाचयोन्यां दुःखसंयुतः ॥२०॥ क्षुधा तृषा समायुक्तः सदा शीतोष्णभावकैः। बभ्राम क्षेत्रमध्ये स पीडितो यत्र तत्र च ॥२१॥ तत्र तं देवदूताश्च दृष्ट्वा स्वनिकटे स्थितम्। तदा दंडादिभिः सर्वे ताडयामासुरोजसा ॥२२॥ वेदशास्त्रध्वनिं श्रुत्वा होमधूमादिकं तथा। पपाल दुःखसंयुक्तो मंत्रशस्त्रभयात् कदा ॥२३॥ त्रीणि वर्षसहस्राणि भुक्त्वा दुःखं ततः परम्। भैरवैश्च समानीतो ननाम नग्नभैरवम् ॥२४॥ शुद्धस्तेन समानीतो गणेशस्यैव मंदिरे। गणे- श्वरं तत्र दृष्ट्वा ब्रह्मभूतो बभूव ह ॥२५॥ एवं पापप्रचारान् संदंड्य ब्रह्ममयं पुनः। चक्रुः क्षेत्रे मृतत्वात् कथयितुं शक्यते

खं. ६ अ. २१ पान ५९ न वै ॥२६॥ अन्यं पापकृतः कर्म दाहकं विधिमुत्तमम् । कथयामि समासेन शृणुध्वं शिवमुख्यकाः ॥२७॥ ब्राह्मणः काश्यपः कश्चित् मयूरे संस्थितोऽभवत् । चौर्यमद्यादिकं सोऽपि चकार नित्यमादरात् ॥२८॥ परस्त्रीलंपटः सोऽपि शिश्नो- दरपरोऽभवत् । ब्रह्महत्यां द्रव्यलोभाच्चकार काश्यपोऽधमः ॥२९॥ ज्ञात्वा राज्ञा द्विजस्यैवाहृत्य सर्वं पुनर्द्विजम् । बद्ध्वा क्षेत्राद्बहिश्चक्रे नरैर्धर्मपरायणैः ॥३०॥ ततो द्विजो विलप्यैव कृत्वा शपथमागतः । मयूरं तत्र लोकैः स द्वारयात्रा परो- ऽभवत् ॥३१॥ द्वारयात्रारतं दृष्ट्वा लोकास्तं मेनिरे पुनः । ब्राह्मणं श्रद्धया युक्ता वस्त्रान्नं च ददुः परम् ॥३२॥ चतुर्द्वारमयीं यात्रां चकार ब्राह्मणाधमः । पंचम्यां पारणं चक्रे षष्ठ्यां सर्पेण दंशितः ॥३३॥ मृतं मयूरक्षेत्रे तं विषोग्रेण प्रपीडितम् । संगृह्य भैरवाः सर्वे नग्नभैरवमाययुः ॥३४॥ यातनागारकं देवो दर्शयामास भीतिदम् । तस्मै पुनश्च विघ्नेशं दर्शयामास देवपाः ॥३५॥ दृष्ट्वा गणपतिं सोऽपि ब्रह्मभूतो बभूव ह । क्षेत्रे कृतं महत्पापं द्वाराणां यात्रया गतम् ॥३६॥ अन्यच्च शृणुत प्राज्ञा मयूरे चरितं भवम् । पुरा कल्पे समासेन कथयामि महेश्वराः ॥३७॥ दंडकारण्यदेशे तु ब्राह्मणोऽत्रिकुलो- द्भवः । बाल्यात् प्रारभ्य दुर्बुद्धिः पापकर्मपरोऽभवत् ॥३८॥ नाम्ना देवाः सुप्रतीको द्रव्यलोभी बभूव ह । चौर्यद्रव्यं जनानां संगृह्य भोगान् बुभोज च ॥३९॥ कदा सप्तपुरीणां च यात्रार्थं जग्मुरादरात् । चतुर्वर्णजनाः सोऽपि तेषां मध्ये जगाम ह ॥४०॥ द्रव्यलोभी जनानां च चौर्यद्रव्यं समग्रहीत् । एवं बहुधनस्तत्र जातोऽसौ ब्राह्मणाधमः ॥४१॥ कृत्वा सप्तपुरीणां ते यात्रां पुनः समाययुः । स्वदेशं तैः समायुक्तः सोऽपि स्वगृहमाययौ ॥४२॥ ततः स्त्रीपुत्रकान् स्वस्य मंडया- मास भूषणैः । चचार तीर्थगो भूत्वा कदाचिच्चौर्यकारणात् ॥४३॥ द्विजः पौराणिकं दृष्ट्वा पुराणकथने रतम् । चौर्यार्थं तत्र पापात्मा जनमध्ये समास्थितः ॥४४॥ ततो मयूरक्षेत्रस्य माहात्म्यं स्कांदसंभवम् । शुश्राव सुप्रतीकश्च जनैः सर्वैर्महेश्वराः ॥४५॥ मयूरक्षेत्रमाहात्म्यश्रवणेन दुरात्मनः । द्विजस्य बुद्धिभेदो वै बभूवे दैवयोगतः ॥४६॥ स तु तत्र चकारापि विचारं मानसे परम् । अहो मया द्विजेनैव किं कृतं पापमुल्बणम् ॥४७॥ विषादिना हता लोका ब्राह्मणाद्या मया बहु । तीर्थेषु चौर्यहत्यादि पापं तु प्रकृतं मया ॥४८॥ काश्यां प्रदक्षिणायां तु पंचक्रोश्यां मया परम् । पापं कृतम- पारं वै का गतिर्मे भविष्यति ॥४९॥ मद्धिना ब्राह्मणः कश्चिदीदृशो न भवेत् कदा । यो ब्रह्मणि रतः सर्वो ब्राह्मणस्तेन कथ्यते ॥५०॥ एकांतगं ततः पौराणिकं गत्वा द्विजाधमः । उवाच तं प्रणम्यादौ कृत्वा करपुटं वचः ॥५१॥ सुप्रतीक उवाच ।