भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. ७ अ. ९ | पान १८

दायकं प्रभविष्यति । मम भक्तिप्रदं चैतन् मम भावहरं सदा ॥२६॥ विघ्नेशवचनं श्रुत्वा तं प्रणम्य ममासुरः । जगाद भक्तिसंयुक्तो विघ्नराजं कृतांजलिः ॥२७॥ ममासुर उवाच । यदि प्रसन्नभावेन वरं दास्यसि विघ्नप । तव भक्तिं स्थिरां देहि मायानाशकरीं प्रभो ॥२८॥ गाणपत्यसहावासं देहि नाथ निरंतरम् । स्थानं भक्ष्यादिकं ढुंढे तत्र स्थास्यामि यंत्रितः ॥२९॥ दासोऽहं ते गणाधीश नान्यं याचे वरं परम् । तव दर्शनमात्रेण ज्ञानयुक्तोऽहमंजसा ॥३०॥ विघ्नेश उवाच । मदीया भक्ति- रुग्रा ते भविष्यति ममासुर । गाणपत्यप्रियत्वं च योगयुक्तो भविष्यसि ॥३१॥ स्वस्थाने निर्भयो भूत्वा तिष्ठ त्वं मत्परायणः । स्वधर्मविधिहीनं त्वं कर्म भुंक्ष्व जनैः कृतम् ॥३२॥ यत्रादौ पूजनं मे न स्मरणं वा ममासुर । मम भावेन संमोह्य राज्यं कुरु हृदि स्थितः ॥३३॥ मद्भक्तान् दासवन्नित्यं रक्षस्व स्नेहभावतः । मम भावविहीनांश्च कुरु मे ममता- युतान् ॥३४॥ एवं विघ्नेश्वरस्यैव श्रुत्वा वचनमुत्तमम् । ममासुरस्तं तथेति प्रहृष्टो वाक्यमब्रवीत् ॥३५॥ प्रणम्य तं ममो दैत्यः स्वस्थाने प्रजगाम ह । शांतिं धृत्वा गणेशानं भजते सर्वभावतः ॥३६॥ दैत्यास्तं त्यज्य सर्वे तु भययुक्ता विशेषतः । पातालं विविशुः सद्यः सोऽपि हर्षयुतोऽभवत् ॥३७॥ एवं ममासुरं शांतं चकार विघ्ननायकः । स्वाधीनं कृत्य तं स्थाने स्थापयामास मानिनि ॥३८॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते ममासुरशांतिवर्णनं नामाष्टमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । ममासुरं शांतियुतं वीक्ष्य देवाः सुहर्षिताः । प्रणम्य मुनिसंयुक्ताः पुपूजुर्विघ्ननायकम् ॥१॥ पूज्य तं हृष्टरोमाणः पुनः प्रणम्य भावतः । तुष्टुवुर्विघ्नराजं ते बद्धांजलय आदरात् ॥२॥ देवर्षय ऊचुः । साम्यस्वरूपं द्विविधेषु संस्थं द्वंद्वैर्विहीनं परमार्थभूतम् । आनंदनाथं निजभक्तपोषं तं विघ्नराजं सततं भजामः ॥३॥ सर्वात्मकं बिंबमथो विधाय तेनैव द्वंद्वं रचितं गणेश । सत्यस्वरूपं च परं ह्यसत्यं तं विघ्नराजं सततं भजामः ॥४॥ भेदैर्विहीनं परमप्रमेयं साक्षिमयं कृत्य विनायकत्वम् । तत्रैव नित्यं समभावसंस्थस्तं विघ्नराजं सततं भजामः ॥५॥ ढुंढे त्वया भेदयुतं द्वितीयं

खं. ७ अ. ९ पान १९ सृष्टं परं ब्रह्म विहारदं च । उत्थानरूपं त्वमपि प्रसंस्थस्तं विघ्नराजं सततं भजामः ॥६॥ त्वन्मायया मोहयुते परेशो अन्योन्यमादौ मिलिते प्रकाशिन् । तत्र स्थितस्त्वं च विमोहशून्यस्तं विघ्नराजं सततं भजामः ॥७॥ त्वत्प्रेरितं द्वंद्वमयं परं च सोऽहं तथा बिंदुमयं चकार । तत्स्थः समत्वेन विहारकारिंस्तं विघ्नराजं सततं भजामः ॥८॥ ताभ्यां मिलित्वा रचितं गणेश विश्वं चतुष्पादमयं पुराणम् । तत्रैव ते नाथ प्रकाशभावस्तं विघ्नराजं सततं भजामः ॥९॥ एवं खतोत्थान- बलेन कृत्वा साम्यस्वरूपेण विहारकारिन् । तद्भावशून्योऽसि गजानन त्वं तं विघ्नराजं सततं भजामः ॥१०॥ एवं परेशाधिपतेन सृष्टं त्वं तादृशो नो गणराज भासि । सांख्यस्वरूपं प्रवदंति वेदास्तं विघ्नराजं सततं भजामः ॥११॥ दोषैर्विहीनं प्रवदंति सांख्यं तस्मान्न विघ्नेश्वर सांख्यसंस्थः । उत्थानहीनो न भवेः कदापि तं विघ्नराजं सततं भजामः ॥१२॥ स्वानंदवासी गणनायकस्त्वमानंदरूपोऽसि वदंति वेदाः । द्वंद्वप्रकाशश्च तदात्मशून्यः तं विघ्नराजं सततं भजामः ॥१३॥ नित्यं मनोवाक्प्रभवैश्च हीनः साम्यात्मकेनैव सुयोगकेन । लक्ष्यः सदानंदघनप्रकाशस्तं विघ्नराजं सततं भजामः ॥१४॥ स्तोतुं न शक्ताः प्रभवंति वेदा हेरंबमाद्यं प्रणमामहे त्वाम् । तेनैव तुष्टो भव देवदेव तं विघ्नराजं सततं भजामः ॥१५॥ सर्वात्मकं त्वां प्रवदंति सर्वे योगींद्रमुख्याः प्रभुदासभूताः । तत्रैव ते ध्यानमपारमेवं तं विघ्नराजं सततं भजामः ॥१६॥ तेषां मनोभक्तिभवं च भावं संरक्षणार्थं वपुषा प्रयुक्तः । तत्रैव भक्तिं कुरुते सुभक्तस्तं विघ्नराजं सततं भजामः ॥१७॥ देहस्त्वसद्ब्रह्ममयश्च तेऽयं सद्रूपतुंडं गजवाचकं ते । योगे तयोस्त्वं च विभासि देवस्तं विघ्नराजं सततं भजामः ॥१८॥ कर्याननं त्वां प्रवदंति तेन संतः सदा योगमयं हृदिस्थम् । सिद्धिप्रदं बुद्धिप्रचालकं वै तं विघ्नराजं सततं भजामः ॥१९॥ ब्रह्माऽहमेवं मदधीनकं च विश्वादिकं ब्रह्मगणा वदंति । त्वन्मायया मोहितचेतसस्ते तं विघ्नराजं सततं भजामः ॥२०॥ सत्ताविहीनान् प्रकरोषि तांस्त्वं विघ्नप्रदानेन महानुभाव । स्वार्थैर्विहीनाः प्रभवंति पूर्णास्तं विघ्नराजं सततं भजामः ॥२१॥ अंघ्रि पुनस्ते शरणाश्रितास्ते विघ्नेन हीनाः प्रभवो भवंति । विघ्नेशनामाऽसि ततस्त्वमेव तं विघ्नराजं सततं भजामः ॥२२॥ एतादृशं विघ्नपतिं कथं वै स्तोतुं वयं योगमयं भवामः । वेदा न शक्ता मनसा ह्यलभ्यं तं विघ्नराजं सततं भजामः ॥२३॥ कश्यप उवाच । एवं स्तुत्वा गणाधीशं प्रणेमुरमरर्षयः । तुष्टस्तानब्रवीद्देवो विघ्नेशो ब्रह्मणां पतिः ॥२४॥ विघ्नेश उवाच । देवर्षयो वरान् ब्रूत महाभागा हृदीप्सितान् । दास्यामि स्तोत्रतुष्टोऽहं भक्त्या स्वाधीनतां गतः ॥२५॥ भवत्कृतमिदं स्तोत्रं भवेत्

[header] खं. ७ अ. ९ पान २० [/header]

