मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. १ अ. ४३ पान ९७ तावत् सोपि बहिर्यातः सिद्धिबुद्धिसमन्वितः ॥ ९ ॥ ब्रह्माणं बोधयामास वक्रतुंडो महाबलः । सुप्रसन्नतरो जातस्तपसा ध्यानशालिना ॥ १० ॥ वक्रतुंड उवाच । पश्य मां पुत्रभावेन पितामह गणाधिपम् । तव ध्यानात् समुत्पन्नं ध्यानजं प्रवदंत्यतः ॥ ११ ॥ तपसा पूर्वकाले मां त्वया पुत्रत्वमादरात् । याचितं सफलं तच्च कृतं तव मयाऽधुना ॥ १२॥ वचनं वक्रतुंडस्य श्रुत्वा ब्रह्मा मुदा युतः । बहिर्वीक्ष्य गणेशानं सिद्धिबुद्धिविराजितम् ॥ १३॥ प्रणनाम स साष्टांगं वक्रतुंडं गजाननम् । सिद्धिं बुद्धिं विधानेन पूजयामास यत्नतः ॥ १४॥ तद् दृष्ट्वा परमाश्चर्यं देवाः सर्वे समागताः । ऋषयस्तं महाभागाः प्रणेमुर्भक्तिभावतः ॥ १५ ॥ सुतं मानसिकं दृष्ट्वा सिद्धिं बुद्धिं तथात्मजे । ताभ्यां सह विनीतास्ते तुष्टुवुर्बद्धपाणयः ॥ १६ ॥ ब्रह्माऽपि पूजनं कृत्वा स्तोतुं सर्वैः समन्वितः । उद्यतोऽभून् महातेजा वक्रतुंडं सभार्यकम् ॥ १७ ॥ संदेवर्षिर्ब्रह्मोवाच । नमस्ते ब्रह्मभूताय वक्रतुंडाय साक्षिणे । सिद्धिबुद्धियुतायैव गणेशाय नमो नमः ॥ १८ ॥ विघ्नेशाय नमस्तुभ्यं निर्गुणाय गुणात्मने । अनादये च सर्वज्ञ पालकाय नमोऽस्तु ते ॥ १९॥ नमस्ते सर्वरूपाय सर्वाध्यक्षाय धीमते । आदिमध्यांतहीनाय साक्षाद्देवाय ते नमः ॥ २० ॥ अमेयशक्तये तुभ्यं मायिभ्यो मोहदाय च । अमायिने च मायाया आधाराय नमो नमः ॥ २१ ॥ सत्याय सत्यरूपाय सत्यपालक रक्षिणे । ज्ञानाय ज्ञानदात्रे च ज्ञानगम्याय ते नमः ॥ २२॥ लंबोदराय देवाय गणानां पतये नमः । गणेशाय गुणाधार हेरंबाय नमो नमः ॥ २३ ॥ त्वां स्तोतुं न समर्थाश्च वेदाः शास्त्रसमन्विताः । योगींद्रा देवमुख्याश्च तत्र कोऽहं गजानन ॥ २४॥ यथाबुद्धि प्रमोदेन संस्तुतोऽसि गणेश्वर । तेन मे सफलं सर्वं जातं लंबोदराधुना ॥ २५ ॥ ब्रह्मांडानाममंतानां कारकस्त्वं न संशयः । कथं मे पुत्रतां यातः सिद्धिबुद्धिसमन्वितः ॥ २६ ॥ सिद्धिबुद्धियुतं ब्रह्म हृदि ध्यातं विशेषतः । तदेव बहिरायातं तारितुं मां न संशयः ॥ २७॥ इत्युक्त्वा ब्राह्मणैः सार्धं जातकर्मादिकां क्रियाम् । चकार च स्वयं ब्रह्मा परमानंदसंयुतः ॥ २८॥ एकादशदिने तस्य सिद्धिबुद्धिपतिस्त्विति । नाम संस्थापयामास द्विजैः सह पितामहः ॥ २९॥ बाल क्रीडनभावेन क्रीडति स्म विनायकः । सावित्री स्तनपानं सा कारयामास भावतः ॥ ३० ॥ दिने दिनेऽथ बालोऽसौ ववृधे शुक्लचंद्रवत् । आनंदं जनयन् मातुः पितुश्च चरितैः स्वकैः ॥ ३१ ॥ सिद्धिबुद्धियुतो दक्ष वर्षद्वयवयाः स्थितः । एकदा तं विधातारं पप्रच्छ विनयान्वितः ॥ ३२ ॥ सिद्धिबुद्धिपतिरुवाच । तात किं वनवासं त्वं करोषि मुनिभिः सह । देवैः परमदुःखातों मम किं भाससे प्रभो ॥ ३३ ॥ तस्य तद्वचनं श्रुत्वा ब्रह्मा हर्षसमन्वितः । जगाद गणपं
खं. १ अ. ४४ पान ९८ सर्वं वृत्तांतं दैत्यसंभवम् ॥ ३४ ॥ तच्छ्रुत्वा कोपदीप्तोऽसौ वक्रतुंडस्तमब्रवीत् । हर्षयन् देवविप्रादीन् मेघगंभीरनिस्वनः ॥ ३५ ॥ वक्रतुंड उवाच । दंभासुरं महावीर्यं हनिष्यामि न संशयः । देवेभ्यो ब्राह्मणेभ्यश्च स्वपदानि ददाम्यहम् ॥ ३६ ॥ एवमुक्त्वा समारूढः सिंहं शस्त्रधरः प्रभुः । सिद्धिबुद्धियुतस्तत्र जगामासुरवेश्मनि ॥ ३७ ॥ नगरप्रांतभागे स संस्थितो जगदीश्वरः । तं देवमुनयः सर्वे ययुर्हर्षसमन्विताः ॥ ३८ ॥ दूतमिंद्रं गणेशश्च प्रेषयामास सत्वरः । स्वधर्मे तिष्ठ दैत्येंद्र नो चेद्धन्मि न संशयः ॥ ३९ ॥ इंद्रो गत्वा महादैत्यं सामपूर्वमिदं वचः । उवाच सर्वभावज्ञो भावपूर्वं सुरद्विषम् ॥ ४० ॥ इंद्र उवाच । ब्रह्मणः पुत्रतां यातं पूर्णं ब्रह्म सनातनम् । सिद्धिबुद्धिपतिं विद्धि मानसं ध्यानयोगतः ॥ ४१ ॥ स एव मुनिभिर्देवैरागतः पुरसन्निधौ । मां दूतं प्रेषयामास सामार्थं तव सन्निधौ ॥४२॥ स्वधर्मे त्वं समातिष्ठ देवाः संतु हविर्भुजः । वर्णाश्रमयुता लोकास्तिष्ठंतु विगतज्वराः ॥ ४३ ॥ इंद्रस्य वचनं श्रुत्वा कुपितोऽतितरां मुने । दंभासुर उवाचाऽथ तमिंद्रं प्रदहन्निव ॥ ४४ ॥ दंभासुर उवाच । किं करोमि समायातो दूतरूपेण मे गृहे । नो चेत्त्वां बंधयित्वा तु कारागारे क्षिपाम्यहम् ॥ ४५ ॥ इंद्र गच्छ महाभाग वद तं गणनायकम् । पंचमे दिवसे त्वां च योधयामि न संशयः ॥ ४६ ॥ तत इंद्रः समायातः सिद्धिबुद्धिपतिं प्रति । कथयामास वृत्तांतं विस्तरेण यथायथम् ॥ ४७ ॥ श्रुत्वा गणपतिः प्रीतस्तमुवाच महामतिम् । समीचीनं त्वया तत्र कृतं देवपते यथा ॥ ४८ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते दंभासुरदूतसंवादो नाम त्रिचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । देवेंद्रे प्रस्थिते तत्र गणेशस्यैव सन्निधौ । दंभासुरः कविं विप्रमाह्वयामास संनिधौ ॥ १ ॥ समागतं महाबुद्धिं शुक्रं मुनिवरं प्रभो । प्रणाम ससाष्टांगं बद्धांजलिपुटः स्थितः ॥ २ ॥ तं काव्यः स्थापयामास कांचनोत्तर आसने । पप्रच्छ मामाह्वयसे किमर्थमिति दानवम् ॥ ३ ॥ शुक्रस्य वचनं श्रुत्वा भयहर्षसमन्वितः । उवाच तं महाभागं भक्तियुक्तेन चेतसा ॥ ४ ॥ दंभासुर उवाच । स्वामिन् योद्धुं समायातः सिद्धिबुद्धिपतिः प्रभुः । ब्रह्मणो मानसः पुत्रस्तपसा तेन निर्मितः ॥ ५ ॥ परिपृच्छामि तत्र त्वां सर्वज्ञं मुनिसत्तमम् । येन तं सर्वभावेन जानामि खलु
यहाँ दिए गए पृष्ठ का देवनागरी में लिप्यंतरण प्रस्तुत है:
खं. १ अ. ४४ पान ९९ तत्त्वतः ॥ ६ ॥ का सिद्धिः का तथा बुद्धिस्तयोः कोऽसौ पतिः प्रभो । किं सामर्थ्यधरो भाति वद सर्वं च मेऽग्रतः ॥ ७ ॥ दंभस्य वचनं श्रुत्वा शुक्रस्तं पुनरब्रवीत् । येन तत्त्वे प्रविज्ञाते गणेशे जायते मतिः ॥ ८ ॥ शुक्र उवाच । शृणु दैत्येंद्र तस्याऽपि महिमानं महाद्भुतम् । येन त्वं गाणपत्ये च तत्त्वे प्रनिपुणो भवेः ॥ ९ ॥ सिद्धिर्मोहकरी माया सर्वत्रैव प्रदृश्यते । सिद्ध्यर्थं सर्वलोकाश्च यत्नवंतो भवंत्यतः ॥ १० ॥ इहलोके स्वभोगार्थी सिद्धिमिच्छति दानव । परलोकस्य सिद्ध्यर्थं जनस्तत्प्रसमाकुलः ॥ ११ ॥ ब्रह्मभूयपदप्राप्तिमिच्छेद्वै सिद्धिरूपिकाम् । इह ब्रह्मपरप्राप्तिस्त्रिविधा मोहसंज्ञिता ॥ १२ ॥ माया गणपतेः प्रोक्ता भ्रांतिरूपा महामते । वामभागस्थया देव्या क्रीडतेऽसौ गजाननः ॥१३॥ भ्रामयन् ब्रह्मविष्ण्वादीन् योगिनो मानवादिकान् । ब्रह्मभूतस्वरूपत्वात् स्वाधीनः सततं मतः ॥१४॥ द्वितीया बुद्धिरूपा च माया तस्य महात्मनः । तां शृणुष्व महादैत्य येन त्वं सर्वविद्भवेः ॥ १५॥ यत्किंचिद् दृश्यते सर्वं मनोवाणीमयं जगत् । मनोवाणीविहीनं यत् सर्वं बुद्धिमयं बभौ ॥ १६ ॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । चित्तं पंचविधं प्रोक्तं बुद्धिरूपं तदेव च ॥ १७ ॥ पंचानां बह्ववो भेदा वक्तुं तान् नैव शक्यते । एवमेकाप्यनेकाऽसौ बुद्धिः सर्वत्र दृश्यते ॥ १८ ॥ मोहधारकरूपां ता सुभ्रांतां बुद्धिमादरात् । ज्ञानरूपां हृदिस्थां तु ब्रह्माकारां प्रविद्धि हि ॥१९॥ बुद्धियुक्तनरेणैव परत्रेह प्रलभ्यते। बुध्द्या ब्रह्ममयो योगो युज्यते ज्ञानिभिः परः ॥ २० ॥ एतादृशी महाभागा दक्षिणांगधराऽसुर । तस्य योगेश्वरस्याऽपि गणेशस्य महात्मनः ॥ २१ ॥ क्रीडार्थं रचिते माये स्वस्यांगात्तेन दैत्यप । ब्रह्मरूपं च तं विद्धि योगेन लभते नरः ॥ २२ ॥ स्वानंदारूयं परं ब्रह्म तदेव नगरं मतम् । तत्र नित्यं वसति यः सिद्धिवुद्धिसमन्वितः ॥ २३ ॥ ब्रह्मणाराधितं ब्रह्म पुत्रभावार्थमादरात् । तदेव गणराजोऽयमागतो ब्रह्मणः सुतः ॥ २४ ॥ मातुः पितुश्च बंधं च पुत्रौ हरति यत्त्विति । तदर्थं पुत्रभावेन ब्रह्मणा प्रार्थितो विभुः ॥ २५ ॥ धर्मसंरक्षणार्थाय त्वां हनिष्यति निश्चितम् । अतस्त्वं शरणं गच्छ प्रभुमिच्छसि जीवितुम् ॥२६॥ मुद्गल उवाच । काव्यस्य मुनिमुख्यस्य वचनं ब्रह्मदायकम् । वेदांतसारसंभूतं श्रुत्वा दंभ उवाच ह ॥२७॥ दंभ उवाच । स्वामिन् श्रुतं मया वाक्यं त्वदीयं योगसंयुतम् । परं तु संशयं छिंधि हृदिस्थं कथयामि ते ॥२८॥ एतादृशं परं ब्रह्म गाणेशं चेन् महामुने । धर्माधर्मावतस्तस्मात् संभूतौ नात्र संशयः ॥२९॥ योगरूपेण सर्वत्र गणेशास्तिष्ठति प्रभो । धर्मस्य रक्षणं सोऽपि किं करोति विकारतः ॥ ३० ॥ अधर्मस्य तथा नाशं किमर्थं प्रकरोति सः । एतं संशयजातं मे छेत्तुमर्हसि सांप्रतम् ॥ ३१ ॥
ख. २ अ. ४५ पान १०० काव्य उवाच। शृणु दंभ गणेशस्य चेष्टितं सर्वदं परम्। येन ते संशयः सर्वो नाशं यास्यति तत्क्षणात् ॥३२॥ इदं सृष्टं गणेशेन नानाभेदमयं जगत्। तत्र स्वस्वपदे चैव स्थापिता जंतवोऽभवन् ॥ ३३ ॥ अधर्मस्य च धर्मस्य व्यवस्था तेन सा कृता। तत्र लोभेन वै धर्ममधर्मो जयते यदा ॥ ३४॥ सुराणां वै तदा तेजः क्षीणं भवति सर्वतः। असुराणां महत्तेजो वर्धते च दिने दिने ॥ ३५ ॥ यदाऽयं गणराजस्तु देवानां पक्षवर्धनः। असुराणां विनाशाय स्वयं भवति चोद्यतः ॥ ३६॥ हत्वा देवगणैः सर्वैरसुराणां बलं महत्। स्वस्थाने स्थापयत्येव धर्मं सर्वप्रयत्नतः ॥ ३७॥ धर्मेण सकलं दैत्य ह्यधर्मस्य बलं हतम्। तदा दैत्यादिकानां तु मूलच्छेदो भविष्यति ॥ ३८॥ देवानामुदितं तेजो भवेद्यदि महाद्भुतम् । दैत्याय वरदस्तर्हि भवेच्चानेकरूपवान् ॥ ३९ ॥ असुरैर्वरसंयुक्तैर्धर्मे क्षीणे समंततः। अधर्मस्य स संस्थां वै यथापूर्वमकल्पयत् ॥ ४० ॥ एवं लोभसमायुक्ताः सुरा दैत्या भवंति चेत्। तदा तेषां विनाशाय गणेशो यततेऽसुर ॥ ४१ ॥ नास्ति तस्य विचारेण स्वः परः कश्चिदेव च। क्रीडार्थं स्वात्मभावेषु स्थापयत्येव वै जनान् ॥ ४२ ॥ मुद्गल उवाच। शुक्रस्य वचनं रम्यं श्रुत्वा दंभः प्रतापवान्। गणेशं मनसा ध्यायन् संस्थितो नगरे स्वके ॥ ४३ ॥ एकांतेऽसौ महातेजा विचारं प्रचकार ह। अयं गणेशनामा वै पूर्ण ब्रह्म सनातनम् ॥ ४४॥ तमेव शरणं गच्छन् यशस्वी स भविष्यति। सर्वेषु समरूपेण स्थितोऽयं नात्र संशयः ॥ ४५ ॥ त्यक्त्वा सिद्धिपतिं सिद्धिमिच्छेद्यो दुर्मतिः परम्। असिद्धिर्भविता तस्य सुहृद्भिर्नात्र संशयः॥ ४६ ॥ बुद्धेः पतिं गणेशं यस्त्यक्त्वा कुशलमिच्छति। तस्याऽकुशलमेवं च भविता दुष्टभावतः ॥ ४७॥ सिद्धिबुद्धिविहीनं तु ना किंचिद् दृश्यते मया। अतस्तं शरणं यामि सुरासुरसमं विभुम् ॥ ४८ ॥ इति निश्चितसंकल्पो दंभः सुष्वाप निर्भयः। गणेशं हृदि विन्यस्य भक्तिभावेन भावितम् ॥ ४९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते दंभासुरविचारो नाम चतुश्चत्वारिंशोऽध्यायः॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शृणु दक्ष महाप्राज्ञ महद् दंभस्य कौशलम् । त्यक्त्वाऽऽसुरस्वभावं स संस्थितो विगतज्वरः ॥ १ ॥ प्रातरुत्थाय दैत्यान् स सर्वानाकारयत् स्वयम् । उवाच तान् महातेजा वचनं शुक्रसन्निधौ ॥ २ ॥ दंभासुर उवाच । शृणुध्वमसुराः सर्वे गुरुणाऽहं प्रबोधितः । शरणं वक्रतुंडं च यामि तत्र न संशयः ॥ ३ ॥ सुराणामधिपो नाऽयं
[Header] खं. १ अ. ४५ | पान १०१
नायं दैत्याधिपः कदा । ब्रह्माकारेण सर्वत्र सिद्धिबुद्धिपतिः स्थितः ॥ ४ ॥ तस्य तद्वचनं श्रुत्वा कुपिता दानवास्तदा । ययुः स्वं स्वं गृहं सर्वे त्यक्त्वा दंभासुरं खलाः ॥ ५ ॥ दंभासुरः प्रसन्नात्मा काव्येन सहितः स्वयम् । शरणं गणनाथं च ययौ हर्षसमन्वितः ॥ ६ ॥ नगराद्बहिरागत्य ययौ देवस्य सन्निधिम् । दंडवत्पतितः पृथ्व्यां कृतांजलिरुपस्थितः ॥ ७ ॥ तुष्टाव तं गणाध्यक्षं तद्दर्शनमहोत्सवः । यथान्यायं पूजयित्वा निबद्धकरसंपुटः ॥ ८ ॥ दंभासुर उवाच । नमस्ते ब्रह्मरूपाय ब्रह्माकारशरीरिणे । ब्रह्मणे ब्रह्मदात्रे च गणेशाय नमो नमः ॥९॥ नमस्ते त्रिदशेशाय दैत्यदानवपाय च । सर्वत्र योगरूपाय भावहीनाय ते नमः ॥ १० ॥ सिद्धिबुद्धिपते तुभ्यं नमः सिंहध्वजाय च । गणानां पतये तुभ्यं हेरंबाय नमो नमः ॥ ११ ॥ एकदंताय देवाय ह्यनंतविभवाय ते । विघ्नेशाय महाविघ्ननाशनाय नमो नमः ॥ १२ ॥ अपारगुणधाराय दैत्यदानवमर्दिने । मनोवाणीमयायैव सर्वरूपाय ते नमः ॥ १३ ॥ मनोवाणीविहीनाय योगिभ्यो योगदायिने । योगाय योगनाथाय विश्व- पाय नमो नमः ॥ १४ ॥ मायाधाराय मायायाश्चालकाय नमो नमः । मायाहीनाय सर्वत्र समभावधराय ते ॥ १५ ॥ अव्यक्ताय नमस्तुभ्यं व्यक्तिमूलधराय च । निर्मोहाय समोहाय लंबोदर नमो नमः ॥ १६ ॥ यं स्तोतुं न समर्थाश्च वेदाः सांगा महर्षयः । योगींद्रा ब्रह्मविष्णुवाद्यास्तं किं स्तौमि परात् परम् ॥ १७॥ इत्युक्त्वा पतितः पृथ्व्यां दंभो भक्ति- समन्वितः । तमुत्थाप्य गणाधीश ऊचिवान् भक्तिभावितः ॥ १८॥ गणेश उवाच । त्वया दंभ कृतं स्तोत्रं मम संतोषवर्धनम् । यः पठेत् पाठयेत्तद्वा स सर्वं सुखमाप्नुयात् ॥ १९ ॥ पुत्रपौत्रकलत्रादि धनधान्यप्रदं भवेत् । आधिव्याधिहरं चैव सर्वोपद्रवनाशनम् ॥ २० ॥ एककालं द्विकालं वा त्रिकालं सततं तथा । यः पठेत् स नरोऽत्यंतं मम प्रीतिकरो भवेत् ॥ २१ ॥ त्वां हंतुं क्रोधसंयुक्त आगतोऽहं न संशयः । अधुना शरणं यातस्ततो हन्मि न निश्चितम् ॥ २२ ॥ वरं वरय मत्तस्त्वं यत्तवचित्ते स्थितं परम् । स्तोत्रेण भक्तिभावेन संतुष्टोऽहं ददामि ते ॥ २३ ॥ गणेशवचनं श्रुत्वा दंभो हर्षसमन्वितः । उवाच गणपं तत्र भक्तिनम्रात्मकंधरः ॥ २४ ॥ दंभासुर उवाच । यदि देवेश तुष्टोऽसि यदि देयो वरो हि मे । अचलां देहि ते भक्तिं तदा नाथ नमोऽस्तु ते ॥ २५ ॥ आज्ञां त्वं ज्ञापय विभो वृत्यर्थं मे च सांप्रतम् । स्थानं देहि गणाध्यक्ष तत्र स्थास्यामि निश्चलः ॥ २६ ॥ दंभस्य वचनं श्रुत्वा गणेशस्तमुवाच ह । सुप्रसन्नतया दक्ष भक्तं गंभीर- निस्वनः ॥ २७ ॥ सिद्धिबुद्धिपतिरुवाच । भविता मयि भक्तिस्ते दृढा ह्यव्यभिचारिणी । तिष्ठ स्थाने स्वके त्वं वै दंभ
