मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
स्तानुक्त्वाऽन्तर्धानमाकरोत् । देवा हर्षयुताः सर्वे जग्मुर्गिरिगुहांतरे ॥२६॥ गणेशं भजमानास्ते मुनयो देवनायकाः । कालाकांक्षिण आनंदाद्बभूवुः शक्तिमुख्यकाः ॥२७॥ अथ कामासुरः क्वापि सभायां संस्थितोऽभवत् । तत्राकाशभवां वाणीं शुश्राव भयदायिनीम् ॥२८॥ देवैः संप्राथितं ब्रह्म मयूरेश्वरसंज्ञितम् । हत्वा त्वामखिलं विश्वं सुखयुक्तं करि- ष्यति ॥२९॥ ततो मुमूर्च्छ तस्मात् स कामासुरो भयातुरः । श्रुत्वा वाचं महाक्रूरां दैत्येशास्तं समाययुः ॥३०॥ महा- यत्नेन दैत्येशाः सावधानं महासुरम् । चक्रुः स तानुवाचेदं वचनं खसमुद्भवम् ॥३१॥ तच्छ्रुत्वा क्रोधसंयुक्ता दैत्येशास्त- मथाऽब्रुवन् । देवाः शत्रव आद्याश्चास्माकं नित्यं श्रुतेर्मुखात् ॥३२॥ अस्माभिः कथितं स्वामिन् जहि देवान् महामते । मुक्तेस्त्वया सुरेशानैस्तैरिदं दारुणं कृतम् ॥३३॥ उत्पत्तिस्थितिसंहारकारकेभ्यो महाप्रभो । तद्भवेभ्यो भयं ते न किं करिष्यति देवपः ॥३४॥ आज्ञापय महाभागास्मान् देवहननाय वै । मृता देवा यदा नाथ निःसपत्रा वयं तदा ॥३५॥ ततः कामासुरस्तानाज्ञापयद्देवकंदने । कुंभकर्णादयो जग्मुर्गिरिकंदरकानने ॥३६॥ ततो मेरुगुहासंस्थान् दृष्ट्वा देवर्षि- सत्तमान् । शस्त्राणि दैत्यास्तान् हंतुं तत्यजुर्दैत्यनायकाः ॥३७॥ शिवमुख्या मयूरेशं सस्मरुर्भयसंकुलाः । एहि नाथ दया- सिंधो रक्ष नो भयसंयुतान् ॥३८॥ स्मृतिमात्रेण हेरंबस्तान् ययौ मूषकध्वजः । मयूरोपरिसंस्थश्च शस्त्रधारक आदरात् ॥३९॥ तेजोरशिमयं रूपं दृष्ट्वा देवा विसिस्मिरे । तुष्टुवुस्तं महेशाना नानास्तोत्रैर्गजाननम् ॥४०॥ ततस्तेजोमयं रूपं तान् जगाद सुरर्षिकान् । विकटोऽहं महाभागास्तथा भजत मा चिरम् ॥४१॥ कामयुक्ता मया माया मयूरा विविधात्मिका । कामहीनोऽयमेवाहं भजध्वं कामहानतः ॥४२॥ मायासुखाच्च देवेशा विकटा भवत प्रियाः । तदा मे रूपकं द्रष्टुं भविष्यथ समर्थकाः ॥४३॥ तस्य तद्वचनं श्रुत्वा शोकयुक्ताः सुरर्षयः । बलेन चित्तमागृह्य निःकामं चक्रुरादरात् ॥४४॥ ततो गणेश्वरं देवा मुनयो ददृशुश्च ते । तं प्रणम्य स्थिताः सर्वे दैत्यशस्त्रैः प्रपीडिताः ॥४५॥ ततोऽतिक्रोधसंयुक्तो विकटस्ता- नुवाच ह । भयहीना मदीयेन दर्शनेन भवेत वै ॥४६॥ अधुना शस्त्रसंयुक्ता युध्यध्वं मे ह्यनुग्रहात् । कामासुरं हनि- ष्यामि आगतं तं महेश्वराः ॥४७॥ ततस्ते क्रोधसंयुक्ता देवेंद्राः शस्त्रपाणयः । युयुधुर्दैत्यमुख्यैश्च तेजोयुक्ता विशेषतः ॥४८॥ इंद्रेण सहसाऽऽगत्य वज्रेण निहतोऽपतत् । कुंभकर्णस्ततो दैत्या प्रपेलुर्भयसंकुलाः ॥४९॥ द्विमुहूर्ते गते दैत्यो
खं. ६ अ. ३२ पान ९३ राक्षसेशः प्रतापवान् । सावधानो बभूवाऽपि पपाल भयसंकुलः ॥५०॥ जययुक्ता महेशानाः प्रणेमुर्विकटं ततः । जयशब्देन सर्वेशं तुष्टुवुर्हर्षसंयुताः ॥५१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते विकटप्रादुर्भावो नाम एकत्रिशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । कामासुरवधार्थाय भक्तियुक्ता गजाननम् । देवर्षयः प्रार्थयंतो निःकामाः कथमप्यहो ॥१॥ आदिशक्तिरुवाच । अथो सकामनिःकाममार्गं वक्ष्यामि शक्तयः । शृणुध्वं भावसंयुक्ताः संशयच्छेदनाय तम् ॥२॥ स्वदेह- पोषणार्थं यशोर्थं भावसंयुताः । भजंते कामसंयुक्ता देवं जानीत तान्नरान् ॥३॥ स्वधर्मप्रसिद्ध्यर्थं देवसेवार्थमेव ये । निःकामास्ते भजंते तं देवं भावसमन्विताः ॥४॥ निःकामिका कृता भक्तिर्देवैशैः शृणुत प्रियाः । तस्याश्चिह्नं प्रवक्ष्यामि भवती हितकाम्यया ॥५॥ सृष्टिस्थितिलयाद्यर्थं निर्मिता विधिमुख्यकाः । वयं तदेव सेवा ते खेलसि त्वं गजानन ॥६॥ हृदि स्थित्वा च सर्वेषां भोगांस्त्वं दोषवर्जितः । भुंक्षे तेन गणेशान सेवा ते देहपोषिका ॥७॥ तव प्रीत्यर्थमानंदात् प्रकुर्मः स्वधर्मजाम् । क्रियां सृष्ट्यादिकां नाथ तदर्थं प्रार्थयामहे ॥८॥ अधुना दैत्यमुख्येन सेवा ते खंडिता परा । असमर्थांश्च तां कर्तुं रक्ष नः सेवनोत्सुकान् ॥९॥ एवं संप्रार्थितो देवैर्विकटो नात्र संशयः । देहभोगादिभावेषु यशः स्वप्य स्पृहात्मभिः ॥१०॥ स्वधर्मसंयुक्तैः सर्वैः स्वस्वव्यापारजा क्रिया । कर्तव्या ढुंढिप्रीत्यर्थं निःकामा सा मता किल ॥११॥ अधुना प्रकृतं देव्यो महच्छृणुत चेष्टितम् । विकटस्य विशेषेण येन भक्तिः प्रलभ्यते ॥१२॥ कुंभकर्णादयः सर्वे जग्मुर्भयसमन्विताः । कामा- सुरं महावीर्यं वृत्तांतं तं न्यवेदयन् ॥१३॥ मयूरेशः समायातो विकटश्चेति कथ्यते । देवैः संप्रार्थितो नाथ हनिष्यति महासुरान् ॥१४॥ तस्य दृष्टिनिपातेन देवास्तेजोयुताः कृताः । वयं तेजोविहीनाश्च पश्याश्चर्यं महामते ॥१५॥ शरणं विकटं चैव शुभदं ते भविष्यति । अन्यथाऽसुरसंघानां विनाशो निश्चितोऽधुना ॥१६॥ कुंभकर्णवचः श्रुत्वा क्रोधयुक्तो बलिश्च तम् । निर्भर्त्स्य प्रत्युवाचेदं वचनं सर्वसन्निधौ ॥१७॥ बलिरुवाच । किं भ्रांतोऽसि विशेषेण वदसे विकलो यथा । कामा-
खं. ६ अ. ३३ पान ९४ ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ सुरस्य वेगं तु सहते कः स्वरूपधृक् ॥१८॥ बलेर्वचनमाकर्ण्यासुरः कामः प्रतापवान् । जगाद दैत्यमुख्यांश्च हृदयेन विदूयता ॥१९॥ कामासुर उवाच । वाणी सत्या बभूवापि स्वस्था मे शत्रुरागतः । हनिष्यामि मरिष्यामि किं वा तत्र भवि- ष्यति ॥२०॥ कामासुरवचः श्रुत्वा दुर्मदस्तत्र चाब्रवीत् । वचनं तेजसा युक्तो वीर्ययुक्तं महासुरः ॥२१॥ दुर्मद उवाच । कुंभकर्णेन दृष्टश्च विकटो नात्र संशयः । उत्पत्तिनाशसंयुक्तो विचारय महामते ॥२२॥ यद् दृष्टं तत्प्रणष्टं वै पश्य वेदे विचक्षण । कथं त्वां स महाराज हनिष्यति वरैर्युतम् ॥२३॥ मा चिंतां कुरु राजेंद्र वधिष्यामो वयं च ते । शत्रुं तत्र जयैर्युक्ता भविष्यामो न संशयः ॥२४॥ आज्ञापय महादैत्यास्मांस्ते पादस्य किंकरान् । पश्य नो यत् महावीर्यं देव- नाशकरं परम् ॥२५॥ देवैर्माया कृता चेयं खवाणी भयरूपिणी । मायया तं विनिर्माय भयार्थं दैत्यरक्षसाम् ॥२६॥ नेय- माकाशवाणी वै विचारय महामते । देहधारी कथं त्वां स हनिष्यति महाबलम् ॥२७॥ दुर्मदस्य वचः श्रुत्वा बलिमुख्या महाऽसुराः । हर्षयुक्ताः पुनस्तं ते जगुः सत्यं त्वयोदितम् ॥२८॥ ततः कामासुरश्चैव सन्नद्धः सर्वदैत्यपैः । चतुरंगबलै- र्युक्तैर्निर्जगाम गजाननम् ॥२९॥ ततः शुक्रेण दैत्येंद्रो बोधितो बहुलोक्तिभिः । न बुबोध मदोत्सिक्तो बलगर्वेण मोहितः ॥३०॥ भाविनं मुनिमुख्यश्च ज्ञात्वा काव्यो महायशाः । कालवेगं समाश्रित्य प्रययौ तमनु प्रभुः ॥३१॥ दैत्याः क्रोधयुताः सर्वे समाजग्मुः प्रहर्षिताः । देवमर्दनकामार्थं यत्र देवाः स्थिताः पुरा ॥३२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते देवदैत्यसमागमो नाम द्वात्रिंशत्तमोऽध्यायः ॥ ❧❦❧ ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । समागतं महत् सैन्यं नानाशस्त्रविराजितम् । अपारं तत् समालोक्य देवेशा गणपं ययुः ॥१॥ देवेशा ऊचुः । कामासुरः स्वयं साक्षादागतः स महाबलः । यस्याग्रे देवदेवेशा मशका इव संबभुः ॥२॥ यस्य शस्त्रबलं स्वामिन्नमोघं सर्वदा बभौ । न बले सदृशस्तस्य सोऽयं कामः समागतः ॥३॥ रक्ष नः कामसंत्रस्तान्नोचेत् कामः प्रतापवान् । देवर्षीणां गणेशान जीवग्राहं करिष्यति ॥४॥ तेषां वचनमाकर्ण्य तान् जगाद गजाननः । मा भयं ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ
[header] खं. ६ अ. ३३ | पान ९५ [/header]
कुरुत प्राज्ञा हनिष्यामि महासुरम् ॥५॥ मदनुग्रहतः सर्वे समर्था देवनायकाः । भविष्यथ न संदेहो युध्यध्वं दानवैः सह ॥६॥ विकटस्य वचः श्रुत्वा देवा हर्षसमन्विताः । जगर्जुः शस्त्रसंयुक्ता भयहीनाश्च शक्तयः ॥७॥ तेषां गर्जितशब्देन व्याप्तं सर्वं दिगंतरम् । दैत्या भययुताः सर्वे बभूवुर्ये समागताः ॥८॥ ततः क्रोधसमाविष्टा दैत्येशा बलिमुख्यकाः । जगर्जुः सिंहनादैश्च शंखनादैः समंततः ॥९॥ ततो दैत्यगणाः सर्वे मुमुचुः शस्त्रपाणयः । शस्त्रवृष्टिं महोग्रां च मेघा इव शिलोच्चये ॥१०॥ ततो देवाः स्वशास्त्रैस्तान्निवार्य युयुधुः परम् । दैत्या देवा महोग्राश्च युयुधुस्ते परस्परम् ॥११॥ नाऽभूत् स्वपरबोधोऽपि रजसा छादिते रवौ । जघ्नुः परस्परं देव्यः शस्त्रास्त्रैर्मर्मभेदिभिः ॥१२॥ ततो रक्तसमोघैश्च नदी जाता दुरत्यया । प्रवाहबहुला रक्तै रजः शांतं बभूव ह ॥१३॥ एवमेकदिनं घोरं दिवानिशि निरंतरम् । युद्धं बभूव दैत्यानां देवानां तु जयैषिणाम् ॥१४॥ ततो देवा जयैर्युक्ता बभूवुर्दैत्यमुख्यकान् । जघ्नुः शस्त्रप्रहारैस्तु प्रपेलुर्देत्यनायकाः ॥१५॥ तद् दृष्ट्वा परमाश्चर्यं दैत्येंद्राः क्रोधमादधुः । बलिमुख्या महावीर्या आययू रणमंडलम् ॥१६॥ तैः शस्त्रास्त्रबलैः सर्वं देवानां प्रहतं बलम् । प्रपेलुरमरास्तत्र भयभीता दिशो दश ॥१७॥ तत इंद्रः समायातो जघानामर्षतो बलिम् । वज्रेण पातयामास दानवेंद्रं महाबलम् ॥१८॥ ततो हर्षयुता देवा जगर्जुर्नादसंयुताः । महेंद्रं कुंभकर्णश्च हृदि विव्याध मुष्टिना ॥१९॥ इंद्रः पपात भूपृष्ठे ततो विष्णुर्महाबलः । चक्रं तत्याज संक्रुद्धो रणभूमौ विचक्षणः ॥२०॥ चक्रेण क्षुरधारेण हता दैत्याः समंततः । रावणः क्रोधसंयुक्तस्तं ययौ रणकाम्यया ॥२१॥ गदया विष्णुना तत्र हतो मूर्च्छामवाप ह । कुंभकर्ण तथा विष्णुर्मूर्च्छितं प्रचकार ह ॥२२॥ ततो दुर्मदकस्तत्र महिषः शंकरस्तथा । समाजगुर्महाविष्णुं क्रोधयुक्ताः समंततः ॥२३॥ ततोऽतिव्याकुलं दृष्ट्वा केशवं शंकरः स्वयम् । त्रिशूलं गृह्य वेगेन भानुश्चैव समाययौ ॥२४॥ भानुना दुर्मदस्तत्र गदया पीडितो भृशम् । मूर्च्छितः स पपातैव वमन् रक्तं मुखाद् बहु ॥२५॥ त्रिशूलेन हतस्तत्र शंकरः शंकरेण च । पपात स धरापृष्ठे मूर्च्छितो सुरनायकः ॥२६॥ चक्रेण महिषस्तत्र विष्णुना मूर्च्छितः कृतः। ततो हाहारवं कृत्वा प्रपेलुर्दैत्यदानवाः॥२७॥ देवानां जययुक्तानां बलं दृष्ट्वा महामुनिः । शुक्रस्तान् दैत्यमुख्यांश्च जीवितुं यत्नमादधे ॥२८॥ एतस्मिन्नंतरे तत्र महाकाली समाययौ । काव्यं गृह्य ययौ देवी तं चिक्षेप गुहांतरे ॥२९॥ ततः कामासुरः शोकयुतो दैत्यः प्रतापवान् । निःश्वस्य योद्धुमायातस्तस्य पुत्रौ समूचतुः ॥३०॥ तिष्ठ तात गमिष्यावो रणं कृत्वा महारिपुम् । हनिष्यावो न संदेहः किं करिष्यति
ख. ६ अ. ३३ पान ९६
विघ्नपः ॥३१॥ एवमुक्त्वा महावीर्यौ दैत्यपुत्रौ रणस्थलम् । ययतुः शंकरं विष्णुमूचतुः क्रोधसंयुक्तौ ॥३२॥ शोषण उवाच । तिष्ठ तिष्ठ महादेव हत्वा दैत्यगणान् पुरा । अधुना त्वां हनिष्यामि पश्य मे पौरुषं परम् ॥३३॥ शिवोऽसि त्वं शिवातुल्यो गच्छारण्यं मरिष्यसि । पशुभिश्च मदग्रे तु किं करिष्यसि तद्वद ॥३४॥ श्रीशंकर उवाच । शोषण त्वं समर्थश्चाधुना हन्मि न संशयः । विकट तेजसा युक्तः पौरुषं दर्शयस्व रे ॥३५॥ श्रुत्वा बाणान् महाबाहुश्चिक्षिपामोघरूपकान् । तैस्ते देवगणाः सर्वे मूर्च्छिताः पतिता मृधे ॥३६॥ शंकरस्तं महावीर्यं योधयामास वेगतः । सोऽपि क्रोधसमायुक्तस्तं विव्याध शरैः पुनः ॥३७॥ ततस्त्रिशूलघातेन शोषणश्च पपात ह । क्षणल्लभ्य ततः संज्ञां शंभुं जग्राह कोपतः ॥३८॥ भ्रामयित्वा प्रचिक्षेप महापर्वतमस्तके । ततो हर्षयुता दैत्यास्तं जयेति शशंसिरे ॥३९॥ दुष्पूरो विष्णुमागत्य तं जगाद सुरेश्वरम् । क्रोधयुक्तो महाबाहुर्बलेन भृशगर्वितः ॥४०॥ दुष्पूर उवाच । किं विष्णो त्वं मदोत्सिक्तो मां न जानासि दुर्मते । हता- स्तवया महावीरा मदीया दैत्यनायकाः ॥४१॥ फलं गृहाण मत्तस्त्वं तेषां देवानुसारिणाम् । सहायस्त्वं हतो नूनं गमिष्यसि यमक्षयम् ॥४२॥ तस्य तद्वचनं श्रुत्वा क्रोधयुक्तश्च केशवः । जगाद तं महावीर्यं दैत्यपुत्रं सुगर्वितम् ॥४३॥ श्रीविष्णुरुवाच । किं मां वदसि पापिष्ठ हनिष्यामि न संशयः । विकट सत्त्या त्वाऽहं मा गर्वं कुरु दैत्यज ॥४४॥ ततः क्रोधसमाविष्टो दुष्पूरो गदया त्वहन् । विष्णुं तयाऽतिदुःखेन पपात धरणीतले ॥४५॥ ततो देवेंद्रमुख्याश्च दुष्पूरं शस्त्रवर्षतः । मारयामासुरव्यग्राः सोऽपि चिक्षेप सायकान् ॥४६॥ शतैः संताडयामास भानुं तेजस्विनां वरम् । इंद्रं शतैर्यमं वायुं ब्रह्माणं च व्यपातयत् ॥४७॥ ततो विष्णुश्च दुष्पूरं सावधानो जघान ह । चक्रेण मूर्च्छितं चक्रे दैत्यपं रणमूर्धनि ॥४८॥ पुनः संज्ञां समासाद्य बाणैर्विष्णुमपीडयत् । सहस्रैर्मूर्च्छितं कृत्वा जगर्ज हर्षयन् स्वकान् ॥४९॥ एवं दुष्पूरदैत्येन शोषणेन च शक्तयः । कृतं कर्म रणे तुल्यं जययुक्तप्रभावतः ॥५०॥ दैत्येंद्रैर्बलिमुख्यैश्च सावधानांस्तदंतरे । तैः स्तुतौ दैत्यराजस्य पुत्रौ तत्र विरेजतुः ॥५१॥ ततो देवगणान् हंतुं दैत्येशा बलसंयुताः । मतिं चक्रुस्ततः क्रुद्धो बभूव द्विरदाननः ॥५२॥ पाशं चिक्षेप वेगेन तथाऽङ्कुशं गजाननः । पाशः शोषणकंठं तु समागत्य स्थितोऽभवत् ॥५३॥ रुद्धश्वासः स पाशेन पपात शोषणो मृधे । हस्तौ पादौ प्रचाल्यैव ममार तत्क्षणात्ततः ॥५४॥ अंकुशः सहसाऽऽगत्य जघानोदरके ततः । दुष्पूरं स ममारैव पश्यतां दैत्यरक्षसाम् ॥५५॥ ततः पाशांकुशौ तत्र चेरतू रणमंडले । हत्वा दैत्याननेकांश्च हाहाकारवाकुलान् ॥५६॥