सर्वार्थदायकम् । यः पठेच्छृणुयाद्वाऽपि स सर्वं प्राप्नुयात् परम् ॥२६॥ विद्यामायुर्धनं धान्यं यशो धर्मं तथार्थकम् । कामं मोक्षं ब्रह्मभूयं दास्यामि स्तोत्रपाठतः ॥२७॥ पुत्रपौत्रादिकं सौख्यमारोग्यादिसमन्वितम् । विजयं जयकाले च स्तोत्र- पाठाल्लभेन्ररः ॥२८॥ मारणोच्चाटनाद्यं चानेन सिद्धं भविष्यति । परकृत्यप्रशमनं भवेच्च मरणादिकम् ॥२९॥ कारागृहादिजा पीडा नश्येदनेन निश्चितम् । सहस्रावर्तनाद्देवा मुनयो नाऽत्र संशयः ॥३०॥ एकविंशतिवारं चैकविंशति दिनानि च । पठेद्वा शृणुयात् सोऽपि मनसीप्सितमाप्नुयात् ॥३१॥ मद्भक्तिवर्धनं चेदं भविष्यति निरंतरम् । अपराधादिकस्याऽपि नाशकं चास्तु सर्वदा ॥३२॥ एवं गणपतेर्वाक्यं श्रुत्वा तममर्षयः । प्रणम्य देवमूचुस्ते वचनं भक्तिसंयुताः ॥३३॥ देवर्षय ऊचुः । यदि प्रसन्नतां यातो विघ्नेशास्ते पदांबुजे । भक्तिं देहि विशेषेण वरं नान्यं वृणीमहे ॥३४॥ ममासुरस्त्वया नाथ शांतियुक्तः कृतो महान् । तेन स्वस्थानगाः सर्वे भविष्यंति दिवौकसः ॥३५॥ मुनयः कर्मकर्तारो जनाः स्वधर्मसंयुताः । भविष्यंति गणाध्यक्ष वृणीमहि किमप्यहो ॥३६॥ कृतं त्वया वराणां यत् कार्यं विघ्नविदारण । तथेति तानथोक्त्वाऽसौ देवेशोऽंतर्दधे प्रिये ॥३७॥ देवा मुनिगणैः सार्धं तं प्रणम्य विशेषतः । खेदयुक्ता गणाध्यक्षं स्थापयामासुरादरात् ॥३८॥ हिमाचलस्य मध्ये तत् स्थानं विघ्नपतेः परम् । संपूर्णमुत्तरदिशि सर्वसिद्धिप्रदायकम् ॥३९॥ भाद्रशुक्लचतुर्थ्यां तु मध्याह्ने स्थापितः परः । विघ्नेशो मुनिभिः सार्धं देवैः सर्वसुखावहः ॥४०॥ मध्ये विघ्नपतिः साक्षाद्वामे सिद्धिः स्थिता स्वयम् । बुद्धिश्च दक्षिणांगे तु नागेशः पुरतः स्थितः ॥४१॥ क्षेत्राणि पृष्ठभागे च प्रयागादीनि मानदे । संस्थितानि प्रसेवार्थं विघ्नराजस्य नित्यदा ॥४२॥ वामे शुंभुमुखा देवा दक्षिणांगे मुनीश्वराः । पुरतो गणराजस्य सेवंते तं सुलोचने ॥४३॥ असुरा नागमुख्याश्च गंधर्वा- प्सरसस्तथा । नानासिद्धगणास्तत्र वसंत सेवनोत्सुकाः ॥४४॥ गंगाद्याः सरितस्तत्र भक्तियुक्ता वसंत च । अन्ये नाना जना देवि वसंत भक्तिकारकाः ॥४५॥ दशयोजनविस्तारं क्षेत्रस्य मुख्यभावतः । चतुरस्रं महाक्षेत्रं ज्ञातव्यं खसुखप्रदम् ॥४६॥ तत्र गणेशतीर्थं तु सर्वसिद्धिप्रदायकम् । जंतवे स्नानमात्रेण भुक्तिमुक्तिप्रदं भवेत् ॥४७॥ अन्येषां विष्णुमुख्यानां तत्र तीर्थानि योगिनाम् । स्थितानि स्नानमात्रेण स्वस्वसायुज्यदानि तु ॥४८॥ अन्यदेवादिकानां ये भक्ताः क्षेत्रे मृता यदि । ते सर्वे शुक्लगंत्या च ब्रह्मभूता भवंति वै ॥४९॥ यात्रां तत्र प्रकुर्वंति भक्ता भाद्रपदे प्रिये । शुक्लपक्षे चतुर्थ्यां वै महोत्सवपरायणाः ॥५०॥ क्षेत्रवासिजनाः सर्वे देवर्षिगणसंयुताः । परस्परं विशेषेण बोधयंति गजाननम् ॥५१॥

खं. ७ अ. १० पान २१ विघ्नराजचरित्राणि कथयंति परस्परम् । साश्रुनेत्रा भवंत्येते भक्त्या विघ्नेश्वरस्य च ॥५२॥ यस्मिन् कस्मिन् दिने देवि यात्रां कुर्वंति मानवाः । इह भुक्त्वाऽखिलान् भोगानंते मुक्तिमवाप्नुयुः ॥५३॥ ये तत्र विघ्नराजं तु नमंति मनसीप्सितम् । लब्ध्वा सुखयुताः सर्वे भवंते नात्र संशयः ॥५४॥ यत्र कुत्र स्थिता देवि भक्ता विघ्नेश्वरस्य च । ब्रह्मभूता न संदेहो दर्शनात् पावना नृणाम् ॥५५॥ मानुषं देहमाप्यैव न पश्येद्विघ्ननायकम् । पशुतुल्यः स विज्ञेयो जन्म तस्य निरर्थकम् ॥५६॥ एवं खंडेपु सर्वेषु द्वीपेषु क्षेत्रमुत्तमम् । विघ्नराजस्य विप्रेशैः कृतमुत्तरदिग्भवम् ॥५७॥ ब्रह्मभूयप्रदं क्षेत्रं वैघ्नेशं च चतुष्पदम् । तस्य किं वर्णनं कुर्यां यत्र वेदा विसिस्मिरे ॥५८॥ संक्षेपेण मया प्रोक्तं क्षेत्रमाहात्म्यमुत्तमम् । विस्तरेण न कोऽप्येतद्वर्णयितुं क्षमो भवेत् ॥५९॥ एवं विघ्नेश्वरो देवो नानाऽवतारकारकः । भक्तानां रक्षणार्थाय भक्तानां हरणाय च ॥६०॥ अवतारा असंख्याता विघ्नेशस्य महात्मनः । तेषां चरित्रकं वक्तुं न समर्थोऽहमंजसा ॥६१॥ इदं ममासुरस्यैव शमनं कथितं मया । चरित्रं विघ्नराजस्य सर्वसिद्धिप्रदायकम् ॥६२॥ शृणुयाद्यः पठेद्वाऽपि भयं तस्य ममात्मकम् । न भवेदीप्सितं सर्वं लभेद्व्रह्म सनातनम् ॥६३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते ममासुरशांतियुक्तविघ्नेशचरितक्षेत्रवर्णनं नाम नवमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दितिरुवाच । श्रुत्वा ब्रह्मप्रदं पूर्णं सर्वसिद्धिप्रदायकम् । चरितं विघ्नराजस्य न तृप्ताऽहं मुनीश्वर ॥१॥ अहो विघ्नपतिः साक्षाद्ब्रह्मभूतो न संशयः । मया ज्ञातोऽधुना नाथ तव वाक्याद्विशेषतः ॥२॥ अवतारान् वद स्वामिन् विघ्नेशस्य महात्मनः । मुख्यानपारकेषु त्वं तारयस्व भवार्णवात् ॥३॥ मुद्गल उवाच । एवं पृष्टो महायोगी कश्यपो हर्षसंयुतः । समालिंग्य प्रियां दक्ष जगाद वचनं हितम् ॥४॥ धन्याऽसि दक्षपुत्रि त्वं येन विघ्नेश्वरे रतिः । जाता ते सार्थकं सर्वं करिष्यसि न संशयः ॥५॥ विघ्नेशोन महादेवि सृष्टं ब्रह्म ह्यसन्मयम् । सद्रूपं तत्र बिंबेेन मायाभ्यां संस्थितः प्रभुः ॥६॥ ततस्ताभ्यां मिलित्वा वै सृष्टं च द्विविधं परम् । स्वतः परत उत्थानं ततः सोऽहं च बिंदुकम् ॥७॥ ततश्चतुर्विधं देवि विश्वं

[header] खं. ७ अ. १० पान २२ [/header]

सृष्टं विशेषतः । स्थूलसूक्ष्मसमात्मारव्यमेकानेकादिसंयुतम् ॥८॥ एवं नानाविधं ब्रह्म विश्वं नानाविधं पुरा । आनंदेन विहीनत्वादुभौ व्यापारवर्जितम् ॥९॥ स्वकक्रियां प्रचक्रुर्वै न तत्र मोहयुक्त्तता । हीनता न तथा तानि खेदयुक्तानि संबभुः ॥१०॥ तैस्तपो घोररूपं तु कृतं विघ्नेश्वरस्य वै । ध्यात्वा ब्रह्ममयं रूपमेकाक्षरविधानतः ॥११॥ दिव्यवर्षसहस्रे तु गते तु विघ्ननायकः । हृदि तेषां प्रसन्नोऽभूत् प्रकटश्च बभूव ह ॥१२॥ नरकुंजरयुक्तं यद्दर्शयामास रूपकम् । दृष्ट्वा तं हर्षितानि ब्रह्माणि वै नेमुनंतरम् ॥१३॥ विघ्नेशकृपया तेषां तद्रूपज्ञानजोऽमलः । बोधो बभूव तेनैव तुष्टानि स्म भजंति तम् ॥१४॥ ततो विष्णुस्वरूपेण विघ्नेशो वरदोऽभवत् । आगत्य तान् उवाचाथ वरान् वृणुत सर्वपः ॥१५॥ ततो ब्रह्माणि तं दृष्ट्वा विस्मितानि बभूविरे । विघ्नेशकृपया तेषां ज्ञानं तस्य बभूव ह ॥१६॥ बिंबात्मकश्च सर्वत्र विघ्नेशोऽयं प्रतापवान् । स्वमहिम्नि स्थितः सोऽपि गजवक्त्रादिचिह्नितः ॥१७॥ ततो हर्षयुतान्येवं प्रणेमुर्भक्तिभावतः । नत्वा पूज्य महाविष्णुं तुष्टुवुस्तं सुलोचने ॥१८॥ ब्रह्माण्यूचुः । विघ्नेशाय नमस्तुभ्यं गरुडध्वजिने नमः । चतुर्भुजाय सर्वेषां पतये वै नमो नमः ॥१९॥ चक्रपाणे रमेशाय परात्परतराय च । हेरंबाय विकुंठस्य नाथाय ते नमो नमः ॥२०॥ स्वानंदवासिने तुभ्यं गजाननाय ढुंढये । अपाराय महेशानसुताय तु नमो नमः ॥२१॥ काश्यपाय च शेषस्य पुत्राय भक्तवत्सल । दैत्यदानवनाशाय शार्ङ्गिणे ते नमो नमः ॥२२॥ गदाधराय देवाय वासुदेवाय देवप । धर्मस्थापनकाराय ब्रह्मणे ते नमो नमः ॥२३॥ सदसन्मयरूपाय चानंदपदधारिणे । समायं सर्वभावेषु शाश्वताय नमो नमः ॥२४॥ नमो वागतिरूपाय देहदेहिप्रचारिणे । बोधाय च विदेहाय विष्णवे ते नमो नमः ॥२५॥ किं स्तुमस्त्वां परेशान यत्र वेदा विकुंठिताः । योगिनस्तु महाभाग प्रसन्नो भव ते नमः ॥२६॥ ब्रह्माणि एवं स्तुत्वा च प्रणेमुस्तं जनार्दनम् । तान्युत्थाप्य जगाद स्वयं विष्णुर्हर्षसंयुक्तः ॥२७॥ विष्णुरुवाच । भवत्कृतं मदीयं च स्तोत्रं भुक्तिप्रदं भवेत् । मुक्तिदं शृण्वते ब्रह्मदायकं पठते सदा ॥२८॥ ब्रह्माणि यद्य- दिच्छेत तत्तद् वृणुत सत्वरम् । दास्यामि तपसा तुष्टः स्तोत्रेणानेन निश्चितम् ॥२९॥ ब्रह्माण्यूचुः । देह्यानंदमयं नाथ सौख्यं स्वाभाविकं परम् । सामर्थ्यं स्वस्वकार्येषु सत्यसंकल्पसंभवम् ॥३०॥ तव पादयुगे नाथ भक्तिं देहि विशेषतः । योग- शांतिभवं सौख्यं ब्रह्मभूयप्रदायकम् ॥३१॥ विष्णुरुवाच । भवद्भिः प्रार्थितं सर्वं तत्तत् सर्वं भविष्यति । सफलं सर्वभावेन कुरुध्वं कार्यमुत्तमम् ॥३२॥ योगशांतिं प्रवक्ष्यामि ब्रह्मभूयप्रदायिनीम् । ब्रह्माणि भक्तियुक्तानि शृणुध्वं योगसेवनात् ॥३३॥