यहाँ पृष्ठ पर अंकित मूल पाठ का पंक्ति-दर-पंक्ति लिप्यंतरण प्रस्तुत है:
हर्षसमन्वितः ॥ २८ ॥ न त्वं न्यूनोऽसि मे क्वापि देवा नैवाधिका मताः । स्वस्वधर्मे स्थिताः सर्वे मम प्रीतिविवर्धनाः ॥ २९ ॥ स्वधर्मत्यागदोषेण क्रुद्धोऽहं नाशयामि तान् । अतस्त्वं निर्भयो भूत्वा चिरं तिष्ठ महासुर ॥ ३० ॥ यत्र मे स्मरणं नास्ति कार्यादौ दैत्यसत्तम । तत्र त्वं दंभभावेन कार्यनाशं सदा कुरु ॥ ३१ ॥ कर्मादौ पूजनं यत्र मम नास्ति यदासुर । तदा तद्दंशभावेन निष्फलं कुरु सर्वदा ॥ ३२ ॥ मम भक्तिसमायुक्ता ये नराः सततं प्रियाः । तान् पालय प्रयत्नेन दंभ हीन- स्वभावतः ॥ ३३ ॥ यत्र मे स्मरणं नास्ति पूजनं च महामते । आदौ तत्र च ते भागः कर्मरूपो मया कृतः ॥ ३४ ॥ एवमुक्त्वा स तं दंभं गणेशोऽन्तर्दधे स्वयम् । देवाश्च मुनयः सर्वे जयेत्युक्त्वा ययुस्ततः ॥ ३५ ॥ स्वस्वस्थानेषु दीप्तास्ते स्थिता भयविवर्जिताः । पातालविवरे दैत्याः स्थिता निर्व्याकुलाः प्रभो ॥ ३६ ॥ एवं दंभासुरं शांतं स चकार गजाननः । ब्रह्मपुत्रत्वमापन्नस्तदप्युक्तं मया परम् ॥ ३७ ॥ य एतच्छृणुयान्नित्यं श्रावयेद्वा समाहितः । स दंभभयनिर्मुक्तो याति ब्रह्म सनातनम् ॥ ३८ ॥ यं यं चिंतयते कामं तं तं प्राप्नोति मानवः । सर्वसंपत्समायुक्तस्तिष्ठेद्वै विघ्नवर्जितः ॥ ३९ ॥ अधुना वामनस्यापि कथयामि समासतः । चरित्रं गणनाथस्य भक्त्या युक्तं महाद्भुतम् ॥ ४० ॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दंभासुरशांतिकथनं नाम पञ्चचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । श्रुत्वा कथां गणेशस्य हर्षश्चेतसि वर्धते । अतः कथय सर्वज्ञ चरित्रं वामनस्य यत् ॥ १ ॥ मुद्गल उवाच । कश्यपो मुनिशार्दूलः प्रजापतिसमोऽभवत् । अदितिस्तस्य पत्न्यासीत् ज्येष्ठा परमधार्मिका ॥ २ ॥ तस्यां च कश्यपाद्देवा इंद्राद्या जज्ञिरे प्रभो । तेषां विरुद्धभावेन स्थिता दैत्या मुनेः सुताः ॥ ३ ॥ बलेन वरगर्वेण देवान् हंतुं समुद्यताः । अभवन् विष्णुना ते वै नानारूपेण नाशिताः ॥ ४ ॥ न प्रापुः स्वर्गराज्यं ते सर्वमान्यं यदा तदा । काव्यं सकलनीतिज्ञं शरणं प्रययुः पुनः ॥ ५ ॥ तेषां सर्वं स वृत्तांतं विदित्वा मुनिपुंगवः । दैत्यानुवाच सर्वज्ञः काव्यो वेदविदां वरः ॥ ६ ॥ काव्य उवाच । बलिदानवमुख्या वै शृणुध्वं मे वचो हितम् । यज्ञे देवाः समुत्पन्ना यज्ञाधारास्ततः सुराः ॥ ७ ॥ अतोऽश्वमेधयज्ञैश्च यजध्वं शतसंख्यकैः । बलिंरिंद्रो महाबाहुर्भविता नात्र संशयः ॥ ८ ॥ द्वेषभावं च देवानां सदा
संछाद्य यत्नतः । तेन स्वर्गभुजो दैत्या यूयं सर्वत्र पूजिताः ॥ ९ ॥ भविष्यथ महाभागास्तस्मात् कुरुत मद्वचः । सर्वे हृष्टाश्च तं तत्र साधु साध्वब्रुवन् स्थिताः ॥ १० ॥ ततस्ते बलिराजं च मुख्यं कृत्वा महाबलाः । त्वरिता अश्वमेधेषु दीक्षितं चक्रुरादरात् ॥ ११ ॥ बलिर्विरोचनाज्जातो विष्णुभक्तिपरायणः । अधर्मे न रुचिस्तस्य जायते हि कदाचन ॥ १२॥ आदौ त्यक्त्वा गणेशानं विष्णुं स्मृत्वा महासुरः । आद्यं तं यज्ञमारेभे विष्णुभक्ततया खलः ॥ १३ ॥ तस्य चेष्टित- माज्ञाय विघ्नः परमहर्षितः । उवाच सदसि ह्यादौ पूजितो न गणाधिपः ॥ १४ ॥ भुक्तिमुक्तिप्रदाता यः सर्वसिद्धिकरो विभुः । सिद्धिमिच्छंति तं त्यक्त्वा तेऽसिद्धाः प्रभवंति हि ॥ १५ ॥ विष्णोर्बलेन दैत्यस्य भवेत् सिद्धिश्च कीदृशी । भक्षयिष्यामि तत्सर्वं कर्म तेन मखे कृतम् ॥ १६ ॥ इत्युक्त्वा स स्वयं विघ्न आययौ क्रोधसंयुक्तः । प्रविश्य देवराजस्य हृदये संस्थितोऽभवत् ॥ १७॥ यज्ञाः संकल्पितास्तस्य विप्रैस्तु शतसंख्यकाः । आद्ये यज्ञे समारब्धे इंद्रश्चिंतातुरोऽभवत् ॥ १८ ॥ शतयज्ञप्रभावेण बलिरिंद्रो भविष्यति । ततः स शरणं विष्णुं जगाम सुरनायकः ॥ १९ ॥ नत्वा स्तुत्वा महातेजाः प्रार्थयामास सादरम् । विष्णुं देववरं तत्र बलियज्ञविनाशने ॥ २० ॥ एतस्मिन्नंतरे तत्र विघ्नः कालस्वरूपधृक् । बलवान् विष्णुमाविश्य संस्थितो हृदयेऽभवत् ॥ २१ ॥ बलेः प्रचेष्टितं पूर्णं कथितं वज्रपाणिना । तज्ज्ञात्वा सकलं विष्णुरिंद्रं प्रोवाच सत्वरम् ॥ २२ ॥ विष्णुरुवाच । अदित्या कश्यपेनापि तपस्तप्तं सुदारुणम् । शतवर्षं मदर्थं च तस्मिन् काले सुराधिप ॥ २३ ॥ तयोरहं प्रसन्नात्मा वरदश्च पुराऽभवम् । ताभ्यां त्वं पुत्रतां याहि याचितं सर्वभावतः ॥ २४ ॥ ओमित्युक्तं मया तत्र तं वरं सफलं प्रभो । अधुनाऽहं करिष्यामि बलेर्यज्ञस्य नाशने ॥ २५ ॥ विस्मृता विष्णुनाऽत्यंतं बलेर्भक्तिर्महाद्भुता । स बलेर्निग्रहार्थं च स्वयमेवोद्यतोऽभवत् ॥ २६ ॥ स विष्णुः कश्यपाज्जातो ह्यदित्यां वामनः प्रभुः । बलेर्बलं निरीक्ष्यैव न शशाक प्रचालितुम् ॥ २७ ॥ मनसि क्षुभितो विष्णुः कश्यपं पितरं तदा । पप्रच्छ बलिनाशाय वदोपायं महामुने ॥ २८ ॥ षडक्षरं महामंत्रं वक्रतुंडस्य तं ददौ । ततोऽसौ च विदर्भेषु गत्वा तपसि संस्थितः ॥ २९ ॥ दशवर्षं महोग्रं स तपस्तेपे सुदारुणम् । निराहारतया दक्ष गणेशं हृदि चिंतयन् ॥ ३० ॥ उग्रेण तपसा तस्य प्रत्यक्षः सिंहवाहनः । षडक्षरप्रभावेण तं ययौ भक्तवत्सलः ॥ ३१ ॥ चतुर्बाहुधरः पूर्णः सिद्धिबुद्धिसमन्वितः । एकदंतो गजाकारमुखः ‘पाशांकुशादिधृक् ॥ ३२॥ सिंदूरारुणदेहश्च शूर्पकर्णो महोदरः । कोटिसूर्यसमानेन तेजसा सुविराजितः ॥ ३३ ॥ तं दृष्ट्वा सहसोत्थाय
वामनः प्रणनाम सः। बद्धांजलिपुटो भूत्वा स्तोतुं समुपचक्रमे ॥ ३४ ॥ वामन उवाच। नमो विघ्नपते तुभ्यं भक्तविघ्न- विनाशिने। अभक्तविघ्नदात्रे च गणेशाय नमो नमः ॥ ३५ ॥ वक्रतुंडाय सर्वेश पालकाय नमो नमः। नानारूपधरायैव सर्वांतर्यामिणे नमः ॥ ३६ ॥ सर्वं चराचरं स्वामिंस्त्वदाज्ञा वशवर्ति च। विभूतिभिर्महाराज कुरुषे सर्वमंजसा ॥ ३७ ॥ ब्रह्मा प्रजापतीनां त्वं यज्ञानां विष्णुरेव च। ईश्वराणां स्वयं शंभुर्देवानां त्वं पुरंदरः ॥ ३८ ॥ प्रकाशानां रविस्त्वं च चंद्रोऽन्नेषु गणाधिप। यमो यमवतां त्वं वै वरुणो यादसां प्रभो ॥ ३९॥ वायुर्बलवतां त्वं च निधीनां धनपः स्वयम्। अग्निर्वै दाहकानां त्वं रक्षसां निर्ऋतिः स्वयम् ॥ ४० ॥ नागानां शेषरूपोऽसि योगिनां शुक्र एव च। कुमाराणां त्वं च सनत्कुमारोऽसि न संशयः ॥ ४१ ॥ गुहः सेनापतीनां त्वं मृगाणां सिंहवेषभृत्। एवं नानास्वरूपैस्त्वं जगद्रक्षणतत्परः ॥ ४२ ॥ त्वां स्तोतुं कः समर्थः स्याद्योगरूपं सनातनम्। वेदाः शेषश्च वेधा च शक्ता न स्तवनेऽभवन् ॥ ४३ ॥ तत्र मंदमतिः काहं पारं गंतुं तव स्तुतेः। तथापि च यथाबुद्धि संस्तुतोऽसि च विघ्नप ॥ ४४ ॥ तव दर्शनमात्रेण कृतकृत्योऽस्मि सांप्रतम्। धन्यं जन्म मदीयं वै येन दृष्टो गजाननः ॥