खं. ६ अ. ३४ | पान ९७ बलिमुख्या भयोद्विग्नास्त्यक्त्वा लज्जां च शक्तयः । प्रपेलुः शस्त्रहीनास्ते दशदिक्षु तथाऽपरे ॥५७॥ ततो विघ्नेश्वरस्यैव हस्तगौ संबभूवतुः । पाशांकुशौ गणेशस्योत्तस्थुर्द्दष्ट्वाऽमराः पुनः ॥५८॥ नीरुजो बलसंयुक्तास्तुष्टुवुर्विकटं ततः । दैत्याः शोकाकुलास्तद्वद्द्रुद्रुवुः सर्वतो दिशाम् ॥५९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते कामासुरपुत्रवधो नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । छिन्नांगा असुराः कामासुरं केचिन् महाबलम् । जग्मुर्भययुतं दृष्ट्वा वृत्तांतं तमवेदयन् ॥१॥ दैत्या ऊचुः । किं स्थितोऽसि महाराज मृता दैत्या महामृधे । तव पुत्रौ मृतौ तत्र शरणं व्रज विघ्नपम् ॥२॥ नोचेत् दैत्यकुलानां वै मूलच्छेदो भविष्यति । इति तेषां वचः श्रुत्वा कामासुरो मुमूर्च्छ ह ॥३॥ सावधानः कृतो दैत्यै रुरोद भयसंकुलः । शोकसंतप्तगात्रोऽसौ देवान् हंतुं मनो दधे ॥४॥ गृहीत्वा शस्त्रसंघातान् रथारूढो बभूव ह । शेषसेनां समादाय विकटं प्रययौ पुरः ॥५॥ रणभूमौ महावीरं प्राप्तं कामासुरं परम् । दृष्ट्वा भययुता देवा वचो विकट- मब्रुवन् ॥६॥ समागतः स्वयं कामासुरः स्वामिन् महायशाः । इदानीं गणनाथ त्वं यत् करिष्यसि तत् कुरु ॥७॥ ततः क्रोधयुतो देवान् विकटः प्रत्युवाच ह । भयहीना महेशाना युध्यध्वं मदनुग्रहात् ॥८॥ तस्य तद्वचनं श्रुत्वा शंभुविष्णुमुखाऽमराः । गर्जित्वा घनवद्धोरं तं ययुः शस्त्रपाणयः ॥९॥ समागतान् महेशाद्यान् जगाद दैत्यनायकः । क्रोधेन महता युक्तो देवान् देवनिषूदनः ॥१०॥ कामासुर उवाच । शंभो विष्णो तथाऽन्ये तु देवेशा मे वचोऽधुना । शृणुध्वं किं कृतं घोरं वैरं पुत्र- वधात्मकम् ॥११॥ मया स्नेहयुतेनैव न हताः प्राक् सुरेश्वराः । दयायुक्तेन तस्येदं फलं दत्तं सुरैः परम् ॥१२॥ अधुना क्रोधसंयुक्तो हनिष्यामि सुरेश्वरान् । विकटं देवप हत्वा मुनीन् देवेंद्रसत्तमाः ॥१३॥ एवमुक्त्वा धनुः सज्जं चकार दैत्यनायकः । जगाद धैर्यमालंब्य ततस्तं शंकरो वचः ॥१४॥ श्रीशंकर उवाच । त्वयाऽस्माकं महादैत्य गृहीतं सकलं पुरा । धर्मनाशः कृतश्चैव त्रैलोक्यं पीडितं बलात् ॥१५॥ फलं दैत्यपते तस्य त्वया प्राप्तं न संशयः । त्वां हनिष्यामि विकट
ख. ६ अ. २४ पान ९८ कृपयाऽहं खलोत्तम ॥१६॥ शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः । गदया तं जघानैव पातयामास शंकरम् ॥१७॥ शंकरं पतितं दृष्ट्वा चक्रं तत्याज केशवः । कामासुरं समासाद्य निष्फलं तद्बभूव ह ॥१८॥ ततः क्रोधसमायुक्तो धनुः कामः प्रगृह्य च । सज्जं कृत्वा महाबाणान् ववर्ष घनवद् भृशम् ॥१९॥ तैर्बाणैर्देवमुख्याश्च पतिता धरणीतले । छिन्नांगा बलहीनाश्च मुमूर्च्छुस्ते ततः परम् ॥२०॥ ततो बलिमुखाः सर्वे दानवा युद्धदुर्मदाः । देवान् क्रोधसमायुक्ता जघ्नुस्तत्र समंततः ॥२१॥ विष्णुः कामं जघानैव बाणैः परमदारुणैः । सोऽपि तं मूर्च्छितं चक्रे दैतेयो गरुडध्वजम् ॥२२॥ ततो मूर्च्छां परित्यज्य शंकरो युयुधे भृशम् । कामासुरेण दैत्येंद्रस्तं जघानासिघाततः ॥२३॥ तथापि न चचालैव शिवः संहारकारकः । ततो विष्णुः समुत्तस्थौ युयुधे दानवैः सह ॥२४॥ भानुना शरघातेन रावणस्ताडितो भृशम् । दुर्मदश्च तथा दैत्यः पेततुस्तौ धरातले ॥२५॥ विष्णुना चक्रघातेन हतो मूर्च्छामवाप ह । महिषः कुंभकर्णश्च शंकरश्च बलिस्तथा ॥२६॥ ततश्चक्रेण गोविंदो जघान दानवान् परम् । हाहा कृत्वा सुराः सर्वे पलायंत दिशो दश ॥२७॥ तत् दृष्ट्वा परमाश्चर्यं कामासुरः सुविस्मितः । क्रोधयुक्तो महेशानं धृत्वा ह्यास्फालयत्तदा ॥२८॥ विष्णुं धृत्वा प्रचिक्षेप महापर्वतमस्तके । भानुं गृह्य धरायां स पोथयामास दारुणः ॥२९॥ ततो हाहारवं कृत्वा देवाः सर्वे भयातुराः । प्रपप्लुश्छिन्नाभिन्नांगाः कामासुरनिपीडिताः ॥३०॥ दैत्येंद्रस्य बलं दृष्ट्वा हर्षितो विकटः स्वयम् । मूषकोपरि संस्थाय ययौ संग्रामकारणात् ॥३१॥ कामासुरः समालोक्य आगतं तं प्रतापवान् । क्रोधसंरक्तचक्षुः स जगाद भयसंयुतः ॥३२॥ कामासुर उवाच । मयूरेश कथं यातः संग्रामाय मया सह । मूषकोपरि संस्थायाखुतुल्यस्त्वं मतोऽसि मे ॥३३॥ मम पुत्रौ महावीर्यौ गजानन हतौ त्वया । तयोः शोकेन संतप्तो हनिष्यामि समूषकम् ॥३४॥ देवैः संप्रार्थितस्त्वं तु किं करिष्यसि मां वद । मम भ्रूभंगमात्रेण कंपते सचराचरम् ॥३५॥ उत्पत्तिस्थितिसंहारकर्तृभ्यो मे गजानन । तैर्युक्तेभ्यो भयं नैव भविष्यति कदाचन ॥३६॥ देहधारी गणाध्यक्ष किं करिष्यसि मूर्खवत् । अज्ञानसंयुतस्त्वं तु मरिष्यसि मदग्रतः ॥३७॥ कामासुरस्य वाक्यं स श्रुत्वा गणपतिः स्वयम् । जगाद हास्यवदनः परं तं गर्वसंयुतम् ॥३८॥ मूर्खोऽसि काम अत्यंतं विकटोऽहं विचारय । जन्ममृत्युविहीनो वै कथं हंसि महाखल ॥३९॥ न सृष्टिस्थितिसंहारकर्ताऽहं दैत्यपुंगव । यदि जीवितुमिच्छा ते तदा मां शरणं व्रज ॥४०॥ नोचेत्त्वां पापकर्माणं हनिष्यामि न संशयः । गर्वं त्यज महामूर्ख ब्रह्माऽहं नात्र संशयः ॥४१॥ शुक्रेण कथितं सर्वं न बुद्धं मूर्ख-
यहाँ प्रस्तुत पृष्ठ का सटीक लिप्यंतरण (Transcription) दिया गया है:
खं. ६ अ. ३५ पान ९९
भावतः । स्वरूपं मे त्वया दृष्टाधुनापि शरणं व्रज ॥४२॥ विकटस्य वचः श्रुत्वा क्रोधयुक्तो बभूव ह । कामासुरश्च तं हंतुं गदां चिक्षेप दारुणाम् ॥४३॥ सा गदा निष्फला तत्र पपात धरणीतले । अकस्माद्दैत्यराजस्तु मूर्च्छितः प्रबभूव ह ॥४४॥ प्रहरेण महाक्रूरः सावधानो बभूव ह । अशक्तः सर्वदेहे स पीडां लेभेऽतिदारुणाम् ॥४५॥ ततो मनसि संधार्य विचारमकरोत् खलः । अहो शस्त्रं विना मां स जघान विकटः कथम् ॥ ४६॥ शक्तिहीनोऽहमत्यंतं कथं युद्धं करोमि वै । शुक्रेण कथितं सत्यं ब्रह्माकारोऽयमुच्यते ॥४७॥ तथापि देवपक्षस्य धारकोऽयं कथं भवेत् । अतः संशयसंयुक्तः शरणं न व्रजाम्यहम् ॥४८॥ मरिष्यामि न संदेहस्तदेव कीर्तिवर्धनम् । शत्रूणां शरणं चैव न योग्यं भासते हृदि ॥४९॥ अतोऽहं विकटं गत्वा करोमि प्रश्नमद्भुतम् । देवपक्षविहीनश्चेद्व्रजामि शरणं च तम् ॥५०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते कामासुरविचारवर्णनं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥ ❖❖❖ ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । ततः कामासुरो दैत्यैर्जगाम द्विरदाननम् । जगाद भयसंयुक्तो वचनं हितकार- कम् ॥१॥ कामासुर उवाच । ब्रह्म त्वं विकट प्राज्ञ देव साहाय्यकृत् कथम् । सुरासुरमयं तद्वै कथमेकगुणाश्रितम् ॥२॥ विकटस्त्वं कथं वेदे कीदृशं ब्रह्म तस्य तु । जन्मादिहीनभावश्चेत् कथं देहप्रधारकः ॥३॥ वद सर्वं विशेषेण त्वां ज्ञास्यामि यथार्थतः । तदा ते शरणं नाथाऽऽगमिष्यामि न संशयः ॥४॥ विकट उवाच । माया नानाविधा दैत्य सा खेलति मया धृता । भेदान् कृत्वा तदाधारान् मयूरेशं वदंति माम् ॥५॥ मायाशब्दं मयूराख्यं वदंते तत्त्वदर्शिनः । तस्याः स्वामिनमेवं मां मयूरेशं विलोकय ॥६॥ नानाभेदयुतं ब्रह्मासद्रूपं कथ्यते बुधैः । उत्पत्तिस्थितिसंहारसाक्षिरूपप्रदर्शनात् ॥७॥ तन्नामृत- मयं ब्रह्म सदा भेदविवर्जितम् । तदेव विकटं तस्मात् सत्यं जानीहि मां परम् ॥८॥ सदाऽखंडमये दैत्य कुत्र ब्रह्मणि वर्तते । सृष्टिस्थितिलयत्वं च साक्षिरूपं वदस्व माम् ॥९॥ चतुर्भिर्वर्जितं ब्रह्म चतुर्युक्तं महामते । तत्र नैव विजानीहि विकटेऽमृतसंज्ञिते ॥१०॥ सर्वेषां जीवनं ब्रह्म तदेव विकटं मतम् । तं भजस्व विधानेन मृत्युहीनो भविष्यसि ॥११॥