पंचचित्तमयीं बुद्धिं तत्र भ्रांतिकरीं पराम् । सिद्धिं जानीत सर्वत्र तयोः स्वामी गजाननः ॥३४॥ संप्रज्ञातमयो देहो संप्रज्ञातात्मकं शिरः । गजरूपं तयोर्योगे देहधारी बभूव ह ॥३५॥ संयोगाख्यो गकारश्च णकारो योगगः स्मृतः । तयोर्योगे गणेशोऽयं नामाऽभून्नात्र संशयः ॥३६॥ स्वसंवेद्येन योगेन दर्शनं जायते परम् । गणेशस्य च तेनाऽयं स्मृतः स्वानंदवासकः ॥३७॥ असच्छक्तिश्च सद्भानुः समोऽहं नेति शंकरः । चतुर्णां ब्रह्मणां योगे स्वानंदः कथ्यते बुधैः ॥३८॥ स्वानंदो मायया युक्तः संयोगात् ब्रह्मणां मतः । अयोगो ब्रह्मणां मायया हीनो व्यतिरेकतः ॥३९॥ संयोगाऽयोगयोर्योगे गणेशः शांतिरूपधृक् । तं भजध्वं विशेषेण हृदि चित्तप्रचालकम् ॥४०॥ तेन च ब्रह्मभूतानि भविष्यथ न संशयः । ब्रह्माणि कथितं योगं प्रयुङ्ग्ध्वं भक्तिकारणात् ॥४१॥ यद्यच्च क्रियते तत्त्वैर्जगद्रचनकादिकम् । भवद्भिस्तद्गणेशाय समर्प्य सकलाः क्रियाः ॥४२॥ एवमुक्त्वा महाविष्णुस्तत्रैवांतरधीयत । ब्रह्माणि तं नमस्कृत्य साधयामासुरंजसा ॥४३॥ क्रमेण ब्रह्मभूतानि ब्रह्माणि च बभूविरे । तानि ब्रह्माणि योगेन गाणेशे दक्षकंनदिनि ॥४४॥ तत आनंदयुक्तानि चक्रुः सर्वं चराचरम् । तत्रा- नंदेन सर्वाणि क्रीडां चक्रुः परस्परम् ॥४५॥ एतत्ते कथितं सर्वं चरित्रं देवि शोभनम् । विष्णुरूपधरस्यास्य विघ्नराजस्य सर्वदम् ॥४६॥ शृणुयाद्यो नरो वाऽपि पठेत्तस्य प्रिये सदा । भुक्तिमुक्तिप्रदं पूर्णं सर्वानंदकरं भवेत् ॥४७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते विष्ण्ववतारवर्णनं नाम दशमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । एकदा सुखमासीनं नारायणमनामयम् । प्रणम्य तं महाभागो विष्वक्सेन उवाच ह ॥१॥ विष्वक्सेन उवाच । वद केशव योगं मे शांतिदं ते पदप्रदम् । संसाध्य विष्णुरूपोऽहं भविष्यामि सुभक्तितः ॥२॥ श्रीनारायण उवाच । नामरूपात्मकं सर्वमसत्यं वेदवादतः । जन्ममृत्युयुतं विद्धि ब्रह्म तत्र च तादृशम् ॥३॥ सर्वभेदविहीनं यत् परं ब्रह्मात्मवाचकम् । अमृतं सत्यमेकं तज्जानीहि योगसेवया ॥४॥ तयोर्योगे समं ब्रह्म सदानंदमयं परम् । विष्णुरूपं समाख्यातं जानीहि भक्तिभावतः ॥५॥ तदेव विघ्नराजाख्यं ब्रह्म वेदे प्रतिष्ठितम् । तं भजस्व विधानेन

खं. ७ अ. ११ पान २४

तदा शांतिमवाप्स्यसि ॥६॥ विष्वक्सेन उवाच । कथं विघ्नेश्वरः स्वामिन् विष्णुरूपः प्रकीर्तितः । वद मां सर्वशास्त्रज्ञ संशय- स्यापनुत्तये ॥७॥ श्रीविष्णुरुवाच । मायासुखं विजानीहि विघ्नयुक्तं विशेषतः । आत्मसौख्यं सदा प्रोक्तं विघ्नहीनं बुधैः पुरा ॥८॥ तयोर्योगे गणेशानो विघ्नराजः प्रकीर्तितः । सदानंदमयः सोऽपि योगिभिः सेवितोऽभवत् ॥९॥ गणः समूहरूपश्च समूहा ब्रह्मवाचकाः । बाह्यांतरादियोगेन ज्ञायंते योगिभिर्ध्रुवम् ॥१०॥ गणेशानस्य बिंबं यत् पतितं मायया युतम् । तदेव शिवविष्णुवादि वाचकं प्रबभूव ह ॥११॥ अतो गणेशरूपा वै वयं सर्वे कलांशतः । तं भजस्व विधानेन तदा शांतिमवाप्स्यसि ॥१२॥ कश्यप उवाच । विष्णोर्वचनमाकर्ण्य विष्वक्सेनः प्रणम्य तम् । जगाद भक्ति- संयुक्तो वचनं दक्ष पुत्रिके ॥१३॥ विष्वक्सेन उवाच । नाऽहं भजामि विघ्नेशं तव भक्तिपरायणः । त्वत्तः परतरं नास्ति वदसे किं जनार्दन ॥१४॥ एवमुक्त्वा स्वयं विष्णुं तं प्रणम्य ययौ प्रिये । वनं योगस्य सिद्ध्यर्थं तताप तप आदरात् ॥१५॥ आनंदं सर्वभावेषु विष्णुं धृत्वा स्वयं हृदि । जजाप मंत्रराजं स इदं विष्णुस्तु ऋग्भवम् ॥१६॥ निराहारपरो भूत्वा विष्वक्सेनः प्रतापवान् । तपश्चकार तद्भक्त्या वैष्णवानां शिरोमणिः ॥१७॥ ततो वर्षशते पूर्णे प्रसन्नो गणनायकः । ददौ योगं समाख्यं तु तस्मै भावधरः प्रभुः ॥१८॥ स्वयं संयोगरूपं तं दृष्ट्वा संहर्षितोऽभवत् । ततो हृदि गणेशानं ददर्श लक्ष्मीसंयुक्तम् ॥१९॥ दृष्ट्वा खेदसमायुक्तो विष्णुं चिंत्य महायशाः । मंत्रं जजाप तत्रैव गणेशमवलोकयन् ॥२०॥ क्षणं नारायणं लक्ष्म्या युक्तं ददर्श चेतसि । क्षणाद्विघ्नेश्वरं सोऽपि विस्मितः प्रबभूव ह ॥२१॥ तपसोऽतिप्रभावेण शुद्धचित्तो बभूव ह । त्यक्त्वाऽभिमानजं मोहं विचारमकरोत् हृदि ॥२२॥ मायामयं शरीरं तु मायाहीनं च मस्तकम् । गजाकारं तयोर्योगे देहधारी गणेश्वरः ॥२३॥ अस्य बिंबं सदा मोहयुतं देवि विनिश्चितम् । विष्णुः समस्वभावस्थो लक्ष्म्यायुक्तो विशेषतः ॥२४॥ स्वमहिम्नि स्थितो देवः सिद्धिवुद्धिसमन्वितः । मायाखेलकरः सोऽपि लक्ष्मीपतिरुदाहृतः ॥२५॥ विष्णुना बोधितोऽहं तु पूर्वकालेऽभिमानतः । अबुध्यं नैव तद्रूपं वृथा पंडितको यथा ॥२६॥ अहो योगसमं किंचिन्न दृष्टं नैव संश्रुतम् । यस्य सेवनमात्रेणाभिमानो नाशमेष्यति ॥२७॥ एवं विचार्य देवेशं गणेशं ध्यानसंयुतः । ध्यात्वा पुपूज भावेन मानस्या पूजया स तु ॥२८॥ ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः । वरान् दातुं समायातो विष्वक्सेनाश्रमे प्रिये ॥२९॥ ध्यानस्थो न बुबोधैव समागतं गजाननम् । विष्वक्सेनस्ततश्चित्रं चकार विघ्ननायकः ॥३०॥ हृदिस्थं गणनाथं

[शीर्षक: ख. ७ अ. ११ | पान २५]