४५॥ धन्यौ मातापिता मेऽद्य स्थलं धन्यं तपोऽपि च। षडक्षरश्च मंत्रोऽयं धन्यो येन त्वमागतः ॥४६॥ एवमुक्त्वा ननर्ताऽसौ भक्तिभावपरिप्लुतः। रोमांचितशरीरोऽभूदानंदाश्रु सृजन्मुहुः ॥ ४७ ॥ देहभावं परित्यज्य वामनो हर्षसंयुतः। तदेकनिष्ठतां प्राप्तो महाभागः प्रजापते ॥ ४८ ॥ तं तादृशं गणाधीशो दृष्ट्वा प्रेमपरिप्लुतम्। जगाद परमात्माऽसौ वामनं भक्तवत्सलः ॥ ४९ ॥ गणेश उवाच। शृणु वामन मे वाक्यं वरं वृणु हृदीप्सितम्। तव भक्त्या तपोयुक्त्या स्तुत्या वै तुष्टिमागतः ॥ ५० ॥ दास्यामि सकलं तुभ्यं यद्यपि स्यात् सुदुष्करम्। धन्योऽसि बालभावेऽपि भक्तिस्ते मे परापदि ॥ ५१ ॥ त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति। यः पठेच्छ्रावयेद्वापि तस्य सिद्धिर्भविष्यति ॥ ५२ ॥ यं यं चिंतयते कामं तं तं दास्यामि दुर्लभम्। अंते मोक्षं महाविष्णो स्वानंदे प्रददाम्यहम् ॥ ५३ ॥ इति तस्य वचः श्रुत्वा वक्रतुंडस्य शोभनम्। वामनः प्रणतो भूत्वा तं जगाद गजाननम् ॥ ५४ ॥ प्रसन्नो यदि देवेश देहि भक्तिं दृढां च ते। बलिं देवरिपुं ढूंढे मत्साध्यं कुरु दैत्यपम् ॥ ५५ ॥ यदाहं त्वां स्मरिष्यामि तदात्मानं प्रदर्शय। यथा न मां भवेद्विघ्नो वरं देहि गजानन ॥ ५६ ॥ तथेति तमथोक्त्वाऽसौ गणेशोऽतर्दधे
यहाँ दिए गए पृष्ठ का देवनागरी लिप्यंतरण प्रस्तुत है:
शीर्षक: खं. १ अ. ४७ | पान १०५
स्वयम् । वामनस्तत्र देवेशं स्थापयामास हर्षतः ॥ ५७ ॥ अदोषाख्यं महाक्षेत्रं विदर्भे स्थानमुत्तमम् । वक्रतुंडस्य संभूतं नराणां सर्वसिद्धिदम् ॥ ५८ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वामनवरप्रदानं नाम षट्चत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । वरं लब्ध्वा स संपूज्य वक्रतुंडं च वामनः । कश्यपं प्रणतो भूत्वा ययौ यज्ञं बलेरपि ॥ १ ॥ तं दृष्ट्वा सूर्यसंकाशं वेदाध्ययनसंयुतम् । ह्रस्वाकृतिं मुनिश्रेष्ठं विस्मिता मुनयोऽभवन् ॥ २ ॥ बलिरुत्थाय तं नत्वा पूजयामास भक्तितः । पप्रच्छ किं ददे तुभ्यं मां तद् ब्रूहि महामुने ॥ ३ ॥ ततः शुक्रेण सर्वं तज्ज्ञातं तस्य प्रयोजनम् । गणेशपूजनं चादौ न कृतं दुष्टबुद्धिना ॥ ४ ॥ तेन विघ्नस्वरूपं च विष्णुरूपेण संस्थितम् । अधुना यादृशं भावि तथा भवतु तादृशम् ॥ ५ ॥ बलेर्वचनमाकर्ण्य वामनः प्राह तं ततः । देहि त्रिपदरूपां मे भूमिं दैत्यपते किल ॥ ६ ॥ ददौ बलिर्महा- भक्त्या तां भूमिं सादरो यथा । तथा वामनदेवोऽपि गणेशं मनसाऽस्मरत् ॥ ७ ॥ विराट्स्वरूपं ततो धृत्वा पादं चिक्षेप देवपः । एकेन सकलं स्वर्गं पादेनावृत्य सत्वरः ॥ ८ ॥ द्वितीयेन स भूमिं वै सर्वामावृत्य वामनः । उवाच दैत्यपं देहि तृतीयस्य स्थलं प्रभो ॥ ९ ॥ बलिर्विस्मयमापन्नो भ्रांतः शोकाकुलो भवत् । किंचिन्नोवाच तं तत्र किं ददामीति विह्वलः ॥ १० ॥ ततो विष्णुः प्रकोपेन तं बबंध महासुरम् । विप्रस्य त्वमृणी जातो नरकं गच्छ दैत्यप ॥ ११ ॥ विष्णोर्वचनमाकर्ण्य बलिर्वै दुःखितोऽभवत् । नरकं विष्णुभक्ताय दत्ते वै विष्णुरद्भुतम् ॥ १२ ॥ अहो मोहो महान्मे- ऽभूद्येन वेदविवर्जितम् । कृतं कर्म विना पूज्यं गणेशं विघ्ननायकम् ॥ १३ ॥ तस्येदं हि फलं प्राप्तं विष्णुभक्तस्य विष्णुतः । अतस्तं शरणं यामि स रक्षिष्यति मां प्रभुः ॥ १४ ॥ एवं विचार्य तस्यैव मनसि ध्यानमादधे । ढुंढिं तुष्टाव दैत्येशः सर्वभावसमन्वितः ॥ १५ ॥ बलिरुवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १६ ॥ सर्वाकाराय देवाय गम्यागम्यस्वरूपिणे । स्वानंदपतये तुभ्यं हेरंबाय नमो नमः ॥ १७ ॥ नमो ब्रह्मपते तुभ्यं गणाध्यक्षाय ते नमः । सिद्धिबुद्धिपते तुभ्यं नमो विश्वंभराय ते ॥ १८ ॥ अपाराय नमस्तुभ्यं
ख. १ अ. ४७ पान १०६
नानामायाश्रयाय च। मायामोहहरायैव गणेशाय नमो नमः ॥ १९॥ सर्वान्तर्यामिणे तुभ्यं चिंतामणिसुरूपिणे । सततं ब्रह्मभूताय नमस्ते जगदादये ॥ २०॥ अंते मध्ये च सर्वत्र संस्थिताय नमो नमः । आदिमध्यांतहीनाय सिंहवाहाय ते नमः ॥ २१ ॥ अपराधानसंख्यातान् मदीयान् जगदीश्वर । क्षंतवा पाहि गणाधीश पतंतं नरके च माम् ॥ २२॥ त्वन्माया- मोहयोगेन मोहितोऽहं न संशयः । तेन मत्सरभावेन त्वां त्यक्त्वा विष्णुमाश्रितः ॥ २३ ॥ सकलं विघ्नसयुक्तं जगदेतच्चराचरम् । शिवविष्णुवादिभिः सार्धं तव मायाविमोहितम् ॥ २४॥ यदि त्वां शरणं ढुंढे शिवविष्णुवादयः प्रभो । गच्छंति मोहहीना वै निर्विघ्नास्ते भवंति च ॥ २५ ॥ अन्यथा भ्रष्टरूपास्ते पदहीना भवंति च । अतस्त्वं सर्वदेवानां धारको नात्र संशयः ॥ २६ ॥ सत्तारूपा महाविघ्नास्तेषां स्वामी भवान् मतः । सर्वेषां स्थापकाश्चैव तथोत्थापनकारकाः ॥ २७॥ अधुना त्वत्प्रसादेन मया बुद्धं गजानन । अतस्त्वां शरणं यातो दीनोऽनाथश्च सांप्रतम् ॥ २८॥ रक्ष रक्ष गणाध्यक्ष नरकान्मां दयानिधे । त्वत्स्मृत्या चैव भवति जनः सर्वार्थसिद्धिभाक् ॥ २९॥ एवं नानाविधैः स्तोत्रैस्तुष्टाव दनुजेश्वरः । तदैवाकाशजां वाणीं शुश्राव परमाद्भुताम् ॥ ३०॥ मा भयं कुरु दैत्येंद्र रक्षामि शरणागतम् । नरक्रात्ते भयं नास्ति मत्स्मृतेः करणात् कदा ॥ ३१॥ त्वया कृतमिदं स्तोत्रं नरकस्य हरं भवेत् । यः पठेच्छावयेद्वापि नरकात्तस्य नोभयम् ॥ ३२ ॥ धर्मार्थकाममोक्षाणां साधनं प्रभविव्यति । मद्भक्तिवर्धनं चैव बले भवति निश्चितम् ॥ ३३॥ श्रुत्वाऽऽकाशभवां वाणीं बलिर्हृष्टो बभूव ह । तमेव गणपं चित्ते ध्यायंस्तत्रैव संस्थितः ॥ ३४॥ एतस्मिन्नंतरे विघ्नो विष्णुं तत्याज वै यतः । ततो बुद्धिप्रकाशश्च विष्णोर्जातस्तु तत्क्षणात् ॥ ३५॥ वामनो मनसा तत्र ध्यायति स्म प्रजापते । मम भक्तो बलिः पूर्णस्तस्य प्राप्तं महद्भयम् ॥ ३६ ॥ विप्रस्य ऋणमुग्रं यत्तेनायं नारकी भवेत् । अहो मयातिमूर्खेण मम भक्तः प्रपीडितः ॥ ३७ ॥ वेदबाह्यं कृतं कर्म बलिना मत्सरान् मखे । न पूजितो गणाध्यक्षः फलहीनोऽभवत्ततः ॥ ३८॥ अधुना भक्तरक्षार्थं किं करोमि विचारतः । गणेशं शरणं यामि ततः सौख्यं भविष्यति ॥ ३९॥ एवं विचार्य देवेशो गणेशं हृदि सोऽस्मरत् । स्मृतिमात्रेण तस्याऽग्रे प्रकटोऽभूद्गजाननः ॥ ४० ॥ तं दृष्ट्वा प्रणनामादौ पूजयामास भक्तितः । सर्वे देवगणास्तत्र मुनयस्तमपूजयन् ॥ ४१ ॥ एतस्मिन्नंतरे तत्र बलिः प्रोवाच वामनम् । गणेशदर्शनेनैव प्राप्तबुद्धिर्महायशाः ॥ ४२ ॥ बलिरुवाच । ब्रह्मन् देहि तृतीयं ते पादं शिरसि चाशु मे । देहोऽयं दानरूपेण मया दत्तो न संशयः ॥ ४३॥ तच्छ्रुत्वा हर्षितो विष्णुस्तथेति स चकार ह ।