पान १०० सिद्धिर्भ्रांतिकरी प्रोक्ता बुद्धिर्भ्रांतिधरा मता । तयोः स्वामी गणेशश्च विचारय हृदि स्थितः ॥१२॥ चित्तं पंचविधं दैत्य तत्र भ्रांतिश्च पंचधा । भ्रांतियुक्तं महच्चित्तं त्यक्त्वा चिंतामणिं भज ॥१३॥ सर्वेषां चित्तगोऽहं तु मत्प्राप्त्यर्थं महामते । देहधारी स्वयं भूत्वा भक्तान् शांतिं ददाम्यहम् ॥१४॥ संप्रज्ञातो नराकारो संप्रज्ञातात्मकं शिरः । तयोर्योगेऽभवं देह- धारी गजं विचारय ॥१५॥ अतोऽहं गजवक्त्रश्च दर्शनं मे सुयोगिनाम् । स्वसंवेद्यं भवेन्नूनं तेन स्वानंदवासकृत् ॥१६॥ मायाक्रीडार्थमानंदाद्रचितं विविधं पुरा । स्वस्वधर्मयुतं विश्वं चित्ते तिष्ठामि नित्यदा ॥१७॥ देवासुरमयोऽहं तु न भिन्नं मे प्रवर्तते । तथापि धर्मरक्षार्थं हन्मि सर्वान्न संशयः ॥१८॥ स्वर्गेषु स्थापिता देवा नराः पृथ्व्यां मया तथा । असुरा विवरेष्वेवं त्रिविधं त्रिषु संस्थितम् ॥१९॥ यदा लोभयुता देवाः पातालस्थान् महासुरान् । हंतुं विष्णुमुखाः क्रोधाद् बभूवुश्चोत्सुका बलात् ॥२०॥ तदा क्रोधयुतोऽहं तु दैत्यानां हृदि संस्थितः । तपःसामर्थ्यसंयुक्तान् करोमि दानवान् परान् ॥२१॥ विघ्नकर्ताऽमराणां वै दैत्यानां विघ्नहारकः । भवामि तेन दैत्येंद्रा जययुक्ताः सदाऽभवन् ॥२२॥ असुरैर्हन्य- मानाश्च देवेंद्रा वनवासिनः । बभूवुः काम जानीहि संशयो न मदिच्छया ॥२३॥ यदा दैत्या महादुष्टा मदयुक्ता बभूविरे । कर्मनाशप्रभावेण देवानां मूलछेदकाः ॥२४॥ तदा देवाः समर्थांश्च प्रजघ्नुर्दैत्यनायकान् । दैत्यानां छिद्रकं सर्वं दर्शयामि हृदि स्थितः ॥२५॥ ब्रह्मादीनामवध्याश्चेद्यदा दैत्या भवंति च । तदाऽहं देहधारी तान् भूत्वा हन्मि विशेषतः ॥२६॥ यदा स्वधर्मसंयुक्ता देवा दैत्या बभूविरे । तदा तेषां हृदि स्थित्वा तिष्ठाम्यसुर सर्वदा ॥२७॥ त्वया देवगणाः सर्वे पीडिता धर्मलोपक । अतस्त्वां हंतुमायातो देवपक्षधरो ह्यहम् ॥२८॥ हनिष्यामि महादुष्ट यदि मामवमन्यसे । जीवितुं त्वं सुखी देव वैरं त्यक्त्वा भवेच्छसि ॥२९॥ एवमुक्त्वा महादैत्यं विकटो विरराम ह । कामासुरः प्रसन्नात्मा बभूवे भावि- गौरवात् ॥३०॥ विचारमकरोचित्ते विकटोऽयं न संशयः । सुरासुरमयः पूर्णो व्रजामि शरणं ततः ॥३१॥ कामः करपुटं कृत्वा त्यक्त्वा शस्त्रादिकं पुरः । विकटं प्रणनामाथ हर्षयुक्तस्वभावतः ॥३२॥ प्रणम्य पूजयामास पुनर्यत्नेन विघ्नपम् । तुष्टाव भक्तिसंयुक्तोऽसुरः कामो गजाननम् ॥३३॥ कामासुर उवाच । नमस्ते विकटायैव गणेशाय परात्मने । सर्वपूज्याय सर्वेश देवासुरमयाय च ॥३४॥ अनंतमाययायुक्त ब्रह्मभूतस्वरूपिणे । गजाननाय हेरंब देवेशाय नमो नमः ॥३५॥ शूर्प- कर्णाय विघ्नानां चालकाय नमो नमः । भक्तानां विघ्नहर्त्रे ते ह्यभक्तानां विनाशिने ॥३६॥ स्वानंदवासिने तुभ्यं योगाकार-
ख. ६ अ. ३५ पान १०१ स्वरूपिणे । योगिभ्यः शांतिदात्रे ते योगेशाय नमो नमः ॥३७॥ अनामयाय सर्वादिपूज्याय ज्येष्ठरूपिणे । ज्येष्ठेभ्यः पददात्रे ते ज्येष्ठराजाय वै नमः ॥३८॥ सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे । सिद्धिबुद्धिस्वरूपाय गणानां पतये नमः ॥३९॥ त्रिनेत्राय नमस्तुभ्यं चतुर्बाहुधराय च । लंबोदराय ब्रह्मेश ब्रह्मणां पतये नमः ॥४०॥ देवानां पालकायैव दैत्येभ्यो वरदायिने । सर्वेषां समभावाय ढुंढिराजाय ते नमः ॥४१॥ विष्णपुत्राय शंभोश्च शक्तेः पुत्राय काश्यप । वरेण्यसूनवे सर्वमात्रे पित्रे नमो नमः ॥४२॥ किं स्तौमि त्वां गणाधीश यत्र योगींद्रमुख्यकाः । वेदादयो विशेषेण शांतिं प्राप्ताः स्वभा- वतः ॥४३॥ मायासखं विशेषेण भ्रांतिदं सर्वजंतवे । त्यक्त्वा तल्लभ्यसे नाथ भक्त्या विकटया प्रभो ॥४४॥ अशांतं मायया युक्तं चित्तं भ्रांतियुतं सदा । विकटे शांतिमापन्नमतस्त्वं विकटो मतः ॥४५॥ एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमो- ऽभवत् । कामासुरो ननर्ताऽसौ रुद्धकंठो महायशाः ॥४६॥ भक्तियुक्तं मनस्तस्य दृष्ट्वा तं विकटोऽवदत् । वरं वरय काम त्वं दास्यामि मनसीप्सितम् ॥४७॥ त्वां हंतुं क्रोधयुक्तोऽहं समागतो न संशयः । अधुना न हनिष्यामि शरणागतमाद- रात् ॥४८॥ त्वया कृतमिदं स्तोत्रं सर्वकामप्रदं भवेत् । शृण्वते पठते चैवांते स्वानंदप्रदायकम् ॥४९॥ एवं गणपतेर्वाक्यं श्रुत्वा कामासुरश्च तम् । प्रणम्य हर्षसंयुक्तो जगाद द्विरदाननम् ॥५०॥ कामासुर उवाच । प्रसन्नोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । देहि स्थानादिकं देव भजामि तत्र संस्थितः ॥५१॥ गाणपत्यप्रियत्वं मे देहि नित्यं गजानन । नान्यद्याचे परं किंचिन्नश्वरं सर्वमंजसा ॥५२॥ अहो योगींद्रमुख्यानां दुर्लभं ते पदं प्रभो । साक्षाद् दृष्टोऽसि विघ्नेश तेन ज्ञातं मयाऽधुना ॥५३॥ तस्य तद्वचनं श्रुत्वा विकटो भक्तवत्सलः । उवाच तं महाभक्तं कामं गणेशकामुकम् ॥५४॥ विकट उवाच । मदीया भक्तिरुग्रा ते भविष्यति महासुर । गाणपत्यप्रियत्वं तु सदा योगपरायणः ॥५५॥ तिष्ठ स्थाने स्वके दैत्य यथा पूर्वं तथा भव । मदीयस्मरणं नैव पूजनं यत्र कर्मणि ॥५६॥ आदौ तत्रासुरेणैव फलं भुंक्ष्व सुकर्मजम् । मदीयभक्ति- संयुक्तान् कुरु मत् कामसंयुतान् ॥५७॥ तथेति गणपं नत्वा सुरः कामो महायशाः । स्वस्थानं स जगामैव गणेशे भक्तिकामुकः ॥५८॥ तं शांतं दैत्यमुख्याश्च दृष्ट्वा महिषकादयः । स्वस्वस्थानं ययुः सर्वे त्यक्त्वा कामासुरं किल ॥५९॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते कामासुरशांतिवर्णनं नाम पंचत्रिंशत्तमोऽध्यायः ॥