स लोपयामास तत्क्षणात् । ततोऽतिविह्वलः सोऽपि तं ददर्श बहिः स्थितम् ॥३१॥ लक्ष्म्यायुक्तं गणाधीशं दृष्ट्वा हर्षसमन्वितः । उत्थाय तं प्रणम्याऽऽदौ विष्वक्सेनः पूपूज ह ॥३२॥ पूजयित्वा पुनर्देहं प्रणम्य साश्रुलोचनः । तुष्टाव भक्तिसंयुक्तः कृतांजलिर्गजाननम् ॥३३॥ विष्वक्सेन उवाच । विघ्नेशाय नमस्तुभ्यं भक्तविघ्नविनाशिने । विघ्नदात्रे सुनाथाय ह्यभक्तेभ्यो नमो नमः ॥३४॥ लक्ष्मीपते नमस्तुभ्यं सिद्धिबुद्धिवराय च । स्वानंदवासिने देव विकुंठस्थाय ते नमः ॥३५॥ केशवाय परेशाय चक्रपाणे गदाधर । हेरंबाय नमस्तुभ्यं परशोधरकाय च ॥३६॥ दशरथसुतायैव वासुदेवाय ते नमः । शिवपुत्राय देवेश वरेण्यसूनवे नमः ॥३७॥ योगाकाराय नाथाय योगानां शांतिदायिने । कर्त्रे हर्त्रे सदा पात्रे गणेशाय नमो नमः ॥३८॥ शेषशायिन्नमस्तुभ्यं नाभिशेषाय ते नमः । सर्पयज्ञोपवीताय लंबोदराय शाश्वते ॥३९॥ नानाखेलकरायैव नानामायाप्रचालक । खेलहीनाय देवानां सहायाय नमो नमः ॥४०॥ असुराणां विनाशाय्यासुरभ्यो वरदायिने । ढुंढिराजाय भक्तेश भक्तिप्रियाय ते नमः ॥४१॥ गणेशाय गणानां तु चालकाय परात्पर । नारायणाय कृष्णाय मेघश्यामाय ते नमः ॥४२॥ मायायुक्ततया नाथ विष्णुरूपोऽसि सर्वदा । स्वमहिम्नि स्थितस्त्वं तु गणेशस्ते नमो नमः ॥४३॥ अतो गणेश ते नाम विष्णुर्वेदेषु कथ्यते । यो विष्णुः स हि विघ्नेशो नांतरं विद्यते कदा ॥४४॥ एवं स्तुत्वा गणेशानं प्रणनाम महामतिः । जगाद विष्वक्सेनं च तं देवो विघ्ननायकः ॥४५॥ श्रीविघ्नेश उवाच । वरान् वरय मत्तस्त्वं विष्वक्सेन महामते । तव दास्यामि भक्त्याऽहं तुष्टः स्तोत्रेण मानद ॥४६॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । पठते शृण्वते चैव सर्वसिद्धि- प्रदायकम् ॥४७॥ कश्यप उवाच । गणेशवचनं श्रुत्वा विष्वक्सेनस्तमब्रवीत् । कृत्वा करपुटं भक्त्या नम्रकंधर आदरात् ॥४८॥ विष्वक्सेन उवाच । यदि प्रसन्नतां यातस्तदा देहि गजानन । भक्तिं ते पादपद्मे मे शांतियोगं प्रयच्छ च ॥४९॥ जगाद गणराजस्तु श्रुत्वा तं हर्षयन्निव । मदीया भक्तिरुग्रा ते भविष्यति न संशयः ॥५०॥ विष्णुसंगतियोगेन शांतियोगमवाप्स्यसि । यद्यदिच्छसि तत्तत्ते सफलं चाऽस्तु सर्वदा ॥५१॥ एवमुक्त्वाऽतर्द्दधेऽसौ गणेशो भक्तियंत्रितः । विष्वक्सेनो जगामैव विकुंठं विष्णुमानमत् ॥५२॥ वृत्तांतं कथयामास श्रुत्वा संहर्षितोऽभवत् । केशवस्तूत्तमं तस्मै महायोगं जगाद च ॥५३॥ साधयित्वा यथान्यायं योगिवर्यो बभूव ह । विष्वक्सेनो गणेशानमभजद्भक्तिसंयुतः ॥५४॥ गुरुरूपं महाविष्णुं

देवरूपं गणेश्वरम्। धृत्वा हृदि महातेजा योगध्यानपरोऽभवत् ॥५५॥ इदं लक्ष्मीगणेशस्य कथितं ते चरित्रकम्। सर्वसिद्धिप्रदं पूर्णं पठनाच्छ्रवणाद्भवेत् ॥५६॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते लक्ष्मीविनायकचरितवर्णनं नामैकादशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ कश्यप उवाच। मधुकैटभनाशार्थं विष्णुना तपसा पुरा। आराधितो गणेशानस्तद्भक्त्या योगसेवया ॥१॥ ततः प्रसन्नतां यातो विघ्नेशः प्रददौ वरान्। तैर्युक्तः स जघानैव दैत्यौ परमदारुणौ ॥२॥ गणेशवरदानेन यशोयुक्तो जनार्दनः। तं जेतुं कः क्षमो देवि प्रभविष्यति ते सुतः ॥३॥ अतस्त्यक्त्वा स्वपुत्रेषु ममतां भज भावतः। विघ्नेशं योगिनां तेन वंद्या त्वं प्रभविष्यसि ॥४॥ यादृशं गणराजेन रचितं त्रिविधं पुरा। तादृशं वर्तते सर्वं सदेवासुरमानुषम् ॥५॥ कश्य- पस्य वचः श्रुत्वा हर्षयुक्ता दितिः पुनः। जगाद तं सुखार्थाय योगिवंद्यं प्रजापते ॥६॥ दितिरुवाच। विघ्नराजावतारस्य चरितं पुनरादरात्। वद मे मुनिमुख्य त्वं ज्ञानं तस्य तथा परम् ॥७॥ कश्यप उवाच। धर्मघ्नस्य च पुत्रोऽभूद्यज्ञध्रुङ्नाम- कोऽसुरः। स शैवीं साधयामासोपासनां पापनिश्चयः ॥८॥ पंचाक्षरविधानेन तोषयामास शंकरम्। दिव्यैर्वर्षसहस्रैस्तं वरदः शंकरो ययौ ॥९॥ स्तुतः संपूजितस्तेन प्रसन्नस्तमुवाच ह। वरान् वरय दास्यामि तपसा तोषितोऽसुर ॥१०॥ स वव्रे त्रिगुणेभ्यो मे मरणं न भवेत् कदा। राज्यमारोग्यसंयुक्तं ब्रह्मांडस्य च देहि भोः॥११॥ यद्यदिच्छामि देवेश तत्तन् मे सफलं भवेत्। तथेति तं जगादैव शंकरोऽंतर्हितोऽभवत् ॥१२॥ ततः स्वगृहमागत्य दैत्यराजो बभूव ह। यज्ञध्रुक् सैन्य- मादाय जिग्ये ब्रह्मांडमोजसा ॥१३॥ देवाः शंभुमुखाः सर्वे प्रपेलुश्च दिशो दश। तेषां पदेषु दैत्येन्द्रान् स्थापयामास यज्ञहा ॥१४॥ ततो यज्ञविनाशार्थं यतते स्म विशेषतः। यज्ञहा क्रोधसंयुक्तो मुनीन् सर्वानताडयत् ॥१५॥ त्यक्त्वा मुनि- गणा यज्ञान् प्रपेलुर्भयसंयुताः। वर्णसंकरभावं च चकार सचराचरम् ॥१६॥ ततो विष्णुविनाशार्थं यतते स्म महाखलः। देवानां मूलनाशार्थं दैत्यः परमदारुणैः ॥१७॥ यज्ञो विष्णुः समाख्यातो वेदेषु वेदवादिभिः। यज्ञनाशे स्वयं नष्टो भवि-

[Header] खं. ७ अ. १२ | पान २७


ष्यति जनार्दनः ॥१८॥ एवं विचार्य दैत्येशो यज्ञान् सर्वान् बभंज ह। यज्ञहीनं चकारैव त्रैलोक्यं सचराचरम् ॥१९॥ ततो विष्णुः क्षुधाविष्टो बभूवे देवसंयुतः। अस्थिचर्मावशेषश्च सस्मार गणनायकम् ॥२०॥ रक्ष मां गणनाथ त्वं दैत्यात् परमदारुणात् । मरिष्यामि न संदेहो यज्ञनाशप्रभावतः ॥२१॥ देवैः सार्धं महाविष्णुस्तताप तप उत्तमम्। एकाक्षरविधा- नेन तोषयामास विघ्नपम् ॥२२॥ गते वर्षशते पूर्णे तं ययौ गणनायकः। स्तुतः संपूजितः सर्वैः प्रसन्नो वरदोऽभवत् ॥२३॥ तैर्वृतो दैत्यनाशार्थं तथेति क्रोधसंयुतः । तान् जगाद ययौ हंतुं यज्ञघ्नं देवपैर्वृतः ॥२४॥ कृत्वा युद्धं महाघोरं जघानांकुश- घाततः। यज्ञघ्नं मुक्तिगं चक्रे दैत्यान् पातालगामिनः ॥२५॥ ततः स देवसंयुक्तो विष्णुर्मुनिगणैस्तथा । तुष्टाव सुस्थिरो भूत्वा पूज्य नत्वा कृतांजलिः ॥२६॥ श्रीविष्णुरुवाच । नमस्ते विघ्नराजाय विघ्नानां विघ्नकारिणे । महाविघ्नप्रशांताय देवदेवेश ते नमः ॥२७॥ अनादये परेशाय सर्वाऽऽदौ संस्तुताय च। सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥२८॥ विनायकाय सर्वेषां नायकाय परात्पर। ढुंढिराजाय वेदादिढुंढिताय नमो नमः ॥२९॥ सर्वेभ्यः स्वस्वरूपेण सुखदाय परात्मने । आनंदायाप्रमेयाय ब्रह्मणे ते नमो नमः ॥३०॥ गणानां पतये तुभ्यं नानागणस्वरूपिणे। सदा स्वानंदनाथाय सिद्धिवृद्धि- पते नमः ॥३१॥ ब्रह्मणे विष्णवे तुभ्यं शक्तये शंकराय च। इंद्रादिदेवरूपाय कलया ते नमो नमः ॥३२॥ मुनये क्षेत्ररूपाय वैश्याय शूद्ररूपिणे । पशुपक्ष्यादिरूपाय वर्णाश्रमयुजे नमः ॥३३॥ नागाय सुरूपाय राक्षसाय विहारिणे । चराचर- मयायैव शूर्पकर्णाय ते नमः ॥३४॥ त्रिनेत्राय त्रिशूलस्य धारकाय च चक्रिणे । पाशांकुशधरायैव हेरंबाय नमो नमः ॥३५॥ नमस्ते परेशाय सर्वात्मकाय सदा बोधरूपाय नैरंजनाय। अयोगाय संयोगमायाधराय जनेभ्यः सुशांतिप्रदायाथ धाम्ने ॥३६॥ किं स्तौमि त्वां गणाधीश यत्र वेदाश्च योगिनः। विसिस्मिरे सुशांतिस्थाः शांतिरूपाय ते नमः ॥३७॥ यज्ञहा निहतः स्वामिंस्तेन देवर्षयो वयम् । रक्षिताः सर्वभावेन प्राणदातंर्नमो नमः ॥३८॥ भक्तिं देहि गणाधीश तव पादांबुजे- ऽमलाम् । तया वयं च योगेश बंधहीना भवामहे ॥३९॥ एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः । तांस्तथेति जगादैवां- ऽतर्दधे शूर्पकर्णकः ॥४०॥ तत्र मूर्तिं समास्थाय शूर्पकर्णस्य सर्वदाम् । पूज्य स्वस्थानगाः सर्वे बभूवुर्विगतज्वराः ॥४१॥ स्वस्वाचारसमायुक्तं बभूव ह चराचरम् । एवं चकार विघ्नेशो नानादैत्यविहिंसनम् ॥४२॥ अवतारा असंख्याता विघ्न- राजस्य शोभने । तेषां वक्तुं चरित्राणि न समर्थाः शिवादयः ॥४३॥ संक्षेपेण मया तस्याऽवताराः कथिताः पराः।