ब्राह्मणस्यर्णनिर्मुक्तं भक्तं कृत्वा च संस्थितः ॥ ४४॥ ततस्तं मुनिभिर्देवैः सहितोऽसौ जनार्दनः । तुष्टाव प्रांजलिं बध्वा गणेशं सर्वसिद्धिदम् ॥४५॥ वामन उवाच । नमस्ते गणनाधाय सर्वेषां पतये नमः। नानागणविभक्ताय जगत्कर्त्रे नमोऽस्तु ते ॥४६॥ विघ्नानां पतये तुभ्यं नमश्चंद्रार्धधारिणे । त्रिनेत्राय नमस्तुभ्यं भक्तसंरक्षकाय च ॥ ४७ ॥ अमेयमायया देव तवेदं रचितं जगत् । तव मायाविमोहेन मोहितान् रक्ष विघ्नप ॥ ४८ ॥ तव मायाप्रभावं च को जानाति गजानन । वयं योगिगणाश्चान्ये न तं वेत्तुं क्षमाः कदा ॥ ४९ ॥ अतोऽपराधं जातं मे क्षंतुमर्हसि मानद । तव भक्ता वयं नाथ देवदेव नमोऽस्तु ते ॥५०॥ बलिस्त्वयं मदीयश्च भक्तः परमभाविकः । मच्छ्रेष्ठत्वेन देवेश जातोऽसौ मत्सरान्वितः ॥ ५१ ॥ तेन वेदविरुद्धं च कृतं कर्म महाद्भुतम् । त्वां विना यज्ञमारेभे फलहीनोऽभवत्क्रतुः ॥ ५२ ॥ अधुना मुनिभिर्देवैः सहितोऽहं गजानन । प्रार्थयामि तदर्थं त्वां सफलं कुरु दानवम् ॥ ५३ ॥ त्वं विनायकनामाऽसि त्वया यत्कृतमादरात् । तदेव मान्यतां याति वेदादिषु न संशयः ॥ ५४ ॥ वयं नायकसंयुक्ता वेदबाह्यं यदा प्रभो । कुर्मश्चेद्धै पदभ्रष्टाः क्रियंते च त्वया तदा ॥ ५५ ॥ यज्ञस्य फलसंयुक्तमतो भक्तं कुरु प्रभो । इत्युक्त्वा पादयोस्तस्य पपात गणपस्य सः ॥ ५६ ॥ तमुत्थाप्य गणाधीशो जगाद वचनं हरिम् । किं करोमि पुरा चैवं वरदोऽहं बभूव ते ॥५७॥ त्वदीयहस्ततो दैत्यं नरके पातयाम्यहम् । इति क्रोधसमाविष्टोऽधुना स्मरति मां खलः ॥ ५८ ॥ कायेन मनसा वाचा दैत्यो मां शरणं गतः । त्वं च प्रार्थयसे विष्णो वाञ्छितं च करोमि ते ॥ ५९ ॥ अधुना मां पुरस्कृत्य एतं यज्ञं समापय । तेनाऽयं सकलानां च यज्ञानां फलमश्नुते ॥ ६० ॥ अपराधस्य माहात्म्यं किंचित्पश्यतु केशव । इंद्रे निवृत्तेस्मिन्नेष इंद्रः पश्चाद् भविष्यति ॥ ६१ ॥ पाताले स्थापयस्वैनं नात्र कार्या विचारणा । अधुना फलहीनत्वं जनार्दन कृतं मया ॥ ६२ ॥ गणेशवचनं श्रुत्वा सर्वे हर्षसमन्विताः । साधु साधु महाराज गजानन कृतं त्वया ॥ ६३ ॥ इत्युक्तस्तं पुरस्कृत्य यज्ञं चक्रे बलिस्ततः । अंतिमं भावयुक्तः सन् कृतकृत्यो- ऽभवत्तथा ॥ ६४ ॥ गणेशोऽंतर्दधे तत्र देवाः स्वं स्वं पदं ययुः । एवं वामनमाहात्म्यं कथितं ते प्रजापते ॥ ६५ ॥ यः शृणोति नरो भक्त्या वाञ्छितं लभते ध्रुवम् । श्रावयेच्छृणुयाद्वा यस्तस्य सर्वं न दुर्लभम् ॥ ६६ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते वामनचरितं नाम सप्तचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः॥ शौनक उवाच । त्वया प्रकथितं सूत वक्रतुंडस्य धीमता । मत्सरासुरनाशाख्यं चरित्रं सर्वसिद्धिदम् ॥१॥ स स्थितः कुत्र तत् क्षेत्रस्थानं ब्रूहि महात्मनः । आदौ तस्यावतारस्य तिथिमुत्सववर्धिनीम् ॥ २॥ सूत उवाच । प्राचीदिगंत- संस्थाने स्थापितोऽसौ महर्षिभिः । देवैश्च गणसंयुक्तैर्महोत्सवपरायणैः ॥ ३॥ भाद्रशुक्लचतुर्थ्यां वै प्रकटोऽभूत्स देवराट् । वक्रतुंडः प्रसन्नात्मा सा तिथिः परमा मता ॥४॥ मध्याह्नसमये तस्य पूजनं सुखदायकम् । अपारसिद्धिदं प्रोक्तमाद्यंते स्वल्पसिद्धिदम् ॥५॥ द्वीपे द्वीपे च खंडेषु स्वस्वपूर्वदिगंतरे । प्रतिमा वक्रतुंडस्य स्थापिता मुनिभिःपुरा ॥६॥ तत्र क्षेत्रं समाख्यातं दशयोजनमात्रकम् । चतुरस्रं महापुण्यं भुक्तिमुक्तिप्रदं परम् ॥७॥ मध्ये स संस्थितो देवो वक्रतुंडो गणेश्वरः । वामांगे सिद्धिराद्या सा बुद्धिर्वै दक्षिणांगके ॥८॥ संमुखे सिंहरूपं च वाहनं तस्य शोभनम् । अष्टदिक्षु स्थितास्तस्य सिद्धयोऽष्टौ च शौनक ॥९॥ गणा अष्टौ तथा ज्ञेयाश्चतुर्दिक्षु क्रमेण ते । शिवो विष्णू रविः शक्तिर्भक्तियुक्ताः स्थिता इमे ॥१०॥ ब्रह्माद्या देवताः सर्वास्तत्पश्चात् पूर्वतः स्थिताः। गंगाद्याः सरितः सर्वा दक्षिणे संस्थिताः प्रभो ॥११॥ क्षेत्राणि काशिकादीनि पश्चिमे संस्थितानि च । वसिष्ठाद्या मुनिश्रेष्ठाः संस्थितास्तत्र चोत्तरे ॥१२॥ शेषाद्या नागभूपाश्च गंधर्वाः पर्वतास्तथा । सिद्धा अप्सरसश्चैव विद्याध्राः किंनरा गणाः ॥१३॥ नानाजातिषु ये श्रेष्ठा अभवंस्तत्र संस्थिताः । न वक्तुं शक्यते स्वामिन् मया वर्षशतैरपि ॥१४॥ सेवार्थं वक्रतुंडस्य लालसाधारिणः प्रभोः । हृष्टाः प्रमुदितास्तत्र परस्परहिते रताः ॥१५॥ वक्रतुंड- चरित्राणि कथयंति परस्परम् । हृष्टरोमाण एवं ते भवंतो भावतः पुनः ॥१६॥ समुद्रे स्नानकर्तारस्तत्र तीर्थानि चक्रिरे । स्वस्वनाम्नांकप्तान्येव स्वल्पदेहधरा मुने ॥१७॥ गणेशतीर्थं तत्रैव वक्रतुंडस्य हर्षदम् । कृतकृत्या भवंत्यत्र स्नानमात्रेण जंतवः ॥१८॥ यात्रामात्रेण तत्रैव जन ईप्सितमाप्नुयात् । क्षेत्रे मरणतो जंतुर्ब्रह्मभूतश्च जायते ॥१९॥ दूरे स्थित्वा नरो यस्तु स्मरणं प्रकरोति चेत् । तस्यापि शुक्लगत्या सा मुक्तिर्भवति शाश्वती ॥२०॥ वक्रतुंडस्य ये भक्ता यत्र कुत्र स्थिता मुने । ब्रह्मभूता न संदेहः पावना दर्शनान्नृणाम् ॥२१॥ संक्षेपेण मया तस्य स्थानं ते कथितं मुने । विस्तरेण न शेषोऽपि ब्रह्मविष्णुमहेश्वराः ॥२२॥ वेदाः सस्मृतयः सर्वे स्कंदो योगिन एव च । अयुतायुतवर्षैस्ते कथितुं न क्षमाः कदा ॥२३॥ मुद्गलेन यथा प्रोक्तं दक्षाग्रे तन्मया तथा । कथितं भावयुक्तेन किमन्यच्छ्रोतुमिच्छसि ॥२४॥ शौनक उवाच । सूत सूत महाभाग धन्यं क्षेत्रसमुद्भवम् । माहात्म्यं श्रुतमस्माभिर्ब्रह्मसायुज्यदायकम् ॥२५॥ अधुना ब्रूहि धर्मज्ञ यद्वक्षेण च
खं. १ अ. ४८ पान १०९ संश्रुतम् । मुद्गलात्तेन कथितमग्रे यत् कीदृशं च तत् ॥२६॥ सूत उवाच । क्षेत्रस्य चरितं श्रुत्वा दक्षो हर्षसमन्वितः । उवाच मुद्गलं विप्रं भक्तिनम्रात्मकंधरः ॥२७॥ दक्ष उवाच । ढुंढिराजावतारस्य चरितं वद विस्तरात् । वक्रतुंडः स्वयं साक्षात् कथं शंकरदेहजः ॥२८॥ मुद्गल उवाच । शृणु दक्ष महाभाग कथयामि पुरातनम् । इतिहासं गणेशस्य गुणयुक्तं महाद्भुतम् ॥२९॥ याज्ञवल्क्यमुनींद्रेण कथितं कौशिकाय यत् । तदहं संप्रवक्ष्यामि ब्राह्मणत्वप्रकाशकम् ॥३०॥ भार्गवो मुनिमुख्यो य ऋचीकस्तपसि स्थितः । बहुकाले व्यतिक्रांते तपसा जीर्णतां ययौ ॥३१॥ वृद्धत्वं परिपूर्णं च प्राप्तं तस्य महात्मनः । वनेषु मृगयूथानि स पश्यन् विस्मितोऽभवत् ॥३२॥ मृगीसंसक्तचित्तश्च मृगः स्वाधीनतां गतः । पुत्रपौत्रादिसंयुक्तो बभ्राम वनगोचरः ॥३३॥ एकैकाश्रितचित्तास्ते क्रीडां चक्रुः परस्परम् । दृष्ट्वा भृगुवरस्तत्र सकामः संबभूव ह ॥३४॥ उवाच स्वय- मेवेदं धन्यं गार्हस्थ्यमेव च । इत्थं विचार्य विप्रस्तु ययौ गाधिं नराधिपम् ॥३५॥ स दृष्ट्वा सहसोत्थाय मुनिं गाधिरपूजयत् । भुक्त्वाऽयाचत तत्कन्यां भार्यार्थं नृपसत्तमम् ॥३६॥ राजा वृद्धं समालोक्य तं जगाद महामुनिम् । श्यामकर्णयुताश्वानां सहस्रं देहि मे मुने ॥३७॥ शुल्कं ग्राह्यं मया चैवं निश्चयः प्राकृतो मुने । अतस्त्वां प्रार्थये विप्र पश्चात्कन्यां ददामि ते ॥