खं. ६ अ. ३६ पान १०२ ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कामासुरं महाशांतियुतं दृष्ट्वा सुरर्षयः । विस्मिता विकटं पूज्य तुष्टुवुः करसंपुटाः ॥१॥ देवर्षय ऊचुः । अजं पुराणं परमव्ययं च सदात्मरूपं सकलावभासम् । असद्विहीनं विविधांतरस्थं भजामहे तं विकटं परेशम् ॥२॥ अनादिमध्यांतविवर्जितं यत् सुजीवनं जीवनधर्मधारम् । सदामृतं ब्रह्म विकारहीनं भजामहे तं विकटं परेशम् ॥३॥ त्वयैव माया रचिता खबिंबात् स्वयं दधौ जीवनबिंबवीर्यम् । बभूव युक्ता रचने समर्था भजामहे तं विकटं परेशम् ॥४॥ तथा ह्यसद्रूपमयं च सांख्यं कृतं तथा ब्रह्म सुबोधरूपम् । अनंतभेदाश्रितमप्रमेयं भजामहे तं विकटं परेशम् ॥५॥ ततः स्वबोधेन कृतं च सोऽहं पवित्रमेकाश्रितमादिरूपम् । जगद्दूरं बिंदुमयं तथा वै भजामहे तं विकटं परेशम् ॥६॥ जगच्चतुष्पादमयं च ताभ्यां व्यष्ट्या समष्ट्या च युतं हि सृष्टम् । अजेषु संजीवनदं गणेशं भजामहे तं विकटं परेशम् ॥७॥ ततं त्वया भेदविहीनभावात् प्रकाशरूपेण विभासि नाथ । अनंतलीलाकरमप्रमेयं भजामहे तं विकटं परेशम् ॥८॥ अजैर्विहीनोऽसि गजानन त्वं तथाऽपि सर्वत्र विभासि भक्त्या । अतो गणेशं विकटं वदंति भजामहे तं विकटं परेशम् ॥९॥ हरिस্বরূপेण विनायक त्वं सुरक्षसीदं रजसा विधाता । तथा तमोधुक्ततया हरोऽसि भजामहे तं विकटं परेशम् ॥१०॥ प्रसृष्टकर्माणि तदंतरस्थोर्यमाऽसि संजीवनरूपकेण । क्रियास्वरूपेण तु शक्तिसंस्थो भजामहे तं विकटं परेशम् ॥११॥ सदात्मरूपेण च ढुंढिराज स्थितोऽसि विश्वंभर विश्वमूर्ते । न ते कदाचिज्जगति प्रवेशो भजामहे तं विकटं परेशम् ॥१२॥ सदादिपूज्यं सकलैः सुवंद्यं गणेशसिद्धिप्रदमासमंतात् । सुचित्तभासं गजकर्णधारं भजामहे तं विकटं परेशम् ॥१३॥ स्वानंदनाम्नि नगरे सुसंस्थं त्रिनेत्रयुक्तं मूषकोपरिस्थम् । महोदरं चैकरदं विभ्रूपं भजामहे तं विकटं परेशम् ॥१४॥ स्वभक्तपक्षेषु विराजमानं विघ्नैर्विहीनं मनसेप्सितं च । अभक्तसर्वाश्रितनाशकारं भजामहे तं विकटं परेशम् ॥१५॥ नियंतुरूपं तव हस्तसंस्थं जगत्सु नानाविधब्रह्मसु प्रभो । महांकुशं ह्यंकुशधारमेकं भजामहे तं विकटं परेशम् ॥१६॥ अमात्मकं बंधनमेकमेव तदेव पाशं प्रभुहस्तसंस्थम् । स्वभक्तिकृद्बंधनहानिकारं भजामहे तं विकटं परेशम् ॥१७॥ त्वदाश्रितानां न भयं कदाचित् सदाऽभयं ते करसंस्थितं च । प्रत्यज्य दुष्टा भयसंयुतास्ते भजामहे तं विकटं परेशम् ॥१८॥ निजामृतं विप्रपते यदन्नं जगत्सु संस्थं प्रभुहस्तगं तम् । सुमोदकं मोदकरं जनानां भजामहे तं विकटं परेशम् ॥१९॥ असन्मयी सर्वगता विभिन्ना परं सदाऽस्याश्च सुशांतिसंस्थम् । अतो वदंते विकटं जनास्त्वां भजामहे तं विकटं
खं. ६ अ. ३६ पान १०३ परेशम् ॥२०॥ वयं स्तुवीमोऽल्पसुबोधगाः किं प्रभुं न शक्यं निगमादिभिश्च । शुकादिभिस्तोतुमपारगं यं भजामहे तं विकटं परेशम् ॥२१॥ तथापि ते दर्शनजेन नाथ बोधेन ब्रह्मेश सुसंस्तुतोऽसि । अतः प्रतुष्टो भव दीनपाल भजामहे तं विकटं परेशम् ॥२२॥ आदिशक्तिरुवाच । एवं स्तुत्वा महादेव्यो विकटं त्वमर्षयः । प्रणेमुर्दंडवत् सर्वे ततश्च ननृतुः पुरः ॥२३॥ स तानुवाच सर्वेशो विकटो भक्तियंत्रितः । देवर्षीन् भक्तिसंयुक्तान् भक्तवात्सल्यवान् प्रभुः ॥२४॥ विकट उवाच । वरान् ब्रूत महाभागा देवा मुनिसमन्विताः । दास्यामि भक्तियुक्तेभ्यो भृशं स्तोत्रेण तोषितः ॥२५॥ इदं स्तोत्रं कृतं सर्वैर्मदीयं मत्पदप्रदम् । भविष्यति जनायैव पठते शृण्वते परम् ॥२६॥ भुक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादि- वर्धनम् । धनधान्यादिकं कामप्रदं स्तोत्रस्य पाठतः ॥२७॥ षट्कर्मसाधनकरं परकृत्यविनाशनम् । नानारोगहरं पूर्णं भविष्यति सुसेविनाम् ॥२८॥ कारागृहगतानां च बंधमोक्षकरं भवेत् । सहस्रावर्तनेनैव सदा सौभाग्यवर्धनम् ॥२९॥ नानापापसमूहानां दाहकं पठनात्तथा । सर्वसिद्धिकरं चैव भविष्यति न संशयः ॥३०॥ एकविंशतिवारं यः पठिष्यति निरंतरम् । स सर्वं साधयेत् सद्यो दिनानामेकविंशतिम् ॥३१॥ एवं विकटवाक्यं ते श्रुत्वा देवर्षिसत्तमाः । जगुस्तं प्रणिपत्यैव भक्तियुक्ताश्च शक्तयः ॥३२॥ देवर्षय ऊचुः । कामासुरं महावीर्यं शांत्या युक्तं गजानन । दृष्ट्वा सर्वे च संतुष्टा भवामो नात्र संशयः ॥३३॥ अधुना कर्मसंयुक्ता भविष्यंति द्विजादयः । देवाः स्वपदसंस्थास्तु स्वधर्मयुता जनाः ॥३४॥ जातं वरस्य कृत्यं यदधुना किं वृणीमहे । तव भक्तिं स्थिरां देहि यथा कामभयं न हि ॥३५॥ तथेति तानुवाचैव विकटों- ऽतर्दधे ततः । देवर्षयोऽभवंस्तत्र स्थिताः खेदसमन्विताः ॥३६॥ ततो मुनिगणैः सार्धं विकटं देवसत्तमाः । स्थापयामासु- रानंददायकं भक्तिकारिणे ॥३७॥ हिमाचलस्य प्रांते तत् स्थानं वायुदिशि स्थितम् । विकटस्य महादेव्यः सर्वसिद्धि- प्रदायकम् ॥३८॥ मूर्ति देवर्षयः पूज्य विकटस्य महात्मनः । गत्वा स्वखपदेष्वेते पुनः क्षेत्रं समाययुः ॥३९॥ अंशेन स्वाधिकारेषु स्थिता देवर्षयो मताः । विकटं पूर्णभावेनाभजंस्ते क्षेत्रवासिनः ॥४०॥ चतुरस्रं महत् क्षेत्रं दशयोजन- विस्तृतम् । तत्र मध्ये स्वयं साक्षाद्विकटः संस्थितोऽभवत् ॥४१॥ चतुर्दिक्षु चतुर्देवाः शंभुमुख्याः स्थितास्ततः । अन्ये देवा वामभागे दक्षिणे मुनयस्तथा ॥४२॥ तीर्थानि क्षेत्रयुक्तानि पश्चिमे संस्थितानि च । पुरो भक्तजनास्तत्र सेवार्थं संस्थिता बभुः ॥४३॥ मूषको विकटस्यैव समीपे स्थापितोऽभवत् । वामांगे संस्थिता सिद्धिर्बुद्धिर्वै दक्षिणांगके ॥४४॥ ब्रह्मप्रिया-
दिकास्तत्र गणाः सर्वत्र संस्थिताः । शस्त्रहस्ता भजंते स्म विकटं विकटप्रियाः ॥४५॥ तत्र विकटतीर्थं तु विख्यातमभवत् परम् । जंतुः स्नानेन सद्यश्च स्वेप्सितं लभते परम् ॥४६॥ अंते मुक्तिमवाप्नोति स्वानंदे नात्र संशयः । विकटस्य प्रियं पूर्णं तीर्थं त्रैलोक्यविश्रुतम् ॥४७॥ अन्यानि तीर्थमुख्यानि देवर्षीणां समंततः । स्थितानि विकटक्षेत्रे स्नानेन सुखदानि तु ॥४८॥ अन्यदेवस्य ये भक्ता मृताः क्षेत्रे भवंति चेत् । विकटस्य च ते तस्य लोकं गच्छंति निश्चितम् ॥४९॥ तत्र भोगान् प्रभुक्त्वा ते लये स्वानंदगामिनः । विकटदर्शनेनैव ब्रह्मभूता बभूविरे ॥५०॥ क्षेत्रस्य यात्रामात्रेणेप्सितं सर्वं लभेन्नरः । दर्शनेन तथा तस्य विकटस्य न संशयः ॥५१॥ विकटस्य च ये भक्ता यत्र कुत्र मृता यदि । ब्रह्मभूता न संदेहो बभूवुः शास्त्रसंमतम् ॥५२॥ भाद्रशुक्लचतुर्थ्यां तु सा मूर्तिः स्थापिताऽभवत् । विकटस्य ततो मुख्या सा बभूव तिथिः परा ॥५३॥ भाद्रशुक्लचतुर्थ्यां तु महोत्सवः प्रकीर्तितः । वार्षिकस्तत्र कुर्वंति देवाद्या भक्तिसंयुताः ॥५४॥ मध्याह्ने पूजनं प्रोक्तं सर्वसिद्धिप्रदायकम् । स्वल्पसिद्धिदमाद्यं ते ज्ञातव्यं शास्त्रमार्गतः ॥५५॥ धन्यास्ते पुरुषा लोके पश्यंति विकटं परम् । कृतकृत्या महादेव्यो मता वेदेषु नित्यदा ॥५६॥ तत्र देवर्षयो नानाऽन्ये क्षेत्रे वासकारकाः । भजंते विकटं नित्यं हर्षयुक्ताः स्वभावतः ॥५७॥ विकटस्य चरित्राणि कथयंति परस्परम् । साश्रुनेत्राः स रोमांचा भवंते भक्तिभावतः ॥५८॥ नरदेहं समासाद्य न दृष्टो विकटो जनैः । निष्फलं जीवितं तेषां पशुतुल्यस्वभाविनाम् ॥५९॥ एतत् संक्षेपतः प्रोक्तं माहात्म्यं क्षेत्रसंभवम् । विस्तरेणायुतैर्वर्षैर्न समर्थो भवाम्यहम् ॥६०॥ अन्ये देवमुखा देव्यो योगिनो वेदमुख्यकाः । न समर्था वर्णयितुं भवंते वर्षकोटिभिः ॥६१॥ एवं नानाऽवतारान् स धृत्वा धर्मधरः प्रभुः । विकटः कलया देव्यो रक्षति स्म चराचरम् ॥६२॥ एतद्विकटमाहात्म्यं यः शृणोति नरोत्तमः । पठेद्वा स लभेत् सर्वमंते ब्रह्ममयो भवेत् ॥६३॥ न कामस्य भयं तस्य भवेद्वैव्यः कदाचन । कामहीनः स्वभावेन लभेत् कामान् विशेषतः ॥६४॥ एवं कामं निगृह्यैव स्ववशं तं चकार ह । विकटस्तत् समाख्यातं किं भूयः श्रोतुमिच्छथ ॥६५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते विकटावतारचरितसमाप्तिवर्णनं नाम षट्त्रिंशत्तमोऽध्यायः ॥
[header] खं. ६ अ. ३७ | पान १०५ [/header]
॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । विकटस्य च माहात्म्यं श्रुत्वा शक्ते वयं परम् । हर्षं प्राप्ता विशेषेण योगामृतमयं किल ॥१॥ तथापि देवि तृप्तिं न प्रयामो रसवर्धिनीम् । कथां श्रुत्वा पुनस्तां च वद विघ्नेश्वरीं पराम् ॥२॥ विकटेन जगन्मातरवतारा धृताः परे । तेषां संक्षेपतो ब्रूहि चरित्रमवतारजम् ॥३॥ आदिशक्तिरुवाच । गंडकी नगरीपालश्चक्रपाणि- र्नृपोऽभवत् । उग्रा पत्नी च तस्यासीत् पातिव्रत्यगुणान्विता ॥४॥ धर्मशीलो वदान्यश्च राजा नीतिपरायणः । देवविप्रा- तिथिप्रेप्सुः पंचयज्ञकरोऽभवत् ॥५॥ जित्वा भूमंडलं सर्वं चकार वशवर्तिनम् । संपत्तिं बुभुजे सोऽपि देवमान्यां विशेषतः ॥६॥ अपत्यं जायते यद्यत्तत्तन्नश्यति तत्क्षणात् । वांध्यदोषसमायुक्तौ दंपती संबभूवतुः ॥७॥ तदर्थं व्रतदानादींश्चकार विधिसंयुतः । तथापि संततिं राजा न प्राप परमेश्वरात् ॥८॥ ततो राज्यममात्येषु निक्षिप्याऽभवदुद्यतः । वनं गंतुं महादेव्यः सस्त्रीकः शोकसंयुतः ॥९॥ एतस्मिन्नंतरे तत्र शौनको मुनिसत्तमः । यहच्छया ययौ योगी तं नृपं विचरन् परः ॥१०॥ भानोस्तेनोपदिष्टं स व्रतं चक्रे नराधिपः । तुष्टस्तेन रविः स्वप्ने राज्ञ्यां गर्भ समादधे ॥११॥ सूर्यतेजोयुतं गर्भं न क्षमा संबभूव ह । धर्तुं दाहयुतोग्रा सा समुद्रे तं ततोऽत्यजत् ॥१२॥ तत्र पुत्रो बभूवापि त्रिनेत्रश्चक्रधारकः । जलं संशोषयामास समुद्रस्य विशेषतः ॥१३॥ ततो ब्राह्मणरूपेण चक्रपाणि समाययौ । समुद्रः कथयामास वृत्तांतं पुत्रसंभवम् ॥१४॥ दत्वा पुत्रं समुद्रस्त्वंतर्दधे हर्षितोऽभवत् । नृपः सर्वजनैः सार्धं जातकर्मऽकरोद् द्विजैः ॥१५॥ सिंधुर्नाम्ना द्विजैः पुत्रः कृतस्तस्य विशेषतः । अपारवीर्ययुक्तत्वात् सोऽपि बलयुतोऽभवत् ॥१६॥ आज्ञां गृह्य वनायैव तपोऽर्थं मार्गमध्यगः । काण्वः सौरं ददौ मंत्रं विधियुक्तं तु सिंधवे ॥१७॥ एकपादमधिष्ठाय तताप तप उत्तमम् । निराहारः स्वभावेन तोषयामास काश्यपम् ॥१८॥ द्विसहस्रे तु वर्षेषु सविता वरदोऽभवत् । त्रैलोक्यविभवं तस्मै ददावमृतपानकम् ॥१९॥ त्रिगुणैर्हीनभावेन तिष्ठति ब्रह्मशास्त्रगम् । देहं धृत्वाऽमृतं सोऽपि निष्काश्य त्वां हनिष्यति ॥२०॥ एवमुक्त्वा स्वभक्तं तु सवितांतर्दधे तदा । हर्षयुक्तः स्वयं सिंधुः स्वगृहं प्रत्यपद्यत ॥२१॥ पितृभ्यां मानितोऽत्यंतं शुशुभे तेजसा युतः । तस्मै राज्यं ददौ राजा सस्त्रीको वनगोऽभवत् ॥२२॥ ततः सिंधुर्धरां जिग्ये सप्तद्वीपवतीं पराम् । वरदानबलेनैवं ज्ञात्वा दैत्यास्तमाययुः ॥२३॥ शुंभोतिशुंभभ्रातृत्तौ च कमलः शंख एव च । कोलासुरादयश्चान्ये तदाज्ञागा बभूविरे ॥२४॥ तैर्युतो देवराजेंद्रान् जिग्ये शंभुमुखान् किल । पपाल शंकरः सद्यस्त्यक्त्वा कैलासमात्मनः ॥२५॥ विष्णुं सूर्य विधींद्रादीन्
खं. ६ अ. ३७ पान १०६ संगृह्य स्वपुरं ययौ । कारागारे स चिक्षेप देवेन्द्रान् बलसंयुतः ॥२६॥ एवं जित्वा त्रिलोकान् स राज्यं चक्रे महासुरः । दैत्येन्द्रान् स्थापयामास देवस्थानेषु सर्वतः ॥२७॥ ततो बहुगते काले क्रोधयुक्तो महासुरः । देवतीर्थादिकान् भङ्क्त्वा दैत्यः कर्म त्वलोपयत् ॥२८॥ स्वकीयां प्रतिमां कृत्वा स्थापयद्भूमिमंडले । देशे देशे पुरे ग्रामे पूजयत्तां स मानवैः ॥२९॥ ततो हाहाकृतं सर्वैर्वर्णाश्रमयुतैर्जनैः । स्वाहा स्वधादिकं कर्म नष्टं सर्वत्र शक्तयः ॥३०॥ अधुना तद्वधोपायं वदामि शृणुत प्रियाः । शंकरो गणसंयुक्तस्त्रिसंध्याक्षेत्रमागमत् ॥३१॥ गौतमाद्यैर्युतस्तत्र वासं सस्त्रीक आकरोत् । ध्यानमास्थाय विघ्नेशमभजद्भक्तिसंयुतः ॥३२॥ एकदा संशयाविष्टा पार्वती तं प्रणम्य च । जगाद शंकरं देव्यो विनयेन समन्विता ॥३३॥ पार्वत्युवाच । ईशस्त्वं सर्वदेवानां तेनेशो विद्यते न च । तेनेशो वेदवादेषु कथितोऽसि महेश्वर ॥३४॥ तथापि ध्यानसंयुक्तो भजसे कं विशेषतः । वद मां पादपद्मस्य दासीं संशयसंयुताम् ॥३५॥ शिव उवाच । अनीशाश्चैव देवेशि ईशा येन विनिर्मिताः । तं गणेशं भजाम्येव भक्त्या ब्रह्मपतिं सदा ॥३६॥ अनीशश्च गकारो णकार ईशमयः स्मृतः । तयोः स्वामी गणेशानः पश्य वेदे शुचिस्मिते ॥३७॥ तस्य तद्वचनं श्रुत्वा पार्वती विनयान्विता । जगाद तस्य प्राप्त्यर्थं वचनं शंकरं प्रति ॥३८॥ पार्वत्युवाच । एतादृशं गणेशं चेन्न जानामि कदाचन । प्राप्त्यर्थं वद मुख्यं मे चोपायं साधयाम्यहम् ॥३९॥ शिव उवाच । एकाक्षरं गृहाण त्वं सविधिं च तपः कुरु । ध्यात्वा गजाननं देवं ततः सिद्धिमवाप्स्यसि ॥४०॥ एवमुक्त्वा ददौ तस्यै मंत्रं गणपतेः परम् । तं प्रणम्य ययौ देवी लेखनाद्रिं मनोहरम् ॥४१॥ अवायुभक्षणेनैव तपसा ध्यानशालिना । तया संराधितो ढुंढिर्वरदश्च बभूव ह ॥४२॥ ययौ वर्षशते देवीं वरं याचेति सोऽब्रवीत् । तया संयाचितो देव्या पुत्रो मे भव विघ्नप ॥४३॥ तत्र ते सेवनं नाथ करिष्यामि विशेषतः । माता पिता भविष्यावो बंधहीनौ सुते त्वयि ॥४४॥ तथेति पार्वतीं दत्वा वरं सोऽन्तर्हितोऽभवत् । देवी विघ्नेश्वरं तत्र स्थापयामास विप्रपैः ॥४५॥ पूजयित्वा गणेशानं ययौ सा शंकरं ततः । वृत्तांतं कथयामास सोऽपि संहर्षितोऽभवत् ॥४६॥ ततः सा तन्मना जाता सस्मार वरदं प्रभुम् । सर्वत्र गणराजं तं ददर्श भाग्यगौरवात् ॥४७॥ ततो भाद्रपदे मासि कृत्वा मूर्तिं पुपूज ह । शंकरेण युता देवी मध्याह्ने शुक्लपक्षगे ॥४८॥ चतुर्थ्यां सोमवारे तु स्वातीनक्षत्रसंयुते । सचेतनाऽभवन् मूर्तिर्विकटस्य वरप्रदा ॥४९॥ तेजसा धर्षितौ देवौ किंचित् द्रष्टुं न शेकतुः । स्तुतस्ताभ्यां ततः सौम्यतेजोयुक्तो बभूव ह ॥५०॥ शिवो ददर्श तं तत्र षड्भुजं