खं. ७ अ. १३ | पान २८

भजस्व तं विधानेन तदा शांतिमवाप्स्यसि ॥४४॥ रजोयुक्तं यथा धान्यं रजोहीनं करोति च। नरैः संसाधितं शूर्पं योग्यं भोजनकादिषु ॥४५॥ तथा मायाविकारेण युक्तं ब्रह्म न लभ्यते। त्यक्त्वोपासनकं तस्य शूर्पकर्णस्य सुंदरि ॥४६॥ शूर्पकर्णं समाश्रुत्य मलं त्यक्त्वा हृदि स्थितम् । ब्रह्मैव नरजातिस्थः शूर्पकर्णस्ततः स्मृतः ॥४७॥ ब्रह्मदः शूर्पवत् हृत्स्थो वेदेषु कथितो भवेत्। तं भजस्व विधानेन शांतियुक्ता भविष्यसि ॥४८॥ शूर्पकर्णावतारस्य कथितं चरितं मया। यज्ञघ्नस्य वधार्थाय बभूवे देहधारकः ॥४९॥ य इदं शृणुयाद्वाऽपि पठेद्वा पाठयेन्नरः। स मानसेप्सितं लब्ध्वा सुखी भवेन्निरंतरम् ॥५०॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते शूर्पकर्णावतारवर्णनं नाम द्वादशोऽध्यायः ॥

॥ श्रीगणेशाय नमः॥ कश्यप उवाच। एकदा माघमासे तु मकरस्थे दिवाकरे। तीर्थानि देवविप्राद्याः प्रयागं जग्मुरादरात् ॥१॥ सर्वे संहृष्टभावस्था माघस्नानपरायणाः। ओंकारगणनाथं ते पुपूजुर्भक्तिसंयुताः ॥२॥ ततः शूलभृतं पूज्य तत्रस्थं माधवं प्रिये। त्रिवेणीं भावसंयुक्ताः कथां चक्रुः पुरातनीम् ॥३॥ अम्रंस्तन्त्राऽऽजगामैव दत्तो योगींद्रसत्तमः। अवधूतस्य मार्गस्य प्रकाशक उदाहृतः ॥४॥ गाणेशं ब्रह्मपं ब्रह्म परं सर्वार्थदायकम्। ओंकारगणनाथं स प्रणम्य स्तोत्रमारभत् ॥५॥ तत् दृष्ट्वा परमाश्चर्यमाययुस्तं शिवादयः। योगिनः कश्यपाद्याश्चाऽन्ये देवादय आदरात् ॥६॥ तं प्रणम्य स्थिताः सर्वे योगींद्रं ब्रह्म तत्परम्। गणेशभजने सक्तं दृष्ट्वा पप्रच्छुरादरात् ॥७॥ शिवादय ऊचुः । भगवन् सर्वतत्त्वज्ञ ब्रह्मभूतपरायण । साक्षाद्ब्रह्मशरीरस्त्वं समागतो यदृच्छया ॥८॥ अवधूतस्य मार्गस्य प्रकाशार्थं विशेषतः। देहधारी भवान्नाथ पावनाय शरीरिणाम् ॥९॥ तव दर्शनमात्रेण कृतकृत्या वयं प्रभो। जाताः कुल्युताः स्वामिन् बोधयस्व मुनीन् सुरान् ॥१०॥ एवं विनयसंयुक्तैः स्तुतः पृष्टो महामुनिः। जगाद तान् महाभागान् हर्षेण महताऽऽवृतः ॥११॥ दत्तात्रेय उवाच। ब्रह्मविष्णुशिवा- द्याश्चांगिराद्या मुनयोऽमलाः। शेषाद्या नागराजाश्च शृणुध्वं मे वचो हितम् ॥१२॥ ब्रह्मेदं सर्वमाभाति तं भजध्वं हिताय वः। समर्था ब्रह्मभूताश्च भविष्यथ न संशयः ॥१३॥ तस्य तद्वचनं श्रुत्वा पुनः सर्वे जगुर्वचः। हर्षेण योगिवंद्यं तं कृत्वा

खं. ७ अ. १३ पान २९ करपुटं प्रिये ॥१४॥ शिवाया ऊचुः । ब्रह्मणि ब्रह्मभूतस्त्वं गणेशं भजसे कथम् । नामरूपधरं देवमोंकाराकृतिधारकम् ॥१५॥ अस्माकं कुलदेवोऽयं त्रिगुणात्मशरीरिणाम् । मूलभूतो न संदेहो योगिनां कथमंजसा ॥१६॥ तेषां तद्वचनं श्रुत्वा स्मयमानो महायशाः । दत्तो जगाद हर्षेण ज्ञानदानार्थमादरात् ॥१७॥ दत्त उवाच । गणेशो ब्रह्मणां नाथो वेदेषु परिकीर्तितः । ब्रह्म नानाविधं तद्वत् कथितं मायया युतम् ॥१८॥ अन्नं ब्रह्मेति देवेशा मुनयः शृणुत प्रियाः । तत्रान्नमयरूपा तु माया मोहकरी बभौ ॥१९॥ प्राणो ब्रह्मेति तत्रैव प्राणाकारविमोहिनी । माया मनोमयी तद्वन् मनो ब्रह्मणि संस्थिता ॥२०॥ विज्ञानं ब्रह्म तत्रेयं माया विज्ञानरूपिणी । आनंदं ब्रह्म यत् प्रोक्तं युतमानंदमायया ॥२१॥ चैतन्यं ब्रह्म यत् प्रोक्तं माया चेतनरूपिणी । बिंदुब्रह्मेति तत्रैव माया बिंदुमयी बभौ ॥२२॥ सोऽहं ब्रह्मेति यत्रेयं माया सोऽहं प्रकाशिनी । बोधो ब्रह्मेति बोधाख्या माया तत्र विमोहिनी ॥२३॥ विदेहं ब्रह्म यत् प्रोक्तं माया वै देहरूपिणी । तया तत्र महादेवा भ्रमंति ब्रह्ममानिनः ॥२४॥ कर्म ब्रह्मेति कर्माख्या माया तत्र विमोहिनी । ज्ञानं ब्रह्मेति तद्वत्तु ज्ञानमायायुतं बभौ ॥२५॥ समं ब्रह्मेति तत्रैव माया समस्वरूपिणी । सहजं ब्रह्म यत् प्रोक्तं सहजाख्यविकारदम् ॥२६॥ असद्ब्रह्मेति यत् प्रोक्तं तत्रासन्मायया युतम् । सद्ब्रह्मेति सदाकारमायायुक्तं प्रकीर्तितम् ॥२७॥ सदसन्मयभावाख्यं ब्रह्म प्रोक्तं मुनीश्वराः । उभयात्मविकारेण ज्ञातव्यं संयुतं सदा ॥२८॥ अव्यक्तं ब्रह्म यत् प्रोक्तं युतमव्यक्तमायया । स्वसंवेद्यं परं ब्रह्म युतं स्वानंदमायया ॥२९॥ आत्मा- द्वयैकसर्वाख्याद्याः शब्दाः परिकीर्तिताः । महावाक्यादिभिस्ते तु तत्तन्मायाप्रकाशकाः ॥३०॥ शिवविष्णुमुखाः शब्दा ब्रह्मवाच्याः प्रकीर्तिताः । तत्तद्विकारसंयुक्तान् जानीत देवसत्तमाः ॥३१॥ पृथिवी जलादितत्त्वानि ब्रह्मणां वाचकानि तु । तत्तद्विकारयुक्तानि जानीत देवसत्तमाः ॥३२॥ एवं नानाविधान्येव ब्रह्माणि कथितानि च । वेदादिषु समस्तानि माया- मोहयुतानि तु ॥३३॥ तेषां स्वामिस्वरूपेण तिष्ठति ब्रह्मणस्पतिः । ब्रह्मणां पातृभावाच्च पालयितृत्वकारणात् ॥३४॥ स एवायं गणाध्यक्षो वेदेषु कथितोऽभवत् । ब्रह्मभूयमयः साक्षात्तं भजामि द्विजोत्तमाः ॥३५॥ उत्पत्तिनाशहीनं यद् गजाख्यं ब्रह्म चक्षते । सांख्यं शिरो गणेशस्य गजानन इति स्मृतः ॥३६॥ भूमिसोधनभावेन भवेत् ब्रह्मणि तन्मयः । देहस्तस्य च योगाख्यो नानाभूमिप्रधारणात् ॥३७॥ तयोर्योगे गणेशानो देहधारी बभूव ह । सांख्ये योगमयः साक्षात् पूर्णशांतिप्रदायकः ॥३८॥ संयोगेऽयं गकाराख्यो ह्ययोगे णमयः स्मृतः । तयोरीशो गणेशानो नामाऽयं वेदवादतः ॥३९॥