३८॥ श्रुत्वा मुनिर्गतः सद्यो वरुणस्य गृहं प्रति । गृहीत्वाऽश्वसहस्रं च तस्मात्तं प्रययौ ददौ ॥३९॥ राजा कन्यां ददौ तस्मै भार्गवाय महात्मने । विधिवद्वयभीतः स तां प्रगृह्य ययौ वनम् ॥४०॥ राजपत्नी सुतां प्राह त्वदीयं भाग्यमीदृशम् । अस्माभिः किं प्रकर्तव्यं वनवासं सुते कुरु ॥४१॥ विलप्य द्रव्यवस्त्रादीन् दत्वा पुत्रीकरे तदा । स्वगेहं सा जगामापि वने प्रस्थाप्य तां मुने ॥४२॥ राजपुत्री महाभागा ऋचीकं प्राप्य संस्थिता । सेवामनलसत्वेन कृत्वा तद्भक्तितत्परा ॥४३॥ तां दृष्ट्वा शीलसंयुक्तां प्रसन्नो मुनिसत्तमः । तदर्थं तपसा स्वेन निर्ममे नगरं वने ॥४४॥ चातुर्वर्ण्यसमायुक्तं हेमरत्नविभूषितम् । दासीदासादिसंयुक्तं नानाविभवदं परम् ॥४५॥ स्वयं तपःप्रभावेण यौवनं रूपमादधे । रेमे तया यथान्यायं देवेंद्रेण समः प्रभो ॥४६॥ निःस्पृहो भोगरागेषु दृष्ट्वा स्त्रीसुखमल्पकम् । मानसे धारयामास व्यर्थं पत्नीभवं सुखम् ॥४७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते ऋचीकगृहस्थाश्रमवर्णनं नाम चत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एकदा राजपत्नी सा वनं शोकसमाकुला । आययौ दर्शनार्थं तां पुत्रीं वस्त्रधनान्विता ॥१॥ ऋचीकस्याश्रमं तत्र न ददर्श रथे स्थिता । नगरं हेमशोभाढ्यं दृष्ट्वा सा विस्मिताऽभवत् ॥२॥ कस्येदं नगरं दिव्यं देवैर्वा निर्मितं भवेत् । क्व गतो मुनिशार्दूलो जामाता मे स भार्गवः ॥३॥ एवं शोकसमायुक्ता विचारमकरोद् हृदि । ददर्श पुरुषं कंचित्तं पप्रच्छ भयातुरा ॥४॥ कस्येदं नगरं ब्रूहि स जगाद च तां मुने । ऋचीकस्य पुरं देवि वयं तस्य प्रमार्जकाः ॥५॥ पुनस्तं विस्मिता राज्ञी जगाद वद सांप्रतम् । ऋषिपत्नीं च मे पुत्रीमागतां जननीं पुरे ॥६॥ तथेति पुरुषो गत्वा कथयामास तां ततः । सा स्वमातरमागम्य निनाय स्वगृहं पुरे ॥७॥ जामातरं श्रिया युक्तं दृष्ट्वा विस्मितमानसा । उवाच स्वसुतां राज्ञी पुत्रार्थं भावसंयुता ॥८॥ मम पुत्रार्थमेवं च तव पुत्रार्थमादरात् । याचस्व स्वामिनं पुत्रि समर्थं मुनिपुंगवम् ॥९॥ ऋषिपत्नी पतिं तत्र याचयामास तत्तथा । द्वौ चरू ह्यग्निकुंडे स चकार सुतलिप्सया ॥१०॥ द्विविधं म पुरोडाशं ब्रह्मक्षत्र- प्रकाशकम् । अतुलं तेज आवाह्य ददौ पत्नीकरे मुनिः ॥११॥ जगाद तां मुनिश्रेष्ठो भक्षितव्यस्त्वया ह्ययम् । तव मात्रा तथाऽन्यो वै भक्षितव्यः शुचिस्मिते ॥१२॥ तदा पुत्रसमायुक्ते युवां किल भविष्यथः । एवमुक्त्वा मुनिस्तीर्थे माध्याह्नाथं ययौ किल ॥१३॥ पुत्र्या मात्रे स वृत्तांतः कथितः साऽब्रवीत् सुताम् । त्वदीयो भक्षितव्यो मे मदीयं त्वं प्रमुंक्ष्व वै ॥१४॥ तथा पुत्र्या कृतं सर्वं गता माता स्वमालयम् । राज्ञी गर्भवती जाता ब्राह्मणी च प्रजापते ॥१५॥ एकदा मुनिना दृष्टा स्युग्रतेजोधरा बभौ । उवाच भार्गवः पत्नीं किं कृतः क्षात्र आदरः ॥१६॥ सोवाच भयभीता तं व्यतिक्रमममुं चरोः । तामुवाच मुनिस्तत्र विस्मितो मानसेऽभवत् ॥१७॥ तव भ्राता तपस्वी च भविष्यति न संशयः । तव पुत्रो धनुर्धारी दारुणः प्रभविष्यति ॥१८॥ सोवाच स्वामिनं भीता द्विजं पुत्रं तु मे प्रभो । देहि नोचेज्जीवघातं करिष्यामि न संशयः ॥१९॥ ततो मुनिः स्वयं प्राह पुत्रपुत्रो भवेत्तथा । गर्भं विज्ञाप्य विष्णुं वै तपसा स तथाऽकरोत् ॥२०॥ ततस्तस्याऽभवत्पुत्रो जमदग्निर्महातपाः । तस्य पुत्रत्वमापेदे रामः शस्त्रभृतांवरः ॥२१॥ नवमे गाधिपत्नी सा मासे पुत्रं तपोनिधिम् । विश्वामित्रं महाभागं सुषुवे प्रेमविह्वला ॥२२॥ स तु यौवनमापन्नं संस्थाप्य वनमादरात् । गाधिर्ययौ स्वराज्ये च तपसे कृतनिश्चयः ॥२३॥ तद्राज्यमकरोत् सर्वं विश्वामित्रः प्रतापवान् । एकदा मृगयार्थं वै वनेषु प्रजगाम ह ॥२४॥ मृगयित्वामृगान् राजा क्षुधितस्तृषितोऽभवत् । भ्रमन् समाययौ सोऽपि वसिष्ठाश्रममुत्तमम् ॥२५॥ प्रविश्य तत्र तं राजा ननाम भक्तिसंयुतः ।
खं. १ अ. ४१ पान १११
ससैन्यो भोजितस्तेन कामधेनुबलेन सः॥२६॥ भुक्त्वा तं प्रार्थयामास नंदिनीं देहि मे मुने । विश्वामित्रस्ततस्तस्मै न ददौ तां महामुनिः ॥२७॥ ततो राजा बलान्नेतुं दूतानाज्ञापयत् खलः । धेन्वा ते नाशिताः सर्वे ततः स्वयमुपाययौ ॥२८॥ कशाघातैश्च तां धेनुं ताडयामासुराग्रहात् । केचित्ततो महत्सैन्यं निर्ममे तत्र धेनुका ॥२९॥ ततो युद्धमभूद्धोरं सैन्ययोरुभयोर्महत् । नष्टं सैन्यं च संपूर्ण विश्वामित्रस्य तत्क्षणात् ॥३०॥ सोऽपि भग्नो गृहं गत्वा राज्यं न्यस्य ययौ वनम् । प्रधानेषु तपस्तेपे शंकरस्य महात्मनः ॥३१॥ शतवर्षेषु पूर्णेषु प्रसन्नश्च ददौ शिवः । अस्त्रविद्यां सुसंपूर्णां तां प्राप्य स्वगृहं ययौ ॥३२॥ पुनर्वसिष्ठमागम्य शस्त्रास्त्रैर्बलसंयुतः । विश्वामित्रो ममर्दासावग्र्यस्त्रेण तदाश्रमम् ॥३३॥ वसिष्ठस्तं ततस्तत्र योधयामास शौनक । ब्रह्मदंडधरः श्रीमान् सर्वास्त्राणि व्यमर्दयत् ॥३४॥ ब्रह्मदंडेन तस्याऽपि कृतस्तेन पराजयः । विश्वामित्रः पलायिष्ट भयभीतः समंततः ॥३५॥ ततः सुसांत्वितो विप्रो वसिष्ठो ब्राह्मणैस्तदा । स्वाश्रमं प्रविवेशाथ विश्वामित्रो गृहं ययौ ॥३६॥ अहो ब्राह्मं बलं दीप्तं क्षात्रं तुच्छं विशेषतः। ब्रह्मदंडेन सर्वाणि ममास्त्राणि हतानि च ॥३७॥ एवं स निश्चयं कृत्वा राज्यं त्यक्त्वा ययौ वनम् । ब्राह्मणत्वप्रसिद्ध्यर्थं तताप परमं तपः ॥३८॥ गायत्रीमंत्रजाप्येन पुरश्चरणमार्गतः । निराहारेण राजर्षिस्तापयामास विष्टपम् ॥३९॥ एवं दशसहस्राणि वर्षाणि जपतो ययुः । ततो जगाद तं ब्रह्मा वरं ब्रूहि महामते ॥४०॥ स वव्रे ब्राह्मणत्वं मे देहि देव नमोऽस्तु ते। तदा ब्रह्मा पुनः प्राह तपस्वेति च गाधिजम् ॥४१॥ दशवारं विधौ तत्र समागत्य च तं मुनिम् । अन्यं वरं ददाने स न जग्राह स बुद्धिमान् ॥४२॥ तपःप्रभावतस्तस्य व्याप्तमासीद्दिगंतरम् । देवाद्या अभवन्सर्वे तदाज्ञावशवर्तिनः ॥४३॥ स्वप्रतापेन राजर्षिर्ब्राह्मणान् प्राह गाधिजः । अहं ब्रह्मर्षिर्मुख्यो वै जातस्तु तपसो बलात् ॥४४॥ भयभीताश्च ते सर्वे तथेत्यूचुः प्रणम्य तम् । वसिष्ठो मुनिवर्यः स तं राजर्षिं जगाद ह ॥४५॥ विश्वामित्रः संक्षुभितो वसिष्ठहननाय च । नानायतनांश्चकारापि न ममार महामुनिः ॥४६॥ ततोऽतिदुःखितो भूत्वा संस्थितः स्वाश्रमे मुनिः । विश्वामित्रो महाभागस्तपस्तेजोविराजितः ॥४७॥ तमाययौ महातेजा याज्ञवल्क्यः प्रतापवान् । ब्रह्मणोऽगसमुत्पन्नः साक्षाद्योगीश्वरो महान् ॥४८॥ तं ननाम यथान्यायं पूजयामास भक्तितः । विश्वामित्रो महातेजा उवाच प्रकृतांजलिः ॥४९॥ अद्य मे सफलं जन्म तपःस्वाध्याय एव च । येन ते दर्शनं
खं. १ अ. ५० | पान ११२