खं. ६ अ. ३८ पान १०७ शशिसन्निभम् । जातकर्मादिकं सर्वं चक्रतुर्ब्राह्मणैः परौ ॥२१॥ एकादशदिने नाम गुणेश इति चक्रिरे । द्विजाः शिवौ हर्षयुक्तौ पूजयामासतुर्द्विजान् ॥५२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे विकटचरिते गुणेशावतारवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । ततः सिंधुचरास्तत्र गुप्तरूपेण संस्थिताः । ज्ञात्वा संकथयामासुर्वृत्तांतं सिंधवे परम् ॥१॥ एतस्मिन्नंतरे वाणी बभूवे तत्र शक्तयः । अशरीरा च तां सिंधुं शुश्राव भयदायिनीम् ॥२॥ अयं वै दैत्यनाथाशु त्वां हनिष्यति वेगतः । स्वस्वधर्मयुतं सर्वं करिष्यति चराचरम् ॥३॥ श्रुत्वा संमूर्च्छितो दैत्यः सावधानो बभूव ह । मुहूर्तेन महायत्नैस्ततः शुशोच मंदधीः ॥४॥ तं हंतुं प्रेषयामास दैत्येंद्रान् दैत्यनायकः । गुप्तरूपेण ते सर्वे त्रिसंध्या- क्षेत्रमाययुः ॥५॥ नानामायां समाश्रित्य तं हंतुं तान् समागतान् । पशुपक्ष्यादिरूपस्थान् जघान शिवनंदनः ॥६॥ ततः सा पार्वती देवी शुशोच बहुधा सती । अह्ना संख्यातिगा दैत्या हताः पुत्रेण नित्यदा ॥७॥ तथापि दैत्या राजानः किं करिष्यंति मे सुतम् । हनिष्यंति गुणाधीशं न जानामि विचारतः ॥८॥ साक्षाद्ब्रह्मपतिः पूर्णः पुत्रो मे प्रबभूव ह । भाग्यहीनप्रभावेण गमिष्यति मिषेण किम् ॥९॥ ततो मायां गुणेशानश्चकार मोहिनीं पराम् । तया मोहयुता देवी पुत्रं मेने गणेश्वरम् ॥१०॥ एतस्मिन्नंतरे योगी मरीचिर्गणपं भजन् । प्रार्थयामास देवेशं दर्शनं देहि विघ्नप ॥११॥ ततः सोऽपि महायोगी शुश्राव खवचोऽमलम् । शिवपुत्रत्वमापन्नो गणेशस्तं विलोकय ॥१२॥ श्रुत्वा समागतं हर्षात् पार्वती तं ददर्श ह । प्रणम्यापूज्य संभोज्य प्रार्थयामास तं मुनिम् ॥१३॥ त्वं साक्षाद्ब्रह्मभूतश्च न गच्छसि ममाश्रमम् । त्यक्त्वा तीर्थादिकं विप्र गणेशभजने रतः ॥१४॥ यथा विघ्नहरो देवस्तथा त्वमपि निश्चितम् । अतस्त्वां प्रार्थये स्वामिन् पुत्रं मे रक्ष रक्षया ॥१५॥ दैत्यादीनां समूहश्च सर्वदा कालधिक् कृताम् । समायाति गणेशानं हंतुं भवंति ते मृताः ॥१६॥ अस्माकं कुलदेवस्तु विघ्नेशो नात्र संशयः । स रक्षति मुने पुत्रं मम नो चेन् मृतो भवेत् ॥१७॥ शंकरेण गणेशानः सेवितोऽभून्
ख. ६ अ. ३८ पान १०८ महामुने। तस्य पुण्यं सुतं मे तु रक्षत्यत्र न संशयः ॥१८॥ पार्वतीवचनं श्रुत्वा विस्मितोऽभून् महामुनिः। साक्षाच्छक्ति- रियं भ्रांता सुतं जानाति विघ्नरपम् ॥१९॥ गणेशकवचं तस्मै ददौ शंभुसुताय सः। तं प्रणम्य च संस्तूय ययौ स्वस्याश्रमं मुनिः ॥२०॥ तथापि दैत्यराजान् स तं हंतुं नित्यमागतान्। नानावेषधरान् वीक्ष्य जघ्ने वै बालखेलतः ॥२१॥ एकदा पार्वती प्रातः समुत्थाय शिवे रता। मूर्तिं लिंगमयीं कृत्वा वामहस्ते दधार ताम् ॥२२॥ आवाह्य शंकरं तस्यां पूजने संरताऽभवत् । एतस्मिन्नंतरे तत्र गुणेशोऽभवदुत्थितः ॥२३॥ स्तन्यं देहि जगादाऽसौ पार्वतीं सा तमब्रवीत्। पूजयित्वा महेशानं दास्यामि स्तनपानकम् ॥२४॥ ततस्तां स जगादैव किमर्थं पूजने रता। मां त्यक्त्वा तेऽधिकं देवि ददते शंकरः कुतः ॥२५॥ स्तन्यं देहि च मे मातस्तत्रानंतशिवादयः । संतुष्टाः प्रभविष्यंति ब्रह्माणि शैलनंदिनि ॥२६॥ तथापि हास्यसंयुक्ता न ददौ स्तनपानकम्। ततो रोषसमाविष्टो मयूरेशो बभूव ह ॥२७॥ तलाघातेन देव्याः स हस्तस्थं शिवलिंगकम् । पातयामास भूम्यां तद्भग्नं बभूव शक्तयः ॥२८॥ ततोऽतिदुःखसंयुक्ता पार्वती विकटं पुनः। जघान तलघातेन महा- क्रोधवती परम् ॥२९॥ ततो गणेश्वरः क्रुद्धः समागत्य स्वमातरम्। ददंशांगुलिकां तस्या रक्तं सुस्राव चोल्बणम् ॥३०॥ हाहाकाररवां तां स त्यक्त्वा पपाल भीतितः। भीतीनां भयदाताऽपि बालक्रीडां प्रदर्शयन् ॥३१॥ दृष्ट्वा रुरोदातिदुःख- संयुक्ता शंकरप्रिया । प्राणप्रतिष्ठया युक्तं भग्नं लिंगं शिवस्य च ॥३२॥ शिवहत्यासमं पापं मया प्राप्तं न संशयः। अन्यत्पतिवधे जातं तदेवाप्यधुना कृतम् ॥३३॥ अयं पुत्रो गुणेशो मे नरकस्य प्रदो मतः। वंध्याहं चेत्तदा दैवं धन्यं मे नात्र संशयः ॥३४॥ अधुना दुःखिताऽहं वै स्मृत्वा हृदि गजाननम् । देहत्यागं करिष्यामि विघ्नराज नमोऽस्तु ते ॥३५॥ गणेशस्मरणेनैव बुद्धिभेदो बभूव ह। ददर्श गणराजं तं समीपे पुत्ररूपिणम् ॥३६॥ यष्टिहस्ता ययौ देवी हंतुं पुत्रं परात्परम्। पपाल भयसंयुक्तो गणेशस्तां विलोक्य च ॥३७॥ सा जग्राह स्वपुत्रं तं धावयित्वा शिवप्रिया। मायां चकार विघ्नेशः शिवरूपो बभूव ह ॥३८॥ मोहिना शंकरं देवी मायया दृश्य दुःखिता । किमर्थं यष्टिहस्ताऽहं महेशं हंतुमुद्यता ॥३९॥ त्यक्त्वा तं दुःखिताऽत्यंतं देहत्यागे समुद्यता। बभूव गणराजोऽपि पुनः पुत्रस्वरूपधृक् ॥४०॥ पलं तं भयसंयुक्तं देवी हंतुं समुद्यता। ययौ तमनु वै सोऽपि पपाल वनगोऽभवत् ॥४१॥ एतस्मिन्नंतरे तत्र दैत्यः कर्दमसंज्ञितः। शैवो द्विजस्वरूपेण बालं जगाद चागतः ॥४२॥ किमर्थं पुत्र पलसि रक्षामि त्वां न संशयः। यत्र माता न जानाति तत्र तस्मात् स्थिरो भव
खं. ६ अ. ३८ पान १०९
॥४३॥ तथेति बालभावेन गुणेशेन कृतं वचः । बालं जिगेल गृह्यासौ हर्षयुक्तो बभूव ह ॥४४॥ अहो सिंधोर्महाशत्रुर्मया संभक्षितोऽभवत् । सर्वेषां दैत्यमुख्यानां भयमद्य प्रणाशितम् ॥४५॥ एतस्मिन्नंतरे तत्र जगदंबा तमाययौ । शैवं द्विजं प्रहस्यैव प्रणनाम जगाद च ॥४६॥ पार्वत्युवाच । स्वामिन् मम सुतः कुत्र गुप्तो बभूव सन्निधौ । त्वदीये नात्र संदेहः पादं पश्यामि नो पुरः ॥४७॥ पादमार्गेण तं विप्र गृहीतुं चागताऽभवम् । परश्वादिकचिह्नेन वद सत्यं महामते ॥४८॥ द्विज उवाच । न दृष्टः शैलजे पुत्रो मया तव न संशयः । शिवस्य शपथं कृत्वा वदामि पश्य पुत्रकम् ॥४९॥ ततोऽतिदुःखसंयुक्ता सस्मार द्विरदाननम् । ततस्तस्य मुखांभोजान्निःसृतो गणनायकः ॥५०॥ निःसृत्य मुष्टिघातेन गुणेशेन हतोऽसुरः । स ममार महादुष्टोऽष्टादशयोजनोऽभवत् ॥५१॥ ततः सा हर्षिताऽत्यंतं क्रोधहीना बभूव ह । पुत्रं गृह्य ययौ देवी स्वाश्रमं गृहगा- ऽभवत् ॥५२॥ पुत्रः पपात भूपृष्ठेऽलोडयत्तत्र शक्तयः । पुनः पुनः स जृंभां च चकार विकटाननः ॥५३॥ तं तादृशं निरीक्ष्यैव पार्वती दुःखसंयुता । किं जातं मे सुतस्याद्य किं भविष्यति विघ्नप ॥