शीर्षक: खं. ७ अ. १३ पान ३०


पाठः पंचचित्तमयी बुद्धिर्दक्षिणांगं बभूव ह । पंचभ्रांतिकरी सिद्धिर्वामांगं तस्य सर्वदा ॥४०॥ तयोः स्वामी गणाध्यक्षो मायाभ्यामत्र खेलति । चित्ते चिंतामणिः साक्षात् प्रकाशकारकस्तयोः ॥४१॥ समोहं चित्तमुत्सृज्य योगींद्रो जायते नरः । तं भजामि विशेषेण चित्तचालनकारकम् ॥४२॥ कृतानि सिद्धिवृद्धिभ्यां ब्रह्माणि सकलानि वै । तानि त्यक्त्वा कथं ब्रह्म लभ्यते मानवैः परम् ॥४३॥ अतोऽयं देहभृद्भूत्वा भक्तमार्गप्रदायकः । सुलभत्वाय देवेशा परो जानीत संस्थितः ॥४४॥ तस्य तद्वचनं श्रुत्वा वसिष्ठस्तमुवाच ह । संशयस्य विनाशार्थं सर्वैः संप्रेरितो वचः ॥४५॥ वसिष्ठ उवाच । ब्रह्म ब्रह्मैव वेदेषु कथितं सर्वसंमतम् । ब्रह्मणस्पतिरेकोऽयं पतिस्तत्र कथं मुने ॥४६॥ पतिरूपा महामाया गणेशे संस्थिताऽभवत् । यथाऽन्नादिविकारस्थं ब्रह्म तद्वदयं मतः ॥४७॥ वसिष्ठस्य वचः श्रुत्वा दत्तो हर्षसमन्वितः । जगाद तं विशेषज्ञं योगींद्रः परमार्थवित् ॥४८॥ अन्नप्राणादियुक्तानि ब्रह्माणि रचितानि तु । गणेशेन महायोगिंस्तेनायं पति- रुच्यते ॥४९॥ ब्रह्मभिः कथितश्चायं पतिस्तेषां न संशयः । स्वयं ब्रह्मैव तन्नाशे तथाऽपि पातृभावतः ॥५०॥ अन्नप्राणादि- कान्येव विकारान् संत्यजंति च । ब्रह्माणि ब्रह्मभूतानि भविष्यंत्यस्य सेवनात् ॥५१॥ ब्रह्माणि ब्रह्माणि यदि चेद्गतानि महामुने । पतिः केषां गणेशानः कथ्यते कैर्वदाशु मे ॥५२॥ अतो मायाविकारेण हीनोऽयं गणनायकः । ब्रह्मैवोपास्य- भावात्तु पतित्वं कथनात्मकम् ॥५३॥ इति तस्य वचः श्रुत्वा पुनस्तं नारदोऽब्रवीत् । योगींद्रं भावबोधार्थमवधूतम- कल्मषम् ॥५४॥ नारद उवाच । गणेशो त्वं महायोगिंस्तदाकारो न संशयः । अहं दत्तोऽयमेकश्च गणेशः कुत्र वर्तते ॥५५॥ न भिन्नश्चेन् महाभाग भजसे कं पुरः स्थितम् । इमं मे संशयं छिंधि सर्वज्ञोऽसि महामते ॥५६॥ दत्त उवाच । देहोऽयं नरतुल्यो मे करोति कर्म नित्यदा । शुभाशुभं विशेषेण नामरूपविकारतः ॥५७॥ ब्रह्म सर्वत्र विप्रेश तन्मयं नात्र संशयः । सत्ता न्यूनाधिका भाति विचारय विचक्षण ॥५८॥ ब्रह्मणस्पतिशब्दाख्या सत्ता गणपतौ स्थिता । नान्यत्र शंभुविष्णुवादि भावेषु पश्य मानद ॥५९॥ अतः प्रत्यक्षचित्तस्थं ब्रह्म विघ्नेशवाचकम् । दृष्ट्वा तन्न भजेत् कोऽपि ब्रह्मभूयपरः कथम् ॥६०॥ अतो देहधरोऽहं तु ब्रह्माकारो गणेश्वरः । तं भजामि विशेषेण देहचेष्टापरायणः ॥६१॥ देहः क्रियात्मकः प्रोक्तश्चित्तं चिंतनकारकम् । स्वभावेन यथाऽन्यद्वै करोति चिंतनादिकम् ॥६२॥ तथा गणेश्वरं मेऽत्र देहश्चित्तं भजेत् ध्रुवम् । तयोः प्रकाशकं ब्रह्म कथं भजेद्गजाननम् ॥६३॥ ब्रह्म ब्रह्मैव संजातं तदाकारं मदीय कम् । देहश्चित्तं भजेत्तं वै स्वप्रकाशकरं

[शीर्षक: खं ७ अ. १४ | पान ३१]

सदा ॥६४॥ अनेन योगमार्गेण भजामि गणनायकम् । न भिन्नोऽहं गणेशानात् कं पृच्छसि विचारय ॥६५॥ यथा करोमि नित्यं तु भक्षणादिकमादरात् । तथा गणेश्वरं तात भजामि भक्तिसंयुक्तः ॥६६॥ नाऽहं भोक्ता खदेहस्थस्तथा मां विद्धि देहगम् । न भक्तं गणराजस्य देहधर्मः प्रवर्तते ॥६७॥ ब्रह्मणि ब्रह्मभूतो यो न भजेद्गणनायकम् । तथाऽपि देहचित्तेऽन्यत् करिष्यतः स्वभावतः ॥६८॥ न मुख्यो ब्रह्मभूतेषु योगिषु भक्त उच्यते । श्रेष्ठस्तस्माद्गणेशानं भजामि हर्षसंयुतः ॥६९॥ अनायासेन चित्तस्थं देहस्थं ब्रह्म प्राप्य यः । दृष्ट्वा तं न भजेत् सोऽपि ब्रह्मघ्नः परिकीर्तितः ॥७०॥ गणेशं मूर्तिगं दृष्ट्वा योगेशं शांतिदायकम् । कस्य योगिजनस्यात्र प्रीतिः सद्यो न जायते ॥७१॥ इति तस्य वचः श्रुत्वा हर्षयुक्ताः शिवादयः । नारदाद्याः प्रणेमुस्तं विस्मितास्तस्य चेष्टितैः ॥७२॥ जगुस्तं हर्षसंयुक्ता वयं संशयवर्जिताः । कृतास्त्वया महाभाग एकमार्गपरायणाः ॥७३॥ नानामतविभेदेन भ्रांतियुक्ता भ्रमंति तु । त्यक्त्वा गणेश्वरं पूर्णं सर्वपूज्यं महामुने ॥७४॥ भ्रांतिनाशार्थमत्यंतं भवान् विघ्नेश्वरेण च । निर्मितो योगमार्गज्ञः सर्वशांतिप्रदायकः ॥७५॥ एवं तैः संस्तुतो दत्तः प्रहस्य प्रययौ ततः । शिवादयो वसिष्ठाद्याः स्वालयं प्रययुः प्रिये ॥७६॥ सर्वसारं समाख्यातां गीतां दत्तमुखाच्च्युताम् । पठना- च्छ्रवणात्नृभ्यः शांतिदां सर्वसिद्धिदाम् ॥७७॥ कश्यपस्य वचः श्रुत्वा हर्षिता तं प्रणम्य सा । जगाद भावगंभीरा दितिर्विघ्नेश्वरे रता ॥७८॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते दत्तगीतावर्णनं नाम त्रयोदशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दितिरुवाच । गणेशस्य महाभाग वदोपासनकं प्रभो । तेन विघ्नेश्वरं भक्त्या भजिष्यामि निरं- तरम् ॥१॥ मुद्गल उवाच । एवं पृष्टो महायोगी दित्या तस्यै ददौ मनुम् । दशाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥२॥ सा तं प्रणम्य योगींद्रं कश्यपं प्रययौ ततः । वनं वृक्षादिसंयुक्तं तपस्तत्र तताप वै ॥३॥ निराहारेण संयुक्ता गणेश- ध्यानतत्परा । नासाग्रन्यस्तदृष्टिः सा मंत्रजापं चकार च ॥४॥ त्यक्त्वा सर्वां कामनां सा दितिर्विघ्नेश्वरे रता । तपः-

प्रभावयोगेन भ्रांतिहीनाऽभवद्द्विधे ॥५॥ पुत्रपौत्रादिके भावे रसहीना बभूव ह। योगेप्सुः पूर्णभावेनाऽभजत्तं द्विरदान- नम् ॥६॥ एवं वर्षसहस्रेण योगभूतिपरायणा। शांतियोगं समासाद्य योगिवंद्या बभूव सा ॥७॥ तथा सा दत्तमार्गं तं दितिः सस्मार चेतसि । भक्त्या विघ्नेश्वरं देवी न मुमोच कदाचन ॥८॥ ततः प्रसन्नभावेन तां ययौ गणनायकः। जगादाऽसौ वरान् ब्रूहि ध्यानस्थां मनसेप्सितान् ॥९॥ गणेशवचनं श्रुत्वा दितिर्हर्षसमन्विता । उत्थाय तं नमस्कृत्य पूजयामास भक्तितः ॥१०॥ पुनः प्रणम्य विघ्नेशं सा तुष्टाव कृतांजलिः । गणेशं दक्ष ते पुत्री दितिः साश्रुमुखांबुजा ॥११॥ दितिरुवाच । नमस्ते विघ्नराजाय भक्तविघ्नविदारण। अभक्तेभ्यो महाविघ्नप्रदाय तु नमो नमः ॥१२॥ काश्यपाय परेशाय विनायकाय ढुंढये। लंबोदराय ते सर्वभोगभोक्त्रे नमो नमः ॥१३॥ दीनानां पतये तुभ्यं दीनदीनाय ते नमः। दीनपालक- नाथाय हेरंबाय नमो नमः ॥१४॥ परेशाय गणेशाय परात्परतमाय ते । परात्पराणां कर्त्रे ते महोदराय वै नमः ॥१५॥ अनादये च सर्वेषामादिमूर्तिधराय च । आदिपूज्याय सर्वेषामंतःस्थाय नमो नमः ॥१६॥ शिवपुत्राय विष्णोश्च पुत्राय परमात्मने । वरेण्यसूनवे तुभ्यं शेषपुत्राय ते नमः ॥१७॥ सर्वपूज्याय ज्येष्ठाय ज्येष्ठानां ज्येष्ठमूर्तये । ज्येष्ठराजत- मायैव मात्रे पित्रे नमो नमः ॥१८॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणां ब्रह्मरूपायैकदंताय नमो नमः ॥१९॥ गजाननाय देवायासुराय समभाविने। योगाकाराय योगिभ्यो योगदाय नमो नमः ॥२०॥ किं स्तौमि त्वां गणाधीश शांतीनां शांतिरूपिणम् । वेदादयः शिवायाश्च यत्र शांतिं प्रलेभिरे ॥२१॥ अतस्त्वां प्रणमाम्येव सर्वेशं तेन विघ्नप । संतुष्टो भव मे भक्त्या स्वल्पया नाथ ते नमः ॥२२॥ यदि त्वं वरदो मेऽसि तदा मे पुत्र आदरात् । भव स्वामिन् दयासिंधो तेनाऽहं तारिता त्वया ॥२३॥ आसुरी प्रकृतिः प्रोक्ता वेदेषु द्विरदानन । साऽहं कया महाभक्त्या भजिष्यामि निरंतरम् ॥२४॥ त्वं मे पुत्रो यदा नाथ भविष्यसि सुसिद्धिदः । तव मातुः कथं मायामयो बंधः कदाचन ॥२५॥ भक्तिं त्वच्चरणे ढुंढे देहि नित्यं विशेषतः । आसुरीं बधहीनां मां कुरुष्व त्वत्पदप्रियाम् ॥२६॥ एवमुक्त्वा गणाधीशं ननाम दक्षनंदिनी। दितिस्तां गणराजश्च जगाद हर्षसंयुतः ॥२७॥ विघ्नेश उवाच। त्वया कृतमिदं स्तोत्रं मदीयं मत्प्रियं भवेत् । पठते शृण्वते देवि सर्वसिद्धिप्रदायकम् ॥२८॥ तव पुत्रो भविष्यामि आसुरीभावनाशकः । त्वं भजिष्यसि मां नित्यं भक्त्या भावपरायणा ॥२९॥ एवमुक्त्वाऽन्तर्दधेऽसौ विघ्नेशो ब्रह्मनायकः । दितिः स्वगृहमागत्य प्रणनाम पतिं