जातं ब्रह्मभूतस्य मानद ॥५०॥ किमर्थमागतो ब्रह्मंस्तद्वदस्व महामुने । तवाज्ञां कर्तुमिच्छामि दासोऽहं शाधि मां प्रभो ॥५१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते याज्ञवल्क्यविश्वामित्रसमागमोनामैकोनपंचाशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । विश्वामित्रस्य भावेन संतुष्टो मुनिपुंगवः । तमुवाच महायोगी याज्ञवल्क्यो महामुनिः ॥१॥ याज्ञवल्क्य उवाच । दुःखितं त्वां विदित्वाहमागतो मुनिपुंगव । न कार्यमपरं किंचिज्जानीहि त्वं महामते ॥२॥ वद किं कारणं ब्रह्मन् दुःखस्य तव तापस । पश्चात्तन्नाशयिष्यामि युक्त्या ज्ञानोपदेशतः ॥३॥ विश्वामित्र उवाच । तपस्तप्तं मया घोरं ब्रह्मा मे न ददौ वरम् । वसिष्ठो मां च राजर्षि जगाद जनसन्निधौ ॥४॥ केनोपायेन योगींद्र ब्राह्मणोऽहं भवामि च । सर्वमान्यो महाभागस्तं करिष्यामि यत्नतः ॥५॥ ततस्तं मुनिशार्दूलो याज्ञवल्क्य उवाच ह । न चिंतां कुरु राजर्षे ब्रह्मर्षिस्त्वं भविष्यसि ॥६॥ अभिमानं महाघोरं त्यज त्वं मे सुवाक्यतः । मत्सरं त्यज दुष्टं च ततः क्षेमं भविष्यति ॥७॥ कथां शृणु महारम्यां काशीविश्वेशसंश्रिताम् । येन त्वं निर्मलो भूत्वा ब्राह्मणोऽपि भविष्यसि ॥८॥ काशीविश्वेश्वरेणैव न त्यक्ता प्रलयेऽपि च । न वियोगः क्षणं तस्याः काश्याः शंभोः कदाचन ॥९॥ तेनाहंकारसंयुक्तौ जातौ काशीमहेश्वरौ । विघ्नः समभवत्तत्र दारुणः प्रवियोगकृत् ॥१०॥ मुद्गल उवाच । याज्ञवल्क्यवचः श्रुत्वा हर्षितः कौशिको मुनिः । उवाच तं महाभागं प्रेमयुक्तेन चेतसा ॥११॥ विश्वामित्र उवाच । कीदृशं विघ्नरूपं चाविमुक्तस्य शिवस्य यत् । समुत्पन्नं महाभाग तद्वद त्वं विशेषतः ॥१२॥ याज्ञवल्क्य उवाच । षष्टिवर्षाणि पर्जन्यो न ववर्ष महीतले । तेन नष्टं जगत्सर्वं भूमिस्थं सचराचरम् ॥१३॥ प्रजाक्षयं ततो दृष्ट्वा ब्रह्मा लोकपितामहः । आययौ राजशार्दूलं दिवोदासं तपःस्थितम् ॥१४॥ राज्यं त्यक्त्वा स राजर्षिस्तताप परमं तपः । मोक्षार्थं भक्तिभावेन सूर्यवंशसमुद्भवः ॥१५॥ तपसा योगभावेन बभौ सूर्य इवापरः । तं ब्रह्मा स्वयमेवेदं वचनं प्रजगाद ह ॥१६॥ ब्रह्मोवाच । दिवोदास महाभाग शृणु मे वचनं हितम् । काशीराज्यं गृहाण त्वं मया दत्तं महामते ॥१७॥ ब्रह्माणं स उवाचाथ न राज्यं परिपालये । मोक्षार्थी वासनाहीनो मोक्षं देहि प्रजापते ॥१८॥ तं पुनः प्रत्युवाचेदं ब्रह्मा लोकहिताय च । कुरु राज्यं महाभाग मया दत्तं महामते ॥१९॥ त्वयि राज्ये स्थिते वृष्टिर्भविष्यति
खं. १ अ. ५० पान ११३ महाद्भुता । अन्यथा लोकनाशः स्यात्तस्मात् कुरु वचो महत् ॥२०॥ लोकसंरक्षणार्थाय दयायुक्तो महामतिः । राज्यं जग्राह काश्याश्च देववर्जितमुत्तमम् ॥२१॥ देवानामखिलं राज्यं सदा स्वर्गेषु वर्तते । मनुष्याणां पृथिव्यां वै पाताले नागरक्षसाम् ॥२२॥ अतो देवतया शंभुं पूजयिष्यामि मानद । सर्वैः स्वधर्मे स्थातव्यं मयि राज्यं प्रशासति ॥२३॥ तथेति तमुवाचाथ ब्रह्मा लोकपितामहः । काशीराज्यं ददौ तस्मै दिवोदासाय धीमते ॥२४॥ ततो ब्रह्मा ययौ काश्यां शंकरं प्रणिपत्य सः । उवाच तं विशेषज्ञो मंदरं गच्छ शंकर ॥२५॥ मरीचिना तपस्तेपे तस्मै देहि वरं शिव । नो चेन्मरिष्यति स वै तस्माद्गच्छ जगद्गुरो ॥२६॥ ब्रह्मणो गिरमाकर्ण्य तेन सार्धं ययौ शिवः । देवर्षिगणसंयुक्तो वरार्थं ब्राह्मणस्य च ॥२७॥ तं दृष्ट्वेति वरं ब्रूहि शिवो वचनमब्रवीत् । स उवाच शिवं तत्र मुक्तिं देहि सदाशिव ॥२८॥ इत्युक्त्वा तपसो दुःखाज्जहौ प्राणान् महामुनिः । प्राप्तः शिवस्य सारूप्यं कैलासं स गतो मुनिः ॥ २९ ॥ एतस्मिन्नंतरे शंभुं ब्रह्मोवाच कृतांजलिः । वस त्वं मंदरे शंभो त्यज काशीं महापुरीम् ॥ ३० ॥ अनावृष्टिभवं दुःखं तन्निवृत्यर्थमादरात् । राज्यं दत्तं मया देव दिवोदासाय शंकर ॥३१॥ तेनापि कथितं देवराज्यं पृथ्व्यां न चेद्भवेत् । तदा राज्यं करिष्यामि नान्यथाऽहं कदाचन ॥ ३२॥ मया लोकस्य रक्षार्थं दत्तं राज्यं च तस्य हि । क्षमस्व चापराधं मे महादेव नमोऽस्तु ते ॥३३॥ तथेति शिव ऊचे तं निःश्वस्य परमं प्रभुः । पार्वत्या गणसंयुक्त उवास स च मंदरे ॥३४॥ अविमुक्तं महाक्षेत्रं दैवेन त्याजितं मम । अधुना मुक्तता केन कर्मणा भविता मम ॥३५॥ न ब्रह्मणो वचो मिथ्या भविष्यति कदाचन । अधुना किं करिष्यामि काशीविरहदुःखितः ॥३६॥ अहं विश्वेश्वरश्चाऽस्मि मदधीनं न किंचन । विश्वनाथेति नामेदं व्यर्थरूपं न संशयः ॥३७॥ अखिलप्राणितुल्योऽहं कृतो येन महात्मना । शरणं विघ्नराजं तं गच्छामि न च संशयः ॥३८॥ ममापि विघ्नरूपं यत् समुत्पन्नं महाद्भुतम् । अहंकार- विहीनोऽहं कृतस्तेन महात्मना ॥३९॥ इत्येवं निश्चयं कृत्वा शिवस्तत्राचले तपः । तताप गणपं ध्यात्वा काशीप्राप्त्यर्थमादरात् ॥४०॥ काशी च दुःखसंयुक्ता श्रुत्वा शंभोर्विनिर्गतम् । तपस्तताप विघ्नेशं ध्यात्वा निश्चलचेतसा ॥४१॥ अहंकारविनिर्मुक्ता काशी दुःखितमानसा । शिवप्राप्त्यर्थमतुलं तताप परमं तपः ॥४२॥ दिवोदासस्तु तद्राज्यमकरोद्धर्मतः स्वयम् । ततो वृष्टिः समुत्पन्ना सर्वेषां सुखदायिका ॥४३॥ सकलं वृष्टियोगेन जगत्स्थावरजंगमम् । मोदयुक्तं तदा जातं तस्मिन् राज्यं प्रशासति ॥४४॥ स्वस्वधर्मरताः सर्वे वर्णाश्रमविभागशः । पापलेशो न तत्रासीत्तस्मिन् राज्यं प्रशासति ॥४५॥
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्तिशः लिप्यंतरण (Transcription) है:
ख. १ अ. ५० पान ११४
हृष्टपुष्टजनाः सर्वे वृक्षाः पुष्पफलान्विताः। घटदुग्धास्तदा गावस्तस्मिन् राज्यं प्रशासति ॥४६॥ स्वाहास्वधायुता देवाः पितरश्च मुदा युताः । यज्ञादयो बभूवुश्च तस्मिन् राज्यं प्रशासति ॥४७॥ एवं नानाविधैर्भोगैर्युताः सर्वे महामुने। दिवोदासः स्वयं राजा नित्ययात्रां चकार ह ॥४८॥ आदौ ढुंढिं पूजयाऽसौ पश्चाद्विश्वेश्वरं मुने। जगदंबां च काशीं वै मणिकर्णि ततः परम् ॥४९॥ भागीरथीं माधवं च जैगीषव्यगुहां ततः। कालभैरवमेवं च दंडपाणिं महाबलम् ॥५०॥ जनैः स मतिमान् राजा कारयामास सर्वदा। धर्महीनं जनं हंतुं दंडपाणिरिव स्थितः ॥५१॥ अशीतिवर्षसाहस्रं गतं तत्र महामुने। न किंचित्स्वल्पपापस्य प्रवेशोऽपि बभूव ह ॥५२॥ ततो देवा विचारं ते चक्रुः स्वर्गेषु विस्मिताः। पृथिव्यां देवराज्यं तु विनष्टं तेन कारितम् ॥५३॥ अतो वयं किमर्थं च स्थास्यामः पृथिवीतले। स्पर्धते नः स राजर्षिश्छलयामस्ततो वयम् ॥५४॥ तत इंद्रोऽग्निमाहूय जगाद क्रोधसंयुतः। दिवोदासस्य राज्ये ते स्थानं मास्तु बह्निस्त्विति ॥५५॥ इंद्रस्य वचनं श्रुत्वा वह्निरंतर्दधे तदा । पृथिव्यां वह्निहीनास्ते जनाः सर्वे तमन्वयुः ॥५६॥ तान् दृष्ट्वा स दिवोदासो वह्निरूपेण संस्थितः। पृथिव्यां यत्र कुत्रापि तपो बलसमन्वितः ॥५७॥ एवं नानाविधैर्भावैर्देवाः सर्वे क्रमेण च। गतास्तत्र स्वयं राजा तेषां रूपधरो बभौ ॥