५४॥ ततः सा तन्मुखे विश्वं ददर्श भयसंकुला । अनंतांडसमायुक्तं पपात धरणीतले ॥५५॥ स्वगुरुं शंकरं सा तु सस्मार स्वेष्टदेवकम् । गणेशं तेन मोहेन हीना बभूव पार्वती ॥५६॥ विचारमकरोद्देवी गणेशोऽयं सुतोऽभवत् । तं त्यक्त्वा लिंगसेवायां निरता मूर्खवत् किल ॥५७॥ पतिभावेन देवेशं शंकरं देहधारिणम् । भजामि देवभावेन गणेशं तच्च विस्मृतम् ॥५८॥ स्तनपानं गणेशाय न दत्तं मूढभावतः । अनंता वै मया यत्र संस्थिताः शंकरादयः ॥५९॥ तेन तुष्टेन सर्वे ते संतुष्टाः संभवंति च । गणेशो ब्रह्मणां नाथः सोऽपि संतुष्ट एव वै ॥६०॥ अहोऽयं शिवरूपश्च मया दृष्टः प्रसन्निधौ । गृहीतस्तत्र चित्रं तु मया न ज्ञायते कथम् ॥६१॥ अतः परं गणेशानं पुत्रभावेन चागतम् । सर्वभावेन नित्यं तं भजिष्यामि हितावहम् ॥६२॥ अयं पतिरयं तातो माता पुत्रः सुहृत्तथा । देवो ब्रह्म न संदेहो गुणेशो मे सुशांतिदः ॥६३॥ एवं निश्चित्य सा देवी समुत्थाय प्रणम्य तम् । तुष्टाव हर्षसंयुक्ता भक्तिनम्रात्मकंधरा ॥६४॥ स्तुवंतीं तां समालोक्य गणेशो मोहमादधे । ततः संमोहिता देवी विस्मृतिं परमां ययौ ॥६५॥ पुत्रभावेन विघ्नेशं लालयामास गृह्य तम् । गृहकार्यरता देवी बभूवे पूर्ववद्यथा ॥६६॥ शक्तय ऊचुः । बालक्रीडार्थमुद्युक्तो गणेशो ब्रह्मनायकः । पुत्रभावं समासाद्य पुत्रतुल्यः समाचरत् ॥६७॥ किमर्थमखिलं विश्वं नाना- ब्रह्मांडसंयुतम् । शिवरूपं किमर्थं स दर्शयामास शक्तये ॥६८॥ दर्शयित्वा किमर्थं स लोपयामास तद्भवम् । ज्ञानं कुतूहलं
खं. ६ अ. ३९ पान ११० चेदं वद संशयनाशनात् ॥ ६९॥ आदिशक्तिरुवाच । पुत्रभावमयी भक्तिग्रहणे लालसः सदा । वरदानप्रभावेण तपः- फलप्रदोऽभवत् ॥७०॥ कार्यं कृत्वा सुरर्षीणामंतर्धानं करिष्यति । तदा ज्ञानस्य देव्यास्तु स्मरणं संभविष्यति ॥७१॥ गणेशः पुत्रभावेनागतो मे नात्र संशयः । अज्ञानेन युताऽहं तं सुतं जानामि निश्चितम् ॥७२॥ पुत्रवन्नरदेहस्थो गणेशो मे त्वदर्शयत् । ब्रह्मसामर्थ्यमाहात्म्यं तथापि ज्ञायते न सः ॥७३॥ तेनातिभक्तिसंयुक्ता भजिष्यति गजाननम् । तदर्थं गणराजोऽपि कौतुकं तत्र चाकरोत् ॥७४॥ एवं नानाविधान् दैत्यान् स्वयं हत्वा च शक्तयः । शिवयोः सेवनं चक्रे पुत्रभावप्रभावतः ॥७५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते बालखेलावर्णनं नामाष्टत्रिंशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । गौतमादिमुनीनां स सुतैर्नित्यं गणेश्वरः । चिक्रीड बालमध्यस्थो बालवन्नात्र संशयः ॥१॥ तेषां मुनिसुतानां स तिरस्कारादिकं कदा । असहद्धर्षसंयुक्तो मित्रभावप्रदर्शनात् ॥२॥ तेपुः ये सख्यभक्त्यर्थं तपस्ते सततं नराः । सेवार्थमभवन् सर्वे मुनिपुत्रस्वभावतः ॥३॥ कश्यपस्य सुतो जज्ञे मयूरो विष्णुरव्ययः । यज्ञः सेवार्थमुद्युक्तो युयुधे गणपेन सः ॥४॥ सुतो विनतया सोऽपि बोधितः प्रणनाम तम् । गणेशं याचते स्तुत्वा मयूरः स्म वरं परम् ॥५॥ आदौ मयूरनाम्ना संयुक्तं नाम त्वदीयम् । भवेत्तु सर्वविख्यातं सर्वसिद्धिप्रदायकम् ॥६॥ तथेत्यभून् मयूरेशो नाम्ना सर्वत्र शक्तयः । सोऽपि वाहनभावेन सेवायामास विघ्नपम् ॥७॥ कदाचित् द्विजपुत्रैश्च मज्जितोऽभूद् गजाननः । जलस्थं नागकन्यास्तं निन्युः कामप्रपीडिताः ॥८॥ पुरा गणेशमाहात्म्यं श्रुत्वा तेपुः तपो महत् । ब्राह्मण्यः पतिभावेन गणेशो भवतु प्रभुः ॥९॥ गणेशमंत्रसंयुक्ता नानाऽनुष्ठानतत्पराः । ता एव नागकन्याश्च बभूवुस्तपसा युताः ॥१०॥ शेषवासुकि- मुख्यैस्ता लालिताः परमादरात् । पत्यर्थं प्रार्थिताः सर्वा जगुस्तान्नागमुख्यकान् ॥११॥ गणेशं भावसंयुक्ता वृणीमहि पतिं वरम् । नान्यं कदा महाराज इच्छामो ह्यसमर्थकम् ॥१२॥ तच्छ्रुत्वा शेषमुख्यास्ता जगुः किं हठसंयुताः । ब्रह्मेशो
खं. ६ अ. ३९ पान १११
गणनाधस्तु स्वानंदस्थो बभूव ह ॥१३॥ स कथं भवतां पुत्र्यो भविष्यति पतिः परः। अभिमानं परित्यज्य समानं वृणुत प्रभुम् ॥१४॥ तेषां वचनमाकर्ण्य क्रोधयुक्ताः कुमारिकाः। जगुस्तांश्च वयं ताता ब्रह्मचर्यं वृणीमहे ॥१५॥ पूर्वसंस्कारयोगेन मयूरेशं जलस्थितम्। ददृशुर्नागकन्यास्तं मेनिरे गणनायकम् ॥१६॥ नारदस्य मुखाच्छ्रुत्वा शिवपुत्रं गजाननम् । अत्रागतं प्रगृह्यैव वृणीत वरमुत्तमम् ॥१७॥ स्वगृहे गणनार्थं ताः समानाय्य सुविह्वलाः । पूपुजुर्भक्तिसंयुक्ताः पतिभावेन शक्तयः ॥१८॥ ततः सोऽपि हृदा चक्रे ददौ योगं सुशांतिदम् । ताभ्यः तां कामहीनास्तं सिषेविरे विशेषतः ॥१९॥ अकृत्रिमं सुखं ताभ्यो ददौ भक्तिप्रभावतः । दिवानक्तं बुभुजिरे ह्यत्यंतं पौरुषं सुखम् ॥२०॥ एवं कृत्वा स्वयं शेषं गर्विष्ठं मदसंयुतम् । मर्दयित्वा ययौ तत्राभवन् द्विजसुताः पुरा ॥२१॥ एवं नानाविधान्येव चरित्राणि चकार ह । स सर्वं गौतमस्यान्नं बुभुजे नादरेण च ॥२२॥ भक्तेभ्यो भक्तिदानार्थं प्रभुः किं किं गजाननः । न करोति महादेव्यो दासदास्यपरायणः ॥२३॥ भक्तैर्यद्यत्कृतं चैव तदेवामृतरूपकम्। अभक्तैः सादरतया स कृतं मन्यते विषम् ॥२४॥ तिरस्कारादिकं देव्यस्ताडनादिक- मुत्तमम्। सौख्यदं गणनांथस्य बभूवे भक्तिमोहतः ॥२५॥ पार्वतीशिवमुरुख्यैश्चादितिकश्यपमुख्यकैः । तिरस्कृतस्ताडितः सोऽमृतं मेने गजाननः ॥२६॥ भक्तस्य वचनार्थं स दैत्यमस्तकधारकः । स्वांगच्छेदकरश्चैव मलजोऽपि बभूव ह ॥२७॥ इत्यादि विविधं चैव नीचवद्गणनायकः। चकार कर्म भक्त्या संमोहितो मोहनाशनः ॥२८॥ ततो गौतममुख्याश्च गणेश- मायया युताः । आययुः शंकरं देवं जगुस्तं मोहिता भृशम् ॥२९॥ गौतमाद्या ऊचुः। मयूरेशायुतः शंभो गच्छ त्वं यत्र ते रुचिः। वयं पीडायुता नित्यं भवामो दैत्यसंगमात् ॥३०॥ नित्यं दैत्येंद्रमुख्यास्तं मयूरेशं समाययुः । प्रहता मायया युक्ता मयूरेशेन तत्क्षणात् ॥३१॥ मृता दैत्या बभूवुश्च स्वस्वरूपधराः प्रभो । दश द्वादश पंचत्रिंशद्विंशतियोजनम् ॥३२॥ तेषां देहप्रपातेन गृहवृक्षाश्रमादिकम्। भंजते नित्यमेवातोऽस्माकं किं करवामहै ॥३३॥ अतस्त्वं सर्वसंयुक्तो गच्छ यत्र च ते रुचिः। अथवा वयमीशान त्वां त्यक्त्वा किं व्रजामहे ॥३४॥ तेषां वचनमाकर्ण्य शिवश्चिंतातुरोऽवदत् । मुनीन् सर्वान् महादेव्यो देवानां पालकः प्रभुः ॥३५॥ श्रीशिव उवाच । भवतामाश्रमेष्वद्याहं विप्रा ह्यागतोऽभवम् । मदीयसंगदोषेण पीडिता मुनयः परम् ॥३६॥ स्वाश्रमेषु सदा विप्राः स्थीयतां सुखभोगिनः । गमिष्यामि स्थलेऽन्यत्र सर्वैः साकं न संशयः ॥३७॥ मयूरेशस्य विप्रेक्षा नित्यं दुःखादिकं परम् । दैत्येंद्रैः क्रियते दैत्या हतास्तेन महाबलाः ॥३८॥ निर्विघ्नार्थं गणेशस्य स्थानं