खं. ७ अ. १५ पान ३३ स्वकम् ॥३०॥ वृत्तांतं कथयामास कश्यपो हर्षितोऽभवत् । श्रुत्वा तां स समालिंग्य जगाद साश्रुलोचनः ॥३१॥ कश्यप उवाच । धन्याऽसि कृतकृत्याऽसि सफलस्ते भवो मतः । यया दृष्टो गणाध्यक्षः सर्वेभ्यः शांतिदायकः ॥३२॥ अहो ते ससुतो देवि असुर्याः प्रभविष्यति । महद्भाग्यं गणाधीशो योगिवंद्या त्वमंजसा ॥३३ तारितोऽहं त्वया नूनं सुप्रिया गणपे रतः । धन्यं मे जन्मकर्मादि आसुरी स्वहिते रता ॥३४॥ एवमुक्त्वा दितिं विप्रः कश्यपो विरराम ह । दितिः प्रणम्य तं विप्रं सेवायां संस्थिताऽभवत् ॥३५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते दितिवरप्रदानं नाम चतुर्दशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततः सा गणनाथं तं सस्मार हृदि सर्वदा । तन्मयं विश्वमेवेदमलोकयदशेषतः ॥१॥ एकदा माघमासे तु शुक्लपक्षे गजाननम् । पुपूज मध्यगे भानौ चतुर्थ्यां मूर्तिगं परम् ॥२॥ मूर्तिमध्याद्गणाधीशः प्रकटो- भूच्चतुर्भुजः । अनंतसूर्यसंकाशतेजोयुक्तः प्रजापते ॥३॥ तं दृष्ट्वा भयभीता सा सस्मार हृदि कश्यपम् । स्वगुरुं तं तथा देवं गणेशं भक्तिसंयुता ॥४॥ गुरोः स्मरणमात्रेण गणेशः सौम्यरूपधृक् । बालरूपो दितिं देवीं जगाद मेघनिःस्वनः ॥५॥ श्रीगणेश उवाच । पुत्रोऽहं ते महाभागे वरदानप्रभावतः । मा भयं कुरु कल्याणि पश्य मां सौम्यरूपिणम् ॥६॥ ततः सोन्मील्य चक्षुस्तं पश्यति स्म भयातुरा । बालं चतुर्भुजं देवं शुंडादंडधरं परम् ॥७॥ परश्वादिमहास्त्रैश्च संयुक्तं चंद्रशेखरम् । लंबोदरं चैकदंतं शेषनाभिसमायुतम् ॥८॥ शूर्पकर्णं त्रिनेत्रं तु नानाभूषणभूषितम् । अमूल्यवस्त्रसंयुक्तं गले चिंतामणिं धरम् ॥९॥ दृष्ट्वा तं प्रणनामैव कश्यपेन समन्विता । तुष्टावाऽऽपूज्य विघ्नेशमथर्वशिरसा विभुम् ॥१०॥ ततस्तं कश्यपो नत्वा प्रार्थयामास शांतिदम् । बालरूपो भव स्वामिन् येन ते लालनं भवेत् ॥११॥ धन्योऽहं कृतकृत्योऽहं मत्समो न प्रविद्यते । मम त्वं येन पुत्रोऽभूद्ब्रह्मणां गणनायकः ॥१२॥ यस्य रोमांवरंध्रेषु ब्रह्मांडानां हि कोटयः । कथं स मम पुत्रत्वं प्राप्तोऽसीति विडंबनम् ॥१३॥ एवं संप्रार्थितस्तेन दित्या सोऽपि तथाऽभवत् । चतुर्भुजधरो बालो बभूवे तत्क्षणात् स्वयम् ॥१४॥

तं प्रणम्य गणाधीशं कश्यपो हर्षसंयुक्तः । दित्या कर्मपरो भूत्वा ब्राह्मणांश्च समाह्वयत् ॥१५॥ ततश्चतुर्भुजेनैव मायाऽऽक्षिप्ता तयोर्हृदि । पुत्रभावप्रकाशार्थं तथा तौ संबभूवतुः ॥१६॥ स्नापयित्वा दितिर्बालं स्तनपानमकारयत् । जातकर्म चकारैव कश्यपो हर्षसंयुक्तः ॥१७॥ द्वादशेऽह्नि द्विजास्तत्र नामकर्मार्थमाययुः । पूजिताः कश्यपेनैव तमूचुर्हर्षसंयुताः ॥१८॥ स्वर्गेषु देवपांश्चाऽयं नरान् पृथ्व्यां तथा तले । असुरान् नागकूमांदीन् स्थापयिष्यति बालकः ॥१९॥ तत्त्वानि चालयन् विप्र तस्मान्नाम्ना चतुर्भुजः । चतुर्णां विविधानां च स्थापकोऽयं मतो बुधैः ॥२०॥ मुद्गल उवाच । ततो वर्षे द्वितीयेऽस्य प्रह्लादप्रमुखाः परे । प्रपेलुर्हन्यमानास्तैर्देवैर्विष्णुमुखैर्विधे ॥२१॥ सर्वं त्यक्त्वाऽसुरेशानाः पातालं विविशुर्भयात् । देवानां च स्वयं विष्णुः क्रोधयुक्तो बभूव ह ॥२२॥ इंद्राद्यैः सहितः सोऽपि सन्नद्धश्चक्रसंयुतः । आययौ दैत्यनाशार्थं पातालेषु महाबलः ॥२३॥ चक्रं तत्याज देवेशस्तेन दैत्या मृता मृधे । केचिद् दुःखसमायुक्ताः प्रपेलुश्छिन्नदेहकाः ॥२४॥ शरणं केशवं चैव केचिज्जग्मुः प्रजापते । तथापि तान् महाविष्णुर्जघान क्रोधसंयुतः ॥२५॥ असुरैर्विगतं विश्वं कर्तुं चैव समुद्यतः । दैत्येंद्रा भयसंयुक्ता दितिं ययुः शरण्यदाम् ॥२६॥ छिन्नभिन्नकृतांगांस्तान् दितिर्दृष्ट्वा शुशोच ह । ततः क्रोधयुतः सोऽपि बभूवे गणनायकः ॥२७॥ तत्याज परशुं तीक्ष्णं देवान् हन्तुं चतुर्भुजः । परशोस्तेजसा सर्वं व्याप्तं पातालमंडलम् ॥२८॥ व्यर्थरूपाणि शस्त्राणि चक्रादीन्यभवन् मृधे । देवा दाहसमायुक्ताः प्रपेलुश्च दिशो दश ॥२९॥ ततस्तत्र ययौ ब्रह्मा बोधयामास केशवम् । पातालं त्यज्य सर्वे ते ययुः स्वर्गं भयान्विताः ॥३०॥ परशोस्तेजसा तत्र संदग्धा इव देवपाः । न शांतिं प्रलभंते स्म हाहाकाररवाकुलाः ॥३१॥ ततः शंभू रविर्ब्रह्मा केशवस्तुष्टुवुः परम् । परशुं भयसंयुक्ता देवैर्मुनिगणैः सह ॥३२॥ शांतियुक्तं महास्त्रं तद्बभूवे च प्रजापते । ततो देवेंद्रकाः सर्वे चतुर्भुजं ययुः पुरा ॥३३॥ तं प्रणम्य भयोद्विग्ना मुनिभिर्देवनायकाः । नत्वाऽऽपूज्य गणेशानं तुष्टुवुः करसंपुटाः ॥३४॥ देवर्षय ऊचुः । नमस्ते काश्यपायैव चतुर्भुजाय ढुंढये । अनादये गणेशाय विघ्नेशाय नमो नमः ॥३५॥ परेशाय परेषां च पतये परमात्मने । विनायकाय विप्रेभ्यो वरदाय नमो नमः ॥३६॥ लंबोदराय सर्वेषामुदरस्थाय ते नमः । महोदराय ज्येष्ठाय ब्राह्मणाय नमो नमः ॥३७॥ क्षत्राणां क्षात्रधर्माय वैश्यानां वैश्यरूपिणे । शूद्राणां शूद्रधर्माय वर्णहीनाय ते नमः ॥३८॥ गृहस्थानां गृहस्थाय ब्रह्मचर्याय सर्वप । ब्रह्मचारिस्वरूपाणां वनस्थानां तदात्मने ॥३९॥ न्यासिनां न्यासधर्मायाश्रमहीनाय ते नमः । चतुर्षु ते पंचमाय

[खं. ७ अ. १५] [पान ३५]