५८॥ वाय्वादिरूपमास्थाय स राजा देवकृत्यवित्। पृथिव्यां ये जनाः सर्वे न तं जानंति कौशिक ॥५९॥ एवं बहौ गते काले देवाः सर्वे विसिस्मिरे। देवकृत्यं कृतं सर्वं राज्ञाप्याश्चर्यमुत्तमम् ॥६०॥ ततो देवगणाः सर्वे ब्रह्माणं शरणं ययुः । दिवोदासस्य मोहार्थं पृथ्वी त्यक्ता च निर्जरैः ॥६१॥ स तपोबलयुक्तस्तु देवानां कृत्यमादरात् । स्वयं देवस्वरूपैस्तैश्चकार परमाद्भुतम् ॥६२॥ वयं विहारहीनाश्च किं कुर्मो वद भो विभो। तेषां वचनमाकर्ण्य ब्रह्मा प्रोवाच तांस्तदा ॥६३॥ भवद्भिस्तत्र गंतव्यं प्रार्थनीयो नराधिपः। स दास्यति स्वकं स्थानं देवानां नात्र संशयः ॥६४॥ ततो देवा दिवोदासमाययुश्चेंद्रमुख्याः। तान् दृष्ट्वा सहसोत्थाय ननाम विनयान्वितः ॥६५॥ तमुत्थाप्य ततो देवास्तुष्टुवुस्तं नराधिपम्। सोऽपि देवान् प्रतुष्टाव स्वपदानि ददौ ततः ॥६६॥ स्वयं नरस्वरूपेण चैकदेहेन संस्थितः । अग्न्यादयो निजस्थाने देवाः सर्वे सुसंस्थिताः ॥६७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते दिवोदासमहिमवर्णनं नाम पंचाशत्तमोऽध्यायः ॥
[शीर्षक: खं. १ अ. ५१ | पान ११५]
॥ श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच । ततः शंभुः परां चिंतामापेदे मनसा मुने । देवा हतोद्यमा जातास्तपसा तस्य धीमतः ॥ १ ॥ स्वधर्मपर एवायं तपसा च समन्वितः । नोच्चालितुं भवेच्छक्यः किं भविष्यति वै ततः ॥ २ ॥ मया काशी कदा लभ्या दग्धोऽहं विरहाग्निना । मरिष्यामि न संदेहो विललाप महेश्वरः ॥ ३ ॥ अस्थिचर्मावशेषोऽपि शुशोच बहुधा शिवः । तं देवा मुनयः सर्वे सांत्वयामासुरादरात् ॥ ४ ॥ देवर्षय ऊचुः । मा कुरुष्व वृथा चिंतां त्वं समर्थो महेश्वर । तव प्रसादयोगेन गच्छामः काशिकां वयम् ॥ ५ ॥ नानासिद्धिभिरालोभ्य लोकांस्तत्र समंततः । तत्पापभागिनं भूपं दिवोदासं च कुर्महे ॥ ६ ॥ ततस्त्वया विशेषेण काशी ग्राह्या सदाशिव । एवमुक्त्वा ययुस्तत्र देवाः सर्वे प्रहर्षिताः ॥ ७ ॥ तत्राभवन् गताः काश्यां नानारूपधराः सुराः । जनान् संमोहयामासुः सिद्धिं कृत्वा विशेषतः ॥ ८ ॥ धर्मशीला जनाः सर्वे तेषां वाक्यं न चक्रिरे । एकवर्षं प्रयत्नं ते कृत्वा शांतिं प्रलेभिरे ॥ ९ ॥ ततः सदाशिवस्तत्र प्रेरयामास भैरवान् । तेपि यत्नैश्च विविधैर्न समर्था बभूविरे ॥ १० ॥ एवं क्रमेण आदित्या वसवश्चर्षयः पराः । योगिन्यश्च गणाः सर्वे हतोद्योगास्तथाऽभवन् ॥ ११ ॥ ततो ब्रह्माणमाबोध्य प्रेषयामास शंकरः । दशाश्वमेधाश्च कृतास्तेन शांतिं जगाम सः ॥ १२ ॥ ततस्तु शंकरस्तत्र ध्याननिष्ठो बभूव ह । चरणे विघ्नराजस्य सर्वाशापूरके परे ॥ १३ ॥ सविघ्नं मां गणाध्यक्ष निर्विघ्नं कुरु सर्वदा । दासोऽहं तेऽविमुक्तस्य संरक्ष विरहात्प्रभो ॥ १४ ॥ एवं निश्चितचित्तस्तु वर्षमेकं गजाननम् । ध्यानेन तोषयामास शंकरः कार्यसिद्धये ॥ १५ ॥ दृष्ट्वाऽहंकारनिर्मुक्तमत्यंतं शंकरं प्रभुः । दर्शयामास रूपं स्वं योगिध्येय- मनुत्तमम् ॥ १६ ॥ सिंहारूढं चतुर्बाहुं पाशांकुशधरं प्रभुम् । वरदाभयहस्तं च सिद्धिबुद्धिसमन्वितम् ॥ १७ ॥ रक्तवर्णं सुशोभाढ्यं गजवक्त्रं महोदरम् । विविधैः शेषनाभिं तं भूषणैः सुविराजितम् ॥ १८ ॥ चिंतामणिधरं पूर्णं तेजोराशिं महाप्रभम् । दृष्ट्वा देवं मुदा युक्तः शंकरः प्रणनाम ह ॥ १९ ॥ ततस्तं पूजयामास तुष्टाव स यथामति । देवदेवं गणाध्यक्षं वक्रतुंडं विधानतः ॥ २० ॥ शिव उवाच । नमस्ते वक्रतुंडाय सर्वसिद्धिप्रदाय च । निराकाराय देवाय साकाराय नमो नमः ॥ २१ ॥ नमः सर्वप्रबोधाय नमः सर्वप्रियंकर । गणानां पतये तुभ्यं गणेशाय नमो नमः ॥ २२ ॥ ब्रह्मणे सृष्टिकर्त्रे ते पालकाय च विष्णवे । संहर्त्रे ते हरायैव गुणेशाय नमो नमः ॥ २३ ॥ ब्रह्माकाराय वै तुभ्यं ब्रह्मभूताय ते नमः । नमः प्रपंचरूपाय प्रपंचानां प्रचालक ॥ २४ ॥ अनंतगुणधाराय ह्यनंतविभवाय ते । अनंतोदररूपाय हेरंबाय नमो
खं. १ अ. ५१ पान ११६
नमः ॥२५॥ कारणानां परायैव कारणाय नमो नमः । अकारणाय वै तुभ्यं सिंहवाहाय ते नमः ॥२६॥ अहं जीवसमानश्च संजातो नात्र संशयः । अविमुक्तं विमुक्तं मे जातं देव दयानिधे ॥२७॥ अतस्त्वां शरणं यातो निर्विघ्नं कुरु मां प्रभो । देहि काशीं गणाध्यक्ष अविमुक्ततया च मे ॥२८॥ त्वया पुरा वरो दत्तः स्मरणेन त्वदग्रतः । स्थास्यामि पुत्रभावेन तं पालय गजानन ॥२९॥ इत्युक्त्वा पादयोस्तस्य प्रणनाम महेश्वरः । तमुत्थाप्य गणाध्यक्ष उवाच प्रहसन्निव ॥३०॥ वक्रतुंड उवाच । त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । पठते शृण्वते चैव भुक्तिमुक्तिप्रदं शिव ॥३१॥ अन्यद्यत्प्रार्थितं सर्वं करिष्यामि सदाशिव । अविमुक्तं प्रदास्यामि सार्थकं ते च सांप्रतम् ॥३२॥ इत्युक्त्वा निर्ममे देहाद्ब्राह्मणं सर्वसुंदरम् । सर्वज्ञं च गुणेशस्य तेजोयुक्तं प्रभाविनम् ॥३३॥ आज्ञापयच्च तं देवो गच्छ त्वं शिवसिद्धये । काश्यां तु बुद्धिसंमोहं जनानां कुरु सत्वरम् ॥३४॥ मोहयित्वा दिवोदासं काशीराज्यं शिवाय च । ममाज्ञया देह्यद्य त्वं सर्वपूज्यो भविष्यसि ॥३५॥ ढुंढिं ज्योतिर्विदं त्वां तु वदिष्यंति जना द्विजाः । त्वदीयवंशगाः सर्वे भविष्यंति न संशयः ॥३६॥ इति श्रुत्वा द्विजो ढुंढिं प्रणनाम मुदा युतः । ययौ प्रदक्षिणीकृत्य काशीं स गणपं स्मरन् ॥३७॥ ततो विष्णुं समाहूय तं जगाद गजाननः । बौद्धरूपेण विष्णो त्वं काशीं गच्छ मदाज्ञया ॥३८॥ द्विजेन ढुंढिना सर्वं मोहितं नगरं भवेत् । कुरु त्वमधुना भ्रष्टं मम वाक्याज्जनार्दन ॥३९॥ प्रणम्य तं तदा विष्णुर्गणेशं बौद्धरूपधृक् । ययौ काशीं महाभागो वक्रतुंडं हृदि स्मरन् ॥४०॥ तौ यथा गणराजेन कथितं चक्रतुस्तथा । मोहयुक्तं पुनर्भ्रष्टं नगरं सर्वमंजसा ॥४१॥ अन्यच्छृणु चरित्रं त्वं विश्वामित्र तपोधन । काशीध्यानयुता तत्र संस्थिता गणपस्य तु ॥४२॥ सहस्रं तत्र वर्षाणां गतमेकं महामुने । तस्यास्तपःप्रभावेण संतुष्टोऽभूद्गजाननः ॥४३॥ वरं दातुं समायातः काश्यै मूर्तिधरः प्रभुः । सिंहारूढः प्रसन्नात्मा नानाभूषणभूषितः ॥४४॥ तं दृष्ट्वा सहसोत्थाय काशी परमपावनी । पादयोः प्रणनामाथ कर्षिता विह्वला भृशम् ॥४५॥ पुनरुत्थाय तं देवं पूजयामास भक्तितः । तुष्टाव सुस्थिरा भूत्वा निबद्धकरसंयुटा ॥४६॥ काश्युवाच । नमस्ते गणनाधाय नमस्तेऽनंतरूपिणे । नमस्ते सर्वदात्रे वै मायाधाराय ते नमः ॥४७॥ गजवक्त्रधरायैव शूर्पकर्णाय ते नमः । सर्वभूषाय वै तुभ्यं वक्रतुंड नमोऽस्तु ते ॥४८॥ निराकाराय नित्याय निर्गुणाय गुणात्मने । वेदवेद्याय सततं ब्रह्मणे ते नमो नमः ॥४९॥ ब्रह्मणां ब्रह्मदात्रे च सिंहारूढाय ते नमः । सिद्धिवुद्धिपते तुभ्यं नमः सर्वाभयंकर ॥५०॥ अनाधाय च नाथाय सर्वेषां पालकाय च । भक्तेभ्यः