हेरंबाय नमो नमः ॥४०॥ स्वानंदवासिने तुभ्यं सिद्धिबुद्धिवराय च । एकदंताय देवायासुराय ते नमो नमः ॥४१॥ अनाथानामनाथाय सनाथानां सनाथक । ईश्वराणां महेशाय विष्णवे ते नमो नमः ॥४२॥ ब्रह्मणे भानवे तुभ्यं शक्तये सर्वरूपिणे । देवादिभ्यः प्रदात्रे ते पदानां वै नमो नमः ॥४३॥ किं स्तुमस्त्वां चतुर्णां च चालकं स्वभुजैः परम् । अतस्त्वां प्रणमामो वै चतुर्भुज प्रसीद नः ॥४४॥ एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः । स तानुवाच प्रीतात्मा भक्तान् भक्तजनप्रियः ॥४५॥ चतुर्भुज उवाच । वरान् ब्रूत महादेवा मुनयो मत्त ईप्सितान् । दास्यामि स्तोत्रतुष्टोऽहं भवतां भयवर्जिताः ॥४६॥ स्तोत्रं भवत्कृतं देवाः सर्वसिद्धिप्रदं भवेत् । पठतां शृण्वतां चैव भयनाशकरं परम् ॥४७॥ विशेषतः पुत्रपौत्रादिकं सर्वं लभेन्नरः । धनधान्यादिकं चांते मल्लोकं पठनात् परम् ॥४८॥ एवं तस्य वचः श्रुत्वा देवा मुनिसमन्विताः । भयहीनाः प्रणेमुस्तं जगुर्हर्षसमन्विताः ॥४९॥ देवर्षय ऊचुः । यदि प्रसन्नभावेन वरदोऽसि चतुर्भुज । तदा ते पादपद्मे वै भक्तिरस्तु निरंतरम् ॥५०॥ आज्ञां कुरु महाभाग तथा वर्तामहे वयम् । दितिजदैत्यसंत्रासतापिताः सततं वयम् ॥५१॥ चतुर्भुज उवाच । अद्य प्रभृति देवेशाः पातालस्थान् महासुरान् । मा हिंस्यथ महाभागा मया संस्थापितान् पुरा ॥५२॥ स्वर्गेषु चामरस्थानं पृथिव्यां च नृणां सदा । पाताले दानवादीनां स्वधर्मस्था भवंतु ते ॥५३॥ यदि भूत्वा विपथगा इमे गर्वेण मोहिताः । सिद्धिर्न भविता तेषां मद्वाक्यान्नात्र संशयः ॥५४॥ तथेति तं प्रणम्यैव देवाः स्वस्थानमाययुः । तदादि दानवान् देवा न जघ्नुः स्थलसंश्रितान् ॥५५॥ चतुर्भुजश्च दैत्येंद्रान् सर्वानाज्ञापयत् प्रभुः । ते तथेति तमुच्चार्य हर्षिताः स्वस्थलं ययुः ॥५६॥ ततश्चतुर्भुजो देवोऽंतर्दधे च प्रजापते । कश्यपो दितिसंयुक्तः शुशोच तमनुस्मरन् ॥५७॥ पितरौ वाक्यमूचे सा वाणी चाऽकाशसंभवा । स्थाप्य मूर्तिं गणेशस्य भजतं नित्यमादरात् ॥५८॥ तथा चकार दित्या स कश्यपो ब्राह्मणैः सह । स्थापयामास मूर्तिं वै चतुर्भुजस्य सर्वदाम् ॥५९॥ हृदि चिंतामणिं ध्यात्वा बहिः पूज्य चतुर्भुजम् । संस्थितौ भक्तियुक्तौ दितिकश्यपकौ किल ॥६०॥ आसुरं भावमुत्सृज्य दितिर्भक्तिसमन्विता । गाणपत्यस्वभावेनाऽभजत्तं तु चतुर्भुजम् ॥६१॥ एतच्चतुर्भुजस्यैव चरितं कथितं मया । विघ्नराजकलारूपोऽवतारोऽयमुदाहृतः ॥६२॥ य इदं शृणुयान् मर्त्यः श्रावयेद्वा पठेत् स तु । भुक्तिं मुक्तिं लभेद्व्रह्म भक्तिं विघ्नेश्वरे पराम् ॥६३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते चतुर्भुजावतारविक्रमवर्णनं नाम पंचदशोऽध्यायः ॥

खं. ७ अ. १६ | पान ३६

॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। ततो बहौ गते काले दैत्येंद्रा बलसंयुताः। देवान् जेतुं सन्नद्धा बभूवुः क्रोधसंयुताः ॥१॥ प्रह्लादं मुख्यकं कृत्वा ब्रह्मशापेन मोहितम्। आयुयुस्तां प्रणेमुस्ते दितिं कश्यपसंयुताम् ॥२॥ तानुवाच स्वयं देवी दितिः क्रोधसमन्विता। मा गच्छत महादुष्टाः धर्मं संत्यज दैत्यपाः ॥३॥ चतुर्भुजेन देवेशाः स्थापिताः स्वर्गभूमिषु। पाताल- विवरेष्वत्र यूयं राज्यसमन्विताः ॥४॥ प्रणम्य तामनादृत्य दैत्येशा लोभसंयुताः। ययुर्देवजयार्थे ते ह्यधर्मेण प्रणोदिताः ॥५॥ दितिः कश्यपसंयुक्ता दैत्यानां सुदुरात्मनाम्। पक्षं त्यक्त्वा गणेशानमभजद् भक्तिसंयुता ॥६॥ एवं वै देवपक्षं सा त्यक्त्वा मुनिसमन्विता। अदितिस्तं स्वपुत्रं चाभजद्विनायकं परम् ॥७॥ दैवीं प्रकृतिमुत्सृज्य मृन्मूर्तिस्थं विनायकम्। योगभावेन भक्त्या तमभजत्प्रेमसंयुता ॥८॥ विनतायास्तथा दक्ष कश्यपेनोपदेशिताः। शांतियुक्ता गणेशानमभजन् प्रेमसंयुताः ॥९॥ दक्ष उवाच। दैवीं तु प्रकृतिं त्यक्त्वा तथाऽऽसुरीं महामुने। कथं गणेश्वरं भक्त्या भजंति वद मानवाः ॥१०॥ मुद्गल उवाच। सकामिकं करोति चेन्नरः कर्म यथाविधि। आसुरं तत् समाख्यातं देहसौख्यकरं यतः ॥११॥ निष्का- मिकं करोति चेन्नरः दैवं प्रकीर्तितम्। विधियुक्तं कर्म दक्ष मुक्तिदं तन्मतं बुधैः ॥१२॥ स्वधर्मस्थैर्जनैः कर्म क्रियते विविधं परम्। देहधर्मं समाज्ञाय योगरूपं च तत् स्मृतत् ॥१३॥ तदेव देवप्रीत्यर्थं कर्म भक्तिमयं मतम्। भक्तिभावार्थमानंदात् सस्त्रीको मुनिराकरोत् ॥१४॥ एतत्ते कथितं सर्वं विघ्नराजचरित्रकम्। सर्वसिद्धिप्रदं पूर्णं शांतिदं भक्तिकारणम् ॥१५॥ एवं नानाऽवताराश्च विघ्नराजस्य मानद। तेषां चरित्रकं केन वक्तुं नैव प्रशक्यते ॥१६॥ अयं विघ्नेश्वरो देवः समस्वानंदगो भवेत्। सत्यासत्ये विनिर्माय प्रभुः क्रीडति मायया ॥१७॥ पूर्णयोगमयश्चायं विघ्नराजः प्रकीर्तितः। तस्यार्थं शृणु भावेन ब्रह्मबुद्धिप्रकाशकम् ॥१८॥ संप्रज्ञातमयं ब्रह्माऽसंप्रज्ञातगतं तथा। अमयुक्तं महाविघ्नसंयुक्तं नात्र संशयः ॥१९॥ भ्रमहीनं तदेवापि विघ्नहीनं प्रकीर्तितम्। ब्रह्मणि ब्रह्मभूतं चेन्नोभयं तत्र विद्यते ॥२०॥ विश्वेषां विघ्नराजोऽयं विघ्नकर्ता प्रजापते। विघ्नहर्ता स्वयं साक्षाद्ब्रह्मणं च निरंतरम् ॥२१॥ स्वयं विघ्नयुतो नैव विघ्नहीनो न विद्यते। एवं ज्ञात्वा नरो ब्रह्मभूतो भवति विघ्नपम् ॥२२॥ इदं वैघ्नेश्वरं चित्रं चरितं संशृणोति यः। पठेद्वा तस्य विघ्नेशः प्रसन्नो जायते सदा ॥२३॥ प्रसन्ने विघ्नराजेंद्रे किं किं वै दुर्लभं भवेत्। सर्वसिद्धियुतः सोऽन्ते नरो ब्रह्मैव जायते ॥२४॥ नानेन सहशं किंचित् पावनं कुत्र वर्तते। भुक्तिमुक्तिप्रदं दक्ष चरित्रं संश्रुतं त्वया ॥२५॥ पंचाग्निसाधनादीनि तपांसि विविधानि यः।

खं. ७ अ. १६ पान ३७ कुर्यात्तेभ्योऽधिकं पुण्यमस्य श्रवणतो लभेत् ॥२६॥ तीर्थानि विविधान्येव साधयित्वा फलं लभेत् । तेभ्योऽधिकं लभेत् पुण्यं खंडस्यास्य श्रवान्नरः ॥२७॥ यज्ञानां सांगजातानां फलं तस्मात् प्रजापते । अधिकं श्रवणादस्य लभेत् खंडस्य मानवः ॥२८॥ इष्टापूर्तादिकं सर्वं यः करोति नरोत्तमः । तेभ्योऽधिकं लभेत्तस्य श्रवणान्नात्र संशयः ॥२९॥ पुत्रपौत्रादिसंयुक्तो धनधान्यादिसंयुतः । आरोग्येण नरो युक्तो भवेदस्य तु संश्रवात् ॥३०॥ वंध्यादिदोषभावेन पीडितो यदि मानवः । अस्य श्रवणमात्रेण पीडाहीनो भवेत् सदा ॥३१॥ यस्य गेहे स्थितश्चायं खंडो विघ्नेशभक्तिदः । कदा तस्य पिशाचेभ्यश्चौरादिभ्यो भयं न हि ॥३२॥ नाग्निभूतं न भूतेभ्यो भयं राजभवं कदा । ग्रहेभ्यो राशिसंस्थेभ्यः पूतनादिभयं न च ॥३३॥ धर्मार्थ- काममोक्षाणां दायकोऽयं प्रकीर्तितः । ब्रह्मभूयप्रदः साक्षाच्छ्रवणेन न संशयः ॥३४॥ बहुनाऽत्र किमुक्तेन यत्र विघ्नपतिः स्वयम् । संस्थितस्तेन सामान्यं भविष्यति किमप्यहो ॥३५॥ इति ते कथितं सर्वं विघ्नराजस्य चेष्टितम् । भज त्वं सर्वभावेन गणेशं सुखमाप्स्यसि ॥३६॥ न श्राव्यं दुर्जनायेदं चरित्रं सर्वसिद्धिदम् । साधवे गाणपत्याय श्राव्यं यत्नेन मानद ॥३७॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । दक्षो हृष्टमनास्तं तु प्रणनाम कृतांजलिः ॥३८॥ मया ते कथितं पूर्णं चरित्रं विघ्नपस्य यत् । यथा मुद्गलवक्त्राच्च निःसृतं तादृशं परम् ॥३९॥ भवतां संगयोगेन पावितोऽहं न संशयः । श्रोतुमिच्छसि किं भूयो वद शौनक ते हितम् ॥४०॥ विघ्नराजसमं नैव यथा विप्र तथा परम् । चरित्रं विघ्नराजस्य सर्व- सिद्धिप्रदायकम् ॥४१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते चरितमाहात्म्यवर्णनं नाम षोडशोऽध्यायः समाप्तः ॥ ॥ इति श्रीमुद्गलपुराणे सप्तमः खंडः समाप्तः ॥ ॥ श्रीगजाननार्पणमस्तु ॥